कौशिकपद्धतिः/अध्यायः ०४

विकिस्रोतः तः
← अध्यायः ०३ कौशिकपद्धतिः
अध्यायः ०४
केशवः
अध्यायः ०५ →

अथ चतुर्थोऽध्यायः
[भैषज्यकर्माणि]

अथ भैषज्यानि ॥ कौशिकसूत्र ४,१{२५}.१ ॥
लिङ्ग्युपतापो भैषज्यम् ॥ कौशिकसूत्र ४,१{२५}.२ ॥
वचनादन्यत् ॥ कौशिकसूत्र ४,१{२५}.३ ॥
इति । भेषजशान्तिर्भैषज्यशब्देनोच्यते । तत्र द्विविधा व्याधयः आहारनिमित्ता अन्यजन्मपापनिमित्ताश्च । तत्र आहारनिमित्तेषु चरकबाहडसुश्रुतप्रणीतेषु औषधेषु व्याध्युपशमनं भवति । अशुभनिमित्तेषु अथर्ववेदविहितेषु शान्तिकेषु व्याध्युपशमनं भवति । तथा चाग्रे वक्ष्यतिअनूक्तान्यप्रतिषिद्धानि भपज्यानाम् । अंहोलिङ्गाभिः । सर्वाणि कर्तव्यानि । उक्तान्यनुक्तानि च कर्तव्यानि । बन्धनपायनाचमनादीनि च कार्याणि ॥

भैषज्यकर्मणां विधिं वक्ष्यामः
[पूर्वस्योदपात्रेण सम्पातवताङ्क्ते ॥ कौशिकसूत्र ४,१{२५}.४ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन उदपात्रं सम्पात्य व्याधितस्य शरीरं सम्मार्ष्टि । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् ॥

[वलीर्विमार्ष्टि ॥ कौशिकसूत्र ४,१{२५}.५ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेनोदपात्रं सम्पात्य मुखवलीर्विमार्ष्ट्यङ्गवलीश्च । तत उत्तरतन्त्रम् । तरुणस्य यदि वलयस्तदा एतत्कर्म । सर्वव्याधिभैषज्यं समाप्तम् ॥

अथ ज्वरातिसारभैषज्यान्युच्यन्ते
[विद्मा शरस्य (१.२) अदो यद्(२.३) इति मुञ्जशिरो रज्ज्वा बध्नाति ॥ कौशिकसूत्र ४,१{२५}.६ ॥]
अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन मुञ्जपुष्पमणिं मुञ्जरज्ज्वा बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ज्वरभैषज्यं अतिसारे च अतिमूत्रे च । आज्यतन्त्रं कृत्वाऽअदो यदवधावतिऽ इति सूक्तेन मुञ्जशिरो रज्ज्वा बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अतिसारे अतिमूत्रे च भैषज्यम् ॥

[आकृतिलोष्टवल्मीकौ परिलिख्य पाययति ॥ कौशिकसूत्र ४,१{२५}.७ ॥]
ऽविद्मा शरस्यऽ इति प्रथमसूक्तेन क्षेत्रमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च भैषज्यम् ।ऽअदो यद्ऽ इति सूक्तेन आकृतिलोष्टमभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च ।ऽविद्मा शरस्यऽ इति प्रथमेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च ।ऽअदो यद्ऽ इति सूक्तेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च ॥

[सर्पिषालिम्पति ॥ कौशिकसूत्र ४,१{२५}.८ ॥]
ऽविद्मा शरस्यऽ इति प्रथमेन घृतमन्त्र्यापानं म्रक्षति । अतिसारे भैषज्यम् ।ऽअदो यद्ऽ इति सूक्तेन घृतमभिमन्त्र्यापानं वा प्रलिम्पति । अतिसारे च ॥

[अपिधमति ॥ कौशिकसूत्र ४,१{२५}.९ ॥]
ऽविद्मा शरस्यऽ इति चर्मखल्वामुखमभिमन्त्र्य व्रणमुखं धमति । अतिसारे भैषज्यम् ।ऽअदो यद्ऽ इति सूक्तेन मुखेन खल्वा वाभिमन्त्र्यापानं शिश्नं वा नाडीं वा व्रणमुखं धमति । समाप्तानि ज्वरातिसार अतिमूत्र अङ्गनाडीप्रवाहे च भैषज्यानि ॥

अतिदुःखमूत्रे दुःखपुरीषकरणे शमनभैषज्यान्युच्यन्ते
[विद्मा शरस्य (१.३) इति प्रमेहणं बध्नाति ॥ कौशिकसूत्र ४,१{२५}.१० ॥]
अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति द्वितीयेन हरीतकीं कर्पुरं वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । मूत्रनिरोधे पुरीषस्य च ॥
[आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान् पाययति ॥ कौशिकसूत्र ४,१{२५}.११ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन मूषकमृत्तिकामभिमन्त्र्य पाययति ।ऽविद्मा शरस्यऽ इति द्वितीयेन तल्लग्नं लण्डिकातृणमभिमन्त्र्य पाययति ।ऽविद्मा शरस्यऽ इति द्वितीयेन दधिमथितं पाययति । मूत्रपुरीषप्रतिबन्धे भैषज्यम् ।ऽविद्मा शरस्यऽ इति द्वितीयेन जरदिन्दुकमभिमन्त्र्य पिष्ट्वा पाययति । मूत्रादिनिरोधे ।ऽविद्मा शरस्यऽ इति द्वितीयेन सूक्तेन काष्ठतक्षणान्युदके कृत्वाभिमन्त्र्य पाययति । मूत्रपुरीषप्रतिबन्धे ॥

[उत्तमाभ्यामास्थापयति ॥ कौशिकसूत्र ४,१{२५}.१२ ॥]
ऽविषितं ते वस्तिबिलम्ऽ (१.३.८९) इति द्वाभ्यामृग्भ्यां मूषकमृत्तिकोपर्युपवेश्याभिमन्त्रयते मूत्रप्रतिबन्धे ।ऽविषितं ते वस्तिबिलम्ऽ इति द्वाभ्यामृग्भ्यां पूतीकतृणोपर्युपवेश्याभिमन्त्रयते । मूत्रप्रतिबन्धे ।ऽविषितं ते वस्तिबिलम्ऽ इति द्वाभ्यां दधिमथितोपर्युपवेश्य ततोऽभिमन्त्रयते ।ऽविषितं ते वस्तिबिलम्ऽ इति द्वाभ्यां जरत्प्रमन्दस्योपर्युपवेश्याभिमन्त्रयते मूत्रप्रतिबन्धे.ऽविषितं ते वस्तिबिलम्ऽ इत्यृग्भ्यां दारुतक्षशकलानामुपर्युपवेश्य व्याधितमभिमन्त्रयते मूत्रप्रतिबन्धे ।ऽमूत्रं मुच्यताम्ऽ (१.३.८) इति लिङ्गात् ॥

[यानमारोहयति ॥ कौशिकसूत्र ४,१{२५}.१३ ॥]
अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति द्वितीयेन हस्त्यादियानं सम्पात्याभिमन्त्र्य ततो व्याधितमारोहयति । ततो धावति वेगेन मूत्रमोचनकामः ॥

[इषुं विसृजति ॥ कौशिकसूत्र ४,१{२५}.१४ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन धनुःशरमभिमन्त्र्य ततो व्याधितं प्रति शरं क्षिपति शीघ्रः ॥

[वस्तिं बिष्यति ॥ कौशिकसूत्र ४,१{२५}.१५ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन शिश्नमभिमन्त्र्य चर्म निःस्फोटति । शिश्नं चर्मणो निःसारयतीत्यर्थः ॥

[वर्तिं बिभेत्ति ॥ कौशिकसूत्र ४,१{२५}.१६ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन लोहशलाकामभिमन्त्र्य शिश्नं प्रवेशयति । मूत्रप्रवाहं विदारयति ॥

[एकविंशतिं यवान् दोहन्यामद्भिरानीय द्रुघ्नीं जघने संस्तभ्य फलतोऽवसिञ्चति ॥ कौशिकसूत्र ४,१{२५}.१७ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन द्रुघ्नीं ज्याधनुषं जघने शिश्नदेश ऊर्ध्वं कृत्वा गोदोहन्यामुदकं कृत्वा यवानेकविंशतिं प्रक्षिप्य तेनोदकेन धनुष उपरि फलं सिञ्चति । यथोदकं शिश्ने पतति तथा कार्यम् ॥

[आलबिसोलं फाण्टं पाययति ॥ कौशिकसूत्र ४,१{२५}.१८ ॥
उदावर्तिने च ॥ कौशिकसूत्र ४,१{२५}.१९ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन यवगोधूमवल्ली पद्ममूलं पाठिका एतानि क्वाथयित्वाभिमन्त्र्य व्याधितं पाययति । समाप्तानि मूत्रप्रतिबन्धे दुःखमूत्रकरणे दुःखपुरीषकरण उदावर्तन उदरपूर्णनिरोधकरणे चैतानि भैषज्यानि कार्याणि । आरोग्यकामः ॥

अथ सर्वरोगभैषज्यान्युच्यन्ते
[अम्बयो यन्ति (१.४) वायोः पूतः (६.५१) इति च शान्ताः ॥ कौशिकसूत्र ४,१{२५}.२० ॥]
अभ्यातानान्तं कृत्वाऽअम्बयो यन्तिऽ इति सूक्तेनाज्यं जुहोति । तत उत्तरतन्त्रम् ।ऽअम्बयो यन्तिऽ सूक्तेन पालाशौदुम्बराद्याः समिध आदधाति । सर्वव्याधिभैषज्यम् । तन्त्रविकल्पः हस्तहोमत्वात् । तन्त्रं कृत्वाऽवायोः पूतःऽ इति सूक्तेन तृचेनाज्यं जुहोति । उत्तरतन्त्रम् । सर्वभैषज्यं समाप्तम् ॥

अथ सोमभक्षणे भैषज्यमुच्यते
[उत्तरस्य ससोमाः ॥ कौशिकसूत्र ४,१{२५}.२१ ॥]
ऽवायोः पूतःऽ इति तृचेन पालाशाद्याः समिधः सोमरसेनाक्ता आदधाति । सोमवमने सोमपाने सोमाभिषवे च व्याध्युत्पन्ने भैषज्यं समाप्तम् ॥

