कौशिकपद्धतिः/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ कौशिकपद्धतिः
अध्यायः १०
केशवः
अध्यायः ११ →

अथ दशमोऽध्यायः

अथ विवाह उच्यते
[अथ विवाहः ॥ कौशिकसूत्र १०,१{७५}.१ ॥
ऊर्ध्वं कार्तिक्या आ वैशाख्याः ॥ कौशिकसूत्र १०,१{७५}.२ ॥
याथाकामी वा ॥ कौशिकसूत्र १०,१{७५}.३ ॥
चित्रापक्षं तु वर्जयेत् ॥ कौशिकसूत्र १०,१{७५}.४ ॥
मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते (१४.१.१३) इति विज्ञायते मङ्गलं च ॥ कौशिकसूत्र १०,१{७५}.५ ॥
सत्येनोत्तभिता (१४.१.११६) पूर्वापरम् (१४.१.२३२४) इत्युपदधीत ॥ कौशिकसूत्र १०,१{७५}.६ ॥]
अभ्यातानान्तं कृत्वाऽसत्येनोत्तभिताऽ इति षोडशभिरृग्भिःऽपूर्वापरम्ऽ इति द्वाभ्यामाज्यं जुहोति ॥

[पतिवेदनं च ॥ कौशिकसूत्र १०,१{७५}.७ ॥]
ऽआ नो अग्नेऽ (२.३६) इति सूक्तेनागमकृशरं तिलमिश्रं सम्पात्याभिमन्त्र्य कुमारीमाशयति ॥

[युवं भगम् (१४.१.३१) इति सम्भलं सानुचरं प्रहिणोति ॥ कौशिकसूत्र १०,१{७५}.८ ॥]
ऽयुवं भगम्ऽ इत्यर्धर्चेन पुरुषं शरावसम्पुटहस्तगृहीतं सानुचरं वरं प्रति प्रेषयति ॥

[ब्रह्मणस्पते (१४.१.३१) इति ब्रह्माणम् ॥ कौशिकसूत्र १०,१{७५}.९ ॥
तद्विवृहाच्छङ्कमानो निशि कुमारीकुलाद्वलीकान्यादीप्य ॥ कौशिकसूत्र १०,१{७५}.१० ॥
देवा अग्ने (१४.२.३२३६) इति पञ्चभिः सकृत्पूल्यान्यावापयति ॥ कौशिकसूत्र १०,१{७५}.११ ॥]
ऽब्रह्मणस्पतेऽ इत्यर्धर्चेन ब्राह्मणं प्रेषयति ॥

[अनृक्षरा (१४.१.३४) इति कुमारीपालं प्रहिणोति ॥ कौशिकसूत्र १०,१{७५}.१२ ॥]
ऽअनृक्षराऽ इत्यृचा कुमारीरक्षार्थं पालं प्रेषयति ॥

[उदाहारस्य प्रतिहितेषुरग्रतो जघनतो ब्रह्मा ॥ कौशिकसूत्र १०,१{७५}.१३ ॥]
उदकहरणार्थमग्रतो धनुर्धरः । मध्य उदकहारः । पृष्ठतो ब्रह्मा ॥

[यो अनिध्मः (१४.१.३७) इत्यप्सु लोगं प्रविध्यति ॥ कौशिकसूत्र १०,१{७५}.१४ ॥]
ऽयो अनिध्मःऽ इत्यृचाप्सु लोष्टं प्रक्षिपति ॥

[इदमहम् (१४.१.३८) इत्यपोह्य ॥ कौशिकसूत्र १०,१{७५}.१५ ॥
यो भद्रः (१४.१.३८) इत्यन्वीपमुदच्य ॥ कौशिकसूत्र १०,१{७५}.१६ ॥]
ऽइदमहम्ऽ इत्यर्धर्चेनावगाह्यऽयो भद्रःऽ इत्यर्धर्चेनोदकघटं पूरयति ॥

[आस्यै ब्राह्मणाः (१४.१.३९) इति प्रयछति ॥ कौशिकसूत्र १०,१{७५}.१७ ॥]
ऽआस्यै ब्राह्मणाःऽ इत्यर्धर्चेन घटमुदकहाराय प्रयच्छति । तत आगच्छन्ति ॥

[आव्रजतामग्रतो ब्रह्मा जघनतोऽधिज्यधन्वा ॥ कौशिकसूत्र १०,१{७५}.१८ ॥]
ब्रह्माग्रतः । तत उदकहारः । पृष्ठतो धनुर्धरः ॥

[बाह्यतः प्लक्षोदुम्बरस्योत्तरतोऽग्नेः शाखायामासजति ॥ कौशिकसूत्र १०,१{७५}.१९ ॥]
उत्तरतोऽग्नेः बाह्यतः प्लक्षशाखायामुपरि निदधाति ॥

तेनोदकार्थान् कुर्वन्ति ॥ कौशिकसूत्र १०,१{७५}.२० ॥
[ततश्चान्वासेचनमन्येन ॥ कौशिकसूत्र १०,१{७५}.२१ ॥]
पुनः अन्वासेचनमन्येनोदकेन ॥

[अन्तरुपातीत्य अर्यमणम् (१४.१.१७) इति जुहोति ॥ कौशिकसूत्र १०,१{७५}.२२ ॥]
अन्तरुपातीत्यऽअर्यमणम्ऽ इत्यृचाज्यं जुहोति ॥

