सामग्री पर जाएँ

गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ३३

विकिस्रोतः तः
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३२ गरुडपुराणम्
अध्यायः ३३
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३४ →

श्रीगरुडमहापुराणम् ३३
गरुड उवाच ।
उत्पत्तिलक्षणं जन्तोः कथितं मयि पुत्त्रके ।
यमलोकः कियन्मात्रस्त्रैलोक्ये सचराचरे ।
विस्तरं तस्य मे ब्रूहि अध्वा चैव कियान् स्मृतः ॥ २,३३.१ ॥

कैश्च पापैः कृतैर्देव केन वा शुभकर्मणा ।
गच्छन्ति मानवास्तत्र कथयस्व विशेषतः ॥ २,३३.२ ॥

श्रीभगवानुवाच ।
षटशीतिसहस्राणि योजनानां प्रमाणतः ।
यमलोकस्य चाध्वानमन्तरा मानुषस्य च ॥ २,३३.३ ॥

ध्मातताम्रमिवातप्तो ज्वलद्दुर्गो महापथः ।
तत्र गच्छन्ति पापिष्ठा मानवा मूढचेतसः ॥ २,३३.४ ॥

कण्टकाश्च सुतीक्ष्णा वै विविधा घोरदर्शनाः ।
तैस्तुवालुक्षितिर्व्याप्ता हुताशश्च तथोल्बणः ॥ २,३३.५ ॥

वृक्षच्छाया न तत्रास्ति यत्र विश्रमते नरः ।
गृहीतः कालपाशैश्च कृतैः कर्मभिरुल्बणैः ॥ २,३३.६ ॥

तस्मिन्मार्गे न चान्नाद्यं येन प्राणान् प्रपोषयेत् ।
न जलं दृश्यते तत्र तृषा येन विलीयते ॥ २,३३.७ ॥

क्षुधया पीडितो याति तृष्णया च महापथे ।
शीतेन कम्पते क्वापि यममार्गेऽतिदुर्गमे ॥ २,३३.८ ॥

यद्यस्य यादृशं पापं स पन्थास्तस्य तादृशः ।
सुदीनाः कृपणा मूढा दुः खैर्व्याप्तास्तरन्ति तम् ॥ २,३३.९ ॥

रुदन्ति दारुणं केचित्केचिद्द्रोहं वदन्ति च ।
आत्मकर्मकृतैर्देषैः पच्यमाना मुहुर्मुहुः ॥ २,३३.१० ॥

ईदृग्विधः स वै पन्था विज्ञेयो दारुणः खग ।
वितृष्णा ये नरा लोके सुखं तस्मिन् व्रजन्ति ते ॥ २,३३.११ ॥

यानियानि च दानानि दत्तानि भुवि मानवैः ।
तानितान्युपतिष्ठन्ति यमलोके पुरः पथि ॥ २,३३.१२ ॥

पापिनो नोपतिष्ठन्ति दाहश्राद्धजलाञ्जलि ।
भ्रमन्ति वायुभूतास्ते ये क्षुद्राः पापकर्मिणः ॥ २,३३.१३ ॥

ईदृशं वर्त्म तद्रौद्रं कथितं तव सुव्रत ।
पुनश्च कथयिष्यामि यममार्गस्य या स्थितिः ॥ २,३३.१४ ॥

याम्यनैरृतयोर्मध्ये पुरं वैवस्वतस्य तु ।
सर्वं वज्रमयं दिव्यमभेद्यं तत्सुरासुरैः ॥ २,३३.१५ ॥

चतुरश्रं चतुर्द्वारं सप्तप्राकारतोरणम् ।
स्वयं तिष्ठति वै यस्यां यमो दूतैः समन्वितः ॥ २,३३.१६ ॥

योजनानां सहस्रं वै प्रमाणेन तदुच्यते ।
सर्वरत्नमयं दिव्यं विद्युज्ज्वालार्कतैजसम् ॥ २,३३.१७ ॥

तद्गुहं धर्मराजस्य विस्तीर्णं काञ्चनप्रभम् ।
योजनानां पञ्चशतप्रमाणेन समुच्छ्रितम् ॥ २,३३.१८ ॥

वृतं स्तम्भसहस्रैस्तु वैदूर्यमणिमण्डितम् ।
मुक्ताजालगवाक्षं च पताकाशतभूषितम् ॥ २,३३.१९ ॥

घण्टाशतनिनादाढ्यं तोरणानां शतैर्वृतम् ।
एवमादिभिरन्यैश्च भूषणैर्भूषितं सदा ॥ २,३३.२० ॥

