सामग्री पर जाएँ

कौशिकपद्धतिः/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० कौशिकपद्धतिः
अध्यायः ११
केशवः
अध्यायः १२ →

अथ एकादशोऽध्यायः
[पितृमेधः]

[अथ पितृमेधं व्याख्यास्यामः ॥ कौशिकसूत्र ११,१{८०}.१ ॥]
अथ अन्तेष्टिपितृमेधं व्याख्यास्यामः ॥

[दहननिधानदेशे परिवृक्षाणि निधानकाल इति ब्राह्मणोक्तम् ॥ कौशिकसूत्र ११,१{८०}.२ ॥]
ऽवृक्षवर्जिते देशे दहननिधानं कर्तव्यम्ऽ इति ब्राह्मणेनोक्तम् । आहिताग्नेरेकाग्नेश्चायं संस्कारः ॥

[दुर्बलीभवन्तं शालातृणेषु दर्भानास्तीर्य स्योनास्मै भव (१८.२.१९२१) इत्यवरोहयति ॥ कौशिकसूत्र ११,१{८०}.३ ॥
मन्त्रोक्तावनुमन्त्रयते ॥ कौशिकसूत्र ११,१{८०}.४ ॥]
दुर्बलीभवन्तं मुमूर्षन्तमग्निहोत्रशालायामावसथ्यशालायां वा शालातृणान्यास्तीर्य तेषूपरि दर्भान् स्तृणाति ।ऽस्योनास्मै भवऽ इति तिसृभिरृग्भिः तं पुरुषं दर्भेषु स्वापयति । इदं कर्म मरणकाले ॥

अथ यदि काकपिपीलिकासर्पव्याघ्रशृङ्गिश्वापदादिषु दंष्ट्रादंशदोषान्म्रियेत तदेदं प्रायश्चित्तमुच्यते
[यत्ते कृष्णः (१८.३.५५) इत्यवदीपयति ॥ कौशिकसूत्र ११,१{८०}.५ ॥]
ऽयत्ते कृष्णः शकुनःऽ इत्यृचा तस्य दष्टव्रणमग्निना दहति ॥

अथ सम्भारा उच्यन्ते
[आहिताग्नौ प्रेते सम्भारान् सम्भरति ॥ कौशिकसूत्र ११,१{८०}.६ ॥
आज्यं च पृषदाज्यं चाजं च गां च ॥ कौशिकसूत्र ११,१{८०}.७ ॥
वसनं पञ्चमम् ॥ कौशिकसूत्र ११,१{८०}.८ ॥
हिरण्यं पृष्ठम् ॥ कौशिकसूत्र ११,१{८०}.९ ॥]
आज्यं च पृषदाज्यं च । अजं च गां च । वसनं च । हिरण्यशकलानि सप्त ॥

[शरीरं नान्वालभते ॥ कौशिकसूत्र ११,१{८०}.१० ॥
अन्यं चेष्टन्तमनुमन्त्रयते ॥ कौशिकसूत्र ११,१{८०}.११ ॥]
गोत्रिणः शरीरस्पर्शं कुर्वन्ति । सर्वत्र कर्ता ब्रूयात्दूरस्थः । आहिताग्नेरेकाग्नेश्च मृते सति गृहे कर्म उच्यते । केचिद्वनं नीत्वा वक्ष्यमाणं कर्म कुर्वन्ति ॥

[शान्त्युदकं करोत्यसकलं चातनानां चान्वावपते ॥ कौशिकसूत्र ११,१{८०}.१२ ॥]
अथ शान्त्युदकं करोति कर्ता । न सकलम् । प्रतीकत्रयेण ओषधित्रयेण च । चातनप्रतीकत्रयं शान्त्युदक अनुयोजयेत् ॥

[शान्त्युदकोदकेन केशश्मश्रुरोमनखानि संहारयन्ति ॥ कौशिकसूत्र ११,१{८०}.१३ ॥]
अनेन शान्त्युदकेन उदकमिश्रितेन केशश्मश्रुरोमनखानि संहारयति ॥

[आप्लावयन्ति ॥ कौशिकसूत्र ११,१{८०}.१४ ॥]
आप्लवनं च कारयति । सर्वं प्रेतस्य कुर्युर्गोत्रिणः न कर्ता ॥

[अनुलिम्पन्ति ॥ कौशिकसूत्र ११,१{८०}.१५ ॥]
चन्दनाद्यनुलिम्पन्ति ॥

स्रजोऽभिहरन्ति ॥ कौशिकसूत्र ११,१{८०}.१६ ॥
[एवं स्नातमलङ्कृतमहतेनावाग्दशेन वसनेन प्रछादयति एतत्ते देवः (१८.४.३१) एतत्त्वा वासः प्रथमं न्वागन् (१८.२.५७) इति ॥ कौशिकसूत्र ११,१{८०}.१७ ॥]
एवं स्नातमलङ्कृतमहतेनावाग्दशेन वसनेन पादौ प्रच्छादयति ।ऽएतत्ते देवःऽ इत्यृचा,ऽएतत्त्वा वासःऽ इत्यृचा एताभ्यां द्वाभ्यां वासमभिमन्त्रयते । यत्लोकाः स्मरन्ति तत्सर्वं कुर्यात् ॥

[अपेमम् (१८.२.२७) इत्यग्निषु जुहोति ॥ कौशिकसूत्र ११,१{८०}.१८ ॥]
अथाग्निविहारं कुर्यात् । ततःऽअपेमम्ऽ इत्यृचा त्रिष्वग्निष्वाज्यं जुहोति एकाग्नौ च ॥

उखाः कुर्वन्ति ॥ कौशिकसूत्र ११,१{८०}.१९ ॥
[ताः शकृदाभ्यन्तरं लिम्पन्ति शुष्केण वा पूरयन्ति ॥ कौशिकसूत्र ११,१{८०}.२० ॥
ताः पृथगग्निभिः सन्तापयन्त्या शकृदादीपनात् ॥ कौशिकसूत्र ११,१{८०}.२१ ॥]
ताः शकृदाऽऽभ्यन्तरं लिम्पन्ति । शुष्केण पूरयित्वाऽऽहवनीये गार्हपत्ये दक्षिणाग्नौ च पृथगग्निभिः सन्तापयत्या शकृदादीपनात् ॥

[तेषां हरणानुपूर्वमाहवनीयं प्रथमं ततो दक्षिणाग्निं ततो गार्हपत्यम् ॥ कौशिकसूत्र ११,१{८०}.२२ ॥]
ताः उखा एवं नीयन्ते प्रेतेन सह रथेन पुरुषैर्वा अग्निसहिताः । अग्ने आहवनीयं कृत्वा ततो दक्षिणाग्निं ततो गार्हपत्यमेवं हरणानुपूर्व्या नीयन्ते । एतत्सर्वं गृहे कर्म ॥

अथ देशान्तरमृते आहिताग्नेरेकाग्नेश्च कर्मोच्यते
[अथ विदेशे प्रेतस्य आ रोहत जनित्रीं जातवेदसः (१८.४.१) इति पृथगरणीष्वग्नीन् समारोपयन्ति ॥ कौशिकसूत्र ११,१{८०}.२३ ॥]
ऽआ रोहत जनित्रीं जातवेदसःऽ इत्यृचाऽरणिद्वयं प्रतापयति त्रिष्वग्निषु । त्रिर्मन्त्रावृत्तिः । प्रतापेन अग्निसमारोपणम् । योजनशतेऽपि समारोपणे नापनीयन्ते । प्रेतसमीपे पात्राणि च । मन्थनं कृत्वा अन्तेष्टिकर्म कुर्यात् ॥

तेषु यथोक्तं करोति ॥ कौशिकसूत्र ११,१{८०}.२४ ॥
वक्ष्यमाणं कर्म । अथ देशान्तरमृते शरीरनाशे वा लौकिकाग्निदग्धे वा अस्थीनि कृष्णाजिने कृत्वा पात्रचयनादि कर्म कुर्यात् । अस्थिनाशे पलाशवृन्तत्रीणि शतानि षष्टि चाङ्कुराणां कृष्णाजिने कृत्वा अन्तेष्टिकर्म कुर्यात् । आहिताग्नेरेकाग्नेश्च इदं कर्म । समारोपणम् । अथवा मृतशरीरमग्निसमीप आनीयते तत्र संस्कारः । अथवा अग्नयः प्रेतसमीप आनीयन्ते । तत्र विधिरुच्यते । यस्मिन् पक्षे समारोपणं क्रियते स पक्ष उच्यते । उभयोरपि पक्षयोः समारोपणं वा । अग्निहोत्रहवनं कुर्यात् ॥

अग्निहोत्रहवनविधानमुच्यते
[अपि वान्यवत्साया वा सन्धिनीक्षीरेणैकशलाकेन वा मन्थेनाग्निहोत्रं जुहोत्या दहनात् ॥ कौशिकसूत्र ११,१{८०}.२५ ॥]
अपि वान्यवत्सायाः सन्धिनीक्षीरेण वा अग्निहोत्रं जुहोति आ दहनात् । उक्तं होमविधानमाहिताग्नेरेकाग्नेश्च । एकशलाकेन वा मन्थेनाग्निहोत्रं जुह्वति ॥

दर्शपूर्णमासयोर्विधानमुच्यते
[दर्शपूर्णमासयोः कृष्णकतण्डुलानां तस्या आज्येन नान्तं न बहिः ॥ कौशिकसूत्र ११,१{८०}.२६ ॥]
अथ तूष्णीं निर्वपति । कृष्णतण्डुलानाम् । तस्या आज्येन नान्तर्न बहिः । मध्ये जुहुयातग्नेः ॥

पलालानि बर्हिः ॥ कौशिकसूत्र ११,१{८०}.२७ ॥
[तिल्पिञ्ज्या इध्माः ॥ कौशिकसूत्र ११,१{८०}.२८ ॥]
तिल्पिञ्ज्यानामिध्मग्रहणम् ॥

[ग्रहानाज्यभागौ पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य ॥ कौशिकसूत्र ११,१{८०}.२९ ॥
प्राणापानावरुद्ध्यै निधनाभिर्जुहुयात् ॥ कौशिकसूत्र ११,१{८०}.३० ॥]
अग्निहोत्रहोमं कुर्यात् । आज्यभागयोः पुरस्ताद्धोमसंस्थितहोमेषु स्वाहाकारं कुर्यात्सर्वत्र । स्वधाकारं कुर्यादन्यत्र । ब्राह्मणा वा प्राणापानाववरुध्य निधनाभिः स्वाहाहोमः । स्वाहाकारवषट्कारवर्जं अन्तेष्टिपितृमेधे सर्वत्रापि विना कर्तव्यम् । देशान्तरमृतस्य दर्भाज्याग्निहोत्रं वा समारोपणं समाप्तम् ॥

अथ प्रकृतमुच्यते
[अथोभयोः उत्तिष्ठ (१८.३.८) इत्युत्थापयति ॥ कौशिकसूत्र ११,१{८०}.३१ ॥]
उखाप्रदीपनानन्तरं प्रेतोत्थापनकर्म उच्यते । अथोभयोः एकं विहितं कर्म उच्यते । उत्थापनम् ।ऽउत्तिष्ठ प्रेहिऽ इत्येका,ऽप्रेहि प्रेहिऽ (१८.१.५४) इत्येका,ऽप्र च्यवस्वऽ (१८.३.९) इत्येका,ऽउदवन्तीऽ (१८.२.४८४९) इति द्वे,ऽइत एत उदारुहन्ऽ (१८.१.६१२.३) इति चतस्रः,ऽअग्नीषोमा पथिकृताऽ (१८.२.५३५५) इति तिस्रः,ऽइदं पूर्वम्ऽ (१८.४.४४) इत्येका एताः त्रयोदश उत्थापनीसञ्ज्ञाः । उत्थापनीभिरृग्भिः प्रेतमुत्थाप्य शकटे करोति शयने वा ॥

[प्र च्यवस्व (१८.३.९) इति त्रिः संहापयतिं यावत्कृत्वश्चोत्थापयति ॥ कौशिकसूत्र ११,१{८०}.३२ ॥]
ऽप्र च्यवस्वऽ इत्यृचा प्रेतस्य गात्राणीतश्चेतश्च करोति ॥

[एवमेव कूदीं जघने निबध्य ॥ कौशिकसूत्र ११,१{८०}.३३ ॥]
पश्चात्कटिप्रदेशे रज्ज्वां बद्ध्वा निबध्य गच्छति ॥

[इमौ युनज्मि (१८.२.५६) इति गावौ युनक्ति पुरुषौ वा ॥ कौशिकसूत्र ११,१{८०}.३४ ॥]
ऽइमौ युनज्मिऽ इत्यृचा वृषभौ अभिमन्त्र्य शकटे युनक्ति अन्यः शयने पुरुषान् वा अनयर्चा ॥

[उत्तिष्ठ (१८.३.८) प्रेहि (१८.१.५४) प्र च्यवस्व (१८.३.९) उदन्वती (१८.२.४८) इत एते (१८.१.६१) अग्नीषोमा (१८.२.५३) इदं पूर्वम् (१८.४.४४) इति हरिणीभिर्हरेयुः अति द्रव (१८.२.१११८) इत्यष्टभिः ॥ कौशिकसूत्र ११,१{८०}.३५ ॥]
अथ हरिणी उच्यते ।ऽअति द्रवऽ इत्यष्टौ ऋचो हरिणीत्युच्यते । दहनदेशे नीयमानं हरिणीभिरभिमन्त्रयेत्प्रेतं दूरस्थः कर्ता ॥

[इदं ते (१८.३.७) इत्यग्निमग्रतः ॥ कौशिकसूत्र ११,१{८०}.३६ ॥]
ऽइदं त एकम्ऽ इत्यृचा अग्नयः प्रेतस्याग्रे कृत्वाभिमन्त्रयते । एकाग्निं च शकटे बद्ध्वा । पात्राण्यग्रतः कृत्वा ॥

[प्रजानत्यघ्न्ये (१८.३.४) इति जघन्यं गामेधमग्निं परिणीय ॥ कौशिकसूत्र ११,१{८०}.३७ ॥]
ऽप्रजानत्यघ्न्ये जीवऽ इत्यृचा गां लौकिकाग्निं सारस्वतहोमार्थं परिणीय एधमग्निं परिणीय दहनदेशे गत्वा ॥

[स्योनास्मै भव (१८.२.१९) इत्युत्तरतोऽग्नेः शरीरं निदधाति ॥ कौशिकसूत्र ११,१{८०}.३८ ॥]
ऽस्योनास्मै भवऽ इत्यृचा उत्तरतोऽग्नेः प्रेतस्य शरीरं निदधाति अधः । पाणिं चाग्निसमीपे निदधाति । दहनस्थान इदं कर्म करोति ॥

अध्वर्यव इष्टिं निर्वपन्ति ॥ कौशिकसूत्र ११,१{८०}.३९ ॥
[तस्यां यथादेवतं पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य ॥ कौशिकसूत्र ११,१{८०}.४० ॥
प्राणापानावरुद्ध्यै निधनाभिर्जुहुयात् ॥ कौशिकसूत्र ११,१{८०}.४१ ॥]
यदि अन्तेष्टिः कृता भवति ततः प्रयोगसमाप्तिः अस्मिन् स्थाने.

