क्रियाधिकारः/अष्टाविंशोऽध्यायः

विकिस्रोतः तः
← सप्तविंशोऽध्यायः क्रियाधिकारः
अष्टाविंशोऽध्यायः
[[लेखकः :|]]
एकोनत्रिंशोऽध्यायः →


अष्टाविंशोऽध्याय:
पात्राणां संस्कार:
पात्राणामर्चनाङ्गानां नवानां द्विजसत्तमा:।
वक्ष्यामि शुद्धिसंस्कारं कृत्वा तं सम्यगाचरेत् ।। 28.1 ।।
(1)लौहानामर्ध्यपात्राणां हवि: पात्रस्य चैव हि।
तथाऽऽचमनपात्राणां पाद्यार्थानां तथैव च (1.) पञ्चानाञ्चैन. ई. ।। 28.2 ।।
स्नानावाहनपात्राणां बलिपात्रस्य चैव हि।
(2)नीराजनार्थपात्राणां धूपदीपार्थपात्रयो: (2.) तथाऽचमन. ई. ।। 28.3 ।।
सहस्रधारापात्रस्य शङ्खपद्माङ्कपात्रयो:।
लौहानां कलशादीनां त्रिपादानां तथैव च ।। 28.4 ।।
(3)सलक्षणानि कृत्वैतान्यद्भिर्मृद्भिश्च शोधयेत्।
वास्तुहोमं ततो हुत्वा प?र्यग्निकरणं तथा (3.) सन्ध्यारक्षणपात्राणां. ई. ।। 28.5 ।।
पञ्चगव्योक्षणं कृत्वा धान्यपीठोपरि न्यसेत्।
तत्तद्देवांत्समावाह्य समभ्यर्च्य निवेदयेत् ।। 28.6 ।।
आवाहनादिपात्राणां चतुर्णां वरुणोऽधिप:।
शङ्खानां पूर्वमेवोक्ता अर्चनायान्तु देवता: ।। 28.7 ।।
अर्ध्यपानीयपात्राणां सोम एवाधिदैवतम्।
हवि:पात्राधिपो भानु: धूपपात्रे बृहस्पति: ।। 28.8 ।।
दीपनीराजना?र्थानां पात्राणां श्रीरुदाहृता।
सहस्रधारापात्रे तु प्रकृति: कर्णिकान्तरे ।। 28.9 ।।
दलाष्टकेऽष्टैश्वर्याणि चतुर्वेदास्तु तत्र च।
शङ्खपद्मनिधी पूज्यौ शङ्खपद्मङ्कपात्रयो: ।। 28.10 ।।
घण्टायां पूर्वमेवोक्तानधिदेर्वात्समाह्वयेत्।
पात्राणां करकादीनां (1)त्रिपादानां तथैव च (1.) पञ्चानां कलशाधिपा: (?)
।। 28.11 ।।
महाभूतानि पञ्चैव स्कन्दश्च कलशाधिप: (?)।
इत्युक्तान् सर्वपात्राणामधिदेवांत्समर्चचेत् ।। 28.12 ।।
शयनासनयानाना संस्कार:
शयनासनयानाना सस्कारञ्च वदाम्यहम्।
शय्यां खट्वासने पीठं रथरङ्गं तथैव च ।। 28.13 ।।
शिबिकाञ्चैव यानानि तानि कृत्वा यथाविधि।
औपासनाग्निमाधाय वास्तुहोमं यजेत्तत: ।। 28.14 ।।
पर्यग्निपञ्चगव्याभ्यां शोधयित्वा तु पूर्ववत्।
धर्म ज्ञानमथैश्वर्यं वैराग्यमिति वै पृथक् ।। 28.15 ।।
शयनासनयानानां पादानामधिदेवता:।
शयनाधिपतिश्शेषो धर्म एवाऽसनाधिप: ।। 28.16 ।।
यानानामपि सर्वेषां गरुडस्त्वधिदेवता।
कुम्भे तु साधिते सम्यक् ध्यात्वा वै तत्तदीश्वरान् ।। 28.17 ।।
संस्नाप्य सप्तकलशै: धान्योपरि निवेश्य च।
बद्ध्वा प्रतिसरं पादे पूर्वस्मिन्नेव दक्षिणे ।। 28.18 ।।
