गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः),अध्यायः २ गरुडपुराणम्
अध्यायः ३
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः),अध्यायः ४ →

श्रीगरुडमहापुराणम् ३
सूत उवाच ।
एवमुत्साहितः पक्षी स्वरूपं निरयस्य तु ।
पप्रच्छनरकाण्येवं श्रुत्वा चोत्कूलितान्तरः ॥ २,३.१ ॥

गरुड उवाच ।
नरकाणां स्वरूपं मे वद येषु विकर्मिणः ।
पात्यन्ते दुः खभूयिष्ठास्तेषां भेदांश्च कीर्तय ॥ २,३.२ ॥

श्रीभगवानुवाच ।
नरकाणां सहस्राणि वर्तन्ते ह्यरुणानुज ।
शक्यं विस्तरतो नैव वक्तुं प्राधान्यतो ब्रुवे ॥ २,३.३ ॥

रौरवं नाम नरकं मुख्यं तद्वैनिबोध मे ।
रौरवे कूटसाक्षी तु याति यश्चानृती नरः ॥ २,३.४ ॥

योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः ।
जानुमात्रप्रमाणं तु तत्र गर्तं सुदुस्तरम् ॥ २,३.५ ॥

तत्राङ्गारचयौघेन कृतं तद्धरणीसमम् ।
तत्राग्निना सुतीव्रेण तापिताङ्गारभूमिना ॥ २,३.६ ॥

तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः ।
स दह्यमानस्तीव्रेण वह्निना परिधावति ॥ २,३.७ ॥

पदेपदे च पादोऽस्य स्फुट्यते शीर्यते पुनः ।
अहोरात्रेणोद्धरणं पादन्यासेन गच्छति ॥ २,३.८ ॥

एवं सहस्रं विस्तीर्णं योजनानां विमुच्यते ।
ततोऽन्यत्पापशुद्ध्यर्थं तादृङ्निरयमृच्छति ॥ २,३.९ ॥

रौरवस्ते समाख्यातः प्रथमो नरको मया ।
महारौरवसंज्ञं तु शृणुष्व नरकं खग ॥ २,३.१० ॥

योजनानां सहस्राणि सन्ति पञ्च समन्ततः ।
तत्र ताम्रमयी भूमिरधस्तस्या हुताशनः ॥ २,३.११ ॥

तया तपन्त्या सा सर्वा प्रोद्यद्विद्युत्समप्रभा ।
विभाव्यते महारौद्रा पापिनां दर्शनादिषु ॥ २,३.१२ ॥

तस्यां बद्धकराभ्यां च पद्भ्यां चैव यमानुगैः ।
मुच्यते पापकृन्मध्ये लुण्ठमानः स गच्छति ॥ २,३.१३ ॥

काकैर्बकैर्वृकोलूकैर्मशकैर्वृश्चिकैस्तथा ।
भक्ष्यमाणैस्तथा रौद्रैर्गतो मार्गे विकृष्यते ॥ २,३.१४ ॥

दह्यमानो गतमतिर्भ्रान्तस्तातेति चाकुलः ।
वदत्यसकृदुद्वग्नो न शान्तिमधिगच्छति ॥ २,३.१५ ॥

एवं तस्मान्नरैर्मोक्षस्त्वतिक्रान्तैरवाप्यते ।
वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥ २,३.१६ ॥

तथान्यस्तु ततो नाम सोऽतिशीतः स्वभावतः ।
महारौरववद्दीर्घस्तथान्धतमसा वृतः ॥ २,३.१७ ॥

शीतार्तास्तत्र बध्यन्ते नरास्तमसि दारुणे ।
परस्परं समासाद्य परिरभ्याश्रयन्ति ते ॥ २,३.१८ ॥

दन्तास्तेषां च भज्यन्ते शीतार्तिपरिकम्पिताः ।
क्षुतृषातिबलाः पक्षिन्नथ तत्राप्युपदवाः ॥ २,३.१९ ॥