तत्र भूमौ संस्कार उच्यते
[अथोभयोः अपेत (१८.१.५५) ददामि (१८.२.३७) इति शान्त्युदकं कृत्वा सम्प्रोक्षणीभ्यां काम्पीलशाखया दहनं सम्प्रोक्ष्य ॥ कौशिकसूत्र ११,१{८०}.४२ ॥]
ऽअपेत वीतऽ,ऽददाम्यस्मैऽ इति द्वाभ्यां काम्पीलशाखया दहनस्थानं सम्प्रोक्ष्य ॥

[उदीरताम् (१८.१.४४) इत्युद्धृत्याभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य प्राग्दक्षिणमेधश्चिन्वन्ति ॥ कौशिकसूत्र ११,१{८०}.४३ ॥]
ऽउदीरताम्ऽ इत्यृचा उद्धृत्याभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य दहनस्थानम् । पूर्वदक्षिणकोणाभिमुखानि काष्ठानि चिन्वन्ति ॥

[इयं नारी (१८.३.१) इति पत्नीमुपसंवेशयति ॥ कौशिकसूत्र ११,१{८०}.४४ ॥]
अन्यःऽइयं नारीऽ इत्यृचा पत्नीं प्रेतेन सह संवेशयति सहगमनार्थम् । तथा च पुराणे
पतिना सह मरणे लोकानन्त्यमवाप्नुयात्.
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥

[उदीर्ष्व (१८.३.२) इत्युत्थापयति ॥ कौशिकसूत्र ११,१{८०}.४५ ॥]
अथ यदि उत्तिष्ठति तदाऽउदीर्ष्वऽ इत्यृचाभिमन्त्र्योत्थापयति ॥

[यद्धिरण्यं बिभर्ति तद्दक्षिणे पाणावादायाज्येनाभिघार्य ज्येष्ठेन पुत्रेणादापयति इदं हिरण्यम् (१८.४.५६) इति ॥ कौशिकसूत्र ११,१{८०}.४६ ॥]
ऽइदं हिरण्यम्ऽ इत्यर्धर्चेन यद्धिरण्यं बिभर्ति तद्दक्षिणे पाणावादायाज्येनाभिघार्याभिमन्त्र्य ज्येष्ठेन पुत्रेणाऽऽदापयति ॥

[स्वर्गं यतः (१८.४.५६) इति दक्षिणं हस्तं निर्मार्जयति ॥ कौशिकसूत्र ११,१{८०}.४७ ॥]
ऽस्वर्गं यतःऽ इत्यर्धर्चेन प्रेतहस्तं मार्जयति पुत्रः ॥

[दण्डं हस्तात्(१८.२.५९) इति मन्त्रोक्तं ब्राह्मणस्यादापयति ॥ कौशिकसूत्र ११,१{८०}.४८ ॥]
ऽदण्डं हस्तात्ऽ इत्यृचा वेणुयष्टिं प्रेतहस्ताद्गृह्णाति पुत्रः । मन्त्रं कर्ता सर्वत्र ॥

[धनुर्हस्तात्(१८.२.६०) इति क्षत्रियस्य ॥ कौशिकसूत्र ११,१{८०}.४९ ॥]
ऽधनुर्हस्तात्ऽ इत्यृचा क्षत्रियहस्ताद्धनुर्गृह्णाति ॥

[अष्ट्रामिति वैश्यस्य ॥ कौशिकसूत्र ११,१{८०}.५० ॥]
ऽआष्ट्रं हस्तात्ऽ इति मन्त्रविकारं कृत्वा सह विशा वर्चसा बलेन प्रेताद्दण्डं गृह्णाति वैश्यपुत्रः ॥

[इदं पितृभ्यः (१८.१.४६) इति दर्भानेधान् स्तृणाति ॥ कौशिकसूत्र ११,१{८०}.५१ ॥]
ऽइदं पितृभ्यःऽ इत्यर्धर्चेन चितोपरि दर्भान् स्तृणाति ॥

[तत्रैनमुत्तानमादधीत ईजानश्चित्तमारुक्षदग्निं (१८.४.१४१५) इति ॥ कौशिकसूत्र ११,१{८०}.५२ ॥]
तत्र चितौ प्रेतमुत्तानमादधाति ।ऽईजानश्चित्तमारुक्षदग्निम्ऽ इति द्वाभ्यामृग्भ्यां दूरस्थः कर्ताऽनुमन्त्रयते ॥

[प्राच्यां त्वा दिशि (१८.३.३०) इति प्रतिदिशम् ॥ कौशिकसूत्र ११,१{८०}.५३ ॥]
पूर्वदक्षिणतः प्रेतशिरः कुर्यात् ।ऽप्राच्यां त्वा दिशिऽ इत्येताभिरृग्भिः प्रेतमभिमन्त्रयते स्थानस्थितम् ॥

[नेत्युपरिबभ्रवः ॥ कौशिकसूत्र ११,१{८०}.५४ ॥]
केचित्प्रतिदिशं शिरः कुर्वन्ति । तन्नेत्युपरिबभ्रव आचार्यः ॥

[अनुमन्त्रयते ॥ कौशिकसूत्र ११,१{८०}.५५ ॥]
अनुमन्त्रणं कुर्यादित्यर्थः ॥

अथास्य सप्तसु प्राणेषु सप्त हिरण्यशकलान्यवास्यति अमृतमस्यमृतत्वायामृतस्मिन् धेहि इति ॥ कौशिकसूत्र ११,१{८०}.५६ ॥
मन्त्रेण सप्तवारान्मन्त्रावृत्तिः । एकाग्नेरपि यथासम्भवं योजयितव्यम् ॥ एकादशेऽध्याये प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८० ॥


________________________________


[अथाहिताग्नेर्दर्भेषु कृष्णाजिनमन्तर्लोमास्तीर्य ॥ कौशिकसूत्र ११,२{८१}.१ ॥]
आहिताग्नेरधिकारः । चक्षुषी श्रोत्रे नासिके मुखं च सप्त प्राणाः । आहिताग्नेर्दर्भेषु कृष्णाजिनमन्तर्लोमास्तीर्य ॥

[तत्रैनमुत्तानमाधाय ॥ कौशिकसूत्र ११,२{८१}.२ ॥]
तत्र प्रेतमुत्तानमाधाय ॥

अथास्य यज्ञपात्राणि पृषदाज्येन पूरयित्वानुरूपं निदधाति ॥ कौशिकसूत्र ११,२{८१}.३ ॥
चतुर्गृहीत्वा निदधति प्रेताङ्गेषु ॥

पात्रचयनमुच्यते
दक्षिणे हस्ते जुहूम् ॥ कौशिकसूत्र ११,२{८१}.४ ॥
सव्य उपभृतम् ॥ कौशिकसूत्र ११,२{८१}.५ ॥
[कण्ठे ध्रुवां मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवम् ॥ कौशिकसूत्र ११,२{८१}.६ ॥]
कण्ठे ध्रुवां मुखेऽग्निहोत्रहवणीम् । नासिकयोः अग्निहोत्रस्रुवं पृषदाज्येन पूरयित्वा निधाय ॥

[तान्यनुमन्त्रयते जुहूर्दाधार द्यां, ध्रुव आ रोह (१८.४.५६) इति ॥ कौशिकसूत्र ११,२{८१}.७ ॥]
ऽजुहूर्दाधार द्याम्ऽ इत्येका,ऽध्रुव आ रोहऽ इत्येका । एताभ्यां पात्राण्यनुमन्त्रयते । सकृन्मन्त्रः ॥

ललाटे प्राशित्रहरणम् ॥ कौशिकसूत्र ११,२{८१}.८ ॥
द्वे तूष्णीम् ॥

[इममग्ने चमसम् (१८.३.५३५४) इति शिरसीडाचमसम् ॥ कौशिकसूत्र ११,२{८१}.९ ॥]
इडापात्रीं शिरसि निधायऽइममग्ने चमसम्ऽ इति द्वाभ्यामनुमन्त्रयते ॥

[देवा यज्ञम् (१८.४.२४) इत्युरसि पुरोडाशम् ॥ कौशिकसूत्र ११,२{८१}.१० ॥]
ऽदेवा यज्ञम्ऽ इति तिसृभिर्हृदये पुरोडाशमनुमन्त्रयते यदि पुरोडाशो भवति ॥

दक्षिणे पार्श्वे स्फ्यं सव्य उपवेषम् ॥ कौशिकसूत्र ११,२{८१}.११ ॥
[उदरे पात्रीम् ॥ कौशिकसूत्र ११,२{८१}.१२ ॥]
उदरे पिष्टपात्री ॥

[अष्ठीवतोरुलूखलमुसलम् ॥ कौशिकसूत्र ११,२{८१}.१३ ॥]
अष्ठीवतो जानुः प्रसिद्धस्तत्रोलूखलं मुसलं च ॥

[श्रोण्योः शकटम् ॥ कौशिकसूत्र ११,२{८१}.१४ ॥]
श्रोणिप्रदेशे शकटम् ॥

[अन्तरेणोरू अन्यानि यज्ञपात्राणि ॥ कौशिकसूत्र ११,२{८१}.१५ ॥]
अन्तरेणोरू अन्यानि यज्ञपात्राणि जङ्घ्योर्मध्ये अन्यानि प्रणीताचमसहोतृचमसब्रह्मचमसयजमानचमसअन्तर्धानकट पूर्णपात्रषडवत्तादीनि पृषदाज्येन पूरयित्वा निदध्यात्तूष्णीम् ॥

पादयोः शूर्पम् ॥ कौशिकसूत्र ११,२{८१}.१६ ॥
[अपो मृन्मयान्युपहरन्ति ॥ कौशिकसूत्र ११,२{८१}.१७ ॥]
मृन्मयानि अप्सुमध्ये निदध्यात् ॥

[अयस्मयानि निदधति ॥ कौशिकसूत्र ११,२{८१}.१८ ॥]
लोहमयानि भूमौ निखनति तूष्णीम् ॥

[अमा पुत्रा च दृषत् ॥ कौशिकसूत्र ११,२{८१}.१९ ॥]
अश्ममयानि स्वधितिदात्रपर्श्वादि दृषदुपलकं भूमौ निदध्यात् । एकाग्नेराहिताग्नेरधिकारः ॥

[अथोभयोः अपश्यं युवतिं, प्रजानत्यघ्न्ये (१८.३.३४) इति जघन्यां गां प्रसव्यं परिणीयमानामनुमन्त्रयते ॥ कौशिकसूत्र ११,२{८१}.२० ॥]
ऽअपश्यं युवतिम्ऽ इति द्वाभ्यामृग्भ्यां चितौ पार्श्वतः अपसव्यं गां परिणीयमानामनुमन्त्रयते ॥

[तां नैरृतेन जघनताघ्नन्त उपवेशयन्ति ॥ कौशिकसूत्र ११,२{८१}.२१ ॥]
गां निरृतिदेशे जघनप्रदेशे लकुटेन घातयित्वा मारयन्ति । यथा हन्यमाना गौः उपविशति तथा कर्तव्यम् । शूद्रीजातस्य पुत्रस्य एतत्कर्म । नान्यो मारयति ॥

[तस्याः पृष्ठतो वृक्कावुद्धार्य पाण्योरस्यादधति अति द्रव श्वानौ (१८.२.१११३) इति ॥ कौशिकसूत्र ११,२{८१}.२२ ॥
दक्षिणे दक्षिणं सव्ये सव्यम् ॥ कौशिकसूत्र ११,२{८१}.२३ ॥]
गोष्ठदेशाद्वृक्कावुद्धार्य प्रेतहस्तयोर्ददाति दक्षिणे दक्षिणं सव्ये सव्यम् ।ऽअति द्रवऽ इति तिसृभिरनुमन्त्रयते कर्ता दूरस्थः ॥

[हृदये हृदयम् ॥ कौशिकसूत्र ११,२{८१}.२४ ॥]
गोहृदयं प्रेतहृदये ददाति ॥

[अग्नेर्वर्म (१८.२.५८) इति वपया सप्तछिद्रया मुखं प्रछादयन्ति ॥ कौशिकसूत्र ११,२{८१}.२५ ॥]
ऽअग्नेर्वर्मऽ इत्यृचा वपया सप्तछिद्रया प्रेतमुखं छादयति ॥

यथागात्रं गात्राणि ॥ कौशिकसूत्र ११,२{८१}.२६ ॥
दक्षिणैर्दक्षिणानि सव्यैः सव्यानि ॥ कौशिकसूत्र ११,२{८१}.२७ ॥
[अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्य ॥ कौशिकसूत्र ११,२{८१}.२८ ॥]
अनुबद्धशिरःपादेन चर्मणा प्रेतमवच्छाद्य ॥

[अजो भागः (१८.२.८९), उत्त्वा वहन्तु (१८.२.२२) इति दक्षिणतोऽजं बध्नाति ॥ कौशिकसूत्र ११,२{८१}.२९ ॥]
ततःऽअजो भागःऽ इति द्वेऽउत्त्वा वहन्तुऽ इत्येका एताभिस्तिसृभिर्दक्षिणपार्श्वे चितौ अजं पशुं बध्नाति । यथा दह्यते तथा बध्नाति । तत्रोच्यते । तथा च माहकिः अजो हन्यते दह्यते ॥

[अस्माद्वै त्वमजायथा अयं त्वदधि जायतामसौ स्वाहा इत्युरसि गृह्ये जुहोति ॥ कौशिकसूत्र ११,२{८१}.३० ॥]
एकाग्निं प्रेतहृदये कृत्वाऽअस्माद्वै त्वमजायथा अयं त्वदधि जायतामसौ स्वाहाऽ इत्यनेन मन्त्रेणाज्यं जुहोति कर्ताऽस्पृष्टः सनथवा गोत्रिणः ॥

[तथाग्निषु जुहोति अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा इति ॥ कौशिकसूत्र ११,२{८१}.३१ ॥]
अथाहवनीयादिषु जुहोतिऽअग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहाऽ इति ।ऽअग्नये स्वाहाऽ इति त्रिभिः स्वाहाकारैराज्यं जुहोति । इति तिस्रस्तिस्र आहुतीः ॥

दक्षिणाग्नावित्येके ॥ कौशिकसूत्र ११,२{८१}.३२ ॥
खण्डकल्पं मन्यन्ते । प्रेतं वेदिमध्ये यथादिक्षु अग्नयः ॥

