गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →

।। अथ त्रयोदशोऽध्यायः ।।
व्यास उवाच ।।
पञ्चास्य चतुरास्यश्च सहस्रमस्तकोपि च ।
गजास्यं वरदं देवं कथमेते प्रतुष्ठुवुः ।।१।।
ब्रह्मोवाच ।।
प्रसादोन्मुख विघ्नेश कृपापाङ्ग निरीक्षणात् ।
प्राप्तबुद्धि प्रसादास्ते केशास्तंनुनुवुस्तदा ।।२।।
ब्रह्मविष्णुमहेशा ऊचुः ।।
अजं निर्विकल्पं निराकारमेकं निरानन्दमद्वैतमानन्द पूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ।।३।।
गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यमम् ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ।।४।।
जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ।।५।।
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदाकार्यसक्तं हृदाचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नतास्मः ।।६।।
सदासत्त्वयोगं मुदाक्रीडमानं सुरारीन्हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं सदाविष्णुरूपं गणेशं नमामः ।।७।।
तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैःस्वं जनं बोधयन्तं सदाशर्वरूपं गणेशं नमामः ।।८।।
तमस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरेविकारं सदाब्रह्मरूपं गणेशं नमामः ।।९।।
निजैरोषधीस्तर्पयन्तं करोघैः सरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशु सन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः ।।१०।।
प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभुतम् ।
अनेकक्रियानेकशक्तिस्वरूपं सदाशक्तिरूपं गणेशं नमामः ।।११।।
प्रधानस्वरूपं महतत्वरूपं धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं सदाविश्वरूपं गणेशं नतास्मः ।।१२।।
त्वदीये मनःस्थापयेदङ्घ्रियुग्मे जनोविघ्नसङ्घान् नपीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोयं जनोध्वान्त पीडां कथं वा लभेत ।।१३।।
वयं भ्रामिताः सर्वथा ज्ञानयोगादलब्धातवाङ्घ्रि बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात् प्रपन्नान् सदा पाहि विश्वंभराद्य ।।१४।।
ब्रह्मोवाच ।।
एवं स्तुतो गणेशस्तु संतुष्टोभून्महामुने ।
कृपया परयोपेतोभिधातुं तान् प्रचक्रमे ।।१५।।
गणेश उवाच ।।
यदर्थं क्लेशिता यूयं यदर्थमिहचागताः ।
प्रीतोहमनयास्तुत्या वरंमत्तोवृणीततम् ।।१६।।
कृतं च मम यत् स्तोत्रं भवद्भिर्भावितात्मभिः ।
स्तोत्रराजमितिख्यातं भविष्यति ममाज्ञया ।।१७।।
इदं यः पठेत् प्रातरुत्थायधीमां स्त्रिसन्ध्यं सदा भक्तियुक्तो विशुद्धः ।
सपुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदन्तकाले ।।१८।।
ब्रह्मोवाच ।।
इति तद्वचनं श्रुत्वा सन्तुष्टास्ते तमब्रुवन् ।
तदीक्षया रजःसत्त्वतमोगुणसमुद्भवाः ।।१९।।
त्रयऊचुः ।।
यदि तुष्टोसि देवेश सृष्टिसंहारकारक ।
तवाङ्घ्रि कमलेनोस्तु भक्तिरव्यचिभारिणी ।।२०।।
किं चास्मांभिः प्रकर्तव्यमाज्ञापयतु नो भवान् ।
अयमेव वरोस्माकं वाञ्छितोद्विरदानन ।।२१।।
इति श्रुत्वा वचस्तेषां पुनः प्राह गजाननः ।
भविष्यति महाभागा मयिभक्तिर्दृढाहिवः ।।२२।।
संकष्टानि यथा यूयं तरिष्यथ महान्त्यपि ।
भवत् ख्यात्यै प्रवक्ष्यामि कार्याणि च पृथक् पृथक् ।।२३।।
सृष्टिकर्ता भव ब्रह्मन् रजोगुण समुद्भवः ।
पालनं कुरु विष्णोत्वं व्यापकः सत्त्वसंश्रयः ।।२४।।
हर संहर सर्वं त्वं तमोगुण समुद्भवः ।
ब्रह्मोवाच ।।
वेदशास्त्रपुराणानि सृष्टिसामर्थ्यमेव च ।।२५।।
ददौ गणेशोन्यां विद्यां ब्रह्मणे परमात्मने ।
विष्णवे भगवान् प्रादात् योगात्स्वच्छन्द रूपताम् ।।२६।।
एकाक्षरं षडर्णं च मन्त्रं सर्वागमांस्तथा ।
हराय भगवान्प्रादाच्छक्तिं संहरणेपि च ।।२७।।
ततोब्रह्मादीनमनास्त्रैलोक्येशं जगद्गुरुम् ।
उवाच प्राञ्जलिर्भूत्वा वरदं तमिभाननम् ।।२८।।
ब्रह्मोवाच ।।
यथागृहीतशक्तिस्तु वाच्यावाच्यं विवक्तिन ।
तथानेकविधां सृष्टिमदृष्ट्वा क्वापि किञ्चन ।।२९।।
कर्त्तुं वापि विभोराज्ञा विभेदं कथमुत्सहे ।
इतः कूप इतोवापीत्येवं प्राप्तं मया कथम् ।।३०।।
ततो गजाननः प्राह दिव्यं चक्षुः प्रदायतम् ।
ब्रह्माणं वेदशास्त्रज्ञं तथा व्याकुलितं प्रभुः ।।३१।।
गजानन उवाच ।।
बहिरन्तः शरीरेमे संख्यातीतानि पद्मज ।
ब्रह्माण्डानि त्वमद्यैव विभ्रमन्ति विलोकय ।।३२।।
ब्रह्मोवाच ।।
ततो गजाननेना सौ स्वोदरे श्वासवायुना ।
नीतो ददर्श धातापि ब्रह्माण्डानि त्वनेकशः ।।
औदुम्बराणीवतरौ तेषु वा मशकानिव ।।३३।।
भेदयामास तत्रैकं परमेण स्वतेजसा ।
तदन्तः सकलां सृष्टिं ददर्श कमलासनः ।।३४।।
ब्रह्माणं चा परं तत्र विष्णुमिन्द्रं प्रजापतिम् ।
शंकरं भाष्करं वायुं वनानि सरितोम्बुपम् ।।३५।।
सागरान् यक्षगन्धर्वानप्सरः किन्नरोरगान् ।
ऋषीन्पुण्यजनान्साध्यान्मनुष्यान्पर्वतान्द्रुमान् ।।३६।।
उद्भिजान्जारजान्जन्तून् स्वेदजानण्डजानपि ।
पृथ्वीं च सप्तपातालान्यव्ययान्येकविंशतिम् ।।३७।।
ददर्श विश्वं चाहं वै भावाभावं चराचरम् ।।३८।।
यद्यद्ब्रह्मा भेदयामास चाण्डं तस्मिंस्तस्मिन् सर्वमेवं ददर्श ।
दृष्ट्वा भ्रान्तिं पूर्ववत्संप्रपेदे तेषामन्तं सर्वथा नाध्यगच्छत् ।।३९।।
न स्थातुं नैव वा गन्तुं शशाक कमलासनः ।
उपविश्य ततो ब्रह्मा तुष्टावद्विरदाननम् ।।४०।।
ब्रह्मोवाच ।।
वन्दे देवं देवदेवं गणेशं ब्रह्मण्डानां नैव संख्यायदंगे ।
अभ्रोडुनां सागरे वा झषाणां कः संख्याता शर्कराणां च तीरे ।।४१।।
लज्जा नमेत्रास्ति सुरेन्द्रवन्द्य पादारविन्दं तव यद्विलोक्य ।
भ्रान्तो भवं ज्ञाननिधौ प्रसन्ने मोक्षोपि तुच्छः किमुतान्यवार्त्ता ।।४२।।
दृष्टं च नानार्थ युतं सुरेश ब्रह्माण्डकूटं जठरे त्वदीये ।
स्थातुं बहिर्गन्तुमपीहनेशस्त्वदन्यदेवं शरणं नवेद्मि ।।४३।।
ततः प्रसन्नो भगवाननन्तो वै गजाननः ।
बहिर्निष्कासयामास ब्रह्माणं खिन्नमानसम् ।।४४।।
नासिकारन्ध्र मार्गेण हरिं तदनुयायिनम् ।
तामसं च हरं देवो ब्रह्मणासह संगतम् ।।४५।।
निःसारयामास विभुः श्रुतिरन्ध्राद्गजाननः ।
शयातेस्मतदंगेता बुभौहरिहरौसुखम् ।।४६।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मस्तुति वर्णनं नाम त्रयोदशोऽध्यायः ।।१३।।