क्रियाधिकारः/चतुस्त्रिंशोऽध्यायः

विकिस्रोतः तः
← त्रयस्त्रिंशोऽध्यायः क्रियाधिकारः
चतुस्त्रिंशोऽध्यायः
[[लेखकः :|]]


चतुस्त्रिंशोऽध्याय:
गोदाप्रतिष्ठा
अत: परं प्रवक्ष्यामि गोदाया: स्थापनं परम्।
विष्णो: प्रीतिकरं पुण्यं सर्वकामफलप्रदम् ।। 34.1 ।।
पुरा बृन्दावने पुण्ये भूमिदेव्यंशसम्भावा।
विष्णुभक्तिसमायुक्ता विष्णुभोगाभिलाषिणी ।। 34.2 ।।
द्विभुजा मानुषी भूत्वा हरिं प्राप्तवती स्वयम्।
गोदेति नाम्ना विख्याता भूमिलोके विशेषत: ।। 34.3 ।।
सायुज्यं प्राप्तवत्यन्ते विष्णुना सहचारिणी।
तत्प्रतिष्ठाक्रमं वक्ष्ये शृणुध्वं मुनिसत्तमा: ।। 34.4 ।।
मासर्क्षतिथिवारादि: पूर्वमेव मयोदित:।
यथोक्तदिवस कुर्यादङ्कुरार्पणपूर्वकम् ।। 34.5 ।।
सम्भाराहरणादीनि कृत्वा चैचव प्रयत्नत:।
भूदिदेवीप्रतिष्ठोक्तं विधिना सर्वमाचरेत् ।। 34.6 ।।
अक्ष्युन्मेषं द्वितीयेऽह्रि वास्तुहोमादिकं तथा।
अधिवासत्रयञ्चापि बिम्बशुद्ध्यर्थमाचरेत् ।। 34.7 ।।
पौण्डरीक: प्रधानाग्नि: शेषं पूर्ववदाचरेत्।
कुम्भान् वेद्यां समारोप्य धान्यराशौ तु पूर्ववत् ।। 34.8 ।।
पञ्चनिष्कप्रमाणेन प्रतिमास्तेषु निक्षिपेत्।
नवरत्नानि निक्षिप्य वस्त्रैरावेष्ट्य यत्नत: ।। 34.9 ।।
ततो ध्यानसमायुक्त: कुम्भेष्वावाहनं चरेत्।
जयाद्यप्सरसोऽष्टौ च संमभ्यर्च्य निवेदयेत् ।। 34.10 ।।
कौतुकं पूर्ववद्वध्द्वा शयने शाययेच्च ताम्।
सर्वदेवार्चनं कृत्वा वेदानध्यापयेत्तत: ।। 34.11 ।।
पौण्डरीकं परिस्तीर्य हौत्रशंसनमाचरेत्।
हौत्रशंसनवेलायां समाह्वानञ्च मूर्तिभि: ।। 34.12 ।।
'गोदां वसुमतीं लक्ष्मीसखीं विष्णुसतीं' विदु:।
पूर्वोक्तेन विधानेन सर्वकुण्डेषु होमयेत् ।। 34.13 ।।
भूमिमन्त्रद्वयेनैव हुनेदष्टोत्तरं शतम्।
एष एव विशेषस्स्यात्सर्व पूर्वोक्तवच्चरेत् ।। 34.94 ।।
नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरु:।
तत: प्रभाते धर्मात्मा देवीमुत्थाप्य मन्त्रत: ।। 34.15 ।।
कलशै: स्नाप्य पूर्वोक्तैरलङ्कत्याम्बरादिभि:।
रत्नन्यासादिकं कृत्वा पीठे संयोजृय मन्त्रवित् ।। 34.16 ।।
सुधया वा दृढीकृत्य यजमानुयजो गुरु:।
शिरसा कुम्भमादाय ग्राममालयमेव वा ।। 34.17 ।।
प्रदक्षिणवशान्नीत्वा देवागारं प्रवेशयेत्।
गुरं सम्पूज्य विधिना वस्त्राभरणकुण्डलै: ।। 34.18 ।।
यथोक्तदक्षिणां दद्याद्देवीप्रीतिकरं भवेत्।
मुहूर्ते समनुप्रप्ते सम्यगावाहनं चरेत् ।। 34.19 ।।
भूमिमन्त्रद्वयेनैव सर्वं पूर्ववदाचरेत्।
उपचारैस्मभ्यर्च्य प्रभूतं वा महाहवि: ।। 34.20 ।।
निवेदयित्वा विधिना ब्रह्मघोषञ्च कारयेत्।
सहस्रविप्रभुक्तिञ्च दशदानञ्च कारयेत् ।। 34.21 ।।