[प्र त्वा मुञ्चामि (१४.१.१९) इति वेष्टं विचृतति ॥ कौशिकसूत्र १०,१{७५}.२३ ॥]
ऽप्र त्वा मुञ्चामिऽ इत्यृचा कुमारीकेशान् विचृतति ॥

[उशतीः (१४.२.५२) इत्येतया त्रिराधापयति ॥ कौशिकसूत्र १०,१{७५}.२४ ॥]
ऽउशतीःऽ इत्यृचा त्रिः समिध आदधाति कुमारी ॥

[सप्तभिरुष्णाः सम्पातवतीः करोति ॥ कौशिकसूत्र १०,१{७५}.२५ ॥]
ऽउशतीःऽ (१४.२.५२५८) इति सप्तभिरृग्भिरुष्णोदकं सम्पात्य ॥

[यदासन्द्याम् (१४.२.६५) इति पूर्वयोरुत्तरस्यां स्रक्त्यां तिष्ठन्तीमाप्लावयति ॥ कौशिकसूत्र १०,१{७५}.२६ ॥]
ऽयदासन्द्याम्ऽ इत्यृचा ईशानकोणे कुमारीं स्नापयति ॥

[यच्च वर्चः (१४.१.३५) यथा सिन्धुः (१४.१.४३) इत्युत्क्रान्तामन्येनावसिञ्चति ॥ कौशिकसूत्र १०,१{७५}.२७ ॥]
ऽयच्च वर्चःऽ,ऽयथा सिन्धुःऽ इति द्वाभ्यामन्येन शीतोदकेनोत्क्रममाणां कुमारीमवसिञ्चति ॥ दशमेऽध्याये प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ७५ ॥


________________________________


[यद्दुष्कृतम् (१४.२.६६६७) इति वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयछति ॥ कौशिकसूत्र १०,२{७६}.१ ॥]
ऽयद्दुष्कृतम्ऽ इति द्वाभ्यामृग्भ्यां वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयच्छति ॥

[तुम्बरदण्डेन प्रतिपाद्य निर्व्रजेत् ॥ कौशिकसूत्र १०,२{७६}.२ ॥
तद्वन आसजति ॥ कौशिकसूत्र १०,२{७६}.३ ॥]
तद्वासः तुम्बरदण्डेन गृहीत्वा गोपाटे प्रक्षिपति ॥

[या अकृन्तन् (१४.१.४५) त्वष्टा वासः (१४.१.५३) इत्यहतेनाछादयति ॥ कौशिकसूत्र १०,२{७६}.४ ॥]
ऽया अकृन्तन्ऽ,ऽत्वष्टा वासःऽ इति द्वाभ्यामहतवस्त्रेणाच्छादयति ॥ यज्ञोपवीतवद्वाधूयं वस्त्रं बध्नाति ॥

[कृत्रिमः (१४.२.६८) इति शतदतैषीकेण कङ्कतेन सकृत्प्रलिख्य ॥ कौशिकसूत्र १०,२{७६}.५ ॥]
ऽकृत्रिमःऽ इत्यृचा शतदन्तेषीकेन कङ्कतेन केशान् प्रतिलिख्य सकृत् ॥

[कृतयाममित्यवसृजति ॥ कौशिकसूत्र १०,२{७६}.६ ॥]
ऽकृतयामम्ऽ इत्यनेन मन्त्रेण कङ्कतमवसृजति ॥

[आशासाना (१४.१.४२) सं त्वा नह्यामि (१४.२.७०) इत्युभयतःपाशेन योक्त्रेन सन्नह्यति ॥ कौशिकसूत्र १०,२{७६}.७ ॥]
ऽआशासानाऽ,ऽसं त्वा नह्यामिऽ इति द्वाभ्यामुभयतःपाशं योक्त्रं कटिप्रदेशे बध्नाति ॥

[इयं वीरुद्(१.३४) इति मदुघमणिं लाक्षारक्तेन सूत्रेण विग्रथ्यानामिकायां बध्नाति ॥ कौशिकसूत्र १०,२{७६}.८ ॥]
ऽइयं वीरुद्ऽ इति सूक्तेन ज्येष्ठीमधुमणिं सम्पात्याभिमन्त्र्य रक्तसूत्रेणानामिकायां बध्नाति ॥

[अन्ततो ह मणिर्भवति बाह्यो ग्रन्थिः ॥ कौशिकसूत्र १०,२{७६}.९ ॥]
वर आगते सति ब्राह्मणान् स्वस्ति वाचयित्वा वराय मधुपर्कं दत्त्वा कौतुकानि कारयेत् । कङ्कणबन्धनयवमधूकमालादर्पणग्रहणादि कौतुकं च सर्वं तूष्णीं लोकाचारात् ॥

[भगस्त्वेतः (१४.१.२०) इति हस्तेगृह्य निर्णयति ॥ कौशिकसूत्र १०,२{७६}.१० ॥]
उपाध्यायः कौतुकगृहे प्रविश्य कुमारीं हस्ते गृहीत्वा निर्णयतिऽभगस्त्वेतःऽ इत्यृचा ॥

[शाखायां युगमाधाय दक्षिणतोऽन्यो धारयति ॥ कौशिकसूत्र १०,२{७६}.११ ॥]
अन्यो दक्षिणतः शाखायां युगमाधायाग्रतो धारयति ॥

