क्रियाधिकारः/षष्ठोऽध्यायः

विकिस्रोतः तः
← पञ्चमोऽध्यायः क्रियाधिकारः
षष्ठोऽध्यायः
[[लेखकः :|]]
सप्तमोऽध्यायः →


षष्ठोऽध्याय:
ध्रुवबेरलक्षणम्
अत: परं प्रवक्ष्यामि ध्रुवबेरस्य लक्षणम्।
(1)तद्धामगर्भाधिष्ठानद्वारकर्तृवशात्तथा ।। 6.1 ।।
लब्धाख्यमानमात्रंश्च बुद्धिमान् भाजयेत्समम्।
परिहत्याङ्गुलिच्छेदं वृद्ध्या हान्याऽथवा पुन: (1.) ई. धामगर्भस्वधिष्ठान ।। 6.2 ।।
योज्यं त्याज्यं क्रमादेव युग्मायुग्माङ्गुलै: परम्।
(योज्यं युग्माङ्गुलादूर्ध्वं त्याज्यमेकाङ्गुलात्परम्।)
आयव्ययर्क्षवाराष्टयोन्यंशमशुभं त्यजेत् ।। 6.3 ।।
बेरोदयेऽष्टनन्दाग्निहते चाष्टार्कभाजिते।
धनर्णयोनय: प्रोक्ता: आयाधिक्यं शुभं भवेत् ।। 6.4 ।।
उत्सेधेऽष्टगुणे चैव सप्तविंशतिभांजिते।
शिष्टमश्वयुगाद्यन्तु नक्षत्रञ्च चतुर्गुणे ।। 6.5 ।।
हृते नन्दैस्तदुद्दिष्टमंशकं तस्करादिकम्।
भुक्तिशक्तिधनोर्वीशक्लीबाभीत्यधनाऽऽह्वया: ।। 6.6 ।।
प्रेष्यश्चैव क्रमात्तेषां स्वनामसृशं (2)फलम्।
वारं नवगुणे तुङ्गं सूर्याद्यं सप्तभिर्हृते (2.) आ. फलम् ।। 6.7 ।।
तदेव नवधा प्रोक्तं (1)त्र्यंशके तत्तदन्तरे।
(2)स्तम्भोत्सेधं सपादञ्च सार्धं चैवाधमं क्रमात् (1.) ख. त्र्यंशके न तदन्तरे. (2.) ख. ततोत्सेधं ।। 6.11 ।।
तथा द्वारवशाच्चैव अधिष्ठानवशादपि।
(3)यजमानसमं चापि ध्रुवबेरमुदाहृतम् (3.) ई. यजमानवशात्. ।। 6.12 ।।
हस्तेनाङ्गुलिभिश्चैव केचिदाहुर्ध्रुवोदयम्।
(तिथिपङ्क्तीषुहस्तैश्च श्रेष्ठमध्यकनिष्ठका:।
एकत्रिंशाङ्गुलादूर्ध्वं षट्षङ्गुलवर्धनात् ।)
सप्ताधिंकाङ्गुलासीतिशतान्तं प्रतिमोदयम् ।। 6.13 ।।
(4)अन्यांशेषु युगान्यर्क्षभागेषु स्थावरोदयम्।
जङ्गमबेरलक्षणम्
जङ्गमानां तदेकांश (5)मुत्सेधं परिकीर्तितम् (4.) ख. मुन्यंशेषु च गण्येकवेदांशं (5.) ख. एकांशं ।। 6.14 ।।
ध्रुववेराग्निभागे तु द्विभागं परिगृह्य च।
तद्विभागं त्रिधा कृत्वा समस्तञ्चोत्तमं भवेत् ।। 6.15 ।।
द्विभागं मध्यमं प्रोक्तमेकभागं तथाऽधमम्।
(6)कर्मार्चार्चोत्सवानाञ्च मानं वै रामकृष्णयो: (6.) ख. कर्मध्रुवार्चौत्सवानां
।। 6.16 ।।
एकबेरं ध्रुवं चेत्स्यात्तत्समं चौत्सवं मतम्।
ध्रुवबेरामुखोत्सेधं बलिबेरं प्रकल्पयेत् ।। 6.17 ।।
कौतुकार्धं त्रिभागैकभागं वा बलिबेरकम्।