हिमखण्डवहो वायुभिनत्त्यस्थीनि दारुणः ।
मज्जासृगस्थिगलितमश्रन्त्यत्र क्षुधान्विताः ॥ २,३.२० ॥

आलिङ्ग्यमाना भ्राम्यन्ते परस्परसमागमे ।
एवं तत्रापि सुमहान्क्लेशस्तमसि मानवैः ॥ २,३.२१ ॥

प्राप्यते शकुनिश्रेष्ठ यो बहूकृतसञ्चयः ।
निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ॥ २,३.२२ ॥

कुलालचक्राणि तत्र भ्राम्यन्त्यविरतं खग ।
तेष्वापाष्ये निकृष्यन्ते कालसूत्रेण मानवाः ॥ २,३.२३ ॥

यमानुमाङ्गुलिस्थेन आपादतलमस्तकम् ।
न चैषां जीवितभ्रंशो जायते पक्षिसत्तम ॥ २,३.२४ ॥

छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति हि ।
एवं वर्षसहस्राणि भ्राम्यन्ते पापकर्मिणः ॥ २,३.२५ ॥

तावद्यावदशेषं च तत्पापं संक्षयं गतम् ।
अप्रातष्ठं च नरकं शृणुष्व गदतो मम ॥ २,३.२६ ॥

तत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते ।
तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥ २,३.२७ ॥

दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम् ।
चक्रेष्वारोपिताः केचिद्भाम्यन्ते तत्र मानवाः ॥ २,३.२८ ॥

यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा ।
घटीयन्त्रेषु बद्वा ये बद्धा तोयवटी यथा ॥ २,३.२९ ॥

भ्राम्यन्ते मानवा रक्तमुद्गिरन्तः पुनः पुनः ।
अन्त्रैर्मुखविनिष्क्रान्तैर्नेत्रैरन्त्रावलम्बिभैः ॥ २,३.३० ॥

दुः खानि प्राप्नुवन्तीह यान्यसह्यानि जन्तुभिः ।
असिपत्रवनं नाम नरकं शृणु चापरम् ॥ २,३.३१ ॥

योजनानां सहस्रं यो ज्वलत्यग्न्याशृतावनिः ।
सप्ततीव्रकराश्चैण्डर्यत्र तीव्र सुदारुणे ॥ २,३.३२ ॥

प्रतपन्ति सदा तत्र प्राणिनो नरकौकसः ।
तन्मध्ये चरणं शीतस्निग्धपत्रं विभाष्यते ॥ २,३.३३ ॥

पत्राणि यत्र खण्डानि फलानां पक्षिसत्तम ।
श्वानश्च तत्र सुबलाश्चरन्त्यामिषभोजनाः ॥ २,३.३४ ॥

महावक्त्रा महादंष्ट्रा व्याघ्रा इव महाबलाः ।
ततश्च वनमालोक्य शिशिरच्छायमग्रतः ॥ २,३.३५ ॥

प्रयान्ति प्राणिनस्तत्र क्षुत्तापपरिपीडिताः ।
मातर्भ्रातस्तात इति क्रन्दमानाः सुदुः खिताः ॥ २,३.३६ ॥

दह्यमानाङ्घ्रियुगला धरणिस्थेन वह्निना ।
तेषां गतानां तत्रापि अति शीतिः समीरणः ॥ २,३.३७ ॥

प्रवाति तेन पात्यन्ते तेषां खड्गास्तथोपरि ।
छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसंचये ॥ २,३.३८ ॥

लेलिह्यमाने चान्यत्र तप्ताशेषमहीतले ।
सारमेयाश्च ते शीघ्रं शातयन्ति शरीरतः ॥ २,३.३९ ॥

तेषां खण्डान्यनेकानि रुदतामतिभीषणे ।
असिपत्रवनं तात मयैतत्परिकीर्तितम् ॥ २,३.४० ॥

अतः परं भीमतरं तप्तकुंभं निबोध मे ।
समन्ततस्तप्तकुम्भा वह्निज्वालासमन्विताः ॥ २,३.४१ ॥

ज्वलदग्निचयास्तप्ततैलायश्चूर्णपूरिताः ।
एषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥ २,३.४२ ॥