अथ भूततन्त्रकर्माण्युच्यन्ते । भूतपिशाचशङ्कायां शान्तिरुच्यते
[चातनानामपनोदनेन व्याख्यातम् ॥ कौशिकसूत्र ४,१{२५}.२२ ॥]
अभ्यातानान्तं कृत्वाऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां कुकुसाञ्जुहोति । तत उत्तरतन्त्रम् । पिशाचभैषज्यम् ।ऽअभ्याधेयानां धूमं नियच्छतिऽ (Kऔश्ष् । ७.२८) । पिशाचगृहीतं पुरुषं धूमं पाययति । गृहे ग्रामे वा पत्तने क्षेत्रे वा देवगृहे वा यत्र क्वचित्पिशाचशङ्कास्ति तत्र होमं कृत्वा धूमं नियतं कुर्यादित्यर्थः ।ऽनिःसालाम्ऽ इति सूक्तेन कुकुसाञ्जुहोति । तन्त्रविकल्पः । धूमभक्षणं कुर्यादित्यर्थः ।ऽअरायक्षयणम्ऽ इति तिसृभिः कुकुसाञ्जुहोति । धूमभक्षणं च ।ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन कुकुसाञ्जुहोति । धूमपानं च ।ऽआ पश्यतिऽ इति सूक्तेन कुकुसाञ्जुहोति । धूमनियमनम् ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति कुकुसाञ्जुहोति । विकल्पेन तन्त्रे धूमं करोति ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेन कुकुसाञ्जुहोति । पिशाचगृहीतस्य धूमपानं कार्यम् । पिशाचदोषान्मुच्यते ।ऽरक्षोहणम्ऽ इत्यनुवाकेन कुकुसाञ्जुहोति तन्त्रे । धूमभक्षकरणं च । पिशाचदोषान्मुच्यते.
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां तुषाञ्जुहोति । तन्त्रे वा । धूपनं च ।ऽनिःसालाम्ऽ इति सूक्तेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः ।ऽअरायक्षयणम्ऽ इति तिसृभिः तुषाञ्जुहोति ।ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन तुषाञ्जुहोति.
तन्त्रविकल्पः । धूपनं पुरुषस्य । पिशाचोच्चाटनकामः ।ऽआ पश्यतिऽ सूक्तेन तुषाञ्जुहोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां तुषाञ्जुहोति । तन्त्रविकल्पः । सर्वत्र पिशाचोच्चाटनकामः ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः ।ऽरक्षोहणम्ऽ इत्यनुवाकेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां बुसं जुहोति । तन्त्रं वा । धूमेन पुरुषं धूपयति । यस्मिन् स्थाने पिशाचस्तस्मिन् स्थाने होमं करोति । यथा धूमो भवति तथा कुर्यात्स्थाने च ।ऽनिःसालाम्ऽ इति सूक्तेन बुसं जुहोति ।ऽअरायक्षयणम्ऽ इति तिसृभिः बुसं जुहोति ।ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन बुसं जुहोति ।ऽआ पश्यतिऽ इति सूक्तेन बुसं जुहोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां बुसं जुहोति ।ऽपुरस्ताद्युक्तःऽ इति बुसं जुहोति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन बुसं जुहोति ।ऽअभ्याधेयानां धूमं नियच्छतिऽ (Kऔश्ष्७.२८) सर्वत्र ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां काष्ठशकलानि जुहोति । तन्त्रविकल्पः । सर्वत्र पिशाचोच्चाटनं सर्वत्र धूपनं च ।ऽनिःसालाम्ऽ इति सूक्तेनावतक्षणानि जुहोति ।ऽअरायक्षयणम्ऽ इति तिसृभिः शकलानि जुहोति ।ऽशन्नो देवी पृश्निपर्णीऽ इति शकलानि जुहोति ।ऽआ पश्यतिऽ इति सूक्तेन शकलानि जुहोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां शकलानि जुहोति ।ऽपुरस्ताद्युक्तःऽ इति शकलानि जुहोति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन काष्ठशकलानि जुहोति । सर्वत्र तन्त्रविकल्पः हस्तहोमत्वात् । धूमं च करोति सर्वत्र । पुरुषस्य स्थाने नगरे ग्रामे गृहे वा यत्र शङ्का विद्यते तत्र धूमकरणं होमेन.
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां पिशाचगृहीतं पुरुषमन्वाह ।ऽनिःसालाम्ऽ इति सूक्तेन पुरुषमन्वाह ।ऽअरायक्षयणम्ऽ इति तिसृभिः पुरुषमन्वाह ।ऽशन्नो देवीऽ इति सूक्तेन पिशाचगृहीतमाक्रोशयेत् ।ऽआ पश्यतिऽ इति सूक्तेन पिशाचगृहीतं पुरुषमाक्रोशयेत् ।ऽतान्त्सत्यौजाःऽऽत्वया पूर्वंऽ सूक्ताभ्यां पिशाचमन्वाह ।ऽपुरस्ताद्युक्तःऽ इति सूक्तं जपित्वान्वाह ।ऽरक्षोहणम्ऽ इत्यनुवाकेन पिशाचगृहीतं पुरुषमन्वाह । यदि ग्रामे नगरे वा रथ्यायां वा क्षेत्रे वा तदा जपं कृत्वा पिशाचनामग्रहणं कुर्यादिति । सर्वत्र कर्मणां विकल्पः ॥

[त्रपुसमुसलखदिरतार्ष्टाघानामादधाति ॥ कौशिकसूत्र ४,१{२५}.२३ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां कर्कटिकासमिध आदधाति । तन्त्रविकल्पः ।ऽनिःसालाम्ऽ इति सूक्तेन कर्कटिकासमिध आदधाति । तन्त्रं वा । पिशाचगृहीतं वा धूपयति ।ऽअरायक्षयणम्ऽ इति तिसृभिः त्रपुससमिध आदधाति । पिशाचोच्चाटनकामः ।ऽशन्नो देवीऽ इति सूक्तेन त्रपुससमिध आदधाति । पिशाचरक्षाकामः ।ऽआ पश्यतिऽ इति सूक्तेन कर्कटिकासमिध आदधाति ।ऽतान्त्सत्यौजाःऽऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां त्रपुससमिध आदधाति । सर्वत्र सूक्तादिग्रहणे सूक्तं प्रतीयात् । ऋगादिग्रहणे ऋचं प्रतीयात् । सूक्तमध्ये ऋचं प्रतीयात् ।ऽपुरस्ताद्युक्तःऽ इति त्रपुससमिध आदधाति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन कर्कटिकासमिध आदधाति । तन्त्रविकल्पः । पिशाचोच्चाटनकामः ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां मुसलसमिध आदधाति । पिशाचभैषज्यम् ।ऽनिःसालाम्ऽ इति सूक्तेन लोकप्रसिद्धमुसलकाष्ठान्यादधाति ।ऽअरायक्षयणम्ऽ इति तिसृभिः मुसलकाष्ठान्यादधाति । तन्त्रं वा ।ऽशन्नो देवीऽ इति मुसलकाष्ठान्यादधाति । सर्वत्र पिशाचभैषज्यम् ।ऽआ पश्यतिऽ इति सूक्तेन मुसलकाष्ठसमिध आदधाति । तन्त्रविकल्पः ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां मुसलकाष्ठशकलानि जुहोति । तन्त्रं वा । पिशाचोच्चाटनम् ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेन मुसलसमिध आदधाति । सर्वत्र ऋगन्ते होमः । सर्वत्र ऋगन्ते स्वाहाकारः । अनुतन्त्रे सर्वत्र धूमनियमनम् ।ऽरक्षोहणम्ऽ इत्यनुवाकेन मुसलसमिध आदधाति । जातिनियमो नास्ति । हस्तहोमे सर्वत्र तन्त्रविकल्पः ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां खदिरसमिध आदधाति ।ऽनिःसालाम्ऽ इति सूक्तेन खदिरसमिध आदधाति ।ऽअरायक्षयणम्ऽ इति तिसृभिः खदिरसमिध आदधाति ।ऽशन्नो देवीऽ इति खदिरसमिध आदधाति ।ऽआ पश्यतिऽ इति सूक्तेन खदिरसमिध आदधाति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां खदिरसमिध
आदधाति । तन्त्रविकल्पः.
ऽपुरस्ताद्युक्तःऽ इति खदिरसमिध आदधाति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन खदिरसमिध आदधाति । पिशाचोच्चाटनकामः । सर्वत्र तन्त्रविकल्पः । सर्वत्र कर्मणां विकल्पः । एकं कुर्यात्द्वे वा बहूनि वा.
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां सर्षपसमिध आदधाति ।ऽनिःसालाम्ऽ इति सूक्तेन सर्षपसमिध आदधाति ।ऽअरायक्षयणम्ऽ इति तिसृभिः सर्षपसमिध आदधाति ।ऽशन्नो देवीःऽ इति सूक्तेन तार्ष्टाघीः समिध आदधाति ।ऽआ पश्यतिऽ इति सूक्तेन तार्ष्टाघीः समिध आदधाति ।ऽतान्त्सत्यौजाःऽऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां सर्षपसमिध आदधाति ।ऽपुरस्ताद्युक्तःऽ इति सर्षपसमिध आदधाति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन सर्षपसमिध आदधाति । तन्त्रविकल्पः । मुसलखदिरसमिद्भ्यां द्विजस्योच्चाटनं भवति । अन्याभ्यां शूद्रादीनामुच्चाटनं भवति ॥

[अयुग्मान्खादिराञ्छङ्कूनक्ष्यौ नि विध्य (५.२९.४) इति पश्चादग्नेः समम्भूमि निहन्ति ॥ कौशिकसूत्र ४,१{२५}.२४ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां खदिरशङ्कून् सप्त नव वाभिमन्त्र्य पश्चादग्नेर्निखनति । भूमिम् । समाम् ।ऽअक्ष्यौ नि विध्यऽ इति ऋचा । निखननमन्त्रः । पिशाचोपद्रवे ।ऽनिःसालम्ऽ इति सूक्तेन सप्त खदिरशङ्कूनभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इत्यृचा । पिशाचभये ।ऽअरायक्षयणम्ऽ इति तिसृभिः सप्त खदिरकीलकानभिमन्त्र्यऽअक्ष्यौ निविध्यऽ इत्यृचा पश्चादग्नेर्निखनति । पिशाचरक्षार्थम् ।ऽशन्नो देवीःऽ इति सूक्तेन अयुग्मान् खादिराञ्छङ्कूनभिमन्त्र्यऽअक्ष्यौ नि विध्यऽ इत्यृचा पश्चादग्नेर्निखनति ।ऽआ पश्यतिऽ इति सूक्तेन सप्त कीलकानभिमन्त्र्य पश्चादग्नेःऽअक्ष्यौ नि विध्यऽ इत्यृचा निखनति । सर्वत्र भूमिं समां करोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां सप्त कीलकानभिमन्त्र्यऽअक्ष्यौ नि विध्यऽ इत्यृचा निखनति अग्नेः पश्चात् । पिशाचभये ।ऽरक्षोहणम्ऽ इत्यनुवाकेन खादिरमयान् सप्त कीलकानभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इति ऋचा । पिशाचभये ॥

