क्रियाधिकारः/त्रिंशोऽध्यायः

विकिस्रोतः तः
← एकोनत्रिंशोऽध्यायः क्रियाधिकारः
त्रिंशोऽध्यायः
[[लेखकः :|]]
एकत्रिंशोऽध्यायः →


त्रिंशोऽध्याय:
दशानामवताराणां स्थापनं वक्ष्यते तत:।
अवताराणां एकत्र कल्पनम्
पूर्वमेव मया प्रोक्तं पृथगालयकल्पनम् ।। 30.1 ।।
एकगर्भगृहे स्युश्चेत्षोडशांशं विभज्य च।
कल्पयेदनिरुद्धस्य चतुरंशांस्तु मध्यमे ।। 30.2 ।।
अथवा केवलं विष्णुमासीनं स्थितमेव वा।
अंशौ द्वौ पुरतस्त्यक्त्वा द्वारार्थं मुनिसत्तमा: ।। 30.3 ।।
शेषेषु दशभागेषु मत्स्याद्यंशान् प्रकल्पयेत्।
यस्य यस्य यो देश: कल्पित: पदकल्पने ।। 30.4 ।।
अवस्थाभेदभिन्नानि तत्तद्रूपाणि तत्पदम्।
समभागं प्रकल्प्याऽत्र स्थापयित्वा समर्चयेत् ।। 30.5 ।।
प्रधानाभिसमुखान् कुर्यादवतारान् यथाक्रमम्।
खिले विस्तरश: प्रोक्तमेतेषां लक्षणं पुरा ।। 30.6 ।।
ध्रुवकौतुकसंयुक्तं कुर्यात्प्रत्येकमुत्तमम्।
संस्थाप्य कौतुकं वाऽथ केवलं विहिते पदे ।। 30.7 ।।
आदिमूर्तेस्मावाह्य पूजयेदिति केचन।
अपादनं दशांशानामनिरुद्धो यत: (1)स्मृत:(1.) अनिरुद्धादय: स्मृता: ख. ।। 30.8 ।।
एतन्मध्यममुद्दिष्टमधमं केवलं ध्रुवम्।
स्थापयित्वाऽग्रत: पीठे समावाह्य समर्चयेत् ।। 30.9 ।।
आदिमूर्तिसमं वाऽथ कर्णसीमान्तमेव वा।
अथवा बाहुसीमान्तं तब्देराणि प्रकल्पयेत् ।। 30.10 ।।
पञ्चमूर्तिप्रतिष्ठायां पुरुषादिप्रकल्पने।
एतदेव प्रमाणं स्यादधिकं न समाचरेत् ।। 30.11 ।।
प्रमाणं पञ्चवीराणां ब्राह्मणो गरुडस्य च।
वासुदेवसमं वाऽथ बाह्वन्तं वाऽधिकं न च ।। 30.12 ।।
बिम्बं दशावाताराणां केवलं कौतुकं यदि।
आदिमूर्तिध्रुवोत्सेधं त्रिधा कृत्वा विचक्षण: ।। 30.13 ।।
एकभागं व्यपोह्यैव द्विभागं चोत्तमोदयम्।
त्?ित्रभागद्विभागोच्चं मध्यमं प्रतिमोदयम् ।। 30.14 ।।
एकांशमधमं तत्तदन्तरे नवधा कृते।
सप्तविंशतितुङ्गानि पूर्ववत्परिकल्पयेत् ।। 30.15 ।।
केवलं कौतुकं स्याच्चेदर्चास्थाने प्रकल्पयेत्।
निर्माल्यहारिणं तेषामर्चयेत्परितोऽमितम् ।। 30.16 ।।
परितो वैनतेयस्य मध्यमे नवभि: पदै:।
कल्पयेदनिरुद्धस्य वाहनानि (?) प्रकल्पयेत् ।। 30.17 ।।
इत्थं बेराणि कृत्वैवं प्रतिष्ठामारभेत्पुन:।
कल्पयेद्यागशालाया उपपीठपदं क्रमात् ।। 30.18 ।।
परितस्तब्दहि: पङ्क्तौ प्राच्यां दिशि पदत्रयम्।
याम्यादिषु तथैकैकं द्वारार्थं परिकल्पयेत् ।। 30.19 ।।
