कौशिकपद्धतिः/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ कौशिकपद्धतिः
अध्यायः १२
केशवः
अध्यायः १३ →

अथ द्वादशोऽध्यायः
[मधुपर्कः]

अथ मधुपर्क उच्यते । आचार्ये गहमागते इदं कर्म करोति ॥
[मधुपर्कमाहारयिष्यन् दर्भानाहरति ॥ कौशिकसूत्र १२,१{९०}.१ ॥]
दाता वदति । मधुपर्कमाहारयिष्यन्निति । तत आचार्यो वदति । दर्भानाहारयेति । पुनर्दाता वदति ॥

[अथ विष्टरान् कारयति ॥ कौशिकसूत्र १२,१{९०}.२ ॥]
अथ विष्टरान् कुरु । तत आचार्यो विष्टरान् करोति मन्त्रेण ॥

[स खल्वेकशाखमेव प्रथमं पाद्यं द्विशाखमासनं त्रिशाखं मधुपर्काय ॥ कौशिकसूत्र १२,१{९०}.३ ॥]
एकशाखं द्विशाखं त्रिशाखं चेति विष्टरत्रयं करोति ॥

[स यावतो मन्येत तावत उपादाय विविच्य सम्पर्याप्य मूलानि च प्रान्तानि च यथाविस्तीर्ण इव स्यादित्युपोत्कृष्य मध्यदेशेऽभिसन्नह्यति ॥ कौशिकसूत्र १२,१{९०}.४ ॥
ऋतेन त्वा सत्येन त्वा तपसा त्वा कर्मणा त्वा इति सन्नह्यति ॥ कौशिकसूत्र १२,१{९०}.५ ॥
अथ ह सृजति अतिसृष्टो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ कौशिकसूत्र १२,१{९०}.६ ॥]
ऽऋतेन त्वाऽ इति सन्नहनम् । मध्यदेशे ग्रन्थिं करोति ।ऽअतिसृष्टो द्वेष्टाऽ इति मन्त्रेण विष्टरान् करोति । प्रतिविष्टरं मन्त्रावृत्तिः ॥

[अस्य च दातुः इति दातारमीक्षते ॥ कौशिकसूत्र १२,१{९०}.७ ॥]
विष्टरान् कृत्वाऽअस्य च दातुःऽ इति दातारमीक्षते ॥

[अथोदकमाहारयति पाद्यं भो इति ॥ कौशिकसूत्र १२,१{९०}.८ ॥]
अथोदकमानयति । ततो दाता कुरुतेऽपाद्यं भोऽ इति ॥

[हिरण्यवर्णाभिः प्रतिमन्त्र्य दक्षिणं पादं प्रथमं प्रकर्षति मयि ब्रह्म च तपश्च धारयाणि इति ॥ कौशिकसूत्र १२,१{९०}.९ ॥]
ऽहिरण्यवर्णाःऽ (१.३३) इति सूक्तं जपित्वा पुनः आचार्य उदकमभिमन्त्रयते ।ऽमयि ब्रह्म चऽ इति मन्त्रेण स्वयं दक्षिणं पादं प्रक्षालयति ॥

[दक्षिणे प्रक्षालिते सव्यं प्रकर्षति मयि क्षत्रं च विशश्च धारयाणि इति ॥ कौशिकसूत्र १२,१{९०}.१० ॥]
ऽमयि क्षत्रं चऽ इति सव्यं प्रक्षालयति ॥

[प्रक्षालितावनुमन्त्रयते इमौ पादाववनिक्तौ ब्राह्मणं यशसावताम् । आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे ॥ कौशिकसूत्र १२,१{९०}.११ ॥]
ततः स्वपादावभिमन्त्रयते ।ऽइमौ पादाववनिक्तौऽ इत्यृचा आचार्यः ॥

अस्य च दातुः इति दातारमीक्षते ॥ कौशिकसूत्र १२,१{९०}.१२ ॥ अथासनमाहारयति.
दाता वदति
सविष्टरमासनं भो इति ॥ कौशिकसूत्र १२,१{९०}.१३ ॥
तस्मिन् प्रत्यङ्मुख उपविशति ॥ कौशिकसूत्र १२,१{९०}.१४ ॥
[विमृग्वरीं पृथिवीम् (१२.१.२९) इत्येतया विष्टरे पादौ प्रतिष्ठाप्य अधिष्ठितो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ कौशिकसूत्र १२,१{९०}.१५ ॥]
ऽविमृग्वरीम्ऽ इति मन्त्रेण द्विशाखं विष्टरमासने निदधाति । एकशाखं पादयोर्निदधाति । विष्टरे पादौ प्रतिष्ठाप्यऽअधिष्ठितो द्वेष्टाऽ इति मन्त्रेण ॥