[दक्षिणस्यां युगधुर्युत्तरस्मिन् युगतर्द्मनि दर्भेण विग्रथ्य शं ते (१४.१.४०४१) इति ललाटे हिरण्यं संस्तभ्य जपति ॥ कौशिकसूत्र १०,२{७६}.१२ ॥
तर्द्म समयावसिञ्चति ॥ कौशिकसूत्र १०,२{७६}.१३ ॥]
ललाटप्रदेशेऽशं ते हिरण्यम्ऽ इति द्वाभ्यां युगच्छिद्रे हिरण्यं दर्भेण बद्ध्वा तत उदकं छिद्रेणावसिञ्चति तूष्णीम् ॥

[उपगृह्योत्तरतोऽग्नेः अङ्गादङ्गात्(१४.२.६९) इति निनयति ॥ कौशिकसूत्र १०,२{७६}.१४ ॥]
युगच्छिद्रोदकं गृहीत्वाऽअङ्गादङ्गात्ऽ इत्यृचोत्तरतोऽग्नेर्निनयति ॥

[स्योनम् (१४.१.४७) इति शकृत्पिण्डेऽश्मानं निदधाति ॥ कौशिकसूत्र १०,२{७६}.१५ ॥]
ऽस्योनं ध्रुवम्ऽ इत्यर्धर्चेन शकृत्पिण्डेऽश्मानं निदधाति ॥

[तमा तिष्ठ (१४.१.४७) इत्यास्थाप्य ॥ कौशिकसूत्र १०,२{७६}.१६ ॥]
ऽतमा तिष्ठऽ इत्यर्धर्चेनाश्मनोपरि कुमारीं स्थापयति ॥

[इयं नारी (१४.२.६३) इति ध्रुवां तिष्ठन्तीं पूल्यान्यावापयति ॥ कौशिकसूत्र १०,२{७६}.१७ ॥]
ऽइयं नारीऽ इत्यृचा तिष्ठन्ती कुमारी त्रीन् लाजाञ्जलीन् जुहोति ॥

[त्रिरविछिन्दतीं चतुर्थी कामाय ॥ कौशिकसूत्र १०,२{७६}.१८ ॥]
त्रिरविच्छिन्दतीं कामाय चतुर्थीम् । ततः पिता दानकाले नामगोत्रं कुरुते । अमुकप्रपौत्राय अमुकपौत्राय अमुकपुत्राय अमुकप्रपौत्रीं अमुकपौत्रीं अमुकपुत्रीं अमुकीं सहिरण्यां सवस्रालङ्कारां तुभ्यं सम्प्रददे ॥

[येनाग्निः (१४.१.४८५२) इति पाणिं ग्राहयति ॥ कौशिकसूत्र १०,२{७६}.१९ ॥]
ततःऽयेनाग्निःऽ पञ्चभिः वरः पाणिग्रहणं करोति । वरः मन्त्रं जपति ।ऽआ नो अग्नेऽ (२.३६)ऽसत्येनोत्तभिताऽ (१४.१) इत्यनुवाकंऽवि हि सोतोरसृक्षतऽ (२०.१२६) इति वृषाकपिं ब्राह्मणाः सूक्तं पठन्ति ।ऽसहृदयम्ऽ (३.३०) इति केचित् ॥

[अर्यम्णः (१४.१.३९) इत्यग्निं त्रिः परिणयति ॥ कौशिकसूत्र १०,२{७६}.२० ॥]
ऽअर्यम्णःऽ इत्यर्धर्चेनाग्निं त्रिः परिणयति । चतुर्थी लोकाचारात् । सकृन्मन्त्रः ॥

[सप्त मर्यादाः (५.१.६) इत्युत्तरतोऽग्नेः सप्त लेखा लिखति प्राच्यः ॥ कौशिकसूत्र १०,२{७६}.२१ ॥]
ततःऽसप्त मर्यादाःऽ इत्यृचोत्तरतोऽग्नेः सप्त लेखा लिखति प्राच्यः ॥

[तासु पदान्युत्क्रामयति ॥ कौशिकसूत्र १०,२{७६}.२२ ॥
इषे त्वा सुमङ्गलि प्रजावति सुसीमे इति प्रथमम् ॥ कौशिकसूत्र १०,२{७६}.२३ ॥
ऊर्जे त्वा रायस्पोषाय त्वा सौभाग्याय त्वा साम्राज्याय त्वा सम्पदे त्वा जीवातवे त्वा सुमङ्गलि प्रजावति सुसीमे इति सप्तमं सखा सप्तपदी भव इति ॥ कौशिकसूत्र १०,२{७६}.२४ ॥]
ऽइषे त्वा सुमङ्गलिऽ इति सप्तभिर्मन्त्रैः तासु लेखासूपरि कुमारी पदानि ददाति ॥

[आ रोह तल्पम् (१४.२.३१) भगस्ततक्ष (१४.१.६०) इति तल्प उपवेशयति ॥ कौशिकसूत्र १०,२{७६}.२५ ॥]
ऽआ रोह तल्पम्ऽ,ऽभगस्ततक्षऽ इति द्वाभ्यामृग्भ्यां तल्प उपवेशयति ॥

उपविष्टायाः सुहृत्पादौ प्रक्षालयति ॥ कौशिकसूत्र १०,२{७६}.२६ ॥
[प्रक्षाल्यमानावनुमन्त्रयते इमौ पादौ सुभगौ सुशेवौ सौभाग्याय कृणुतां नो अघाय । प्रक्षाल्यमानौ सुभगौ सुपत्न्याः प्रजां पशून् दीर्घमायुश्च धत्तामिति ॥ कौशिकसूत्र १०,२{७६}.२७ ॥]
प्रक्षाल्यमानावनुमन्त्रयतेऽइमौ पादौऽ इत्यृचा ॥