[मैनमग्ने वि दहः (१८.२.४७) शं तप (१८.२.३६) आ रभस्व (१८.३.७१७३) प्रजानन्तः (२.३४.५) इति कनिष्ठ आदीपयति ॥ कौशिकसूत्र ११,२{८१}.३३ ॥]
अथ पुत्रोऽग्निं ददाति । प्रेतस्य पिण्डदानं कृत्वा अप्रदक्षिणमुदकधारां भ्रामयित्वा करकैः प्रेते त्रिः शब्दं कृत्वा भूमौ प्रक्षिपति ततोऽग्निं ददाति । एतैर्मन्त्रै स्वयं पठित्वा न कर्ता ।ऽमैनमग्नेऽ इति चतस्रः,ऽशं तप मातितपऽ इत्यृचाऽआ रभस्व जातवेदःऽ इति त्रिभिःऽप्रजानन्तः प्रति गृह्णन्तुऽ इत्येका, एताभिरृग्भिः कनिष्ठपुत्रो गोत्रिणो वा अन्यो वा आदीपयति । ततो देवहेडनेनानुवाकेन स्रुवेणाज्यं जुहोति ॥

[आदीप्ते स्रुवेण यामान् होमाञ्जुहोति परेयिवासं प्रवतो महीः (१८.१.४९) इति ॥ कौशिकसूत्र ११,२{८१}.३४ ॥
यमो नो गातुं प्रथमो विवेद (१८.१.५०) इति द्वे प्रथमे ॥ कौशिकसूत्र ११,२{८१}.३५ ॥
अङ्गिरसो नः पितरो नवग्वाः (१८.१.५८६१) इति संहिताः सप्त ॥ कौशिकसूत्र ११,२{८१}.३६ ॥
यो ममार प्रथमो मर्त्यानाम् (१८.३.१३) ये नः पितुः पितरो ये पितामहाः (१८.२.४९) इत्येकादश ॥ कौशिकसूत्र ११,२{८१}.३७ ॥]
प्रज्वलिते चितौ कर्ता आदीप्ते सति स्रुवेण खादिरेण याम्यान् होमान् जुहोति । एकीभूतेष्वग्निषु । एकाग्नेरपि ।ऽपरेयिवांसम्ऽ,ऽयमो नो गातुम्ऽ इति द्वे इति प्रथमः पक्षः ।ऽअङ्गिरसो नः पितरो नवग्वाःऽ इति संहताः सप्त इति द्वितीयः पक्षः ।ऽपरेयिवांसम्ऽ इति द्वेऽअङ्गिरसो नः पितरःऽ इति सप्तऽये नः पितुः पितरो ये पितामहाःऽ इति द्वे एताः समस्ता एकादश तृतीयः पक्षः । एतैः समुच्चितैराज्यं जुहोति । एकेन पक्षेण । अथ सप्त नव एकादशादि ब्राह्मणाः पूर्वाभिमुखोपविष्टाःऽओ चित्सखायम्ऽ (१८.१४) इति काण्डं सकलं जपन्ति । विवाहे सूर्यवत् ॥

[अथ सारस्वताः ॥ कौशिकसूत्र ११,२{८१}.३८ ॥
सरस्वतीं देवयन्तो हवन्ते, सरस्वतीं पितरो हवन्ते, सरस्वति या सरथं ययाथ (१८.१.४१४३) सरस्वति व्रतेषु ते, इदं ते हव्यं घृतवत्सरस्वति (७.६८.१२) इन्द्रो मा मरुत्वान् (१८.३.२५) इति ॥ कौशिकसूत्र ११,२{८१}.३९ ॥
दक्षिणतोऽन्यस्मिन्ननुष्ठाता जुहोति ॥ कौशिकसूत्र ११,२{८१}.४० ॥]
अथ सारस्वतान् होमान् कर्ता करोति ।ऽसरस्वतीं देवयन्तो हवन्तेऽ इत्येका,ऽसरस्वतीं पितरो हवन्तेऽ इत्येका,ऽसरस्वति या सरथम्ऽ इत्येका,ऽसरस्वति व्रतेषु तेऽ इत्येका,ऽइदं ते हव्यम्ऽ इत्येका,ऽइन्द्रो मा मरुत्वान्ऽ इति पञ्चभिः एतैराज्यं जुहोति चितौ । एते सारस्वताः । दक्षिणतः कनिष्ठपुत्रो यामसारस्वतान् होमान् करोति । अथ कर्ता । सर्वे होमाः पित्र्युपवीतिना कर्तव्याः । कर्म वा सारस्वतं यज्ञोपवीतिना कर्तव्यम् ॥

[सर्वैरुपतिष्ठन्ति त्रीणि प्रभृतिभिर्वा ॥ कौशिकसूत्र ११,२{८१}.४१ ॥]
अथ सर्वे बान्धवाःऽओ चित्सखायम्ऽ (१८.१४) इति काण्डेनोपतिष्ठन्ते । अथवाऽसहस्रणीथाः कवयःऽ (१८.२.१८) इतिप्रभृतय उपतिष्ठन्ते ।ऽत्रीणि पदानिऽ (१८.३.४०) इत्यादि उपतिष्ठन्ते दह्यमाने गोत्रिणः ॥

[अपि वानुष्ठानीभिः ॥ कौशिकसूत्र ११,२{८१}.४२ ॥
एता अनुष्ठान्यः ॥ कौशिकसूत्र ११,२{८१}.४३ ॥
मैनमग्ने वि दहः (१८.२.४) इतिप्रभृति अव सृज (१८.२.१०) इति वर्जयित्वा सहस्रणीथाः (१८.२.१८) इत्यातः ॥ कौशिकसूत्र ११,२{८१}.४४ ॥]
अथवाऽमैनमग्ने वि दहऽ इत्यादिऽअव सृजऽ इत्येकां वर्जयित्वाऽसहस्रणीथाःऽ इत्यन्तम् । एता अनुष्ठान्यः । एतैरुपतिष्ठन्ते ॥

[आ रोहत जनित्रीं जातवेदसः (१८.४.११५) इति पञ्चदशभिराहिताग्निम् ॥ कौशिकसूत्र ११,२{८१}.४५ ॥]
ऽआ रोहत जनित्रीं जातवेदसःऽ इति पञ्चदशभिरृग्भिराहिताग्निं चितौ उपतिष्ठन्ते । अथवा एतत्कर्म आहिताग्नेरेकाग्नौ । अथ उभयोः कर्म उच्यते ॥

[मित्रावरुणा परि मामधाताम् (१८.३.१२) इति पाणी प्रक्षालयते ॥ कौशिकसूत्र ११,२{८१}.४६ ॥]
ऽमित्रावरुणा परि मामधाताम्ऽ इत्यृचा सर्वे पाणी प्रक्षालयन्ते ॥

[वर्चसा माम् (१८.३.१०) इत्याचामति ॥ कौशिकसूत्र ११,२{८१}.४७ ॥]
ऽवर्चसा माम्ऽ इत्यृचा सर्वे आचामयन्ति ॥

[विवस्वान्नः (१८.३.६१६२) इत्युत्तरतोऽन्यस्मिन्ननुष्ठाता जुहोति ॥ कौशिकसूत्र ११,२{८१}.४८ ॥]
ततः कर्ताऽविवस्वानःऽ इति द्वाभ्यामुत्तरतः अन्यस्मिन्ननुष्ठाता जुहोति । समाप्तं दहनकर्म ॥ द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८१ ॥


________________________________


अथ प्रथमे दिवसे पुत्रगोत्रिणां शान्तिरुच्यते
[यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृताम् ॥ कौशिकसूत्र ११,३{८२}.१ ॥]
उदकाञ्जलिं प्रेताय दत्त्वा स्नानं च कृत्वा ततः कर्म कुर्यात् । गोत्रिणो वा लघुपुत्रो वा । प्राङ्मुखानां यज्ञोपवीतिनां सर्वेषां भवन्ति ॥

[अथैषां सप्तसप्त शर्कराः पाणिष्वावपते ॥ कौशिकसूत्र ११,३{८२}.२ ॥]
सप्तसप्त शर्कराः पाणिष्वावपते ॥

[तासामेकैकां सव्येनावाचीनहस्तेनावकिरन्तोऽनवेक्षमाणा व्रजन्ति ॥ कौशिकसूत्र ११,३{८२}.३ ॥]
स्त्रियो वा पुरुषस्य च कनिष्ठादि तासामेकैकां सव्येन वा दक्षिणेन वाऽवाचीनहस्तेनावकिरन्ति । ततः अनवेक्षमाणा व्रजन्ति ॥

[अपाघेनानुमन्त्रयते ॥ कौशिकसूत्र ११,३{८२}.४ ॥
सर्वेऽग्रतो ब्रह्मणो व्रजन्ति ॥ कौशिकसूत्र ११,३{८२}.५ ॥
मा प्र गाम (१३.१.५९) इति जपन्त उदकान्ते व्यघापाघे जपन्ति ॥ कौशिकसूत्र ११,३{८२}.६ ॥
पश्चादवसिञ्चति ॥ कौशिकसूत्र ११,३{८२}.७ ॥
उदुत्तमम् (१८.४.६९) इति ज्येष्ठः ॥ कौशिकसूत्र ११,३{८२}.८ ॥]
ऽअप नः शोशुचदघम्ऽ (४.३३) इति सूक्तेनानुमन्त्रयते कर्ता । सर्वे बान्धवा अग्रे व्रजन्तःऽमा प्र गामऽ इत्यृचं जपन्तः । कर्ता पश्चाद्बान्धवानाम् । चतुर्थेऽहनि शुचित्वम् । कर्ता दूरस्थो मन्त्रं ब्रूयात् । उदकान्ते व्यघापाघे जपन्ति । गच्छतामुदकसमीपेऽवि देवाःऽ (३.३१)ऽअप नः शोशुचत्ऽ इति सूक्तद्वयं ब्रह्मा जपति । सूक्तद्वयं व्यघापाघाभ्याम् ।ऽउदुत्तमम्ऽ इति ब्राह्मणाः सर्वे स्वयमवसिञ्चति स्नानं कुर्वन्ति ॥

[पयस्वतीः (१८.३.५६) इति ब्रह्मोक्ताः पिञ्जूलीरावपति ॥ कौशिकसूत्र ११,३{८२}.९ ॥]
ऽपयस्वतीरोषधयःऽ इत्यृचा ब्राह्मणाः सर्वे स्नानं कुर्वन्ति । ततः एकविंशा दर्भपिञ्जूलीः नद्यां ह्रदे वावपति ब्रह्मा ॥

[शान्त्युदकेनाचम्याभ्युक्ष्य अश्वावतीम् (१८.२.३१) इति नदीं तारयते ॥ कौशिकसूत्र ११,३{८२}.१० ॥]
तत्र शान्त्युदकं करोति । सर्वेषामाचमनं ददाति । अभ्युक्ष्यऽअश्वावतीम्ऽ इत्यृचा नदीं तरतोऽनुमन्त्रयते ॥

[नक्षत्रं दृष्ट्वोपतिष्ठते नक्षत्राणां मा सङ्काशश्च प्रतीकाशश्चावतामिति ॥ कौशिकसूत्र ११,३{८२}.११ ॥]
बहिः स्थित्वा नक्षत्रं दृष्ट्वोपतिष्ठतेऽनक्षत्राणां मा सङ्काशश्चऽ इति मन्त्रेण ॥

[शाम्याकीः समिध आधायाग्रतो ब्रह्मा जपति ॥ कौशिकसूत्र ११,३{८२}.१२ ॥
यस्य त्रया गतमनुप्रयन्ति देवा मनुष्याः पशवश्च सर्वे । तं नो देवं मनो अधि ब्रवीतु सुनीतिर्नो नयतु द्विषते मा रधाम इति शान्त्युदकेनाचम्याभ्युक्ष्य ॥ कौशिकसूत्र ११,३{८२}.१३ ॥]
शाम्याकीः समिध आदाय ततः सर्वे आगच्छन्ति । ततोऽग्रे ब्रह्मा भूत्वाऽयस्य त्रया गतम्ऽ इति मन्त्रं जपति । ततः शान्त्युदकेनाचमनं कुर्वन्ति गृहसमीपे सर्वे ॥

[निस्सालाम् (२.१४) इति शालानिवेशनं सम्प्रोक्ष्य ॥ कौशिकसूत्र ११,३{८२}.१४ ॥
ऊर्जं बिभ्रत्(७.६०.१६) इति प्रपादयति ॥ कौशिकसूत्र ११,३{८२}.१५ ॥]
ऽनिःसालाम्ऽ इति शालां सम्प्रोक्ष्य कर्ताऽऊर्जं बिभ्रत्ऽ इति षडर्चेन बान्धवान् गृहे प्रवेशयति ॥

[नदीमालम्भयति गामग्निमश्मानं च ॥ कौशिकसूत्र ११,३{८२}.१६ ॥]
ताः पिञ्जूलीः आलम्भयति । गाम् । अग्निः लौकिकः । एकाग्नेर्वा । अश्मानं च । एतान्यालम्भयते ॥

[यवोऽसि यवयास्मदूद्वेषो यवयारातिमिति यवान् ॥ कौशिकसूत्र ११,३{८२}.१७ ॥]
ऽयवोऽसि यवयऽ इति मन्त्रेण यवानालम्भन्ते सर्वे ॥

[खल्वकास्य इति खल्वान् खलकुलांश्च ॥ कौशिकसूत्र ११,३{८२}.१८ ॥]
ऽखल्वकास्यऽ इति मन्त्रेण खल्वकान् कुलत्थांश्चालभन्ते ॥

[व्यघापाघाभ्यां शाम्याकीराधापयति ॥ कौशिकसूत्र ११,३{८२}.१९ ॥]
ऽवि देवाःऽ (३.३१)ऽअप नः शोशुचदघम्ऽ (४.३३) इति सूक्ताभ्यां शाम्याकीः समिध आदधाति कर्ता लौकिके वा एकाग्नौ वा । गोत्रिणां चतुरहमशुचित्वम् ॥

[तासां धूमं भक्षयन्ति ॥ कौशिकसूत्र ११,३{८२}.२० ॥]
तासां धूमं भक्षयन्ति बान्धवाः । यदि पुत्रस्याग्निस्तदा एकाग्नौ अथवा लौकिके । प्रथमेऽहनि एतत्कर्म । समाप्तमेतत्कर्म ॥

अथ द्वितीयेऽहनि कर्मोच्यते
[यद्यत्क्रव्याद्गृह्येद्यदि क्रव्यादा नान्तेऽपरेद्युः । दिवो नभः शुक्रं पयो दुहाना इषमूर्जं पिन्वमानाः ॥ अपां योनिमपाध्वं स्वधा याश्चकृषे जीवंस्तास्ते सन्तु मधुश्रुतः इत्यग्नौ स्थालीपाकं निपृणाति ॥ कौशिकसूत्र ११,३{८२}.२१ ॥]
ऽदिवो नमःऽ इत्यृचाग्निं प्रज्वाल्य स्थालीपाकं सकृत्सर्वहुतं करोति दहनसन्निधौ । न तन्त्रम् । दहने वा सकृत्सर्वहुतं करोति स्थालीपाकम् ॥

