गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ३२

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३१ गरुडपुराणम्
अध्यायः ३२
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३३ →

श्रीगरुडमहापुराणम् ३२
तार्क्ष्य उवाच ।
कथमुत्पद्यते जन्तुर्भूतग्रामे चतुर्विधे ।
त्वचा रक्तं तथा मांसं मेदो मज्जास्थि जीवितम् ॥ २,३२.१ ॥

पादौ पाणी तथा गुह्यं जिह्वाकेशनखाः शिरः ।
सन्धिमार्गाश्च बहुशो रेखा नैकविधास्तथा ॥ २,३२.२ ॥

कामः क्रोधो भयं लज्जा मनो हर्षः सुखासुखम् ।
चित्रितं छिद्रितञ्चापि नानाजालेन वेष्टितम् ॥ २,३२.३ ॥

इन्द्रजालमिदं मन्ये संसारेऽसारसागरे ।
कर्ता कोऽत्र हृषीकेश संसारे दुः खसंकुले ॥ २,३२.४ ॥

श्रीविष्णुरुवाच ।
कथयामि परं गोप्यं कोशस्यास्य विनिर्णयम् ।
यस्य विज्ञानमात्रेण सर्वज्ञत्वं प्रज्यते ॥ २,३२.५ ॥

साधु पृष्टं त्वया लोके सदयं जीवकारणम् ।
वैनतेय शृणुष्व त्वमेकाग्रकृतमानसः ॥ २,३२.६ ॥

ऋतुकाले च नारीणां वर्ज्यं दिनचतुष्टयम् ।
यतस्तस्मिन् ब्रह्महत्यां पुरा वृत्रसमुत्थिताम् ॥ २,३२.७ ॥

ब्रह्मा शक्रात्समुत्तार्य चतुर्थांशेन दत्तवान् ।
तावन्नालोक्यते वक्त्रं पापं यावद्वपुः स्थितम् ॥ २,३२.८ ॥

प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ।
तृतीये रजकी ज्ञेया चतुर्थेऽहनि शुध्यति ॥ २,३२.९ ॥

सप्ताहात्पितृदेवानां भवेद्योग्या कृतार्चने ।
सप्ताहमध्ये यो गर्भस्तत्संम्भूतिर्मलिम्लुचा ॥ २,३२.१० ॥

निषकसमये पित्रोर्यादृक्चित्तविकल्पना ।
तादृग्गर्भसमुत्पत्तिर्जायते नात्र संशयः ॥ २,३२.११ ॥

युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
पूर्वसप्तममुत्सृज्य तस्माद्युग्मासु संविशेत् ॥ २,३२.१२ ॥

षोडशर्तुर्निशाः स्त्रीणां सामान्यात्समुदाहृतः ।
या चतुर्दशमी रात्रिर्गर्भस्तिष्ठति तत्र चेत् ॥ २,३२.१३ ॥

गुणभाग्यनिधिः पुत्रस्तत्र जायेत धार्मिकः ।
सा निशा तत्र सामान्यैर्न लभ्येत खगाधिप ॥ २,३२.१४ ॥

प्रायशः सम्भवत्यत्र गर्भस्त्वष्टाहमध्यतः ।
पञ्चमेऽहनि नारीणां कार्यं माधुर्यभोजनम् ॥ २,३२.१५ ॥

कटुक्षारञ्च तीक्ष्णञ्च त्याज्यमुष्णञ्च दूरतः ।
तत्क्षेत्रमोषधीपात्रं बीजञ्चाप्यमृतायितम् ॥ २,३२.१६ ॥

तस्मिन्नुप्त्वा नरः स्वामी सम्यक्फलमवाप्नुयात् ।
तस्याश्चैवातपो वर्ज्य शीतलं केवलं चरेत् ॥ २,३२.१७ ॥

ताम्बूलपुष्पश्रीखण्डैः संयुक्तः शुचिवस्त्रभृत् ।
धर्ममादाय मनसि सुतल्पं संविशेत्पुमान् ॥ २,३२.१८ ॥