अस्य च दातुः इति दातारमीक्षते ॥ कौशिकसूत्र १२,१{९०}.१६ ॥ अथोदकमाहारयति.
दाता वदति
अर्घ्यं भो इति ॥ कौशिकसूत्र १२,१{९०}.१७ ॥
[तत्प्रतिमन्त्रयते अन्नानां मुखमसि मुखमहं श्रेष्ठः समानानां भूयासम् । आपोऽमृत स्थामृतं मा कृणुत दासास्माकं बहवो भवन्त्वश्वावद्गोमन्मय्यस्तु पुष्टमो भूर्भुवः स्वर्जनदोमिति ॥ कौशिकसूत्र १२,१{९०}.१८ ॥
तूष्णीमध्यात्मं निनयति ॥ कौशिकसूत्र १२,१{९०}.१९ ॥]
ऽअन्नानां मुखमसिऽ इति मन्त्रेण पुष्पाक्षतोदपात्रमभिमन्त्र्य आचार्यहस्ते निनयति तूष्णीम् ॥

तेजोऽस्यमृतमसि इति ललाटमालभते ॥ कौशिकसूत्र १२,१{९०}.२० ॥ अथोदकमाहारयति.
दाता वदति
आचमनीयं भो इति ॥ कौशिकसूत्र १२,१{९०}.२१ ॥
[जीवाभिराचम्य ॥ कौशिकसूत्र १२,१{९०}.२२ ॥]
तत आचार्य आचमनं करोति । कारापयतिऽजीवा स्थऽ (१९.६९) इति सूक्तेन ॥

अथास्मै मधुपर्कं वेदयन्ते.
ततो दाता वदति
द्व्यनुचरो मधुपर्को भो इति ॥ कौशिकसूत्र १२,१{९०}.२३ ॥
त्रिशाखं मधुपर्काय ॥

द्वाभ्यां शाखाभ्यामधस्तादेकयोपरिष्टात्सापिधानम् ॥ कौशिकसूत्र १२,१{९०}.२४ ॥
[मधु वाता ऋतायते इत्येताभिरेवाभिमन्त्रणम् ॥ कौशिकसूत्र १२,१{९०}.२५ ॥
तथा प्रतिमन्त्रणम् ॥ कौशिकसूत्र १२,१{९०}.२६ ॥]
द्वादशेऽध्याये प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ९० ॥


________________________________


[मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्गावो भवन्तु नः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । माध्वीर्नः सन्त्वोषधीः ॥ मधुमान्नो वनस्पतिर्मधुमा॑मस्तु सूर्यः । मधु द्यौरस्तु नः पिता ॥ कौशिकसूत्र १२,२{९१}.१ ॥]
ऽमधु वाता ऋतायतेऽ इत्येताभिरेवाभिमन्त्रणम् । तथा प्रतिमन्त्रणम् । आचार्यः प्रतिमन्त्रणं करोति ॥

[तत्सूर्यस्य त्वा चक्षुषा प्रतीक्षे इति प्रतीक्षते ॥ कौशिकसूत्र १२,२{९१}.२ ॥]
ऽसूर्यस्य त्वाऽ इति मन्त्रेण मधुपर्कं प्रतीक्षते ॥

[अयुतोऽहं, देवस्य त्वा सवितुः (१९.५१.१२) इति प्रतिगृह्य पुरोमुखं प्राग्दण्डं निदधाति ॥ कौशिकसूत्र १२,२{९१}.३ ॥]
ऽअयुतोऽहंऽ,ऽदेवस्य त्वाऽ इति द्वाभ्यां प्रतिगृह्णाति । सन्मुखं प्राग्दण्डं निदधाति ॥

[पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थे इति भूमौ प्रतिष्ठाप्य ॥ कौशिकसूत्र १२,२{९१}.४ ॥
द्वाभ्यामङ्गुलिभ्यां प्रदक्षिणमाचाल्यानामिकयाङ्गुल्याङ्गुष्ठेन च सङ्गृह्य प्राश्नाति ॥ कौशिकसूत्र १२,२{९१}.५ ॥]
ऽपृथिव्यास्त्वाऽ इति मन्त्रेण भूमौ प्रतिष्ठाप्य ततः पूर्वाभिमुखो भूत्वा मधुपर्कं प्राश्नाति भोजनवत् । प्राङ्मुखोऽन्नानि भुञ्जीत । द्वाभ्यामङ्गुलीभ्यां प्रदक्षिणमाचाल्यानामिकाङ्गुल्याङ्गुष्ठेन च सङ्गृह्य प्राश्नाति ॥

