कौषीतकिब्राह्मणम्/अध्यायः ०६
← अध्यायः ०५ | कौषीतकिब्राह्मणम् अध्यायः ०६ [[लेखकः :|]] |
अध्यायः ०७ → |
ब्रह्मा ((शूलगव ब्रह्मत्व) |
६.१ प्रजापतेस्तपः सृष्टिश्च
प्रजापतिः प्रजाति कामस् तपो अतप्यत । तस्मात् तप्तात् पञ्च अजायन्त । अघिर् वायुर् आदित्यश् चन्द्रमा उषाः पञ्चमी । तान् अब्रवीद् यूयम् अपि तप्यध्वम् इति । ते अदीक्षन्त । तान् दीक्षितांस् तेपानान् उषाः प्राजापत्य अप्सरो रुपम् कृत्वा पुरस्तात् प्रत्युदैत् । तस्याम् एषाम् मनः समपतत् । ते रेतो असिञ्चन्त । ते प्रजापतिम् पितरम् इत्य् अब्रुवन् । रेतो वा असिचामहै तन् नो मामुया भूद् इति । स प्रजापतिर् हिरण्मयम् चमसम् अकरोद् इषु मात्रम् ऊर्ध्वम् एवम् तिर्यञ्चम् । तस्मिन्न् एनत् समसिञ्चत् । तत उदतिष्ठत् सहस्र अक्षः सहस्र पात् । सहस्रेण प्रतिहिताभिः ।
६.२ प्रजापतेस्तपः सृष्टिश्च
स प्रजापतिम् पितरम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । नाम मे कुर्व् इत्य् अब्रवीत् । न वा इदम् अविहितेन नाम्ना अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् भव एव इति । यद् भव आपस् तेन । न ह वा एनम् भवो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् आर्द्रम् एव वासः परिदधीत आपो वै न परिचक्षीत इति ।
६.३ प्रजापतेस्तपः सृष्टिश्च
तम् द्वितीयम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । द्वितीयम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् एकेन नाम्ना अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीत् शर्व एव इति । यत् शर्वो अग्निस् तेन । न ह वा एनम् शर्वो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् सर्वम् एव न अश्नीयाद् इति ।
६.४ प्रजापतेस्तपः सृष्टिश्च
तम् तृतीयम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । तृतीयम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् द्वाभ्याम् नामभ्याम् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीत् पशु पतिर् एव इति । यत् पशु पतिर् वायुस् तेन । न ह वा एनम् पशु पतिर् हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । नस य एवम् वेद । तस्य व्रतम् ब्राह्मणम् एव न परिवदेद् इति ।
६.५ प्रजापतेस्तपः सृष्टिश्च
तम् चतुर्थम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । चतुर्थम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् त्रिभिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् उग्र एव देव इति । यद् उग्रो देव ओषधयो वनस्पतयस् तेन । न ह वा एनम् उग्रो देवो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् स्त्रिया एव विवरम् न ईक्षेत इति ।
६.६ प्रजापतेस्तपः सृष्टिश्च
तम् पञ्चमम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । पञ्चमम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् चतुर्भिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीन् महान् एव देव इति । यन् महान् देव आदित्यस् तेन । न ह वा एनम् महान् देवो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् उद्यन्तम् एव एनम् न ईक्षेत अस्तम् यन्तम् च इति ।
