क्रियाधिकारः/द्वात्रिंशोऽध्यायः

विकिस्रोतः तः
← एकत्रिंशोऽध्यायः क्रियाधिकारः
द्वात्रिंशोऽध्यायः
[[लेखकः :|]]
त्रयस्त्रिंशोऽध्यायः →


द्वात्रिंशोऽध्याय:
शमीपूजाविधि:
अत: परं प्रवक्ष्यामि शमीपूजाक्रमं बुधा:।
मासि प्रोष्ठपदे शुक्लपक्षे च दशमीतिथौ ।। 32.1 ।।
देवालयं प्रविश्यैव देदेशं सम्प्रणम्य च।
स्नपनोक्तक्रमेणैव स्नपनञ्चैव कारयेत् ।। 32.2 ।।
देवेशं सममलङ्कत्य नानावस्त्रविभूषणै:।
तुरगे च समारोप्य सर्वशास्त्रास्त्रसंयुतम् ।। 32.3 ।।
छत्रचामरसंयुक्तं सर्ववाद्यसमन्वितम्।
सम्प्राप्ते चैव सायाह्रे देवेशं निनयेद्बुध: ।। 32.4 ।।
यत्र देशे शमी तिष्ठेद्देवस्तत्रैव गच्छति।
शमीवृक्षस्य परितश्चालङ्कत्य यथाविधि ।। 32.5 ।।
पुण्याहं वाचयेद्विद्वान् प्रोक्षणञ्चैव कारयेत्।
देवस्याग्रस्थले चाऽपि गोमयेनोपलिप्य च ।। 32.6 ।।
रङ्गवल्ल्याद्यलङ्कत्य प्रोक्षयेत्पूतवारिण।
तत्र देशे प्रतिष्ठाप्य शार्ङ्गं बाणं तथैव च ।। 32.7 ।।
शार्ङ्गस्य चाधिदैवत्यं (?) वक्ष्यामि मुनिसत्तमा:।
विष्णुं रुद्रं समावाह्य ब्रह्माणां वरुणं तथा ।। 32.8 ।।
शराणामधिदैवत्यं चक्रं शङ्खं तथै च।
गदी खड्गञ्च शार्ङ्गञ्च अधिदेवांत्समर्चयेत् ।। 32.9 ।।
शमीवृक्षस्याधिदेवं वह्रिं तत्र समर्चयेत्।
वृक्षस्य पूर्वे पक्षांश्च दक्षिणे राक्षसांस्तथा ।। 32.10 ।।
पिशाचान् पश्चिमे चैव उत्तरे मधुकैटभौ।
एतान् देवान् समावाह्य क्रमेणैवार्चयेद्बुध: ।। 32.11 ।।
अष्टोपचौरभ्यर्च्य फलादीनि निवेदयेत्।
अर्चक: सुप्रसन्नात्मा धनुरादाय वीर्यवान् ।। 32.12 ।।
धन्वना' गेति मन्त्रेण ज्यास्वनं कारयेद्बुध:।
'यात इषु: शि' वेति मन्त्रेण सन्दध्याद्धनुषि त्विषुम् ।। 32.13 ।।
चक्रेण पूर्वे यक्षादीश्छिंन्द्याद्रक्षांसि दक्षिणे।
पिशाचान् गदया हन्ति पश्चिमाशास्थितांस्तथा ।। 32.14 ।।
असिना चोत्तरे हन्ति मधुं कैटभमेव च।
वृक्षस्य चतुर्दिक्षु चतुर्बाणान् प्रयोजयेत् ।। 32.15 ।।
शार्ङ्गाख्येन च बाणेन वृक्षस्याग्रे प्रयोजयेत्।
पुनश्शरान्गृहीत्वैव प्रोक्षयेत्पूतवारिणा ।। 32.16 ।।
देवस्याग्रे प्रतिष्ठाप्य प्रणामञ्चैव कारयेत्।
ततो देवं समदाय ग्रामस्याभिमुखं नयेत् ।। 32.17 ।।
सद्मप्रदक्षिणं कृत्वा नीराजनमथाचरेत्।
उष्णोदकेन संस्नाप्य आस्थाने सन्निवेश्य च ।। 32.18 ।।
महाहविर्निवेद्यैव ताम्बूलञ्च निवेदयेत्।
एवं य: कुरुते भक्त्या सर्वपापै: प्रमुच्यते ।। 32.19 ।।
सर्वान् कामानवोप्नोति विष्णुसायुतज्यमाप्नुयात्।
कृत्तिकादीपक्रम:
अत: परं प्रवक्ष्यामि कृत्तिकादीपलक्षणम् ।। 32.20 ।।
कार्तिक्यां पूर्णिमायान्तु दीपैराराधनं चरेत्।