यदाकरं ध्रुवाकारं तदाकारञ्च कौतुकम् ।। 6.18 ।।
आसने स्थानकं वाऽथ शयने स्थानकासने।
एवं कौतुकमुद्दिष्टं स्न्नापनं स्थानकं भवेत् ।। 6.19 ।।
कौतुकं विष्णुमूर्तिस्स्याद् ध्रुवयोर्मत्स्यकूर्मयो:।
अन्येषामवताराणां तद्वद्वा विष्णुमेव वा ।। 6.20 ।।
मत्स्यकूर्मवराहाणां नृसिंहस्य च कल्किन:।
विष्णुमेवौत्सवं कुर्याज्जमग्निसुतस्य च ।। 6.21 ।।
ध्रुवे निरायुधे रामं कुर्यात्सायुधमौत्सवम्।
ध्रुवबरे तथा कृष्णे (1)सायुधे च निरायुधे (1.) विष्णौ. ख. ।। 6.22 ।।
कृष्णरुपेष्वसंख्येषु क्रीडायष्टिधरं परम्।
पार्थसारथिरूपं वा कुर्यादौत्सवमत्र तु ।। 6.23 ।।
स्नापनं सर्वमूर्तीनां स्थानकं स्याच्चतुर्भुजम्।
देवे स्थिते स्थिते देव्यावासीने स्थानकासने ।। 6.24 ।।
विपरीतं न कुर्वीत यदि कुर्याद्विनश्यति।
सर्वत्र देवीसंयुक्तौ कारयेत्कौतुकौत्सवौ ।। 6.25 ।।
सदार्चां बलिबेरञ्च देवीरहितमाचरेत्।
पौरणिकस्थलबेरेषु विशेष:
पौराणिकेषु स्थानेषु यथापूर्वं तथा चरेत् ।। 6.26 ।।
अविधिकमलक्षण्यमप्रयुक्तं न दोषकृत्।
आयादि षट्शुभापेक्षा (2)नेष्यते कौतुकादिषु (2.) अन्येषां आ. ।। 6.27 ।।
परिवारबेरलक्षणम्
बाह्वन्तं वा स्तनान्?तं बा नाभ्यन्तं वा ध्रुवस्य च।
भक्तानां परिवाराणां ध्रुवबेरोदयं मतम् ।। 6.28 ।।
तत्तद्ध्रुवानुरूपाणि कौतुकानि च कारयेत्।
देव्योर्मानलक्षणम्
देवस्य कर्णसीमान्तं बाह्वन्तं वा यथाविधि ।। 6.29 ।।
हिक्कान्तं वाऽथ नाभ्यन्तं देवीमानपुदाहृतम्।
बलिबेरार्चयोर्देव्यौ नैव कुर्याद्विचक्षण: ।। 6.29 ।।
एवं बेराणि कृत्वैव शिल्पशास्त्रोक्तमार्गत:।
पीठसङ्घात:
प्रभां पीठञ्च कृत्वैव तत्तदुक्तप्रकारत: ।। 6.39 ।।
नवरत्नानि स्न्न्यस्य पीठे सङ्घातमाचरेत्।
के चित्पद्मादध: पीठं पृ?थगिच्छन्ति सत्तमा: ।। 6.32 ।।
स्थापिते तु पृथक्कृत्वा (1)न पुनर्योजयेत्सुधी:।
(2)अमन्त्रकाक्ष्युन्मेषान्ते प्रतिष्ठां पुनराचरेत्(3) (1.) न पीठे योजपेद् ध्रुवं (2.) अत्राक्ष्युन्मेषणान्ते तु. अ. (3.) अत्र 8 अध्यायसमाप्ति: ख. ।। 6.33 ।।
प्रतिष्ठामुहूर्त विचार मासेषु फाल्गुने चैत्रे ज्येष्ठे वैशाखतिष्ययो:।
(4)उत्तमं श्रावणे मध्यं कार्तिकाश्वयुजोरपि (4.) उत्तरायणकाले तु उत्तमं समुदीरितम्। दक्षिणे श्रावणे चैव कार्तिकाश्वयुजोरपि। एवं मध्यममुद्दिष्टं प्रतिष्ठादिषु कर्मसु. ख.