आग्नेयादीशपर्यन्तं मत्स्यादीनां यथाक्रमम्।
ततृतद्दिक्षु दशांशानां प्रधानाग्नौन् प्रकल्पयेत् ।। 30.20 ।।
श्वभ्रं शयनवेदिंञ्च कल्पयित्वा यथोचितम्।
अङ्कुरार्पणकादूर्ध्वमक्ष्युन्मेषादिका: क्रिया: ।। 30.21 ।।
विनैव सर्वदैवत्यं पारमात्मिकमेव च।
प्रतिष्ठामुत्सवादींश्च पूर्ववत्परिकल्पयेत् ।। 30.22 ।।
एषां प्रधानमन्त्राश्च मुर्तिभेदास्तथैव च।
पूर्वमेव मया प्रोक्ता: सर्वमन्यद्धरेरिव ।। 30.23 ।।
आवाहनं दशांशानां आदिमूर्तेर्ध्रुवाद्यादि।
निष्कलत्वाद् ध्रुवस्यास्य कुर्यात्कौतुकनामभि: ।। 30.24 ।।
विपरीतं यदि भवेद्ध्रुवनाम्ना समर्चयेत्।
वाराहं नारसिंहञ्च रामं कृष्णं तथैव च ।। 30.25 ।।
(ध्रुवबेरवशात्कृत्वा केवलं कैतुकं तथा)
(1)दक्षिणोत्तरयोस्सम्यक् स्थापयेन्मुखमण्डपे।
स्थापयेदन्तराले वा नृत्तमण्डप एव वा (1.) पश्चिमोत्तरयो: ख. ।। 30.26 ।।
तेषाञ्च स्थापने शालां वराहार्थं प्रकल्प्य च।
दक्षिंणाभिमुखीं शालां (2)वामनस्य प्रकल्पयेत् (2.) तत्तद्दिक्षु प्रकल्प्य च ख.
।। 30.27 ।।
तद्दक्षिणे वा पूर्वस्मिन् राघवार्थं प्रकल्प्येत्।
कृत्वा वामे नृसिंहार्थं तद्वामे पूर्वमेव वा ।। 30.28 ।।
कृष्णार्थं कल्पयेद्यागशालां प्राक्पश्चिमायताम्।
पश्चिमे शयनं तत्र कारयित्वा तदग्रत: ।। 30.29 ।।
सङ्कल्पयेत्प्रधानाग्निं स्नानश्वभ्रं तदग्रत:।
वास्तुहोमावसाने तु कुम्भं संसाध्य पूर्ववत् ।। 30.30 ।।
स्नपनं शयनारोहं ह्मैत्रशंसनमेव च।
सर्वञ्च पूर्ववत्कृत्वा प्रधानाग्नौ तथाऽखिलम् ।। 30.31 ।।
तत्ततृप्रधानमन्त्रैश्च शतमष्टोत्तरं यंजेत्।
प्रातस्स्नात्वा विधानेन प्रविश्य मुखमण्डपम् ।। 30.32 ।।
वराहं दक्षिणे (3)रामं मत्स्यं संस्थाप्य दक्षिणे।
नारसिंहं तथा वामे कृष्णं तस्य च वामत: (3.) तस्य राघवं स्?थाप्य. ख ।। 30.33 ।।
वाराहनारसिंहौ तु स्थापयित्वाऽग्रमण्डपे।
अन्तरालेऽथवा कृष्णरामौ संस्थाप्य पूजयेत् ।। 30.34 ।।
दक्षिणे नारसिंहं वा वारहरहितं यदि।
एकबेरविमानस्य गर्भगेहेऽग्रमण्डपे ।। 30.35 ।।
औत्सवं स्थापनं कर्तुं यदि स्यात्स्थानसङ्कट:।
अग्रमण्डपबाह्ये तु प्रतिमां मण्डपे कृते ।। 30.36 ।।
औत्सवस्योक्तदेशे तु तत्र संस्थाप्य पूजयेत्।
परप्रधानबिम्बानां पूजा षोडशविग्रहै: ।। 30.37 ।।
(एष एव विशेष: स्यादन्यत्सर्वं हरेरिव।
अथवा मत्स्यकूर्मौ तु गर्भगेहस्य मध्यमे ।। 30.38 ।।