देवालयं प्रविश्यैव देवेशं सम्प्रणम्य च ।। 32.21 ।।
देवीभ्यां सहितं देवं स्नापयित्वा यथाविधि।
देवेशं समलङृकत्य नानावस्त्रविभूषणै: ।। 32.22 ।।
मुद्रान्नं पायसञ्चैव अपूपं लाजमेव च।
विशेषेण निवेद्यैव मुखवासं समर्पयेत् ।। 32.23 ।।
याने देवं समारोप्य देवीभ्यां सहितं तथा।
छत्रचामरसंयुक्तं सर्ववाद्यसमन्वितम् ।। 32.24 ।।
सन्ध्यापूजावसाने तु वीथीञ्चापि नयेद्बुध:।
प्रथमावरणे वाऽपि तृतीयावरणेऽपि वा ।। 32.25 ।।
पञ्चमावरणे वाऽपि सप्तमावरणे तथा।
वीथीमध्ये सुसंस्थाप्य तालवृक्षं तथैव च ।। 32.26 ।।
नालिकेरं तथा वाऽपि कैतकं क्रमुकं तथा।
वेणुञ्चापि तथा चैव आगस्त्यमिति केचन ।। 32.27 ।।
दारुण्येतानि संस्थाप्य दृढीकृत्य प्रयत्नत:।
विमानस्य सम वाऽपि त्रिपादाधिकमथापि वा ।। 32.28 ।।
अर्धाधिकमथो वाऽपि त्रिपादाधिकमेवा वा।
यादहीनं तथा वाऽपि अर्धहीनं तथैव च ।। 32.29 ।।
त्रिपादहीनमधमं दीपस्तम्भप्रमाणकम्।
दीपदण्डस्य परित: दशहस्तप्रमाणत: ।। 32.30 ।।
वृत्तैश्चारणं कृत्वा गोपुराकृतिभिश्चरेत्।
आच्छादयेत्तालपत्त्रैर्मूलादग्रान्तमेव च ।। 32.31 ।।
तरङ्गै: दर्भमालाभिस्तोरणैश्चापि वेष्टयेत्।
पुष्पैर्गन्धैरलङ्कत्य नववस्त्रेण वेष्टयेत् ।। 32.32 ।।
पुण्याहं विधिवत्कृत्वा प्रोक्षणञ्चैव कारयेत्।
महादीपाधिदेवांश्च वक्ष्यामि मुनिपुङ्गवा: ।। 32.33 ।।
बडबामुखं कालाग्निं प्रलयानलमेव च।
महादीपञ्च नामानि नामभिस्तैरथाऽह्वयेत् ।। 32.34 ।।
अष्टोपचौरभ्यर्च्य लाजानपि निवेदयेत्।
सौवर्णं राजितं वाऽपि ताम्रं मृण्यमेव च ।। 32.35 ।।
पात्रं सम्यक्समापूर्य गव्येनैव घृतादिना।
मध्यमादिचतुर्दिक्षु पञ्चवर्तीर्विनिक्षिपेत् ।। 32.36 ।।
कौतुकस्यापि दीपस्य अधिदेवक्रमं शृणु।
बहबामुखं कालाग्निं प्रलयानलमेव च ।। 32.37 ।।
जातवेदसं महादीपं पञ्च चाऽवाह्य पञ्चसु।
अष्टोपचौरभ्यर्च्य लाजानपि निवेदयेत् ।। 32.38 ।।
अर्चक: सुप्रसान्नात्मा सर्वाभरणभूषित:।
?'विष्णुस्त्वा' मिति मन्त्रेण काराभ्?यां दीपमुद्धरेत् ।। 32.39 ।।
सर्वलोकहिताञ्च मूर्ध्न: पादान्तमेव च।
तद्ग्रामस्य समृद्ध्यर्थं ललाटाद्यन्तमेव च ।। 32.40 ।।
नेत्रादिपादपर्यन्तं राजराष्ट्रविवृद्धये।
सर्वेषां मङ्गलार्थञ्च भ्रामयित्वा त्रिधा त्रिधा ।। 32.41 ।।
ततो दीपं गृहीत्वैव मन्दं मन्दञ्च गच्छति।
प्रदक्षिणत्रयं कृत्वा दण्डाग्रे च सुसन्न्यसेत् ।। 32.42 ।।
चतुर्वर्तीर्गृहीत्वैव चतुर्दिक्षु विनिक्षिपेत्।
'अयन्ते योनि' रिति च महादीपे विनिक्षपेत् ।। 32.43 ।।
महादीपे प्रज्वलिते देवेशं प्रणमेन्मुहु:।
दीपदर्शनफलम्
सर्वपापानि नश्यन्ति आयु: कीत्रिश्च वर्धते ।। 32.44 ।।