[आदहने चापिवान्यवत्सां दोहयित्वा तस्याः पृष्ठे जुहोति वैश्वानरे हविरिदं जुहोमि (१८.४.३५) इति ॥ कौशिकसूत्र ११,३{८२}.२२ ॥]
अथवा अन्यवत्सां गां दोहयित्वा तस्याः पृष्ठे जुहोतिऽवैश्वानरे हविःऽ इत्येकया ॥

तस्याः पयसि ॥ कौशिकसूत्र ११,३{८२}.२३ ॥
स्थालीपाक इत्येके ॥ कौशिकसूत्र ११,३{८२}.२४ ॥
श्रपयित्वेत्येके आचार्या मन्यन्ते । समाप्तं द्वितीयेऽहनि कर्म । तृतीये नास्ति कर्म ॥

चतुर्थेऽहनि कर्मोच्यते
[ये अग्नयः (३.२१) इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्यां तृतीयस्यामस्थीन्यभिजुहोति ॥ कौशिकसूत्र ११,३{८२}.२५ ॥]
ऽये अग्नयःऽ इति दशर्चेन सूक्तेन पालाश्या दर्व्या मन्थं सक्तुमन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्यां प्रत्यृचमस्थीन्युपरि होमं कुर्यात् ॥

[उप द्याम् (१८.३.५६) शं ते नीहारः (१८.३.६०) इति मन्त्रोक्तान्यवदाय ॥ कौशिकसूत्र ११,३{८२}.२६ ॥
क्षीरोत्सिक्तेन ब्राह्मणस्यावसिञ्चति मधूत्सिक्तेन क्षत्रियस्योदकेन वैश्यस्य ॥ कौशिकसूत्र ११,३{८२}.२७ ॥]
ऽउप द्यामुष वेतसम्ऽ इति द्वे,ऽशं ते नीहारःऽ इत्येका एताभिरृग्भिर्मन्त्रोक्तानामोषधीनामुदकं क्षीरं चैकत्र कृत्वाभिमन्त्र्य ब्राह्मणस्यास्थीनि निषिञ्चति । मन्त्रोक्ता ओषधय उच्यन्ते । वेतसश्च । कर्णश्च । नदीफेनश्च । अवका चागरुहेरुका च । बृहद्दूर्वा च । आकाशफेनश्च । मण्डूकपर्णी च । शुक्तिका च । एता मन्त्रोक्ता ओषधयः । मधूदकेन क्षत्रियस्य तेनैव मन्त्रेण मन्त्रोक्ताश्च । उदकेनौषधिसहितेन तेनैव मन्त्रेण वैश्यस्य ॥

[अव सृज (१८.२.१०) इत्यनुमन्त्रयते ॥ कौशिकसूत्र ११,३{८२}.२८ ॥]
एकाग्नेश्चाहिताग्नेश्च दहनम्ऽअव सृजऽ इत्यृचानुमन्त्रयते ॥

[मा ते मनः (१८.२.२४) यत्ते अङ्गम् (१८.२.२६) इति सञ्चिनोति पच्छः ॥ कौशिकसूत्र ११,३{८२}.२९ ॥]
अथ पिण्डप्रदानं सञ्चयनश्राद्धमेकोद्दिष्टं च कृत्वा ततः सञ्चयनं करोति ।ऽमा ते मनःऽ इत्यृचाऽयत्ते अङ्गम्ऽ इत्यृचा एताभ्यामस्थीन्यभिमन्त्र्य कलशे निदधाति । पालाशपत्रेण वा गृहीत्वा पच्छः पादतः ॥

प्रथमं शीर्षकपालानि ॥ कौशिकसूत्र ११,३{८२}.३० ॥
[पश्चात्कलशे समोप्य सर्वसुरभिचूर्णैरवकीर्योत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ कौशिकसूत्र ११,३{८२}.३१ ॥]
पश्चात्कलशे निदधाति । पश्चात्सर्वौषधिचूर्णानि च कलशे निदधाति उत्थापनीभिः कलशमुत्थाप्य हरिणीभिर्हरेयुः ।ऽउत्तिष्ठऽ (१८.३.८),ऽप्रेहिऽ (१८.१.५४),ऽप्रच्यवस्वऽ (१८.३.९),ऽउदन्वतीऽ (१८.२.४८४९),ऽइत एतेऽ (१८.१.६१),ऽअग्नीषोमाऽ (१८.२.५३),ऽइदं पूर्वम्ऽ (१८.४.४४) इत्युत्थापनीः ।ऽअति द्रवऽ (१८.२.१११८) इत्यष्टाभिर्हरिणीभिः ॥

[मा त्वा वृक्षः (१८.२.२५) इति वृक्षमूले निदधाति ॥ कौशिकसूत्र ११,३{८२}.३२ ॥]
ऽमा त्वा वृक्षःऽ इत्यृचास्थिकलशं मूले निखनति ॥

[स्योनास्मै भव (१८.२.१९) इति भूमौ त्रिरात्रमरसाशिनः कर्माणि कुर्वते ॥ कौशिकसूत्र ११,३{८२}.३३ ॥]
अथवाऽस्योनास्मै भवऽ इत्यृचाभिमन्त्र्य यदि भूमौ निखनति तदानया । समाप्तं सञ्चयनं चतुर्थेऽहनि । केचित्ऽयवीयःप्रथमानि कर्माणिऽ (Kऔश्ष्८२.१) इत्यादि चतुर्थे दिवसे कुर्वन्ति । सर्वत्र उभयोः कर्म । तथा च माहकिः ऽआवसथ्याग्निहोतृकयोः समानं सर्वं कर्म भवतिऽ । चतुर्थेऽहनि केचिद्ऽयवीयःप्रथमानि कर्माणिऽ (Kऔश्ष्८२.१) इत्यादि अत्र कुर्वन्ति । उभयोः । तथा च याज्ञवल्क्यः ।ऽद्वारे उपविश्य निम्बपत्राणिऽ इत्यादि शुचिर्भूत्वा ततः कर्माधिकारः । केचिद्यथापठितं सूत्रं तथा सर्वमेव कुर्वन्ति । ततः प्रभृति गोत्रिणां माङ्गल्यं कुर्वन्ति । यथाकुलधर्मेण वा । आवसथ्याग्निशेषं गृहे धारयित्वा अरणिर्वा निधायामावास्यायां क्रव्याच्छमनं कुर्यात्पुत्रो यद्याहिताग्निर्भवति । अथ गोत्रिणः त्रिरात्रमरसाशिनः कर्माणि नित्यनैमित्तिककाम्यानि कुर्वन्ति ॥

[दशरात्र इत्येके ॥ कौशिकसूत्र ११,३{८२}.३४ ॥
यथाकुलधर्मं वा ॥ कौशिकसूत्र ११,३{८२}.३५ ॥]
दशरात्र इत्येके । यथाकुलधर्मेण वा ॥

[ऊर्ध्वं तृतीयस्या वैवस्वतं स्थालीपाकं श्रपयित्वा विवस्वान्नः (१८.३.६१६२) इति जुहोति ॥ कौशिकसूत्र ११,३{८२}.३६ ॥]
चतुर्थेऽहनि अस्थिसञ्चयनं कृत्वा गृहे आगत्य ततः कर्ता वैवस्वतदेवताकं स्थालीपाकं श्रपयित्वाज्यभागान्तं कृत्वाऽविवस्वान्नःऽ इति द्वाभ्यां प्रत्यृचं द्वे आहुती जुहोति ॥

[युक्ताभ्यां तृतीयाम् ॥ कौशिकसूत्र ११,३{८२}.३७ ॥]
युक्ताभ्यां तृतीयामाहुतिम् ॥

[आनुमतीं चुतर्थीम् ॥ कौशिकसूत्र ११,३{८२}.३८ ॥]
अनुमतये स्वाहेति चतुर्थीम् ॥

[शेषं शान्त्युदकेनोपसिच्याभिमन्त्र्य प्राशयति ॥ कौशिकसूत्र ११,३{८२}.३९ ॥]
शान्त्युदकं कृत्वा हुतशेषं स्थालीपाकं शान्त्युदकेनोपसिच्यऽविवस्वान्नःऽ इति द्वाभ्यामभिमन्त्र्य प्राशयति । समानोदका गोत्रिणः दशपुरुषात्सप्तपुरुषाद्वा यथा ते समानोदकाः ॥

[आ प्र च्यवेथाम् (१८.४.४९) इति गावावुपयच्छति ॥ कौशिकसूत्र ११,३{८२}.४० ॥]
अथ दक्षिणां ददाति ।ऽआ प्र च्यवेथाम्ऽ इत्यृचा प्रेतवहनवृषभौ अभिमन्त्र्य गृह्णाति कर्ता । दश गावो दक्षिणा । अपरिमिता वा द्वाविंशत्या वा यथाशक्ति ॥

[एयमगन् (१८.४.५०) इति दशगवावरार्ध्या दक्षिणा ॥ कौशिकसूत्र ११,३{८२}.४१ ॥]
ऽएयमगन्ऽ इत्यृचा दक्षिणा अभिमन्त्र्य गृह्णाति । चतुर्थेऽहनि इदं कर्म । एकादशे वा । समाप्तं चतुरहकर्म ॥

अथ कर्तुर्यमव्रतमुच्यते
[द्वादशरात्रं कर्ता यमव्रतं चरेत् ॥ कौशिकसूत्र ११,३{८२}.४२ ॥]
यमव्रतं कर्ता चरेत्द्वादशरात्रम् ॥

एकचैलस्त्रिचैलो वा ॥ कौशिकसूत्र ११,३{८२}.४३ ॥
हविष्यभक्षः ॥ कौशिकसूत्र ११,३{८२}.४४ ॥
[सायम्प्रातरुपस्पृशेत् ॥ कौशिकसूत्र ११,३{८२}.४५ ॥]
सायम्प्रातः स्नानं कुर्यात् ॥

[ब्रह्मचारी व्रत्यधः शयीत ॥ कौशिकसूत्र ११,३{८२}.४६ ॥
स्वस्त्ययनानि प्रयुञ्जीत ॥ कौशिकसूत्र ११,३{८२}.४७ ॥]
सायम्प्रातर्यज्ञोपवीती भूत्वा कर्म कुर्यात् । स्वस्त्ययनान्युच्यन्ते ।ऽविवस्वान्नःऽ (१८.३.६१६२) इति द्वे,ऽइन्द्र क्रतुं नःऽ (१८.३.६७) इत्येका,ऽप्रास्मत्पाशान्ऽ (१८.४.७०) इत्येका,ऽत्यमू षुऽ (७.८५)ऽत्रातारम्ऽ (७.८६)ऽआ मन्द्रैःऽ (७.११७) इति,ऽयो अग्नौऽ (७.८७) इत्यृचा,ऽप्राणाय नमःऽ (११.४.१) इत्यृचा,ऽप्राण मा मत्ऽ (११.४.२६) इत्येका,ऽनमस्ते घोषिणीभ्यःऽ (११.२.३१) इत्येका,ऽस्वस्ति नो अस्त्वभयं नःऽ (१९.८.७) इत्यर्धर्चं,ऽपृथिवी शान्तिःऽ (१९.९.१४) एतानि स्वस्त्ययनानि जपेत् । यमकाण्डपठने अन्तेष्टिपितृमेधकरणे एतस्मिन् प्रकरणे सर्वत्रायं स्वस्त्ययनानि । समाप्तं सञ्चयनम् । अन्तेष्टिकर्म । पात्रचयनं च । यमव्रतं च ॥ एकादशे तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८२ ॥


________________________________


अथ पितृमेध उच्यते ।ऽपितृमेधः संवत्सरे कुर्यात्ऽ इति श्रुतिः । अथवाऽसंवत्सरामध्ये कुर्यात्ऽ इति । माघकालादिकाला वक्ष्यन्ते
[पितॄन्निधास्यन् सम्भारान् सम्भरति ॥ कौशिकसूत्र ११,४{८३}.१ ॥]
पित्र्युपवीती अन्तेष्टिपितृकर्म कुर्यात् ॥

[एकादश चरूञ्चक्रकृतान् कारयति ॥ कौशिकसूत्र ११,४{८३}.२ ॥
शतातृण्णसहस्रातृण्णौ च पाशीमूषं सिकताः शङ्खं शालूकं सर्वसुरभिशमीचूर्णकृतं शान्तवृक्षस्य नावं त्रिपादकम् ॥ कौशिकसूत्र ११,४{८३}.३ ॥]
मृण्मयं शतच्छिद्रं सहस्रच्छिद्रं च द्वितीयं मृण्मये द्वे कुर्यात् । सुखकिरम् । सिकताः । शङ्खः प्रसिद्धः । शालूकानि प्रसिद्धानि । सुरभिसर्वौषधिचूर्णम् । शमीपत्रचूर्णं च । शान्तवृक्षस्य नावम् । त्रिपादं शिवयम् ॥

[द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कूंश्चतुरः परिधीन् वारणं शामीलमौदुम्बरं पालाशं वृक्षस्य शान्तौषधीः ॥ कौशिकसूत्र ११,४{८३}.४ ॥]
निःशीयमाने जीर्णवाससी द्वे । नीललोहितसूत्रे प्रसिद्धे । प्रसव्यं रज्जुम् । शान्तवृक्षस्य चतुरः शङ्कून् । चतुरः परिधीन् । वारणं शामीलमौदुम्बरं पालाशमेतेषां वृक्षाणां शङ्क्वः परिधयश्च । शान्तवृक्षाद्वा । द्वे शान्तपुटिका । एते सम्भारा आहर्तव्याः । इति पितृनिधानसम्भाराः ॥

अथ पितृनिधानकाल उच्यते
[माघे निदध्यात्माऽघं भूतिति ॥ कौशिकसूत्र ११,४{८३}.५ ॥]
पापं कुले मा भवत् । माघमासे अमावास्यायां निदध्यात् ॥

[शरदि निदध्यात्शाम्यत्वघमिति ॥ कौशिकसूत्र ११,४{८३}.६ ॥
निदाघे निदध्यात्निदह्यतामघमिति ॥ कौशिकसूत्र ११,४{८३}.७ ॥
अमावास्यायां निदघ्यादमा हि पितरो भवन्ति ॥ कौशिकसूत्र ११,४{८३}.८ ॥]
अथवा शरदि निदाघे उष्णकाले निदध्यात् । इति काला उक्ता निधानस्य ॥

[अथावसानम् ॥ कौशिकसूत्र ११,४{८३}.९ ॥]
अस्थिगृह्यमुच्यते । तत्स्थानमुच्यते ॥

[तद्यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम् ॥ कौशिकसूत्र ११,४{८३}.१० ॥
यत्राकण्टका वृक्षाश्चौषधयश्च ॥ कौशिकसूत्र ११,४{८३}.११ ॥]
यत्र शान्तवृक्षा ओषधयश्च तत्र कुर्यात् । अवसानस्थानमेवंविधं कुर्यात् । इत्यवसानस्थानम् ॥