[एवमायसलोहान् ॥ कौशिकसूत्र ४,१{२५}.२५ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां लोहकीलकान् पञ्च सप्त वाभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इत्यृचा । सर्वत्र कीलकानां निखननम् ।ऽनिःसालाम्ऽ इति सूक्तेन लोहकीलकानभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इति ।ऽअरायक्षयणम्ऽ इति तिसृभिः लोहकीलकानभिमन्त्र्य निखनति ।ऽशन्नो देवीःऽ इति सूक्तेन लोहमयकीलकानभिमन्त्र्य निखनति । पश्चादग्नेः सर्वत्र निखननम् ।ऽआ पश्यतिऽ इति सूक्तेन लोहमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । सर्वत्रऽअक्ष्यौ नि विध्यऽ इति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां पञ्च सप्त वा लोहमयकीलकानभिमन्त्र्य निखनतिऽअक्ष्यौ नि विध्यऽ
इति ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेन लोहमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इत्यृचा ।ऽरक्षोहणम्ऽ इत्यनुवाकेन लोहमयकीलकान् पञ्च सप्त वाभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इत्यृचा । सर्वत्र निखननम् ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां ताम्रमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इति । सर्वत्र पिशाचाय ।ऽनिःसालाम्ऽ इति सूक्तेन ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ।ऽअरायक्षयणम्ऽ इति तिसृभिस्ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ।ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन ताम्रमयान् कीलकानभिमन्त्र्य निखनति ।ऽआ पश्यतिऽ इति ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ।ऽतान्त्सत्यौजाःऽ इति सूक्तेन ताम्रकीलकानभिमन्त्र्यऽअक्ष्यौ नि विध्यऽ इति पश्चादग्नेर्निखनति ।ऽत्वया पूर्वम्ऽ इति सूक्तेन ताम्रमयकीलकानभिमन्त्र्यऽअक्ष्यौ नि विध्यऽ इति निखनति ।ऽपुरस्ताद्युक्तःऽ इति ताम्रमयकीलकानभिमन्त्र्य निखनति । सर्वत्र पिशाचभये ।ऽरक्षोहणम्ऽ इत्यनुवाकेन ताम्रमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ।ऽअक्ष्यौ नि विध्यऽ इति सर्वत्र निखननम् । सर्वत्र पश्चादग्नेर्निखनति । सर्वत्र पिशाचभये भैषज्यानि ॥

[तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति ॥ कौशिकसूत्र ४,१{२५}.२६ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां तप्तशर्करा अभिमन्त्र्य शयनं वान्तराणि वा गृहं वा ग्रामं वा एषु स्थानेषु परिकिरेत्रक्षोभये ।ऽनिःसालाम्ऽ इति सूक्तेन तप्तशर्करा अभिमन्त्र्य गृहादिषु परिकिरति पिशाचभये ।ऽअरायक्षयणम्ऽ इति तिसृभिः तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति । यत्र पिशाचभयं तत्र परिकिरति ।ऽशन्नो देवीऽ इति सूक्तेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति ।ऽआ पश्यतिऽ इति तप्तशर्करा परिकिरति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये ।ऽपुरस्ताद्युक्तो वहऽ इति सूक्तेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये ।ऽरक्षोहणम्ऽ इत्यनुवाकेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये ॥

[अमावास्यायां सकृद्गृहीतान् यवाननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति ॥ कौशिकसूत्र ४,१{२५}.२७ ॥
य आगच्छेत्तं ब्रूयात्शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्द इति ॥ कौशिकसूत्र ४,१{२५}.२८ ॥
तथा कुर्वन्ननाद्ये हनुवाने ॥ कौशिकसूत्र ४,१{२५}.२९ ॥]
अमावास्यायामभ्यातानान्तं कृत्वा शरमयं बर्हिः स्तृणाति । सर्षपेध्मानामुपसमाधानम् ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां सकृद्गृहीतयवसक्तूञ्जुहोति प्रत्यृचम् । अभ्यातानाद्युत्तरतन्त्रम् । एतस्मिन् तन्त्रे यवराशिमध्यान्मुष्टिमेकां गृहात्वोलूखलेन खण्ड्यत अप्रदक्षिणं पिष्यते । ततो व्याधितं सम्पात्य शणसूत्रेण जिह्वामार्जनं करोति ततो ग्रहणमुक्तः । यदि न करोति शणेन जिह्वामार्जनं तदा न गतो ग्रह इति विजानीयात् । अमावास्यायामाज्यतन्त्रं शरस्तृतं सर्षपेध्ममुपसमाहितमभ्यातानान्तं कृत्वाऽनिःसालाम्ऽ इति सूक्तेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । मुच्यते । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति तदा गतो ग्रहः । अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वाऽअरायक्षयणम्ऽ इति तिसृभिः सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति ततो गतो ग्रहः । अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वाऽअरायक्षयणम्ऽ इति तिसृभिः यवानपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति ततो गतो ग्रहः । अमावास्यायां प्रातरभ्यातानान्तं कृत्वा शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टंऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं
तन्त्रं कृत्वाऽआ पश्यतिऽ इति सूक्तेन यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम्.अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वाऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोतिटत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टमभ्यातानान्तं कृत्वाऽपुरस्ताद्युक्तःऽ इति सूक्तेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टमभ्यातानान्तं कृत्वाऽरक्षोहणम्ऽ इत्यनुवाकेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणसूत्रेण जिह्वामार्जनं करोति । यदि न करोति तदा न गतो ग्रहः । असाध्यो ग्रहः । असाध्यो ग्रह इत्यर्थः ॥

अथ ग्रहाभिचार उच्यते । इदं कर्म अवश्यस्य ग्रहस्य वशीकरणमुच्यते । अयमभिचारोऽवश्यग्रहस्य वशीकरणार्थः
[वीरिणतूलमिश्रमिङ्गिडं प्रपुटे जुहोति ॥ कौशिकसूत्र ४,१{२५}.३० ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं पूर्णपुटेन जुहोति । तत उत्तरतन्त्रम् ।ऽनिःसालाम्ऽ इति सूक्तेन वीरिणपुष्पमिश्रितमिङ्गिडमाज्यं जुहोति पालाशपुटेनाज्यतन्त्रे । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽअरायक्षयणम्ऽ इति तिसृभिः वीरिणतूलमिश्रितमिङ्गिडं पलाशपुटेन जुहोति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । ग्रहस्याभिचारोऽयम् । तन्त्रं कृत्वाऽआ पश्यतिऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । पिशाचस्याभिचारकर्म । तन्त्रं कृत्वाऽपुरस्ताद्युक्तःऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं पर्णपुटेन जुहोति । उत्तरतन्त्रम् ।ऽरक्षोहणम्ऽ इत्यनुवाकेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोत्याज्यतन्त्रे । ग्रहाभिचारः समाप्तः ॥

अथास्मिन् गृहे पिशाचोऽस्ति वा न वेति संशये इदं कर्म उच्यते
[इध्माबर्हिः शालायामासजति ॥ कौशिकसूत्र ४,१{२५}.३१ ॥
अपरेद्युर्विकृते पिशाचतो रुगिति ॥ कौशिकसूत्र ४,१{२५}.३२ ॥
उक्तो होमः ॥ कौशिकसूत्र ४,१{२५}.३३ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां सर्षपेध्मं शरमयं बर्हिरभिमन्त्र्य शालाया उपरि निदधाति । शालाया उपरि करोति । ततः प्रभाते निरीक्षणम् । विकृते पिशाचशङ्का । तदा उक्तो होमः । वीरिणतूलमित्यादि ।ऽनिःसालाम्ऽ इति सूक्तेन तार्ष्टाघेध्मं शरमयं बर्हिश्चाभिमन्त्र्य शालाया उपरि निदधाति । यदि तद्विकृतं तदा तद्गृहं पिशाचगृहीतम् । तदा उक्तो होमः । वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । तन्त्रे ।ऽअरायक्षयणम्ऽ इति तिसृभिरिध्माबर्हिरभिमन्त्र्य शालाया उपरि निदधाति ।
द्वितीयेऽहनि निरीक्षयेत् । बर्हिषि विकृते पिशाचभयम् । तत्र वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति ।ऽशन्नो देवीऽ इतीध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । ततो वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । तन्त्रे ।ऽआ पश्यतिऽ इति सूक्तेनेध्माबर्हिः शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तत इध्माबर्हिः शालाया गृहीत्वा तेन तन्त्रमभ्यातानान्तं कृत्वा वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां इध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति तेनैव सूक्तेन ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेनेध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तत्र वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति ।ऽरक्षोहणम्ऽ इत्यनुवाकेनेध्माबर्हिः शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तन्त्रं कृत्वा तेनानुवाकेन वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । पिशाचग्रहाभिचारः ॥

[वैश्रवणायाञ्जलिं कृत्वा जपन्नाचामयत्यभ्युक्षति ॥ कौशिकसूत्र ४,१{२५}.३४ ॥]
वैश्रवणाय नमस्कारं कृत्वाऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य तमाचामयति सम्प्रोक्षति च । वैश्रवणाय नमस्कारं कृत्वाऽनिःसालाम्ऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितम् । पिशाचग्रहरक्षाकामः । वैश्रवणाय नमस्कारं कृत्वाऽअरायक्षयणम्ऽ इति तिसृभिरुदकमभिमन्त्र्याचामयति सम्प्रोक्षति च पिशाचगृहीतं पुरुषम् । वैश्रवणाय नमस्कारं कृत्वाऽशन्नो देवीऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च । पिशाचरक्षार्थम् । वैश्रवणाय नमस्कारं कृत्वाऽआ पश्यतिऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितं मानुषम् । वैश्रवणाय नमस्कारं कृत्वाऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य व्याधितमाचामयति सम्प्रोक्षति च । पिशाचभये । वैश्रवणायाञ्जलिं कृत्वाऽपुरस्ताद्युक्तःऽ इति सूक्तेनोदकमभिमन्त्र्य व्याधितमाचामयति सम्प्रोक्षति च । पिशाचभये रक्षाकामः । वैश्रवणायाञ्जलिं कृत्वाऽरक्षोहणम्ऽ इत्यनुवाकेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितम् । पिशाचभये रक्षाकामः । सर्वत्र कर्मणां विकल्पः । पिशाचगृहीतं मनुष्यमन्वारब्धे सर्वत्र होमः कार्यः । भैषज्यकर्म च । गृहे प्रयोगः ॥