तत्रस्थो भगवान् धर्म आसने तु समे शुभे ।
दशयो जनविस्तीर्णे नीलजीमूतसन्निभे ॥ २,३३.२१ ॥

धर्मज्ञो धर्मशीलश्च धर्मयुक्तो हितो यमः ।
भयदः पापयुक्तानां धार्मिकाणां सुखप्रदः ॥ २,३३.२२ ॥

मन्दमारु तसंयोगैरुत्सवैर्विविधैस्तथा ।
व्याख्यानैर्विविधैर्युक्तः शङ्खवादित्रनिः स्वनैः ॥ २,३३.२३ ॥

पुरमध्यप्रवेशे तु चित्रगुप्तस्य वै गृहम् ।
पञ्चविंशतिसंख्यानां योजनानां सुविस्तरम् ॥ २,३३.२४ ॥

दशोच्छ्रितं महादिव्यं लोहप्राकारवोष्टितम् ।
प्रतोलीशतसंचारं पतताकाशतशोभितम् ॥ २,३३.२५ ॥

दीपिकाशतसङ्कीर्णं गीतध्वनिसमाकुलम् ।
विचित्रचित्रकुशलैश्चित्रगुप्तस्य वै गृहम् ॥ २,३३.२६ ॥

मणिमुक्तामये दिव्ये आसने परमाद्भुते ।
तत्रस्थो गणयत्यायुर्मानुषेष्वितरेषु च ॥ २,३३.२७ ॥

न मुह्यति कदाचित्स सुकृते दुष्कृतेऽपि वा ।
यद्येनोपार्जितं यावत्तावद्वै वेत्ति तस्य तत् ॥ २,३३.२८ ॥

दशाष्टदोषरहितं कृत कर्म लिखत्यसौ ।
चित्रगुप्तालयाताच्यां ज्वरस्यास्ति महागृहम् ॥ २,३३.२९ ॥

दक्षिणे चापि शूलस्य लताविस्फोटकस्य च ।
पश्चिमे काल पाशस्य अजीर्णस्यारुचेस्तथा ॥ २,३३.३० ॥

मध्यपीठोत्तरे ज्ञेयो तथा चान्या विषचिका ।
ऐशन्यां वै शिरोऽर्तिश्च आग्नेय्याञ्चैव मृकता ॥ २,३३.३१ ॥

अतिसारश्च नैरृत्यां वायव्यां दाहसंज्ञकः ।
एभिः परिवृतो नित्यं चित्रगुप्तः स तिष्ठति ॥ २,३३.३२ ॥

यत्कर्म कुरुते कश्चित्तत्सर्वं विलखत्यसौ ।
धर्मराजगृहद्वारि दूतास्तार्क्ष्य तथा निशि ।
तिष्ठन्ति पापकर्माणः पच्यमाना नराधमाः ॥ २,३३.३३ ॥

यमदूतैर्महापाशैर्हन्यमानाश्च मुद्गरैः ।
वध्यन्ते विविधैः पापैः पूर्वकर्मकृतैर्नराः ॥ २,३३.३४ ॥

नानाप्रहारणाग्रैश्च नानायन्त्रैस्तथा परे ।
छिद्यन्ते पापकर्माणः क्रकचैः काष्ठवद्द्विधा ॥ २,३३.३५ ॥

अन्ये ज्वलद्भिरङ्गारैर्वेष्टिताः परितो भृशम् ।
पूर्वकर्मविपाकेन ध्मायन्ते लोहपिण्डवत् ॥ २,३३.३६ ॥

क्षिप्त्वान्ये च धरापृष्ठे कुठारेणावकर्तिताः ।
क्रन्दमानाश्च दृश्यन्ते पूर्वकर्मविपाकतः ॥ २,३३.३७ ॥

केचिद्गुडमयैः पाकैस्तैलपाकैस्तथा परे ।
पीड्यन्ते यमदूतैश्च पापिष्ठाः सुभृशं नराः ॥ २,३३.३८ ॥

क्षणाह्नि प्रार्थयन्त्यन्ये देहिदेहीति कोटिशः ।
यमलोके मया दृष्टा ममस्वं भक्षितं त्वया ॥ २,३३.३९ ॥

इत्येवं बहुशस्तार्क्ष्य नरकाः पापिनां स्मृताः ।
कर्मभिर्बहुभिः प्रोक्तैः सर्वशास्त्रेषु भाषितैः ।
दानोपकारं वक्ष्यामि यथा तत्र सुखं भवेत् ॥ २,३३.४० ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रतकल्पे श्रीकृष्णगरुडसंवादे यमलोकविस्तृतिदृवर्णनं नाम त्रयस्त्रिंशोऽध्यायः