गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३ गरुडपुराणम्
अध्यायः ४
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ५ →


श्रीगरुडमहापुराणम् ४
श्रीकृष्ण उवाच ।
ज्ञानतोऽज्ञानतो वापियन्नरैः कलुषं कृतम् ।
तस्य पापस्य शुद्ध्यर्थं विधेया निष्कृतिर्नरैः ॥ १ ॥
भस्मादिस्नानदशकमादौ कुर्याद्विचक्षणः ।
यथाशक्ति षडब्दादिप्रत्याम्नायाच्चरेदपि ॥ २ ॥
तदर्धं वा तदर्धं वा तदर्धार्धमथापि वा ।
यथाशक्त्या ततः कुर्याद्दश दानानि वै शृणु ॥ ३ ॥
गोभूतिलहिरण्याज्यवासोधन्यगुडास्तथा ।
रजतं लवणं चैव दानानि दश वै विदुः ॥ ४ ॥
प्रायश्चित्ते त्वागता ये तेभ्यो दद्यान्नरो दश ।
ततो यमद्वारपथे पूयशोणितसंकुले ॥ ५ ॥
नदीं वैतरणीं तर्तुं दद्याद्वैतरणीं च गाम् ।
कृष्णस्तनी सकृष्णाङ्गी सा वै वैतरणी स्मृता ॥ ६ ॥
तिला लोहं हिरण्यं च कर्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥ ७ ॥
एतान्यष्टौ महादानान्युत्तमाय द्विजातये ।
आतुरेण तु देयानि पदरूपाणि मे शृणु ॥ ८ ॥
छत्रो पानहवस्त्राणि मुद्रिका च कमण्डलुः ।
आसनं भाजनं पदं चाष्टविधं स्मृतम् ॥ ९ ॥
तिलापात्रं सर्पिः पात्रं शय्या सोपस्करा तथा ।
एतत्सर्वं प्रदातव्यं यदिष्टं चात्मनोऽपि तत् ॥ १० ॥
अश्वो रथश्च महीषी व्यञ्जनं वस्त्रमेव च ।
ब्राह्मणेभ्यः प्रदातव्यं ब्रह्मपूर्वमपि स्वयम् ॥ ११ ॥
दाना न्यन्यान्यपि खग तर्पयेत्स्वीयशक्तितः ।
प्रायाश्चित्तं कृतं येन दश दानान्यपि क्षितौ ॥ १२ ॥
दानं गोर्वैतरण्याश्च दानान्यष्टौ तथापि वा ।
तिलपात्रं सर्पिः पात्रं शय्यादानं तथैव च ॥ १३ ॥
पददानं च विधिवन्नासौ निरयगर्भगः ।
स्वातन्त्र्येणापि लवणदानमिच्छन्ति सूरयः ॥ १४ ॥
विष्णुदेहसमुत्पन्नो यतोऽयं लवणो रसः ।
आतुरस्य यदा प्राणा न यान्ति वसुधातले ॥ १५ ॥
लवणं च तदा देयं द्वारस्योद्वाटनं दिवः ।
यानिकानि च दानानि स्वयं दत्तानि मानवैः ॥ १६ ॥
तानितानि च सर्वाणि उपतिष्ठन्ति चाग्रतः ।
प्रायश्चित्तं कृतं येन साङ्गं खग स वै पुमान् ॥ १७ ॥
पापानि भस्मसात्कृत्वा स्वर्गलोके महीयते ।
अमृतं तु गवां क्षीरं यतः पतगसत्तम् ॥ १८ ॥
तस्माद्ददाति यो धेनुममृतत्वं स गच्छति ।
दानान्यष्टौ तु दत्त्वा वै गन्धर्वनिलये वसेत् ॥ १९ ॥
आलयस्तत्र रौद्रे हि दह्यते येन मानवः ।
छत्रदानेन सुच्छाया जायते पथि तुष्टिदा ॥ २० ॥
असिपत्रवनं धारमतिक्रामति वै सुखम् ।
अश्वारूढश्च व्रजति ददते यद्युपानहौ ॥ २१ ॥
भोजनासनदानेन सुखं मार्गे भुनक्ति वै ।
प्रदेशे निर्जले दाता सुखी स्याद्वै कमण्डलोः ॥ २२ ॥
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।
न पीडयन्ति दाक्षिण्याद्वस्त्राभरणदानतः ॥ २३ ॥
तिलपात्रं तु विप्राय दत्तं पत्ररथ ध्रुवम् ।