निषेकसमये यादृङ्नरचित्तविकल्पना ।
तादृक्स्वभावसम्भूतिर्जन्तुर्विशति कुक्षिगः ॥ २,३२.१९ ॥

शुक्रसोणितसंयोगे पिण्डोत्पत्तिः प्रजायते ।
वर्धते जठरे जन्तुस्तारापतिरिवाम्बरे ॥ २,३२.२० ॥

चैतन्यं बीजरूपं हि शुक्रे नित्यं व्यवस्थितम् ।
कामश्चित्तञ्च शुक्रञ्च यदा ह्येकत्वमाप्नुयुः ॥ २,३२.२१ ॥

तदा द्रावमवाप्नोति योषागर्भाशये नरः ।
रक्ताधिक्ये भवेन्नारी शुक्राधिक्ये भवेत्पुमान् ॥ २,३२.२२ ॥

शुक्रसोणितयो साम्ये गर्भाः षण्डत्वमाप्नुयुः ।
अहोरात्रेण कलिलं बुद्वदं पञ्चभिदिनैः ॥ २,३२.२३ ॥

चतुर्दशे भवेन्मांसं मिश्रधातुसमन्वितम् ।
घनं मांसञ्च विंशाहे गर्भस्थो वर्धते क्रमात् ॥ २,३२.२४ ॥

पञ्चविंशतिमे चाह्नि बलं पुष्टिश्च जायते ।
तथा मासे तु सम्पूर्णे पञ्चतत्त्वं निधारयेत् ॥ २,३२.२५ ॥

मासद्वये तु सञ्जाते त्वचा मेदश्च जायते ।
मज्जास्थीनि त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्थके ॥ २,३२.२६ ॥

कर्णौ च नासिके वक्षो जायेरन्मासि पञ्चमे ।
कण्ठरन्ध्रोदरं षष्ठे गुह्यादिर्मासि सप्तमे ॥ २,३२.२७ ॥

अङ्गप्रत्यङ्गसम्पूर्णो गर्भो मासैरथाष्टभिः ।
अष्टमे चलते जीवो धात्रीगर्भे पुनः पुनः ।
नवमेमासि सम्प्राप्ते गर्भस्थौजौ दृढं भवेत् ॥ २,३२.२८ ॥

चिकित्सा जायते तस्य गर्भवासपरिक्षये ।
नारी वाथ नरो वाथ नपुंस्त्वं वाभिजायते ॥ २,३२.२९ ॥

शक्तित्रयं विशालाक्षं षाट्कौशिकसमायुतम् ।
पञ्चेन्द्रियसमोपेतं दशनाडीविभूषितम् ॥ २,३२.३० ॥

दशप्राणगुणोपेतं यो जानाति स योगवित् ।
मज्जास्थिशुक्रमांसानि रोम रक्तं बलं तथा ॥ २,३२.३१ ॥

षाट्कौशिकमिदं पिण्डं स्याज्जन्तोः पाञ्चभौतिकम् ।
नवमे दशमे मासि जायते पाञ्चभौतिकः ॥ २,३२.३२ ॥

सूतिवातैः समाकृष्टः पीडया विह्वलीकृतः ।
पुष्टो नाड्याः सुषुम्णाया योषिद्गर्भस्थितस्त्वरन् ॥ २,३२.३३ ॥

क्षितिर्वारि हविर्भोक्ता पवनाकाशमेव च ।
एभिर्भूतैः पीडितस्तु निबद्धः स्नायुबन्धनैः ॥ २,३२.३४ ॥

मूलभूता इमे प्रोक्ताः सप्त नाड्यन्तरे स्थिताः ।
त्वचास्थिनाड्यो रोमाणि मांसञ्चैवात्र पञ्चमम् ॥ २,३२.३५ ॥

एते पञ्च गुणाः प्रोक्ता मया भूमेः खगेश्वर ।
यथा पञ्च गुणाश्चापस्तथा तच्छृणु काश्यप ॥ २,३२.३६ ॥

