क्रियाधिकारः/सप्तविंशोऽध्यायः

विकिस्रोतः तः
← षड्विंशोऽध्यायः क्रियाधिकारः
सप्तविंशोऽध्यायः
[[लेखकः :|]]
अष्टाविंशोऽध्यायः →


सप्तविंशोऽध्याय:
अस्पृश्यप्रवेशप्रायश्रितम्
अत: परं प्रवक्ष्यामि प्रायश्चित्तं प्रायश्चित्तं तपोधना:।
चण्डालसूतिकोदक्यापतितप्रतिलोमजै: ।। 27.1 ।।
गर्भालये प्रविष्टे तै: स्पृष्टे बिम्बे तथैव च।
सप्तरात्रं महाशान्तिमब्जाग्नौ जुहुयात्तत: ।। 27.2 ।।
जलाधिवासनं कृत्वा जङ्गमानां तथैव च।
(1)ध्रुवशुद्धिञ्च कृत्वा तु प्रतिष्ठां पुनराचरेत् (1.) ध्रुवस्य वर्जयित्वा तु. ख.
।। 27.3 ।।
शूद्रैर्वाऽथानुलोमैर्वा स्पृष्टे बिम्बे तथैव च।
शताष्टकलशैस्स्नाप्य प्रतिष्ठां पुनराचरेत् ।। 27.4 ।।
श्वकुक्कुटवराहाणां सृगालानां प्रवेशने।
स्पर्शने च तथा तेषां शान्तिहोमं जुहोति च ।। 27.5 ।।
पुन: प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत्।
चण्डालादिप्रवेशे तु प्रथमावरेणे यदि ।। 27.6 ।।
वास्तुहोमं हुतृवा शान्तिहोमं जुहोति च।
अष्टोत्तरशतैर्देवं कलशै: स्त्र्नापयेत्तथा ।। 27.7 ।।
द्वितीयावरणे चैव स्नपनं स्याच्छताष्टभि:।
शानितं हुत्वा तृतीये तु चतुर्विशतिभिस्तथा ।। 27.8 ।।
स्त्र्नापयित्वा तु कलशै: (2)समभ्यर्च्य निवेदयेत्।
चतुर्थावरणे चेत्तु वैष्णवं त्वेकविंशतिम् (2.) विशेषेण. ख. ।। 27.9 ।।
हुत्वा तु सप्तकलशैस्स्त्र्नापयित्वा समर्चयेत्।
पञ्चमावमणे चेत्तु दशकृत्वस्तु वैष्णवम् ।। 27.10 ।।
हुत्वा तु पञ्चकलशैस्स्त्र्नापयित्वा समर्चयेत्।
तत्तत्प्रकारपरिषद्दैवत्यं विंशतिं यजेत् ।। 27.11 ।।
षष्ठावरण एवापि कलशैरेव सप्तभि:।
स्नापयित्वा तु विधिवत्पुण्याहमपि वाचयेत् ।। 27.12 ।।
सप्तमावरणे चेत्तु सर्वसञ्चार इष्यते।
वीथ्यामेषां प्रवेशे तु न दोषो भृगुरब्रवीत् (?) ।। 27.13 ।।
परिवारालयान्तश्चेत्तेषां स्त्र्नपनमाचरेत्।
बहिश्चेच्छतकृत्वस्तु तत्तन्मन्त्रं सवैष्णवम् ।। 27.14 ।।
हुत्वा तु सप्तकलशैस्स्त्र्नापयेदिति शासनम्।
पर्यग्निपञ्चगव्याभ्यां शुद्धिस्सर्वत्र कीर्तिता ।। 27.15 ।।
देवालयसमीपे तु प्रतिलोमनिवेशने।
अर्चयेद्देवदेवन्तं महादपि न जातुचित् ।। 27.16 ।।
तत्प्राकारानुषक्तञ्चेन्महादोषो भवेत्तत:।
राष्ट्रस्य यजमानस्य ग्रामस्य च महद्भयम् ।। 27.17 ।।
अपनीय तु चच्छीघ्रं सप्तरात्रं यथाविधि।
महाशान्तिञ्च हुत्वा तु प्रतिष्ठां पुनराचरेत् ।। 27.18 ।।
शतदण्डान्तरे चैव प्रतिलोमनिवेशनम्।
चण्डलपुल्कसानाञ्च क्रोशादूर्ध्व प्रकल्पयेत् ।। 27.19 ।।
मृतिप्रायश्चित्तम्
गर्भालये तु मरणे प्रायश्चित्तं प्रवक्ष्यते।
चण्डालादिप्रवेशे तु यदुक्तं तत्समाचरेत् ।। 27.20 ।।
प्रथमावरणे चेत्तु तत्तथैव समीरितम्।
शालानुषक्तशालासु बहिर्मरणसम्भवे ।। 27.21 ।।
तथैव मरणे चैव महाशान्तिं सकृद्यजेत्।
संस्त्र्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत् ।। 27.22 ।।
गृहीत्वाऽऽधावमज्ञानादन्त: स्थाशवकूपके।
अर्चयेद्यदि तत्पक्वं हविश्चापि निवेदयेत् ।। 27.23 ।।
वैष्णवञ्च शतं हुत्वा 'यद्देवादि' समन्वितम्।
स्नापयित्वा तु कलशैस्समभ्यर्च्य निवेदयेत् ।। 27.24 ।।
मण्डपादीनां अग्निदाहै
अन्यथा चेन्महादोष इति पूर्वजदर्शनम्।
मण्डपे गोपुरे चैव प्रपायाञ्च तथैव च ।। 27.25 ।।
अग्निदाहे महाशान्तिं हुत्वा संस्नापयेद्धरिम्।
वस्त्रादीनां दाहे
गर्भालयेऽग्निदाहे तु वस्त्रे माल्ये च भूषणे ।। 27.26 ।।
बिम्बे आग्रिस्पृष्टे
देवबिम्बेऽग्निसंस्पर्शे तच्छीघ्रं व्यपनीय च।
सप्तरात्रं महाशान्तिं गन्धोदै: स्नपनं चरेत् ।। 27.27 ।।
प्रतिष्ठाञ्च पुन: कृत्वा समभ्यर्च्य निवेदयेत्।
अगिना बेरनाशे
बेरनाशेऽग्निदाहेन तब्द्रेरमपनीय च ।। 27.28 ।।
मासमेकं महाशान्तिं हुत्वा गर्भालये पुन:।
पर्यग्निपञ्चगव्याभ्यां शुद्धिं कृत्वोपलिप्य च ।। 27.29 ।।
बिम्बमन्यत्समादाय प्रतिष्ठामाचरेत्पुन:।
दारावं मृण्मयं बेरं धूमाक्रान्तं परर्यिजेत् ।। 27.30 ।।
ज्वालाक्रान्त तथा शैलं सन्त्यजेत्पेशलं यदि।
भिन्ने घटे घटाकाशं यथाऽऽकाशे प्रलीयते ।। 27.31 ।।
बेरनाशे तथा शक्तिर्विश्वं व्याप्यैव तिष्ठति।
ग्रहस्थानं कल्पयित्वा पह्माग्नौ च तथाऽऽलये ।। 27.32 ।।
महाशान्तिञ्च पह्माग्नौ हुत्वा तत्राष्टदिक्षु च।
तत्तद्ग्रहाग्निकुण्डेषु ग्रहशान्तिं जुहाति च ।। 27.33 ।।
तत्तद्दैवत्यमन्त्रश्य मध्याग्नौ पाञ्चभौतिकम्।
हुत्वा बिम्बं समासाद्य 'नमो ब्रह्मण' ईर्य च ।। 27.34 ।।
'नमो वाचे' समुच्चार्य कुम्भतोयं स्पृशन् जपेत्।
प्रोक्षणै: प्रोक्षयेद्ग्रामं प्रदक्षिणवशेन च ।। 27.35 ।।
संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत्।
तस्मात्पुन: प्रतिष्ठान्तं स्थण्डिले नित्यमर्चयेत् ।। 27.36 ।।
विम्बे सर्पस्पृष्टे
सर्पसंस्पर्शने बिम्बे गर्भगेहप्रवेशने।
वस्त्रमाल्यादि संशोध्य शुद्धोदैरभिषिच्य च ।। 27.37 ।।
कुर्याच्छुद्धिं प्रतिष्ठोक्तां ध्रुवबेरस्य पूर्ववत्।
उच्छिष्टादिस्पर्शे
उच्छिष्वशुचिसंस्पृष्टे बिम्बे पूर्वोक्तवच्चरेत् ।। 27.38 ।।
अनधिकारिभि: स्पर्शे
एवं विप्रैरथान्यैस्तु क्रमाद्द्वित्रिचतुर्गुणै:।
स्त्र्नापयेद्वेश्यसंस्पर्शे शताष्टकलशैर्विभुम् ।। 27.39 ।।
चत्वारिंशाद्भिरष्टाभि: नृपैरभिषेचितै:।
अर्चकान्यद्विजैस्स्पृष्टे शुद्धोदैरभिषेचयेत् ।। 27.40 ।।
अभिषिक्तक्षत्रियैस्तु सर्वं ब्राह्मणवच्चरेत्।
महापातकिसंस्पर्शे प्रेवशे च तपोधना: ।। 27.41 ।।
आचारेत्प्रतिलोमोक्तं प्रायश्चित्तं यथाविधि।
एकबेरकल्पे विम्बनाशे
एकबेरे तथा जीर्णे हीनाङ्गे च तपोधना: ।। 27.42 ।।
यथालाभेन मानेन (1)दारवं बेरमाहरेत्।
तस्मिन्देवं समावाह्य वालस्थाने समर्चयेत् (1.) इत. परं 'दारवं मृण्मयं बेरं धूमाक्रान्तं परित्यजेत्। ज्वालाक्रान्तं तथाशैलं सन्त्यजेत्पेशल यदि' इत्यधिक दृश्यते ख,
।। 27.43 ।।
बालालये तयोरेकं प्रतिष्ठाप्य समर्चयेत्।
नवीकृत्य यथापूर्वं प्रतिष्ठामाचरेदिति ।। 27.46 ।।
एकबेरञ्च लोहञ्चेच्चोरशत्रुभयादिभि:।
तत्रार्चनमयुक्तं तच्छैलं संस्थाप्य तत्र च ।। 27.47 ।।
लौहमौत्सवबैरञ्च कल्पयेदिति शासनम्।
गर्भालयस्थलभ्रंशे
गर्भालयस्थलभ्रंशे वल्मीकादिसमुद्भवे ।। 27.48 ।।
कुम्भं पूर्वोक्तविधिना संस्थाप्याऽवाह्य तत्र वै।
अष्टोत्तरशतं हुत्वा वैष्णवं मूर्तिभिस्तथा ।। 27.49 ।।
बालालयोक्तदेशेषु सन्न्यस्य मुखमण्डपे।
तत्र नित्यार्चनं कुर्वन्नवीकुर्यात्स्थलं दृढम् ।। 27.50 ।।
प्रतिष्ठाविधिना बिम्बे कुम्भादावाहयेत्पुन:।
गर्भालयगतान् देवान् कुम्भस्य परितोऽर्चयेत् ।। 27.51 ।।
पूर्वोक्तदोषसंयुक ध्रुवबेरे विशेषत:।
शीघ्रं बालालयं कुर्यादुक्तदेशे यथाविधि ।। 27.52 ।।
अनुकल्प:
(1)अल्पदोषयुतञ्चेतु बालागारं न कारयेत्।
तद्विमृबसंस्थितां शक्तिं कुम्भे सम्यङ्निवेश्य च (1.) कुण्डलति: ख कोश एव.
।। 27.53 ।।
कुम्भं बिम्बं समादाय मध्यसूत्रात्तु दक्षिणे।
मण्डपे वाऽन्तराले वा मालिकायाम?थापि वा ।। 27.54 ।।
विधिना तत्र स्न्न्यस्यद्वादशाहान्तमर्चयेत्।
द्वादशाहात्परञ्चेतु बालगारं प्रकल्पयेत्) ।। 27.55 ।।
बालालस्याभिमुखे यागशाला प्रकल्पयेत्।
शय्यावेदिञ्च प़ञ्चाग्निकुण्डानि परिस्तथा ।। 27.56 ।।
शय्यावेद्यास्तु पूर्वस्यामेकं वै सभ्यमेव वा।
कल्पयित्वा तु पूर्वेद्यु: सायं सन्ध्यामुपास्य च ।। 27.57 ।।
बालालयस्योत्तरतो वास्तुहोमं तदा यजेत्।
पर्यग्निपञ्चगव्याभ्यां बालागारञ्च शोधयेत् ।। 27.58 ।।
यागशालाञ्च सर्वत्र पुण्याहं वाचयेत्पुन:।
रात्रिपूजावसाने तु देवदेवं समर्च्य च ।। 27.59 ।।
हविर्निवेद्य विधिना 'क्षमस्वे' ति प्रणम्य च।
बालालयस्थापनाक्रम:
तत: प्रणीय नित्याग्निं कुण्डेष्वाघारमाचरेत् ।। 27.60 ।।
(1)(अलाभे मथितं वाऽपि लौकिकं सम्प्रकल्पयेत्।
श्रोत्रियागारतो वाऽपि कुण्डकेष्वाघारमाचरेत् (1.) कुण्डलित: ख कोश एव. ।।)
संसाध्य पूर्ववत्कुम्भं (2)देवाग्रे तु यमान्तरे।
धान्यपीठे सुसन्न्यस्य प्रार्थयित्वा तु पूर्ववत् (2.) पूर्ववत् स्थापयेत्क्रमात्। ई.
।। 27.61 ।।
देवं कुम्भे समवाह्य ध्रुवबेराद्यथाविधि।
गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान् ।। 27.62 ।।
सोपानसंथितान् देवांस्तत्कुम्भाम्भसि संस्मरेत्।
विमानञ्चैव जीर्णञ्चेन्न्यक्षादीश्चतुरस्तथा ।। 27.63 ।।
(3)पीठेऽर्च्यमानपरिषद्देवानिति च केचन।
कुमृभं बिम्बं समादाय स्त्र्नानश्वेभ्रे निवेश्य च (3.) पीठे विमानं. ई. ।। 27.64 ।।
संस्नाप्य सप्तकलशैर्बद्ध्वा प्रतिसरं तथा।
शाययित्वा तथा हौत्रं दक्षिणाग्नौ प्रशंसति ।। 27.65 ।।
तदालयगतान् देवान् समावह्यैव पूर्ववत्।
आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् ।। 27.66 ।।
परितो यागशालान्तु परिबारान् समर्चयेत्।
प्रतिष्ठोक्तक्रमेणैव होमकर्म समाचरेत् ।। 27.67 ।।
व्याहृत्या परिषन्मन्त्रान् दन्नि?णांग्नौ जुहीति वै।
विनैव सर्वदैवतृयं सभ्यहोमं जुहोति च ।। 27.68 ।।
नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात्।
प्रातस्स्नात्वाविधानेन सूक्तानि च तथा जपेत् ।। 27.69 ।।
अर्चापीठं प्रकुर्वीत ब्राह्मे बालालये तथा।
रत्नन्यासं विना पीठे चरराशौ विशेषत: ।। 27.70 ।।
स्थापयित्वाऽग्रत:(1) कुम्भं धान्यपीठे सुसन्न्यसेत्।
आवाह्य कौतुके (2)कुम्भात्तस्मादेवौत्सवार्चयो: (1) तत: ई. (2.) बिम्बे. कुम्भे. ई.
।। 27.71 ।।
गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान्।
तत्तत्स्थाने समावाह्य देवान् सोपानगानपि ।। 27.72 ।।
पुण्याहं वाचसित्वा तु पूजयित्वा यथाविधि।
हर्वीषि पञ्चधा दत्वा नित्यं विधिवदर्चयेत् ।। 27.73 ।।
आवाहनविसर्गौ द्वौ नाचरेत्तरुणालये।
नित्यकुण्डे प्रणीयाग्निं नित्यहोमं समाचरेत् ।। 27.74 ।।
बालालये स्नानशालादिकल्पनम्
स्त्र्ननपानीयशाले च तथैव स्नपनालयम्।
पुष्पसञ्चयशालाञ्च द्रव्यसम्भारमण्डपम् ।। 27.75 ।।
यागशालां ध्वजस्थानं भूतपीठं महानसम्।
पूर्ववत्कारयेद्विद्वान् प्रथमावरणे तथा ।। 27.76 ।।
द्वितीयावरणे चेत्तु भूतपीठं ध्वजं तथा।
बाललयस्याभिमुखे कुर्यादेवं यथाविधि ।। 27.77 ।।
कारयेत्परितस्सर्व तृतीयावरणे यदि।
एष एव विशेषस्स्यादन्यत्सर्वं (1)खिलोक्तवत् ।। 27.78 ।।
तन्त्रसङ्करनिष्कृति:
अत: परं प्रवक्ष्यामि तन्त्रसङ्करनिष्कृतिम्।
विष्णोस्तन्त्रं द्विधा प्रोक्तं सौम्याग्नेयमेव च ।। 27.79 ।।
वैखानसं पाञ्चरात्रं वैदिकं तान्त्रिकं क्रमात्।
द्वयोर्वैखानसं श्रेष्ठमैहिकामुष्मिकप्रदम् ।। 27.80 ।।
तान्त्रिकं पाञ्चरात्रन्तु गौणमामुषिमकप्रदम्।
विधिस्तु वेदमूनलश्च दीक्षायुक्तश्च तान्त्रिक: ।। 27.81 ।।
पाञ्चरात्रमपि प्रोक्तं शुद्धं मिश्रमिति द्विधा।
शुद्धं भागवतं प्रोक्तं पाञ्चरात्रमथेतरत् ।। 27.82 ।।
(तस्माद्वैखानसं श्रेष्ठं व्यासेन कथितं पुरा।)
पूजयेच्छुद्धमार्गेण सूतो वा सात्त्वतोऽथवा।
उत्सृष्टसूत्रा विप्राद्य दीक्षिता मिश्रपूजका: ।। 27.83 ।।
निषेकाद्या: कियास्तेषा तत्तत्तन्त्रेषु चोदिता:।
याऽभवन्मिलितावस्था वेदानां व्यसनात्पुरा ।। 27.84 ।।
तान्तु वैखानसीं शाखां वदन्ति ब्रह्मपारगा:।
तान्तु वैखानसरीं शाखामादावध्यापयत्प्रभु: ।। 27.85 ।।
नाम्ना विखनसं पाहुर्यञ्च वैखानसं तथा।
ऋषीणां सोऽब्रवीत्सूत्रं धर्म समनुबोधयन् ।। 27.86 ।।
ऋषयो बहुसूत्राणि चक्रुस्तस्यानुसारत:।
केचिद्वर्णाश्रमान् धर्मान् वदन्ति स्मृतिरूपत: ।। 27.87 ।।
(2)अथाग्नौ नित्यहोमान्ते सायं प्रातरतन्द्रित:।
विष्णोर्नित्यार्चनं कुर्यात्सवर्ददेवार्चनन्तु तत् (2.) अग्निहोत्रादि ख. ।। 27.88 ।।
इति वैखानसे सूत्रे प्रोक्तं यङ्क्षेपतोऽर्चनम्।
(1)ऋषिभिस्तदुपन्यासो विस्तृतश्च समन्तत: (1.) एतत् स्थाने ऋषिभिश्?च बहुन्यास: स्मृतिभिश्च समन्तत:, इत्यर्थ श्लोको दृश्यते. ई. ।। 27.89 ।।
बहुप्रयोगो व्याख्यातो लोकानां हितकाम्यया।
काश्यपेनात्रिणा चैव मया चैव मरीचिना ।। 27.90 ।।
सोऽयं तत्सूत्रमूलत्वाद्विधिर्वैखानसस्स्मतृ:।
वैक्षानसेन विधिना प्रतिष्ठाप्य यथाविधि ।। 27.91 ।।
अर्चने क्रियमाणे तु पाञ्चरात्रेण सङ्करे।
ग्रामश्य यजमानश्च राजा राष्ट्रञ्च नश्यति ।। 27.92 ।।
पक्षमेकं महाशान्तिं हुत्वा तद्दोषशान्तये।
ब्राह्मणान् भोजयित्वा तु तत्र पञ्चशतावरान् ।। 27.93 ।।
वैखानसेन विधिना प्रतिष्ठाप्यार्चयेत्पुन:।
जनुयुक्तेषु सर्वेषु ग्रामादिषु च वास्तुषु ।। 27.94 ।।
नारायणं देवदेवं पाञ्चरात्रेण नार्चयेत्।
वैखानसेन विधिना पूजयेत्सर्वसम्पदे ।। 27.95 ।।
ग्रामबाह्ये विविक्ते वा नदीतीरे बनेऽचले।
वैखानसेन दिधिना पाञ्चरात्रेण वाऽर्चयेत् ।। 27.96 ।।
पाञ्चरात्रेण विधिना प्रतिष्ठाप्य यथाविधि।
क्रियमाणेऽर्चने मासमेकं हीनार्चनं यदि ।। 27.97 ।।
पाञ्चरात्रे तथाऽऽग्नेये सौम्यस्यास्य प्रवेशनम्।
यदीच्छेत्कारयेद्भक्त्या सौम्यं तच्च (2)भविष्यति(2.) वेखानसेन विधिना अर्चन यत्र वर्तते। यदीच्छेत् पाञ्चरात्रेण कर्तुमाराधन हरे:। तद्ग्रामवासिनस्सर्वे नश्यनित व्याधिभिर्भृशम्। राजराष्ट्र विनश्येत पुत्रदारविनाशनम् ।। तस्मात् सर्वपयत्नेन शीघ्रमालोच्य यत्नत: वैखानसविधानेन प्रतिष्ठा पुनराचरेत्। इत्यधिकं दृश्यते. ई.
।। 27.18 ।।
सप्तरात्रं महाशानितं पौण्डरीके जुहोति च।
ब्राह्मणान्भोजयित्वा तु शक्तितो दक्षिणां ददेत् ।। 27.99 ।।
तत्तन्मन्त्रजपं कुर्याद्भूपरीक्षादि(1) कर्मणाम्।
नयनोन्मीलनादीनामुक्तहोमं जुहोति च (1.) कारयेत्। ई. ।। 27.100 ।।
जलाधिवासं कुर्वीत जङ्गमानान्तु पूर्ववत्।
ध्रुवबेरोदितां शुद्धिं (2)ध्रुवबेरे समाचरेत् (2.) प्रोक्षयेन्मन्त्रवारिणा ई. ।। 27.101 ।।
वैखानसेन विधिना प्रतिष्ठाप्य पुन: क्रमात्।
अर्चनादीनि सर्वाणि विधिना तेन कारयेत् ।। 27.102 ।।
यदीच्छेच्छुद्धपूजायां सौम्यस्यास्य प्रवेशानम्।
पक्षमेकं (3)महाशान्तिं हुत्वा शेषञ्च पूर्ववत् (3.) चकुरुते. ई. ।। 27.103 ।।
स्थापयित्वाऽर्चनादीनि कारयेदिति शासनम्।
अविच्छिन्?नार्चने चाऽपि मिश्रे ग्रामादिवास्तुषु ।। 27.104 ।।
वैखानसेन विधिना (4)प्रतिष्ठाप्यार्चयेदिति।
क्रूरै: शैवादिविधिभिरज्ञानात्सङ्करे सति (4.) अर्चयेदिति केशवम्. ई ।। 27.105 ।।
मासेमकं महाशन्ति हुत्वा विप्रसहस्रकम्।
भोजयित्वा तु सौम्येन प्रतिष्ठाप्य समर्चयेत् ।। 27.106 ।।
सर्वेषामन्यदेवानां तन्त्रसङ्गरनिष्कृतौ।
एष एव विधि: प्रोक्त इति पूर्वजशासनम् ।। 27.107 ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे अस्पृश्यस्पर्शनतन्त्रसङ्करप्रायश्चित्तविधिर्नाम
सप्तविंशोऽध्याय:।
------