सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →

।। अथ चतुर्दशोऽध्यायः ।।
राजोवाच ।।
ततः किमकरोद् ब्रह्मा वीक्ष्यांडानि सहस्रशः ।
कथं च सृष्टिमकरोदाज्ञां प्राप्य गजाननात् ।।१।।
भृगुरुवाच ।।
अभवद्गर्वसंपन्नः स्वात्मन्येवं विचारयत् ।
वेद्मिशास्त्राणिवेदांश्च पुराणान्यागमानपि ।।२।।
ज्ञानविज्ञानसंपन्नः शापानुग्रहशक्तिमान् ।
ब्रह्माण्डानि च दृष्टानि सृष्टीनां रचनास्तथा ।।३।।
इदानीं सृष्टिकरणेऽशक्यं मे नैव किञ्चन ।
इत्येवं गर्वसम्पन्ने सृष्ट्यर्थं कमलोद्भवे ।।४।।
विघ्ना नानाविधा भूप प्रादुरासन्सहस्रशः ।
तं वेष्टयित्वा ब्रह्माणं स्थिताः परमदारुणाः ।।५।।
यथामत्ताः पुष्परसैः सरधा मधुजालकम् ।
त्रिनेत्राः पञ्चहस्ताश्च कूपास्याः सप्तपाणयः ।।६।।
त्र्यन्ध्रयः पञ्चतुण्डाश्च सप्ततुण्डाः षडङ्घ्रयः ।
दशास्याः पञ्चपादाश्च तालदन्ता वृकोदराः ।।७।।
नानारूपा महासत्वाः संख्यातुं न च ते क्षमाः ।
चकम्पे द्रुहिणस्तेषां नानारावान्निशम्यतान् ।।८।।
केचित्तं मुष्टिभिर्जघ्नुर्नेमुश्चनुनुवुः परे ।
चतुःशिखासु संगृह्य दोलयामासुरादरात् ।।९।।
चत्वार्यपि मुखान्यस्य जहसुस्तं तथापरे ।
निनिन्दुश्च प्रशंसां च चक्रुः केचिन्सिषेविरे ।।१०।।
मोचयामासुरपरे बबन्धुरपरे पुनः ।
मोचितुं पुनरप्यन्ये विचकर्षुरितस्ततः ।।११।।
आलिलिंगुश्च तं केचिच्चुचुम्बुः शिशुवत्परे ।
अष्टश्मश्रुषुतं धृत्वा ननर्ते कोष्टहस्तवान् ।।१२।।
एवं स परवान् ब्रह्मा चिन्ताशोक समन्वितः ।
अखर्वं सृष्टिगर्वं तं तत्याज हृदिसंगतम् ।।१३।।
जगाम महतीं मूर्छां निराशः स्वस्यजीवने ।
मुहूर्तमात्रे तु गते सस्मार मनसा विभुम् ।।
प्रार्थयामास कारुण्याद्रुदन्निव गजाननम् ।।१४।।
ब्रह्मोवाच ।।
न चायुष्यं स्वल्पं विविध जनने सक्त मनसो,
न मे तत्त्वज्ञानं भवजलधितारं सुविमलम् ।
जनुर्भूमौ लब्ध्वा तव भजनतो यामि परमां,
कदा भुक्तिं मुक्तिं निरुपम सुखां वा खिलगुरो ।१५।।
त्वत्कटाक्षामृतेनाक्तो भक्तः सीदति ते विभो ।
इयं लज्जातवैवास्तां न मे मृत्युश्चिरायुषः ।।१६।।
भृगुरुवाच ।।
इत्यसौ प्रार्थयन्नेव शुश्राव गगनेरिताम् ।
गिरं तपस्वेति ततः प्रार्थयामास तां पुनः ।।१७।।
अन्तर्हिताश्च ते विघ्नाः श्रुतायां नभसोगिरि ।
नानारूपा महावीर्या मुक्त्वा तं कमलासनम् ।।१८।।
स मुक्तश्चिन्तयामास पद्मयोनिर्महायशाः ।
विनामन्त्रं विनास्थानं कथं तप्स्ये तपो महत् ।।१९।।
इति व्याकुल चित्तोसौ बभ्राम जलमध्यतः ।
अनन्य मनसा ध्यायन् गजाननमनामयम् ।।२०।।
मुकुटेन विराजन्तं मुक्तारत्नयुजा शुभम् ।
रक्तचन्दन लिप्ताङ्गं सिन्दूरारुणमस्तकम् ।।२१।।
मुक्तादामलसत्कण्ठं सर्पयज्ञोपवीतिनम् ।
अनर्घ्य रत्नघटित बाहुभूषणभूषितम् ।।२२।।
स्फुरन्मरकतभ्राजदंगुलीयक शोभितम् ।
महा हि वेष्टित बृहन्नाभिशोभिमहोदरम् ।।२३।।
विचित्र रत्नखचित कटिसूत्र विराजितम् ।
सुवर्णसूत्र विलसद्रक्तवस्त्रसमारतम् ।।२४।।
भालचन्द्रं लसद्दन्तन्त शोभाराजत्करं परम् ।
एवं ध्यायति तस्मिंस्तु पुनरेव नभो वचः ।।२५।।
उदियाय वटं पश्य वटं पश्येति सुन्दरम् ।
श्रुत्वेति वचनं ब्रह्मा पुनश्चिन्तामवाप सः ।।२६।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मचिन्तावर्णनं नाम चतुर्दशोऽध्यायः ।।१४।।