।। 6.34 ।।
अधमं भाद्रपादेऽपि तथाऽऽषाढे तु मासि वै।
मार्गशीर्षञ्च माघञ्च वर्जयित्वा विचक्षण: ।। 6.35 ।।
(शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मति:) शुक्लपक्षे तथा कृष्णे त्रिभागे त्य्रंशकं विना।
रेवतीरोहिणीतिष्यस्वातीश्रवणवासवा: ।। 6.36 ।।
चित्राश्विनीशतभिषक्पुनर्वस्वैन्दवादिषु।
कृत्तिका नवमी शस्ता दुर्गाया: कार्तिकेऽपि च ।। 6.37 ।।
प्रतिष्ठा भास्वतश्शस्ता खौ सिहंगते तथा।
फाल्गुनोत्तरुल्गुन्यो: श्रीप्रतिष्ठा प्रशस्यते ।। 6.38 ।।
(रौद्रं रुद्प्रतिष्ठायां माघमासं च कथ्यते।
श्रवणं चाश्वयुङ्मासं मत्स्यादिस्थापनाविधौ ।। 6.39 ।।
अनन्धकाणनक्षत्रे करणे च शुभोदये।
त्रिजन्मसु प्रतिष्ठा स्याद्यजमानस्य भूपते: ।। 6.40 ।।
काव्यजीवज्ञवारांशहोराद्रेक्काणराशिषु।
बुधवारांशकादींस्तु प्रशंसन्ति मनीषिण: ।। 6.41 ।।
तिथ्य: षष्ट्यष्टमीपर्वरिक्तानन्दातिथिष्वपि।
चरेषु करणेष्वेव शुभयोगेष्वविष्टिषु ।। 6.42 ।।
तिथिवारर्क्षयोगादिदोषैरपि विवर्जिते(1)।
रव्यादयो ग्रहास्सर्वे चन्द्रे रिक्तेऽष्टमे ग्रहै: (1.) संसर्पाहरस्पती मासौ समदृष्टिश्च मन्त्रिणो:। मौढ्येन वाधितत्वे वा तयोरपि विशेषत:। अर्काद्यधिष्ठितर्क्षेभ्यो ये दोषा: कण्टकादय:। व्यपौह्यैव च तत्सर्वं राशावूर्ध्वोदये तथा इति अधिकं. आ. ।। 6.43 ।।
त्रिषडायगतै: पापै: शुभै: केन्द्रत्रिकोणगै:।
शुभर्युक्तेऽथवा दृष्टे कामशुक्रविवर्जिते ।। 6.44 ।।
प्रतिष्ठां देवदेवस्य कुर्यात्पूर्वाह्र एव वै।
क्रत्विग्वरणम्
तस्मात्तु दिवसात्पूर्वं वरयेद्गुरुमत्वर: ।। 6.45 ।।
पूर्वोक्तलक्षणोपेतानृत्विज: स्थापकानपि।
श्वेतपुष्पानुलेपैश्च श्वेतवस्त्राङ्गुलीयकै: ।। 6.46 ।।
आचार्यादीन् समभ्यर्च्च नमस्कृत्य स्वदेववत्।
'कर्मेदं मे कुरु' ष्वेति याच्रेदाचार्यमादरात् ।। 6.47 ।।
'तथि'ति तेऽपि सङ्कल्प्य कृत्वा चैवाङ्कुरार्पणम्।
ऋत्विजां नियमा:वापयित्वा ततस्सर्वे केशश्मश्रुनखानि च ।। 6.48 ।।
शुद्धास्त्रिषवणस्नाता: सूक्ते पौरुषवैष्णवे।
जपन्त: पावमान्याख्यां यजूर्वेदस्य संहिताम् ।। 6.49 ।।
ब्रह्मयज्ञं च कुर्वन्तस्सूक्तैर्द्वादशभिस्तथा।
द्वादशसूक्तानि जपे 'दृतं च स्तयं च' तथा 'देवकृतस्य' च ।। 6.50 ।।
'यन्मे गर्भा' दि सूक्तं च 'तरत्सम' मत: परम्।
'वसो: पवित्र' मित्यादि 'जातवेदस' इत्यपि ।। 6.51 ।।
विष्णेर्नुकादिसूक्तं च पौरुषं सूक्तमेव च।
एकाक्षरादिसूक्तं च ध्रुवसूक्तमत: परम् ।। 6.52 ।।
'त्वमग्ने रुद्र' इत्यादि रुद्रसूक्तमत: परम्।
'पवस्वा' दि तथा सूक्तमेतद्दवादशसूक्तकम् ।। 6.53 ।।
जपन्त: प्रत्यहं देवीं सावित्रीं तु सहस्त्रश:।