नाशयेत्त्रिविधं षापं वाङ्मनः कायसम्भवम् ॥ २४ ॥
घृतपात्रप्रदाने रुद्रलोके वसेन्नरः ।
सर्वोपस्करसंयुक्तां शय्यां दत्त्वा द्विजातये ॥ २५ ॥
नानाप्सरोभिराकीर्णं विमानमधिरोहति ।
षष्टिवर्षसहस्राणि क्रीडित्वा शक्रमन्दिरे ॥ २६ ॥
इन्द्रलोकात्परिभ्रष्ट इह लोके नृपो भवेत् ।
सर्वोपस्करणोपेतं युवानं दोषवर्जितम् ॥ २७ ॥
योऽश्वं ददाति विप्राय स्वर्गलोके च तिष्ठति ।
यावन्ति रोमाणि हये भवन्ति हि खगेश्वर ॥ २८ ॥
तावतो राजितांल्लोकानाप्नुवन्ति हि पुष्कलान् ।
चतुर्भिस्तुरगैर्युक्तं सर्वोपकरणैर्युतम् ॥ २९ ॥
रथं द्विजातये दत्त्वा राजसूयफलं लभ्त् ॥ ३० ॥
दुग्धाधिकां च महिषीं नवमेघवर्णां सन्तुष्टतर्णकवलीं जघनाभिरामाम् ।
दत्त्वा सुवर्णतिलकां द्विजपुङ्गवाय लोकोदयं स जयतीति किमत्र चित्रम् ॥ ३१ ॥
तालवृन्तस्य दानेन वायुना वीज्यते पथि ।
कान्तियुक्सुभगः श्रीमान् भवत्यम्बरदानतः ॥ ३२ ॥
रसान्नोपस्करयुतं गृहं विप्राय योर्ऽपयेत् ।
न हीयते तस्य वंशः स्वर्गं प्राप्नोत्यनुत्तमम् ॥ ३३ ॥
भवत्यत्र खगश्रेष्ठ फलगौखलाघवम् ।
श्रद्धाश्रद्धाविभेदेन दानगौरवलाघवात् ॥ ३४ ॥
ततो येनाम्बुदानानि कृतान्यत्र रसास्तथा ।
तदा खग तथाह्लादमापदि प्रतिपद्यते ॥ ३५ ॥
अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।
सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ ३६ ॥
आसन्ने मरणे कुर्यात्संन्यासं चेद्विधानतः ।
आवर्तेत पुनर्नासौ ब्रह्मभूयाय कल्पते ॥ ३७ ॥
आसन्नमरणो मत्यश्चेत्तीर्थं प्रतिनयिते ।
तीर्थप्राप्तौ भवेन्मुक्तिर्म्रियते यदि मार्गगः ।
पदेपदे क्रतुसमं भवेत्तस्य न संशयः ॥ ३८ ॥
गृह्णीयाच्चेदनशनं व्रतं विधिवदागते ।
मृत्यौ न सोऽपि संसारे भूयः पर्यटति द्विज ॥ ३९ ॥
किं दानमिति तुर्यस्य प्रश्नस्योत्तरमीरितम् ।
दाहमृत्योरन्तरे किमितिप्रश्नोत्तरं शृणु ॥ ४० ॥
गतप्राणं ततो ज्ञात्वा स्नात्वा पुत्रादिराशु तम् ।
शवं जलेन शुद्धेन क्षालयेदविचारयन् ॥ ४१ ॥
परिधाप्याहते वस्त्रे चन्दनैः प्रोक्षयेत्तनुम् ।
ततो मृतस्य स्थाने वै एकोद्दिष्टं समाचरेत् ॥ ४२ ॥
प्रयोगपूर्वं दाहस्य योग्यतादिर्यथा भवेत् ।
आंसनं प्राक्षण च स्यान्न स्यादेतच्चतुष्टयम् ॥ ४३ ॥
आवाहनार्चन चैव पान्त्रालम्भावगाहने ।
भवेद्दानान्नसङ्कल्पः पिण्डदानं सदा भवेत् ॥ ४४ ॥
पदार्थपञ्चकं न स्याद्रेखा प्रत्यवनेजनम् ।
दद्यादक्षय्यमुदकं न स्यादेतत्त्रयं पुनः ॥ ४५ ॥
स्वधावाचनमाशीश्च तिलकं च खगोत्तम ।
घटं दद्यात्समाषान्नं दद्याल्लोहस्य दक्षिणाम् ॥ ४६ ॥
पिण्डस्य चालनं प्रोक्तं नैव प्रोक्तमिदं त्रिकम् ।
प्रच्छादनविसर्गौ च स्वस्तिवाचनकं तथा ॥ ४७ ॥
एषु षट्सु विधिः प्रोक्तः श्राद्धेषु मलिनेषु ते ।
षडेव मरणस्थाने द्वारि चात्वरिके तथा ॥ ४८ ॥
