क्रियाधिकारः/त्रयस्त्रिंशोऽध्यायः

विकिस्रोतः तः
← द्वात्रिंशोऽध्यायः क्रियाधिकारः
त्रयस्त्रिंशोऽध्यायः
[[लेखकः :|]]
चतुस्त्रिंशोऽध्यायः →


त्रयस्त्रिंशोऽध्याय:
पञ्चामृतस्नपनविधि:
अथ पञ्चामृतस्नानं देवदेवस्य तु प्रियम्।
विष्णुपञ्चदिनेष्वेवमयने विषुवद्वये ।। 33.1 ।।
चन्द्रसूर्योपरागे च व्यतीपाते विशेषत:।
प्रतिष्ठान्ते चोत्सवान्ते सर्वशान्त्यर्थमेव च ।। 33.2 ।।
पञ्चामृताभिषेकस्तु देवदेवप्रियङ्कर:।
देवस्य पुरत: सम्यक् गोमयेनोपलिप्य च ।। 33.3 ।।
यवैर्वा तण्डुलैर्वाऽत्र द्विहस्तायतविस्तृतम्।
स्थण्डिलं कल्पयित्वाऽष्टदलं पद्मञ्च कल्पयेत् ।। 33.4 ।।
पद्मस्योर्ध्वे तु पुष्पाणि प्रक्षिपेत्तुलसीन्तु वा।
पद्माकारस्य मध्ये तु प्रणवं विलिखेद्बुध: ।। 33.5 ।।
प्रगादीशानपर्यन्तं दलेष्ठष्टाक्षरं लिखेत्।
कलशांश्च समाहृत्य तन्तुना वेष्टयेद्गुरु: ।। 33.6 ।।
पञ्चामृतद्रव्यम्
गुडं क्षीरं दधि घृतं मधु सर्वं समन्वितम्।
पञ्चामृतन्तु विज्ञेयं स्नानार्थ शार्ङ्गिण: प्रियम् ।। 33.7 ।।
पञ्चाभिषेककलशान् पूरयेदमृतेन वै।
गुडसम्मिश्रितं तोयं पद्मध्ये सुविन्यसेत् ।। 33.8 ।।
क्षीरसम्पूर्णकलशं प्राच्यां पद्मदले न्यसेत्।
दधिसम्पूर्णकलशं विन्यसेद्दक्षिणे दले ।। 33.9 ।।
पश्चिमे धृतपात्रन्तु उत्तरे च मधु विन्यसेत्।
आग्नेयादिदलेष्वेवमुपस्नानानि विन्यसेत् ।। 33.10 ।।
मध्यादीशानपर्यन्तमुपस्नाने तथैव च।
आदित्यमश्विनौ चैव रुद्रञ्चैव तु वत्सरान् ।। 33.12 ।।
प्रागादि पञ्चवायूंश्च मध्यादिषु सामह्वयेत्।
देवदेवं समादाय स्थापयेदथ पश्चिमे ।। 33.13 ।।
पाद्याद्यैरर्चयेद्विद्वान् स्नपनोक्तविधानत:।
'सोमं राजा' मित्युक्त्वा 'शन्नो देवी' रिति क्रमात् ।। 33.14 ।।
'इषे त्वोर्जे' त्वेति जपन् 'अग्न आयाहिवी' ति च।
'अग्निमील' इति प्रोच्य देवेशं स्नापयेद्बुध: ।। 33.15 ।।
'वारीश्चतस्र' इत्युक्त्वा सर्वोपस्नानमाचरेत्।
एवं पञ्चामृतस्नानं सर्वशान्तिकरं परम् ।। 33.16 ।।
राजराष्ट्रर्द्धिजननं सर्वाभीष्टफलप्रदम्।
पञ्चगव्यविधि:
अत: परं प्रवक्ष्यामिं पञ्चगव्यविधि हरे: ।। 33.17 ।।
तण्डुलोपरि देवाग्रे स्थण्डिले चतुरश्रके।
पद्मष्टदलं कृत्वा तन्मध्ये प्रणवं न्यसेत् ।। 33.18 ।।
प्रागादीशानपय्रन्तं दलेष्वष्टाक्षरं न्यसेत्।