[उन्नतं स्वर्गकामस्य ॥ कौशिकसूत्र ११,४{८३}.१२ ॥]
उन्नतं स्वर्गकामस्य चयनं कुर्यात् ॥

अथ चतुर्दश्यामिदं कर्म वक्ष्यते
[श्वोऽमावास्येति गां कारयते ॥ कौशिकसूत्र ११,४{८३}.१३ ॥]
श्वोऽमावास्ये प्रभाते कर्म कुर्यात् । चतुर्दश्यां गां मारयति । न कर्ता ॥

[तस्याः सव्यं चापघनं प्रपाकं च निधाय ॥ कौशिकसूत्र ११,४{८३}.१४ ॥
भिक्षां कारयति ॥ कौशिकसूत्र ११,४{८३}.१५ ॥]
तस्याः सव्यसक्थिजघनरक्तपित्तौदरमांसानि वर्जयित्वा शेषाणि मांसानि स्थापयित्वा वशाविधानेन । शकः (?) अग्रे विनियोगो भविष्यति । समांसः पिण्डपितृयज्ञः ॥

[ग्रामे यामसारस्वतान् होमान् हुत्वा ॥ कौशिकसूत्र ११,४{८३}.१६ ॥]
ग्राममध्ये मण्डपं कृत्वा तत्रैकाग्नेर्यामसारस्वतान् होमान् हुत्वा अरणीभ्यामग्निं मथित्वा । केचिद्गोमारणकर्म वर्जयन्ति । तन्त्रं वा ॥

[सम्प्रोक्षणीभ्यां काम्पीलशाखया निवेशनमनुचर्य ॥ कौशिकसूत्र ११,४{८३}.१७ ॥]
सम्प्रोक्षणीभ्यां काम्पीलशाखया निवेशनस्थानं शोधयित्वाऽअपेत वीतऽ (१८.१.५५)ऽददाम्यस्मैऽ (१८.२.३७) इति द्वाभ्यां शान्त्युदकं कृत्वा निवेशनं सम्प्रोक्षति ॥

[प्राग्दक्षिणं शाखां प्रविध्य सीरेण कर्षयित्वा शाखाभिः परिवार्य ॥ कौशिकसूत्र ११,४{८३}.१८ ॥]
प्राग्दक्षिणं शाखां प्रविध्य । ततः सीरेण कर्षयित्वा शाखाभिः परिवार्य वेष्टयित्वा । अवसानस्थानकर्म ॥

अथास्थिकर्मोच्यते
[पुनर्देहि (१८.३.७०) इति वृक्षमूलादादत्ते ॥ कौशिकसूत्र ११,४{८३}.१९ ॥]
ऽपुनर्देहि वनस्पतेऽ इत्यृचा वृक्षमूलादादत्ते ॥

[यत्ते कृष्णः (१८.३.५५) इति भूमेर्वसने समोप्य सर्वसुरभिचूर्णैरवकीर्योत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ कौशिकसूत्र ११,४{८३}.२० ॥]
यदि भूमौऽयत्ते कृष्णःऽ इत्यृचा भूमेरादत्ते । अस्थीनि वसने समोप्य बन्धनं कृत्वा सर्वसुरभिचूर्णैरवकीर्य ततो ग्रन्थिं कृत्वा तत उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः । ततो वक्ष्यमाणं कर्म कुर्यात् ॥

अथास्थिनाशे प्रायश्चित्तकर्मोच्यते
[अविदन्तो देशात्पांसून् ॥ कौशिकसूत्र ११,४{८३}.२१ ॥]
अस्थिनाशे तद्देशात्पांसुं गृहीत्वा वसने समोप्य तत उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ।ऽउत्तिष्ठ प्रेहिऽ (१८.३.८),ऽप्र च्यवस्वऽ (१८.३.९),ऽउदन्वतीऽ (१८.२.४८),ऽइत एतेऽ (१८.१.६१),ऽअग्नीषोमाऽ (१८.२.५३),ऽइदं पूर्वम्ऽ (१८.४.४४) इत्युत्थापनीः ।ऽअति द्रवऽ (१८.२.१११८) इत्यष्टाभिर्हरिणीः ॥

[अपि वोदकान्ते वसनमास्तीर्य असौ इति ह्वयेत् ॥ कौशिकसूत्र ११,४{८३}.२२ ॥]
अथवोदकान्ते वसनमास्तीर्यऽअसौऽ इति वपेत् ॥

तत्र यो जन्तुर्निपतेत्तमुत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ कौशिकसूत्र ११,४{८३}.२३ ॥
[अपि वा त्रीणि षष्टिशतानि पलाशत्सरूणाम् ॥ कौशिकसूत्र ११,४{८३}.२४ ॥]
अथवा त्रीणि शतानि षष्टिश्च पालाशत्सरूणां तैः पुरुषं कल्पयित्वा तमुत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः । शरीरदग्धेऽस्थिनाशे च एतत्प्रायश्चित्तं भवति । समाप्तं देशान्तरमृतेऽस्थिनाशे च ॥

[ग्रामे दक्षिणोद्गद्वारं विमितं दर्भैरास्तारयति ॥ कौशिकसूत्र ११,४{८३}.२५ ॥]
ग्राममध्ये यो मण्डपः पूर्वं कृतः तस्योत्तरद्वारं दक्षिणद्वारं च कुर्यात् । ततः मण्डपं दर्भैः संस्तारयति ॥

[उत्तरं जीवसञ्चरो दक्षिणं पितृसञ्चरः ॥ कौशिकसूत्र ११,४{८३}.२६ ॥]
उत्तरेण मनुष्याः सञ्चरन्ति । दक्षिणेन पित्रस्थीनि ॥

[अनस्तमित आ यात (१८.४.६२) इत्यायापयति ॥ कौशिकसूत्र ११,४{८३}.२७ ॥]
तस्मिन्मण्डप अनस्तमित आदित्य इदं कर्म कुर्यात् ।ऽआ यात पितरःऽ इत्यृचास्थीनि मण्डपे प्रवेशयति दक्षिणद्वारे ॥

[आच्या जानु (१८.१.५२) इत्युपवेशयति ॥ कौशिकसूत्र ११,४{८३}.२८ ॥]
ऽआच्या जानुऽ इत्यृचा त्रिपादे पिटके उपवेशयति अस्थिपुत्तलकम् ॥

[सं विशन्तु (१८.२.२९) इति संवेशयति ॥ कौशिकसूत्र ११,४{८३}.२९ ॥]
ऽसं विशन्तुऽ इत्यृचा संवेशयति ॥

[एतद्वः पितरः पात्रमिति त्रीण्युदकंसान्निनयति ॥ कौशिकसूत्र ११,४{८३}.३० ॥]
ऽएतद्वः पितरः पात्रम्ऽ इति मन्त्रेण त्रीनुदकपूर्णान् कंसपात्रानस्थ्यभिमुखो निनयेत् । त्रिर्मन्त्रावृत्तिः । तस्मिन्मण्डपे ॥

[त्रीन् स्नातानुलिप्तान् ब्राह्मणान्मधुमन्थं पाययति ॥ कौशिकसूत्र ११,४{८३}.३१ ॥
ब्रह्मणे मधुपर्कमाहारयति ॥ कौशिकसूत्र ११,४{८३}.३२ ॥
गां वेदयन्ते ॥ कौशिकसूत्र ११,४{८३}.३३ ॥
कुरुत इत्याह ॥ कौशिकसूत्र ११,४{८३}.३४ ॥
तस्या दक्षिणमर्धं ब्राह्मणान् भोजयति सव्यं पितॄन् ॥ कौशिकसूत्र ११,४{८३}.३५ ॥]
ब्रह्मणे मधुपर्कमाहारयति कर्ता पूर्वं गोविकल्पेन । यदि गां करोति तस्या दक्षिणमर्धं ब्राह्मणान् भोजयति । सव्यं पितृहोमेन योजयितव्यम् । वशाविधानेनऽपितृभ्यः स्वधाऽ इति प्रधानमन्त्रः ॥ एकादशे चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८३ ॥


________________________________


[वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधा इति वपायास्त्रिर्जुहोति ॥ कौशिकसूत्र ११,५{८४}.१ ॥]
ऽवह वपाम्ऽ इति वपायास्त्रिर्जुहोति ॥

[इमं यम (१८.१.६०) इति यमाय चतुर्थीम् ॥ कौशिकसूत्र ११,५{८४}.२ ॥]
ऽइमं यमऽ इत्यृचा यमाय चतुर्थीम् । समाप्तं गोवधं पितृदैवतम् ॥

[एकविंशत्या यवैः कृशरं रन्धयति युतमन्यत्प्रपाकं च ॥ कौशिकसूत्र ११,५{८४}.३ ॥]
ततः चरुद्वयं सयवमयवं च कर्ता श्रपयति । एकविंशत्या यवैः कृशरं रन्धयति । सयवं चरुं श्रपयति ॥

[सयवस्य जीवाः प्राश्नन्ति ॥ कौशिकसूत्र ११,५{८४}.४ ॥]
सयवस्य चरोः स्वगोत्रजा भोजनं कुर्वन्ति ॥

[अथेतरस्य पिण्डं निपृणाति ॥ कौशिकसूत्र ११,५{८४}.५ ॥]
यथाशक्ति प्रपाकादि अयवकृशरेणास्थिसमीपे पिण्डदानं कुर्वन्ति । पिण्डशेषमस्थिकर्ता भुञ्जते ॥

[यं ते मन्थम् (१८.४.४२) इति मन्त्रोक्तं विमिते निपृणाति ॥ कौशिकसूत्र ११,५{८४}.६ ॥
तदुद्गतोष्महर्तारो दासा भुञ्जते ॥ कौशिकसूत्र ११,५{८४}.७ ॥
वीणा वदन्तु इत्याह ॥ कौशिकसूत्र ११,५{८४}.८ ॥]
स्वदासाश्च । ततः कर्ता प्रैषं ददाति गोत्रिणान् । वीणां वादयेत् । वाद्यानि वादयेत् ॥

[महयत पितॄनिति रिक्तकुम्भं विमितमध्ये निधाय तं जरदुपानहाघ्नन्ति ॥ कौशिकसूत्र ११,५{८४}.९ ॥]
रिक्तकुम्भमस्थ्यग्रे मण्डपमध्ये निधापयेत्सर्वे तं द्रुत्य जरदुपानद्भ्यामाघ्नन्ति सह कर्ता ॥

[कस्ये मृजानाः (१८.३.१७) इति त्रिः प्रसव्यं प्रकीर्णकेश्यः परियन्ति दक्षिणानूरूनाघ्नानाः ॥ कौशिकसूत्र ११,५{८४}.१० ॥]
ऽकस्ये मृजानाःऽ इत्यृचा कर्ता मन्त्रं ब्रूयात् । त्रिरपसव्यं परिकीर्णकेशा मुक्तकेशा इत्यर्थः । परियन्ति भ्रमन्तीत्यर्थः । दक्षिणानूरूनाघ्नानाः सर्वे गोत्रिणः । त्रिर्मन्त्रावृत्तिः ॥

एवं मध्यरात्रेऽपररात्रे च ॥ कौशिकसूत्र ११,५{८४}.११ ॥
[पुरा विवासात्समांसः पिण्डपितृयज्ञः ॥ कौशिकसूत्र ११,५{८४}.१२ ॥]
पुरा विवासात्प्रभातातित्यर्थः । ततो मांसेन पितृयज्ञः कार्यः । पिण्डपितृयज्ञविधानं लौकिककृतमांसेन । इति ग्राममध्ये मण्डपे चतुर्दश्यां रात्र्यामेतत्कर्म कर्तव्यम् ॥

अथामावास्यायां प्रभाते कर्मोच्यते
[उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ कौशिकसूत्र ११,५{८४}.१३ ॥]
तान्यस्थीनि मण्डपादुत्थाप्य उत्थापनीभिः हरिणीभिर्हरेयुः । ततः त्रिपादे निधाय ॥

अथावसानमुच्यते
[अथावसायेति पश्चात्पूर्वकृतेभ्यः पूर्वाणि पूर्वेभ्योऽपराणि यवीयसाम् ॥ कौशिकसूत्र ११,५{८४}.१४ ॥]
पश्चात्पूर्वकृतेभ्यः पितृभ्यश्चयनं कर्तव्यम् । पूर्वाणि । पूर्वेभ्योऽपराणि यवीयकार्याणि ॥

[प्राग्दक्षिणां दिशमभ्युत्तरामपरां दिशमभि तिष्ठन्ति ॥ कौशिकसूत्र ११,५{८४}.१५ ॥]
श्मशानानि प्राग्दक्षिणां दिशमभिमुखान्यारभ्याणि । उत्तरस्यां दिशि समाप्यन्ते । ग्रामस्यापि दक्षिणेन कर्तव्यानि ॥

[यथा चितिं तथा श्मशानं दक्षिणापरां दिशमभि प्रवणम् ॥ कौशिकसूत्र ११,५{८४}.१६ ॥]
यथा चितिं तथा श्मशाने धर्मा भवन्ति ।ऽउदीरताम्ऽ (Kऔश्ष्८०.४३) इत्यादि ।ऽसम्प्रोक्षणीभ्याम्ऽ (Kऔश्ष्८०.४२) इत्युक्तम् ।ऽअति धन्वानीत्यवसाऽ (Kऔश्ष्४३.३) इत्युक्तम् । दक्षिणाप्रवणदेशे श्माशानानि कार्याणि ॥ एकादशे पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८४ ॥


________________________________


अथ मानमुच्यते
[अथ मानानि ॥ कौशिकसूत्र ११,६{८५}.१ ॥
दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः ॥ कौशिकसूत्र ११,६{८५}.२ ॥
प्रादेशेन धनुषा च इमां मात्रां मिमीमहे (१८.२.३८४४) इति ॥ कौशिकसूत्र ११,६{८५}.३ ॥]
खातस्य । दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः प्रादेशेन धनुषा वा । एभिः प्रमाणैर्मन्तव्याः ।ऽइमां मात्रां मिमीमहेऽ इति सप्तभिरृग्भिः प्रतिदिशं मीयमानमनुमन्त्रयते ॥

सप्त दक्षिणतो मिमीते सप्तोत्तरतः पञ्च पुरस्तात्त्रीणि पश्चात् ॥ कौशिकसूत्र ११,६{८५}.४ ॥
एवंविधं मण्डपं मिमीते । अथवा

नव दक्षिणतो मिमीते नवोत्तरतः सप्त पुरस्तात्पञ्च पश्चात् ॥ कौशिकसूत्र ११,६{८५}.५ ॥
अथवा

एकादश दक्षिणतो मिमीत एकादशोत्तरतो नव पुरस्तात्सप्त पश्चात् ॥ कौशिकसूत्र ११,६{८५}.६ ॥
एते पक्षाः श्मशानचयनस्य भवन्ति ॥