लाला मूत्रं तथा शुक्रं मज्जार रक्तञ्च पञ्चमम् ।
आपः पञ्चगुणाः प्रोक्ता ज्ञातव्यास्ते प्रयत्नतः ॥ २,३२.३७ ॥

क्षुधा तृषा तथा निद्रा आलस्यं कान्तिरेव च ।
तेजः पञ्चगुणं प्रोक्तं तार्क्ष्य सर्वत्रयोगिभिः ॥ २,३२.३८ ॥

रागद्वेषौ तथा लज्जा भयं मोहस्तथैव च ।
इत्येतत्कथितं तार्क्ष्य वायुजं गुणपञ्चकम् ॥ २,३२.३९ ॥

आकुञ्चनं धावनञ्च लङ्घनञ्च प्रसारणम् ।
निरोधः पञ्चमः प्रोक्तो वायोः पञ्च गुणाः स्मृताः ॥ २,३२.४० ॥

घोषश्चिन्ता च गाम्भीर्यं श्रवणं सत्यसंक्रमः ।
आकाशस्य गुणाः पञ्च ज्ञात व्यास्तार्क्ष्य यत्नतः ॥ २,३२.४१ ॥

श्रोत्रं त्वक्चक्षुषी जिह्वा नासा बुद्धीन्द्रियाणि च ।
पाणी पादौ गुदं प्राक्च गुह्यं कर्मेन्द्रियाणि च ॥ २,३२.४२ ॥

इडाच पिङ्गला चैव सुषुम्णा च तृतीयका ।
गान्धारी गजजिह्वा च पूषा चैव यसा तथा ॥ २,३२.४३ ॥

अलम्वुशा कुहूश्चैव शङ्खिनी दशमी स्मृता ।
पिण्ड मध्ये स्थिता ह्येताः प्रधाना दश नाडयः ॥ २,३२.४४ ॥

प्राणापानौ समानश्च उदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ २,३२.४५ ॥

इत्येते वायवः प्रोक्ता दश देहेषु सुस्थिताः ।
केवलं भुक्तमन्नञ्च पुष्टिदं सर्वदेहिनाम् ॥ २,३२.४६ ॥

नयते प्राणदो वायुः शरीरे सर्वसन्धिषु ।
आहारो भुक्तमात्रस्तु वायुना क्रियते द्विधा ॥ २,३२.४७ ॥

स प्रविश्य गुहे सम्यक्पृथगन्नं पृथग्जलम् ।
ऊर्ध्वमग्नेर्जलं कृत्वा तदन्नञ्च जलोपरि ॥ २,३२.४८ ॥

अग्नेश्चाधः स्वयं प्राणस्तमग्निञ्च धमेच्छनैः ।
वायुना धम्यमानोऽग्निः पृथक्किट्टं पृथग्रसम् ॥ २,३२.४९ ॥

मलैर्द्वादशभिः किट्टं भिन्नं देहात्पृथग्भवेत् ।
कर्णाक्षिनासिका जिह्वा दन्तनाभिवपुर्गुदम् ॥ २,३२.५० ॥

नखा मलाश्रया ह्येते विण्मूत्रञ्चेत्यनन्तकम् ।
शुक्रशोणितसंयोगादेतत्षाट्कौशिकं स्मृतम् ॥ २,३२.५१ ॥

रोम्णां कोट्यस्तथा तिस्रोऽप्यर्धकोटि समन्विताः ।
द्वात्रिंशद्दशनाः प्रोक्ताः सामान्याद्विनतासुत ॥ २,३२.५२ ॥

सप्त लक्षाणि केशाः स्युर्नखाः प्रोक्तास्तु विंशतिः ।
मांसं पलसहस्रैकं सामान्याद्देहसंस्थितम् ॥ २,३२.५३ ॥

रक्तं पलशतं तार्क्ष्यं बुद्धमेव पुरातनैः ।
पलानि दश मेदश्च त्वचा चैव तु तत्समा ॥ २,३२.५४ ॥