प्रतिष्ठाप्य वराहादीन् दिक्ष्वष्टासु प्रकल्पयेत्।
ध्रुवञ्च कौतुकञ्चैव कुर्यादग्रे पृथक्पृथक्) ।। 30.39 ।।
(एष एव विशेष: स्यादन्यत्सर्वञ्च पूर्ववत्)
पञ्चवीराणां स्थापनम्
स्थापनं पञ्चवीराणामर्चनञ्च तपोधना:।
प्रवक्ष्यामि समासेन शृणुध्वं मुनिसत्तमा: ।। 30.40 ।।
वासुदेवादिदेवानां पञ्चानां विष्णुना सह।
पञ्चनवीरार्चनं प्रोक्तं ब्रह्मणा च सहार्चनम् ।। 30.41 ।।
अन्नप्रजापतियुतं रहितं वा तपोधना:।
पुष्टिद सर्वलोकाना सर्वाध्वरुलावहम् ।। 30.42 ।।
पञ्चवीरार्चनं ह्येतद्वेदवैदिकवर्धनम्।
सर्वैश्वर्यप्रदं नृणां मुक्तिदं सर्वसिद्धिदम् ।। 30.43 ।।
(1)नदीविशालमष्टाङ्गं सोमच्छन्दं चतु:स्फुटम्।
सर्वतोभद्रकं वाऽपि गोपुराकृतिकन्तु वा (1.) नन्दी. ख. ।। 30.44 ।।
एकतलं द्वितलं वा कल्पयित्वा यथाविधि।
आदिभूमिं घनं कुर्याद्द्वितीये स्थापयेत्तले ।। 30.45 ।।
गर्भव्यासाष्टभागैकहीनोच्चे वसुदेवजे।
त्रयस्त्रिंशतिदण्डैकाधिक: सङ्कर्षणोदय: ।। 30.46 ।।
वासुदेवाधिकोत्सेधो बलभद्रो (1)नु दैविकै।
प्रद्युम्नो वासुदेवस्य कर्णसीमान्तकोदय: (1.) अधिकोदय: ख. ।। 30.47 ।।
(2)नस्यस्तनावासानोच्चौ रुक्मिणी साम्ब एव च।
वासुदेवस्य हिक्कान्तस्त्वनिरुद्ध उदाहृत: (2.) तस्य नासावसानौ च. ख.
।। 30.48 ।।
वासुदेवसमोत्सेधं कल्पयेत्कमलासनम्।
समष्टिरूपमेतेषां मध्ये विष्णुं प्रकल्पयेत् ।। 30.49 ।।
स्थावरं जङ्गमञ्चापि तथा स्थावरजङ्गमम्।
श्रीभूमिसहितं कुर्याद्रहितं वा यथाविधि ।। 30.50 ।।
स्थापयेद्वासुदवादीन् पञ्च वै मानुषे पदे।
स्थापयेद्वासुदेवन्तं ब्रह्मसूत्रात्तथोत्तरे ।। 30.51 ।।
श्यामलं द्विभुजं देवं शङ्खचक्रसमन्वितम्।
पद्मात्रायतदृशं प्रसन्नेन्दुनिभाननम् ।। 30.52 ।।
पीताम्बरधरं देवं सर्वाभरणभूषितम्।
दक्षिणे रुक्मिणीं देवीं श्यामां रक्ताम्बरोज्जवलाम् ।। 30.53 ।।
मीनकुण्डलताटङ्कां यज्ञसूविराजिताम्।
ताटङ्कं दक्षिणे कर्णे वामे मकरकुण्डलम् ।। 30.54 ।।
कुञ्चितं दक्षिणं पादं वामपादञ्च सुस्थितम्।
करं प्रसारितं वामं दक्षिणं वरदं तथा ।। 30.55 ।।
अथवा दक्षिणेनैव दिव्यपङ्कजधारिणीम्।
तस्याश्च दक्षिणे भागे बलदेवं प्रकल्पयेत् ।। 30.56 ।।
श्वेताभं द्विभुजं कुर्याद्दक्षिणेनाभाभयप्रदम्।
उद्देशवामहस्तञ्च सर्वाभरणभूषितम् ।। 30.57 ।।
दक्षिणे भित्तिपार्श्वे तु ब्रह्मणां कनकप्रभम्।