[अहं वि ष्यामि, प्र त्वा मुञ्चामि (१४.१.५७५८) इति योक्त्रं विचृतति ॥ कौशिकसूत्र १०,२{७६}.२८ ॥]
ऽअहं वि ष्यामिऽ,ऽप्र त्वा मुञ्चामिऽ इति द्वाभ्यां कुमारी कटिवेष्टितं योक्त्रं विचृतति ॥

[अपरस्मिन् भृत्याः संरभन्ते ॥ कौशिकसूत्र १०,२{७६}.२९ ॥
ये जयन्ति ते बलीयांस एव मन्यते ॥ कौशिकसूत्र १०,२{७६}.३० ॥
बृहस्पतिना (१४.२.५३५८) इति सर्वसुरभिचूर्णान्यृचर्चा काम्पीलपलाशेन मूर्ध्न्यावपति ॥ कौशिकसूत्र १०,२{७६}.३१ ॥]
ततःऽबृहस्पतिनाऽ इति षड्भिरृग्भिः सर्वौषधिं प्रत्यृचं काम्पीलपलाशेन मूर्ध्निं आवपति ॥

[उद्यछध्वम्, भगस्ततक्ष, (१४.१.५९६०) अभ्रातृघ्नीं (१४.१.६२) इत्येकैकयोत्थापयति ॥ कौशिकसूत्र १०,२{७६}.३२ ॥]
ऽउद्यच्छध्वंऽ,ऽभगस्ततक्षऽ,ऽअभ्रातृघ्नींऽ इत्येकैकया ऋचा उत्थापयति कुमारीम् ॥

[प्रति तिष्ठ (१४.२.१५) इति प्रतिष्ठापयति ॥ कौशिकसूत्र १०,२{७६}.३३ ॥]
ऽप्रति तिष्ठऽ इत्यृचा प्रतिष्ठापयति । अभ्यातानाद्युत्तरतन्त्रम् । इति विवाहः समाप्तः ॥ दशमे द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ७६ ॥


________________________________


अथोद्वाह उच्यते
[सुकिंशुकम् (१४.१.६१) रुक्मप्रस्तरणम् (१४.२.३०) इति यानमारोहयति ॥ कौशिकसूत्र १०,३{७७}.१ ॥]
अभ्यातानान्तं कृत्वाऽसुकिंशुकम्ऽऽरुक्मप्रस्तरणम्ऽ इति द्वाभ्यामृग्भ्यां यानमश्वादि सम्पात्याभिमन्त्र्य तत उत्तरतन्त्रम् । ततो वरवधू आरोहयति ॥

[एमं पन्थाम् (१४.२.८) ब्रह्मापरम् (१४.१.६४) इत्यग्रतो ब्रह्मा प्रपद्यते ॥ कौशिकसूत्र १०,३{७७}.२ ॥]
ऽएमं पन्थाम्ऽ,ऽब्रह्मापरम्ऽ इति द्वे ऋचौ जपित्वा पथि गच्छतोः वरवध्वोः अग्रे कर्ता व्रजति ॥

[मा विदन् (१४.२.११) अनृक्षरा (१४.१.३४) अध्वानमित्युक्तम् ॥ कौशिकसूत्र १०,३{७७}.३ ॥]
ऽमा विदन्ऽऽअनृक्षराःऽ इति द्वाभ्यामध्वानं दक्षिणेन प्रक्रामति कर्ता ॥

[येदं पूर्वा (१४.२.७४) इति तेनान्यस्यामूढायां वाधूयस्य दशां चतुष्पथे दक्षिणैरभितिष्ठति ॥ कौशिकसूत्र १०,३{७७}.४ ॥]
येनैव यानेन सा ऊढा तेनैव यदा अन्या ऊढा भवति तदा इदं प्रायश्चित्तं भवति ।ऽयेदं पूर्वाऽ इत्यृचा कर्ता वाधूयस्य दशाखण्डं गृहीत्वा चतुष्पथे दत्त्वा दक्षिणेन पादेन तिष्ठति ॥

स चेदुभयोः शुभकामो भवति सूर्यायै देवेभ्यः (१४.२.४६) इत्येतामृचं जपति ॥ कौशिकसूत्र १०,३{७७}.५ ॥
समृछत स्वपथोऽनवयन्तः सुसीमकामावुभे विराजावुभे सुप्रजसौ इत्यतिक्रमयतोऽन्तरा ब्रह्माणम् ॥ कौशिकसूत्र १०,३{७७}.६ ॥
[य ऋते चिदभिश्रिषः (१४.२.४७) इति यानं सम्प्रोक्ष्य विनिष्कारयति ॥ कौशिकसूत्र १०,३{७७}.७ ॥]
ततऽय ऋते चिदभिश्रिषःऽ इत्यृचा यानं यानं सम्प्रोक्ष्य विनिष्कारयति ॥

[सा मन्दसाना (१४.२.६) इति तीर्थे लोगं प्रविध्यति ॥ कौशिकसूत्र १०,३{७७}.८ ॥]
ऽसा मन्दसानाऽ इत्यृचा नद्यां लोष्टं प्रक्षिप्य तत उत्तरन्ति ॥

[इदं सु मे (१४.२.९) इति महावृक्षेषु जपति ॥ कौशिकसूत्र १०,३{७७}.९ ॥]
ऽइदं सु मेऽ इत्यृचा महावृक्षेषु जपति ॥

[सुमङ्गलीः (१४.२.२८) इति वध्वीक्षीः प्रति जपति ॥ कौशिकसूत्र १०,३{७७}.१० ॥]
सुमङ्गलीः इति वध्वीक्षीः प्रति जपति ॥