तत्पद्मं कुशपुष्पाद्यैरलङ्कत्य तथोपरि ।। 33.19 ।।
पञ्चगव्यलक्षणम्
कपिलाया वरं वरं क्षीरं श्वेताया ?दधि शस्यते।
रक्तायाश्च घृतं ग्राह्यं कृष्णांया गोमयं तथा ।। 33.20 ।।
गोमूत्रं नीलवर्णाया: पञ्चगव्यं शुभप्रदम्।
प्रस्थपादं घृतञ्चैव दधि तद्दिवगुणंस्मृतम् ।। 33.21 ।।
त्रिगुणं क्षीरमित्युक्तं गोमयन्तु चतुर्गुणम्।
षङ्गुणञ्चैव गोमूत्रं पञ्चगव्यं सुयोजयेत् ।। 33.22 ।।
पतितं गोमयं श्रेष्ठं गोमूत्रञ्चाप्यपातितम्।
धारोष्णं क्षीरमादेयं सद्यस्तप्तं घृतं तथा ।। 33.23 ।।
दधि चाप्यनतीताहतमेतद्गव्यस्य लक्षणम्।
मध्ये पदे तु गोमुत्रं दधि पूर्वं यमे घृतम् ।। 33.24 ।।
क्षीरञ्च पश्चिमे सौम्ये गोमयं स्थापयेत्क्रमात्।
आग्नेय्यां गन्धतोयञ्च नैर्ऋत्यामाम्लकं तथा ।। 33.25 ।।
वायव्यामपि हारिद्रमैशान्याञ्च कुशोदकम्।
एवं क्रमे विन्यस्य अधिदेवांत्समर्चयेत् ।। 33.26 ।।
अधिदेवा:
गोमूत्रे जाह्रवी प्रोक्ता यजुर्वेदश्च दध्नि वै।
सामवेदो घृते प्रोक्त: क्षीरे ऋग्वेद एव च ।। 33.27 ।।
अथर्वा गोमये चैव अभ्यर्च्या अष्टविग्रहै:।
सयोजनम्
गायत्र्या चैव गोमूत्रं 'दधिक्रा' व्णेति वै दधि ।। 33.28 ।।
आज्यं 'शुक्रम' सीत्युक्त्वा 'आप्याय' स्वेति वै पय:।
गोमयं 'गन्धद्वा' रेति 'देवस्य त्वा' कुशोदकम् ।। 33.29 ।।
एवं क्रमेण संयेज्य चतुर्वेदादिमन्त्रकै:।
स्नपनप्रकार:
स्नापयेत्पञ्चगव्येन आम्लेन च सुशोधयेत् ।। 33.30 ।।
?'सिनीवा' लीति हारिद्रै: गन्धै: 'भूरानिले' ति च।
स्वादुशीतलतोयेन नरसूक्तेन वै हरिम् ।। 33.31 ।।
सस्नाप्य वस्न्नाभरणैरलङ्कृत्य निवेदयेत्।
अभिषिक्तावशिष्टं तदमृतं गव्यमेव वा ।। 33.32 ।।
प्राशयित्वा महापापैरुपपापै: प्रमुच्यते।
ऐहिकान् सकलान् भोगान् भुक्त्वा सायुज्यमाप्नुयात् ।। 33.33 ।।
शुद्यर्थ पञ्चगव्यसाधनम्
देहबेरालयादीनां शुद्ध्यर्थं यत्प्रयुज्यते ।। 33.34 ।।
सूतसात्त्वतचण्डालसूतिकादिप्रवेशने।
पञ्चगव्यन्तु संयोज्यं प्रोक्षयेत्तेन मन्दिरम् ।। 33.35 ।।
पञ्चगव्यानि सङ्गृह्य पञ्चपात्रेषु पूरयेत्।
स्वगृहस्याङ्गणे चैव गोमयेनोपलिप्य च।
तन्मध्ये षोडशदलं रङ्गवल्लीञ्च कारयेत् ।। 33.37 ।।
द्रोणार्धतण्डुलै: पूर्णं कांस्यपात्रं प्रगृह्य च।
तन्मध्ये विलिखेत्पद्मं दलपञ्चकसंयुतम् ।। 33.38 ।।
पात्राणि पञ्चगव्यानां विन्यसेत्तद्दलेषु च।