६.७ प्रजापतेस्तपः सृष्टिश्च
तम् षष्ठम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । षष्ठम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् पञ्चभिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् रुद्र एव इति । यद् रुद्रश् चन्द्रमास् तेन । न ह वा एनम् रुद्रो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् विमूर्तम् एव न अश्नीयान् मज्जानम् च इति ।
६.८ प्रजापतेस्तपः सृष्टिश्च
तम् सप्तमम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । सप्तमम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् षड्भिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् ईशान एव इति । यद् ईशानो अन्नम् तेन । न ह वा एनम् ईशानो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् अन्नम् एव इच्छमानम् न प्रत्याचक्षीत इति ।
६.९ प्रजापतेस्तपः सृष्टिश्च
तम् अष्टमम् अभ्यायच्छति । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । अष्टमम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् सप्ताभिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् अशनिर् एव इति । यद् अशनिर् इन्द्रस् तेन । न ह वा एनम् अशनिर् हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् सत्यम् एव वदेद्द् हिरण्यम् च बिभृयाद् इति । स एषो अष्ट नामा । अष्टधा विहितो महान् देवः । आ ह वा अस्य अष्टमात् पुरुषात् प्रजा अन्नम् अत्ति । वसीयान् वसीयान् ह एव अस्य प्रजायाम् आजायते य एवम् वेद ।
६.१० ब्रह्ममीमांसा तत्कर्म च
प्रजापतिस् तपो अतप्यत । स तपस् तप्त्वा प्राणाद् एव इमंल् लोकम् प्रावृहति । अपानाद् अन्तरिक्ष लोकम् । व्यानाद् अमुंल् लोकम् । स एतांस् त्रींल् लोकान् अभ्यतप्यत । सो अग्निम् एव अस्माल् लोकाद् असृजत । वायुम् अन्तरिक्ष लोकाद् आदित्यम् दिवः । स एतानि त्रीणि ज्योतींष्य् अभ्यतप्यत । सो अग्नेर् एव ऋचो असृजत । वायुर् यजूंष्य् आदित्यात् सामानि । स एताम् त्रयीम् विद्याम् अभ्यतप्यत । स यज्ञम् अतनुत । स ऋचा एव अशंसत् । यजुषा प्राचरत् साम्ना उदगायत् । अथ एतस्या एव त्रय्यै विद्यायै तेजो रसम् प्रावृहत् । एतेषाम् एव वेदानाम् भिषज्यायै । स भूर् इत्य् ऋचाम् प्रावृहत् । भुव इति यजुषाम् स्वर् इति साम्नाम् । तेन दक्षिणतो ब्रह्मा आसीत् । तस्य दक्षिणतो वर्षीयान् उदीचीन प्रवणो यज्ञः संतस्थे । तस्य ह वै दक्षिणतो वर्षीयान् उदीचीन प्रवणो यज्ञः संतिष्ठते । यस्य एवम् विद्वान् ब्रह्मा भवति ।
६.११ ब्रह्ममीमांसा तत्कर्म च