तद्दीपदर्शनात्सद्य: सर्वान् कामानवाप्नुयात्।
तद्दीपस्योपशमने देवेशं नाययेब्दुध: ।। 32.45 ।।
ग्रामं प्रदक्षिणीकृत्य नीराजनमथाऽचरेत्।
जीवस्थाने प्रतिष्ठाप्य पूजयेत्पुस्षोत्तमम् ।। 32.46 ।।
प्रभूतञ्च निवेद्यैव मुखवासं निवदेयेत्।
एवं य: कुरुते भक्त्या कृत्तिकादीपमुत्तमम् ।। 32.47 ।।
राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम्।
श्रीकाम आप्नुयात्सम्पदायु: कीर्ति समश्नुते ।। 32.48 ।।
सर्वैश्वर्यमवाप्नोति विष्णोस्सायुज्यमाप्नुयात्।
सुगन्धतैल समर्पणोत्सव:
अत: परं प्रवक्ष्यामि ज्येष्ठायामुत्सवक्रमम् ।। 32.49 ।।
ज्येष्ठे मासि सुसम्प्राप्ते दिने ज्येष्टर्क्षसंयुते।
विषणवे तु विशेषेण गन्धवत्तैलमाहरेत् ।। 32.50 ।।
तत्क्रमं म्प्रवक्ष्यामि श्रुगुध्वं मुनिसत्तमा:।
यागशालां प्रकल्प्यैव सर्वालङ्कारसंयुताम् ।। 32.51 ।।
सभ्यञ्च पौण्डरीकञ्च कारयित्वा सलक्षणम्।
तद्दिनस्य तु पूर्वेद्यु: तृतीये पञ्चमेऽपि वा ।। 32.52 ।।
सप्तमे नवमे वाऽपि अङ्करार्पणमारभेत्।
आघारं विधिवत्कृत्वा सर्वं कार्यमत: परम् ।। 32.53 ।।
वैद्या उत्तरपार्श्वे तु भूम्यामवष्टमाचरेत्।
चतुस्तालप्रमाणेन विस्तृतं निम्नमेव च ।। 32.53 ।।
निम्ने तु विन्यसेद्भाण्डं द्विद्रोणपरिमाणकम्।
'भू: प्रतिष्ठित्यै' मन्त्रेण्?ा निम्ने भाण्डं सुनिक्षिपेत ।। 32.55 ।।
मलयागुरुदारुणि देवदारुतरुद्भवम्।
यानि वासितदारुणि देवयोग्यानि तानि वै ।। 32.56 ।।
गुग्गुलुञ्च समाहृत्य मर्दयित्वा पूथक् पृथक्।
विष्णुगायत्रिमन्त्रेण भाण्डे द्रव्याणि निक्षिपेत् ।। 32.57 ।।
शरावेणापिधायाथ मृदा चरिलेपयेत्।
गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेत् ।। 32.58 ।।
मन्दाग्निना च सुपचेद्यावत्तैलागमो भवेत्।
पक्त्वा युक्त्या च यत्नेन तैलमाहृत्य तत्क्षणात् ।। 32.59 ।।
वासितक्वाथवस्तूनि तानि तानि बनि: क्षिपेत्
उत्पूय तैलं तद्भाण्ड धान्यपीठे सुसन्न्यसेत् ।। 32.60 ।।
यथोक्तेनैव मन्त्रेण तन्तुना परिवेष्टयेत्।
पितॄन् सोमं तथाऽभ्यर्च्य वनस्पतिमत: परम् ।। 32.61 ।।
समावाह्य च तैलं तानर्ध्यान्तमभिपूजयेत्।
वैष्णवं विष्णुसूक्तञ्च नरसूक्तं तथैव च ।। 32.62 ।।
जप्त्वा तु विष्णुगायत्रीमष्टोत्तरसहस्रकम्।
आचार्यस्त्वरितो गत्वा सभ्याग्नेश्च समीपत: ।। 32.63 ।।
द्वितालविस्तृत वृत्तं चतुरङ्गुलमुन्?नतम्।
कूर्माकृतिवदाकारं बिल्वाद्यै: परिकल्पितम् ।। 32.64 ।।
प्रतिष्ठायामुत्सवे च जपहोमार्चनादिषु।
सर्वकार्येषु विहितं कूर्मपीठं समास्थित: ।। 32.65 ।।
समाहित: प्रसन्नत्मा सभ्याग्नौ जुहुयात्तत:।
कूर्मपीठविहीनन्तु कर्म तन्निष्फल भवेत् ।। 32.66 ।।
वैष्णवं विष्णुसूक्तञ्च नरसूक्तं तथैव च।
जुहुयात्सर्वदैवत्यं पारमात्मिकमेव च ।। 32.67 ।।
महाव्याहृतिभिर्हुत्वा अन्तहोमं समाचरेत्।
परिषिच्य ततोऽगब्जाग्निं महाशान्तिं हुनेत्क्रमात् ।। 32.68 ।।
पूर्णाहुतिं ततो हुत्वा अन्तहोमं समाचरेत्।
प्रणिध्यां शङ्खपात्रे वा ?अग्निमारोप्य बुद्धिमान् ।। 32.69 ।।
तैलस्यालेपनात्पूर्व ध्रुवेऽग्निमवरोपयेत्।
स्रग्वस्त्रकुण्डलाद्यैश्च पूजयेत्परिचारकम् ।। 32.70 ।।
संवेष्ट्य नववस्त्रेण शिरश्च मुनिपुङ्गवा:।
तन्मूर्ध्नि तैलभाण्डन्तं विनिक्षिप्य च यत्नत: ।। 32.71 ।।
शनैश्शनैस्समागतृय सर्ववाद्यसमन्वितम्।
सर्वालङ्कारसंयुक्तं ब्रह्मघोषसमन्वितम् ।। 32.72 ।।
वीथीं प्रदक्षणीकृत्य देवस्याग्रे विनिक्षिपेत्।
अर्ध्यान्तमभिपूज्यैव देवेशं सम्प्रणम्य च ।। 32.73 ।।
वैष्णवं विष्णुसूक्तञ्च नरसूक्तं जपेत्क्रमात्।
तैलेन लेपयेद्देवमाचार्यस्त्वरितस्तदा ।। 32.74 ।।
उभे देव्यौ तथैवात्र तत्तन्मन्मन्त्रेण लेपयेत्।
सर्वेषां परिवाराणां तत्तन्मन्त्रेण लेपयेत् ।। 32.75 ।।
आचार्यस्त्वरितो गत्वा औत्सवस्य समीपत:।
'परिलिखित' मित्युक्त्वा कवचं परिशोधयेत् ।। 32.76 ।।
जीर्णे भिन्ने च कवचे सन्धानं शिल्पिना चरेत्।
प्रक्षाल्य पञ्चगव्येन जलेन परिशोधयेत् ।। 32.77 ।।
'विष्णोर्नुके मिति प्रोच्य सन्दध्यात्कवचं पुन:।
दृढीकृत्य यथापूर्वं यत्नेन परिशोधयेत् ।। 32.789 ।।
सहस्रकलशैर्देवं स्नापयित्वा यथाविधि।
नितृयपूजाविधानेन दैवमाराध्य पूर्ववत् ।। 32.79 ।।
महाहवि: प्रभूतं वा पायसञ्च निवेदयेत्।
'क्षम' स्वेति च मन्त्रेण प्रणमेत्पुरुषोत्तमम् ।। 32.80 ।।
ब्रह्मघोषञ्च कृत्वा तु दद्यादाचार्यदक्षिणाम्।
दिने पक्षे च मासे च तथा संवत्सरे चरेत् ।। 32.81 ।।
यद्यद्रूपं तथा ध्यायेत्तत्तद्विम्बेषु योजयेत्।
तस्मात्सर्वप्रयत्नेन बिम्बरक्षान्तु कारयेत् ।। 32.82 ।।
कार्तिक्यामुत्सवे चैव ज्येष्ठायामुत्सवे तथा।
आषाढ्यामुत्सवे चैव श्रावण्यामुत्सवे तथा ।। 32.83 ।।
चैत्र्यामप्युत्सवे चैव उपरागयुते तथा।
अयुतञ्चोत्सवं प्रोक्तं विष्णोरमिततेजस: ।। 32.84 ।।
उत्सवे देवदेवस्य उपरागो न दोषकृत्।
उपरागे भये चैव प्रतिष्ठान्त नु कारयेत् ।। 32.85 ।।
एवं य: कुरते भक्त्या कार्यं रोगप्रणाशनम्।
सर्वान् कामानचवाप्यैव विष्णोस्सायुज्यमाप्नुयात् ।। 32.86 ।।
गहार्चादोषनिष्कृति:
अत: परं प्रवक्ष्यामि गृहार्चादोषनिष्कृतिम्।
प्रात: कालार्चने हीने सायं द्विगुणणमर्चनम् ।। 32.87 ।।
सायं हीने तथा प्रातराद्वादशादिनावधि।
एवमेव कमेणैव वर्धयेद्दिवगुणं सुधी: ।। 32.88 ।।
समभ्यर्च्य निवेद्यैव ब्राह्मणानपि भोज्येत्।