एवं य: कुरते भक्त्या गोदास्थापनमत्वर:।
सर्वान् कामानवाप्यैव विष्णुसायुज्यमाप्नुयात् ।। 34.22 ।।
पादुकाप्रतिष्ठा
अत: परं प्रवक्ष्यामि पादुकास्थापनं परम्।
हेमराजितताम्रादिद्रव्यै: कृत्वा सलक्षणम् ।। 34.23 ।।
पादुकां देवदेवस्य पादयोग्यां सरत्नकाम्।
सर्वलक्षणसंयुक्तां कारयित्वाऽतिसुन्दरम् ।। 34.24 ।।
यजमानो विशेषेण पादुकास्थापनं क्रमात्।
कारयित्वा यथाशास्त्रं देवदेवस्य पादयो: ।। 34.25 ।।
योजयेत्सर्वकामांश्च लभेत्कर्ता न शंसय:।
अन्यथा देवदेवस्य प्रीणनं न भवेद्ध्बुवम् ।। 34.26 ।।
तस्मात्कर्ता यथाशक्ति कारयित्वा ददेन्मुदा।
कृत्वाऽङ्कुरार्पणं पूर्वमाचायर्चवरणादिकम् ।। 34.27 ।।
ऋत्विजां वरणं सर्वं प्रतिष्ठोक्तवदाचरेत्।
वास्तुहोमं ततो हुत्वा निष्कत्रयसुवर्णकै: ।। 34.28 ।।
वास्तुपुरुषं समावाह्य शुद्धिं कृत्वा तु तस्य च।
अधिवासञ्च कृत्वा तु पूर्वोकृतविधिना तत: ।। 34.29 ।।
कुम्भं संसाध्य विधिना निष्कहेम्ना पृथक्पृथक्।
अष्टमङ्गलसंयुक्तं प़ञ्चायुधयुतं पृथक् ।। 34.30 ।।
पादुकाया: स्वरूपञ्च कृत्वा निष्कत्रयेण च।
वैष्णवेन विनिक्षिप्य कुम्भमध्ये विचक्षण: ।। 34.31 ।।
कलशैस्सप्तभिस्स्नानं सम्यक्कृत्वा सलक्षणम्।
आघारं विधिवत्कृत्वा हौत्रं तत्र प्रशंस्य च ।। 34.32 ।।
शेषं तदधिदेवञ्च समावाह्यैव मूर्तिभि:।
निरुप्याऽज्याहुतीर्हुत्वा शयनञ्च प्रकल्प्य च ।। 34.33 ।।
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च।
शेषमन्त्रद्वयेनैव शतमष्टोत्तरं यजेत् ।। 34.34 ।।
दिक्पालानां मनुंश्चैवमष्टाविंशतिसङ्ख्य्या।
जयादीनपि हुत्वा तु यद्देवादिपुरस्सरम् ।। 34.35 ।।
हुत्वा होमं समाप्यैव रात्रिशेषं व्यपोह्य च।
प्रातस्स्नानादि कृत्यैव मुहूर्ते च समावहेत् ।। 34.36 ।।
ततो देवस्य पदयो: पैष्णवेन ददेन्मुदा।
महाहवि: प्रभूतं वा देवेशाय निवेदयेत् ।। 34.37 ।।
एवं य: कुरुते भक्त्या पादुकास्थापनं नर:।
सर्वैश्वर्यमवाप्यैव सर्वं पाप व्यापोह्य च ।। 34.38 ।।
सर्वदानाफलं लब्ध्वा सामीप्यफलमुपाश्नुते।
नवीकरणमुद्धिश्य शक्त्याकर्षणपूर्वकम् ।। 34.39 ।।
जीर्णबेरविधानेन सर्व कर्म समाचरेत्।
भक्तप्रतिष्ठा
अत: परं प्रवक्ष्यामि भक्तानां स्थापने विधिम् ।। 34.40 ।।
जटिनं शिखिनं वापि ब्राह्मणं परिकल्पयेत्।
प्राञ्जलिं भावनायुक्तं नासान्ताहितलोचनम् ।। 34.41 ।।
क्षत्रियं मकुटोपेतं वैश्यमुद्बुद्धकुन्तलम्।
कुर्याच्छूंद्रानुलोमा?दीन् रोमचूडासमन्वितान् ।। 34.42 ।।
अथवा मुण्डितान्वाऽपि भगवद्ध्यानतत्परान्।
यदाकारेण देवेशं पश्येयुस्तत्तदाकृतीन् ।। 34.43 ।।
अष्टतालोक्तमार्गेण द्विजातीन् परिकल्पयेत्।