तद् आहुर् यद् ऋचा होता होता भवति यजुषा अध्वर्युर् अध्वर्युः साम्ना उद्गाता उद्गाता केन ब्रह्मा ब्रह्मा भवति इति। यम् एव अमुम् त्रय्यै विद्यायै तेजो रसम् प्रावृहति । तेन ब्रह्मा ब्रह्मा भवति । तद् आहुः किंविदम् किम् छन्दसम् ब्राह्मणम् वृणीत इति । अध्वर्युम् इत्य् एके । स परिक्रमाणाम् क्षेत्रज्ञो भवति इति । छन्दोगम् इत्य् एके । तथा ह अस्य त्रिभिर् वेदैर् हविर् यज्ञाः संस्क्रियन्त इति । बह्वृचम् इति त्व् एव स्थितम् । एतत् परिसरणाव् इतरौ वेदौ । अत्र भूयिष्ठा होत्रा आयत्ता भवन्ति इति । ऋग्भिर् ग्रहा गृह्यन्ते । ऋक्षु सामानि गीयन्ते । तस्माद् बह्वृच एव स्यात् । तद् आहुः कियद् ब्रह्मा यज्ञस्य संस्करोति कियद् अन्य ऋत्विज इति । अर्धम् इति ब्रूयात् । द्वे वै यज्ञस्य वर्तनी । वाचा अन्या संस्क्रियते । मनसा अन्या । सा या वाचा संस्क्रियते । ताम् अन्य ऋत्विजः संस्कुर्वन्ति । अथ या मनसा ताम् ब्रह्मा । तस्माद् यावद् ऋचा यजुषा साम्ना कुर्युः । तूष्णीम् तावद् ब्रह्मा आसीत । अर्धम् हि तद् यज्ञस्य संस्करोति ।
६.१२ ब्रह्ममीमांसा तत्कर्म च
अथ यत्र एनम् ब्रूयुः । ब्रह्मन् प्रचरिष्यामो ब्रह्मन् प्रणेष्यामो ब्रह्मन् प्रस्थास्यामो ब्रह्मन्त् स्तोष्याम इति वा । ओम् इत्य् एतावता प्रसुयात् । एतद्द् ह वा एकम् अक्षरम् त्रयीम् विद्याम् प्रति प्रति । तथा ह अस्य त्रय्या विद्यया प्रसूतम् भवति । ब्रह्मणि वै यज्ञः प्रतिष्ठितः । यद् वै यज्ञस्य स्खलितम् वा उल्बणम् वा भवति । ब्रह्मण एव तत् प्राहुः । तत् स त्रय्या विद्यया भिषज्यति । अथ यद्य् ऋच्य् उल्बणम् स्यात् । चतुर् गृहीतम् आज्यम् गृहीत्वा गार्हपत्ये प्रायश् चित्त आहुतिम् जुहुयाद् भूः स्वाहा इति । तद् ऋचम् ऋचि दधाति । ऋच ऋचे प्रायश् चित्तम् करोति । अथ यदि यजुष्य् उल्बणम् स्यात् । चतुर् गृहीतम् आज्यम् गृहीत्वा अन्वाहार्य पचने प्रायश् चित्त आहुतिम् जुहुयाद्द् हविर् यज्ञ आग्नीध्रिये सौम्ये अध्वरे भुवः स्वाहा इति । तद् यजुर् यजुषि दधाति । यजुषा यजुषे प्रायश् चित्तिम्म् करोति । अथ यदि साम्न्य् उल्बणम् स्यात् । चतुर् गृहीतम् आज्यम् गृहीत्वा आहवनीये प्रायश् चित्त आहुतिम् जुहुयात् स्वः स्वाहा इति । तत् साम सामन् दधाति । साम्ना साम्ने प्रायश् चित्तिम् करोति । अथ यद्य् अविज्ञातम् उल्बणम् स्यात् । चतुर् गृहीतम् आज्यम् गृहीत्वा आहवनीय एव प्राय्श् चित्त आहुतिम् जुहुयाद् भूर् भुवः स्वः स्वाहा इति । एष ह वै यज्ञस्य व्यृद्धिम् समर्धयति य एताभिर् व्याहृतिभिः प्रायश्चित्तिम् करोति । न ह वा उपसृतो ब्रूयान् न अहम् एतद् वेद इत्य् एता व्याहृतीर् विद्वान् । सर्वम् ह वा उ स वेद य एता व्याहृतीर् वेद । तद् यथा ह वै दारुणः श्लेष्म संश्लेषणम् स्यात् परिचर्मण्यम् वा । एवम् एव एता व्याहृतयः सर्वस्यै त्रय्यै विद्यायै संश्लेषिण्यः ।
६.१३ ब्रह्ममीमांसा तत्कर्म च