तांस्तान् देवांत्सप्रावाह्य हौत्रकर्मावसानके।
आवाहनक्रमेणाऽज्यं निरुप्याज्याहुतीर्यजेत् ।। 28.19 ।।
तत्तद्दैवत्यमन्त्रांस्तु सतमष्टोत्तरं यजेतम्।
तत्तन्मूर्तिभिरावाह्य तत्तत्प्रोक्ताधिदेवता: ।। 28.20 ।।
अष्टोपचौरभ्यर्च्य देवमारोपयेत्पुन:।
अर्चयेदासने याने कुर्याद्धामप्रदक्षिणम् ।। 28.21 ।।
शयने शाययेदेवं पूजेयेद्वा यथाविधि।
अन्यानि सर्वपात्राणि शोधयेच्च यथोचितम् ।। 28.22 ।।
प्रच्छन्नपटस्य
सूतादिप्रतिलोमाश्च पाषण्डा: पतितास्तथा।
नास्तिका भिन्नमर्यादास्तथा वै वेददूषका: ।। 28.23 ।।
पापरोगयुताश्चैव तथैव गुरुनिन्दका:।
अर्चनं देवदेवस्य हविर्दाञ्च वीक्षितुम् ।। 28.24 ।।
नार्हन्ति तस्मात्कुर्वीत द्वारं यवनिकावृतम्।
महापातकिनाञ्चापि सन्निधिं परिवर्जयेत् ।। 28.25 ।।
तस्माद्दवारसमायामं कुर्याद्यवनिकापटम्।
द्वारं यवनिकाच्छन्नमकृत्वा पूजयेद्यदि ।। 28.26 ।।
हुत्वा तद्द्वावारदैवत्यं वैष्णवं व्याहृतीर्यजेत्।
देवेदवञ्च संस्नाप्य समभ्यर्च्यं निवेदयेत् ।। 28.27 ।।
पूजाद्रव्याधिदेवार्चामकृत्वा पूजयेद्यदि।
हुत्वा तद्द्वारदैवत्यं वैष्णवं व्याहृतीर्यजेत् ।। 28.28 ।।
(1)(द्रव्याधिदेवतापूजां कृत्वा तैरेव पूजयेत्।
उक्तकाले तु सम्पूर्णे कुर्याद्वै द्वारबन्धनम् (1.) कुण्डलित: पाठ: ख. कोश एव.
।। 28.29 ।।
न कुर्याद्यदि मोहेन सन्ध्यान्ते द्वारबन्धनम्।)
उद्धाटने तदाऽकाले तस्य दोषस्य शान्तये ।। 28.30 ।।
वैष्णवं पौरुषं सूक्तं विष्णूसूक्तं तथैव च।
तत्तत्सन्ध्याधिदैवत्यं हुत्वा कुर्याच्च बन्धनम् ।। 28.31 ।।
प्रातस्सन्ध्येन्द्रदैवत्या माध्याह्री रविदैवता।
तथा वरुणदैवत्या सायंसन्धा प्रकीर्तिता ।। 28.32 ।।
पक्वं ग्रहणवेलायां ग्रहणात्पूर्वमेव वा।
हविर्निवेदयेन्नैव यदि मोहान्निवेदयेत् ।। 28.33 ।।
पीड्यते तु जगत्सर्वमाधिव्याध्याद्युपद्रवै:।
वैष्णवं विष्णुक्तञ्च मन्त्रांश्च ग्रहदैवतान् ।। 28.34 ।।
नवीकरणे विशेषविधय:
हुत्वा संस्नाप्य देवेशं समभ्यर्च्य निवेदयेत्।
एर्कवेरविमानानां पौरुषाणां विशेषत: ।। 28.35 ।।
तथैवोध्दृतबिम्बानां जीर्णानान्तु पुन: कृतौ।
पूर्वप्रमाणादधिकं यदि कुर्यान्न दोषकृंत् ।। 28.36 ।।
पादानुगुणमेवैतत्परितो वर्धयेत्तथा।
पूर्वं मृदालयं यत्तद्दिष्टकादिप्रकल्पने ।। 28.37 ।।
परितो वर्धयित्वैव कारयेदालये तथा।
प्राकाराणान्तु जीर्णानां पुनस्सन्धानकर्मणि ।। 28.38 ।।