द्विभुजं कटिकं वामं दक्षिणेनाभयप्रदम् ।। 30.58 ।।
उदङ्मुखं स्थितं कुर्यात्सर्वाभरणभूषितम्।
उत्तरे वासुदेवस्य प्रद्युम्नं द्विभुजं स्थितम् ।। 30.59 ।।
सस्?यश्यामनिभं कुर्यात्सर्वाभरणभूषितम्।
अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ।। 30.60 ।।
उत्तरां भित्तिमाश्रित्य साम्ब़ञ्च द्विभुजं स्थितम्।
दक्षिणाभिमुखं श्यामं सर्वाभणभूषितम् ।। 30.61 ।।
वरदं दक्षिणं हस्तं वामं कट्यवलाम्बितम्।
तत्प्राच्यामनिरुद्धञ्च प्रवालाभं प्रकल्पयेत् ।। 30.62 ।।
अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम्।
(1)दक्षिणाभिमुखं तस्य हस्तौ साम्बवदेव हि (1.) दक्षिणाभिमुखञ्चैव सर्वाभरणभूपितम्. ख. ।। 30.63 ।।
दशालालोत्तमेनैव मध्ये विष्णुं प्रकल्पयेत्।
स्थावरं दैविके भागे पदे ब्राह्मे तु जङ्गमम् ।। 30.65 ।।
वासुदेवसमोत्सेधं स्थावरं समुदाहृतम्।
सर्वानुकूलमानेन केवलं जङ्गमं यदि ।। 30.66 ।।
कौतुकं पञ्चवीराणां स्थापयेत्तत्तदग्रत:।
यदाकारं ध्रुवाकारं तदाकारञ्च कौतुकम् ।। 30.67 ।।
सर्वेषां कौतुकं मध्ये विष्णुमेकं तथापि वा।
औत्सवं स्नापनञ्चैव विष्णुमेव चतुर्भुजम् ।। 30.68 ।।
अन्नप्रजापतिं कुर्यात्प्राच्यामेवानिरुद्धत:।
भूताकारं प्रकुर्वीत द्विभुजं वा चतुर्भुजम् ।। 30.69 ।।
परितस्तु त्रयस्त्रिंशद्देवान् गर्भगृहेऽर्चयेत्।
प्राग्भितौ द्वादशादित्यान् रुद्रान् दक्षिणभित्तिकान् ।। 30.70 ।।
प्रतीच्याञ्च वसूनष्टौ नासत्यावुत्तरे क्रमात्।
द्वारस्य दक्षिणे भागे खड्गशक्तिशरारिण: ।। 30.71 ।।
गदाञ्च कल्ययेव्दामे शङ्खं शार्ङ्गञ्च खेटकम्।
अङ्कुशं पद्ममित्येवमर्चयेच्च दशायुधान् ।। 30.72 ।।
परितो लोकपालांश्च प्रह्लादं ज्ञानमूर्तिकम्।
पूजयेद्द्व शादित्यान् रुद्रानेकादश क्रमात् ।। 30.73 ।।
वसूनष्टौ च नासत्यौ चतुर्ज्योतींषि च क्रमात्।
प्राग्भित्तौ पाण्डवान् कुर्यात्तलेऽधब्स्ताद्वहिर्मुखान् ।। 30.74 ।।
उत्तरे दक्षिणाद्यञ्च तत्तच्चिह्रसमायुतान्।
प्रागग्भित्तौ दैविकान्पञ्चवीरान् सङ्कल्पयेब्दुध: ।। 30.75 ।।
एष एव विशेष: स्यादन्यत्सर्वं हरेरिव।
सुमासपक्षनक्षत्रमुहूर्तकरणादिषु ।। 30.76 ।।
अङ्कुराण्यर्पयित्वैव द्रव्याण्यपि समाहरेत्।
यागशालाञ्च पञ्चाग्नीन् पौण्डरीकञ्च कल्पयेत् ।। 30.77 ।।
औपासनविहीनञ्च दक्षिणाग्नेस्तु दक्षिणे।
आवसथ्योत्तरे कुर्यादन्नमूर्तेस्तथैव च ।। 30.78 ।।