पलद्वादशकं मज्जा महारक्तं पलत्रयम् ।
शुक्रं द्विकुडवं ज्ञेयं शोणितं कुडवं स्मृतम् ॥ २,३२.५५ ॥

श्लेष्माणश्च षडूर्ध्वञ्च विण्मूत्रं तत्प्रमाणतः ।
अस्थ्नां हि ह्यधिकं प्रोक्तं षष्ट्युत्तरशतत्रयात् ॥ २,३२.५६ ॥

एवं पिण्डः समाख्यातो वैभवं सम्प्रचक्ष्महे ।
सुखं दुः खं भयं क्षेमं कर्मणैव हि प्राप्यते ॥ २,३२.५७ ॥

अधोमुखं चोर्ध्वपादं गर्भाद्वायुः प्रकर्षति ।
तले तु करयोर्न्यस्य वर्धते जानुपार्श्वयोः ॥ २,३२.५८ ॥

अङ्गुष्ठौ चोपरि न्यस्तौ जान्वारेथ कराङ्गुली ।
जानुपृष्ठे तथा नेत्रे जानुमध्ये च नासिका ॥ २,३२.५९ ॥

एवं वृद्धिं क्रमाद्याति जन्तुः स्त्रीगर्भसंस्थितः ।
काठिन्यमस्थीन्यायान्ति भुक्तपीतेन जीवति ॥ २,३२.६० ॥

नाडी वाप्यायनी नाम नाभ्यां तत्र निबध्यते ।
स्त्रीणां तथान्त्रसुषिरे स निबद्धः प्रजायते ॥ २,३२.६१ ॥

क्रामन्ति भुक्तपीतानि स्त्रीणां गर्भोदरे तथा ।
तैराप्यायितदेहोऽसौ जन्तुर्वृद्धिमुपैति च ॥ २,३२.६२ ॥

स्मृत्यस्तत्र प्रयान्त्यस्य बह्व्यः संसारभूतयः ।
ततो निर्वेदमायाति पीड्यमान इतस्ततः ॥ २,३२.६३ ॥

पुनर्नैवं करिष्यामि भुक्तमात्र इहोदरात् ।
तथातथा यतिष्यामि गर्भं नाप्नोम्यहं यथा ॥ २,३२.६४ ॥

इति सञ्चिन्तयञ्जीवो स्मृत्वा जन्मशतानि वै ।
यानि पूर्वानुभूतानि देवभूतात्मजानि वै ॥ २,३२.६५ ॥

ततः कालक्रमाज्जन्तुः परिवर्त्यत्वधोमुखः ।
नवमे दशमे वापि मासि संजायते ततः ॥ २,३२.६६ ॥

निष्क्रम्यमाणो वातेन प्राजापत्येन पीड्यते ।
निष्क्रमते च विलपंस्तदा दुःखनिपीडितः ॥ २,३२.६७ ॥

निष्क्रामंश्चोदरान्मूर्छामसह्यां प्रतिपद्यते ।
प्राप्नोति चेतनां चासौ वायुस्पर्शसुखान्वितः ॥ २,३२.६८ ॥

ततस्तं वैष्णवी माया समास्कन्दति मोहिनी ।
तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुते ॥ २,३२.६९ ॥

भ्रष्टज्ञानं बालभावे ततो जन्तुः प्रपद्यते ।
ततः कौमारकावस्थां यौवनं वृद्धतामपि ॥ २,३२.७० ॥

पुनश्च तद्वन्मरणं जन्म प्राप्नोति मानवः ।
ततः संसारचक्रेऽस्मिन् भ्राम्यते घटयन्त्रवत् ॥ २,३२.७१ ॥

कदाचित्स्वर्गमाप्नोति कदाचिन्निरयं नरः ।
स्वर्गं च निरयं चैव स्वकर्मफलमश्नुते ॥ २,३२.७२ ॥

कदाचिद्भुक्तकर्मा च भुवं स्वल्पेन गच्छति ।
स्वर्लोके नरके चैव भुक्तप्राये द्विजोत्तमाः ॥ २,३२.७३ ॥

नरकेषु महद्दुःखमेतद्यत्स्वर्गवासिनः ।
दृश्यते नात्र मोदन्ते पात्यमानास्तु नारकैः ॥ २,३२.७४ ॥

स्वर्गेऽपि दुः खमतुलं यदारोहणकालतः ।
प्रभृत्यहं पतिष्यामीत्येतन्मनसि वर्तते ॥ २,३२.७५ ॥

नार कांश्चैव सम्प्रेक्ष्य महद्दुः खमवाप्यते ।
एवं गतिमहं गन्तेत्यहर्निशमनिर्वृतः ॥ २,३२.७६ ॥

गर्भवासे महद्दुः खं जायमानस्य योनिजम् ।
जातस्य बालभावेऽपि वृद्धत्वे दुःखमेव च ॥ २,३२.७७ ॥

कामेर्ष्याक्रोधसम्बन्धाद्यौवनेऽपि च दुः सहम् ।
दुःस्वप्नं या वृद्धता च मरणे दुः खमुत्कटम् ॥ २,३२.७८ ॥

कृष्यमाणश्च याम्यैः स नरकेऽपि च यात्यधः ।
पुनश्च गर्भाज्जन्म स्यान्मरणं दुष्करं तथा ॥ २,३२.७९ ॥

एवं संसारचक्रेऽस्मिज्जन्तवो घटयन्त्रवत् ।
भ्राम्यन्ते प्राक्तनैर्बधैर्बद्धा विध्यन्ति चासकृत् ॥ २,३२.८० ॥

नास्ति पक्षिन्सुखं किञ्चित्क्षेत्रे दुः खशताकुले ।
विनतासुत मोक्षाय यतितव्यं ततो नरैः ॥ २,३२.८१ ॥

एतत्ते सर्वमाख्यातं यथा गर्भस्य संस्थितिः ।
कथयामि क्रमप्रश्रं पृष्टं वा वर्तते स्पृहा ॥ २,३२.८२ ॥

गरुड उवाच ।
मध्ये कृतमहाप्रश्रद्वयस्याप्तं मयोत्तरम् ।
प्रश्रस्यापि तृतीयस्य उत्तरं च विधीयताम् ॥ २,३२.८३ ॥

श्रीकृष्ण उवाच ।
म्रियमाणस्य किं कृत्यमिति त्वं पृष्टवानसि ।
शृणु तत्रोत्तरं तूक्तं कथयामि समासतः ॥ २,३२.८४ ॥

आसन्नमरणं ज्ञात्वा पुरुषं स्नापयेत्ततः ।
गोमूत्रगोमयसुमृत्तीर्थोदककुशोदकैः ॥ २,३२.८५ ॥

वाससी परिधार्याथ धौते तु शुचि नी शुभे ।
दर्भाण्यादौ समास्तीर्य दक्षिणाग्रान्विकीर्य च ॥ २,३२.८६ ॥

तिलान् गोमयलिप्तायां भूमौ तत्र निवेशयेत् ॥ २,३२.८७ ॥

प्रागुदक्शिरसं वापि मुखे स्वर्णं विनिः क्षेपेत् ।
शालग्रामशिला तत्र तुलसी च खगेश्वर ॥ २,३२.८८ ॥

विधेया सन्निधौ सर्पिर्दीपं प्रज्वालयेत्पुनः ।
नमो भगवते वासुदेवायेति जपस्तथा ॥ २,३२.८९ ॥

आदौ तु प्रणवं कृत्वा पूजादाने ततः स्मृते ।
समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ॥ २,३२.९० ॥

प्रणिपातैः स्तवैः पुण्यैर्ध्या नयोगेन पूजयेत् ।
दत्त्वा दानं च विप्रेभ्यो दीनानाथेभ्य एव च ॥ २,३२.९१ ॥

पुत्त्रे मित्रे कलत्रे च क्षेत्रधान्यधनादिषु ।
निवर्तयेन्ममत्वं च विष्णोः पादौ हृदि स्मरन् ॥ २,३२.९२ ॥

उच्चैः पुरुषसूक्तं च यदि श्रेष्ठापदस्तदा ।
पुत्त्राद्याः प्रपठेयुस्ते म्रियमाणे निजे जने ॥ २,३२.९३ ॥

एतत्ते सर्वमाख्यातं कृत्यं मृत्यावुपस्थिते ।
फलमप्यस्य कृत्स्नस्य समासात्ते वदाम्यहम् ॥ २,३२.९४ ॥

स्नानेन शुचिताप्राप्तिरपावित्र्यहृतिस्ततः ।
ततो विष्णोः स्मृतिस्तस्य ज्ञानात्सर्वफलप्रदा ॥ २,३२.९५ ॥

दर्भतूली नयेत्स्वर्गमातुरं तु न संशयः ।
तिलैर्दर्भैश्च निः क्षिप्तैः स्नानं क्रतुमयं भवेत् ॥ २,३२.९६ ॥

ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशस्तथैव च ।
मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ॥ २,३२.९७ ॥

प्रागुदग्वा कृतेनेह शिरसा लोकमुत्तमम् ।
व्रजते यदि पापस्याल्पत्वं पुंसो भवेत्खग ॥ २,३२.९८ ॥

पञ्चरत्ने मुखे मुक्ते जिवे ज्ञानं प्ररोहति ।
तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ॥ २,३२.९९ ॥

पञ्च प्रवहणान्येव भवाब्धौ मज्जतां नृणाम् ।
विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥ २,३२.१०० ॥

असारे दुर्गसंसारे षट्पदी भक्तिदायिनी ।
नमो भगवते वासुदेवायेति जपन्नरः ॥ २,३२.१०१ ॥

ओङ्कारपूर्वं सायुज्यं प्राप्नुयान्नात्र संशयः ।
पूजयापि च मल्लोकप्राप्तिराराद्दिवं व्रजेत् ॥ २,३२.१०२ ॥

बन्धाभावे ममत्वेतु ज्ञानं पुरुषसूक्ततः ।
यस्ययस्याधिकत्वं तु साधनेष्वेषु काश्यप ॥ २,३२.१०३ ॥

तत्तत्फलस्याप्याधिक्यं भवतीत्यवधारय ।
दातव्यानि यथाशक्त्या प्रीतोऽसौ सर्वदा भवेत् ॥ २,३२.१०४ ॥

एतत्ते सर्वमाख्यातं स्नानादिषु फलं मया ।
ब्रह्माण्डे ये गुणाः सन्ति शरीरे ते व्यवस्थिताः ॥ २,३२.१०५ ॥

पातालभूधरा लोकास्तथान्ये द्वीपसागराः ।
आदित्यादिग्रहाः सर्वे पिण्डमध्ये व्यवस्थिताः ॥ २,३२.१०६ ॥

पादाधस्तु तलं ज्ञेयं पादोर्ध्वं वितलं तथा ।
जानुभ्यां सुतलं विद्धि सक्थिदेशे महातलम् ॥ २,३२.१०७ ॥

तथा तलातलञ्चोरौ गुह्यदेशे रसातलम् ।
पातालं कटिसंस्थन्तु पादादौ लक्षयेद्बुधः ॥ २,३२.१०८ ॥

भूर्लोकं नाभिमध्ये तु भुवर्लोकं तदूर्ध्वतः ।
स्वर्गलोकं हृदये विद्यात्कण्ठदेशे महस्तथा ॥ २,३२.१०९ ॥

जनलोकं वक्त्रदेशे तपोलोकं ललाटके ।
सत्यलोकं महारन्ध्रे भुवनानि चतुर्दश ॥ २,३२.११० ॥

त्रिकोणे संस्थितो मेरुरधः कोणे च मन्दरः ।
दक्षिणे चेव कैलासो वामभागे हिमाचलः ॥ २,३२.१११ ॥

निषधश्चोर्ध्वभागे च दक्षिणे गन्धमादनः ।
मलयो (रमणो) वामरेखायां सप्तैते कुलपर्वताः ॥ २,३२.११२ ॥