त्रिरात्रमुपवासं वा पादकृच्छ्रमथापि वा ।। 6.54 ।।
एकाहमुपवासं वा चरेयुस्सर्व एव ते।
आचार्यो नियतात्मा वै चरेत्कृच्छ्रं विशुद्धये ।। 6.55 ।।
अशक्तावुपवासादौ ब्राह्मणान्वाऽपि भोजयेत्।
'यद्देवा' दि चतुस्सूक्तैर्जुहुयादाज्यमन्वहम् ।। 6.56 ।।
'वैश्वानराये' ति जपन्नुपतिष्ठेत पावकम्।
तथैव यजमानोऽपि चरेत्कृच्छ्रं विशुद्धये ।। 6.57 ।।
अनन्यतत्परो भूयाद्धविष्याशी जितेन्द्रिय:।
आचार्येणोक्तसम्भारान्यजमानस्समाहरेत् ।। 6.58 ।।
यागशाला
षोडश स्तम्भसंयुक्तां यागशालां प्रकल्प्य च।
स्तम्भान्तरं चतुर्हस्तं त्रिहस्तं वा यथोचितम् ।। 6.59 ।।
अग्निकुण्डानि वेदिं च कुर्यात्तत्र यथाविधि।
उदीच्यां (1)शयनाद्वापि सभ्यमत्रिरुवाच ह (1.) शयनं, आ. ।। 6.60 ।।
(सभ्याद्दक्षिणपूर्वस्यां काश्यपोऽब्जाग्निमुक्तवान्)
अग्निकुण्डानि सर्वाणि पङ्क्तिमङ्कुरकर्मणि ।। 6.61 ।।
स्त्रुवादिपात्राणीध्मादि चायुधान्यष्टमङ्गलान्।
मुष्टिमध्यप्रमाणेन कल्पयेदिति शासनम् ।। 6.62 ।।
अक्षिमोचनम्
प्रतिष्ठोक्तदिनात्पूर्व पञ्चमेऽह्यक्षिमोचनम्।
प्रपायां मण्डपे वाऽथ कूटे वाऽभिमुखे कृते ।। 6.63 ।।
औपासनाग्निमाधाय (1.)वास्तुहोमं यजेत्क्रमात्।
पर्यग्निपञ्चगव्याभ्यां कृत्वा बिम्बस्य शोधनम् (1.) ख. कृत्वाऽऽघारं यथाविधि। वास्तुहोमं यजित्वा तु बिम्बस्यातीव पार्श्वत: इति वर्तते, ।। 6.44 ।।
देवं द्विरत्निविस्तारे धान्यपीठे निवेश्य च।
औपासनाग्निमाधाय कृत्वाऽऽघारं यथाविधि ।। 6.65 ।।
कुण्डे वा स्थण्डिले वाऽपि चाङ्गहोमस्सुहूयताम्।
भूम्यादिपञ्चभूतानां मन्त्रैरपि च वैष्णवै: ।। 6.66 ।।
सूक्तेन पौरुषेणापि जयाद्यैश्च तथैव च।
स्थूप्याद्युपानपर्यन्तमङ्गानां नामभिस्तथा ।। 6.67 ।।
वर्णं सुवर्णपात्रेण हेमतूलिकयाऽऽहरेत्।
देवस्य दक्षिणे पार्श्वे स्थित्वाऽऽचार्य उदङ्मुख: ।। 6.68 ।।
नवेनैवाम्बरेणैव प्रच्छाद्याभिमुखे हरे:।
वर्णे महीं समभ्यर्च्य तत्पात्रे च दिवाकरम् ।। 6.69 ।।
तूलिकायां तथा चन्द्रमात्मसूक्तं जपेत्तत:।
वर्णं तूलिकयाऽदाय सूक्तं पौरुषमुच्चरम् ।। 6.70 ।।
दक्षिणे नयने वामे 'त्वतो दि वैष्णवम्।
पक्ष्म वर्म च रक्तं च शुक्लं कृष्णं च तैजसम् ।। 6.71 ।।
मण्डलानि षडेतेषां महाभूतानि पञ्च च।
दैक्तं परमात्मानं क्रमात्स्मृत्वा समाचरेत् ।। 6.72 ।।
प्रच्छन्नपटमुद्धृत्य दर्शनीयानि दर्शयेत्।
दर्शनद्रव्यदर्शनम्
धान्यराशिं तु कुत्वा तु तिलराशिं प्रकल्पयेत् ।। 6.73 ।।
आज्यं दधि मधु क्षीरं प्रस्थमात्रं पृथक् पृथक्।
कांस्यपात्रे गृहीत्वैव सुवर्णकलशान्वितम् ।। 6.74 ।।
दण्डके धान्यपीठे तु स्थापयेदुतृतरादिकम्।
सामवेदं यजुर्वेदमृग्वेदाथर्वेदकौ प ।। 6.75 ।।
