कौषीतकिब्राह्मणम्/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३ कौषीतकिब्राह्मणम्
अध्यायः ०४
[[लेखकः :|]]
अध्यायः ०५ →
विकृतीष्टयः

(विकृति इष्टयः)


४.१ अनुनिर्वाप्येष्टिः
अनुनिर्वाप्यया वै देवा असुरान् अपाघ्रत । तथो एव एतद् यजमानो अनुनिर्वाप्यया एव द्विषतो भ्रातृव्यान् अपहते । स वा इन्द्राय विमृध एकादश कपालम् पुलोडाशम् निर्वपति । इन्द्रो वै मृधाम् विहन्ता । स एव अस्य मृधो विहन्ति । अथो आमावास्यम् एव एतत् प्रत्याहरति यत् पौर्णमास्याम् इन्द्रम् यजति । अत्र संस्थित दर्श पूर्ण मासौ यजमानो यद्य् अपर पक्षे भङ्गम् नीयात् । न अस्य यज्ञ विकर्षः स्यात् । अथ यद् अमावास्यायाम् अदितिम् यजति । यज्ञस्य एव सभारतायै । सा सम्याज्यातो विमृद्वती भवति ।

४.२ अभ्युदितेष्टिः
अथातो अभ्युदितायाः । एहि ह वा एष यज पथात् । यस्य उपवसथे पुरस्ताच् चन्द्रो दृश्यते । सो अग्नये दात्रे अष्टा कपालम् पुरोडाशम् निर्वपति । अग्निर् वै दाता । स एव अस्मै यज्ञम् ददाति । इन्द्राय प्रदात्रे सायम् दोहितम् दधि । इन्द्रो वै प्रदाता । स एव अस्मै यज्ञम् प्रयच्छति । विष्णवे शिपि विष्टाय प्रातर् दोहिते पयसि चरुम् । यज्ञो वै विष्णुः । स एव अस्मै यज्ञम् ददाति । तद् यद् एता देवता याति । न इद् यज्ञ पथाद् अयानि इति । तिसृधन्वम् दक्षिणा । तत् स्वस्त्ययनस्य रूपम् ।

४.३ अभ्युद्दृष्टेष्टिः
अथातो अभ्युद्रष्टायाः । एहि ह वा एष यज्ञ पथात् । यस्य उपसवथे पश्चाच् चन्द्रो दृश्यते । सो अग्नये पथि कृते अष्टा कपालम् पुरोडाशम् निर्वपति । अग्निर् वै पक्षिकृत् । स एव एनम् यज्ञ पथम् अपिपातयति । इन्द्राय वृत्रघ्न एकादश कपालम् । इन्द्रो वै वृत्रहा । स एव एनम् पुनर् यज्ञ पथम् अपिपातयति । वैश्वानरीयम् द्वादश कपालम् । असौ वै वैश्वानरो यो असौ तपति । एष एव एनम् पुनर् यज्ञ पथम् अपिपातयति । तद् यद् एता देवता यजति । न इद् यज्ञ पथाद् अयानि इति । दण्ड उपानहम् दक्षिणा । तद् अभयस्य रूपम् ।