अथ यद् ब्रह्म सदनात् तृणम् निरस्यति । शोधयत्य् एव एनत् तत् । अथ उपविशति इदम् अहम् अर्वावसोः सदसि सीदामि इति । अर्वावसुर् ह वै देवानाम् ब्रह्मा । तम् एव एतत् पूर्वम् सादयत्य् अरिष्टम् यज्ञम् तनुताद् इति । अथ उपविश्य जपति बृहस्पतिर् ब्रह्मा इति । बृहस्पतिर् ह वै देवानाम् ब्रह्मा । तस्मिन्न् एव एतद् अनुज्ञाम् इच्छते । प्रणीतासु प्रणीयमानासु वाचम् यच्छत्या हविष्कृत उद्वादनात् । एतद् वै यज्ञस्य द्वारम् । तद् एव एतद् अशून्यम् करोति । इष्टे च स्विष्टकृत्या अनुयाजानाम् प्रसवात् । एतद्द् ह वै यज्ञस्य द्वितीयम् द्वारम् । तद् एव एतद् अशून्यम् करोति । अथ यत्र ह तद् देवा यज्ञम् अतन्वत । तत् सवित्रे प्राशित्रम् परिजह्रुः । तस्य पाणी प्रचिच्छेद । तस्मै हिरण्मयौ प्रतिदधुः । तस्माद्द् हिरण्य पाणिर् इति स्तुतः । तद् भगाय परिजह्रुः । तस्य अक्षिणी निर्जघान । तस्माद् आहुर् अन्धो भग इति । तत् पूष्णे परिजह्रुः । तस्य दन्तान् परोवाप । तस्माद् आहुर् अदन्तकः पूषा करम्भ भाग इति । ते देवा ऊचुः ।
६.१४ ब्रह्ममीमांसा तत्कर्म च
इन्द्रो वै देवानाम् ओजिष्ठो बलिष्ठस् तस्मा एनत् परिहरत इति । तत् तस्मै परिजह्रुः । तत् स ब्रह्मणा शमयाम् चकार । तस्माद् आह इन्द्रो ब्रह्मा इति । तत् प्रतीक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति । मित्रस्य एव एन्तत् तच् चक्षुषा शमयति । अथ एन्तत् प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवे अश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् प्रतिगृह्णामि इति । एताभिर् एव एनत् तद् देवताभिः शमयति । तद् व्यूह्य तृणानि प्राग् दण्डम् स्थण्डिले सादयति पृथिव्यास् त्व् आनाभौ सादयाम्य् आदित्या उपस्थ इति । पृथिवी वा अन्नानाम् शमयित्री । शमयत्य् एव एनत् तत् । तत आदाय प्राश्नात्य् अग्नेष् ट्व् आस्येन प्राश्नामि इति । अग्निर् वा अन्नानाम् शमयिता । शमयत्य् एव एनत् तत् । अथ अपो अन्वाचामति शान्तिर् असि इति । शान्तिर् वै भ्षजम् आपः । शान्तिर् एव एषा भेषजम् यज्ञे क्रियते । अथ प्राणान्त् सम्मृशते । तद् यद् एव अत्र प्राणानाम् क्रूरी कृतम् यद् विलिष्टम् तद् एव एतद् आप्याययति तद् भिषज्यति । इन्द्रस्य त्वा जठरे सादयामि इति नाभिम् अन्ततो अभिमृशते । इन्द्रो ह्य् एव एनत् शमयाम् चकार । अथ यत् सावित्रेण जपेन प्रसौति । सविता वै प्रसविता कर्मण एव प्रसवाय ।
६.१५ चातुर्मास्यमहत्त्वम्
प्रजापतिर् ह यज्ञम् ससृजे । सो अग्न्याधेयेन एव रेतो असृजत । देवान् मनुष्यान् असुरान् इत्य् अग्निहोत्रेण । दर्श पूर्ण मासाभ्याम् इन्द्रम् असृजत । तेभ्य एतद् अन्न पानम् ससृजे । एतान् हविर् यज्ञान्त् सौम्यम् अध्वरम् इति । अथो यम् यम् कामम् ऐच्छंस् तम् तम् एतैर् अयनैर् आपुः । अन्नाद्यम् आग्रयणेन । तद् आहुः कस्माद् अयनानि इति । गमनान्य् एव भवन्ति कामस्य कामस्य स्वर्गस्य च लोकस्य । चातुर्मास्यैर् आप्नुवन्त् स्वर्गांल् लोकान्त् सर्वान् कामान्त् सर्वा अष्टीः सर्वम् अमृतत्वम् । स एष प्रजापतिः संवत्सरश् चतुर्विंशो यच् चातुर्मास्यानि । तस्य मुखम् एव वैश्वदेवम् । दर्श पूर्ण मासौ पर्वाणि । अहो रात्राण्य् अस्थि मज्जानानि । बाहू वरुण प्रघासाः । प्राणो अपानो व्यान इत्य् एतास् तिस्र इष्टयः । आत्मा महा हविः । या इमा अन्तर् देवतास् तद् अन्या इष्टीः । सर्वम् वै प्रजापतिः संवत्सरश् चतुर्विंशः । सर्वम् चातुर्मास्यानि । तत् सर्वेण सर्वम् आप्नोति य एवम् वेद य एवम् वेद ।