[एकादशभिर्देवदर्शिनाम् ॥ कौशिकसूत्र ११,६{८५}.७ ॥]
अथर्वशाखानामेकपक्षः ॥

[अयुग्ममानानि परिमण्डलानि चतुरस्राणि वा शौनकिनाम् ॥ कौशिकसूत्र ११,६{८५}.८ ॥]
अयुग्ममानानि कुर्यात् । परिमण्डलानि वर्तुलानि चतुरस्राणि वा श्मशानानि कार्याणि विकल्पेन शौनकिनाम् ॥

[तथा हि दृश्यन्ते ॥ कौशिकसूत्र ११,६{८५}.९ ॥
यावान् पुरुष ऊर्ध्वबाहुस्तावानग्निश्चितः ॥ कौशिकसूत्र ११,६{८५}.१० ॥]
यावान् पुरुषः ऊर्ध्वबाहुस्तावानग्निचितः ऊर्ध्वचयनम् । द्विपुरुषं वा ऊर्ध्वबाहुः कुर्यात् ॥

[सव्यानि दक्षिणाद्वाराण्ययुग्मशिलान्ययुग्मेष्टिकानि च ॥ कौशिकसूत्र ११,६{८५}.११ ॥]
अपसव्यं चेतव्यम् । दक्षिणतः सम्भारहरणम् । दक्षिणाद्वाराणि कर्तव्यानि । अयुग्मशिलैश्चेतव्यम् । अयुग्मेष्टिकाभिर्वा श्मशानं कर्तव्यम् ॥

[इमां मात्रां मिमीमहे (१८.२.३८४४) इति दक्षिणतः सव्यरज्जुं मीत्वा ॥ कौशिकसूत्र ११,६{८५}.१२ ॥
वारयतामघमिति वारणं परिधिं परिदधाति शङ्कुं च निचृतति ॥ कौशिकसूत्र ११,६{८५}.१३ ॥]
तस्मिन् भूमौऽइमां मात्रां मिमीमहेऽ इति सप्तभिर्दक्षिणतः सव्यरज्जुं मीत्वाऽवारयतामघम्ऽ इति मन्त्रेण वारणं परिधिं परिदधाति । शङ्कुं च निचृतति । प्रतिदिङ्मन्त्रावृत्तिः ॥

[पुरस्तान्मीत्वा शमेभ्योऽस्त्वघमिति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति ॥ कौशिकसूत्र ११,६{८५}.१४ ॥
उत्तरतो मीत्वा शाम्यत्वघमित्यौदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति ॥ कौशिकसूत्र ११,६{८५}.१५ ॥
पश्चान्मीत्वा शान्तमघमिति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति ॥ कौशिकसूत्र ११,६{८५}.१६ ॥]
ततः पुरस्तात् । तत उत्तरतः । ततः पश्चात् । शङ्क्वः परिधयश्च प्रतिदिशं कार्याः ।ऽशमेभ्यस्त्वघम्ऽ इति शामीलं पुरस्तात् ।ऽशाम्यत्वघम्ऽ इत्युत्तरतः ।ऽशान्तमघम्ऽ इति पालाशं पश्चात् ॥

[अमासि (१८.२.४५४७) इत्यनुमन्त्रयते ॥ कौशिकसूत्र ११,६{८५}.१७ ॥]
ततःऽअमासि मात्राम्ऽ इति तिसृभिः श्मशानमनुमन्त्रयते ॥

[अक्ष्णया लोहितसूत्रेण निबध्य ॥ कौशिकसूत्र ११,६{८५}.१८ ॥
स्तुहि श्रुतम् (१८.१.४०) इति मध्ये गर्तं खात्वा पाशिसिकतोषोदुम्बरशङ्खशालूकसर्वसुरभिशमीचूर्णानि निवपति ॥ कौशिकसूत्र ११,६{८५}.१९ ॥]
ततः तस्मिन् श्मशानेऽक्ष्णया लोहितसूत्रेण निबध्यऽस्तुहि श्रुतम्ऽ इति गर्तं खनति । तद्गर्ते पाशिसिकताखुकिरशङ्खशालूकोदुम्बरसर्वसुरभिशमीचूर्णानि निवपति ॥

[निःशीयतामघमिति निःशीयमानमास्तृणाति ॥ कौशिकसूत्र ११,६{८५}.२० ॥]
ऽनिःशीयतामघम्ऽ इति मन्त्रेण निःशीयमानं जीर्णवस्त्रं गर्ते स्तृणाति ॥

असम्प्रत्यघम् ॥ कौशिकसूत्र ११,६{८५}.२१ ॥
[वि लुम्पतामघमिति परिचैलं दूर्शं विलुम्पति ॥ कौशिकसूत्र ११,६{८५}.२२ ॥]
ऽवि लुम्पतामघम्ऽ इति मन्त्रेण द्वितीयं परिचैलं तत्रैव बहिर्धारयति । धारयित्वा अग्रे कर्म भविष्यति तेन वस्त्रेण ॥

उक्तो होमो दक्षिणत स्तरणं च ॥ कौशिकसूत्र ११,६{८५}.२३ ॥
ऽइन्द्रो मा मरुत्वान्ऽ (१८.३.२५३७) इत्येताभिराज्यं जुहुयात्गर्ते ।ऽइदं पितृभ्यःऽ (१८.१.४६) इत्यृचा गर्ते दर्भान् स्तृणाति ॥

[एतदा रोह (१८.३.७३) ददामि (१८.२.३७) इति कनिष्ठो निवपति ॥ कौशिकसूत्र ११,६{८५}.२४ ॥]
ऽएतदा रोहऽऽददाम्यस्मैऽ इति द्वाभ्यां कनिष्ठपुत्रः तस्मिन् गर्ते अस्थीनि निवपति निदधाति । मन्त्रं कर्ता ब्रूयात् ॥

[एदं बर्हिः (१८.४.५२) इति स्थितसूनुर्यथापरु सञ्चिनोति ॥ कौशिकसूत्र ११,६{८५}.२५ ॥]
ऽएदं बर्हिःऽ इत्यृचा कुले ज्येष्ठोऽस्थीनि यथापरु सञ्चिनोति । पुरुषगात्राणिवत् ॥

[मा ते मनः (१८.२.२४) यत्ते अङ्गम् (१८.२.२६) इन्द्रो मा (१८.३.२५) उदपूः (१८.३.३७) इत्यातोऽनुमन्त्रयते ॥ कौशिकसूत्र ११,६{८५}.२६ ॥]
ऽमा ते मनःऽऽयत्ते अङ्गम्ऽऽइन्द्रो मा मरुत्वान्ऽ इतिऽउदपूःऽ इत्यातः एताभिरनुमन्त्रयते ॥

[धानाः सलिङ्गाभिरावपति ॥ कौशिकसूत्र ११,६{८५}.२७ ॥]
ऽयास्ते धानाःऽ (१८.३.६९॑ १८.४.२६) इति द्वे,ऽधाना धेनुरभवत्ऽ (१८.४.३२) इत्येका,ऽएतास्ते असौ धेनवःऽ (१८.४.३३) इत्येका,ऽएनीर्धानाःऽ (१८.४.३४) इत्येकाऽयास्ते धाना अनुऽ (१८.४.४३) इत्येका एताभिस्तिलमिश्रा धानाः तस्मिन्नस्थिषूपरि आदधाति ॥ षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८५ ॥


________________________________


[इदं कसाम्बु (१८.४.३७) इति सजातानवेक्षयति ॥ कौशिकसूत्र ११,७{८६}.१ ॥]
ऽइदं कसाम्बुऽ इत्यृचा तान्यस्थीनि गर्तस्थितानि सर्वे गोत्रिणः अवेक्षन्ते । कर्ता मन्त्रं ब्रूयात् ॥

[ये च जीवाः (१८.४.५७) ये ते पूर्वे परागताः (१८.३.७२) इति सर्पिर्मधुभ्यां चरुं पूरयित्वा शीर्षदेशे निदधाति ॥ कौशिकसूत्र ११,७{८६}.२ ॥]
ऽये च जीवाःऽ इत्येका,ऽये ते पूर्वे परागताःऽ इत्येका इति द्वाभ्यां द्वौ चरू सर्पिर्मधुभ्यां पूरयित्वाभिमन्त्र्य शीर्षदेशे निदधाति अस्थिसमीपे ॥

[अपूपवान् (१८.४.१६२४) इति मन्त्रोक्तं दिक्ष्वष्टमदेशेषु निदधति ॥ कौशिकसूत्र ११,७{८६}.३ ॥
मध्ये पचन्तम् ॥ कौशिकसूत्र ११,७{८६}.४ ॥]
ऽअपूपवान्ऽ इति नवभिरृग्भिः पश्चिमदिशि प्रभृति अष्टौ चरवः । प्रतिदिशं निदधाति । एकं मध्ये निधाय ततोऽभिमन्त्रयते । प्रतिमन्त्रं क्षीरादिपूर्णाः मन्त्रोक्ता अपूपापिधानाः सर्वे कर्तव्याः । प्रसव्या दातव्याः ॥

[सहस्रधारम् (१८.४.३६) शतधारम् (१८.४.२९३०) इत्यद्भिरभिविष्यन्द्य ॥ कौशिकसूत्र ११,७{८६}.५ ॥]
ऽसहस्रधारम्ऽ इत्येका,ऽशतधारम्ऽ इति द्वे एताभिः शतच्छिद्रे सहस्रच्छिद्रे चरुपात्रमध्ये निधायोपरि तत उदकमभिमन्त्र्य तेनोदकेनाप्लावयत्यस्थीनि ॥

[पर्णो राजा (१८.४.५३) इति मध्यमपलाशैरभिनिदधाति ॥ कौशिकसूत्र ११,७{८६}.६ ॥]
ऽपर्णो राजाऽ इत्यृचा मध्यमपलाशपत्रैः शतच्छिद्रसहस्रच्छिद्रादि चरवश्च सर्वमाच्छादयन्ति । मन्त्रं कर्ता ब्रूयात् ॥

[ऊर्जो भागः (१८.४.५४) इत्यश्मभिः ॥ कौशिकसूत्र ११,७{८६}.७ ॥]
ऽऊर्जो भागःऽ इत्यृचाश्मभिः पाषाणैर्वा इष्टकाभिर्वा आच्छादयति । चरवश्च गृहवत्चेतव्याः ॥

[उत्ते स्तभ्नामि (१८.३.५२) इति लोगान् यथापरु ॥ कौशिकसूत्र ११,७{८६}.८ ॥]
ऽउत्ते स्तभ्नामिऽ इत्यृचा लोष्टेन च चरुमस्थीनि च पूरयति निधानक्रमेण ॥

[निःशीयतामघमिति निःशीयमानेनावछाद्य दर्भैरवस्तीर्य ॥ कौशिकसूत्र ११,७{८६}.९ ॥]
ऽनिःशीयतामघम्ऽ इति मन्त्रेण जीर्णवस्त्रमाच्छादयति । दर्भैरवस्तीर्य श्मशानमस्थ्युपरि द्वितीयं वस्त्रं स्तृणाति ॥

[इदमिद्वा उ ना (१८.२.५०५२) उप सर्प (१८.३.४९५१) असौ है (१८.४.६६६७) इति चिन्वन्ति ॥ कौशिकसूत्र ११,७{८६}.१० ॥]
ऽइदमिद्वाऽ इति तिस्रः,ऽउप सर्पऽ इति तिस्रः,ऽअसौ हा इह तेऽ इति द्वे एताभिरृग्भिः श्मशानं पितृगृहं शिलाभिर्विषमाभिः इष्टकाभिर्वा प्रसव्यं चिन्वन्ति । देवगृहे च दक्षिणं द्वारं करोति । कर्तानुमन्त्रयते ॥

[यथा यमाय (१८.४.५५) इति संश्रित्य ॥ कौशिकसूत्र ११,७{८६}.११ ॥]
ऽयथा यमायऽ इत्यृचा श्मशानं घ्नन्ति कुटयन्ति । सर्वत्र कर्ता मन्त्रम् । पितृगृहमुच्चैः कृत्वा ।ऽउन्नतं स्वर्गकामस्यऽ इति
श्रुतिः ॥

[शृणात्वघमित्युपरि शरस्तम्बमादधाति ॥ कौशिकसूत्र ११,७{८६}.१२ ॥]
ऽशृणात्वघम्ऽ इति मन्त्रेण श्मशानोपरि शरस्तम्बमादधाति । समूलमार्द्रं यथा वर्धते ॥

प्रतिषिद्धमेकेषाम् ॥ कौशिकसूत्र ११,७{८६}.१३ ॥
[अकल्माषाणां काण्डानामष्टाङ्गुलीं तेजनीमन्तर्हितमघमिति ग्रामदेशादुच्छ्रयति ॥ कौशिकसूत्र ११,७{८६}.१४ ॥]
तथा विकल्पः शरस्तम्बस्य ।ऽअन्तर्हितमघम्ऽ इति मन्त्रेण कल्माषाणां काष्ठानामष्टाङ्गुलां कटिकामभिमन्त्र्य ग्रामश्मशानयोरन्तर्धानं करोति ॥

[प्रसव्यं पिरिषिच्य कुम्भान् भिन्दन्ति ॥ कौशिकसूत्र ११,७{८६}.१५ ॥]
कुशेन प्रसव्यं त्रिः परिषिच्य कुम्भान् भिन्दन्ति । पश्चिमायां दिशि स्फोटयन्ति ॥

[समेत (७.२१.१) इत्यपरस्यां श्मशानस्रक्त्यां धुवनान्युपयछन्ते ॥ कौशिकसूत्र ११,७{८६}.१६ ॥]
ऽसमेत विश्वेऽ इत्यनया ऋचा सर्वे बान्धवाः अपरस्यां श्मशानस्रक्त्यां धुवनान्युपयच्छन्ति ।ऽत्रिः प्रसव्यं परिकीर्णकेशाः परियन्ति दक्षिणानूरूनाध्नानाःऽ इति धुवनानि सर्वे बान्धवाः कुर्वन्ति ॥

[पश्चादुत्तरतोऽग्नेः वर्चसा माम् (१८.३.१०११) विवस्वान् (१८.३.६१) इन्द्र क्रतुम् (१८.३.६७) इत्यातः ॥ कौशिकसूत्र ११,७{८६}.१७ ॥]
ततःऽवर्चसा माम्ऽ इति द्वेऽविवस्वानःऽ इत्यादिऽइन्द्र क्रतुं नःऽ इत्यन्तमेतैः पश्चात्स्थित उपतिष्ठन्ते कर्ता गोत्रिणश्च ॥

[समिन्धते (१८.४.४१४२) इति पश्चात्सङ्कसुकमुद्दीपयति ॥ कौशिकसूत्र ११,७{८६}.१८ ॥]
ऽसमिन्धते अमर्त्यम्ऽ इति द्वाभ्यामृग्भ्यां ग्राममध्ये यन्मण्डपं कृतं ततानीय श्मशानपश्चाद्देशे प्रज्वालयति दहति । सङ्कसुकशब्देन यामसारस्वतान् हुत्वा उत्तरं जीवशरदे दक्षिणं यज्जुनं तत्सङ्कसुकशब्देनोच्यते । तं ज्वालयति । श्मशानचित्यस्य कर्म समाप्तम् । अनेन विधानेनास्थिचयनं कुर्यात् । पुत्रो वा गोत्रिणो वा इदं कर्म कारयति स्वर्गमिच्छता ॥