क्रमेण देवता: पूज्या गामेकां लक्षणान्विताम्।
स्वर्णशृङ्गां रौप्यखुरां सवस्त्रां कांस्यदोहनाम् ।। 6.76 ।।
सवत्सां पूर्णपुष्टांङ्गो देवाग्रे स्थापयेद्बुध:।
धान्यराशौ तथा सोमं तिलराशौ पितॄनपि ।। 6.77 ।।
गोसावित्री जप्त्वा 'शुद्धा इम इति गोसावित्रीमनुस्मरन्।
पूजयेत्तत्तदङ्गेषु तदुक्ता देवता अपि ।। 6.78 ।।
ततृणमुष्टिं प्रदायाऽस्यै गोसूक्तेनाभिमृश्य च।
गोसूक्तम् अत्र 'गावो हिम' इति गोसूक्तमभिधीयते ।। 6.79 ।।
'इमा ओषधय' इत्युक्ता तिलधान्ये च दर्शयेत्।
आज्यं सामादिमन्त्रेण यजुर्वेदादिना दधि ।। 6.80 ।।
मध्व 'ग्निमीळ' इत्युकृता क्षीरं 'शन्न' इति ब्रुवन्।
गोदानसूक्तम् गोदानसूक्तमुच्चार्य 'आगोदानात्पठे' दिति ।। 6.81 ।।
(सवत्सां चैव गामुक्तां दर्शयित्वाऽतिसुन्दरीम्)
देव्यौश्च दर्शनीयानि दर्शयेच्च पृथक् पृथक् ।। 6.72 ।।
शैलबिम्बानां विशेष:
शैलस्य वर्णहीनस्य लोहजानां तथैव च।
कृत्वा दृढकरीं सूचीं ताभ्यां पक्ष्मादिमण्डलम् ।। 6.83 ।।
मन्त्रेण कल्पयेदन्यत् ध्रुवबेरोकृतवद्भवेत्।
द्रव्याणि दर्शनीयानि पृथगेव प्रकल्पयेत् ।। 6.84 ।।
परिवाराणामक्षिमोचनम्
मुन्यादिदिपरिवाराणां तत्तन्मत्रं पृथक् पृ?थक्।
हुत्वा तु दशकृत्वस्तु तन्म्न्त्रैरक्षिमोचनम् ।। 6.85 ।।
पात्रेषु दर्शयेत्तेषां पञ्चगव्यं पृथक्पृथक्।
(1)सहदेवं न चेत्तेषां पृथग्धोमं न कारयेत् (1.) आ. गर्भदेवं न चेत्तेषां पृथग्धाम न कारयेत् ? ।। 6.86 ।।
शिल्पिस्पर्शशुद्धि:
शूलग्रहणमारभ्य यावदेवाक्षिमोचनम्।
शिल्पिस्पर्शविशुद्ध्यर्थमक्ष्युन्मेषादनन्तरम् ।। 6.87 ।।
षोडशप्रस्थसम्पूर्णं कुम्भं सूत्रेण वेष्टयेत्।
पूरयित्वा तथा तोयैर्वस्त्राभ्यामभिवेष्टयेत् ।। 6.88 ।।
पल्लवानि कुशाग्राणि दूर्वाग्राणि तथाऽक्षतम्।
सुवर्णं पुण्यपुष्पाणि विष्णुगायत्रिया न्यसेत् ।। 6.89 ।।
उत्तराभिमुख: पश्चाद्वाह्ममासनमास्थित:।
चतुर्वेदादिमन्त्रांश्च 'आप उन्दन्तु' वै क्रमात् ।। 6.90 ।।
जपन् पुरुषसूक्तञ्च मन्त्रानपि च वैष्णवान्।
कूर्चेनैव तु तत्तोयमभिमृश्य समाहित: ।। 6.91 ।।
सकाञ्चनेन कूर्चेन तत्कुम्भस्थेन वारिणा।
'आपो हिरण्यवर्णा द्यै: पवमानादिभिस्त्रिभि: ।। 6.92 ।।
'शन्नो देवी' ति मन्त्रेण पुंसूक्तेन च वैष्णवै:।
शुद्द्यर्थं प्रोक्षयेद्वेरं पुण्याहमपि वाचयेत् ।। 6.93 ।।
एवं चित्रप्रतिष्ठायां चित्राभासे च कारयेत्।
अधिवासा:
बिम्बानां कौतुकादीनामधिवासनमारभेत् ।। 6.94 ।।
पञ्चगव्याधिवास:
आलयस्योत्तरे पार्श्वे प्रपायामवटे कृते।
लघुबेरं जलद्रोण्यां पञ्चगव्यादिभि:स्तृते ।। 6.95 ।।
आज्यं 'शुक्रम' सीत्युक्त्वा षोडशंशं प्रगृह्य च।
'दधिक्राव्ण्ण' इत्युक्वा क्षिपत्वा तव्द्दिगुणं दधि ।। 6.96 ।।