[या ओषधयः (१४.२.७) इति मन्त्रोक्तेषु ॥ कौशिकसूत्र १०,३{७७}.११ ॥]
द्वैभेदेऽया ओषधयःऽ इत्यृचं जपति । व्रीहियवादिक्षेत्रं दृष्ट्वा वने वृक्षादि नद्यादिकं च ॥

[ये पितरः (१४.२.७३) इति श्मशानेषु ॥ कौशिकसूत्र १०,३{७७}.१२ ॥]
ऽये पितरःऽ इत्यृचं श्मशानेषु जपति ॥

[प्र बुध्यस्व (१४.२.७५) इति सुप्तां प्रबोधयेत् ॥ कौशिकसूत्र १०,३{७७}.१३ ॥]
ऽप्र बुध्यस्वऽ इत्यृचा सुप्तां प्रबोधयेत् । यदि पथि स्वपिति ॥

[सं काशयामि (१४.२.१२) इति गृहसङ्काशे जपति ॥ कौशिकसूत्र १०,३{७७}.१४ ॥]
ऽसं काशयामिऽ इति स्वपितृगृहसङ्काशे समीपे जपति ॥

[उद्व ऊर्मिः (१४.२.१६) इति यानं सम्प्रोक्ष्य विमोचयति ॥ कौशिकसूत्र १०,३{७७}.१५ ॥]
ऽउद्व ऊर्मिःऽ इत्यृचा यानं सम्प्रोक्ष्य विमोचयति ॥

[उत्तिष्ठेतः (१४.२.१९) इति पत्नी शालां सम्प्रोक्षति ॥ कौशिकसूत्र १०,३{७७}.१६ ॥]
ऽउत्तिष्ठेतः किमिच्छन्तीऽ इत्यृचा पत्नी शालां सम्प्रोक्षति ॥

[स्योनम् (१४.१.४७) इति दक्षिणतो वलीकानां शकृत्पिण्डेऽश्मानं निदधाति ॥ कौशिकसूत्र १०,३{७७}.१७ ॥]
ऽस्योनम्ऽ इत्यर्धर्चेन दक्षिणतः गृहपार्श्वे वलीकानां शकृत्पिण्डेऽश्मानं निदधाति ॥

[तस्योपरि मध्यमपलाशे सर्पिषि चत्वारि दूर्वाग्राणि ॥ कौशिकसूत्र १०,३{७७}.१८ ॥]
तस्योपरि मध्यमपलाशे घृते चत्वारि दूर्वाग्राणि मुञ्चति ॥

[तमा तिष्ठ (१४.१.४७) इत्यास्थाप्य ॥ कौशिकसूत्र १०,३{७७}.१९ ॥]
तस्योपरि वधूमास्थापयतिऽतमा तिष्ठऽ इत्यर्धर्चेन ॥

[सुमङ्गली प्रतरणी (१४.२.२६) इह प्रियम् (१४.१.२१) मा हिंसिष्टम्, ब्रह्मापरम् (१४.१.६३६४) इति प्रत्यृचं प्रपादयति ॥ कौशिकसूत्र १०,३{७७}.२० ॥]
ऽसुमङ्गली प्रतरणीऽ इत्यृचा,ऽइह प्रियम्ऽ इत्यृचा,ऽमा हिंसिष्टं कुमार्यम्ऽ इत्यृचा,ऽब्रह्मापरम्ऽ इत्यृचा एताभिश्चतसृभिः वधूवरौ गृहं प्रवेशयति ॥

[सुहृत्पूर्णकंसेन प्रतिपादयति ॥ कौशिकसूत्र १०,३{७७}.२१ ॥]
पृष्ठतः सुहृत्पूर्णकलशं फलअक्षतसहितं हस्ते कृत्वा वधूं प्रवेशयति ॥

[अघोरचक्षुः (१४.२.१७१८) इत्यग्निं त्रिः परिणयति ॥ कौशिकसूत्र १०,३{७७}.२२ ॥]
ऽअघोरचक्षुःऽ इति द्वाभ्यामृग्भ्यामग्निं प्रज्वाल्य ततो हस्तग्रहणं कृत्वा वरः परिणयति । पितृगृहे । त्रिर्मन्त्रावृत्तिः । तूष्णीं चतुर्थम् ॥

[यदा गार्हपत्यम् (१४.२.२०) सूर्यायै देवेभ्यः (१४.२.४६) इति मन्त्रोक्तेभ्यो नमस्कुर्वतीमनुमन्त्रयते ॥ कौशिकसूत्र १०,३{७७}.२३ ॥]
ततो गृहदेवतानमस्कारान् कुर्वतीं वधूमनुमन्त्रयतेऽयदा गार्हपत्यम्ऽ,ऽसूर्यायै देवेभ्यःऽ इति द्वाभ्यामृग्भ्याम् ॥ दशमे तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ७७ ॥


________________________________


[शर्म वर्म (१४.२.२१) इति रोहितचर्माहरन्तम् ॥ कौशिकसूत्र १०,४{७८}.१ ॥]
ऽशर्म वर्मऽ इत्यृचा रोहितचर्मानुमन्त्रयते ॥

[चर्म चोपस्तृणीथन (१४.२.२२) इत्युपस्तृणन्तम् ॥ कौशिकसूत्र १०,४{७८}.२ ॥]
ऽचर्म चोपस्तृणीथनऽ इति पादेनोपस्तृणन्तम् ॥