मध्य आज्य प्रतिष्ठाप्य पूर्वस्मिन् दधि निक्षिपेत् ।। 33.39 ।।
क्षीरन्तु दक्षिणे चैव गोमय पश्चिमे तथा।
उत्तरे चैव गोमूत्र क्रमेण स्थापयेद्बुध: ।। 33.40 ।।
घृते तु सामवेदञ्च दध्नि ऋग्वेदमेव च।
क्षीरे अथर्ववेदञ्च गोमये स्कन्दमेव च ।। 33.41 ।।
शर्व देवञ्च गोमूत्रे अधिदेवान् समर्चयेत्।
आज्यं 'शुक्रम' सीत्युक्त्वा षोडशाशां प्रगृह्यं च ।। 33.42 ।।
'दधिक्राण्ण' इत्युक्त्वा क्षिप्त्वा तद्दिवगुणं दघि।
'आप्याय' स्वेति मन्त्रेण त्रिगुणं क्षीरमाहरेत् ।। 33.43 ।।
'गन्धद्वा' रेति मन्त्रेण गोमयञ्च चतुर्गुणम्।
षड्गुणञ्चैव गोमूत्रं गायत्?त्र्य तत्र निक्षिपेत् ।। 33.44 ।।
'वणो: पवित्र' मित्युक्वा एकीकुर्यात्तु पञ्चकम्।
पञ्चगव्याधिदेवस्य मूर्तिमन्त्रं वदाम्यहम् ।। 33.45 ।।
'पञ्चगव्यं शिवञ्चेशमव्यक्त' मिति पूजयेत्।
जपित्वा विष्णुसूक्तञ्च 'रुद्रमन्यं-त्र्यम्बकम्' ।। 33.46 ।।
प्रोक्षणम्
'अणोरणीया' नित्युक्त्वा 'आपो हि ष्ठा' दि भिस्तथा।
प्रोक्षणैरनुवाकैश्च प्रोक्षयेत्सर्वमन्दिरम् ।। 33.47 ।।
प्राशनम् 'शन्नो देवी' रिति प्रोच्य पञ्चगव्यञ्च त्रि: पिबेत्।
पञ्चगव्य तथा पीत्वा पूतो भवति निश्चय: ।। 33.48 ।।
आचार्यकरदत्तं तत्पञ्चगव्यं पिबेद्बुध:।
प्रतिष्ठार्थञ्चोत्सवार्थमन्यकार्यार्थमेव च ।। 33.49 ।।
वैखानसकुले जातं निषेकादिक्रियान्वितम्।
उक्तलक्षणसम्पन्नं श्रेष्ठं ज्ञानसमन्वितम् ।। 33.50 ।।
गृहस्थं कर्मकुशलं ब्रह्मचारिणमेव वा।
वानप्रस्थमथो वाऽपि वरयेद्गुरुमुत्तमम् ।। 33.51 ।।
रक्षाबन्धनकार्यादीन् कारयेदिति शासनम्।
आचार्यमृतिज्वज: कुर्याद्वनस्थब्रह्मचारिणौ ।। 33.52 ।।
तयोरपि न दोष: स्यादिति पूर्वजशासनम्।
आचार्यकरदत्तन्तु त्रि: पिबेत्पञ्चगव्यकम् ।। 33.53 ।।
फलश्रुति:
पञ्चगव्यं तथा पीत्वा सर्वपापै: प्रमुच्यते।
अङ्कुरार्पणकदूर्ध्वमारम्भदिवसादध: ।। 33.54 ।।
दीक्षितानामाशैचाभावकथनम
आशौयं यदि सम्प्राप्तं कर्ममध्ये विशेषत: ।। 33.55 ।।
स्नानेनैव विशुद्धि: स्यात्स्नात्वा कर्म समाचरेत्।
दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् ।। 33.56 ।।
आशौचं न भवेत्तेषामुदके पद्मपत्र वत्।
दीक्षितोऽप्येकपुत्रस्तु मातापित्रोर्गुरोर्मृतौ ।। 33.57 ।।
संस्कृत्य शालामागत्य देवकार्यं समाचरेत्।
देवकार्यसमाप्तौ तु प्रेतकार्य समाचरेत् ।। 33.58 ।।