रात्रिकर्माण्युच्यन्ते
[निश्युल्मुके सङ्कर्षति ॥ कौशिकसूत्र ४,१{२५}.३५ ॥
स्वस्त्याद्यं कुरुते ॥ कौशिकसूत्र ४,१{२५}.३६ ॥]
रात्रौऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां उल्मुके द्वे अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ (१.२१) इति
सूक्तेन दक्षिणेन प्रक्रामति पदानि ददाति । पिशाचभये । रात्रौऽनिःसालाम्ऽ इति सूक्तेन उल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तेन दक्षिणेन प्रक्रामति । पिशाचभये । रात्रौऽअरायक्षयणम्ऽ इत्युल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तेन पदानि प्रक्रामति । रात्रौऽशन्नो देवीऽ इत्युल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति पदानि ददाति । रात्रौऽआ पश्यतिऽ इत्युल्मुकद्वयं परस्परं सर्वत्राभिमन्त्रणान्ते सङ्घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तं जपित्वा पदानि प्रक्रामति । रात्रौऽतान्त्सत्यौजाःऽऽत्वया पूर्वम्ऽ इति सूक्ताभ्यामुल्मुके अभिमन्त्र्य सङ्घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तेन पदानि ददाति । पिशाचरक्षार्थम् । रात्रौऽपुरस्ताद्युक्तःऽ इति उल्मुके अभिमन्त्र्य सङ्घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तं जपित्वा पदानि प्रक्रामति । सर्वभूतग्रहविनाशनः । गतेन गणविकल्पेन होमः । ब्रह्मराक्षसस्यापि शान्तिः । रात्रौःऽरक्षोहणम्ऽ इत्यनुवाकेनोल्मुके अभिमन्त्र्य परस्परं सङ्घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तं जपित्वा पदानि प्रक्रामति । समाप्तानि रात्रिकर्माणि । पिशाचराक्षसभूताप्सरःप्रेतयक्षगन्धर्वा ग्रहाश्च । येऽन्येऽपि क्षुद्रब्राह्मणजातिकाः क्षत्रियवैश्यशूद्रादयो ग्रहाः सर्वे एभिः कर्मभिस्तुष्यन्ति । राक्षसग्रहप्रकरणं भूततन्त्रं समाप्तम् ॥

अथ जलोदरभैषज्यमुच्यते
[अयं देवानाम् (१.१०) इत्येकविंशत्या दर्भपिञ्जूलीभिर्वलीकैः सार्धमधिशिरोऽवसिञ्चति ॥ कौशिकसूत्र ४,१{२५}.३७ ॥]
ऽअयं देवानाम्ऽ इति सूक्तेन घटे दर्भपिञ्जुलीः प्रक्षिप्येकविंशतिगृहतृणानि च प्रक्षिप्य तं घटमभिमन्त्र्य ततो व्याधितं सिञ्चति । ततो मार्जनं च । दर्भत्रयमेकत्र बद्धं पिञ्जूलीत्युच्यते । समाप्तं जलोदरभैषज्यम् । अभ्यासेन कर्मसिद्धिः । दिनेदिने कुर्यात्जलोदरनाशनार्थम् ॥ भैषज्ये प्रथमा कण्डिका समाप्ता ॥ Kऔशिकपद्धतिकण्डिका २५ ॥


________________________________


अथ वातपित्तश्लेष्मणि भैषज्यान्युच्यन्ते
[जरायुजः (१.१२) इति मेदो मधु सर्पिस्तैलं पाययति ॥ कौशिकसूत्र ४,२{२६}.१ ॥]
ऽजरायुजःऽ इति सूक्तेन मांसभेदोऽभिमन्त्र्य पाययति वातविकारे ।ऽजरायुजःऽ इति सूक्तेन मध्वभिमन्त्र्य पाययति श्लेष्मविकारे ।ऽजरायुजःऽ इति सूक्तेन घृतमभिमन्त्र्य पाययति वातपित्तसहविकारे ।ऽजरायुजःऽ इति सूक्तेन तैलमभिमन्त्र्य पाययति वातश्लेष्मविकारे । समाप्तं वातपित्तश्लेष्मभैषज्यम् ॥

अतिकासे शीर्षक्तौ शिरोवेदनायां च कर्माण्युच्यन्ते
[मौञ्जप्रश्नेन शिरस्यपिहितः सव्येन तितौनि पूल्यानि धारयमाणो दक्षिणेनावकिरन् व्रजति ॥ कौशिकसूत्र ४,२{२६}.२ ॥]
व्याधितशिरो मौञ्जवेष्टितं कृत्वा वामेन हस्तेन पवनं लाजसहितं गृहीत्वा । दक्षिणेन हस्तेन तान् लाजान् प्रगृह्यऽजरायुजःऽ इति सूक्तेन लाजान् प्रकिरन् व्रजति व्याधिदेशं यावत् । तत्रैव मुञ्जप्रश्नलाजापवनानां प्रक्षेपः ॥

[सव्येन तितौप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम् ॥ कौशिकसूत्र ४,२{२६}.३ ॥
प्रेषकृदग्रतः ॥ कौशिकसूत्र ४,२{२६}.४ ॥]
वामेन हस्तेन पवनं मौञ्जेन्दुकं च गृहीत्वा दक्षिणेन हस्तेन ज्यां द्रुघ्नीं गृहीत्वा व्याधितमग्रे कृत्वा ॥

[यत्रैनं व्याधिर्गृह्णाति तत्र तितौप्रश्नौ निदधाति ॥ कौशिकसूत्र ४,२{२६}.५ ॥]
यत्र व्याधिरुत्पन्नस्तत्र स्थाने गत्वाऽजरायुजःऽ इति सूक्तं जपित्वा मौञ्जप्रश्नं पवनं च प्रक्षिपति व्याधितः ॥

[ज्यां च ॥ कौशिकसूत्र ४,२{२६}.६ ॥
आव्रजनम् ॥ कौशिकसूत्र ४,२{२६}.७ ॥]
तत्र स्थाने तूष्णीं ज्यां प्रक्षिपति ॥

[घृतं नस्तः ॥ कौशिकसूत्र ४,२{२६}.८ ॥]
वातज्वरे कटिभङ्गे शिरीरोगे च वातगुल्मे वातविकारे च सर्वरोगे धनुर्वातेऽङ्गकम्पने वाते शरीरभङ्गे सर्ववातविकारे भैषज्यम् ।ऽजरायुजःऽ इति सूक्तेन घृतमभिमन्त्र्य नासिकानस्तं ददाति । शिरोरोगे वातभङ्गे ॥

[पञ्चपर्वणा ललाटं संस्तभ्य जपति ॥ कौशिकसूत्र ४,२{२६}.९ ॥]
ऽजरायुजःऽ इति सूक्तेन पञ्चपर्ववेणुदण्डं ललाटे संस्तभ्य जपति । शिरोरोगे कटिभङ्गे वा वातगुल्मे वा वातविकारे च । लिङ्ग्युपतापः समाप्तः ॥

अथ लोहिते वहति शरीरमध्ये बहिश्च शस्त्रघाते पाषाणलकुटेष्टकाद्यभिघाते कर्माण्युच्यन्ते
[अमूर्याः (१.१७) इति पञ्चपर्वणा पांसुसिकताभिः परिकिरति ॥ कौशिकसूत्र ४,२{२६}.१० ॥]
पञ्चपर्ववेणुदण्डं रुधिरवहनस्थाने दत्त्वाऽअमूर्याःऽ इति सूक्तं जपति । रुधिरप्रवाहे भैषज्यम् ।ऽअमूर्याःऽ इति सूक्तेन रथ्यायाः पांसून् गृहीत्वाभिमन्त्र्य रुधिरव्रणे विकिरति ।ऽअमूर्याःऽ इति सूक्तेन सिकता अभिमन्त्र्य व्याधिदेशे किरति ॥

[अर्मकपालिकां बध्नाति ॥ कौशिकसूत्र ४,२{२६}.११ ॥]
अभ्यातानान्तं कृत्वाऽअमूर्याःऽ इति सूक्तेनार्मकपालिकां सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[पाययति ॥ कौशिकसूत्र ४,२{२६}.१२ ॥]
ऽअमूर्याःऽ इति सूक्तेनार्मकपालिकामभिमन्त्र्य पाययति । अर्मकपालिका शुष्कपङ्कमृत्तिका । स्त्रीरजसोऽतिप्रवर्तने भैषज्यं रुधिरप्रवाहे च ॥

[चतुर्भिर्दूर्वाग्रैर्दधिपललं पाययति ॥ कौशिकसूत्र ४,२{२६}.१३ ॥]
ऽअमूर्याःऽ इति सूक्तेन चत्वारि दूर्वाग्राणि पिष्ट्वा तैः सह दधिपललमांसाद्यालोड्य ततोऽभिमन्त्र्य पाययति । रुधिरप्रवाहे शरीरमध्ये शस्त्राद्यभिघाते बहिश्च शोणितवहने गुदवहने मुखवहने नासिकारुधिरवहने शिरोऽङ्गुल्यादिरुधिरप्रवाहे च । रुधिरप्रवहने भैषज्यानि समाप्तानि.