अस्थिस्थाने स्थितो जम्बूः शाको मज्जासु संस्थितः ।
कुशद्वीपः स्थितो मांसे क्रौञ्चद्वीपः शिरास्थितः ॥ २,३२.११३ ॥

त्वचायां शाल्मलिद्वापो प्लक्षः रोम्णां च सञ्चये ।
नखस्थः पुष्करद्वीपः सागरास्तदनन्तरम् ॥ २,३२.११४ ॥

क्षारोदश्च तथा मूत्रे क्षारे क्षीरोदसागरः ।
सुरोदधिश्च श्लेष्मस्थः मज्जायां घृतसागरः ॥ २,३२.११५ ॥

रसोदधिं रसे विद्याच्छोणिते दधिसगरम् ।
स्वादुलं लम्बिकास्थाने गर्भोदं शुक्रसंस्थितम् ॥ २,३२.११६ ॥

नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्रमाः ।
लोचनस्थः कुजो ज्ञेयो हृदये च बुधः स्मृतः ॥ २,३२.११७ ॥

विष्णुस्थाने गुरुं विद्याच्छ्रुक्रे शुक्रो व्यवस्थितः ।
नाभिस्थाने स्थितो मन्दो मुखे राहुः स्थितः सदा ॥ २,३२.११८ ॥

पायु (द) स्थाने स्थितः केतुः शरीरे ग्रहमण्डलम् ।
विभक्तञ्च समाख्यातमापादतलमस्तकम् ॥ २,३२.११९ ॥

उत्पन्ना ये हि संसारे म्रियन्ते ते न संशयः ।
बुभुक्षा च तृषा रौद्रा दाहोद्भूता च मूर्छना ॥ २,३२.१२० ॥

यत्र पीडास्त्विमा रौद्रास्ता वै वृश्चिकदंशजाः ।
विनाशः पूर्णकाले च जायते सर्वदेहिनाम् ॥ २,३२.१२१ ॥

अग्रे अग्रे हि धावन्ति यमलोकगतस्यवै ।
तप्तवालुकमध्येन प्रज्वलद्वह्निमध्यतः ॥ २,३२.१२२ ॥

केशग्राहैः समाक्रान्ता नीयन्ते यमकिङ्करैः ।
पापिष्ठास्त्वधमास्तार्क्ष्य दयाधर्मविविर्जिताः ॥ २,३२.१२३ ॥

यमलोके वसन्त्येते कुट्यां जन्म न विद्यते ।
एवं सञ्जायते तार्क्ष्य मर्त्ये जन्तुः स्वकर्मभिः ॥ २,३२.१२४ ॥

उत्पन्ना ये हि संसारे म्रियन्ते ते न संशयः ।
आयुः कर्म च वित्तञ्च विद्या निधनमेव च ॥ २,३२.१२५ ॥

पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ।
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ॥ २,३२.१२६ ॥

सुखं दुः खं भयं क्षेमं कर्मणैवाभिपद्यते ।
अधोमुखं चोर्ध्वपादं गर्भाद्वायुः प्रकर्षति ॥ २,३२.१२७ ॥

जन्मतो वैष्णवी माया संमोहयति सत्वरम् ।
स्वकर्मकृतसम्बन्धो जन्तुर्जन्म प्रपद्यते ॥ २,३२.१२८ ॥

सुकृतादुत्तमो भोगभोग्यवान् सुकुले भवेत् ।
यथायथा दुष्कृतं तत्कुले हीने प्रजायते ॥ २,३२.१२९ ॥

दरिद्रो व्याधितो मूर्खः पापकृद्दुः खभाजनम् ।
अतः परं किमर्थं ते कथयामि खगेश्वर ॥ २,३२.१३० ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धर्मदृप्रेतदृश्रीकृष्णगरुडसंवादे जन्तूत्पत्तितद्गधात्वादिविभागभुवनादिविभागवर्णनं नाम द्वात्रिंशोऽध्यायः