[अस्मिन् वयम् (१२.२.१३), यद्रिप्रं (१२.२.४०), सीसे मृड्ढ्वं (१२.२.१९) इत्यभ्यवनेजयति ॥ कौशिकसूत्र ११,७{८६}.१९ ॥]
ऽअस्मिन् वयम्ऽ,ऽयद्रिप्रम्ऽ,ऽसीसे मृड्ढ्वम्ऽ इत्यादि क्रव्याच्छमनेन व्याख्यातम् ॥

कृष्णोर्णया पाणिपादान्निमृज्य ॥ कौशिकसूत्र ११,७{८६}.२० ॥
सर्वे गोत्रिणः ॥

इमे जीवाः (१२.२.२२) उदीचीनैः (१२.२.२९) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ११,७{८६}.२१ ॥
त्रिः सप्त (१२.२.२९) इति कूद्या पदानि योपयित्वा श्मशानात् ॥ कौशिकसूत्र ११,७{८६}.२२ ॥
दहनमपि श्मशानमुच्यते ॥

मृत्योः पदम् (१२.२.३०) इति द्वितीयया नावः ॥ कौशिकसूत्र ११,७{८६}.२३ ॥
परं मृत्योः (१२.२.२१) इति प्राग्दक्षिणं कूदीं प्रविध्य ॥ कौशिकसूत्र ११,७{८६}.२४ ॥
सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा ॥ कौशिकसूत्र ११,७{८६}.२५ ॥
आरोहत सवितुर्नावमेताम् (१२.२.४८) सुत्रामाणम् (७.६.३) महीमू षु (७.६.२) इति सहिरण्यां सयवां नावमारोहयति ॥ कौशिकसूत्र ११,७{८६}.२६ ॥
अश्मन्वती रीयते (१२.२.२६) उत्तिष्ठता प्र तरता सुखायः (१२.२.२७) इत्युदीचस्तारयति ॥ कौशिकसूत्र ११,७{८६}.२७ ॥
[शर्कराद्या समिदाधानात् ॥ कौशिकसूत्र ११,७{८६}.२८ ॥
वैवस्वतादि समानम् ॥ कौशिकसूत्र ११,७{८६}.२९ ॥]
उत्तरतो गर्तः इति क्रव्याच्छमनं च कृत्वा । ततोऽयवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृताम्ऽ (Kऔश्ष्८२.१) । अथैषां सप्त शर्कराः पाणिष्वावपति इत्यादि सर्वं कुर्यात् ।ऽशाम्याकीरादधाति । तासां धूमं भक्षयन्तिऽ (Kऔश्ष्८२.१९२०) इत्येवमन्तं सर्वं कुर्वन्ति गोत्रिणः ।ऽवैवस्वतं स्थालीपाकं श्रपयित्वाऽ (Kऔश्ष्८२.३६) इत्यादि । वृषभद्वयं दशगवावरार्ध्या आचार्यदक्षिणा । द्वादशरात्रं कर्ता यमव्रतान्तं (Kऔश्ष्८२.४२) सर्वं भवति ॥

[प्राप्य गृहान् समानः पिण्डपितृयज्ञः ॥ कौशिकसूत्र ११,७{८६}.३० ॥]
प्राप्य गृहान् समान एकः पिण्डपितृयज्ञः कार्यः सर्वेषां गोत्रिणां विधानेन । ततः सामावास्यायां निधानममावास्यायां क्रव्याच्छमनं कुर्यादिति । केचिल्लौकिकेऽपि पिण्डपितृयज्ञं कुर्वन्ति । समाप्तः पितृमेधः । एकाग्न्याहिताग्न्योरुभयोः पितृमेध अधिकारः । अन्तेष्टिः पात्रचयनं देशान्तरविधानं पितृमेधश्च ॥ एकादशे सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८६ ॥


________________________________


अथ पिण्डपितृयज्ञः ॥ कौशिकसूत्र ११,८{८७}.१ ॥
[अमावास्यायां सायं न्यह्नेऽहनि विज्ञायते ॥ कौशिकसूत्र ११,८{८७}.२ ॥]
अमावास्यायामपराह्णे कुर्यात् ॥

[मित्रावरुणा परि मामधाताम् (१८.३.१२) इति पाणी प्रक्षालयते ॥ कौशिकसूत्र ११,८{८७}.३ ॥]
वैश्वदेवं कृत्वाऽअव्यसश्चऽ (१९.६८) इति जपित्वाऽमित्रावरुणा परि मामधाताम्ऽ इत्यृचा पाणी प्रक्षालयते ॥

[वर्चसा माम् (१८.३.१०) इत्याचामति ॥ कौशिकसूत्र ११,८{८७}.४ ॥]
ऽवर्चसा माम्ऽ इत्यृचाचामयति ॥

[पुनः सव्येनाचमनादपसव्यं कृत्वा प्रैषकृतं समादिशति ॥ कौशिकसूत्र ११,८{८७}.५ ॥]
ततः तूष्णीं पुनः सव्येनाचमनं करोति । ततः पित्र्युपवीती भूत्वा वक्ष्यमाणं कर्म करोति । परिचारकाय प्रैषं ददाति ॥

[उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षाल्य बर्हिरुदकुम्भमाहर इति ॥ कौशिकसूत्र ११,८{८७}.६ ॥]
उलूखलमुसलं शूर्पं चरुं कांस्यपात्रमुदकुम्भं दर्भान् व्रीहीन् समिधः नेक्षणादिकमाहरेति ॥

[यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः शूर्प एकपवित्रान्तर्हितान् हविष्यान्निर्वपति ॥ कौशिकसूत्र ११,८{८७}.७ ॥
इदमग्नये कव्यवाहनाय स्वधा पितृभ्यः पृथिविषद्भ्यः इति इदं सोमाय पितृमते स्वधा पितृभ्यः सोमवद्भ्यः पितृभ्यः वा अन्तरिक्षसद्भ्यः इति इदं यमाय पितृमते स्वधा पितृभ्यश्च दिविषद्भ्यः इति त्रीनवाचीनकाशीन्निर्वपति ॥ कौशिकसूत्र ११,८{८७}.८ ॥]
ततः यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः शूर्प एकपवित्रं निधाय ततो निर्वपति तण्डुलमुष्टिम् ।ऽइदमग्नये कव्यवाहनायऽ इत्येतैर्मन्त्रैस्त्रीनधोमुष्टीन्निर्वपति । ततः पित्र्युपवीतीऽइदमग्नये कव्यवाहनायऽ इति त्रिः सम्प्रोक्षणम् ॥

[उलूखल ओप्य त्रिरवहन्ति इदं वः पितरो हविः इति ॥ कौशिकसूत्र ११,८{८७}.९ ॥
यथा हविस्तथा परिचरति ॥ कौशिकसूत्र ११,८{८७}.१० ॥
हविर्ह्येव पितृयज्ञः ॥ कौशिकसूत्र ११,८{८७}.११ ॥]
तत उलूखल ओप्य त्रिरवहन्तिऽइदं वः पितरो हविःऽ इति मन्त्रेण । ततः शूर्पेण निष्पवनम् ॥

[प्रैषकृतं समादिशति चरुं प्रक्षालयाधिश्रयाप ओप्य तण्डुलानावपस्व नेक्षणेन योधयन्नास्व मा शिरो ग्रहीः ॥ कौशिकसूत्र ११,८{८७}.१२ ॥]
ततस्तण्डुलप्रक्षालनम् ।ऽचरुं प्रक्षालयाधिश्रयऽ इति प्रैषः । चरोरधिश्रयणम् ।ऽअप ओप्यऽ चरोरुदकासेकः ।ऽतण्डुलानावपस्वऽ तण्डुलावपनम् ।ऽपरि त्वाग्नेऽ (७.७१.१) इत्यृचा पर्यग्निकरणम् । नेक्षणेन त्रिष्प्रदक्षिणमुदायौति चरुम् । यथोत्पूतं भवति तथा कुर्यात् ॥

[शिरोग्रहं परिचक्षते ॥ कौशिकसूत्र ११,८{८७}.१३ ॥]
शिरोग्रहणं न कुर्यात् ॥

[बाह्येनोपनिष्क्रम्य यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः उदीरताम् (१८.१.४४) इति कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम् ॥ कौशिकसूत्र ११,८{८७}.१४ ॥]
अग्निशालाया बाह्येनोपनिष्क्रम्य यज्ञोपवीती भूत्वा दक्षिणपूर्वमन्तर्देशाभिमुखऽउदीरताम्ऽ इत्यृचा कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम् ॥

अवागङ्गुरिं पर्वमात्रीमित्येके ॥ कौशिकसूत्र ११,८{८७}.१५ ॥
[अपहता असुरा रक्षांसि ये पितृषदः इति प्राग्दक्षिणं पांसूनुदूहति ॥ कौशिकसूत्र ११,८{८७}.१६ ॥]
ऽअपहता असुरा रक्षांसि ये पितृषदःऽ इति यजुषा प्राग्दक्षिणं पांसूनुदूहति ॥

[कर्षूं च पाणी च प्रक्षाल्य एतद्वः पितरः पात्रमिति कर्षूमुदकेन पूरयित्वा ॥ कौशिकसूत्र ११,८{८७}.१७ ॥]
कर्षूं च पाणी च प्रक्षाल्य ततो निर्वापपवित्रं गृहीत्वा कांस्योदकपात्रं कल्पयित्वा कर्षूमध्ये निनयतिऽएतद्वः पितरः पात्रम्ऽ इति मन्त्रेण ॥

[अन्तरुपातीत्य मस्तुना नवनीतेन वा प्रतिनीय दक्षिणाञ्चमुद्वास्य ॥ कौशिकसूत्र ११,८{८७}.१८ ॥]
ततो मध्ये प्रविश्य मस्तुना नवनीतेन वा प्रतिनीय चरौ प्रक्षिपेत् । दक्षिणत उद्वासयति ॥

[द्वे काष्ठे गृहीत्वा उशन्तः (१८.१.५६५७) इत्यादीपयति ॥ कौशिकसूत्र ११,८{८७}.१९ ॥]
द्वे काष्ठे गृहीत्वाऽउशन्तःऽ इति द्वाभ्यामृग्भ्यामादीपयति ॥

[आदीप्तयोरेकं प्रतिनिदधाति ॥ कौशिकसूत्र ११,८{८७}.२० ॥
इहैवैधि धनसनिः (१८.४.३८) इत्येकं हृत्वा ॥ कौशिकसूत्र ११,८{८७}.२१ ॥]
एकं दीप्तकाष्ठं गृहीत्वाऽइहैवैधिऽ इत्यृचा पांसूपरि निदधाति ॥

[पांसुष्वाधायोपसमादधाति ये निखाताः (१८.२.३४३५) समिन्धते (१८.४.४१) ये तातृषुः, ये सत्यासः (१८.३.४७४८) इति ॥ कौशिकसूत्र ११,८{८७}.२२ ॥]
ऽये निखाताःऽ इति द्वेऽसमिन्धतेऽ इत्येका,ऽये तातृषुःऽ इत्येका,ऽये सत्यासःऽ इत्येका एतैः पञ्चभिः पञ्च समिध आदधाति । ततः ॥

सम्भारानुपसादयति ॥ कौशिकसूत्र ११,८{८७}.२३ ॥
[पर्युक्षणीं बर्हिरुदकुम्भं कंसं दर्विमाज्यमायवनं चरुं वासांस्याञ्जनमभ्यञ्जनमिति ॥ कौशिकसूत्र ११,८{८७}.२४ ॥]
पर्युक्षणीं बर्हिः उदकुम्भं कांस्यभाजनम् । दर्विम् । आज्यम् । आयवनम् । चरुम् । वासांसि । आञ्जनम् । अभ्यञ्जनम् । एतानि सर्वाणि पात्राणि उपसाद्य ॥

[यदत्रोपसमाहार्यं भवति तदुपसमाहृत्य ॥ कौशिकसूत्र ११,८{८७}.२५ ॥
अतो यज्ञोपवीती पित्र्युपवीती बर्हिर्गृहीत्वा विचृत्य सन्नहनं दक्षिणापरमष्टमदेशमभ्यवास्येत् ॥ कौशिकसूत्र ११,८{८७}.२६ ॥]
ततः पित्र्युपवीती सकृदाच्छिन्नं बर्हिर्गृहीत्वा विचृत्य सन्नहनं दक्षिणापरदेशे निरस्यति तूष्णीम् ॥

[बर्हिरुदकेन सम्प्रोक्ष्य बर्हिषदः पितरः (१८.१.५१) उपहूता नः पितरः (१८.३.४५) अग्निष्वात्ताः पितरः (१८.३.४४) ये नः पितुः पितरः (१८.३.४६) येऽस्माकम् (१८.४.६८) इति प्रस्तृणाति ॥ कौशिकसूत्र ११,८{८७}.२७ ॥]
बर्हिरुदकेन सम्प्रोक्ष्यऽबर्हिषदः पितरःऽ इत्यृचा,ऽउपहूता नः पितरःऽ इत्यृचाऽअग्निष्वात्ताः पितरःऽ इत्येका,ऽये नः पितुः पितरःऽ इत्येका,ऽयेऽस्माकं पितरःऽ इत्यर्द्धर्चः एताभिर्बर्हिः स्तृणाति । बर्हिषि आवाहनं करोति ॥

[आयापनादीनि त्रीणि ॥ कौशिकसूत्र ११,८{८७}.२८ ॥]
ऽआ यात पितरःऽ (१८.४.६२) इत्यृचाऽआच्या जानुऽ (१८.१.५२) इत्यृचाऽसं विशन्तुऽ (१८.२.२९) इत्यृचा एतैः तिलान् विकीर्य ॥

[उदीरताम् (१८.१.४४४६) इति तिसृभिरुदपात्राण्यन्वृचं निनयेत् ॥ कौशिकसूत्र ११,८{८७}.२९ ॥]
ऽउदीरताम्ऽ इति तिसृभिरुदपात्राणि एकैकयर्चा बर्हिषि निनयति ॥

[अतः पित्र्युपवीती यज्ञोपवीती ये दस्यवः (१८.२.२८) इत्युभयत आदीप्तमुल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति ॥ कौशिकसूत्र ११,८{८७}.३० ॥
पर्युक्ष्य ॥ कौशिकसूत्र ११,८{८७}.३१ ॥]
ततो यज्ञोपवीतीऽये दस्यवःऽ इत्युभयत आदीप्तमुल्मुकं परिहृत्य निरस्यति । पर्युक्ष्य ॥ एकादशे अष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८७ ॥