अथवा मृण्मयानाञ्च यदि वृद्धिं तथेच्छति।
परितो वार्धयेदेवं प्राच्युदीच्योरथापि वा ।। 28.39 ।।
यद्यग्रे ग्रामवीथी स्यात्तिसृष्वाशासु सर्धयेत्।
शालानां मण्डपानाञ्च पार्श्वयोरग्रतस्तथा ।। 28.40 ।।
वृद्धिं कुर्याद्विशेषेण प्राच्युदीच्योरथापि वा।
उदीच्यामग्न्रतश्चैव वर्धयेत्पचनालयम् ।। 28.41 ।।
एकतस्सङ्कटञ्चेत्तु नदीसागरपर्वतै:।
वर्धयेदन्यपार्श्वेषु नात्र कार्या विचारणा ।। 28.42 ।।
दक्षिणापरवृद्धिश्चेत्क्षेमस्स्यात्तु न जातुचित्।
प्राकारमण्डपादीनां सालानां न समाहरेत् ।। 28.43 ।।
मण्डपादिषु सर्वेषु हीनद्रव्यकृतेषु च।
न्यूनं वाऽप्यधिकं वाऽपि कारयेद्देशिकोत्तम: ।। 28.44 ।।
मुख्यद्रव्यकृतं यत्तु न्यूनं वाऽप्यधिकं न च।
कारयेच्चेत्तदज्ञानाद्यजमानो विनश्यति ।। 28.45 ।।
(तस्मात्सर्वप्रयंत्नेन यथापूर्वं समाचरेत्।)
महानसोत्तरे वाऽथ कुर्यादभिमुखे तथा ।। 28.46 ।।
तटाकादिकल्पनम्
देवालयस्याभिमुखे तटाकं प?रिकल्पयेत्।
तटाकमानं पिश्चत्य रज्जुनाऽऽयादि शोधयेत् ।। 28.47 ।।
तताहतायतेनैव कुर्यादायादिशोधनम्।
नाहेन तिथिवारौ च कल्पयेदिति शासनम् ।। 28.48 ।।
वृत्तार्धं तेन चाहृत्य कूपस्यायादिशोधनम्।
सर्वारामोपकार्याणामग्रे वापीं प्रकल्पयेत् ।। 28.49 ।।
अथ तेषां प्रवक्ष्यामि संस्कारं मुनिसत्तमा:।
वापीकूपतटाकानां तटमश्मेष्टकादिभि: ।। 28.50 ।।
दृढमाबध्द्यकाष्ठासु सोपानक्रमसंयुतम्।
दशाहे तु ततोऽतीते वास्तुहोमं ततो यजेत् ।। 28.51 ।।
पर्यग्निकरणं कृत्वा पञ्चगव्येन शंशोधयेत्।
तन्तुना कुम्भमावेष्ट्य नादेयजलपूरितम् ।। 28.52 ।।
तीर्थमृत्तोयसौवर्णकूर्मयादस्समुज्ज्वलम्।
कुशकूर्चाक्षतोपेतं पुण्युष्पोपशोभितम् ।। 28.53 ।।
धान्यपीठे प्रतिष्ठाप्य वस्त्रयुग्मेन वेष्ट्य च।
'आपो हि ष्ठा' दि मन्त्राणामनुवाकद्वयं जपेत् ।। 28.54 ।।
'नमो वाचे' समुच्चार्य 'शन्नो वात' इतीर्य च।
'आपो वा इद' मित्युक्त्वा मन्त्रैर्वेदादिभिस्तथा ।। 28.55 ।।
अभिमन्त्र्य च तत्कुम्भं तस्मिन्वरुणमर्चयेत्।
'आपो वा इद' मित्युक्त्वा कुम्भतोयन्तु तत्पुन: ।। 28.56 ।।
वापीकूपतटाकेषु प्राङ्मुख: प्रक्षिपेदुगुरु:।
एवं कृत्वा ततस्तोयमुपयुञ्जीत कर्मसु ।। 28.57 ।।
अन्यथा यदि कुर्यात्तु प्रायश्चित्तं विधीयते।
महाशान्तिं सकृद्धुत्वा प्रतिष्ठां पुनराचरेत् ।। 28.58 ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पात्रसंस्कारविधिर्नाम अष्टाविंशोऽध्याय:।