मध्यमेनैव शूद्रादीन् कारयित्वा यथाविधि ।। 34.44 ।।
भक्तानां ध्रुवबेरस्य देव्योश्चैव तथैव च।
प्रमाणं पूर्वमेवोक्त ध्रुवबेरवशात्तथा ।। 34.45 ।।
कृत्वैवं भक्तबिम्बन्तु प्रतिष्ठामाचरेत्पुन:।
असुरा विद्याधरा: पूजा ऋषयो मानवास्तथा।
ब्राह्मणै: क्षत्रियै वैष्यैश्शूद्रैरप्यन्त्यजातिभि: ।। 34.47 ।।
(तत्तद्भक्तिसमायुक्तै: तच्चिह्रैस्तत्परायणै:।
कर्तव्यं भक्तबिम्बानां भजनं विष्णुमन्दिरे) ।।
उत्तरायाणकाले तु दक्षिणे वा त्वरान्वित:।
पुण्यर्क्षे मासनक्षत्रे पूर्वपक्षे विशेषत: ।। 34.48 ।।
स्थिरराशिं प्रगृह्यैव उभये वा शुभोदये।
तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्क्रमात् ।। 34.49 ।।
तृतीये दिवसे कुर्याच्छिल्पिना चाक्षिमोचनम्।
पूर्वोक्तलक्षणैर्युक्तमाचार्य वरयेत्क्रमात् ।। 34.50 ।।
प्रमुखे दक्षिणे वाऽपि उत्तरे वा मनोरमे।
मण्डपं वाऽथ कूटं वा प्रपां वाऽपि विधानत: ।। 34.51 ।।
औपासनाग्निकुण्डञ्च कृत्वा आधारमाचरेत्।
अङ्गहोमञ्च हुत्वा तु पाञ्चभैतिकसंयुतम् ।। 34.52 ।।
नयनोन्मीलनं कृत्वा पुण्याहं वाचयेत्तत:।
नद्यां वाऽथ तटाके वा वाप्यां वाऽथ कटाहके ।। 34.53 ।।
अधिवास्यैव तद्विम्बं बेरशुद्धिं समाचरेत्।
पूर्वोक्तलक्षणैर्युक्तां यागशालां प्रकल्पयेत् ।। 34.54 ।।
वितानाद्यैरलङ्कत्य सर्वालङ्कारशोभिताम्।
तन्मध्ये स्थण्डिलं कृत्वा बिम्बाध्यर्धप्रमाणत: ।। 34.55 ।।
प्राच्यामाहवनीयञ्च श्वभ्रं पूर्ववदाचरेत्।
उत्तरे वास्तुहोमार्थां पूर्वोक्तेन विधानत: ।। 34.56 ।।
पर्यग्निञ्चैव कृत्वा तु प्रोक्षणै: प्रोक्षणं चरेत्।
आघारं पूर्ववद्धुत्वा वैष्णवेन समन्वितम् ।। 34.57 ।।
अधिवासगतं बेरं यागशालां प्रवेशयेत्।
पूर्वोक्तेन विधाने कुम्भपूजां समाचरेत् ।। 34.58 ।।
तत्तद्रूपं तथा ध्यायेत्कुम्भम्ध्ये विशेषत:।
पञ्चभि: कलशैस्स्नाप्य बिम्बं यत्नेन शोधयेत् ।। 34.59 ।।
वस्त्रपञ्चकमास्तीर्य स्थापयेत्कुम्भसंयुतम्।
अलङ्कत्य च वस्त्राद्यैरर्चयेदष्टविग्रहै: ।। 34.60 ।।
पुण्याहं वाचयेत्तत्र बध्द्वा प्रतिसरं तत:।
शयने शाययेद्वेरं यतो द्वारं ततश्शिर: ।। 34.61 ।।
उत्तराच्छादनं कुर्याद्दीपान्तञ्च समर्चयेत्।
अग्निं सम्परिषिच्चैव मूलहोमश्च हूयते ।। 34.62 ।।
अष्टाशीतिं ततो हुत्वा महाव्याहृतिसंयुतम्।
अष्टाक्षरेण मन्त्रैण शतष्टोत्तरं यजेत् ।। 34.63 ।।
तत्तन्मूर्ती: स्वमन्त्रेण अष्टोत्तरसहस्रकम्।
नृतैर्गीतैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात् ।। 34.64 ।।
पुन: प्रभाते धर्मात्मा स्नात्वा स्नानविधानतम:।
शयितं बेरमुत्थाप्य प्रणम्यैवानुमान्य च ।। 34.65 ।।
पूर्वमाल्यैरलङ्कत्य पूजयेदष्टविग्रहै:।