६.१ प्रजापतेस्तपः सृष्टिश्च
प्रजापतिः प्रजाति कामस् तपो अतप्यत ।
तस्मात् तप्तात् पञ्च अजायन्त ।
अघिर् वायुर् आदित्यश् चन्द्रमा उषाः पञ्चमी ।
तान् अब्रवीद् यूयम् अपि तप्यध्वम् इति ।
ते अदीक्षन्त ।
तान् दीक्षितांस् तेपानान् उषाः प्राजापत्य अप्सरो रुपम् कृत्वा पुरस्तात् प्रत्युदैत् ।
तस्याम् एषाम् मनः समपतत् ।
ते रेतो असिञ्चन्त ।
ते प्रजापतिम् पितरम् इत्य् अब्रुवन् ।
रेतो वा असिचामहै तन् नो मामुया भूद् इति ।
स प्रजापतिर् हिरण्मयम् चमसम् अकरोद् इषु मात्रम् ऊर्ध्वम् एवम् तिर्यञ्चम् ।
तस्मिन्न् एनत् समसिञ्चत् ।
तत उदतिष्ठत् सहस्र अक्षः सहस्र पात् ।
सहस्रेण प्रतिहिताभिः ।
६.२ प्रजापतेस्तपः सृष्टिश्च
स प्रजापतिम् पितरम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
नाम मे कुर्व् इत्य् अब्रवीत् ।
न वा इदम् अविहितेन नाम्ना अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् भव एव इति ।
यद् भव आपस् तेन ।
न ह वा एनम् भवो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् आर्द्रम् एव वासः परिदधीत आपो वै न परिचक्षीत इति ।
६.३ प्रजापतेस्तपः सृष्टिश्च
तम् द्वितीयम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
द्वितीयम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् एकेन नाम्ना अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीत् शर्व एव इति ।
यत् शर्वो अग्निस् तेन ।
न ह वा एनम् शर्वो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् सर्वम् एव न अश्नीयाद् इति ।
६.४ प्रजापतेस्तपः सृष्टिश्च
तम् तृतीयम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
तृतीयम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् द्वाभ्याम् नामभ्याम् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीत् पशु पतिर् एव इति ।
यत् पशु पतिर् वायुस् तेन ।
न ह वा एनम् पशु पतिर् हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
नस य एवम् वेद ।
तस्य व्रतम् ब्राह्मणम् एव न परिवदेद् इति ।
६.५ प्रजापतेस्तपः सृष्टिश्च
तम् चतुर्थम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
चतुर्थम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् त्रिभिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् उग्र एव देव इति ।
यद् उग्रो देव ओषधयो वनस्पतयस् तेन ।
न ह वा एनम् उग्रो देवो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् स्त्रिया एव विवरम् न ईक्षेत इति ।
६.६ प्रजापतेस्तपः सृष्टिश्च
तम् पञ्चमम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
पञ्चमम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् चतुर्भिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीन् महान् एव देव इति ।
यन् महान् देव आदित्यस् तेन ।