'आप्या' स्वेति मन्त्रेण त्रिगुणं क्षीरमाहरेत्।
'गन्धद्वा' रेति मन्त्रेण गोमयञ्च चतुर्गुणम् ।। 6.97 ।।
षड्गुणं चैव गोमूत्रं गायत्र्या तत्र निक्षिपेत्।
'वसो: पवित्र' मित्युक्त्वा तेनापूर्यावटं पुन: ।। 6.98 ।।
पञ्चगव्ये 'शिवं शर्वमीशमव्यक्त' मर्चयेत्।
विष्णुसूक्तं समुच्चार्य प्राक्छिरस्तत्र शाययेत् ।। 6.99 ।।
अतीते तद्दिने बिम्बं विष्णुसूक्तेन चोद्धरेत्।
'वारी श्चतस्त्र' इत्युक्त्वा शुद्धोदैरभिषिच्च च ।। 6.100 ।।
क्षीराधिवास: संशोद्ध्यैव जलद्रोणीं 'शन्नो देवी' ति मन्त्रत:।
क्षीरेण पूरयित्वाऽत्र 'अथर्वं क्षीर' मित्यपि ।। 6.101 ।।
'पवित्रं पुण्य' मित्युक्वा क्षीरेऽथर्वाणमर्चयेत्।
पद्मोत्पलादिपुष्पाणि समास्तीर्य च तत्र वै ।। 6.102 ।।
शयनानि च पञ्चात्र समास्तीर्य कुशैस्सह।
क्षीरं क्षीरोदधिं तत्र शायिनं शेषशायिनम् ।। 6.103 ।।
देवदेवं स्मरंस्तत्र पूर्ववच्छाययेद्धरिम्।
अतीते तद्दिने बिम्बं पश्चादुद्धृत्य पूर्ववत् ।। 6.104 ।।
संस्नाप्य भूषयित्वैव नववस्त्रैश्च भूषणै:।
जलाधिवास:
नदीतटाकवापीषु पूर्वालाभे तथोत्तरे ।। 6.105 ।।
प्रपां कृत्वा तु परित: पञ्चरं जालकाकृतिम्।
कारयित्वा तु रक्षार्थं वितानाद्युपशोभितम् ।। 6.106 ।।
नववस्त्राणि चास्तीर्यदर्भपुष्पकुशैस्सह।
'पुण्यं तोर्थ शिवं तोय' मिति तत्र समर्चयेत् ।। 6.107 ।।
पूर्ववच्छयने देवं शाययेदप्रमादत:।
(1)'एवं कर्तुमशक्तश्चेत्त्रिदिनं केवले जले (1.) 'एवं कर्तुमशक्तश्चेत्सद्य: कालो विधीयते। अधिवासमशक्तश्चेत्सद्यएवक्रियाद्यदि पञ्चगव्यैश्च क्षीरेण' इति पाठ: आ.
।। 6.108 ।।
दिनमेकमहर्वाऽथ यामं वा कालमेव वा।
मन्त्रवद्विम्बशुद्ध्यर्थ?मधिवासं समाचरेत् ।। 6.109 ।।
अशक्यवेरस्यस्नापनम्
पेञ्चगव्यैश्च क्षीरेण कुशोदैश्च पृथक्पृथक् ।। 6.110 ।।
शतमष्टोत्तरं कुम्भान् पूरयित्वाऽत्र देवता:।
पूर्ववत्पूजयित्वैव मन्त्रैरेवाभिषेचयेत् ।। 6.111 ।।
प्रतिष्ठादिनपूर्वदिनकृत्यम्
सायं होमावसाने तु आचार्याद्या: पृथक्पृथक् ।। 6.112 ।।
प्राणायामशतं कृत्वा जप्त्वा सूक्तानि पूर्ववत्।
तथाऽनुष्टितकर्माणं यजमानं ततो गुरु: ।। 6.113 ।।
'अणोरणीया' नित्युक्त्वा प्रोक्षयेव्द्दिजमत्वर:।
ऋत्विजस्तान्त्समाहूय नियुञ्जीत स्वकर्मसु ।। 6.114 ।।
वास्तुशुद्धि:
तस्याऽऽलयस्योत्तरत: कुण्डे वा स्थण्डिलेऽथवा।
वास्तुहोमं तथा हुत्वा गर्भगेहादिसर्वत: ।। 6.115 ।।
पर्यग्निपञ्चगव्याभ्यां पुण्याहेनापि शोधयेत्।
अग्निमथनम्
देवालयस्याभिमुखे पञ्चवर्णैरलङ्कते ।। 6.116 ।।
धान्यराश्युपरि न्यस्य त्वरणी प्राङ्मुखश्शुचि:।
मन्थदण्डे हरिं ध्यायेदरण्यां मेदिनीं तथा ।। 6.117 ।।