________________________________


[ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । त्व तानग्ने अप सेध दूरान् सत्या नः पितॄणां सन्त्वाशिषः स्वाहा स्वधा इति हुत्वा कुम्भीपाकमभिघारयति ॥ कौशिकसूत्र ११,९{८८}.१ ॥]
ऽये रूपाणिऽ इत्यृचाज्यं स्रुवेण जुहोति । ततः कुम्भीपाकमभिघारयति तूष्णीम् ॥

[अग्नये कव्यवाहनाय इति जुहोति ॥ कौशिकसूत्र ११,९{८८}.२ ॥]
ततःऽअग्नये कव्यवाहनाय स्वधा पितृभ्यःऽ इति चरुं जुहोति ॥

यथानिरुप्तं द्वितीयाम् ॥ कौशिकसूत्र ११,९{८८}.३ ॥
[यमाय पितृमते स्वधा पितृभ्यः इति तृतीयाम् ॥ कौशिकसूत्र ११,९{८८}.४ ॥]
ऽयमाय पितृमते स्वधाऽ इति तृतीयाम् ॥

[यद्वो अग्निः (१८.४.६४) इति सायवनांस्तण्डुलान् ॥ कौशिकसूत्र ११,९{८८}.५ ॥]
ऽयद्वो अग्निःऽ इति सायवनांस्तण्डुलान् जुहोति ॥

[सं बर्हिः (७.९८.१) इति सदर्भांस्तण्डुलान् पर्युक्ष्य ॥ कौशिकसूत्र ११,९{८८}.६ ॥]
ऽसं बर्हिःऽ इत्यृचा सदर्भान् तण्डुलान् जुहोति । ततः पर्युक्षणम् ॥

[अतो यज्ञोपवीती पित्र्युपवीती दर्व्योद्धरति ॥ कौशिकसूत्र ११,९{८८}.७ ॥]
ततः पित्र्युपवीती दर्व्योद्धरति भाजने ॥

[द्यौर्दर्विरक्षितापरिमितानुपदस्ता सा यथा द्यौर्दर्विरक्षितापरिमितानुपदस्तैवा प्रततामहस्येयं दर्विरक्षितापरिमितानुपदस्ता ॥ कौशिकसूत्र ११,९{८८}.८ ॥
अन्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता सा यथान्तरिक्षं दर्विरक्षितापरिमितानुपदस्तैवा ततामहस्येयं दर्विरक्षितापरिमितानुपदस्ता ॥ कौशिकसूत्र ११,९{८८}.९ ॥
पृथिवी दर्विरक्षितापरिमितानुपदस्ता सा यथा पृथिवी दर्विरक्षितापरिमितानुपदस्तैवा ततस्येयं दर्विरक्षितापरिमितानुपदस्ता इति ॥ कौशिकसूत्र ११,९{८८}.१० ॥]
ऽद्यौर्दर्विरक्षितापरिमिताऽ इति त्रिभिः । प्रतिमन्त्रमुद्धरणम् ॥

[उद्धृत्याज्येन सन्नीय त्रीन् पिण्डान् संहतान्निदधाति एतत्ते प्रततामह (१८.४.७५७७) इति ॥ कौशिकसूत्र ११,९{८८}.११ ॥]
ततः उद्धृत्याज्येन सन्नीयऽएतत्ते प्रततामहऽ इति त्रिभिरृग्भिः त्रीन् पिण्डान् संहितान्निदधाति बर्हिषि ॥

दक्षिणतः पत्नीभ्यः इदं वः पत्न्यः इति ॥ कौशिकसूत्र ११,९{८८}.१२ ॥
[इदमाशंसूनामिदमाशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां येषां वयं दातारो ये चास्माकमुपजीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावदक्षय्यमस्तु इति त्रिः प्रसव्यं तण्डुलैः परिकिरति ॥ कौशिकसूत्र ११,९{८८}.१३ ॥]
ऽइदमाशंसूनाम्ऽ इति त्रिः प्रसव्यं तण्डुलैः परिकिरति ॥

[पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य अङ्ध्वं पितरः इति न्यस्यति ॥ कौशिकसूत्र ११,९{८८}.१४ ॥]
ऽअङ्ध्वं पितरःऽ इति मन्त्रेण पिञ्जूलीराञ्जनं घृताक्तं कृत्वा पिण्डेषु निदधाति ॥

[वद्ध्वं पितरो मा वोऽतोऽन्यत्पितरो योयुवत इति सूत्राणि ॥ कौशिकसूत्र ११,९{८८}.१५ ॥]
ऽवद्ध्वं पितरःऽ इति सूत्रं निदधाति ॥

[अञ्जते व्यञ्जते (१८.३.१८) इत्यभ्यञ्जनम् ॥ कौशिकसूत्र ११,९{८८}.१६ ॥]
ऽअञ्जते व्यञ्जतेऽ इत्यृचा घृतेनाभिघारयति ॥

[आज्येनाविछिन्नं पिण्डानभिघारयति ये च जीवाः (१८.४.५७), ये ते पूर्वे परागताः (१८.३.७२) इति ॥ कौशिकसूत्र ११,९{८८}.१७ ॥]
ऽये च जीवाःऽ इति घृतेनाभिघारयति पिण्डान् ।ऽये ते पूर्वे परागताःऽ इत्यृचा पिण्डोपरि धारां निनयति ॥

[अत्र पितरो मादयध्वं यथाभागं यथालोकमावृषायध्वमिति ॥ कौशिकसूत्र ११,९{८८}.१८ ॥]
ऽअत्र पितरःऽ इति प्रतिपिण्डं जपति ॥

[अत्र पत्न्यो मादयध्वं यथाभागं यथालोकमावृषायध्वमिति ॥ कौशिकसूत्र ११,९{८८}.१९ ॥]
ऽअत्र पत्न्यःऽ इति पत्नीपिण्डे जपति ॥

[योऽसावन्तरग्निर्भवति तं प्रदक्षिणमवेक्ष्य तिस्रस्तामीस्ताम्यति ॥ कौशिकसूत्र ११,९{८८}.२० ॥]
योऽसावन्तरग्निर्भवति तं प्रदक्षिणमवेक्ष्य त्रीन् प्राणायामान् कुर्यात् ॥

[प्रतिपर्यावृत्य अमीमदन्त पितरो यथाभागं यथालोकमावृषायिषत इति ॥ कौशिकसूत्र ११,९{८८}.२१ ॥
अमीमदन्त पत्न्यो यथाभागं यथालोकमावृषायिषत इति ॥ कौशिकसूत्र ११,९{८८}.२२ ॥]
पुनःऽअमीमदन्तऽ इति पिण्डेषूपतिष्ठते ॥

[आपो अग्निम् (१८.४.४०) इत्यद्भिरग्निमवसिच्य ॥ कौशिकसूत्र ११,९{८८}.२३ ॥]
ऽआपो अग्निम्ऽ इत्यृचा अद्भिरग्निमवसिच्य

[पुत्रं पौत्रमभितर्पयन्तीः (१८.४.३९) इति आचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्तु इति प्रसव्यं परिषिच्य ॥ कौशिकसूत्र ११,९{८८}.२४ ॥]
ऽपुत्रं पौत्रम्ऽ इत्यृचाऽआचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्तुऽ इति भाजनं प्रक्षाल्य तेन पिण्डोपरि सव्यं परिषिच्य ॥

[वीरान्मे प्रततामहा दत्त वीरान्मे ततामहा दत्त वीरान्मे पितरो दत्त पितॄन् वीरान् याचति ॥ कौशिकसूत्र ११,९{८८}.२५ ॥]
ऽवीरान्मे प्रततामहाऽ इति पिण्डानुपतिष्ठते ॥

नमो वः पितरः (१८.४.८१) इत्युपतिष्ठते ॥ कौशिकसूत्र ११,९{८८}.२६ ॥
[अक्षन् (१८.४.६१) इत्युत्तरसिचमवधूय ॥ कौशिकसूत्र ११,९{८८}.२७ ॥]
ऽअक्षन्नमीमदन्तऽ इत्यृचा उत्तरसिचमवकुर्यात्.

[परा यात (१८.४.६३) इति परायापयति ॥ कौशिकसूत्र ११,९{८८}.२८ ॥]
ऽपरा यातऽ इत्यृचा पितॄन् विसर्जयेत् ॥

[अतः पित्र्युपवीती यज्ञोपवीती यन्न इदं पितृभिः सह मनोऽभूत्तदुपाह्वयामि इति मन उपाह्वयति ॥ कौशिकसूत्र ११,९{८८}.२९ ॥]
ततः यज्ञोपवीती ॥ एकादशे नवमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८८ ॥


________________________________


[मनो न्वा ह्वामहे नाराशंसेन स्तोमेन । पितॄणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥ ये सजाताः सुमनसो जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिन् गोष्ठे शतं समाः इति ॥ कौशिकसूत्र ११,१०{८९}.१ ॥]
ऽयन्न इदम्ऽ इतिऽमनो न्वा ह्वामहेऽ इति सूक्तं हृदयमन्वालभ्य जपेत् ॥

यच्चरुस्थाल्यामोदनावशिष्टं भवति तस्योष्मभक्षं भक्षयित्वा ब्राह्मणाय दद्यात् ॥ कौशिकसूत्र ११,१०{८९}.२ ॥
यदि ब्राह्मणो न लभ्येताप्स्वभ्यवहरेत् ॥ कौशिकसूत्र ११,१०{८९}.३ ॥
निजाय दासायेत्येके ॥ कौशिकसूत्र ११,१०{८९}.४ ॥
[मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयछति ॥ कौशिकसूत्र ११,१०{८९}.५ ॥
आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत् ॥ आ त्वारुक्षद्वृषभः पृश्निरग्नियो मेधाविनं पितरो गर्भमा दधुः । आ त्वायं पुरुषो गमेत्पुरुषः पुरुषादधि । स ते श्रैष्ठ्याय जायतां स सोमे साम गायतु इति ॥ कौशिकसूत्र ११,१०{८९}.६ ॥]
ऽआ धत्त पितरःऽ इति सूक्तेन मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयच्छति प्राशनार्थम् ॥

[यद्यन्या द्वितीया भवत्यपरं तस्यै ॥ कौशिकसूत्र ११,१०{८९}.७ ॥]
पितुः पिण्डं द्वितीयापत्न्यै प्रयच्छति तेनैव मन्त्रेण ॥

[प्राग्रतमं श्रोत्रियाय ॥ कौशिकसूत्र ११,१०{८९}.८ ॥]
प्राग्रतमं पिण्डं श्रोत्रियाय ददाति ॥

[अथ यस्य भार्या दासी वा प्रद्राविणी भवति येऽमी तण्डुलाः प्रसव्यं परिकीर्णा भवन्ति तांस्तस्यै प्रयछति ॥ कौशिकसूत्र ११,१०{८९}.९ ॥
अर्वाच्युपसङ्क्रमे मा पराच्युप वस्तथा । अन्नं प्राणस्य बन्धनं तेन बध्नामि त्वा मयि इति ॥ कौशिकसूत्र ११,१०{८९}.१० ॥]
ऽअर्वाच्युपसङ्क्रमेऽ इत्यृचा पश्चिमतण्डुलान् दास्यै प्रयच्छति ॥

[पर्युक्षणीं समिधश्चादाय मा प्र गाम् (१३.१.५९६०) इत्याव्रज्य ऊर्जं बिभ्रत्(७.६०.१६) इति गृहानुपतिष्ठते ॥ कौशिकसूत्र ११,१०{८९}.११ ॥]
पर्युक्षणीं समिधश्चादायऽमा प्र गामऽ इति द्वाभ्यां जपित्वा गृहे व्रजति । ततऽऊर्जं बिभ्रत्ऽ इति षड्भिर्गृहानुपतिष्ठते ॥

[रमध्वं मा बिभीतनास्मिन् गोष्ठे करीषिणः । ऊर्जं दुहानाः शुचयः शुचिव्रता गृहा जीवन्त उप वः सदेम ॥ ऊर्जं मे देवा अददुरूर्जं मनुष्या उत । ऊर्जं पितृभ्य आहार्षमूर्जस्वन्तो गृहा मम ॥ पयो मे देवा अददुः पयो मनुष्या उत । पयः पितृभ्यः आहार्षं पयस्वन्तो गृहा मम ॥ वीर्यं मे देवा अददुर्वीर्यं मनुष्या उत । वीर्यं पितृभ्यः आहार्षं वीरवन्तो गृहा मम इति ॥ कौशिकसूत्र ११,१०{८९}.१२ ॥]
ऽरमध्वं मा बिभीतनऽ इति सूक्तेनोपतिष्ठते ॥

[अन्तरुपातीत्य समिधोऽभ्यादधाति । अयं नो अग्निरध्यक्षोऽयं नो वसुवित्तमः । अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ॥ अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे । इमं समिन्धिषीमह्यायुष्मन्तः सुवर्चसः । त्वमग्न ईडितः
(१८.३.४२) आ त्वाग्न इधीमहि (१८.४.८८) इति ॥ कौशिकसूत्र ११,१०{८९}.१३ ॥]
ततोऽग्निहोत्रशालायां प्रविश्य दक्षिणाग्नौ समिध आदधाति प्रत्यृचंऽअयं नो अग्निःऽ इति द्वे,ऽत्वमग्नेऽ इत्येकाऽआ त्वाग्नेऽ इत्येका एतैः समिध आदधाति ॥

[अभूद्दूतः (१८.४.६५) इत्यग्निं प्रत्यानयति ॥ कौशिकसूत्र ११,१०{८९}.१४ ॥]
ऽअभूद्दूतःऽ इत्यृचाग्निं प्रत्यानयति ॥

यदि सर्वः प्रणीतः स्याद्दक्षिणाग्नौ त्वेतदाहिताग्नेः ॥ कौशिकसूत्र ११,१०{८९}.१५ ॥
[गृह्येष्वनाहिताग्नेः ॥ कौशिकसूत्र ११,१०{८९}.१६ ॥]
गृह्येष्वनाहिताग्नेर्होमः ॥

[इदं चिन्मे कृतमस्तीदं चिच्छक्नवानि । पितरश्चिन्मा वेदनिति ॥ कौशिकसूत्र ११,१०{८९}.१७ ॥
यो ह यजते तं देवा विदुर्यो ददाति तं मनुष्या यः श्राद्धानि कुरुते तं पितरस्तं पितरः ॥ कौशिकसूत्र ११,१०{८९}.१८ ॥]
ऽइदं चिन्मे कृतमस्तिऽ इति मन्त्रेणाग्निमुपतिष्ठते ।ऽयस्मात्कोशात्ऽ (१९.७२) इति । पिण्डपितृयज्ञः समाप्तः ॥
प्रतिपत्त्यर्थं शरीरस्य पितृमेधस्य कर्मणः.
विधिरेकादशे सार्धं पितृयज्ञस्य कीर्तितः ॥
एकादशे दशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८९ ॥




इति कौशिकपद्धतौ एकादशोऽध्यायः ॥


____________________________________________________________________________