विश्रामे काष्ठचयने तथा सञ्चयने खग ।
मृतिस्थाने शवो नाम भूमिस्तुष्यति देवता ॥ ४९ ॥
पान्थो द्वारि भवेत्तेन प्रीता स्याद्वास्तुदेवता ।
चत्वरे खेचरस्तेन तुष्येद्भृतादिदेवता ॥ ५० ॥
विश्रामे भूतसंज्ञोऽयं तुष्टस्तेन दिशो दश ।
चितायां साधक इति सञ्चितौ प्रेत उच्यते ॥ ५१ ॥
तिलदर्भघृतेधांसि गृहीत्वा तु सुतादयः ।
गाथां यमस्य सूक्तं वाप्यधीयाना व्रजन्ति हि ॥ ५२ ॥
अहरहर्नीयमानो गामश्वं पुरुषं वृषम् ।
वैवस्वतो न तृप्येत सुरया त्विव दुर्मतिः ॥ ५३ ॥
इमां गाथमपेतेति सूक्तं वा पथि संपठेत् ।
दक्षिणस्यां दिश्यरण्यं व्रजेयुः सर्वबान्धवाः ॥ ५४ ॥
पथि श्राद्धद्वयं कुर्यात्पूर्वोक्तविधिना खग ।
ततः शनैर्भूतले वै दक्षिणाशिरसं शवम् ॥ ५५ ॥
स्थापयित्वा चिताभूमौ पूर्वोक्तं श्राद्धमाचरेत् ।
तृणकाष्ठतिलाज्यादि स्वयं निन्युः सुतादयः ॥ ५६ ॥
शूद्रानीतैः कृतं कर्म सर्वं भवति निष्फलम् ।
प्राचीनावीतिना भाव्यं दक्षिणाभिमुकेन च ॥ ५७ ॥
वेदी तत्र प्रकर्तव्या यथाशास्त्रमथाण्डज ।
प्रतेवस्त्रं द्विधा कृत्वार्धेन तं छादयेत्ततः ॥ ५८ ॥
अर्धं श्मशानवासार्थं भूमावेव विनिः क्षिपेत् ।
ततः पूर्वोक्तविधिना पिण्डं प्रेतकरे न्यसेत् ॥ ५९ ॥
आज्येनाभ्यञ्जनं कार्यं सर्वाङ्गेषु शवस्य च ।
दाहमृत्योरन्तराले विधिः पिण्डस्य तं शृणु ॥ ६० ॥
पूर्वोक्तैः पञ्चभिः पिण्डैः शवस्याहुतियोग्यता ।
अन्यथा चोपघाताच्च राक्षसाद्या भवन्ति हि ॥ ६१ ॥
संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम् ।
अभ्युक्ष्योपसमाधाय वह्निं तत्र विधानतः ॥ ६२ ॥
पुष्पाक्षतैश्च संपूज्य देवं क्रव्यादसंज्ञकम् ।
श्रौतेन तु विधानेन ह्याहिताग्निं दहेद्वुधः ॥ ६३ ॥
चण्डालाग्निं चिताग्निं च पतिताग्निं परित्यजेत् ।
त्वं भूतकृज्जगद्योनिस्त्वं लोकपरिपालकः ॥ ६४ ॥
उपसंहर तस्मात्त्वमेनं स्वर्गं नयामृतम् ।
इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत् ॥ ६५ ॥
अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः ।
अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः ॥ ६६ ॥
असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा तु नामतः ।
एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकम् ॥ ६७ ॥
रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत् ।
दाहस्यानन्तरं तत्र कृत्वा सञ्चयनिक्रियाम् ॥ ६८ ॥
प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग ।
ततः प्रदक्षिणं कृक्त्वा चिताप्रस्थानवीक्षकाः ॥ ६९ ॥
कनिष्ठपूर्वाः स्नानार्थं गच्छेयुः सूक्तजापकाः ।
ततो जालसमीपे तु गत्वा प्रक्षाल्य चांशुकम् ॥ ७० ॥
परिधाय पुनस्तच्च ब्रृयुस्तं पुरुषं प्रति ।
उदकं तु करिष्यामः सचैलं पुरुषास्ततः ॥ ७१ ॥
कुरुध्वमित्येव वदेच्छतवर्षावरे मृते ।