[यं बल्बजम् (१४.२.२२) इति बल्बजं न्यस्यन्तम् ॥ कौशिकसूत्र १०,४{७८}.३ ॥]
ऽयं बल्बजम्ऽ इति पादेन चर्मोपरि बल्बजं स्तृणाति ॥

[उप स्तृणीहि (१४.२.२३) इत्युपस्तृणन्तम् ॥ कौशिकसूत्र १०,४{७८}.४ ॥]
ऽउप स्तृणीहि बल्बजम्ऽ इत्यर्धर्चेनानुमन्त्रयते बल्बजं स्तृणन्तम् ॥

[तदा रोहतु (१४.२.२२) इत्यारोहयति ॥ कौशिकसूत्र १०,४{७८}.५ ॥]
ऽतदा रोहतुऽ इत्यर्धर्चेन बल्बजस्तृते चर्मणि वधूमारोहयति ॥

[तत्रोपविश्य (१४.२.२३) इत्युपवेशयति ॥ कौशिकसूत्र १०,४{७८}.६ ॥]
ऽतत्रोपविश्यऽ इत्यर्धर्चेन तत्र चर्मण्युपवेशयति ॥

दक्षिणोत्तरमुपस्थं कुरुते ॥ कौशिकसूत्र १०,४{७८}.७ ॥
[सुज्यैष्ठ्यः (१४.२.२४) इति कल्याणनामानं ब्राह्मणायनमुपस्थ उपवेशयति ॥ कौशिकसूत्र १०,४{७८}.८ ॥]
ऽसुज्यैष्ठ्यःऽ इति पादेन ब्राह्मणायनं कुमारं वध्वा उपस्थ उपवेशयति ॥

[वि तिष्ठन्ताम् (१४.२.२५) इति प्रमदनं प्रमायोत्थापयति ॥ कौशिकसूत्र १०,४{७८}.९ ॥]
ऽवि तिष्ठन्ताम्ऽ इत्यृचा कुमाराय फलं मोदकादि दत्त्वा तत उत्थापयति ॥

[तेन भूतेन (६.७८) तुभ्यमग्रे (१४.२.१५) शुम्भनी (१४.२.४५) अग्निर्जनविन्मह्यं जायामिमामदात्सोमो वसुविन्मह्यं जायामिमामदात्पूषा जातिविन्मह्यं जायामिमामदादिन्द्रः सहीयान्मह्यं जायामिमामदादग्नये जनविदे स्वाहा सोमाय वसुविदे स्वाहा पूष्णे जातिविदे स्वाहेन्द्राय सहीयसे स्वाहा इति आगछतः (६.८२) सविता प्रसवानाम् (५.२४) इति ॥ कौशिकसूत्र १०,४{७८}.१० ॥
मूर्ध्नोः सम्पातानानयति ॥ कौशिकसूत्र १०,४{७८}.११ ॥]
ततोऽभ्यातानान्तं कृत्वाऽतेन भूतेनऽ इति सूक्तं,ऽतुभ्यमग्रेऽ इति पञ्च,ऽशुम्भनीऽ इत्येका,ऽअग्निर्जनविन्मह्यम्ऽ इत्येकावसानं पूर्वं कल्पजं सूक्तं,ऽआगच्छतःऽ इति तृचं सूक्तं,ऽसविता प्रसवानाम्ऽ इति सूक्तं एतैः सूक्तैराज्यं जुह्वत्वरवध्वोः क्रमेण मूर्ध्नोः सम्पातानानयति ॥

[उदपात्र उत्तरान् ॥ कौशिकसूत्र १०,४{७८}.१२ ॥]
उदपात्र उत्तरसम्पातानानयति ॥

[शुम्भन्याञ्जल्योर्निनयति ॥ कौशिकसूत्र १०,४{७८}.१३ ॥]
तत उदपात्रं वरवध्वोरञ्जल्योर्निनयतिऽशुम्भनीऽ इत्यृचा ॥

[तेन भूतेन (६.७८) इति समशनम् ॥ कौशिकसूत्र १०,४{७८}.१४ ॥
रसानाशयति स्थालीपाकं च ॥ कौशिकसूत्र १०,४{७८}.१५ ॥]
ऽतेन भूतेन हविषाऽ इति सूक्तेन रसं सम्पात्याभिमन्त्र्य ततः स्थालीपाकं सम्पात्याभिमन्त्र्य तेनैव सूक्तेन ततो रसं स्थालीपाकं च जायापती उपसर्पति । एकस्मिन् भाजने सहोपविश्य मिष्टमन्नं सहाशनं कुर्यात् ॥

[यवानामाज्यमिश्राणां पूर्णाञ्जलिं जुहोति ॥ कौशिकसूत्र १०,४{७८}.१६ ॥]
ऽतेन भूतेनऽ इति सूक्तेन यवानामाज्यमिश्राणां पूर्वाञ्जलिं जुहोति । ततोऽभ्यातानाद्युत्तरतन्त्रम् ।ऽशर्म वर्मऽ इत्यादिविधिः पितृगृहे विवाहाग्नौ कर्तव्यः । चतुर्थिकाकर्म विधिषु पितृगृहे कार्यम् । इत्युद्वाहः समाप्तः ॥ चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ७८ ॥


________________________________


अथ चतुर्थिकाकर्म उच्यते
[सप्त मर्यादाः (५.१.६) इति तिसृणां प्रातरावपते ॥ कौशिकसूत्र १०,५{७९}.१ ॥]
ऽसप्त मर्यादाःऽ इत्यृचा वरः व्रीहीन् जुहोति विवाहाग्नौ । तन्त्रविकल्पः हस्तहोमत्वात् । यवान् वेति तिलान् वेति ॥