न ह वा एनम् महान् देवो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् उद्यन्तम् एव एनम् न ईक्षेत अस्तम् यन्तम् च इति ।
६.७ प्रजापतेस्तपः सृष्टिश्च
तम् षष्ठम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
षष्ठम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् पञ्चभिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् रुद्र एव इति ।
यद् रुद्रश् चन्द्रमास् तेन ।
न ह वा एनम् रुद्रो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् विमूर्तम् एव न अश्नीयान् मज्जानम् च इति ।
६.८ प्रजापतेस्तपः सृष्टिश्च
तम् सप्तमम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
सप्तमम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् षड्भिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् ईशान एव इति ।
यद् ईशानो अन्नम् तेन ।
न ह वा एनम् ईशानो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् अन्नम् एव इच्छमानम् न प्रत्याचक्षीत इति ।
६.९ प्रजापतेस्तपः सृष्टिश्च
तम् अष्टमम् अभ्यायच्छति ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
अष्टमम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् सप्ताभिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् अशनिर् एव इति ।
यद् अशनिर् इन्द्रस् तेन ।
न ह वा एनम् अशनिर् हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् सत्यम् एव वदेद्द् हिरण्यम् च बिभृयाद् इति ।
स एषो अष्ट नामा ।
अष्टधा विहितो महान् देवः ।
आ ह वा अस्य अष्टमात् पुरुषात् प्रजा अन्नम् अत्ति ।
वसीयान् वसीयान् ह एव अस्य प्रजायाम् आजायते य एवम् वेद ।
६.१० ब्रह्ममीमांसा तत्कर्म च
प्रजापतिस् तपो अतप्यत ।
स तपस् तप्त्वा प्राणाद् एव इमंल् लोकम् प्रावृहति ।
अपानाद् अन्तरिक्ष लोकम् ।
व्यानाद् अमुंल् लोकम् ।
स एतांस् त्रींल् लोकान् अभ्यतप्यत ।
सो अग्निम् एव अस्माल् लोकाद् असृजत ।
वायुम् अन्तरिक्ष लोकाद् आदित्यम् दिवः ।
स एतानि त्रीणि ज्योतींष्य् अभ्यतप्यत ।
सो अग्नेर् एव ऋचो असृजत ।
वायुर् यजूंष्य् आदित्यात् सामानि ।
स एताम् त्रयीम् विद्याम् अभ्यतप्यत ।
स यज्ञम् अतनुत ।
स ऋचा एव अशंसत् ।
यजुषा प्राचरत् साम्ना उदगायत् ।
अथ एतस्या एव त्रय्यै विद्यायै तेजो रसम् प्रावृहत् ।
एतेषाम् एव वेदानाम् भिषज्यायै ।
स भूर् इत्य् ऋचाम् प्रावृहत् ।
भुव इति यजुषाम् स्वर् इति साम्नाम् ।
तेन दक्षिणतो ब्रह्मा आसीत् ।
तस्य दक्षिणतो वर्षीयान् उदीचीन प्रवणो यज्ञः संतस्थे ।
तस्य ह वै दक्षिणतो वर्षीयान् उदीचीन प्रवणो यज्ञः संतिष्ठते ।
यस्य एवम् विद्वान् ब्रह्मा भवति ।
६.११ ब्रह्ममीमांसा तत्कर्म च
तद् आहुर् यद् ऋचा होता होता भवति यजुषा अध्वर्युर् अध्वर्युः साम्ना उद्गाता उद्गाता केन ब्रह्मा ब्रह्मा भवति इति।
यम् एव अमुम् त्रय्यै विद्यायै तेजो रसम् प्रावृहति ।
तेन ब्रह्मा ब्रह्मा भवति ।
तद् आहुः किंविदम् किम् छन्दसम् ब्राह्मणम् वृणीत इति ।
अध्वर्युम् इत्य् एके ।
स परिक्रमाणाम् क्षेत्रज्ञो भवति इति ।