पुत्राद्या वृद्धपूर्वास्ते एकवस्त्राः शिखां विना ॥ ७२ ॥
प्राचीनावीतिनः सर्वे विशेयुर्मौनिनो जलम् ।
अपनः शोशुचदघमनेन पितृदिङ्मुखाः ॥ ७३ ॥
जलावघट्टनं चव न कुर्युः स्नानकारकाः ।
ततस्तटे समागत्य शिखां बद्ध्वा ऋजून् कुशान् ॥ ७४ ॥
दक्षिणाग्रहस्तयोस्तु कृत्वाथ सतिलं जलम् ।
आदायाञ्जलिना याम्यां दुः खी पैतृकतीर्थतः ॥ ७५ ॥
एकवारं त्रिवारं वा दशवारमथापि वा ।
भूमावश्मनि वा सर्वे क्षिपेयुर्वाग्यताः खग ॥ ७६ ॥
तृप्यन्तु तृप्यतां वापि तर्पयाम्युपतिष्ठताम् ।
प्रेतैतदमुकगोत्रेत्युक्तेष्वेवं समुच्चरेत् ॥ ७७ ॥
जलाञ्जलौ कृते पश्चाद्विधेयं दन्तधावनम् ।
त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप ॥ ७८ ॥
तत उत्तीर्योदकाद्वै वस्त्राणि परिधाय च ।
स्नानवस्त्रं सकृत्पीड्य विशेयुः शुचिभूतले ॥ ७९ ॥
अश्रुपातं न कुर्वीत दत्त्वा दाहजलाञ्जलिम् ।
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ॥ ८० ॥
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ।
ततस्तेषूपविष्टेषु पुराणज्ञः सुकृत्स्वकः ॥ ८१ ॥
शोकापनोदं कुर्वीत संसारानित्यतां ब्रुवन् ।
मानुष्ये कदलीस्तन्भे असारे सारमार्गणम् ॥ ८२ ॥
करोति यः स संमूढो जलबुद्वद्रसन्निभे ।
पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ॥ ८३ ॥
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ।
गन्त्री वसुमती नाशमुदधिर्दैवतानि च ॥ ८४ ॥
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ।
एवं संश्रावयेत्तत्र मृदुशाद्वलसंस्थितान् ॥ ८५ ॥
तेऽयि संश्रुत्य गच्छेयुर्गृहं बालपुरः सराः ।
विदश्य र्निबपत्राणि नियता द्वारि वेश्मनः ॥ ८६ ॥
आचम्य वह्निसलिलं गोमयं गौरसर्षपान् ।
दूर्वाप्रवालं वृषभमन्यदप्यथ मङ्गलम् ॥ ८७ ॥
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ।
श्रौतेन तु विधानेन आहिताग्निं देहद्वधः ॥ ८८ ॥
ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः ।
योषित्पतिव्रता या स्याद्भर्तारं यानुगच्छति ॥ ८९ ॥
प्रयोग पूर्वं भर्तारं नमस्कृत्यारुहेच्चितिम् ।
चितिभ्रष्टा तु या मोहात्सा प्राजापत्यमाचरेत् ॥ ९० ॥
तिस्रः कोट्योर्धकोटी य यानि लोमानि मानुषे ।
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ ९१ ॥
व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।
तद्वदुद्धृत्य सा नारी तेनैव सह मोदते ॥ ९२ ॥
तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः ।
क्रीडते पतिना सार्धं यावदिन्द्राश्चतुर्दश ॥ ९३ ॥
ब्रह्मघ्नो वा कृघ्नो वा मित्त्रिघ्नो वा भवेत्पतिः ।
पुनात्यविधवा नारी तमादाय मृता तु या ॥ ९४ ॥
मृते भर्तरि या नारी समारोहेद्धुताशनम् ।
सारन्धतीसमाचारा स्वर्गलोके महीयते ॥ ९५ ॥
यावच्चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् ।
तावन्न मुच्यते सा हि स्त्रीशरीरात्कथञ्चन ॥ ९६ ॥
मातृकं पैतृकं चैव यत्र चैव प्रदीयते ।
कुलत्रयं पुनात्येषा भर्तारं यानुगच्छति ॥ ९७ ॥
आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ ९८ ॥
पृथक्चितां समारुह्य न प्रिया गन्तुमर्हति ।
क्षत्त्रियाद्याः सवर्णाश्च आरोहेयुरपीह ताः ॥ ९९ ॥
चाण्डालीमवधिं कृत्वा ब्राह्मणीतः समो विधिः ।
अगर्भिणीनां सर्वासामबालताक्मे(का)नामपि ॥ १०० ॥
दहनस्य विधिः प्रोक्तः सामान्येन मया खग ।
विशेषमपि तस्यास्य कञ्चित्किं श्रोतुमिच्छति ॥ १०१ ॥
गरुड उवाच ।
प्रोषिते तु मृते स्वामिन्यस्थ्निनाशमुपेयुषि ।
कथं दाहः प्रकर्तव्यस्तन्मे वद जगत्पते ॥ १०२ ॥
श्रीकृष्ण उवाच ।
अस्थीनि चेन्न लभ्यन्ते प्रोषितस्य नरस्य च ।
तेषाञ्च हि गतिस्थानं विधानं कथयाम्यहम् ॥ १०३ ॥
शृणु तार्क्ष्य परं गोप्यं पत्युर्दुर्मरणेषु यत् ।
लङ्घनैर्ये मृता जीवां दंष्ट्रिभिश्चाभिघातिताः ॥ १०४ ॥
कण्ठग्रहे विलग्नानां क्षीणानां तुण्डघातिनाम् ।
विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः ॥ १०५ ॥
पतनोद्बन्धनजलैर्मृतानां शृणु संस्थितिम् ।
सर्पव्याघ्रैः शृङ्गिभिश्च उपसर्गोपलोदकैः ॥ १०६ ॥
ब्राह्मणैः श्वापदैश्चैव पतनैर्वृक्षवैद्युतैः ।
नखैर्लोहैर्गिरेः पातैर्भित्तिपातैर्भृगोस्तथा ॥ १०७ ॥
कट्वायामन्तरिक्षे च चौरचाण्डालतस्तथा ।
उदक्याशुनकीशूद्ररजकादिविभूषिताः ॥ १०८ ॥
ऊर्ध्वोचछिष्टाधरोच्छिष्टोभयोच्छिष्टास्तु ये मृताः ।
शस्त्रघातैर्मृता ये चास्यश्वस्पृष्टास्तथैव च ॥ १०९ ॥
तत्तु दुर्मरणं ज्ञेयं यच्च जातं विधैं विना ।
तेन पापेन नरकान् भुक्त्वा प्रेतत्वभागिनः ॥ ११० ॥
न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम् ।
न विधानं मृताद्यञ्च न कुर्या दौर्ध्वदैहिकम् ॥ १११ ॥
न पिण्डदानं कर्तव्यं प्रमादाच्चेत्करोति हि ।
नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ ११२ ॥
अतस्तस्य सुतैः पौत्त्रैः सपिण्डैः शुभमिच्छुभिः ।
नारायणबलिः कार्यो लोकगर्हाभिया खग ॥ ११३ ॥
तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः ।
कृते नारायणबलावौर्ध्वदेहिकयोग्यता ॥ ११४ ॥
तस्य सुद्धिकरं कर्म तद्भवेन्न तदन्यथा ।
नारायणबलिं सम्यक्तीर्थे सर्वं प्रक्पयेत् ॥ ११५ ॥
कृष्णाग्रे कारयेद्बिप्रैर्येन पूतो भवेन्नरः ।
पूर्वन्तु तर्पणं कार्यं विप्रैः पौराणवैदिकैः ॥ ११६ ॥
सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् ।
कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि ॥ ११७ ॥
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् ।
अनादिनिधनो देवः शङ्खचक्रगदाधरः ॥ ११८ ॥
अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ।
तर्पणस्यावसाने स्याद्वीतरागो विमत्सरः ॥ ११९ ॥
जितेन्द्रियमना भूत्वा शुचिष्मान्धर्मतत्परः ।
भक्त्या तत्र प्रकुर्वीत श्राद्धान्येकादशैव तु ॥ १२० ॥
सर्वकर्मविधाने एकैकाग्रे समाहितः ।
तोयव्रीहियवान्दद्याद्गोधूमांश्च प्रियङ्गवः ॥ १२१ ॥
हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च दापयेत् ।
दापयेत्सर्वसंस्यानि क्षीरं क्षौद्रसमान्वितम् ॥ १२२ ॥
वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् ।
द्पयेत्सर्वपापेभ्यो न कुर्यात्पङ्क्तिवञ्चनम् ॥ १२३ ॥
भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् ।
दातव्यं सर्वंविप्रेभ्यो वेदशास्त्रविधानतः ॥ १२४ ॥
शङ्खे खड्गेऽथ वा ताम्रे तर्पणञ्च पृथक्पृथक् ।
ध्यानधारणसंयुक्तो जानुभ्यामवनीं गतः ॥ १२५ ॥
ऋचा वै दापयेदर्घमर्घोद्दिष्टं पृथक्पृथक् ।
ब्रह्मा विष्णुश्च रुद्रश्च यमः प्रेतश्च पञ्चमः ॥ १२६ ॥
पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः ।
वस्त्रयज्ञोपवीतानि पृथङ्मुद्गाः पदानि च ॥ १२७ ॥
पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि ।
जलधारां ततः कुर्यात्पिण्डेपिण्डे पृथक्पृथक् ॥ १२८ ॥
शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मये पि वा ।
तिलोदकं समादाय सर्वोषधिमसन्वितम् ॥ १२९ ॥
ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् ।
दद्याद्ब्राह्मणमुख्याय पददानं तथैच ॥ १३० ॥
यमोद्देशेतिलांल्लौहं ततो दद्याच्च दक्षिणाम् ।
एवं विष्णुबलिं दत्त्वा यथाशक्त्या विधानतः ॥ १३१ ॥
समुद्धरति तत्क्षिप्रं नात्र कार्या विचारण नागदंशान्मृतो यस्तु विशेषस्तन्तु मे शृणु ॥ १३२ ॥
सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
विप्राय दत्त्वा विधिवत्पितुरानृण्यमाप्नुयात् ॥ १३३ ॥
एवं सर्पबलिं दत्त्वा सर्पदोषाद्विमुच्यते ।
पश्चात्पुत्तलकं कार्यं सर्वोषधिसमन्वितम् ॥ १३४ ॥
पलाशस्य च वृन्तानां विभागं शृणु काश्यप ।
कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ॥ १३५ ॥
शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः ।
विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् ॥ १३६ ॥
चत्वारिंशच्छिरोभागे ग्रीवायां दश विन्यसेत् ।
विंशत्युरः स्थले दद्याद्विंशतिञ्जठरे तथा ॥ १३७ ॥
बाहुद्वये शतं दद्यात्कटिदेशे च विंशतिम् ।
ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् ॥ १३८ ॥
दद्याच्चतुष्टयं शिश्ने षड्दद्याद्वृषाणद्वये ।
दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत् ॥ १३९ ॥
नारिकेलं शिरः स्थानें तुम्बं दद्याच्च तालुके ।
पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम् ॥ १४० ॥
अन्त्रेषु नालिकं तद्याद्वालुकाङ्घ्राणे एव च ।
वसायां मृत्तिकां दद्याद्धरितालमनः शिलाः ॥ १४१ ॥
पारदं रेतसः स्थाने पुरीषे पित्तलं तथा ।
मनः शिला तथा गात्रे तिलपक्वन्तु सन्धिषु ॥ १४२ ॥
यवपिष्टं यथा मांसे मधु शोणितमेव च ।
केशेषु च जटाजूटं त्वचायाञ्च मृगत्वचम् ॥ १४३ ॥
कर्णयोस्तालपत्रञ्च स्तनयोश्चैव गुञ्जिकाः ।
नासायां शतपत्रञ्च कमलं नाभिमण्डले ॥ १४४ ॥
वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम् ।
घृतं नाभ्यां प्रदेयं स्यात्कौ पीने च त्रपुस्मृतम् ॥ १४५ ॥
मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेव विलेपनम् ।
कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ॥ १४६ ॥
परिधानं पट्टसूत्रंहृदये चैव विन्यसेत् ।
ऋद्धिवृद्धी भुजौ द्वौ च चक्षुर्भ्याञ्च कपर्दकम् ॥ १४७ ॥
दन्तेषु दाडिमीबीजान्यङ्गुलीषु च चम्पकम् ।
सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकम् ॥ १४८ ॥
सर्वौषदियुतं प्रेतं कृत्वा पूजां यथोदिताम् ।
साग्निके चापि विधिना यज्ञपात्रं न्यस्येत्क्रमात् ॥ १४९ ॥
स्त्रियः पुनन्तु म शिर इमं मे वरुणेन च ।
प्रेतस्य पावनं कृत्वा शालग्रामशिलोदकैः ॥ १५० ॥
विष्णुमुद्दिश्य दातव्या सुशीला गौः पयस्विनी ।
तिला लौहं हिरण्यञ्च कर्पासं लवणं तथा ॥ १५१ ॥
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ।
तिलपात्रं ततो दद्यात्पददानं तथैव च ॥ १५२ ॥
कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थमात्मनः ।
प्रेतमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्यच ॥ १५३ ॥
एवं पुत्तलकं कृत्वा दाहयेद्विधिपूर्वकम् ।
तच्छ्रुद्धये तु संस्कर्ता पुत्रादिर्निष्कृतिं चरेत् ॥ १५४ ॥
त्रीन्कृच्छ्रान्षड्द्वादश च तथा पञ्चदशापि च ।
प्रायश्चित्तनिमित्तानुसारेण विप्रवत्स्मृतः ॥ १५५ ॥
अशक्तौ गोहिरण्यादि प्रत्याम्नायं चरेदपि ।
आत्मनोऽनधिकारित्वे शुद्धिमेवं चरेद्वुन्धः ॥ १५६ ॥
अशुद्धेन तु यद्दत्तमुद्दिश्याशुद्धिमेव च ।
नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ १५७ ॥
शुद्धिं सम्पाद्य कर्तव्यं दहनाद्यौर्ध्वदेहिकम् ।
अकृत्वा निष्कृतिं यस्तु कुरुते दहनादिकम् ॥ १५८ ॥
मतिपूर्वममत्या च क्रमात्तनिष्कृतिं शृणु ।
कृत्वाग्निमुदकं स्नानं स्पर्शनं वहनं कथाम् ॥ १५९ ॥
रज्जुच्छेदाश्रुपातञ्च तप्तकृच्छ्रेण शुध्यति ।
एषामन्यतमं प्रेतं यो वहेत्तु देहत वा ॥ १६० ॥
कटोदकक्रियां कृत्वा कृच्छ्र सान्तपनं चरेत् ।
निमित्ते लघुनि स्वल्पं महन्महति कल्पयेत् ॥ १६१ ॥
गरुड उवाच ।
कृच्छ्रस्य तप्तकृच्छ्रस्य तथा सान्तपनस्य च ।
लक्षणं ब्रूहि मे स्वामिंस्त्रयाणामपि सुव्रत ॥ १६२ ॥
श्रीकृष्ण उवाच ।