[अक्ष्यौ नौ (७.३६.१) इति समाञ्जाते ॥ कौशिकसूत्र १०,५{७९}.२ ॥]
ऽअक्ष्यौ नौऽ इत्यृचा परस्परं वरवध्वौ अक्षिणी अङ्क्ते । सर्वत्र मन्त्रं कर्ता ब्रूयात् ॥

[महीमू षु (७.६.२) इति तल्पमालम्भयति ॥ कौशिकसूत्र १०,५{७९}.३ ॥]
ऽमहीमू षुऽ इत्यृचा तल्पं खट्वामालम्भयति ॥

[आ रोह तल्पम् (१४.२.३१) इत्यारोहयति ॥ कौशिकसूत्र १०,५{७९}.४ ॥]
ऽआ रोह तल्पम्ऽ इत्यृचा वरवधू तस्मिन् शयन उपवेशयति ॥

[तत्रोपविश्य (१४.२.२३) इत्युपवेशयति ॥ कौशिकसूत्र १०,५{७९}.५ ॥]
ऽतत्रोपविश्यऽ इत्यर्धर्चेन उपवेशयति ॥

[देवा अग्रे (१४.२.३२) इति संवेशयति ॥ कौशिकसूत्र १०,५{७९}.६ ॥]
ऽदेवा अग्रेऽ इत्यृचा वरवधू संवेशयति तस्मिन् तल्पे ॥

[अभि त्वा (७.३७) इत्यभिछादयति ॥ कौशिकसूत्र १०,५{७९}.७ ॥]
ऽअभि त्वा मनुजातेनऽ इत्यृचा वरवधू वस्त्रेणाच्छादयति ॥

[सं पितरौ (१४.२.३७४०) इति समावेशयति ॥ कौशिकसूत्र १०,५{७९}.८ ॥]
ऽसं पितरौऽ इति चतसृभिरृग्भिः अभिमुखौ करोति ॥

[इहेमौ (१४.२.६४) इति त्रिः सन्नुदति ॥ कौशिकसूत्र १०,५{७९}.९ ॥]
ऽइहेमौऽ इत्यृचा वरः वधूकण्ठग्रहणं करोति त्रिः ॥

[मदुघमणिमौक्षेऽपनीय इयं वीरुद्(१.३४) अमोऽहम् (१४.२.७१७२) इति संस्पृशतः ॥ कौशिकसूत्र १०,५{७९}.१० ॥]
ऽइयं वीरुद्ऽ इति सूक्तम्,ऽअमोऽहमस्मिऽ इति द्वे ऋचौ एतैरृग्भिरभिमन्त्र्य मदुघमणिमौक्षे प्रक्षिप्य परस्परं वरवध्वौ समालम्भतः । आह पैठीनसिः श्लोकम्
आवपेत्सुरभिर्गन्धान् क्षीरे सर्पिष्यथोदके.
एतदायतनमित्याहुरौक्षं तु मधुना सह ॥

[ब्रह्म जज्ञानम् (४.१.१॑ ५.६.१) इत्यङ्गुष्ठेन व्यचस्करोति ॥ कौशिकसूत्र १०,५{७९}.११ ॥]
ऽब्रह्म जज्ञानम्ऽ इत्यृचा वरः अङ्गुष्ठेन प्रजननदेशं तुदति ॥

[स्योनाद्योनेः (१४.२.४३) इत्युत्थापयति ॥ कौशिकसूत्र १०,५{७९}.१२ ॥]
ऽस्योनाद्योनेःऽ इत्यृचा खट्वाया उत्थापयति ॥

[परिधापनीयाभ्यामहतेनाछादयति ॥ कौशिकसूत्र १०,५{७९}.१३ ॥]
शौचं कारयित्वाऽया अकृन्तन्ऽ (१४.१.४५)ऽत्वष्टाः वासःऽ (१४.१.५३) इति द्वाभ्यामहतवस्त्रमभिमन्त्र्य परिधापयति वरः वधूम् ॥

[बृहस्पतिः (१४.१.५५५६) इति शष्पेणाभिघार्य व्रीहियवाभ्यामभिनिधाय दर्भपिञ्जूल्या सीमन्तं विचृतति ॥ कौशिकसूत्र १०,५{७९}.१४ ॥]
ऽबृहस्पतिः प्रथमः सूर्यायाःऽ इति द्वाभ्यां वधूसीमन्ते शष्पं निदधाति । तूष्णीं व्रीहियवौ सीमन्ते निदधाति । आज्येन सह दर्भपिञ्जूल्या सीमन्तं विचृतति ॥

[शणशकलेन परिवेष्ट्य तिस्रो रात्रीः प्रति सुप्तास्ते ॥ कौशिकसूत्र १०,५{७९}.१५ ॥]
शणशकलेन वधूकेशान् वेष्ट्य तिस्रो रात्रीः प्रति सुप्तः ॥

[अनुवाकाभ्यामन्वारब्धाभ्यामुपदधीत ॥ कौशिकसूत्र १०,५{७९}.१६ ॥]
ततः तन्त्रं कृत्वाऽसत्येनोत्तभिताऽ (१४.१, २) इति सर्वेण काण्डेनाज्यं जुहोति । तन्त्रे । आज्यं वा समिधो वा पुरोडाशं वा । व्रीहियवतिलादि जुहोति । सर्वत्र तन्त्रविकल्पः । तन्त्रे सर्वत्र हस्तहोमे अन्वालम्भनम् ।ऽअनुवाकाभ्यामन्वारब्धाभ्यामुपदधीतऽ इति प्रायश्चित्तमेतत् । यदि चतुर्थिकाकर्ममध्ये रजस्वला वधूः भवति तदेदं प्रायश्चित्तम् । नित्यमपि भवति । चतुर्थिकां नित्यं कुर्यात् ॥