४.४ दाक्षायणयज्ञः
अथातो दाक्षायण यज्ञस्य । दाक्षायण यज्ञेन इष्यन् फाल्गुन्याम् पौर्णमास्याम् प्रयुङ्क्ते । मुखम् वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी । तस्मात् तस्याम् अदीक्षित अयनानि प्रयुज्यन्ते । अथो दक्षो ह वै पार्वतिर् एतेन यज्ञेन इष्ट्वा सर्वान् कामान् आप । तद् यद् दाक्षायण यज्ञेन यजते । सर्वेषाम् एव कामानाम् आप्त्यै । नाशने कामम् आपयीत । सोमम् राजानम् चन्द्रमसम् भक्षयानि इति मनसा ध्यायन्न् अश्नीयात् । तद् असौ वै सोमो राजा विचक्षणश् चन्द्रमाः । तम् एतम् अपर पर्क्षम् देवा अभिषुण्वन्ति । तद् यद् अपर पक्षम् दाक्षायण यज्ञस्य व्रतानि चरन्ति । देवानाम् अपि सोम पीथो असानि इति । अथ यद् उपवसथे अग्नीषोमीयम् एकादश कपालम् पुरोडाशम् निर्वपति । य एव असौ सोमस्य उपवसथे अग्नीषोमीयः । तम् एव अस्य तेन आप्नोति । अथ यत् प्रातर् आमावास्येन यजते । ऐन्द्रम् वै सुत्यम् अहः । तत् सुत्यम् अहर् आप्नोति । अथ यद् अमावास्याया उपवसथ ऐन्द्राग्नम् द्वादश कपालम् पुरोडाशम् निर्वपति । ऐन्द्राग्नम् वै सामतस् तृतीय सवनम् । तत् तृतीय सवनम् आप्नोति । अथ यन् मैत्रावरुणी पयस्या । मैत्रावरुणी वा अनूबन्ध्या । तद् अनूबन्ध्याम् आप्नोति । स एष सोमो हविर् यज्ञान् अनुप्रविष्टः । तस्माद् अदीक्षितो दीष्कित व्रतो भवति ।

४.५ इळादधेष्टिः
अथातः इडादधस्य । इडादधेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष पशु कामस्य अन्न अद्य कामस्य यज्ञः । तेन पशु कामो अन्न अद्य कामो यजेत । तत्र तथा एव व्रतानि चरति । दाक्षायण यज्ञस्य हि समासः ।

४.६ शौनकयज्ञः
अथ अतः सार्वसेनि यज्ञस्य । सार्वसेनि यज्ञेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष तु स्तूर्षमाणस्य यज्ञः । स य इच्छेद् द्विषन्तम् भ्रातृव्यम् स्तृण्वीय इति । स एतेन यजने स्तृणुते ह ।

४.७ सार्वसेनियज्ञः
अथातः शौनक यज्ञस्य । शौनक यज्ञेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष प्रजाति कामस्य यज्ञः । तेन प्रजाति कामो यजेत । तद् यद् अध्वर्युर् हवींषि प्रजनयति तत् प्रजात्यै रूपम् ।

४.८ वसिष्ठयज्ञः
अथातो वसिष्ठ यज्ञस्य । वसिष्ठ यज्ञेन इष्यन् फाल्गुन्याम् अमावास्यायाम् प्रयुङ्क्ते । ब्रह्म वै पौर्णमासी । क्षत्रम् अमावास्या । क्षत्रम् इव एष यज्ञः । क्षत्रेण शत्रून्त् सहा इति । वसिष्ठो अकामयत हत पुत्रः प्रजायेन प्रजया पशुभिर् अभि सौदासान् भवेयम् इति । स एतम् यज्ञ क्रतुम् अपश्यद् वसिष्ठ यज्ञम् । तेन इष्ट्वा प्राजायत प्रजया पशुभिर् अभि सौदासान् अभवत् । तथो एव एतद् यजमानो यद् वसिष्ठ यज्ञेन यजने । प्रजायते प्रजया पशुभिर् अभि द्विषतो भ्रातृव्यान् भवति ।

४.९ साकंप्रस्थाय्ययज्ञः
अथातः साकम् प्रस्थाय्यस्य । साकम् प्रस्थाय्येन इष्यन्न् एतस्याम् एव अमावास्यायाम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष श्रैष्ठ्य कामस्य पौरुष कामस्य यज्ञः । तेन श्रैष्ठ्य कामः पौरुष कामो यजते । तद् यत् साकम् सम्प्रतिष्ठन्ते । साकम् सम्प्रयजन्ते । साकम् सम्भक्षयन्ते । तस्मात् साकम् प्रस्थाय्यः ।

४.१० मुन्ययनेष्टिः
अथातो मुन्ययनस्य । मुन्ययनेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष सर्व कामस्य यज्ञः । तेन सर्व कामो यजेत ।

४.११ तुरायणयज्ञः अथातस् तुरायणस्य । तुरायणेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष स्वर्ग कामस्य यज्ञः । ब्रह्मणा एव तद् आत्मानम् समर्धयति । तानि वै त्रीणि हवींषि भवन्ति । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति ।