अथ हृद्रोगे कामले च भैषज्यान्युच्यन्ते
[अनु सूर्यम् (१.२२) इति मन्त्रोक्तस्य लोममिश्रमाचमयति ॥ कौशिकसूत्र ४,२{२६}.१४ ॥]
ऽअनु सूर्यम्ऽ इति रक्तवृषभरोममिश्रमुदकमभिमन्त्र्य पाययति । कामले हृद्रोगे च भैषज्यम् ॥

[पृष्ठे चानीय ॥ कौशिकसूत्र ४,२{२६}.१५ ॥]
ऽअनु सूर्यम्ऽ इति सूक्तेन रक्तवृषभपृष्ठ उदकमानीय ततोऽभिमन्त्र्याचामयति ॥

[शङ्कुधानं चर्मण्यासीनाय दुग्धे सम्पातवन्तं बध्नाति ॥ कौशिकसूत्र ४,२{२६}.१६ ॥]
अभ्यातानान्तं कृत्वाऽअनु सूर्यम्ऽ इति सूक्तेन गो रक्तचर्मछिद्रमणिं गोदुग्धे दत्त्वा तं सम्पात्याभिमन्त्र्य बध्नाति ॥

[पाययति ॥ कौशिकसूत्र ४,२{२६}.१७ ॥]
दुग्धं च पाययति । अभ्यातानाद्युत्तरतन्त्रम् । कामले हृद्रोगे च लिङ्ग्युपतापः ॥

[हरिद्रौदनभुक्तमुच्छिष्टानुच्छिष्टेना प्रपदात्प्रलिप्य मन्त्रोक्तानधस्तल्पे हरितसूत्रेण सव्यजङ्घासु बद्ध्वाऽवस्नापयति ॥ कौशिकसूत्र ४,२{२६}.१८ ॥]
हरिद्रौदनं व्याधितस्य भोजनं दत्त्वा तस्योच्छिष्टं चानुच्छिष्टं चैकत्र कृत्वा तेन चोद्वर्तनं कृत्वा शिरःप्रभृत्यारभ्य यावत्पादौ । ततो व्याधितं च खट्वायामुपवेश्य खट्वाया अधस्तात् । शुकः काष्ठशुको गोपीतिलका चैते त्रयः पक्षिणः । सव्यजङ्घायां हरितसूत्रेण बद्ध्वा खट्वाया अधस्ताद्बध्नाति । ततोऽअनु सूर्यम्ऽ इति सूक्तेनोदकमभिमन्त्र्य व्याधितं स्नापयति । कामले हृद्रोगे च ॥

[प्रपादयति ॥ कौशिकसूत्र ४,२{२६}.१९ ॥]
ऽअनु सूर्यम्ऽ इति सूक्तेन मन्थमभिमन्त्र्य प्रपाद्य प्रयच्छति । सर्वत्र गृहद्वारेऽग्रे व्याधितं कृत्वा तमग्रे प्रवेश्य स्वयं प्रविश्य ततो भक्तमभिमन्त्र्य ततो व्याधिताय प्रयच्छति । सर्वत्र यत्र यत्रऽप्रयच्छतिऽ शब्दस्तत्र तत्रैवं
बोद्धव्यम् ॥

[वदत उपस्थापयति ॥ कौशिकसूत्र ४,२{२६}.२० ॥]
ऽअनु सूर्यम्ऽ इति सूक्तेन शुकं वदन्तमभिमन्त्रयेत् ।ऽअनु सूर्यम्ऽ इति सूक्तेन काष्ठशुकं वदन्तमभिमन्त्रयेत् ।ऽअनु सूर्यम्ऽ इति सूक्तेन गोपीतिलकां पक्षिणीं यत्र कुत्रचिद्दृष्ट्वा वदन्तीं तत्राभिमन्त्रयेद्व्याधितः । कामले च व्याधौ ॥

[क्रोडलोमानि जतुना सन्दिह्य जातरूपेणापिधाप्य ॥ कौशिकसूत्र ४,२{२६}.२१ ॥]
अभ्यातानान्तं कृत्वाऽअनु सूर्यम्ऽ इति सूक्तेन वृषभहृदयलोमभिर्लाक्षारक्तैः सुवर्णवेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य व्याधिताय बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वत्र यत्र बहूनि कर्माणि विहितानि तत्रैकं कुर्याद्द्वे वा कुर्यात्सर्वाणि वा कुर्यात् । सर्वत्र कर्मणां विकल्पः । अपस्मारविस्मयहृद्रोगकामलकरोहिणकानि भैषज्यानि समाप्तानि ॥

अथ श्वेतकुष्ठभैषज्यान्युच्यन्ते
[नक्तञ्जाता (१.२३) सुपर्णो जातः (१.२४) इति मन्त्रोक्तं शकृदा लोहितं प्रघृष्यालिम्पति ॥ कौशिकसूत्र ४,२{२६}.२२ ॥]
श्वेतकुष्ठं गोमयेन प्रघृष्य यावल्लोहितं दृष्ट्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां भृङ्गराजहरिन्द्रेन्द्रवारुणी नीलिकापुष्पा एताः पञ्च पिष्ट्वाभिमन्त्र्य कुष्ठं प्रलिम्पति । तिसृणां वा चतसृणां वौषधीनां ग्रहणम् ॥

[पलितान्याच्छिद्य ॥ कौशिकसूत्र ४,२{२६}.२३ ॥]
पलितनाशे तच्च । पलितानि छित्त्वा घृष्ट्वालिम्पति ॥

अथ मारुतान्युच्यन्ते
[मारुतान्यपिहितः ॥ कौशिकसूत्र ४,२{२६}.२४ ॥]
ऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां मरुतो यजते यथा वरुणं पाकयज्ञविधानेन । श्वेतपलिते श्वेतकुष्ठे च । अभ्यातानान्तं कृत्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति द्वाभ्यां सूक्ताभ्यां कृष्णाया गोराज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां कासदिविधुवकवेतसा ओषधीरेकत्र कृत्वा सम्पात्याभिमन्त्र्य तत उदकमध्ये प्रवेश्याधोमुखं पात्रं निनयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां कासाद्योषधीरुदके कृत्वा सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् ।ऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां श्वशिरो मेषशिरो मानुषकेशरज्ज्वा जरदुपानहौ च वंशद्वयाग्रे प्रबध्य योधयति धारयतीत्यर्थः । पलितनाशे श्वेतकुष्ठे च भैषज्यानि । अभ्यातानान्तं कृत्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति द्वाभ्यां सूक्ताभ्यामुदकं सम्पात्य तेनामपात्रं प्रसिच्य ततोऽश्मानं निदधाति । तत आमपात्रमश्मानं च त्रिपादे शिक्ये निदधाति । ततोऽप्सु क्षिपति । तत उत्तरतन्त्रम् । मारुतानि कर्माणि समाप्तानि । मारुतेषु कर्मसु सर्वत्र मारुतक्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येनेति भवति । समाप्तानि कुष्ठभैषज्यानि । श्वेतपलितनाशनं दुर्भगनाशनं च ॥

अथ ज्वरभैषज्यमुच्यते
[यदग्निः (१.२५) इति परशुं जपंस्तापयति क्वाथयत्यवसिञ्चति ॥ कौशिकसूत्र ४,२{२६}.२५ ॥]
नित्यज्वरे वेलाज्वरे सततज्वरे एकान्तरज्वरे चातुर्थकज्वरे शीतज्वरे चतुर्ज्वरे चऽयदग्निःऽ इति सूक्तेन लोहकुठारमभिमन्त्र्याग्नौ तापयति । ततोऽयदग्निःऽ इति जपित्वा तं कुठारमुष्णोदकमध्ये क्वाथयति । ततोऽयदग्निःऽ इति सूक्तं जपित्वा तेनोदकेन व्याधितमवसिञ्चति । आचमनं तूष्णीं मार्जनं च । ज्वरभैषज्यं समाप्तम् ॥

अथोद्वेगविनाशभैषज्यान्युच्यन्ते
[उप प्रागात्(१.२८) इत्युद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणामिषीकाणामुभयतः प्रत्युष्टं बध्नाति ॥ कौशिकसूत्र ४,२{२६}.२६ ॥]
अभ्यातानान्तं कृत्वाऽउप प्रागात्ऽ इति सूक्तेन शुक्लवीरिणेषीकाचतुष्टयेनोभयतः प्रत्युष्टमेकत्र बद्ध्वा मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति पुण्याहान्ते । तत उत्तरतन्त्रम् । उद्वेगभैषज्यम् ॥

[त्रिविदग्धं काण्डमणिम् ॥ कौशिकसूत्र ४,२{२६}.२७ ॥]
तन्त्रं कृत्वाऽउप प्रागात्ऽ इति सूक्तेन त्रिविदग्धं शुक्लवीरणकाण्डमणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । उद्वेगभैषज्यम् ॥

[उल्मुके स्वस्त्याद्यम् ॥ कौशिकसूत्र ४,२{२६}.२८ ॥]
ऽउप प्रागात्ऽ इति सूक्तेनोल्मुकद्वयमभिमन्त्र्य घर्षयेत् । रात्रौ उषाकाले वैतत्कर्म । ततः प्रभातेऽस्वस्तिदाःऽ (१.२१) इति सूक्तेन दक्षिणेन पादेन प्रक्रामति इति स्वस्त्ययनम् । वृद्धबालयुवस्त्रीपुरुषाणामकस्मादुद्वेगः प्रलापो वा भवेत्तदैतत्कुर्यात् । समाप्तान्युद्वेगभैषज्यानि ॥

गन्धर्वराक्षसाप्सरोभूतग्रहादिषु भैषज्यान्युच्यन्ते
[मातृनाम्नोः सर्वसुरभिचूर्णान्यन्वक्तानि हुत्वा शेषेण प्रलिम्पति ॥ कौशिकसूत्र ४,२{२६}.२९ ॥]
अभ्यातानान्तं कृत्वाऽदिव्यो गन्धर्वःऽ (२.१) इति सूक्तेन घृताक्ताः सर्वौषधीर्जुहोति । होमशेषेण व्याधितं म्रक्षयति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽइमं मे अग्नेऽ (६.१११) इति चतुरृचेनाज्यमिश्राः सर्वौषधीर्जुहोति । तत उत्तरतन्त्रम् । तन्त्रे होमशेषेण व्याधितं म्रक्षयति । गन्धर्वग्रहादिभैषज्यम् ॥

[चतुष्पथे च शिरसि दर्भेण्ड्वेऽङ्गारकपालेऽन्वक्तानि ॥ कौशिकसूत्र ४,२{२६}.३० ॥]
चतुष्पथे व्याधितं कृत्वा तस्य शिरसि दर्भेण्डुकं कृत्वा तस्योपरि कपालमग्निपूर्णं प्रज्वालितं कृत्वा तत्र प्रज्वालितेऽग्नौऽदिव्यो गन्धर्वःऽ इति सूक्तेन घृताक्ताः सर्वौषधीर्जुहोति । चतुष्पथे च शिरसि दर्भेण्ड्वेऽङ्गारकपाले प्रज्वालितेऽग्नौऽइमं मे अग्नेऽ इति
चतसृभिराज्येनाक्ताः सर्वौषधीर्जुहोति प्रत्यृचं शिरसि होमे न तन्त्रम् ॥

[तितौनि प्रतीपं गाहमानो वपतीतरोऽवसिञ्चति पश्चात् ॥ कौशिकसूत्र ४,२{२६}.३१ ॥]
व्याधितस्य वल्लणिकां सर्वौषधिसहितां हस्ते कृत्वा नद्युदकसम्मुखं प्रवेश्य ततोऽवगाहयति ।ऽदव्यो ग्न्धर्वःऽ इति सूक्तेन सर्वौषधीरुदकमध्ये वपति कर्ता ।ऽदिव्यो गन्धर्वःऽ इति सूक्तेन पश्चात्स्थितो व्याधितं सिञ्चति ॥

[आमपात्र ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति ॥ कौशिकसूत्र ४,२{२६}.३२ ॥]
ततो मृन्मय आमपात्रे होमशेषः सर्वौषधीः कृत्वा पक्षिणो यस्मिन् वृक्षे वसन्ति तत्र त्रिपादे शिक्ये कृत्वा बध्नाति । गन्धर्वयक्षराक्षसभैषज्यम् ।ऽइमं मे अग्नेऽ इति सूक्तेन नदीमध्ये वल्लणिकायां सर्वौषधीर्घृताक्ता जुहोति प्रत्यृचम् । ततः कर्ता तमवसिञ्चति व्याधितम्ऽइमं मेऽ इति चतसृभिः । पश्चादामपात्र ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने वृक्षे बध्नाति । रक्षोग्रहे यक्षग्रहे गन्धर्वग्रहेऽप्सरोग्रहे राजसे ग्रहे तामसे ग्रहे ग्रहभैषज्यानि समाप्तानि ॥

अथ लौकिके शापे वैदिके शापे च स्त्रीणामाक्रोशे पुरुषाणां च भैषज्यमुच्यते
[अघद्विष्टा (२.७), शं नो देवी (२.२५), वरणः (६.८५), पिप्पली (६.१०९), विद्रधस्य (६.१२७), या बभ्रवः (८.७) इति ॥ कौशिकसूत्र ४,२{२६}.३३ ॥
उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति ॥ कौशिकसूत्र ४,२{२६}.३४ ॥
प्रथमेन मन्त्रोक्तं बध्नाति ॥ कौशिकसूत्र ४,२{२६}.३५ ॥
द्वितीयेन मन्त्रोक्तस्य सम्पातवतानुलिम्पति ॥ कौशिकसूत्र ४,२{२६}.३६ ॥
तृतीयेन मन्त्रोक्तं बध्नाति ॥ कौशिकसूत्र ४,२{२६}.३७ ॥
चतुर्थेनाशयति ॥ कौशिकसूत्र ४,२{२६}.३८ ॥
पञ्चमेन वरुणगृहीतस्य मूर्ध्नि सम्पातानानयति ॥ कौशिकसूत्र ४,२{२६}.३९ ॥
उत्तमेन शाकलम् ॥ कौशिकसूत्र ४,२{२६}.४० ॥]
सर्वस्मिन् संहिताविधिकर्मणि प्रधानकर्ममध्ये उत्तरतः उदकुम्भमास्थाप्य तेनोदकेनऽहिरण्यवर्णाःऽ (१.३३) इति सूक्तेनाभिमन्त्रितेन कारयिताभिषेचयेत्सर्वत्र मेधाजननादिकर्मसु । ततः पश्चान्मणिबन्धनादि कर्म कुर्यात् ।
भैषज्येष्वभिषेकं न कुर्यात् । अभ्यातानान्तं कृत्वाऽअघद्विष्टा देवजाताऽ इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । लौकिक आक्रोशे वैदिके च ब्राह्मणस्य शापे क्रूरचक्षुर्दृष्टिनिपाते च पिशाचराक्षसादिषु भैषज्यं समाप्तम् ॥

अथ रक्षोग्रहे भैषज्यमुच्यते
आज्यतन्त्रं कृत्वाऽशं नो देवी पृश्निपर्णीऽ इति सूक्तेन पृश्निपर्णीं सम्पात्याभिमन्त्र्य घृष्ट्वा पुनः सूक्तं जपित्वा व्याधितं प्रलिम्पति । अभ्यातानाद्युत्तरतन्त्रम् । पापगृहीते च स्त्रीगर्भस्त्रावे च मृतापत्यायां च क्रव्यादगृहीते च पिशाचगृहीते च रक्षोमयभैषज्यं समाप्तम् ॥

अथ राजयक्ष्मादिभैषज्यमुच्यते
तन्त्रं कृत्वाऽवरणो वारयाताऽ इति तृचेन वरणवृक्षकाष्ठमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । राजयक्ष्मादिषूग्रव्याधिषु श्वेतोदुम्बरकुष्ठाद्यष्टादशजातिषु ज्वरादिसर्वरोगेषु भैषज्यं समाप्तम् ॥

अथ वातविकारे भैषज्यमुच्यते
अभ्यातानान्तं कृत्वाऽपिप्पली क्षिप्तभेषजीऽ इति सूक्तेन पिप्पलद्रव्यं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वाशयति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वत्र । वातविकारे धनुर्वाते वातगुल्मे वातशूले क्षिप्तवातप्रदोषे कर्मकृते वात उत्पन्ने सर्ववातविकारे भैषज्यं समाप्तम् ॥

जलोदरभैषज्यमुच्यते
अभ्यातानान्तं कृत्वाऽविद्रधस्य बलासस्यऽ इति तृचेन सूक्तेन व्याधितस्य मूर्ध्नि सम्पातानानयति । अभिमन्त्रणं च ।
अभ्यातानाद्युत्तरतन्त्रम् । जलोदरभैषज्यम् । सर्वव्याधिविसर्पणे हृदयामये वा जलोदरे च एतेषां भैषज्यं समाप्तम् ॥
ऽविद्रधस्यऽ इति सूक्तेन पालाशशकलं चतुरङ्गुलमानं पिष्ट्वाभिमन्त्र्य पुनः सूक्तं जपित्वा व्याधितं लिम्पति । सर्वव्याधिविसर्पणे प्रकोपे च बलासे चान्त्रादिविसर्पणे चाक्षिविसर्पणे च कर्णव्याधिविसर्पणे हृदयामये चाज्ञातराजयक्ष्मणि च । एतेषां भैषज्यं समाप्तम् ॥
तन्त्रं कृत्वाऽया बभ्रवःऽ इति सूक्तेन दशवृक्षशकलानि लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य पुनः सूक्तं
जपित्वा बध्नाति । सर्वव्याधिभैषज्यम् ॥

अथ क्षेत्रियव्याधिभैषज्यमुच्यते
[उदगाताम् (२.८) इत्याप्लावयति बहिः ॥ कौशिकसूत्र ४,२{२६}.४१ ॥]
अभ्यातानान्तं कृत्वाऽउदगाताम्ऽ इति सूक्तेन उदकघटं सम्पात्याभिमन्त्र्य व्याधितं गृहाद्बहिः कृत्वाप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । क्षेत्रियो व्याधिर्लिङ्गी पितृपारम्पर्यागतः क्षेत्रियो रोगः । कुष्ठक्षयरोगो ग्रहणीदोषः सर्वशरीरे विस्फोटकरक्तदोषादिः क्षेत्रियः ॥

[अपेयम् (२.८.२) इति व्युच्छन्त्याम् ॥ कौशिकसूत्र ४,२{२६}.४२ ॥]
तन्त्रं कृत्वाऽअपेयं रात्रीऽ इत्यृचा घटं सम्पात्याभिमन्त्र्य गृहाद्बहिराप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अपररात्र एतत्कर्म कुर्यात्क्षेत्रियव्याधौ ॥

[बभ्रोः (२.८.३) इति मन्त्रोक्तमाकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्यामुत्सीव्य बध्नाति ॥ कौशिकसूत्र ४,२{२६}.४३ ॥]
अभ्यातानान्तं कृत्वाऽबभ्रोरर्जुनकाण्डस्यऽ इत्यृचार्जुनकाष्ठं यवबुसं तिलपिञ्जिकां चैकत्र त्रीणि बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । क्षेत्रियव्याधौ । अभ्यातानान्तं कृत्वाऽबभ्रोरर्जुनऽ इत्यृचाकृतिलोष्टं जीवकोषण्यां बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽबभ्रोरर्जुनऽ इत्यृचा वल्मीकमृत्तिकां चर्मजीवकोषण्यां बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । एकस्मिन् व्याधौ सर्वत्र कर्मणां विकल्पः । जीवतः पशोश्चर्म जीवकोषणीत्युच्यते । अजायाश्चर्मावेर्वाश्वाया वा चर्मग्रहणम् । मातृपितृवर्गादायातः
कौलः कुलभवः । सर्वत्र कर्मणां विकल्पः ॥ भैषज्येषु द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २६ ॥


________________________________


[नमस्ते लाङ्गलेभ्यः (२.८.४) इति सीरयोगमधिशिरोऽवसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.१ ॥]
ऽनमस्ते लाङ्गलेभ्यःऽ इत्यृचोदकघटमभिमन्त्र्य वृषभयुक्तस्य हलस्याधस्तात्कृत्वा व्याधितं ततोऽभिषिञ्चति । क्षेत्रियस्य भैषज्यम् ॥

[नमः सनिस्रसाक्षेभ्यः (२.८.५) इति शून्यशालायामप्सु सम्पातानानयति ॥ कौशिकसूत्र ४,३{२७}.२ ॥
उत्तरं जरत्खाते सशालातृणे ॥ कौशिकसूत्र ४,३{२७}.३ ॥
तस्मिन्नाचमयत्याप्लावयति ॥ कौशिकसूत्र ४,३{२७}.४ ॥]
तस्मिन् गर्ते व्याधितमुपवेश्याचामयति । उत्तरतन्त्रम् । क्षेत्रियभैषज्यम् । अभ्यातानान्तं कृत्वाऽनमः सनिस्रसाक्षेभ्यःऽ इत्यृचोदकघटं सम्पात्याभिमन्त्र्योत्तरसम्पातान् जरद्गर्तः आनयति । शालातृणसहिते गर्ते व्याधितमवसिञ्चति । आचमनं च । यत्र क्वचित्स्नानं तत्र सर्वत्राचमनम् । तत उत्तरतन्त्रम् । यत्र यत्र स्नानं प्रोक्षणं च तत्र सर्वत्र भैषज्येषु शिरःप्रभति मार्जनं कुर्यात्यावत्पादौ । समाप्तं क्षेत्रियस्य भैषज्यम् ॥

अथ ब्रह्मग्रहे भैषज्यमुच्यते
[दशवृक्ष (२.९) इति शाकलः ॥ कौशिकसूत्र ४,३{२७}.५ ॥]
अभ्यातानान्तं कृत्वाऽदशवृक्षऽ इति सूक्तेन वृक्षविकल्पेन पलाशादिदशवृक्षशकलानि गृहीत्वा लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ब्रह्मग्रहे भैषज्यम् ॥

[दश सुहृदो जपन्तोऽभिमृशन्ति ॥ कौशिकसूत्र ४,३{२७}.६ ॥]
दश ब्राह्मणा अथर्वाङ्गिरसः सुहृदोऽदशवृक्षऽ इति सूक्तं जपन्तो व्याधितशरीरमभिमृशन्ति । सर्वग्रहे ब्रह्मग्रहे । ग्रहभैषज्यं समाप्तम् ॥

[क्षेत्रियात्त्वा (२.१०) इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ कौशिकसूत्र ४,३{२७}.७ ॥]
चतुष्पथे गत्वाभ्यातानान्तं कृत्वाऽक्षेत्रियात्त्वाऽ इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्य काम्पीलशकलानि व्याधितपर्वणि दत्त्वा
पिञ्जूलीर्घटे प्रक्षिप्य ततोऽभिषिञ्चति । तत आचमनम् । उत्तरतन्त्रम् । क्षेत्रियग्रहे ॥

[अवसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.८ ॥]
ऽक्षेत्रियात्त्वाऽ इति सूक्तेनोदकघटं सह पिञ्जूलीभिरभिमन्त्र्य चतुष्पथे व्याधितं कृत्वावसिञ्चति । क्षेत्रिये ग्रहे काम्पीलशकलैर्बन्धयित्वा । क्षेत्रियभैषज्यम् । समाप्तानि क्षेत्रियभैषज्यानि ॥

उदकतृषाक्रान्तभैषज्यमुच्यते
[पार्थिवस्य (२.२९) इत्युद्यति पृष्ठसंहितावुपवेशयति ॥ कौशिकसूत्र ४,३{२७}.९ ॥
प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं शाखासूपवेश्य वैतसे चमस उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थमुपमथ्यातृषिताय प्रयच्छति ॥ कौशिकसूत्र ४,३{२७}.१० ॥
तस्मिंस्तृष्णां सन्नयति ॥ कौशिकसूत्र ४,३{२७}.११ ॥]
उदित आदित्ये प्रभाते पृष्ठसंहितावुपवेश्य द्वौ पुरुषौ । प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं वैतसशाखासूपवेश्य वैतसे चमसे सक्तूदकं प्रक्षिप्य वैतसशलाकाभ्यां मन्थं निर्मथ्य तृष्णागृहीतस्य शिरसि मन्थमुपमथ्यऽपार्थिवस्यऽ इति सूक्तेन चमसमभिमन्त्र्य तृषिताय प्रयच्छति यस्य व्याधिर्भवति ॥

[उद्धृतमुदकं पाययति ॥ कौशिकसूत्र ४,३{२७}.१२ ॥]
ऽपार्थिवस्यऽ इति सूक्तेनाप्सूदकमभिमन्त्र्योद्धृत्य पाययति । तृषार्ते भैषज्यम् ॥

[सवासिनौ (२.१९.६) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,३{२७}.१३ ॥]
ऽसवासिनौऽ इति सूक्तेन मन्थमभिमन्त्र्य पाययति । व्याधिताव्याधितावेकवस्त्रपरिहितौ सन्तौ । तृषार्तभैषज्यानि समाप्तानि ॥

अरुषोदरगण्डुलभैषज्यान्युच्यन्ते
[इन्द्रस्य या मही (२.३१) इति खल्वङ्गानलाण्डून् हननान् घृतमिश्राञ्जुहोति ॥ कौशिकसूत्र ४,३{२७}.१४ ॥]
तन्त्रं कृत्वाऽइन्द्रस्य या महीऽ इति सूक्तेन कृष्णचणकान् घृतमिश्राञ्जुहोति । तन्त्रविकल्पः ॥

[बालान् कल्माषे काण्डे सव्यं परिवेष्ट्य सम्भिनत्ति ॥ कौशिकसूत्र ४,३{२७}.१५ ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन गोवालान् । चित्रिते शरे सव्यं परिवेष्ट्य पाषाणेन चूर्णयति ॥

[प्रतपति ॥ कौशिकसूत्र ४,३{२७}.१६ ॥]
ततः सूक्तं जपित्वाग्नौ प्रतपति ॥

[आदधाति ॥ कौशिकसूत्र ४,३{२७}.१७ ॥]
ततः सूक्तान्तेनाग्नावादधाति ॥

[सव्येन दक्षिणामुखः पांसूनुपमथ्य परिकिरति ॥ कौशिकसूत्र ४,३{२७}.१८ ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन सव्ये हस्ते पांसून् कृत्वा दक्षिणेन विमृज्य दक्षिणामुखः स्थितः सूक्तं जपित्वा व्याधितस्योपरि किरति । अरुषीगण्डुलकानां भैषज्यम् ॥

[सम्मृद्नाति ॥ कौशिकसूत्र ४,३{२७}.१९ ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन पांसून्मर्दयति हस्ताभ्यां व्याधितः ॥

[आदधाति ॥ कौशिकसूत्र ४,३{२७}.२० ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन पालाशौदुम्बराद्याः समिध आदधाति । समाप्ता उदरकृमय उदरगण्डुलकाश्च दृष्टकृमयश्च
तेषां भैषज्यम् ॥

अथ गोकृमिभैषज्यान्युच्यन्ते
[उद्यन्नादित्यः (२.३२) इत्युद्यति गोनामेत्याह असौ इति ॥ कौशिकसूत्र ४,३{२७}.२१ ॥
सूक्तान्ते ते हताः इति ॥ कौशिकसूत्र ४,३{२७}.२२ ॥
दर्भैरभ्यस्यति ॥ कौशिकसूत्र ४,३{२७}.२३ ॥]
प्रातःऽउद्यन्नादित्यःऽ इति सूक्तं जपित्वा गोनामोच्चारयित्वा यस्य क्रिमयः ।ऽते हताःऽ इति मन्त्रेण दर्भैराहन्ति क्रिमीणां मुखम् ॥

[मध्यन्दिने च ॥ कौशिकसूत्र ४,३{२७}.२४ ॥]
एतन्मध्यन्दिने कुर्यात् ॥

[प्रतीचीमपराह्णे ॥ कौशिकसूत्र ४,३{२७}.२५ ॥]
आदित्यसम्मुखोऽपराह्णे एतत् । त्रिकाले कर्मसमाप्तिः । गोनामग्रहणम्ऽअसौऽ इति स्थाने ॥

[बालस्तुकामाच्छिद्य खल्वादीनि ॥ कौशिकसूत्र ४,३{२७}.२६ ॥]
ऽउद्यन्नादित्यःऽ इति सूक्तेन घृतमिश्रान् कृष्णचणकाञ्जुहोति । कृमिभैषज्यम् ।ऽउद्यन्नादित्यःऽ इति सूक्तेन कल्माषं शरं
गोवालवेष्टितं धारयति । ततः पाषाणेन चूर्णयति । ततः सूक्तेन प्रतपति । ततः सूक्तेन जपित्वाग्नावादधाति जुहोतीत्यर्थः । कृमिभैषज्यम् ।ऽउद्यन्नादित्यःऽ इति सूक्तेन पांसूनभिमन्त्र्य वामे हस्ते कृत्वा दक्षिणामुखः पांसुना कृमिव्रणं मर्दयति ।ऽउद्यन्नादित्यःऽ इति सूक्तेन पलाशवृक्षादिसमिध आदधाति । समाप्तं सर्वकृमिभैषज्यं मनुष्यगजहस्त्यश्वादियूकालिक्षादिषु कृमिभैषज्यम् ॥

सर्वव्याधिभैषज्यमुच्यते
[अक्षीभ्यां ते (२.३३) इति वीबर्हम् ॥ कौशिकसूत्र ४,३{२७}.२७ ॥
उदपात्रेण सम्पातवतावसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.२८ ॥]
आज्यतन्त्रं कृत्वा व्याधितं पर्वसु बद्ध्वाऽअक्षीभ्यां तेऽ इति सूक्तेनोदपात्रं सम्पात्य ततः पुनः सूक्तं जपित्वावसिच्य व्याधितस्य पर्वग्रन्थीन् विमुञ्चति । तत उत्तरतन्त्रम् । समाप्तमक्षिरोगनासिकाकर्णमूलशिरोजिह्वाग्रीवाराजयक्ष्मादिसर्वव्याधिभैषज्यम् ।ऽअक्षीभ्यां तेऽ इति सूक्तेनाभिमन्त्रयते व्याधितम् । सर्वव्याधिभैषज्यं समाप्तम् ॥

अथ क्षेत्रियव्याधिभैषज्यान्युच्यन्ते
[हरिणस्य (३.७) इति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रेऽवसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.२९ ॥]
तन्त्रं कृत्वाऽहरिणस्यऽ इति सूक्तेन हरिणशृङ्गमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । क्षेत्रियभैषज्यम् ।ऽहरिणस्यऽ इति सूक्तेन हरिणशृङ्गेण सहोदकमभिमन्त्र्य पाययत्याचामयति च । अथोषाकाल एतत्कर्म । हरिणवर्म शङ्कुधानं प्रज्वाल्योदके प्रक्षिप्य ततोऽहरिणस्यऽ इत्यभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनमाचमनं च । क्षेत्रियभैषज्यम् ॥

[अमितमात्रायाः सकृद्गृहीतान् यवानावपति ॥ कौशिकसूत्र ४,३{२७}.३० ॥]
ऽहरिणस्यऽ इति सूक्तेन यवाञ्जुहोति प्रत्यृचं राशेरपरिमितान्मध्यात्सकृद्ग्राह्या यवा इत्यर्थः । क्षेत्रियभैषज्यम् ॥

[भक्तं प्रयच्छति ॥ कौशिकसूत्र ४,३{२७}.३१ ॥]
ऽहरिणस्यऽ इति सूक्तेन भक्तमभिमन्त्र्य भोजने प्रपाद्य प्रयच्छति । समाप्तं क्षेत्रियभैषज्यम् । बालरोगगृहीते च ॥