प्रेतकार्यसमाप्तौ तु देवकार्यं समाचरेत्।
पूर्वन्तु देवकार्य स्यात्प्रेतकार्यमनन्तरम् ।। 33.59 ।।
दिने दिने च कर्तव्यमिति शातातपोब्रवीत्।
देवकार्यस्य मध्ये चेदाचार्यमरणं यदि ।। 33.60 ।।
प्राणोत्क्रमणकोल तु रक्षाबन्धं विसृज्य च।
तत्पुत्रादिषु चद्वध्द्वा शीघ्रं कर्म प्रवर्तयेत् ।। 33.61 ।।
तत्पुत्रादिष्वलब्धेषु देवहस्ते तु बन्धयेत्।
अन्यमार्चायमा हूय कार्यशेषं समापयेत् ।। 33.62 ।।
बन्धनन्तु न कर्तव्यं सर्वकर्म समारेत्।
अज्ञानादन्यहस्ते तु बुन्धयेद्यदि मूढधी: ।। 33.63 ।।
तत्कर्म निष्फलं प्रोक्तं राजराष्ट्रविनाशनम्।
शुद्धस्पनविधि:
अत: परं प्रवक्ष्यामि शुद्धस्नानविधिं हरे: ।। 33.64 ।।
मण्डले त्वभिषेकार्थ बहि: सोपानमण्डपे।
संस्थापयदेद्देवदेवं स्नपनाय एव वा ।। 33.65 ।।
आस्थानमण्डपे वाऽथ कुर्याच्दुद्धाभिषेचनम्।
गोमयेनोपलिप्यैव मण्डपं चतुरश्रकम् ।। 33.66 ।।
पञ्चवर्गैरलङ्कत्य वितानस्तम्भवेष्टनै:।
मुक्तादामावलम्बैश्च पुष्पदामवालम्बनै: ।। 33.67 ।।
पताकाभिर्ध्वजैश्चैव अलङ्कत्य च सर्वत:।
सर्वत्र दीनानरोप्य तन्मध्ये सोत्तरच्छदम् ।। 33.68 ।।
विष्टरं सुस्थिरं न्यस्य पूजकस्सुसमाहित:।
'भु: प्रपद्य' इति देवेशं प्रणम्यैवानुमान्य च ।। 33.69 ।।
'परं रं' हेति मन्त्रेण पीठादादाय चात्वर:।
स्वस्तिसूक्तं समुच्चार्य शाकुनं सूक्तमेव च ।। 33.70 ।।
शङ्खघोषयुतं नीत्वा स्थापयेदत्र विष्टरे।
'प्रतद्विष्णु:स्तवत' इति स्थापयित्वा समाहित: ।। 33.71 ।।
स्नपाङ्गोपचार:
'नरायणाय वि' द्मेति पादपुष्पाणि विन्यसेत्।
पाद्यमाचमनं दत्वा पूर्वोक्तविधिना तत: ।। 33.72 ।।
'अन्नाद्यां येति मन्तेण दन्तधावनमाचरेत्।
तेनैव जिह्वाशुद्धिञ्च मुखप्रक्षालनं तथा ।। 33.73 ।।
पुनराचमनं दत्वा प्लोतेन परिमृज्य च।
मुखवासं निवेद्यैव प्रणम्यैवानुमान्य च ।। 33.74 ।।
देवस्यापरभागं तदाच्छाद्यैव गलादध:।
देवस्य पश्चिमे स्थित्वा गुरुस्तद्भावभावित: ।। 33.75 ।।
'अतो देवा' दि मन्त्रांश्च 'सोमं राजान' मुच्चरन्।
तैलेनाभ्यञ्जनं कृत्वा केशानाबद्ध्य वै पुन: ।। 33.76 ।।
सुगन्धिमालयाऽऽवेष्ट्य पाणी प्रक्षाल्य वै तत:।
ललाटात्पादपर्यनतं तैलेनाभ्यज्य मर्दयेत् ।। 33.77 ।।
शालिपिष्टेन देवाङ्गं विमृजेच्चन्दानेन वा।
तैलसमर्पण्वर्ज्यकाला:
अष्टम्याञ्च नवम्याञ्च चतुर्दश्याञ्च पर्वणि ।। 33.78 ।।
अभ्यञ्जनञ्च दन्तानां धावनं चर्जयेत्तथा।
ततो देवं समासाद्य स्नानवेद्यान्तु पूर्ववत् ।। 33.79 ।।
प्राङ्मुखं स्थापयेत्सम्यक् तमिन्दुमुखमेव वा।
पाद्यमाचमनं दत्वा प्रणम्यैवानुमान्य च ।। 33.80 ।।
'परिलिखित' मिति मन्त्रेण आम्लेन परिशोधयेत्।
तेनैव केशशुद्धिञ्च कुर्यादामलकादिभि: ।। 33.71 ।।
'वारीश्चतस्र' इत्युक्त्वा वारिणा स्नापयेत्पुन:।
'नमो वरुण' इत्युक्त्वा स्नापयेत्पुष्पवारिणा ।। 33.82 ।।
'सिनीवा' लीति देवाङ्गमालिप्य च हरिद्रया।
'भूरानिलय' इत्युक्त्वा स्नापयेद्गन्धवारिणा ।। 33.83 ।।
पुनराचमनं दत्वा वस्त्रञ्चैवोत्तरीयकम्।
दद्याद्यज्ञोपवीतञ्च तत्तन्मन्त्रमुदीरयन् ।। 33.84 ।।
दत्वा चानामिकाङ्गुल्यो: पवित्रे परहस्तयो:।
अष्टोपचारैरभ्यर्च्य वेदै: संस्तूय च क्रमात् ।। 33.85 ।।
सहस्रधारास्नापनक्रम:
शङ्खपद्माङ्कपात्राभ्यामावर्जितजलेन च।
सहस्रधारापत्रेण पौरुषं सूक्तमुच्चरन् ।। 33.86 ।।
नारायणानुवाकेन स्नापयित्व तत: परम्।
देव्योश्च तत्तन्मन्त्राभ्यां तत्त न्मन्त्रैरथापि वा ।। 33.87 ।।
संस्नाप्यच चन्दनं दत्वा प्लोतेन परिमृज्य च ।
वस्त्रखण्डेन धौतेन सूक्ष्मेनाच्छाद्य मन्त्रवित् ।। 33.88 ।।
कल्पयित्वोत्तरासङ्गमलकानपि शोधयेत्।
पुनराचमनं दत्वा दद्यात्पुष्पाणि पादयो: ।। 33.89 ।।
ततो दंव समादाय स्थापयेत्पूपर्वविष्टरे।
अलङ्करणप्रकार:
सूक्ष्मकौशेयवस्त्रेण चित्रकक्ष्यायुतेन च ।। 33.90 ।।
अलङ्कृत्य च देवेशं यथा चक्षुर्मन:प्रियम्।
विसृज्यालकबन्धञ्च धूपं दत्वा यथोचितम् ।। 33.91 ।।
उत्तरीयोपवीताभ्यां भूषणैरपि भूषयेत्।
आसनादिभिरभ्यर्च्य दीपान्ताचमानान्तकै: ।। 33.92 ।।
नित्यार्चनोक्तविधिना दर्पणादीन् यथाविधि।
राजवद्विग्रहाश्चापि तत्तन्मन्त्रै: प्रयोजयेत् ।। 33.93 ।।
मात्रादानञ्च कृत्वा तु मधुपर्क निवेद्य च।
'अथावनीद' मन्त्रेण मण्डलं चतुरश्रकम् ।। 33.94 ।।
कृत्वाऽत्रास्तीर्य धौतञ्च पत्रं प्रागुत्तराग्रकम् (?)।
प्रागग्रमुत्तराग्रं वा सन्न्यसेत्कदलीभवम् ।। 33.95 ।।
'आ मा वाजस्य' मन्त्रेण क्षालयेत्प्रोक्षयेत्तु वा।
हवि: पात्राधिपं सूर्यं तस्य पार्श्वे समर्चयेत् ।। 33.96 ।।
'देवस्य' त्वेति मन्त्रेण घृतेनाप्यभिघार्य च।
'अमृतोपस्तरणम' सीति हवि: प्रक्षिप्य तत्र वै ।। 33.97 ।।