छन्दोगम् इत्य् एके ।
तथा ह अस्य त्रिभिर् वेदैर् हविर् यज्ञाः संस्क्रियन्त इति ।
बह्वृचम् इति त्व् एव स्थितम् ।
एतत् परिसरणाव् इतरौ वेदौ ।
अत्र भूयिष्ठा होत्रा आयत्ता भवन्ति इति ।
ऋग्भिर् ग्रहा गृह्यन्ते ।
ऋक्षु सामानि गीयन्ते ।
तस्माद् बह्वृच एव स्यात् ।
तद् आहुः कियद् ब्रह्मा यज्ञस्य संस्करोति कियद् अन्य ऋत्विज इति ।
अर्धम् इति ब्रूयात् ।
द्वे वै यज्ञस्य वर्तनी ।
वाचा अन्या संस्क्रियते ।
मनसा अन्या ।
सा या वाचा संस्क्रियते ।
ताम् अन्य ऋत्विजः संस्कुर्वन्ति ।
अथ या मनसा ताम् ब्रह्मा ।
तस्माद् यावद् ऋचा यजुषा साम्ना कुर्युः ।
तूष्णीम् तावद् ब्रह्मा आसीत ।
अर्धम् हि तद् यज्ञस्य संस्करोति ।
६.१२ ब्रह्ममीमांसा तत्कर्म च
अथ यत्र एनम् ब्रूयुः ।
ब्रह्मन् प्रचरिष्यामो ब्रह्मन् प्रणेष्यामो ब्रह्मन् प्रस्थास्यामो ब्रह्मन्त् स्तोष्याम इति वा ।
ओम् इत्य् एतावता प्रसुयात् ।
एतद्द् ह वा एकम् अक्षरम् त्रयीम् विद्याम् प्रति प्रति ।
तथा ह अस्य त्रय्या विद्यया प्रसूतम् भवति ।
ब्रह्मणि वै यज्ञः प्रतिष्ठितः ।
यद् वै यज्ञस्य स्खलितम् वा उल्बणम् वा भवति ।
ब्रह्मण एव तत् प्राहुः ।
तत् स त्रय्या विद्यया भिषज्यति ।
अथ यद्य् ऋच्य् उल्बणम् स्यात् ।
चतुर् गृहीतम् आज्यम् गृहीत्वा गार्हपत्ये प्रायश् चित्त आहुतिम् जुहुयाद् भूः स्वाहा इति ।
तद् ऋचम् ऋचि दधाति ।
ऋच ऋचे प्रायश् चित्तम् करोति ।
अथ यदि यजुष्य् उल्बणम् स्यात् ।
चतुर् गृहीतम् आज्यम् गृहीत्वा अन्वाहार्य पचने प्रायश् चित्त आहुतिम् जुहुयाद्द् हविर् यज्ञ आग्नीध्रिये सौम्ये अध्वरे भुवः स्वाहा इति ।
तद् यजुर् यजुषि दधाति ।
यजुषा यजुषे प्रायश् चित्तिम्म् करोति ।
अथ यदि साम्न्य् उल्बणम् स्यात् ।
चतुर् गृहीतम् आज्यम् गृहीत्वा आहवनीये प्रायश् चित्त आहुतिम् जुहुयात् स्वः स्वाहा इति ।
तत् साम सामन् दधाति ।
साम्ना साम्ने प्रायश् चित्तिम् करोति ।
अथ यद्य् अविज्ञातम् उल्बणम् स्यात् ।
चतुर् गृहीतम् आज्यम् गृहीत्वा आहवनीय एव प्राय्श् चित्त आहुतिम् जुहुयाद् भूर् भुवः स्वः स्वाहा इति ।
एष ह वै यज्ञस्य व्यृद्धिम् समर्धयति य एताभिर् व्याहृतिभिः प्रायश्चित्तिम् करोति ।
न ह वा उपसृतो ब्रूयान् न अहम् एतद् वेद इत्य् एता व्याहृतीर् विद्वान् ।
सर्वम् ह वा उ स वेद य एता व्याहृतीर् वेद ।
तद् यथा ह वै दारुणः श्लेष्म संश्लेषणम् स्यात् परिचर्मण्यम् वा ।
एवम् एव एता व्याहृतयः सर्वस्यै त्रय्यै विद्यायै संश्लेषिण्यः ।
६.१३ ब्रह्ममीमांसा तत्कर्म च
अथ यद् ब्रह्म सदनात् तृणम् निरस्यति ।
शोधयत्य् एव एनत् तत् ।
अथ उपविशति इदम् अहम् अर्वावसोः सदसि सीदामि इति ।
अर्वावसुर् ह वै देवानाम् ब्रह्मा ।
तम् एव एतत् पूर्वम् सादयत्य् अरिष्टम् यज्ञम् तनुताद् इति ।
अथ उपविश्य जपति बृहस्पतिर् ब्रह्मा इति ।
बृहस्पतिर् ह वै देवानाम् ब्रह्मा ।
तस्मिन्न् एव एतद् अनुज्ञाम् इच्छते ।
प्रणीतासु प्रणीयमानासु वाचम् यच्छत्या हविष्कृत उद्वादनात् ।
एतद् वै यज्ञस्य द्वारम् ।