ऊर्ध्वायामग्निभ्यर्च्च मौञ्जीरज्जौ च वासुकिम्।
जपन् वैश्वानरं सूक्तं रज्ज्वा मन्थं च वेष्टयेत् ।। 6.118 ।।
'जातवेदस' मुचचार्य मथनं कारयेद्बुध:।
करीषं परित: कृत्वा तत्सूक्तेनाहरेत्पुन: ।। 6.119 ।।
'अयं त इध्म' इत्युक्त्वा प्रक्षिपेदिन्धनानि च।
'घृतप्रतीक' इत्युक्त्वा प्रज्वाल्याग्निं प्रणम्य च ।। 6.120 ।।
'आयुर्दा' इति मन्त्रेण त्वप्रमादं निधापयेत् ।। 6.121 ।।
मथनाग्न्यलाभे कत्रव्यम्
अथवा श्रोत्रियागरादग्निमाहृत्य वै तथा।
तत्र वैश्वानरं सूक्तं यजेदिति च केचन ।। 6.122 ।।
वास्त्वग्ने:कार्यान्तर योपयताभाव:
तत्सर्वमशुभं कर्म तमग्निं च निरस्य च ।। 6.123 ।।
मथितं श्रोत्रियागारादाहृतं वा निधाय च।
शान्तिहोमावसाने तु यथोक्तं होममाचरेत् ।। 6.124 ।।
पञ्चग्निषु अग्निप्रणयनम्
'गार्हपत्याग्नि' मित्युक्त्वा 'यज्ञदैवत' मित्यपि ।। 6.125 ।।
'तर्त्रौ भू: पुरुषं' चेति 'अच्युतं' चेति कीर्तयन्।
आवाह्य जुष्टाकारञ्च स्वाहाकारञ्च कारयेत् ।। 6.126 ।।
तस्मादग्निं समादाय दक्षिणाग्नौ तत: परम्।
'जातवेद' इति प्रोच्य प्रणीयाग्निं यथाविधि ।। 6.127 ।।
'अन्वाहार्याग्नि' मित्युक्त्वा 'यज्ञदैवत' मित्यपि।
'ओं भुव: पुरुषं सत्यं' कुर्यादावाहनादिकम् ।। 6.128 ।।
अग्निं तु गार्हपत्याग्ने 'रग्न आयाहि' मन्त्रत:।
प्रणीयाऽहवनीयाग्नौ वदन्नाहवनीयकम् ।। 6.129 ।।
'यज्ञदैवत' मित्युक्त्वा ओं सुव: परुषं' त्विति।
उच्चरन् 'पुरुषं' चेति कुर्यादावाहनादिकम् ।। 6.130 ।।
'अयं ते योनि' रित्यग्निमावसथ्ये प्रणीय च।
'आवस्थ्याग्नि' मित्युक्त्वा 'यज्ञदैवत' मित्यपि ।। 6.139 ।।
'ओं मह: पुरुषं' चेति देवम 'प्यनिरुद्धकम्'।
इत्येवमावसथ्याग्नौ कुर्यादावाहनादिकम् ।। 6.132 ।।
'मिय गृहणामि' मन्त्रेण सभ्ये चाग्निं प्रणीय च।
सभ्याग्निं यज्ञदे' वेति 'ओं जन: पुरुषं' तथा ।। 6.133 ।।
'विष्णु' मावाहयामीति सभ्यस्यावाहनादिकम्।
'घृतप्रतीकं इत्यग्निं पौण्डरीके प्रणीये च ।। 6.134 ।।
'पौण्डरीकाग्नि' मित्युक्त्वा 'यज्ञदैवत' मित्यपि।
'ओं तप: पुरुषं' चेति 'वासुदेव' मत: परम् ।। 6.135 ।।
(अग्निं श्रामणकं प्रोच्य यज्ञदैवतमित्यपि)।
'ओं तप: पुरुषं' चेति 'नारायण' मिति ब्रुवन्।
एवमावाहनं कृत्वा निरुप्याज्याऽऽहुतीर्यजेत्(1) (1.) ख. औपासनाग्निमित्युक्त्वा यज्ञदैवतमित्यपि ।। औपासनाग्नावन्येन आवाह्याज्यं जुहोति वै। तथाऽऽज्यं जुहुयादेवमित्याधारविधि: क्रमात् इत्यधिकं ख कोशे दृश्यते. ।। 6.136 ।।
सर्वाग्नीनां प्रणयनं प्रकुर्याद्गार्हपत्यत:।
अग्निध्यानम्
(2.) क. इत: प्रभृति आध्यायान्तं ख. ग. कौशयो: न दृश्यते, अत्र अध्याय समाप्ति: ख. आ. 6.