अक्ष्युन्मेषाधिवासादीन् सर्वं पूर्ववदाचरेत्।
अधिवासगतान् देवान् समुद्धृत्याभिषेचयेत् ।। 30.79 ।।
अलङ्कत्य यथान्यायं कुर्याद्ग्रामप्रदक्षिणम्।
स्थापयेद्यागशालायां नैऋते विष्टरोपरि ।। 30.80 ।।
संसाध्य पूर्ववत्कुम्भं सर्वषा़ञ्च पृथक्पृथक्।
अलङ्कत्य समभ्यच्र्य बद्ध्वा प्रतिसरामपि ।। 30.81 ।।
शयने शाययित्वैव वेदानध्यापयेत्क्रमात्।
वासुदेवस्य विष्णोश्च मध्ये हौत्रं प्रशंस्य च ।। 30.82 ।।
रामस्याहवनीयाग्नौ प्रद्युम्नस्य च दक्षिणे।
सामृबस्य गार्हपत्याग्नावावसथ्ये तथैव च ।। 30.83 ।।
हौत्रं स्यादिनरुद्धस्य ब्राह्मणश्च प्रजापते:।
होत्रमौपासनाग्नौ च प्रशंस्याऽवाह्य पूर्ववत् ।। 30.84 ।।
निरुप्याज्याहुतीर्हुत्वा सर्वान् देवान् समर्च्य च।
वासुदेवस्य सभ्याग्निं परिस्तीर्य यथाविधि ।। 30.85 ।।
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च।
श्रीसूक्तञ्च महीसूक्तं पञ्चवारुणसंयुतम् ।। 30.86 ।।
मूलहोमसामयुक्तं यद्दैवादिसमन्वितम्।
आहुतीनां सहस्रञ्च देवं ध्यान् जुहोति च ।। 30.87 ।।
यजेदेवं पुनश्चापि विष्णुमुद्दिश्य तत्र वै।
हुत्वा तु सर्वदैवत्यं वैष्णवं त्रि: पुनर्यजेत् ।। 30.88 ।।
?िमन्दाहुती च पिच्छिन्नं हुत्वा कृत्वा प्रवाहणम्।
रामस्याहवनीयाग्नौ पौरुषं सूक्तमेव च ।। 30.89 ।।
विष्णुसूक्तं ततो ब्राह्मं प्रद्युम्नस्य च दक्षिणे।
वैष्णवं गार्हपत्याग्नौ साम्बस्य जुहुयात्पुन: ।। 30.90 ।।
आवसथ्येऽनिरुद्धस्य यजेदेकाक्षरादिकम्।
रुद्रमन्त्रद्वयेनापि भक्त्या देवमनुस्मरन् ।। 30.91 ।।
ऋत्विगष्टर्ककृत्वस्तु जुहुयादुत्तमादिषु।
यजेदाहवनीयाग्नौ जयादींश्च सकृत्सकृत्‌ ।। 30.92 ।।
ततश्च पौण्डरीकाग्निं परिषिच्य यथाविधि।
विष्णुगायत्रिया पद्मं घृते गव्ये समाप्लुतम् ।। 30.93 ।।
अष्टोत्तरशतं हुत्वा जुहुयात्पारमात्मिकम्।
सभ्याग्निं पौण्डरीकाग्निं विनाऽन्याग्नीन् विसृज्य च ।। 30.94 ।।
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्रुरु:।
प्रात: स्नात्वाऽथ सावित्रीं जप्त्वा सन्ध्यामुपास्य च ।। 30.95 ।।
त्नान्यासं तत: कुर्यादर्चापीठे तु पूर्ववत्।
विसृज्य शान्तिहोमान्ते पौण्डरीकं विधानत: ।। 30.96 ।।
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ।
सभ्यमग्निं परिस्तीर्य विष्णुगायत्रिया यजेत् ।। 30.97 ।।
हुत्वाऽऽदधीत सभ्याग्निं नित्यहोमाय दक्षिणे।