तद् एव एतद् अशून्यम् करोति ।
इष्टे च स्विष्टकृत्या अनुयाजानाम् प्रसवात् ।
एतद्द् ह वै यज्ञस्य द्वितीयम् द्वारम् ।
तद् एव एतद् अशून्यम् करोति ।
अथ यत्र ह तद् देवा यज्ञम् अतन्वत ।
तत् सवित्रे प्राशित्रम् परिजह्रुः ।
तस्य पाणी प्रचिच्छेद ।
तस्मै हिरण्मयौ प्रतिदधुः ।
तस्माद्द् हिरण्य पाणिर् इति स्तुतः ।
तद् भगाय परिजह्रुः ।
तस्य अक्षिणी निर्जघान ।
तस्माद् आहुर् अन्धो भग इति ।
तत् पूष्णे परिजह्रुः ।
तस्य दन्तान् परोवाप ।
तस्माद् आहुर् अदन्तकः पूषा करम्भ भाग इति ।
ते देवा ऊचुः ।
६.१४ ब्रह्ममीमांसा तत्कर्म च
इन्द्रो वै देवानाम् ओजिष्ठो बलिष्ठस् तस्मा एनत् परिहरत इति ।
तत् तस्मै परिजह्रुः ।
तत् स ब्रह्मणा शमयाम् चकार ।
तस्माद् आह इन्द्रो ब्रह्मा इति ।
तत् प्रतीक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति ।
मित्रस्य एव एन्तत् तच् चक्षुषा शमयति ।
अथ एन्तत् प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवे अश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् प्रतिगृह्णामि इति ।
एताभिर् एव एनत् तद् देवताभिः शमयति ।
तद् व्यूह्य तृणानि प्राग् दण्डम् स्थण्डिले सादयति पृथिव्यास् त्व् आनाभौ सादयाम्य् आदित्या उपस्थ इति ।
पृथिवी वा अन्नानाम् शमयित्री ।
शमयत्य् एव एनत् तत् ।
तत आदाय प्राश्नात्य् अग्नेष् ट्व् आस्येन प्राश्नामि इति ।
अग्निर् वा अन्नानाम् शमयिता ।
शमयत्य् एव एनत् तत् ।
अथ अपो अन्वाचामति शान्तिर् असि इति ।
शान्तिर् वै भ्षजम् आपः ।
शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
अथ प्राणान्त् सम्मृशते ।
तद् यद् एव अत्र प्राणानाम् क्रूरी कृतम् यद् विलिष्टम् तद् एव एतद् आप्याययति तद् भिषज्यति ।
इन्द्रस्य त्वा जठरे सादयामि इति नाभिम् अन्ततो अभिमृशते ।
इन्द्रो ह्य् एव एनत् शमयाम् चकार ।
अथ यत् सावित्रेण जपेन प्रसौति ।
सविता वै प्रसविता कर्मण एव प्रसवाय ।
६.१५ चातुर्मास्यमहत्त्वम्
प्रजापतिर् ह यज्ञम् ससृजे ।
सो अग्न्याधेयेन एव रेतो असृजत ।
देवान् मनुष्यान् असुरान् इत्य् अग्निहोत्रेण ।
दर्श पूर्ण मासाभ्याम् इन्द्रम् असृजत ।
तेभ्य एतद् अन्न पानम् ससृजे ।
एतान् हविर् यज्ञान्त् सौम्यम् अध्वरम् इति ।
अथो यम् यम् कामम् ऐच्छंस् तम् तम् एतैर् अयनैर् आपुः ।
अन्नाद्यम् आग्रयणेन ।
तद् आहुः कस्माद् अयनानि इति ।
गमनान्य् एव भवन्ति कामस्य कामस्य स्वर्गस्य च लोकस्य ।
चातुर्मास्यैर् आप्नुवन्त् स्वर्गांल् लोकान्त् सर्वान् कामान्त् सर्वा अष्टीः सर्वम् अमृतत्वम् ।
स एष प्रजापतिः संवत्सरश् चतुर्विंशो यच् चातुर्मास्यानि ।
तस्य मुखम् एव वैश्वदेवम् ।
दर्श पूर्ण मासौ पर्वाणि ।
अहो रात्राण्य् अस्थि मज्जानानि ।
बाहू वरुण प्रघासाः ।
प्राणो अपानो व्यान इत्य् एतास् तिस्र इष्टयः ।
आत्मा महा हविः ।
या इमा अन्तर् देवतास् तद् अन्या इष्टीः ।
सर्वम् वै प्रजापतिः संवत्सरश् चतुर्विंशः ।
सर्वम् चातुर्मास्यानि ।
तत् सर्वेण सर्वम् आप्नोति य एवम् वेद य एवम् वेद ।