ब्राह्ममानसमासीनं कुण्डमध्ये हुताशनम् ।। 6.137 ।।
प्रत्यङ्मुखं रक्तवर्णं तरुणादित्यसन्निभम्
स्वाहास्वधाभ्यामासीनं सर्वदेवात्मकं परम् ।। 6.138 ।।
एकं वै हृदयं तस्य त्रय: पादाश्शिरोद्वयम्।
चतुश्श्रृङ्गं चतुर्नेत्रं सप्तजिह्वं द्विनासिकम् ।। 6.139 ।।
दक्षिणाऽस्ये चतुस्त्रस्तु तिस्त्रो जिह्वास्तथोत्तरे।
सप्मतहस्तं स्मरन्नग्निं सर्वाभरणभूषितम् ।। 6.140 ।।
कृष्णाजिनोत्तरासङ्गं मौञ्जीदण्डसमन्वितम्।
स्त्रुक्स्त्रुवाक्षस्रजश्शक्तिं दधतं दक्षिणै: करै: ।। 6.141 ।।
चामरं व्यजनं चाऽज्यपात्रं वै वामबाहुभि:।
बिम्बञ्च यज्ञमूर्तेस्तु ध्यायेदेवमिति श्रुति: ।। 6.142 ।।
अग्ने: सप्तजिह्वा:
हिरण्या कनका रक्ता कृष्णा चैव वसुप्रभा।
अतिरक्ता बहुरूपा जिह्वास्सप्त प्रकीर्तिता: ।। 6.143 ।।
ईशानेन्द्राग्निनिर्ऋतिवरुणानिलमध्यगा:।
आघारान्ते वैष्णवहोम:
आघारान्ते तु होतयं सप्तजिह्वासु वैष्णवम् ।। 6.144 ।।
जिह्वाभेदेन हिरण्यायां समिद्धोमं कनकायां यजेद्धृतम्।
सर्षपांश्चैव रक्तायां कृष्णायां लाजमेव च ।। 6.145 ।।
वसुप्रभायां देवन्तं ध्यात्वाऽऽपूपं जुहोति च।
होतव्यमतिरक्तायां तिलं चर्वामरप्रियम् ।। 6.146 ।।
अन्यानि बहुरुपायां जुहोति मनसा स्मरन्।
हविर्विशेषहोमे अग्निभावनाप्रकार:
समिद्धोमे स्थितो वह्रिश्शेते स च घृताऽऽहुतौ ।। 6.147 ।।
आसीनश्चरुहोमेऽपि तिलसर्षपसक्तुषु।
अन्यथाऽग्नौ हुतं यत्तत् सर्व भवति निष्फलम् ।। 6.148 ।।
हविर्भेदेन आहुतिप्रमाणम्
चतुरङ्गुलिसंस्रावाप्यविच्दिन्ना घृताहुति:।
अङ्गुष्ठपर्वमात्रा तु गृहीताऽन्नाहुति: स्मृता ।। 6.149 ।।
अन्नमक्षप्रमाणं स्याल्लाजं मुष्टिमितं भवेत्।
तिलसर्षपसक्तूनां शुक्तिमात्राऽहुतिर्भवेत् ।। 6.150 ।।
होमद्रव्याधिदेवा: अत: पंर प्रवक्ष्यामि होमद्रव्याधिदेवता:।
सिकतायां मृदश्यैव पृथिवी आधिदेवता ।। 6.151 ।।
स्थण्डिलं सोमदैवत्यं कुण्डवेद्या यथाक्रमम्।
ऊर्ध्ववेद्यधिपो ब्रह्मा मध्यवेद्या: प्रजापति: ।। 6.152 ।।
सभ्ये च पौण्डरीके च सोमोऽधोवोदिदेवता।
दलेषु वसव: प्रोक्ता: खननं पितृदैवतम् ।। 6.153 ।।
लेखा: स्कन्दाधिदेवत्या: ऋषयस्सप्तबर्हिषाम्।
हव्यवाडिन्धनाधीशो विहारो वायुदैवत: ।। 6.154 ।।
पञ्चभूताधिदैवत्यं करकं समुदाहृतम्।
कूर्चाग्रग्रंन्थिमूलेषु ब्रह्मविष्णवीश्वरा: क्रमात् ।। 6.155 ।।
चत्वारो विष्णुदैवत्या: परिस्तरणकूर्चका:।
पश्चिम: परिधि: प्रोक्तस्तथा गन्धर्वदैवत: ।। 6.156 ।।
दक्षिणश्चेन्द्रदैवत्य: परिधि: परिकीर्तित:।
उत्तर: परिधि: प्रोक्तो मित्रावरुणदैवत: ।। 6.157 ।।
तथोर्ध्वसमिधोर्देव: (1)जुह्वादिषु दिवाकर: (1.) प्रजापतिरवी स्मृतो ख. ।। 6.158 ।।
ब्रह्मसोमौ तु सम्प्रोक्तौ तथा प्रणिधिपात्रयो:।
वर्षिष्ठसमिधोरग्निराज्यस्थाल्यां वंसुन्धरा ।। 6.159 ।।
तोयस्य वरुणो देवश्चाज्यस्य च हुताशन:।
चरुरिन्द्राग्निदैवत्य एवं ध्यात्वा जुहोति च ।। 6.160 ।।
होमद्रव्यविशेषे पात्रविशेष:
वैष्णवं जुहुयाज्जुह्वा चरुणाऽग्निषु षट्स्वपि।
आज्यमप्यग्निकुण्डेषु स्रुवेण चजुहुयादिति ।। 6.161 ।।

इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
क्रियाधिकारे महाप्रतिष्ठाकालनिर्णय संभाराहरण
   अक्षिमोचनाधिवासत्रयाशक्यबिम्बाधिवासाऽऽचार्यानुज्ञाऽग्निमथनाग्नि प्रणयनाग्निध्यानाग्निजिह्वास्थाननिर्णय होमद्रव्यप्रमाण
होमद्रव्याधिदेवनिर्णयो नाम षष्ठोऽध्याय:(2) (2.) सप्तमोऽध्याय: ई.
----------------------