फलं गुडोपदंशादीन् दधि क्षीरमथापि वा।
तत्र निक्षिप्य गायत्र्या देवेशायेति संस्मरन् ।। 33.98 ।।
तस्यैव परितो दिक्षु प्रागादिषु यथाक्रमम्।
पायसान्नेन चत्वारि शुद्धान्नेन हर्वीषि च ।। 33.99 ।।
पात्रै: पञ्चभिरादाय त्रिपादोपरि विन्यसेत्।
'यत्ते सुसीम' इत्युक्त्वा घृतमास्राव्य तत्र वै ।। 33.100 ।।
अभिमृश्यान्नसूक्तेन दद्यादाचमनं पुन:।
'तदस्य' प्रियं' मित्युक्त्वा 'सुभू: स्वय' मुदीर्य च ।। 33.101 ।।
हविर्निवेदयेद्विष्णो: प्रभूतं भक्तिसंयुतम्।
अमन्त्रकं द्वितीयञ्च तृतीयञ्च निवेदयेत् ।। 33.102 ।।
अर्चकस्य मनस्तृप्तिर्यावता सन्निवेदयेत्।
चतुर्दिक्षु त्रिपादोर्ध्वे न्यस्तान्यपि हर्वी?षि च ।। 33.1103 ।।
मूर्तीनां पुरुषादीनां तत्तन्मन्त्रैर्निवेदयेत्।
आज्येन साज्यचरुणा होमं हुत्वा यथाविधि ।। 33.104 ।।
'इदं विष्णु' रिति प्रोज्य पानीयं स्वादु शीतलम्।
प्रस्थपूर्णेन पात्रेण पञ्चधैव निवेदयेत् ।। 33.105 ।।
पुनराचमनंदत्वा मुखवासं निवेदयेत्।
अपूपान् पृथुकान् लाजान् कदल्यादिफलानि च ।। 33.106 ।।
निवेद्याष्टाक्षरेणैव नारिकेलफलानि च।
पुनराचमनं दत्वा मुखवासं निवेदयेत् ।। 33.107 ।।
परीत्य मन्दिरं पश्चात्सर्वालङ्कारसंयुतम्।
स्थापयेज्जीवस्थाने तु 'भूरसि भ' रिति ब्रुवन् ।। 33.108 ।।
विना राजोपचारैश्च प्रभूतहविषा तथा।
स्थापयित्वा समभ्यर्च्य दत्वा पञ्चविधं हवि: ।। 33.109 ।।
अर्चापीठे न्यसद्देवमिदं मध्यममीरितम्।
नित्याभिषेचनान्ते च देवान् संस्थाप्य तत्र च ।। 33.110 ।।
पाद्यमाचमनं दत्वा कृत्वा वै दन्तभावनम्।
दर्पणं दर्शयित्वा तु मुखवासं निवेद्य च ।। 33.111 ।।
तैलेनाभ्यज्य चाम्लाद्यै: शोधयित्वाऽभिषिच्य च।
हरिद्रयाऽङ्गमालिप्य गन्धौदैरभिषिच्य च ।। 33.112 ।।
अष्टोपचौरभ्यर्च्य स्नापयित्वा च पूर्ववत्।
जीवस्थाने प्रतिष्ठाप्य वस्त्रेणाच्छाद्य पूर्ववत् ।। 33.113 ।।
आसनादिभिरभ्यर्च्य दीपान्ताचमनान्तकै:।
शुद्धान्नमेव देवाय हविर्दद्यात्समन्त्रकम् ।। 33.114 ।।
पानीयाचमनं दत्वा मुखवासं निवेदयेत्।
एष एव विशेष: स्यादप्यत्सर्वञ्च पूर्ववत् ।। 33.115 ।।
इत्यार्षो श्रीवैक्षानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे षञ्चामृतस्नान पञ्चगव्यविधि शुद्धस्नानविधि कथनं नाम त्रयस्त्रिंशोऽध्याय:।
--------