४.१२ श्यामाकेष्टिः अथात आग्रयणस्य । आग्रयणेन अन्न अद्य कामो यजेत वर्षास् आगते श्यामाक सस्ये । श्यामाकान् उद्धर्तव आह । सा या तस्मिन् काले अमावास्या उपसम्पद्येत । तया इष्ट्वा अथ एतया इष्ट्या यजेत । यदि पौरुणमासी । एतया इष्ट्वा अथ पौर्णमासेन यजेत । यद्य् उ नक्षत्रम् उपेप्सेत् । पूर्व पक्षे नक्षत्रम् उदीक्ष्य यस्मिन् कल्याणे नक्षत्रे कामयेत तस्मिन् यजेत । तस्यै सप्तदश सामिधेन्यः सद्वान्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । सौम्यश् चरुः । सोमो वै राजा ओषधीनाम् । तद् एनम् स्वया दिशा प्रीणाति । अथ यन् मधु पर्कम् ददाति । एष ह्य् आरण्यानाम् रसः ।

४.१३ वेणुयवेष्टिः
अथ वसन्त आगते पक्वेषु वेणु यवेषु । वेणु यवान् उद्धर्तव आह । तस्या एतद् एव पर्व एतत् तन्त्रम् एषा देवता एषा दक्षिणा एतद् ब्राह्मणम्। ताम् ह एक आग्नेयीम् वा वारुणीम् वा प्राजापत्याम् वा कुर्वन्त्य् एतत् तन्त्राम् एव एतद् ब्राह्मणाम् ।

४.१४ आग्रयणेष्टिः
अथ व्रीहि सस्ये वा यवसस्ये वा आगते । आग्रयणीयान् उद्धर्तव आह । तस्या एतद् एव पर्व एतत् तन्त्रम् । अथ यद् ऐन्द्राग्नो द्वादश कपालः । इन्द्राग्नी वै देवानाम् मुखम् । मुखत एव तद् देवान् प्रीणाति । अथ यद् वैश्वदेवश् चरुः । एते वै सर्वे देवा यद् विश्वे देवाः । सर्वेषाम् एव देवानाम् प्रीत्यै । अथ यद् द्यावा पृथिवीय एक कपालः । द्यावा पृथिवी वै सस्यस्य साधयित्र्यै । प्रतिष्ठा पृथिवी ओद्म्ना असाव् अनुवेद (?) । तद् यद् एता देवता यजति । एताभिर् देवताभिः शान्तम् अन्नम् अत्स्यामि इति । अथ य प्रथजम् गाम् ददाति । पथम कर्म ह्य् एतत् । यद्य् एतस्यै ग्लायात् । पौर्णमासम् वा अमावास्यम् वा हविष् कुर्वीत नवानाम् उभयस्य आप्त्यै । अपि वा पौर्णमासे वा अमावास्ये वा हवींष्य् अनुवर्तयेद् देवतानाम् अपरिहाणाय । अपि वा यवाग् वा एव सायम् प्रातर् अग्निहोत्रम् जुहुयान् नवानाम् उभयस्य आप्त्यै । अपि वा स्थाली पाकम् एव गार्हपत्ये श्रपयित्वा नवानाम् एताभ्य आग्रयण देवताभ्य आहवनीये जुहुयात् स्विष्टकृच् चतुर्थीभ्यो अमुष्यै स्वाहा अमुष्यै स्वाहा इति देवतानाम् अपरिहाणाय । अपि वा अग्निहोत्रीम् एव नवान् आदयित्वा तस्यै दुग्धेन सायम् प्रातर् अग्निहोत्रम् जुहुयाद् उभयस्य आप्त्यै । एत एतावन्तः पाताः । तेषाम् येन कामयेत तेन यजेत । त्रिहविस् तु स्थिता । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति इमान् एव तल् लोकान् आप्नोति ।  