[ओं भूस्तत्सवितुर्वरेण्यं भूः स्वाहा इति प्रथमम् ॥ कौशिकसूत्र १२,२{९१}.६ ॥
भर्गो देवस्य धीमहि भुवः स्वाहा इति द्वितीयम् ॥ कौशिकसूत्र १२,२{९१}.७ ॥
धियो यो नः प्रचोदयात्स्वः स्वाहा इति तृतीयम् ॥ कौशिकसूत्र १२,२{९१}.८ ॥
वयं देवस्य धीमहि जनत्स्वाहा इति चतुर्थम् ॥ कौशिकसूत्र १२,२{९१}.९ ॥
तुरं देवस्य भोजनं वृधत्स्वाहा इति पञ्चमम् ॥ कौशिकसूत्र १२,२{९१}.१० ॥
करत्स्वाहा इति षष्ठम् ॥ कौशिकसूत्र १२,२{९१}.११ ॥
रुहत्स्वाहा इति सप्तमम् ॥ कौशिकसूत्र १२,२{९१}.१२ ॥
महत्स्वाहा इत्यष्टमम् ॥ कौशिकसूत्र १२,२{९१}.१३ ॥
तत्स्वाहा इति नवमम् ॥ कौशिकसूत्र १२,२{९१}.१४ ॥
शं स्वाहा इति दशमम् ॥ कौशिकसूत्र १२,२{९१}.१५ ॥
ओमित्येकादशम् ॥ कौशिकसूत्र १२,२{९१}.१६ ॥]
ऽओं भूस्तत्सवितुःऽ इत्येकादश मन्त्राः । प्रतिमन्त्रं प्राश्नाति ॥

[तूष्णीं द्वादशम् ॥ कौशिकसूत्र १२,२{९१}.१७ ॥]
तूष्णीं द्वादशं प्राश्नाति ॥

तस्य भूयोमात्रमिव भुक्त्वा ब्राह्मणाय श्रोत्रियाय प्रयछेत् ॥ कौशिकसूत्र १२,२{९१}.१८ ॥
[श्रोत्रियालाभे वृषलाय प्रयछेत् ॥ कौशिकसूत्र १२,२{९१}.१९ ॥
अथाप्ययं निगमो भवति सोममेतत्पिबत यत्किं चाश्नीत ब्राह्मणाः । मा ब्राह्मणायोछिष्टं दात मां सोमं पात्वसोमपः इति ॥ कौशिकसूत्र १२,२{९१}.२० ॥]
अन्यस्य वा । द्वादशेऽध्याये द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ९१ ॥


________________________________


[दधि च मधु च ब्राह्मो मधुपर्कः ॥ कौशिकसूत्र १२,३{९२}.१ ॥
पायस ऐन्द्रो मधुपर्कः ॥ कौशिकसूत्र १२,३{९२}.२ ॥
मधु चाज्यं च सौम्यो मधुपर्कः ॥ कौशिकसूत्र १२,३{९२}.३ ॥
मन्थश्चाज्यं च पौष्णो मधुपर्कः ॥ कौशिकसूत्र १२,३{९२}.४ ॥
क्षीरं चाज्यं च सारस्वतो मधुपर्कः ॥ कौशिकसूत्र १२,३{९२}.५ ॥
सुरा चाज्यं च मौसलो मधुपर्कः ॥ कौशिकसूत्र १२,३{९२}.६ ॥
स खल्वेष द्वये भवति सौत्रामण्यां च राजसूये च ॥ कौशिकसूत्र १२,३{९२}.७ ॥
उदकं चाज्यं च वारुणो मधुपर्कः ॥ कौशिकसूत्र १२,३{९२}.८ ॥
तैलं चाज्यं च श्रावणो मधुपर्कः ॥ कौशिकसूत्र १२,३{९२}.९ ॥
तैलश्च पिण्डश्च पारिव्राजको मधुपर्कः ॥ कौशिकसूत्र १२,३{९२}.१० ॥
इति खल्वेष नवविधो मधुपर्को भवति ॥ कौशिकसूत्र १२,३{९२}.११ ॥]
ऽदधि चऽ इत्यादि नवविधं मधुपर्कं जानीयात् ॥

अथास्मै गां वेदयन्ते.
दाता ब्रूते
गौर्भो इति ॥ कौशिकसूत्र १२,३{९२}.१२ ॥
[तान् प्रतिमन्त्रयते । भूतमसि भवदस्यन्नं प्राणो बहुर्भव । ज्येष्ठं यन्नाम नामत ओं भूर्भुवः स्वर्जनदोमिति ॥ कौशिकसूत्र १२,३{९२}.१३ ॥]
आचार्योऽपि प्रतिमन्त्रयते ।ऽभूतमसि भवदस्यन्नम्ऽ इति मन्त्रेण ॥

[अतिसृजति मातादित्यानां दुहिता वसूनां स्वसा रुद्राणाममृतस्य नाभिः । प्र णो वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । ओं तृणानि गौरत्तु इत्याह ॥ कौशिकसूत्र १२,३{९२}.१४ ॥]
गां विसर्जयतिऽमातादित्यानाम्ऽ इति मन्त्रेण । आचार्यो ब्रूतेऽतृणानि गौःऽ इति । तृणानि ददाति गवे ॥

सूयवसात्(७.७३.११) इति प्रतिष्ठमानामनुमन्त्रयते ॥ कौशिकसूत्र १२,३{९२}.१५ ॥
नालोहितो मधुपर्को भवति ॥ कौशिकसूत्र १२,३{९२}.१६ ॥
नानुज्ञानमधीमहे इति कुरुत इत्येव ब्रूयात् ॥ कौशिकसूत्र १२,३{९२}.१७ ॥
स्वधिते मैनं हिंसीः इति शस्त्रं प्रयछति ॥ कौशिकसूत्र १२,३{९२}.१८ ॥
पाष्मानमेव जहि इति शस्त्रं कर्तारमनुमन्त्रयते ॥ कौशिकसूत्र १२,३{९२}.१९ ॥
आग्नेयीं वपां कुर्युः ॥ कौशिकसूत्र १२,३{९२}.२० ॥
अपि वा ब्राह्मण एव प्राश्नीयात् । तद्देवतं हि तद्धविर्भवति ॥ कौशिकसूत्र १२,३{९२}.२१ ॥
अथास्मै स्नानमनुलेपनं माल्याभ्यञ्जनमिति ॥ कौशिकसूत्र १२,३{९२}.२२ ॥
[यदत्रोपसमाहार्यं भवति तदुपसमाहृत्य ॥ कौशिकसूत्र १२,३{९२}.२३ ॥]
वस्त्रालङ्कारादि सर्वं समाहृत्य ददाति ॥

अथोपासकाः प्राप्य उपासकाः स्मो भो इति वेदयन्ते ॥ कौशिकसूत्र १२,३{९२}.२४ ॥
[तान् प्रतिमन्त्रयते भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि च नोऽन्ये भूयांसो जायन्ताम् ॥ कौशिकसूत्र १२,३{९२}.२५ ॥]
भेदकार आचार्यः प्रतिमन्त्रयतेऽभूयांसो भूयास्मऽ इति मन्त्रेण ॥

अस्य च दातुः इति दातारमीक्षते ॥ कौशिकसूत्र १२,३{९२}.२६ ॥
आचार्यः ॥

अथान्नाहाराः प्राप्य अन्नाहाराः स्मो भो इति वेदयन्ते ॥ कौशिकसूत्र १२,३{९२}.२७ ॥
दाता वदति ॥

[तान् प्रतिमन्त्रयते अन्नादा भूयास्म ये च नोऽन्नादान् कार्ष्टापि च नोऽन्येऽन्नादा भूयांसो जायन्ताम् ॥ कौशिकसूत्र १२,३{९२}.२८ ॥]
आचार्योऽनुमन्त्रयतेऽअन्नादा भूयास्म ये च नःऽ इति मन्त्रेण । खर्जकलमकभक्तादि ॥

अस्य च दातुः इति दातारमीक्षते ॥ कौशिकसूत्र १२,३{९२}.२९ ॥
[आहृतेंऽन्ने जुहोति यत्काम कामयमाना इत्येतया ॥ कौशिकसूत्र १२,३{९२}.३० ॥
यत्काम कामायमाना इदं कृण्मसि ते हविः । तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा इति ॥ कौशिकसूत्र १२,३{९२}.३१ ॥]
आहृतेऽन्ने सति भक्ते जुहोतिऽयत्काम कामऽ इत्यृचा विवाहे तन्त्राग्नौ जुहोति । अन्यत्र हस्तहोमत्वात्तन्त्रविकल्पः ॥

[एष आचार्यकल्प एष ऋत्विक्कल्प एष संयुक्तकल्प एष विवाहकल्प एषोऽतिथिकल्प एषोऽतिथिकल्पः ॥ कौशिकसूत्र १२,३{९२}.३२ ॥]
अभ्यागताय मधुपर्को देयः । अतिथये मधुपर्को देयः । अन्येभ्यः स्वधर्मस्थितेभ्यश्च चातुर्वर्णिकेभ्यो द्रव्याढ्येभ्यश्चतुराश्रमिभ्यश्च गृहागते मधुपर्को देयः । मधुपर्कः समाप्तः । षडर्घ्या मधुपर्किणः । गुर्वाद्यागते गृहे मधुपर्कसूत्रं प्रयोजनम् ॥ द्वादशेऽध्याये तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ९२ ॥




इति कौशिकपद्धतौ द्वादशोऽध्यायः ॥


____________________________________________________________________________