प्रधानकुम्भमाचार्य: पुरत: शिरसा वहन् ।। 30.98 ।।
गच्छेत्तदर्चका: कुम्भान् वहन्तोऽनुनयन्ति च।
शाकुर्न सूक्तमुच्चार्य कुर्याद्धामप्रदक्षिणम् ।। 30.99 ।।
पश्चादन्त: प्रविश्यैव जीवस्थाने निवेश्य च।
जप्त्वाऽत्मसूक्तमाचार्यो मनसा भावयन् हरिम् ।। 30.100 ।।
मन्त्रन्यासाक्षरन्यासौ कृत्वा बिम्बे च पूर्ववत्।
रामादीनाञ्च सर्वेषां तन्नमाद्यक्षरान्वितम् ।। 30.101 ।।
प्रत्यक्प्रवृत्तिं मनसा ध्यायन् विष्णुं परात्परम्।
वासुदेवं समारभ्य रुक्मिण्यन्तमनुक्रमात् ।। 30.102 ।।
मध्ये विष्णुं समावाह्य श्रीभूमिभ्यां समन्वितम्।
तत: सङ्कर्षणादींस्तान् क्रमेणाऽवाहयेत्सुधी: ।। 30.103 ।।
गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान्।
विमानलोकपालांश्च परिवारांस्तथोत्तरान् ।। 30.104 ।।
आवाह्य वासुदेवस्य कुम्भादेव यथाक्रमम्।
एककुम्भे तथा ध्यायेत्सर्वास्तान् विष्णुना विना ।। 30.105 ।।
वासुदेवं समावाह्य तस्मादावाहयेत्क्रमात्।
स्थापकै: सह पुण्याहं वाचयित्वा तु पूर्ववत् ।। 30.106 ।।
हपीषि पायसादीनि रामादीनां निवेदयेत्।
मौद्गिकं ब्रह्मणे दद्यात् शुद्धान्नन्तु प्रजापते: ।। 30.107 ।।
नित्याग्निकुण्डे जुहुयान्मूर्तिहोमं यथाविधि।
कृत्वा बल्युत्सवान्तानि रात्रौ स्नपनमाचरेत् ।। 30.108 ।।
आरभेदुत्सवं पश्चादुत्सवोक्तक्रमेण वै।
हिरण्यपशुभूम्यादीन् गुरवे दक्षिणां ददेत् ।। 30.109 ।।
एष एव विशेष: स्यादन्यत्सर्व हरेरिव।
पञ्चवीराणां स्थापने स्थाननिर्देश:
ग्रामान्ते नगरान्ते वा पर्वतान्ते वनान्तरे ।। 30.110 ।।
नदीसमुद्रतीरेषु विविक्तेऽन्यत्र कुत्रचित्।
पञ्चवीरिदयककहेह प्रतिष्ठाप्य समर्चयेत् ।। 30.111 ।।
पञ्चवीरार्चनप्रकार:
अत: परं प्रवक्ष्यामि पञ्चवीरतमर्चनम्।
अर्चक: प्रातरुत्थाय स्नात्वा सन्ध्यामुपास्य च ।। 30.112 ।।
देवादींस्तर्पयित्‌वाऽद्भि: जप्त्वा जप्यानि पूर्ववत्।
देवालयं प्रविश्याथ परीत्य च यधाविधि ।। 30.113 ।।
कवाटोद्धाटनादीनि कृत्वा सर्वाणि पूर्ववत्।
समृभारानपि सम्भृत्य निर्माल्यमपहाय च ।। 30.114 ।।
हवींषि चोपदंशांश्च पाचयित्वा यथाविधि।
स्नापयेद्वासुदेवन्त 'मिषे त्वा'दि जपन् पुन: ।। 30.115 ।।
विष्णुं पुरषसूक्तेन स्नापयित्वा यथाविधि।
स्नापयेब्दलभद्रन्त 'मापो हि ष्ठा' दिभि: त्रिभि: ।। 30.116 ।।