४.१ अनुनिर्वाप्येष्टिः
अनुनिर्वाप्यया वै देवा असुरान् अपाघ्रत ।
तथो एव एतद् यजमानो अनुनिर्वाप्यया एव द्विषतो भ्रातृव्यान् अपहते ।
स वा इन्द्राय विमृध एकादश कपालम् पुलोडाशम् निर्वपति ।
इन्द्रो वै मृधाम् विहन्ता ।
स एव अस्य मृधो विहन्ति ।
अथो आमावास्यम् एव एतत् प्रत्याहरति यत् पौर्णमास्याम् इन्द्रम् यजति ।
अत्र संस्थित दर्श पूर्ण मासौ यजमानो यद्य् अपर पक्षे भङ्गम् नीयात् ।
न अस्य यज्ञ विकर्षः स्यात् ।
अथ यद् अमावास्यायाम् अदितिम् यजति ।
यज्ञस्य एव सभारतायै ।
सा सम्याज्यातो विमृद्वती भवति ।
४.२ अभ्युदितेष्टिः
अथातो अभ्युदितायाः ।
एहि ह वा एष यज पथात् ।
यस्य उपवसथे पुरस्ताच् चन्द्रो दृश्यते ।
सो अग्नये दात्रे अष्टा कपालम् पुरोडाशम् निर्वपति ।
अग्निर् वै दाता ।
स एव अस्मै यज्ञम् ददाति ।
इन्द्राय प्रदात्रे सायम् दोहितम् दधि ।
इन्द्रो वै प्रदाता ।
स एव अस्मै यज्ञम् प्रयच्छति ।
विष्णवे शिपि विष्टाय प्रातर् दोहिते पयसि चरुम् ।
यज्ञो वै विष्णुः ।
स एव अस्मै यज्ञम् ददाति ।
तद् यद् एता देवता याति ।
न इद् यज्ञ पथाद् अयानि इति ।
तिसृधन्वम् दक्षिणा ।
तत् स्वस्त्ययनस्य रूपम् ।

४.३ अभ्युद्दृष्टेष्टिः
अथातो अभ्युद्रष्टायाः ।
एहि ह वा एष यज्ञ पथात् ।
यस्य उपसवथे पश्चाच् चन्द्रो दृश्यते ।
सो अग्नये पथि कृते अष्टा कपालम् पुरोडाशम् निर्वपति ।
अग्निर् वै पक्षिकृत् ।
स एव एनम् यज्ञ पथम् अपिपातयति ।
इन्द्राय वृत्रघ्न एकादश कपालम् ।
इन्द्रो वै वृत्रहा ।
स एव एनम् पुनर् यज्ञ पथम् अपिपातयति ।
वैश्वानरीयम् द्वादश कपालम् ।
असौ वै वैश्वानरो यो असौ तपति ।
एष एव एनम् पुनर् यज्ञ पथम् अपिपातयति ।
तद् यद् एता देवता यजति ।
न इद् यज्ञ पथाद् अयानि इति ।
दण्ड उपानहम् दक्षिणा ।
तद् अभयस्य रूपम् ।

४.४ दाक्षायणयज्ञः
अथातो दाक्षायण यज्ञस्य ।
दाक्षायण यज्ञेन इष्यन् फाल्गुन्याम् पौर्णमास्याम् प्रयुङ्क्ते ।
मुखम् वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी ।
तस्मात् तस्याम् अदीक्षित अयनानि प्रयुज्यन्ते ।
अथो दक्षो ह वै पार्वतिर् एतेन यज्ञेन इष्ट्वा सर्वान् कामान् आप ।
तद् यद् दाक्षायण यज्ञेन यजते ।
सर्वेषाम् एव कामानाम् आप्त्यै ।
नाशने कामम् आपयीत ।
सोमम् राजानम् चन्द्रमसम् भक्षयानि इति मनसा ध्यायन्न् अश्नीयात् ।
तद् असौ वै सोमो राजा विचक्षणश् चन्द्रमाः ।
तम् एतम् अपर पर्क्षम् देवा अभिषुण्वन्ति ।
तद् यद् अपर पक्षम् दाक्षायण यज्ञस्य व्रतानि चरन्ति ।
देवानाम् अपि सोम पीथो असानि इति ।
अथ यद् उपवसथे अग्नीषोमीयम् एकादश कपालम् पुरोडाशम् निर्वपति ।
य एव असौ सोमस्य उपवसथे अग्नीषोमीयः ।
तम् एव अस्य तेन आप्नोति ।
अथ यत् प्रातर् आमावास्येन यजते ।
ऐन्द्रम् वै सुत्यम् अहः ।
तत् सुत्यम् अहर् आप्नोति ।
अथ यद् अमावास्याया उपवसथ ऐन्द्राग्नम् द्वादश कपालम् पुरोडाशम् निर्वपति ।
ऐन्द्राग्नम् वै सामतस् तृतीय सवनम् ।
तत् तृतीय सवनम् आप्नोति ।
अथ यन् मैत्रावरुणी पयस्या ।
मैत्रावरुणी वा अनूबन्ध्या ।
तद् अनूबन्ध्याम् आप्नोति ।
स एष सोमो हविर् यज्ञान् अनुप्रविष्टः ।
तस्माद् अदीक्षितो दीष्कित व्रतो भवति ।