अन्तहोमं तत: कृत्वा गर्भागारं प्रवेशयेत् ।। 34.66 ।।
प़ञ्चरत्नं सुवर्णञ्च पीठस्थाने विनिक्षिपेत्।
आचार्यदक्षिणां शिष्यो दत्वोदकपुरस्सरम् ।। 34.67 ।।
मुहूर्ते समनुप्राप्ते यजमानयुतो गुरु:।
कुम्भ बेरं समादाय आलयं सम्परीत्य च ।। 34.68 ।।
जीवस्थाने निवेश्यैव स्थापयित्वोक्तविष्टरे।
आत्मसूक्तं जपित्वा तु तत्तद्वीज़्च विन्यसेत् ।। 34.69 ।।
तन्नामाद्यक्षर बीजं न्यसेदोङ्कारवेष्टितम्।
तन्मुर्तिमन्त्रे सयोज्य मूलमन्त्रावसानके ।। 34.70 ।।
घटाच्छक्तिं समावाह्य बेरमूर्धनि चाह्वयेत्।
पुण्याहं वाचयेत्तत्र स्वस्तिघोषणमाचरेत् ।। 34.71 ।।
पूर्वोक्तविग्रहै: सर्वैरर्चयित्वा निवेद्य च।
तन्निवेदितशेषन्तु तद्भक्तानां प्रदापयेत् ।। 34.72 ।।
अनुक्तानि च सर्वाणि मूर्तिमन्त्रेण कारयेत्।
प्रतिष्ठायामुत्सवे च नित्यहोमे तथैव च ।। 34.73 ।।
परिवारप्रितिष्ठासु भक्तानां स्थापने तथा।
भक्तानां परिवाराणां स्वाहान्ते च वदेद्गुरु: ।। 34.74 ।।
विष्णवे नम इत्यक्त्वा सर्वेषामाहुतीर्यजेत्।
(तदन्तर्यामिणं विष्णुं सर्वहूतिषु संयजेत्) ।। 34.75 ।।
विष्णवालयगताश्चैव परिवारास्तथैव च।
भक्ता भृत्याश्च सर्वे च विष्णुरुपाश्च भाविता: ।। 34.76 ।।
इत्यूचे भगवान् ब्रह्मा पुरा सर्वान् मुनीन् प्रति।
तच्छ्रुत्वा मुनयस्सर्वे पर्यपृच्छन् पितामहम् ।। 34.77 ।।
ब्रह्मन् विष्णुस्वरुपा: स्यु: परिवारा: कथं प्रभो।
इत्युक्तस्सर्वलोकानां सुष्टा प्रोवाच तान्मुनीम् ।। 34.78 ।।
श्रृणुध्वं मुनयस्सर्वे यद्यूयं परिपृच्छथ।
विश्वव्यापनशीलत्वाद्विणुरित्यभिधीयते ।। 34.79 ।।
तस्माद्विष्णुष्णुस्वरुयांश्च परिवारान् विभावयेत्।
परिवारस्य मन्त्रान्ते तत्तन्नाम वदेत्सुधी: ।। 34.80 ।।
तत्तन्नाम्ना न कुर्याच्चेत्क्रुद्ध: स्याद्भगवान् हरि:।
(तच्छिष्याश्च प्रशिष्याश्च तत्तत्पादाश्च ? देवता:)
तस्माच्छास्त्रं समालक्ष्य विष्णवे सम्प्रदापेयत् ।। 34.71 ।।
कर्षणे भूनरीक्षायां गोगणानां निवेदने।
शिलादार्वोश्च ग्रहणे मधूच्छिष्टविधावपि ।। 34.82 ।।
लोहस्रावे तथा नैत्ये देव्योश्च स्थापने तथा।
तयोस्तु पाणिग्रहणे भक्तानां स्थापने तथा ।। 34.83 ।।
जयन्त्यां स्नपने चैव मधुवल्मीकसम्भवे।
कलहादिसमुद्भूतौ वास्तुहोमाङ्गहोमयो: ।। 34.84 ।।
नयनोन्मीलने चैव अधिवासत्रयेऽपि च।
कर्मस्वेतेषु विंशत्सु कार्य: श्रामणकानल: ।। 34.85 ।।
अथवाऽऽहवनीयग्नौ हुत्वा कर्म पृथक्चरेत्।
श्रामणाहवनीयौ च पर्यायाविति केचन ।। 34.86 ।।
एवं य: कुरुते भक्त्या भक्तानी पूजनं बुधा:।
ग्रामशान्तिकरञ्चैव भक्तानामभिवृद्धिदम् ।। 34.87 ।।
इह लोके सुखं भुङ्क्त्वा पत्नीपुत्रासमन्वित: