कौषीतकिब्राह्मणम्/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४ कौशीतकिब्राह्मणम्
अध्यायः ०५
[[लेखकः :|]]
अध्यायः ०६ →
चातुर्मास्य यज्ञानि


५.१ वैश्वदेवकालः
अथातश् चातुर्मास्यानाम् । चातुर्मास्यानि प्रयुञ्जानः फाल्गुन्याम् पौर्णमास्याम् प्रयुङ्क्ते । मुखम् वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी । मुखम् उत्तरे फल्गू । पुच्छम् पूर्वे । तद् यथा प्रवृत्तस्य अन्तौ समेतौ स्याताम् । एवम् एव एतौ संवत्सरस्य अन्तौ समेतौ । तद् यत् फाल्गुन्याम् पौर्णमास्याम् वैश्वदेवेन यजेत । मुखत एव तस् संवत्सरम् प्रीणाति । अथो भैषज्य यज्ञा वा एते यच् चातुर्मास्यानि । तस्माद् ऋतु संधिषु प्रयुज्यन्ते । ऋतु संधिषु हि व्याधिर् जायते । तानि वा अष्टौ हवींषि भवन्ति । अष्टौ वै चतसृणाम् पौर्णमासीनाम् हवींषि भवन्ति । चतसृणाम् वै पौर्णमासीनाम् वैश्वदेवम् समासः । अथ यद् अग्निर् मथ्यते । प्रजापतिर् वै वैश्वदेवम् । तस्माद् एतम् दैवम् गर्भम् प्रजनयन्ति । अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि वाजिनम् नवमम् । तन् नक्षत्रियाम् विराजम् आप्नोति ।

५.२ वैश्वदेवपर्व
अथ यद् अग्नीषोमौ प्रथमौ देवतानाम् यजति । दार्शपौर्णमासिके वा एते देवते । तस्माद् एनौ प्रथमौ यजति । अथ यत् सवितारम् यजति । सविता वै प्रसवानाम् ईशे । सवितृ प्रसूततायै । अथ यत् सरस्वतीम् यजति । वाग् वै सरस्वती । वाचम् एव तत् प्रीणाति । अथ यत् पूषणम् यजति । असौ वै पूषा यो असौ तपति । एतम् एव त प्रीणाति । अथ यन् मरुतः स्व तवसो यजति । घोरा वै मरुतः स्व तवसः । भैषज्यम् एव तत् कुरुते । अथ यद् वैश्वदेवी पयस्या । एते वै सर्वे देवा यद् विश्वे देवाः । सर्वेषाम् एव देवानाम् प्रीत्यै । अथ यद् द्यावा पृथिवीय एक कपालः । प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव । अथ यत् प्रथमजम् गाम् ददाति । प्रथम कर्म ह्य् एतत् । अथ यत् पुरस्ताद् वा उपरिष्टाद् वा शम्योर् वाकस्यान् आवाहितान् वाजिनो यजति । देव अश्वा वै वाजिनः । तान् एव तत् प्रीणाति । अत्र देवाः स अश्वाः प्रीता भवन्ति । अथो ऋतवो वै वाजिनः । ऋतून् एव तत् प्रीणाति । अथ यत् परस्तात् पौर्णमासेन यजते । तथा ह अस्य पूर्व पक्षे वैश्वदेवेन इष्टम् भवति ।

५.३ वरुणप्रघासः
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ताः सृष्टा अप्रसूता वरुणस्य यवान् जक्षुः । ता वरुणो वरुण पाशैः प्रत्यमुञ्चत् । ताः प्रजाः प्रजापतिम् पितरम् एत्य उपाधावन् । उप तम् यज्ञ क्रतुम् जानीहि येन इष्ट्वा वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः सम्प्रमुच्येमहि इति । तत एतम् प्रजापतिर् यज्ञ क्रतुम् अपश्यद् वरुण प्रघासान् । तम् आहरत् तेन अयजत । तेन इष्ट्वा वरुणम् अप्रीणात् । स प्रीतो वरुणो वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः प्रजाः प्रामुञ्चत् । प्र ह वा अस्य प्रजा वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः सम्प्रमुच्यते य एवम् वेद । अथ यद् अग्निम् प्रणयन्ति । यम् एव अमुम् वैश्वदेवे मन्थन्ति । तम् एव तत् प्रणयन्ति । अथ यन् मथ्यते तस्य उक्तम् ब्राह्मणम् । अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । अथ यन् नव प्रयाजा नव अनुयाजा नव एतानि हवींषि । तन् नक्षत्रियाम् विराजम् आप्नोति । समानानि पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्तानि वैश्वदेविकानि । तेषाम् उक्तम् ब्राह्मणम् ।

५.४ वरुणप्रघासदेवताः
अथ यद् ऐन्द्राग्नो द्वादश कपालः । प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव । अथो मध्यस्थो वा इन्द्रः । तस्माद् एनम् मध्यतो यजति । अथ यद् वारुणी पयस्या । इन्द्रो वै वरुणः । स उ वै पयो भोजनः । तस्माद् वारुणी पयस्या । अथ यन् मारुती पयस्या । अप्सु वै मरुतः श्रिताः । तस्माद् एनान् पयस्या यजति । आपो हि पयः । अथो इन्द्रस्य वै मरुतः । ऐन्द्रम् पयः । तस्मान् मारुती पयस्या । अथ यत् काय एक कपालः । प्रजापतिर् वै कः । तम् एव तत् प्रीणाति । अथो सुखस्य एव एतन् नामधेयम् कम् इति । सुखम् एव तद् आत्मन् धत्ते । अथ यन् मिथुनौ गावौ ददाति । तत् प्रजात्यै रूपम् । अथ यद् वाजिनो यजति । तेषाम् उक्तम् ब्राह्मणम् । अथ यद् अप्सु वरुणम् यजति । स्व एव एनम् तद् आयतने प्रीणाति । अथ यत् परस्तात् पौर्णमासेन यजते । तथा ह अस्य पूर्व पक्षे वरुण प्रघासैर् इष्टम् भवति ।

५.५ साकमेधः
ऐन्द्रो वा एष यज्ञ क्रतुर् यत् साकमेधाः । तद् यथा महा राजः पुरस्तात् सेनानीकानि प्रत्यूह्य अभयम् पन्थानम् अन्वियात् । एवम् एव एतत् पुरस्ताद् देवता यजति । तद् यथा अदः सोमस्य महा व्रतम् । एवम् एव एतद् इष्टि महा व्रतम् । अथ यद् अग्निम् अनीकवन्तम् प्रथमम् देवतानाम् यजति । अग्निर् वै देवानाम् मुखम् । मुखत एव तद् देवान् प्रीणाति । अथ यन् मध्यंदिने मरुतः सांतपनात् यजति । मध्यंदिने वै संतपति । तस्मान् मध्यंदिने मरुतः सांतपनान् यजति । अथो इन्द्रस्य वै मरुतः । ऐन्द्रो मध्यंदिनः । तस्मान् मध्यंदिने मरुतः सांतपनान् यजति । अथ यत् सायम् गृह मेधीयेन चरन्ति । पुष्टि कर्म वा एतद् यद् गृह मेधीयः । सायम् पोषः । तस्मात् पोषवन्ताव् आज्य भागौ भवतः । यजमानम् एव तत् पोषयति । अथ यत् प्रातः पूर्ण दर्वेण चरन्ति । पूर्वे द्युः कर्मणा एव एतत् प्रातः कर्म उपसंतनोति । अथ य मरुतः क्रीडिनो यजति । इन्द्रस्य वै मरुतः क्रीडिनः । तस्माद् एनान् इन्द्रेण उपसंहितान् यजति । अथ यन् महा इन्द्रम् अन्ततो यजति । अन्तम् वै श्रेष्ठी भजते । तस्माद् एनम् अन्ततो यजति । अथ यद् अग्निम् प्रणयन्ति यन् मथ्यते तस्य उक्तम् ब्राह्मणम् । अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन् नवमः । तन् नक्षत्रियाम् विराजम् आप्नोति । समानानि षट् संचराणि हवींषि भवन्त्य् ऐन्द्राग्न अन्तानि वारुण प्रघासिकानि । तेषाम् उक्तम् ब्राह्मणम् । अथ यन् महा इन्द्रम् यजति तस्य उक्तम् ब्राह्मणम् । अथ यद् वैश्व कर्मण एक कपालः । असौ वै विष्व कर्मा यो असौ तपति । एतम् एव तत् प्रीणाति । अथ यद् ऋषभम् ददाति । ऐन्द्रो हि यज्ञ क्रतुः ।

५.६ पितृयज्ञः
अथ यद् अपर अह्णे पितृ यज्ञेन चरन्ति । अपक्षय भाजौ वै पितरः । तस्माद् अपर अह्णे पितृ यज्ञेन चरन्ति । तद् आहुर् यद् अपर पक्ष भाजः पितरो अथ कस्माद् एतान् पूर्व पक्षे यजन्ति इति । दैवा वा एते पितरः । तस्माद् एनान् पूर्व पक्षे यजन्ति । अथ यद् एकाम् सामिधेनीम् अन्वाह । सकृद् इव वै पितरः । तस्माद् एकाम् सामिधेनीम् अन्वाह । सा वा अनुष्टुब् भवति । वाग् अनुष्टुप् । पराञ्च उ वै पितरः । तान् एव एतद् वाचा अनुष्टुभा आगमयति । अथ यद् यजमानस्य आर्षेयम् न आह । न इद् यजमानम् प्रवृणजानि इति । अथ एतम् निगदम् अन्वाह तस्य उक्तम् ब्राह्मणम् । अथ यत् सोमम् पितृमन्तम् पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄन् अग्निष्व् आत्तान् इत्य् आवाहयति । दैवा वा एते पितरः । तस्माद् एनान् आवाहयति । अथ यद् अग्निम् कव्य वाहनम् आवाहयति । एतत् स्विष्टकृतो वै पितरः । तस्माद् एनम् आवाहयति । न ह एके स्वम् महिमानम् आवाहयन्ति यजमानस्य एष महिमा इति वदन्तः । आवाहयेद् इति त्व् एव स्थितम् । अग्नेर् ह्य् एव एष महिमा ।

५.७ साकमेधपर्वणि बर्हिष्मतामुत्सर्जनम्
अथ यत् प्रयाज अनुयाजेभ्यो बर्हिष्मन्ता उत्सृजति । प्रजा वै बर्हिः । तेन प्रजाम् प्रवृणजानि इति । ते वै षड् भवन्ति । षड् वा ऋतवः । ऋतवः पितरः । पितॄन् एव तत् प्रीणाति । अथ यज् जीवनवन्ताव् आज्य भागौ भवतः । यजमानम् एव तज् जीवयति । अथ यत् तिस्रस् तिस्र एक एकस्य हविषो भवन्ति । त्रीणि वै हवींषि भवन्ति । तेषाम् समवद्यति । तस्मात् तिस्रस् तिस्र एक एकस्य हविषो भवन्ति । अथो देव कर्मणा एव एतत् पितृ कर्म व्यावर्तयति । अथो पराम् उ वै परावतम् पितरो गताः । आह्वयत्य् एव एनान् प्रथमया । द्वितीयया आगमयति । प्र एव तृतीयया यच्छति । अथ यद् अग्निम् कव्य वाहनम् अन्ततो यजति । एतत् स्विष्टकृतो वै पितरः । तस्माद् एनम् अन्ततो यजति । अथ यद् अप उपस्पृशति तस्य उक्तम् ब्राह्मणम् । अथ यद् इडाम् उपहूय अवघ्राय न प्राश्नन्ति । पशवो वै इडा । न इद् यजमानस्य पशुन् प्रवृणजानि इति । अथ यद् अध्वर्युः पितृभ्यो ददाति । पितॄन् एव तत् प्रीणाति । अथ यत् पवित्रवति मार्जयन्ते तस्य उक्तम् ब्राह्मणम् । अथ यद् ऋचम् जपन्ति स्वस्त्ययनम् एव तत् कुर्वते । अथ यद् उदञ्चः परेत्य गार्हपत्या आहवनीया उपतिष्ठन्ते । प्रीत्वा एव तद् देवेष्व् अन्तततो अर्थम् वदन्ते । अथो दक्षिणा संस्थो वै पितृ यज्ञः । तम् एव एतद् उदक् संस्थम् कुर्वन्ति । अथ यत् प्राञ्च उपनिष्क्रम्य आदित्यम् उपतिष्ठन्ते । देव लोको वा आदित्यः । पितृ लोकः पितरः । देव लोकम् एव तत् पितृ लोकाद् अभ्युत्क्रामन्ति । अथ यत् सूक्त वाके यजमानस्य नाम न गृह्णाति । न इद् यजमानम् प्रवृणजानि इति । अथ यत् पत्नी सम्याजैर् न चरन्ति । न इत् पत्न्यः प्रवृणजाम इति । अथ यद् उदञ्चः परेत्य त्र्यम्बकैश् चरन्ति । रुद्रम् एव तत् स्वायाम् दिशि प्रीणन्ति । अथो दक्षिणा संस्थो वै पितृ यज्ञः । तम् एव एतद् उदक् संस्थम् कुर्वन्ति । अथ यद् अन्तत इष्ट्वा इष्ट्या यजते । एतत् संस्था वै साकमेधाः । तस्माद् अन्तत इष्ट्वा इष्ट्या यजते । अथ यत् परस्तात् पौर्णमासेन यजते । तथा ह अस्य पूर्व पक्षे साकमेधैर् इष्टम् भवति ।

५.८ सुनासीर्यपर्व
त्रयोदशम् वा एतन् मासम् आप्नोति यत् शुनासीर्येण यजते । एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः । तद् अत्र एव सर्वः संवत्सर आप्तो भवति । अथ यत् शुनासीरौ यजति । शान्तिर् वै भेषजम् शुना सीरौ । शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते । स यद्य् अग्निर् मथ्यते यद् वैश्वदेवस्य तन्त्रम् तत् तन्त्रम् । यद्य् उ न मथ्यते पौर्णमासम् एव तन्त्रम् भवति । प्रतिष्ठा वै पौर्णमासम् प्रतिष्ठित्या एव । अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन् नवमः । तन् नक्षत्रियाम् विराजम् आप्नोति । समानानि त्व् एव पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्ताइ वैश्वदेकिकानि । तेषाम् उक्तम् ब्राह्मणम् । अथ यत् शुना सीरौ यजति । तयोर् उक्तम् ब्राह्मणम् । अथ यद् वायुम् यजति । प्राणो वै वायुः । प्राणम् एव तद् आत्मन् धत्ते । अथ यत् सौर्य एक कपालः । असौ वै सूर्यो यो असौ तपति । एतम् एव तत् प्रीणाति । अथ यत् श्वेता दक्षिणा । एतम् एव तत् प्रीणाति । एतस्य एव तद् रूपम् क्रियते ।

५.९ प्रायश्चित्तं प्रतिनिधिश्च
अथ यत् प्रायश्चित्त प्रतिनिधीन् कुर्वन्ति यद् आहुतीर् जुह्वति । स्वस्त्ययनम् एव तत् कुर्वते । यज्ञस्य एव शान्त्यै । यजमानस्य च भिषज्यायै ।

५.१० स्वीयाग्निभिर्यजमानसंस्थापनम्
अथ यत् स्वैर् अग्निभिर् यजमानम् संस्कुर्वन्ति । देव रथो व अग्नयः । देव रथ एव एनम् तत् समारोपयन्ति । स एतेन देव रथेन स्वर्गंल् लोकम् एति । सुकृताम् यत्र लोकः सुकृताम् यत्र लोकः ।  


५.१ वैश्वदेवकालः
अथातश् चातुर्मास्यानाम् ।
चातुर्मास्यानि प्रयुञ्जानः फाल्गुन्याम् पौर्णमास्याम् प्रयुङ्क्ते ।
मुखम् वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी ।
मुखम् उत्तरे फल्गू ।
पुच्छम् पूर्वे ।
तद् यथा प्रवृत्तस्य अन्तौ समेतौ स्याताम् ।
एवम् एव एतौ संवत्सरस्य अन्तौ समेतौ ।
तद् यत् फाल्गुन्याम् पौर्णमास्याम् वैश्वदेवेन यजेत ।
मुखत एव तस् संवत्सरम् प्रीणाति ।
अथो भैषज्य यज्ञा वा एते यच् चातुर्मास्यानि ।
तस्माद् ऋतु संधिषु प्रयुज्यन्ते ।
ऋतु संधिषु हि व्याधिर् जायते ।
तानि वा अष्टौ हवींषि भवन्ति ।
अष्टौ वै चतसृणाम् पौर्णमासीनाम् हवींषि भवन्ति ।
चतसृणाम् वै पौर्णमासीनाम् वैश्वदेवम् समासः ।
अथ यद् अग्निर् मथ्यते ।
प्रजापतिर् वै वैश्वदेवम् ।
तस्माद् एतम् दैवम् गर्भम् प्रजनयन्ति ।
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि वाजिनम् नवमम् ।
तन् नक्षत्रियाम् विराजम् आप्नोति ।

५.२ वैश्वदेवपर्व
अथ यद् अग्नीषोमौ प्रथमौ देवतानाम् यजति ।
दार्शपौर्णमासिके वा एते देवते ।
तस्माद् एनौ प्रथमौ यजति ।
अथ यत् सवितारम् यजति ।
सविता वै प्रसवानाम् ईशे ।
सवितृ प्रसूततायै ।
अथ यत् सरस्वतीम् यजति ।
वाग् वै सरस्वती ।
वाचम् एव तत् प्रीणाति ।
अथ यत् पूषणम् यजति ।
असौ वै पूषा यो असौ तपति ।
एतम् एव त प्रीणाति ।
अथ यन् मरुतः स्व तवसो यजति ।
घोरा वै मरुतः स्व तवसः ।
भैषज्यम् एव तत् कुरुते ।
अथ यद् वैश्वदेवी पयस्या ।
एते वै सर्वे देवा यद् विश्वे देवाः ।
सर्वेषाम् एव देवानाम् प्रीत्यै ।
अथ यद् द्यावा पृथिवीय एक कपालः ।
प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।
अथ यत् प्रथमजम् गाम् ददाति ।
प्रथम कर्म ह्य् एतत् ।
अथ यत् पुरस्ताद् वा उपरिष्टाद् वा शम्योर् वाकस्यान् आवाहितान् वाजिनो यजति ।
देव अश्वा वै वाजिनः ।
तान् एव तत् प्रीणाति ।
अत्र देवाः स अश्वाः प्रीता भवन्ति ।
अथो ऋतवो वै वाजिनः ।
ऋतून् एव तत् प्रीणाति ।
अथ यत् परस्तात् पौर्णमासेन यजते ।
तथा ह अस्य पूर्व पक्षे वैश्वदेवेन इष्टम् भवति ।

५.३ वरुणप्रघासः
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ।
ताः सृष्टा अप्रसूता वरुणस्य यवान् जक्षुः ।
ता वरुणो वरुण पाशैः प्रत्यमुञ्चत् ।
ताः प्रजाः प्रजापतिम् पितरम् एत्य उपाधावन् ।
उप तम् यज्ञ क्रतुम् जानीहि येन इष्ट्वा वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः सम्प्रमुच्येमहि इति ।
तत एतम् प्रजापतिर् यज्ञ क्रतुम् अपश्यद् वरुण प्रघासान् ।
तम् आहरत् तेन अयजत ।
तेन इष्ट्वा वरुणम् अप्रीणात् ।
स प्रीतो वरुणो वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः प्रजाः प्रामुञ्चत् ।
प्र ह वा अस्य प्रजा वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः सम्प्रमुच्यते य एवम् वेद ।
अथ यद् अग्निम् प्रणयन्ति ।
यम् एव अमुम् वैश्वदेवे मन्थन्ति ।
तम् एव तत् प्रणयन्ति ।
अथ यन् मथ्यते तस्य उक्तम् ब्राह्मणम् ।
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
अथ यन् नव प्रयाजा नव अनुयाजा नव एतानि हवींषि ।
तन् नक्षत्रियाम् विराजम् आप्नोति ।
समानानि पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्तानि वैश्वदेविकानि ।
तेषाम् उक्तम् ब्राह्मणम् ।

५.४ वरुणप्रघासदेवताः
अथ यद् ऐन्द्राग्नो द्वादश कपालः ।
प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव ।
अथो मध्यस्थो वा इन्द्रः ।
तस्माद् एनम् मध्यतो यजति ।
अथ यद् वारुणी पयस्या ।
इन्द्रो वै वरुणः ।
स उ वै पयो भोजनः ।
तस्माद् वारुणी पयस्या ।
अथ यन् मारुती पयस्या ।
अप्सु वै मरुतः श्रिताः ।
तस्माद् एनान् पयस्या यजति ।
आपो हि पयः ।
अथो इन्द्रस्य वै मरुतः ।
ऐन्द्रम् पयः ।
तस्मान् मारुती पयस्या ।
अथ यत् काय एक कपालः ।
प्रजापतिर् वै कः ।
तम् एव तत् प्रीणाति ।
अथो सुखस्य एव एतन् नामधेयम् कम् इति ।
सुखम् एव तद् आत्मन् धत्ते ।
अथ यन् मिथुनौ गावौ ददाति ।
तत् प्रजात्यै रूपम् ।
अथ यद् वाजिनो यजति ।
तेषाम् उक्तम् ब्राह्मणम् ।
अथ यद् अप्सु वरुणम् यजति ।
स्व एव एनम् तद् आयतने प्रीणाति ।
अथ यत् परस्तात् पौर्णमासेन यजते ।
तथा ह अस्य पूर्व पक्षे वरुण प्रघासैर् इष्टम् भवति ।

५.५ साकमेधः
ऐन्द्रो वा एष यज्ञ क्रतुर् यत् साकमेधाः ।
तद् यथा महा राजः पुरस्तात् सेनानीकानि प्रत्यूह्य अभयम् पन्थानम् अन्वियात् ।
एवम् एव एतत् पुरस्ताद् देवता यजति ।
तद् यथा अदः सोमस्य महा व्रतम् ।
एवम् एव एतद् इष्टि महा व्रतम् ।
अथ यद् अग्निम् अनीकवन्तम् प्रथमम् देवतानाम् यजति ।
अग्निर् वै देवानाम् मुखम् ।
मुखत एव तद् देवान् प्रीणाति ।
अथ यन् मध्यंदिने मरुतः सांतपनात् यजति ।
मध्यंदिने वै संतपति ।
तस्मान् मध्यंदिने मरुतः सांतपनान् यजति ।
अथो इन्द्रस्य वै मरुतः ।
ऐन्द्रो मध्यंदिनः ।
तस्मान् मध्यंदिने मरुतः सांतपनान् यजति ।
अथ यत् सायम् गृह मेधीयेन चरन्ति ।
पुष्टि कर्म वा एतद् यद् गृह मेधीयः ।
सायम् पोषः ।
तस्मात् पोषवन्ताव् आज्य भागौ भवतः ।
यजमानम् एव तत् पोषयति ।
अथ यत् प्रातः पूर्ण दर्वेण चरन्ति ।
पूर्वे द्युः कर्मणा एव एतत् प्रातः कर्म उपसंतनोति ।
अथ य मरुतः क्रीडिनो यजति ।
इन्द्रस्य वै मरुतः क्रीडिनः ।
तस्माद् एनान् इन्द्रेण उपसंहितान् यजति ।
अथ यन् महा इन्द्रम् अन्ततो यजति ।
अन्तम् वै श्रेष्ठी भजते ।
तस्माद् एनम् अन्ततो यजति ।
अथ यद् अग्निम् प्रणयन्ति यन् मथ्यते तस्य उक्तम् ब्राह्मणम् ।
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन् नवमः ।
तन् नक्षत्रियाम् विराजम् आप्नोति ।
समानानि षट् संचराणि हवींषि भवन्त्य् ऐन्द्राग्न अन्तानि वारुण प्रघासिकानि ।
तेषाम् उक्तम् ब्राह्मणम् ।
अथ यन् महा इन्द्रम् यजति तस्य उक्तम् ब्राह्मणम् ।
अथ यद् वैश्व कर्मण एक कपालः ।
असौ वै विष्व कर्मा यो असौ तपति ।
एतम् एव तत् प्रीणाति ।
अथ यद् ऋषभम् ददाति ।
ऐन्द्रो हि यज्ञ क्रतुः ।

५.६ पितृयज्ञः
अथ यद् अपर अह्णे पितृ यज्ञेन चरन्ति ।
अपक्षय भाजौ वै पितरः ।
तस्माद् अपर अह्णे पितृ यज्ञेन चरन्ति ।
तद् आहुर् यद् अपर पक्ष भाजः पितरो अथ कस्माद् एतान् पूर्व पक्षे यजन्ति इति ।
दैवा वा एते पितरः ।
तस्माद् एनान् पूर्व पक्षे यजन्ति ।
अथ यद् एकाम् सामिधेनीम् अन्वाह ।
सकृद् इव वै पितरः ।
तस्माद् एकाम् सामिधेनीम् अन्वाह ।
सा वा अनुष्टुब् भवति ।
वाग् अनुष्टुप् ।
पराञ्च उ वै पितरः ।
तान् एव एतद् वाचा अनुष्टुभा आगमयति ।
अथ यद् यजमानस्य आर्षेयम् न आह ।
न इद् यजमानम् प्रवृणजानि इति ।
अथ एतम् निगदम् अन्वाह तस्य उक्तम् ब्राह्मणम् ।
अथ यत् सोमम् पितृमन्तम् पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄन् अग्निष्व् आत्तान् इत्य् आवाहयति ।
दैवा वा एते पितरः ।
तस्माद् एनान् आवाहयति ।
अथ यद् अग्निम् कव्य वाहनम् आवाहयति ।
एतत् स्विष्टकृतो वै पितरः ।
तस्माद् एनम् आवाहयति ।
न ह एके स्वम् महिमानम् आवाहयन्ति यजमानस्य एष महिमा इति वदन्तः ।
आवाहयेद् इति त्व् एव स्थितम् ।
अग्नेर् ह्य् एव एष महिमा ।

५.७ साकमेधपर्वणि बर्हिष्मतामुत्सर्जनम्
अथ यत् प्रयाज अनुयाजेभ्यो बर्हिष्मन्ता उत्सृजति ।
प्रजा वै बर्हिः ।
तेन प्रजाम् प्रवृणजानि इति ।
ते वै षड् भवन्ति ।
षड् वा ऋतवः ।
ऋतवः पितरः ।
पितॄन् एव तत् प्रीणाति ।
अथ यज् जीवनवन्ताव् आज्य भागौ भवतः ।
यजमानम् एव तज् जीवयति ।
अथ यत् तिस्रस् तिस्र एक एकस्य हविषो भवन्ति ।
त्रीणि वै हवींषि भवन्ति ।
तेषाम् समवद्यति ।
तस्मात् तिस्रस् तिस्र एक एकस्य हविषो भवन्ति ।
अथो देव कर्मणा एव एतत् पितृ कर्म व्यावर्तयति ।
अथो पराम् उ वै परावतम् पितरो गताः ।
आह्वयत्य् एव एनान् प्रथमया ।
द्वितीयया आगमयति ।
प्र एव तृतीयया यच्छति ।
अथ यद् अग्निम् कव्य वाहनम् अन्ततो यजति ।
एतत् स्विष्टकृतो वै पितरः ।
तस्माद् एनम् अन्ततो यजति ।
अथ यद् अप उपस्पृशति तस्य उक्तम् ब्राह्मणम् ।
अथ यद् इडाम् उपहूय अवघ्राय न प्राश्नन्ति ।
पशवो वै इडा ।
न इद् यजमानस्य पशुन् प्रवृणजानि इति ।
अथ यद् अध्वर्युः पितृभ्यो ददाति ।
पितॄन् एव तत् प्रीणाति ।
अथ यत् पवित्रवति मार्जयन्ते तस्य उक्तम् ब्राह्मणम् ।
अथ यद् ऋचम् जपन्ति स्वस्त्ययनम् एव तत् कुर्वते ।
अथ यद् उदञ्चः परेत्य गार्हपत्या आहवनीया उपतिष्ठन्ते ।
प्रीत्वा एव तद् देवेष्व् अन्तततो अर्थम् वदन्ते ।
अथो दक्षिणा संस्थो वै पितृ यज्ञः ।
तम् एव एतद् उदक् संस्थम् कुर्वन्ति ।
अथ यत् प्राञ्च उपनिष्क्रम्य आदित्यम् उपतिष्ठन्ते ।
देव लोको वा आदित्यः ।
पितृ लोकः पितरः ।
देव लोकम् एव तत् पितृ लोकाद् अभ्युत्क्रामन्ति ।
अथ यत् सूक्त वाके यजमानस्य नाम न गृह्णाति ।
न इद् यजमानम् प्रवृणजानि इति ।
अथ यत् पत्नी सम्याजैर् न चरन्ति ।
न इत् पत्न्यः प्रवृणजाम इति ।
अथ यद् उदञ्चः परेत्य त्र्यम्बकैश् चरन्ति ।
रुद्रम् एव तत् स्वायाम् दिशि प्रीणन्ति ।
अथो दक्षिणा संस्थो वै पितृ यज्ञः ।
तम् एव एतद् उदक् संस्थम् कुर्वन्ति ।
अथ यद् अन्तत इष्ट्वा इष्ट्या यजते ।
एतत् संस्था वै साकमेधाः ।
तस्माद् अन्तत इष्ट्वा इष्ट्या यजते ।
अथ यत् परस्तात् पौर्णमासेन यजते ।
तथा ह अस्य पूर्व पक्षे साकमेधैर् इष्टम् भवति ।

५.८ सुनासीर्यपर्व
त्रयोदशम् वा एतन् मासम् आप्नोति यत् शुनासीर्येण यजते ।
एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः ।
तद् अत्र एव सर्वः संवत्सर आप्तो भवति ।
अथ यत् शुनासीरौ यजति ।
शान्तिर् वै भेषजम् शुना सीरौ ।
शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते ।
स यद्य् अग्निर् मथ्यते यद् वैश्वदेवस्य तन्त्रम् तत् तन्त्रम् ।
यद्य् उ न मथ्यते पौर्णमासम् एव तन्त्रम् भवति ।
प्रतिष्ठा वै पौर्णमासम् प्रतिष्ठित्या एव ।
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन् नवमः ।
तन् नक्षत्रियाम् विराजम् आप्नोति ।
समानानि त्व् एव पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्ताइ वैश्वदेकिकानि ।
तेषाम् उक्तम् ब्राह्मणम् ।
अथ यत् शुना सीरौ यजति ।
तयोर् उक्तम् ब्राह्मणम् ।
अथ यद् वायुम् यजति ।
प्राणो वै वायुः ।
प्राणम् एव तद् आत्मन् धत्ते ।
अथ यत् सौर्य एक कपालः ।
असौ वै सूर्यो यो असौ तपति ।
एतम् एव तत् प्रीणाति ।
अथ यत् श्वेता दक्षिणा ।
एतम् एव तत् प्रीणाति ।
एतस्य एव तद् रूपम् क्रियते ।

५.९ प्रायश्चित्तं प्रतिनिधिश्च
अथ यत् प्रायश्चित्त प्रतिनिधीन् कुर्वन्ति यद् आहुतीर् जुह्वति ।
स्वस्त्ययनम् एव तत् कुर्वते ।
यज्ञस्य एव शान्त्यै ।
यजमानस्य च भिषज्यायै ।

५.१० स्वीयाग्निभिर्यजमानसंस्थापनम्
अथ यत् स्वैर् अग्निभिर् यजमानम् संस्कुर्वन्ति ।
देव रथो व अग्नयः ।
देव रथ एव एनम् तत् समारोपयन्ति ।
स एतेन देव रथेन स्वर्गंल् लोकम् एति ।
सुकृताम् यत्र लोकः सुकृताम् यत्र लोकः ।

[सम्पाद्यताम्]