४.५ इळादधेष्टिः
अथातः इडादधस्य ।
इडादधेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष पशु कामस्य अन्न अद्य कामस्य यज्ञः ।
तेन पशु कामो अन्न अद्य कामो यजेत ।
तत्र तथा एव व्रतानि चरति ।
दाक्षायण यज्ञस्य हि समासः ।

४.६ शौनकयज्ञः
अथ अतः सार्वसेनि यज्ञस्य ।
सार्वसेनि यज्ञेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष तु स्तूर्षमाणस्य यज्ञः ।
स य इच्छेद् द्विषन्तम् भ्रातृव्यम् स्तृण्वीय इति ।
स एतेन यजने स्तृणुते ह ।

४.७ सार्वसेनियज्ञः
अथातः शौनक यज्ञस्य ।
शौनक यज्ञेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष प्रजाति कामस्य यज्ञः ।
तेन प्रजाति कामो यजेत ।
तद् यद् अध्वर्युर् हवींषि प्रजनयति तत् प्रजात्यै रूपम् ।

४.८ वसिष्ठयज्ञः
अथातो वसिष्ठ यज्ञस्य ।
वसिष्ठ यज्ञेन इष्यन् फाल्गुन्याम् अमावास्यायाम् प्रयुङ्क्ते ।
ब्रह्म वै पौर्णमासी ।
क्षत्रम् अमावास्या ।
क्षत्रम् इव एष यज्ञः ।
क्षत्रेण शत्रून्त् सहा इति ।
वसिष्ठो अकामयत हत पुत्रः प्रजायेन प्रजया पशुभिर् अभि सौदासान् भवेयम् इति ।
स एतम् यज्ञ क्रतुम् अपश्यद् वसिष्ठ यज्ञम् ।
तेन इष्ट्वा प्राजायत प्रजया पशुभिर् अभि सौदासान् अभवत् ।
तथो एव एतद् यजमानो यद् वसिष्ठ यज्ञेन यजने ।
प्रजायते प्रजया पशुभिर् अभि द्विषतो भ्रातृव्यान् भवति ।

४.९ साकंप्रस्थाय्ययज्ञः
अथातः साकम् प्रस्थाय्यस्य ।
साकम् प्रस्थाय्येन इष्यन्न् एतस्याम् एव अमावास्यायाम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष श्रैष्ठ्य कामस्य पौरुष कामस्य यज्ञः ।
तेन श्रैष्ठ्य कामः पौरुष कामो यजते ।
तद् यत् साकम् सम्प्रतिष्ठन्ते ।
साकम् सम्प्रयजन्ते ।
साकम् सम्भक्षयन्ते ।
तस्मात् साकम् प्रस्थाय्यः ।

४.१० मुन्ययनेष्टिः
अथातो मुन्ययनस्य ।
मुन्ययनेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष सर्व कामस्य यज्ञः ।
तेन सर्व कामो यजेत ।

४.११ तुरायणयज्ञः
अथातस् तुरायणस्य ।
तुरायणेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष स्वर्ग कामस्य यज्ञः ।
ब्रह्मणा एव तद् आत्मानम् समर्धयति ।
तानि वै त्रीणि हवींषि भवन्ति ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नोति ।