प्रद्युम्नं विष्णुसूक्तेन साम्बं संस्नाप्य वैष्णवै:।
स्नापयेदनिरुद्धन्तं सूक्तेनैकाक्षरादिना ।। 30.117 ।।
ब्राह्ममन्त्रद्वयेनैव ब्रह्माणञ्च प्रजापतिम्।
(स्नापयित्वा क्रमेणैतान् जीवस्थाने निवेशयेत्)
वासुदेवस्य विष्णोश्चावरणत्रयनामभि: ।। 30.118 ।।
अन्येषामपि देवानां न्यसेत्पुष्पाणि मूर्तिभि:।
अभ्यर्च्य द्वारदेवादीन् पुनरन्त: प्रविश्य च ।। 30.119 ।।
उदङ्मुखस्ममासीनो विष्टरे चैकजानुना।
(1)मन्त्रन्यासं तत: कृत्वा आवाह्य च तथा ध्रुवात् (1.) मन्त्रन्यासाक्षरन्यासौ
कृत्वाऽऽवाह्य ख. ।। 30.120 ।।
केवले जङ्गमे (2)विष्णोर्नावाहन?विर्सने।
एकबेरे तथा विष्णोविशेषस्तत्र वक्ष्यते (2.) विष्णो ख. ।। 30.121 ।।
बिम्बाभिषेचनात्पूर्वमर्चयित्वाऽष्टविग्रहै:।
तैलाभ्यङ्गं तथा कृत्वा संस्नाप्य च यथा पुन: ।। 30.122 ।।
अलङ्कृत्य प्रतिष्ठाप्य पूजयेदष्टविग्रहै:(3)।
विशेषं सम्प्रवक्ष्यामि बलभद्रादिपूजने (3.) पूजयेच्छेपवग्रहै: ख. ।। 30.123 ।।
रामस्याचमनं दद्या 'दापो' हि ष्ठा'दिभि: त्रिभि:।
'हिण्यग'र्भ इत्युक्त्वा दद्यादर्ध्य हविस्तथा ।। 30.124 ।।
'योगे योग' इत्याचमनं प्रद्युम्नस्याभिधीयते।
'इदमाप: शिवा' अर्ध्य '(4)मिह पुष्टि' मिति ब्रुवन् (4.) इहपुष्टिरिह. ख्?ा
।। 30.125 ।।
हविर्निवेदनं कुर्यात्तत: साम्बसमर्चने।
'समाने वृक्ष' इत्युक्त्वा दद्यादाचमनं पुन: ।। 30.126 ।।
विष्णुगायत्रिया चार्ध्यं. 'समाववर्ती' ति वै हवि:।
हविराचमनार्ध्याणि अनिरुद्धस्य पूर्ववत् ।। 30.127 ।।
पूजयेन्मुखवासान्तं सङ्कर्षणपुरस्सरान्।
ब्राह्ममन्त्रद्वयेनैव ब्रह्माणञ्च प्रजापतिम् ।। 30.128 ।।
द्वात्रिंशद्विग्रहैर्विष्णुं वासुदेवञ्च पूजयेत्।
मूर्तय: पूर्वमेवोक्ता: सर्वेषाञ्च मया खिले ।। 30.129 ।।
येषां न मूर्तय: सन्ति तेषां नामभिरर्चनम्।
कौतुकं पञ्चवीराणामेकमेव(1) यदा भवेत् (1.) एवमेव, ख. ।। 30.130 ।।
तदा तु वासुदेवञ्च सङ्कर्षणमिति ब्रुवन्।
प्रद्युम्नं साम्बमित्युक्त्वा अनिरुद्धमिति ब्रुवन् ।। 30.131 ।।
तत: पञ्चभिरावाह्य समभ्यर्च्य यथाविधि।
पञ्चस्वारोपयेद्देवान् पूजनान्ते यथाविधि ।। 30.132 ।।
इति सङ्क्षेपत: प्रोक्तं पञ्चवीरसमर्चनम्।
अनुक्तान्यत्र सर्वाणि विष्णोरिव समाचरेत् ।। 30.133 ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे दशावतार पञ्चवीरप्रतिष्ठादिविधिर्नाम
त्रिंशोऽध्याय:।
------