गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →

।। अथ द्वादशोऽध्यायः ।।
सूत उवाच ।।
इति श्रुत्वा तु वचनं निर्गतं ब्रह्मणोमुखात् ।
हर्षेण महतायुक्तो मुनिः पप्रच्छ तं पुनः ।।१।।
व्यास उवाच ।।
अवधानं मया प्राप्तं पीत्वावागमृतं तव ।
इदानीं श्रोतुमिच्छामि मन्त्रराजमिमंपितः ।।२।।
को जजाप कथं सिद्धिमवाप च गजाननात् ।
एतं मे संशयं च्छिन्धि त्वत्तोन्योनास्ति मे गुरुः ।।३।।
भृगुरुवाच ।।
इत्येवं मुनिना पृष्टोसौ जगाद वदतां वरः ।
कृपयावनतं ब्रह्मा तं व्यासं राजसत्तम ।।४।।
ब्रह्मोवाच ।।
साधुसाधु त्वया पृष्टं पुण्यवानसि साम्प्रतम् ।
नह्यपुण्यवतां ब्रह्मन् कथायाः श्रवणेरतिः ।।५।।
उपासनामार्गमिमं सम्यक्त्वां बोधयाम्यहम् ।
स्निग्धे प्रज्ञाधिके शिष्ये यतो गोप्यं न किञ्चन ।।६।।
ॐकाररूपीभगवानुक्तस्ते गणनायकः ।
यथा सर्वेषु कार्येषु पूज्यते सौ विनायकः ।।७।।
निर्विघ्नकामनावद्भिर्नोचेद्विघ्नं करोति सः ।
तथोंकारबीजयुक्त ॐकारपल्लवान्विताः ।।८।।
मन्त्राः सर्वागमेप्रोक्ता अन्ये ये निष्फलाश्च ते ।
सदसद्व्यक्तमव्यक्तं सर्वं हि गणनायकः ।।९।।
एवं सर्वे देवसिद्धमुनिराक्षसकिन्नराः ।
गन्धर्वाश्चारणानागायक्षगुह्यकमानवाः ।।१०।।
उपासका गणेशस्य सर्वेलोकाश्चराचराः ।
अतएव गणेशाद्धि परं किञ्चिन्नविद्यते ।।
इदानीं कथयिष्यामि कथामेकां पुरातनीम् ।।११।।
मन्त्रराज जपेनायं यथा तुष्टो गजाननः ।
कदाचिद्दैवयोगेन प्रलये समुपस्थिते ।।१२।।
वायुभिः पर्वताभिन्नाः पतिताः परितोदिशम् ।
तपन्ति द्वादशादित्याः शोषयित्वा जलं महत् ।।१३।।
ज्वालामाली महावह्निरखिलं ज्वलयत्यपि ।
संवर्तका महामेघा वर्षन्ति परितोजलम् ।।१४।।
हस्तिहस्तोपमाभिस्तु धाराभिर्द्विजसत्तम ।
उल्लङ्घयन्ति मर्यादां सागराः सरितोपि च ।।१५।।
एवं सर्वे विनश्यन्ति आब्रह्मस्थावरादयः ।
एवं मायामये नष्टे विकारेसौ गजाननः ।।१६।।
अणुभ्योणुतरं रूपं कृत्वा क्वापि व्यवस्थितः ।
ततः काले बहुतरेगतेन्ध तमसावृते ।।१७।।
एकाक्षरं पुनर्ब्रह्म नादयुक्तमजायत ।
वैकारिकं पुनारूपं यदानन्दमयं स्थितम् ।।१८।।
मायाविकारमासाद्यतदेवाभूद्गजाननः ।
तत एव च संभूता गुणाः सत्वंरजस्तमः ।।१९।।
ततस्त्रयः समुत्पन्ना विष्णुर्ब्रह्मा हरोपि च ।
मायया रचितं सर्वं त्रैलोक्यं सचराचरम् ।।२०।।
ततस्तन्मायया भ्रान्ता बभ्रमुस्ते सुरास्त्रयः ।
तमेव जनकं स्वस्य द्रष्टुं प्रष्टुं समुत्सुकाः ।।२१।।
किमस्माभिः कर्मकार्यमिति जिज्ञासया मुने ।
एकविंशति स्वर्गाणि पूर्वमूर्ध्वं विलोक्यते ।।२२।।
अन्तरीक्षं तथा तिर्यक् पश्चात् पातालमाययुः ।
अदृष्ट्वा परमात्मानं तपश्चेरुस्ततो भृशम् ।।२३।।
निराहारा जपपरा दिव्यवर्ष सहस्रकम् ।
श्रान्ताः खेदमनुप्राप्तास्ततस्ते पृथिवीं पुनः ।।२४।।
विचिन्वतो ययुर्द्रष्टुं वनान्युपवनानि च ।
सरितः सागरान् शैलान् शिखराणि गुहापि च ।।२५।।
ततो जलाशयं ते तु महान्तं ददृशुः सुराः ।
नानाजलचरैर्वृक्षैः पक्षिभिर्विविधैर्युतम् ।।२६।।
बलाकाभिश्चक्रवाकैर्हंसैः कारण्डकैरपि ।
नादितं नलिनीजालं बिसखण्डाशनेरतैः ।।२७।।
स्नात्वा विश्रम्य तत्तीरे समुत्तीर्य पुरो ययुः ।
नानावीचि समायुक्तं महान्तं तं जलाशयम् ।।२८।।
सुदुस्तरतरं पुंसां झषनक्रसमाकुलम् ।
ईक्षांचक्रु सुदुर्दर्शं प्रलयानल सन्निभम् ।।२९।।
कोटिसूर्यप्रतिकाशं तेजाराशिं पुरो मुने ।
चिन्तामापुः परां ते तु तेजसा हृतदृष्टयः ।।३०।।
ततो गगन मार्गेण तेजो मध्याद्विनिर्गताः ।
क्षुधातृषापरिश्रान्ता निश्वसंतो मुहुर्मुहुः ।।३१।।
निन्दन्तश्च शपन्तश्च स्वात्मानं जातसाध्वसाः ।
ततोति करुणाविष्टो लोकाध्यक्षो खिलार्थवित् ।।३२।।
दर्शयामास तान् रूपं मनोनयन नन्दनम् ।
पादाङ्गुलीनखश्रीभिर्जितरक्ताब्जकेसरम् ।।३३।।
रक्ताम्बर प्रभावात्तु जितसन्ध्यार्कमण्डलम् ।
कटिसूत्रप्रभाजालैर्जितहेमाद्रिशेखरम् ।।३४।।
खड्गखेटधनुःशक्तिशोभिचारुचतुर्भुजम् ।
सुवासं पूर्णिमाचन्द्र जितकान्ति मुखाम्बुजम् ।।३५।।
अहर्निशं प्रभायुक्तं पद्मचारु सुलोचनम् ।
अनेकसूर्यशोभाजिन्मुकुटभ्राजिमस्तकम् ।।३६।।
नानाताराङ्कित व्योम कान्तिजिदुत्तरीयकम् ।
वराहदंष्ट्राशोभाजिदेकदन्त विराजितम् ।।३७।।
ऐरावतादि दिक्पाल भयकारिसु पुष्करम् ।
दृष्ट्वैव सहसा देवं प्रणेमुस्तेमुदामुने ।
पादाम्बुजमुपस्पृश्य ततस्तोत्रं प्रचक्रमुः ।।३८।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे गजाननदर्शनं नाम द्वादशोऽध्यायः ।।१२।।