क्वाथ्यन्ते विस्फुटद्गात्रा गलन्मज्जाजलान्विताः ।
स्फुटत्कपालेनत्रास्थिच्छिद्यमाना विभीषणैः ॥ २,३.४३ ॥

गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः ।
पुनश्चिमचिमायन्ते तैलनैक्यं व्रजन्ति च ॥ २,३.४४ ॥

द्रवीभूतैः शिरोगात्रैः स्नायुमांसत्वगास्थिभिः ।
ततो याम्यैर्नरैराशु दर्व्याघट्टनघट्टिताः ॥ २,३.४५ ॥

कृतावर्ते महातैले क्वाथ्यन्ते पापकर्मिणः ।
एष ते विस्तरेणोक्तस्तप्तकुम्भो मया खग ॥ २,३.४६ ॥

आदिमो रौरवः प्रोक्तो महारौरवकोऽपरः ।
अतिशीतस्तृतीयस्तु चतुर्थो हि निकृन्तनः ॥ २,३.४७ ॥

अप्रतिष्ठः पञ्चमः स्यादसिपत्रवनोऽपरः ।
सप्तमस्तप्तकुम्भस्तु सप्तैते नरका मताः ॥ २,३.४८ ॥

श्रूयन्तेन्यान्यपि तथा नरकाणि नराधमाः ।
कर्मणां तारतम्येन तेषुतेषु पतन्ति हि ॥ २,३.४९ ॥

तथा हि नरको रोधः शूकरस्ताल एव च ।
तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः ॥ २,३.५० ॥

क्रिमिश्च क्रिमभक्षश्च लालाभक्षो विषञ्जनः ।
अधः शिराः पूयवहो रुधिरान्धश्च विड्रभुजः ॥ २,३.५१ ॥

तथा वैतरणी सू (मू) मसिपत्रवनं तथा ।
अग्निज्वालो महाघोरः सन्दंशो वाप्यभोजनः ॥ २,३.५२ ॥

तमश्च कालसूत्रं च लोहश्चाप्यभिदस्तथा ।
अप्रतिष्ठोऽप्यवीचिश्च नरका एवमादयः ॥ २,३.५३ ॥

तामसा नरकाः सर्वे यमस्य विषये स्थिताः ।
येषु दुष्कृतकर्माणः पतन्ति हि पृथक्पृथक् ॥ २,३.५४ ॥

भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्तिताः ।
रोघो गोघ्नो भ्रूणहा च अग्निदाता नरः पतेत् ॥ २,३.५५ ॥

सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ।
ताले पतेत्क्षत्त्रहन्ता हत्वा वैश्यं च दुर्गतिः ॥ २,३.५६ ॥

ब्रह्महत्यां च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ।
स्वसृगामी तप्तकुम्भी तथा राजभटोऽनृती ॥ २,३.५७ ॥

तप्तलोहैश्च विक्रेता तथा बन्धनरक्षिता ।
माध्वी विक्रयकर्तां च यस्तु भक्तं परित्यजेत् ॥ २,३.५८ ॥

महाज्वाली दुहितरं स्नुषां गच्छति यस्तु वै ।
वेदो विक्रीयते यैश्च वेदं दूषयते तु यः ॥ २,३.५९ ॥

गुरुं चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च ।
अगम्यागामी च नरो नरकं शबलं व्रजेत् ॥ २,३.६० ॥

विमोहे पतते शूरे मर्यादां यो भिनत्ति वै ।
दुरिष्टं कुरुते यस्तु कृमिभक्षं प्रपद्यते ॥ २,३.६१ ॥

देवब्राह्मणविद्वेष्टा लालाभक्षे पतत्यपि ।
कुण्डकर्ता कुलालश्च न्यासहर्ता चिकित्सकः ॥ २,३.६२ ॥

आरामेष्वग्निदाता च एते यान्ति विषञ्जने ।
असत्प्रतिग्रही यस्तु तथैवायाज्ययाजकः ॥ २,३.६३ ॥

न क्षत्त्रैर्जोवते यस्तु नरो गच्छेदधोमुखम् ।
क्षीरं सुरां च मासं लाक्षां गन्धं रसं तिलान् ॥ २,३.६४ ॥

एवमादीनि विक्रीणन् घोरे पूयवहे पतेत् ।
यः कुक्कुटान्निबध्नाति मार्जारान् सूकरांश्च तान् ।
पक्षिणश्च मृगांश्छा गान्सोऽप्येवं नरकं व्रजेत् ॥ २,३.६५ ॥

आजाविको माहिषिकस्तथा चक्री ध्वजी च यः ।
रङ्गोपजीविको विप्रः शाकुनिर्ग्रामयाजकः ॥ २,३.६६ ॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सुरापो मांसभक्षी च तथा च पशुघातकः ॥ २,३.६७ ॥

रुधिरान्धे पतन्त्येते पतन्त्येते एवमाहुर्मनीषिणः ।
उपविष्टन्त्वेकपङ्क्त्यां विषं सम्भोजयन्ति ये ॥ २,३.६८ ॥

पतन्ति निरये घोरे विड्भुजे नात्र संशयः ।
मधुग्राहो वैतरणीमाक्रोशी मूत्रसंज्ञके ॥ २,३.६९ ॥

असिपत्रवनेऽसौची क्रोधनश्च एतेदपि ।
अग्निज्वालां मृगव्याधो भोज्यते यत्र वायसैः ॥ २,३.७० ॥

इज्यायां व्रतलोपाच्च सन्दंशे नरके पतेत् ।
स्कन्दन्ते यदि वा स्वप्ने यतिनो ब्रह्मचारिणः ॥ २,३.७१ ॥

पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये ।
ते सर्वे नरकं यान्ति निरयं चाप्यभोजनम् ॥ २,३.७२ ॥

वर्णाश्रमविरुद्धानि क्रोधहर्षसमन्विताः ।
कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः ॥ २,३.७३ ॥

उपरिष्टात्स्थितो घोर उष्णात्मा रौरवो महान् ।
सुदारुणः सुशीतात्मा तस्या धस्तामसः स्मृतः ॥ २,३.७४ ॥

एवमादिक्रमेणैव सर्वेऽधोऽधः परिस्थिताः ।
दुः खोत्कर्षश्च सर्वेषु कर्मस्वपि निमित्ततः ॥ २,३.७५ ॥

सुखोत्कर्षश्च सर्वत्र धर्मस्येहनिमिततः ।
पश्यन्तिनरकान्देवा ह्यधोवक्त्रान्सुदारुणान् ॥ २,३.७६ ॥

नारकाश्चापि ते देवान्सर्वान्पश्यन्ति ऊर्ध्वगान् ।
एतान्यान्यानि शतशो नरकाणि वियद्गते ॥ २,३.७७ ॥

दिनेदिने तु नरके पच्यते दह्यतेन्यतः ।
शीर्यते भिद्यतेऽन्यत्र चूर्यते क्लिद्यतेन्यतः ॥ २,३.७८ ॥

क्वथ्यते दीप्यतेऽन्यत्र तथा वातहतोऽन्यतः ।
एकं दिनं वर्षशतप्रमाणं नरके भवेत् ॥ २,३.७९ ॥

ततः सर्वेषु निस्तीर्णः पापी तिर्यक्त्वमश्नते ।
कृमिकीटपतङ्गेषु स्थावरैकशफेषु च ॥ २,३.८० ॥

गत्वा वनगजाढ्येषु गोष्वषु तथैव च ।
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ॥ २,३.८१ ॥

एते चैकशफाः षट्च शृणु पञ्चनखानतः ।
अन्यासु बहुपापासु दुः खदासु च यो निषु ॥ २,३.८२ ॥

मानुष्यं प्राप्यते कुब्जो कुत्सितो वामनोऽपि वा ।
चण्डालपुक्कसाद्यासु नरयोनिषु जायते ॥ २,३.८३ ॥

मुहुर्गर्भे वसन्त्येव म्रियन्ते च मुहुर्मुहुः ।
अवशिष्टेन पापेन पुण्येन च समन्वितः ॥ २,३.८४ ॥

ततश्चारोहिणीं योनिं शूद्रवैश्यनृपादिकम् ।
विप्रदेवेन्द्रतां चापि कदाचिदधिरोहति ॥ २,३.८५ ॥

एवं तु पापकर्माणो निरयेषु पतन्त्यधः ।
यथा पुण्यकृतो यान्ति तन्मे निगदतः शृणु ॥ २,३.८६ ॥

ते यमेन विनिर्दिष्टां योनिं पुण्यगतिं नराः ।
प्रगीतगन्धर्वगणा नृत्योत्सवसमाकुलाः ॥ २,३.८७ ॥

हारनूपुरमाधुर्यैः शोभितान्यमलानि तु ।
प्रयान्त्याशु विमानानि दिव्यगन्धस्रगुज्ज्वलाः ॥ २,३.८८ ॥

तस्माच्च प्रच्युता राज्ञामन्येषां च महात्मनाम् ।
जायन्ते नीरुजां गेहे स द्वृत्तिपीरपालकाः ॥ २,३.८९ ॥

भोगान्सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा ।
अवरोहिणीं सम्प्राप्य पूर्ववद्यन्ति मानवाः ॥ २,३.९० ॥

जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् ।
पापिष्ठानामदोमार्गाज्जीवो निष्क्रमते ध्रुवम् ॥ २,३.९१ ॥

पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च ।
तेजस्तेजसि लीयते समीरे च समीरणः ॥ २,३.९२ ॥

आकाशे च तथाकाशं सर्वव्यापि निशाकरे ।
तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ॥ २,३.९३ ॥

एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः ।
कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः ॥ २,३.९४ ॥

संहारश्चैव कालोऽसौ पुण्यपापेन संयुतः ।
पञ्चेन्द्रियसमायुक्तः सकलैर्विबुधैः सह ॥ २,३.९५ ॥

प्रविशेत्स नवे देहे पृहे दरधे गुही यथा ।
शरीरे ये समासीनाः सर्वे वै सप्त धातवः ॥ २,३.९६ ॥

षाट्कौशिको ह्ययं कायः सर्वे वाताश्च देहिनाम् ।
मूत्रं पुरीषं तद्योगाद्ये चान्ये व्याधयस्तथा ॥ २,३.९७ ॥

पित्तं श्लेष्मा तथा मज्जा मांसं वै मेद एव च ।
अस्थि शुक्रं तथा स्नायुर्देहेन सह दह्यति ॥ २,३.९८ ॥

एष ते कथितस्तार्क्ष्य विनासः सर्वदेहिनम् ।
कथयामि पुनस्तेषां शरीरं च यथा भवेत् ॥ २,३.९९ ॥

एकस्तम्बंस्नायुबद्धं स्थूणात्रयविभूषणम् ।
इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् ॥ २,३.१०० ॥

विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम् ।
रागद्वेषसमाकीर्णं तृष्णादुर्गमतस्करम् ॥ २,३.१०१ ॥

लोभजालपरिच्छिन्नं मोहवस्त्रेण वेष्टितम् ।
सुबद्धं मायया चैतल्लोभेनाधिष्ठितं पुरम् ॥ २,३.१०२ ॥

एतद्गुणसमाकीर्णं शरीरं सर्वदेहिनाम् ।
आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः ॥ २,३.१०३ ॥

एवमेव समाख्यातं शरीरं ते चतुर्विधम् ।
चतुरशीतिलक्षाणि निर्मिता योनयः पुरा ॥ २,३.१०४ ॥

उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ।
एतत्ते सर्वमाख्यातं निरयस्य प्रपञ्चतः ॥ २,३.१०५ ॥

अथयामि क्रमप्राप्तं प्रष्टु वा वर्तते स्पृहा ॥ २,३.१०६ ॥

इति श्रीगारुडे महापुराणे धर्मकाण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नरकतत्प्रवेशनिर्गमनादिवर्णनं नाम तृतीयोऽध्यायः