४.१२ श्यामाकेष्टिः
अथात आग्रयणस्य ।
आग्रयणेन अन्न अद्य कामो यजेत वर्षास् आगते श्यामाक सस्ये ।
श्यामाकान् उद्धर्तव आह ।
सा या तस्मिन् काले अमावास्या उपसम्पद्येत ।
तया इष्ट्वा अथ एतया इष्ट्या यजेत ।
यदि पौरुणमासी ।
एतया इष्ट्वा अथ पौर्णमासेन यजेत ।
यद्य् उ नक्षत्रम् उपेप्सेत् ।
पूर्व पक्षे नक्षत्रम् उदीक्ष्य यस्मिन् कल्याणे नक्षत्रे कामयेत तस्मिन् यजेत ।
तस्यै सप्तदश सामिधेन्यः सद्वान्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
सौम्यश् चरुः ।
सोमो वै राजा ओषधीनाम् ।
तद् एनम् स्वया दिशा प्रीणाति ।
अथ यन् मधु पर्कम् ददाति ।
एष ह्य् आरण्यानाम् रसः ।

४.१३ वेणुयवेष्टिः
अथ वसन्त आगते पक्वेषु वेणु यवेषु ।
वेणु यवान् उद्धर्तव आह ।
तस्या एतद् एव पर्व एतत् तन्त्रम् एषा देवता एषा दक्षिणा एतद् ब्राह्मणम्।
ताम् ह एक आग्नेयीम् वा वारुणीम् वा प्राजापत्याम् वा कुर्वन्त्य् एतत् तन्त्राम् एव एतद् ब्राह्मणाम् ।

४.१४ आग्रयणेष्टिः
अथ व्रीहि सस्ये वा यवसस्ये वा आगते ।
आग्रयणीयान् उद्धर्तव आह ।
तस्या एतद् एव पर्व एतत् तन्त्रम् ।
अथ यद् ऐन्द्राग्नो द्वादश कपालः ।
इन्द्राग्नी वै देवानाम् मुखम् ।
मुखत एव तद् देवान् प्रीणाति ।
अथ यद् वैश्वदेवश् चरुः ।
एते वै सर्वे देवा यद् विश्वे देवाः ।
सर्वेषाम् एव देवानाम् प्रीत्यै ।
अथ यद् द्यावा पृथिवीय एक कपालः ।
द्यावा पृथिवी वै सस्यस्य साधयित्र्यै ।
प्रतिष्ठा पृथिवी ओद्म्ना असाव् अनुवेद (?) ।
तद् यद् एता देवता यजति ।
एताभिर् देवताभिः शान्तम् अन्नम् अत्स्यामि इति ।
अथ य प्रथजम् गाम् ददाति ।
पथम कर्म ह्य् एतत् ।
यद्य् एतस्यै ग्लायात् ।
पौर्णमासम् वा अमावास्यम् वा हविष् कुर्वीत नवानाम् उभयस्य आप्त्यै ।
अपि वा पौर्णमासे वा अमावास्ये वा हवींष्य् अनुवर्तयेद् देवतानाम् अपरिहाणाय ।
अपि वा यवाग् वा एव सायम् प्रातर् अग्निहोत्रम् जुहुयान् नवानाम् उभयस्य आप्त्यै ।
अपि वा स्थाली पाकम् एव गार्हपत्ये श्रपयित्वा नवानाम् एताभ्य आग्रयण देवताभ्य आहवनीये जुहुयात् स्विष्टकृच् चतुर्थीभ्यो अमुष्यै स्वाहा अमुष्यै स्वाहा इति देवतानाम् अपरिहाणाय ।
अपि वा अग्निहोत्रीम् एव नवान् आदयित्वा तस्यै दुग्धेन सायम् प्रातर् अग्निहोत्रम् जुहुयाद् उभयस्य आप्त्यै ।
एत एतावन्तः पाताः ।
तेषाम् येन कामयेत तेन यजेत ।
त्रिहविस् तु स्थिता ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नोति इमान् एव तल् लोकान् आप्नोति ।