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
उपवासस्त्र्यहञ्चैव एष कृच्छ्र उदाहृतः ॥ १६३ ॥
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ १६४ ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनञ्चरन् ॥ १६५ ॥
मया तेऽयं समाख्यातो दुर्मृतस्य विधिः खग ।
तदा मृतं विजानीयाद्दीपनिर्वाणमागतः ॥ १६६ ॥
अग्निदाहं ततः कुर्यात्सूतकञ्च दिनत्रयम् ।
दशाहं गर्तपिणाडञ्च कर्तव्यं प्रेतपूर्वकम् ॥ १६७ ॥
एवं विधिं ततः कुर्यात्ततः प्रेतश्च मुक्तिभाक् ।
मृतभ्रान्त्या प्रतिकृतेः कृते दाहे स वै यदि ॥ १६८ ॥
आयाति तेन कर्तव्यं मज्जनं घृकुण्डके ।
जातकर्मादिसंस्काराः कर्तव्याः पुनरेव तु ॥ १६९ ॥
ऊढामेव स्वकां भार्यामुद्वहेद्विधिवत्पुमान् ।
वर्षे पञ्चदशे पक्षिन् द्वादशे वा गते सति ॥ १७० ॥
अज्ञातस्य प्रोषितस्य कृत्वा प्रतिकृतिं दहेत् ।
रजस्वलासूतिकयोर्विशेषं मरणे शृणु ॥ १७१ ॥
सूतिकायां मृतायान्तु एवं कुर्वन्ति याज्ञिकाः ।
कुम्भे सलिलमादाय पञ्चगव्यं तथैव च ॥ १७२ ॥
पुण्याभिरभिमन्त्र्यापो वाचा शुद्धिं लभेत्ततः ।
शतसूर्पोदकेनादौ स्नापयित्वा यथाविधि ॥ १७३ ॥
तेनैव स्नापयित्वा तु दाहं कुर्यात्स्वगेश्वर ।
पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् ॥ १७४ ॥
वस्त्रान्तराकृतिं कृत्वा दाहयेद्विधिपूर्वकम् ।
मृतस्य पञ्चके दाहविधिं वच्मि शृणुष्व मे ॥ १७५ ॥
आदौ कृत्वा धनिष्ठार्धमेतन्नक्षत्रपञ्चकम् ।
रेवत्यन्तं सदा दूष्यमशुभं सर्वदा भवेत् ॥ १७६ ॥
दाहस्तत्र न कर्तव्यो विषादः सर्वजन्तुषु ।
न जलं दीयते तेषु अशुभं सर्वदा भवेत् ॥ १७७ ॥
पञ्चकानन्तरं सर्वं कार्यं कर्तव्यमन्यथा ।
पुत्त्राणां गोत्रिणां तस्य सन्तापोऽप्युपजायते ॥ १७८ ॥
गृहे हानिर्भवत्येव ऋक्षेष्वेषु मृतस्य च ।
अथ वा ऋक्षमद्ये च दाहस्तु विधिपूर्वकः ॥ १७९ ॥
क्रियते मानुषाणान्तु स वा आहुतिपूर्वकः ।
विप्रैर्विधिरतः कार्यो मन्त्रैस्तु विधिपूर्वकम् ॥ १८० ॥
शवस्थानसमीपे तु क्षेप्तव्याः पुत्तलास्ततः ।
दर्भकॢप्तास्तु चत्वार ऋक्षमन्त्राभिमन्त्रिताः ॥ १८१ ॥
ततो दाहः प्रकर्तव्यस्तैश्च पुत्तलकैः सह ।
सूतकान्ते तदा पुत्त्रैः कार्यं शान्तिकपौष्टिकम् ॥ १८२ ॥
पञ्चकेषु मृतो योऽसौ न सतिं लभते नरः ।
तिलान् गाञ्च सुवर्णञ्च तमुद्दिश्य घृतं ददेत् ॥ १८३ ॥
विप्राणां दापयेद्दानं सर्वविघ्नविनाशनम् ।
भोजनोपानहौच्छत्त्रं हेममुद्रा च वाससी ॥ १८४ ॥
दक्षिणा दीयते विप्रे पातकस्य प्रमोचनः ।
मयातेऽयं समाख्यातो विधिः पञ्चहरः स्थितः ।
संयमिन्यां यथायानं यथावर्षं मृतक्रिया ॥ १८५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दहनविधिकृच्छ्रलक्षणदग्धागमनरजस्वलामरणविधिपञ्चकमरणप्रायश्चित्तनिरूपणं नाम चतुर्थोऽध्यायः