[इहेदसाथ (१४.१.३२) इत्येतया शुल्कमपाकृत्य ॥ कौशिकसूत्र १०,५{७९}.१७ ॥]
ऽइहेदसाथऽ इत्येतया शुल्कद्रव्यं पृथक्करोति ॥

[द्वाभ्यां निवर्तयति इह मम राध्यतामत्र तव इति ॥ कौशिकसूत्र १०,५{७९}.१८ ॥]
ऽइहेदसाथऽ (१४.१.३२३३) इति द्वाभ्यां निवर्तयति ।ऽइदं द्रव्यं तव इदं मम राध्यताम्ऽ ॥

[यथा वा मन्यन्ते ॥ कौशिकसूत्र १०,५{७९}.१९ ॥
परा देहि (१४.१.२५३०) इति वाधूयं ददतमनुमन्त्रयते ॥ कौशिकसूत्र १०,५{७९}.२० ॥]
ऽपरा देहिऽ इति षड्भिरृग्भिर्वाधूयं ददतमनुमन्त्रयते ॥

[देवैर्दत्तम् (१४.२.४१४२) इति प्रतिगृह्णाति ॥ कौशिकसूत्र १०,५{७९}.२१ ॥]
ऽदेवैर्दत्तम्ऽ इति द्वाभ्यां वाधूयं कर्ता प्रतिगृह्णाति ॥

[अपास्मत्तमः (१४.२.४८) इति स्थाणावासजति ॥ कौशिकसूत्र १०,५{७९}.२२ ॥]
ऽअपास्मत्तमःऽ इत्यृचा स्थूण आसजति ॥

[यावतीः कृत्याः (१४.२.४९) इति व्रजेत् ॥ कौशिकसूत्र १०,५{७९}.२३ ॥]
तद्वस्त्रं गृहीत्वाऽयावतीः कृत्याःऽ इत्यृचा वस्त्रं विसर्जयति ॥

[या मे प्रियतमा (१४.२.५०) इति वृक्षं प्रतिछादयति ॥ कौशिकसूत्र १०,५{७९}.२४ ॥]
ऽया मे प्रियतमाऽ इत्यृचा वृक्षं प्रतिच्छादयति कर्ता ॥

[शुम्भन्याल्पुत्य ॥ कौशिकसूत्र १०,५{७९}.२५ ॥]
ऽशुम्भनीऽ (१४.२.४५) इत्यृचा स्नानं सर्वे कुर्वन्ति ॥

[ये अन्ताः (१४.२.५१) इत्याछादयति ॥ कौशिकसूत्र १०,५{७९}.२६ ॥]
ततोऽये अन्ताःऽ इत्यृचा वाधूयेनाच्छादयति ॥

[नवं वसानः (१४.२.४४) इत्याव्रजति ॥ कौशिकसूत्र १०,५{७९}.२७ ॥
पूर्वापरं यत्र नाधिगछेत्ब्रह्मापरम् (१४.१.६४) इति कुर्यात् ॥ कौशिकसूत्र १०,५{७९}.२८ ॥
गौर्दक्षिणा प्रतीवाहः ॥ कौशिकसूत्र १०,५{७९}.२९ ॥]
ऽनवं वसानःऽ इत्यृचं जपित्वा कर्ता । सर्वे गृहमागच्छन्ति । वेदिमध्ये कर्ता उपविशति । अभ्यातानाद्युत्तरतन्त्रम् । इति चतुर्थिकाकर्म । विवाहे उद्वाहे सति एका गौर्दक्षिणा । यदि मन्त्रप्रमाणं न जानाति तदाऽब्रह्मापरम्ऽ इत्यृचा सर्वं कर्तव्यम् ॥

[जीवं रुदन्ति (१४.१.४६) यदीमे केशिनः (१४.२.५९६२) इति जुहोति ॥ कौशिकसूत्र १०,५{७९}.३० ॥
एष सौर्यो विवाहः ॥ कौशिकसूत्र १०,५{७९}.३१ ॥
ब्रह्मापरम् (१४.१.६४) इति ब्राह्म्यः ॥ कौशिकसूत्र १०,५{७९}.३२ ॥]
कुमार्यां नीयमानायां पितृगृहाद्यदि रोदनं भवति तदेदं प्रायश्चित्तम् । अभ्यातानान्तं कृत्वाऽजीवं रुदन्तिऽ इत्येकया,ऽयदीमे केशिनःऽ इति चतसृभिरेताभिराज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । रुदनप्रायश्चित्तम् ॥

[आवृतः प्राजापत्याः प्राजापत्याः ॥ कौशिकसूत्र १०,५{७९}.३३ ॥]
आवृताः प्राजापत्य इति । शूद्रस्य विवाहे सर्वं तूष्णीं कार्यमाज्यादि । विवाह उद्वाहानि समाप्तानि ॥

अग्न्याधेयं च यात्रार्थं धर्मपुत्रार्थमेव च.
भार्या संस्कारमुद्वाहं दशमे प्राह नो गुरुः ॥
पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ७९ ॥




इति कौशिकपद्धतौ दशमोऽध्यायः ॥


____________________________________________________________________________