मैथुनदोषव्याधिभैषज्यान्युच्यन्ते
[मुञ्चामि त्वा (३.३१) इति ग्राम्ये पूतिशफरीभिरोदनम् ॥ कौशिकसूत्र ४,३{२७}.३२ ॥]
ऽमुञ्चामि त्वाऽ इति सूक्तेन पूतिगन्धमत्स्यसहितमोदनमभिमन्त्र्य व्याधिताय प्रयच्छति भक्षणार्थं भोजनकाले ॥
[अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रेऽवसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.३३ ॥]
ऽमुञ्चामि त्वाऽ इति सूक्तेनारण्यकतिलैः प्रज्वालितमुदकं पात्रे प्रक्षिपति । ततोऽभिमन्त्र्योषाकालेऽवसिञ्चति व्याधितम् । मैथुनराजयक्ष्मणि भैषज्यम् । उषाकाल इदं कर्म ।ऽमुञ्चामि त्वाऽ इति सूक्तेनारण्यशणेनावज्वालितमुदकमभिमन्त्र्यावसिञ्चति । मार्जनमाचमनं च । मैथुनव्याधिभैषज्यम् ।ऽमुञ्चामि त्वाऽ इति सूक्तेनारण्यगोमयेनावज्वालितमुदकमभिमन्त्र्यावसिञ्चत्युषाकाले । मार्जनमाचमनं च । मैथुनव्याधिभैषज्यम् । उषाकालेऽमुञ्चामि त्वाऽ इति सूक्तेन चित्याद्याभिः प्रज्वालितमुदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनमाचमनं च । केचित्तिलशणादिचतुर्षु कर्मस्वरण्येऽवसेकमिच्छन्ति । केचिद्गृहेऽवसेकमिच्छन्ति । विकल्पः । समाप्तं मैथुनव्याधिभैषज्यम् ।ऽमुञ्चामि त्वाऽ इति सूक्तेन व्याधितमभिमन्त्रयते । सर्वव्याधिभैषज्यम् ॥

अथ सर्वभैषज्यान्युच्यन्ते
[मृगारैः मुञ्च (१.१२.३) इत्याप्लावयति ॥ कौशिकसूत्र ४,३{२७}.३४ ॥]
अभ्यातानान्तं कृत्वाऽआ गावःऽ (४.२१३०) इति दशभिः सूक्तैर्घटमुदकपूर्णं सम्पात्याभिमन्त्र्य व्याधितमाप्लावयति । मार्जनाचमने स्मर्तव्ये । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । तन्त्रं कृत्वाऽमुञ्च शीर्षक्त्याःऽ इत्यृचोदकघटं सम्पात्याभिमन्त्र्याप्लावयति व्याधितम् । अभ्यातानाद्युत्तरतन्त्रम् । आप्लवने सर्वत्र मार्जनाचमने च । सर्वव्याधिभैषज्यं समाप्तम् ॥ तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २७ ॥


________________________________


स्कन्दविषभैषज्यान्युच्यन्ते
[ब्राह्मणो जज्ञे (४.६) इति तक्षकायाञ्जलिं कृत्वा जपन्नाचमयत्यभ्युक्षति ॥ कौशिकसूत्र ४,४{२८}.१ ॥]
तक्षकदेवतायै नमस्कारं कृत्वा ततोऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ (४.७) इति सूक्ताभ्यामुदकमभिमन्त्र्याचामयति विषकरम् । तक्षकाय नमस्कारं कृत्वाऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य सम्प्रोक्षति विषदुष्टम् । स्कन्दविषभैषज्य ॥

[कृमुकशकलं सङ्क्षुद्य दूर्शजरदजिनावकरज्वालेन ॥ कौशिकसूत्र ४,४{२८}.२ ॥]
ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां कृमुकवृक्षशकलं सहोदकमभिमन्त्र्य तत आचामयति । स्कन्दविषभैषज्यम् ।ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां कृमुकवृक्षशकलं सहोदकमभिमन्त्र्याभ्युक्षति । ततो मार्जनमाचमनं च सर्वं तूष्णीम् । दूर्शावज्वालितमुदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनाचमने च । सर्वं तूष्णीम् ।ऽब्राह्मणो जज्ञेऽ इति सूक्ताभ्यां जीर्णहरिणचर्मावज्वालितमुदके प्रक्षिप्य तमभिमन्त्र्य ततोऽवसिञ्चति । विषभैषज्यम् ।ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां सम्मार्जनिकावकरतृणैरवज्वालितमुदकमभिमन्त्र्यावसिञ्चति । स्कन्दविषभैषज्यम् ॥

[सम्पातवत्युदपात्र ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थमुपमथ्य रयिधारणापिण्डानन्वृचं प्रकीर्य छर्दयते ॥ कौशिकसूत्र ४,४{२८}.३ ॥]
अभ्यातानान्तं कृत्वाऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति विषदुष्टम् । विषभैषज्यम् ।ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां विषलिप्ताभ्यां फलाभ्यां सक्तुमन्थमुपमथ्य ततोऽभिमन्त्र्य पाययति । विषभैषज्यम् ।ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां मदनफलानि प्रत्यृचमभिमन्त्र्य भक्षयति । यथा छर्दयति तथा च कर्तव्यम् । स्कन्दविषभैषज्यम् ॥

[हरिद्रां सर्पिषि पाययति ॥ कौशिकसूत्र ४,४{२८}.४ ॥]
ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां हरिद्रां सर्पिषा सहितामभिमन्त्र्य पाययति । समाप्तं स्कन्दविषभैषज्यम् ॥

अथ शस्त्राद्यभिघाते रुधिरप्रवाहे भैषज्यान्युच्यन्ते
[रोहणी (४.१२) इत्यवनक्षत्रेऽवसिञ्चति ॥ कौशिकसूत्र ४,४{२८}.५ ॥]
ऽरोहण्यसिऽ इति सूक्तेन लाक्षोदकं क्वाथितमभिमन्त्र्य व्याधिदेशमवसिञ्चति । उषाकाले कर्म । अस्थिभङ्गे रुधिरप्रवाहे दंशशस्त्राभिघातादौ भैषज्यम् ॥

[पृषातकं पाययत्यभ्यनक्ति ॥ कौशिकसूत्र ४,४{२८}.६ ॥]
ऽरोहण्यसिऽ इति पृषातकं घृतमिश्रं दुग्धमभिमन्त्र्य पाययति ।ऽरोहण्यसिऽ इति सूक्तेन क्षीरं घृतमिश्रं कृत्वा व्याधिदेशं म्रक्षति ।
अङ्गभङ्गेऽङ्गछेदेऽङ्गरुधिरप्रवाहेऽङ्गाभिघातेऽङ्गभग्नेऽङ्गमूढाभिघातेऽङ्गवृक्षाभिघाते मुष्टिलोष्टेष्टिकापशुशृङ्गाग्नि पाषाणलकुटशस्त्राद्यभिघाते रुधिरप्रवाहे वा शरीरछेदादौ भैषज्यं समाप्तम् ॥

अथ रक्षोभैषज्यमुच्यते
[आ पश्यति (४.२०) इति सदम्पुष्पामणिं बध्नाति ॥ कौशिकसूत्र ४,४{२८}.७ ॥]
तन्त्रं कृत्वाऽआ पश्यतिऽ इति सूक्तेन सदम्पुष्पामणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सदम्पुष्पा त्रिसन्ध्या प्रसिद्धा । ब्रह्मग्रहे क्षत्रियग्रहे वैश्यग्रहे शूद्रग्रहे वान्येषां व्यन्तराणां पिशाचानां रक्षसां च भैषज्यं समाप्तम् ॥

अथ सर्वव्याधिभैषज्यमुच्यते
[भवाशर्वौ (४.२८) इति सप्त काम्पीलपुटानपां पूर्णान् सम्पातवतः कृत्वा दक्षिणेनावसिच्य पश्चाद्विध्यति ॥ कौशिकसूत्र ४,४{२८}.८ ॥]
अभ्यातानान्तं कृत्वाऽभवाशर्वौ मन्वे वाम्ऽ इति सूक्तेन सप्तर्चेनैकैकयर्चा काम्पीलसप्तपुटकानुदकपूर्णान् सम्पात्यर्चर्चा ततः प्रत्यृचमभिमन्त्र्य ततो व्याधितमवसिञ्चति । ततः पुटं पश्चात्क्षिपति । एवं द्वितीयमेवं तृतीयम् । तत उत्तरतन्त्रम् । समाप्तं सर्वव्याधिभैषज्यम् ॥

सर्वभूतग्रहभैषज्यमुच्यते
[त्वया पूर्वम् (४.३७) इति कोशेन शमीचूर्णानि भक्ते ॥ कौशिकसूत्र ४,४{२८}.९ ॥]
ऽत्वया पूर्वम्ऽ इति सूक्तेन शमीपर्णचूर्णं शमीफले कृत्वाभिमन्त्र्य सक्तुमध्ये ददाति भक्षार्थम् । रक्षोग्रहे भैषज्यम् ॥

[अलङ्कारे ॥ कौशिकसूत्र ४,४{२८}.१० ॥]
ऽत्वया पूर्वम्ऽ इति सूक्तेन शमीपर्णचूर्णं शमीफले कृत्वाभिमन्त्र्यालङ्कारे ददाति व्याधितस्य । सर्वग्रहभैषज्यम् ॥

[शालां परितनोति ॥ कौशिकसूत्र ४,४{२८}.११ ॥]
ऽत्वया पूर्वम्ऽ इति सूक्तेन शमीचूर्णं कृत्वाभिमन्त्र्य शालां चूर्णैः परिकिरति । व्याधितस्य शालाम् । रक्षोग्रहाप्सरोग्रहगन्धर्वग्रहसर्वग्रहभैषज्यं समाप्तम् ॥

अथामतिगृहीते भैषज्यमुच्यते
[उतामृतासुः (५.७१) इत्यमतिगृहीतस्य भक्तं प्रयच्छति ॥ कौशिकसूत्र ४,४{२८}.१२ ॥]
ऽउतामृतासुःऽ इत्यृचा भोजनकाले भक्तमभिमन्त्र्य ददाति भक्षणार्थं प्रज्ञाप्रनष्टेऽज्ञानगृहीतेऽधर्मगृहीते त्रिवर्गे च विनष्टे द्यूतक्रीडाद्यतिप्रत्ते कुबुद्धिभैषज्यम् ॥

राजयक्ष्मणि शिरोरोगे कुष्ठामये सर्वगात्रवेदनायां भैषज्यमुच्यते
[कुष्ठलिङ्गाभिर्नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति ॥ कौशिकसूत्र ४,४{२८}.१३ ॥]
ऽयो गिरिष्वजायथाःऽ (५.४) इति सूक्तेनऽत्रिः शाम्बुभ्यो अङ्गिरेभ्यःऽ (१९.३९.५८) इति चतुरृचेन कुष्ठपिष्टं नवनीतमिश्रं कृत्वाभिमन्त्र्याप्रतीहारं व्याधितस्य शरीरं प्रलिम्पति । राजयक्ष्मणि शिरोरोगे कुष्ठामये सर्वगात्रवेदनासु भैषज्यं समाप्तम् ॥

अथ शस्त्राद्यभिघाते भैषज्यमुच्यते
[लाक्षालिङ्गाभिर्दुग्धे फाण्टान् पाययति ॥ कौशिकसूत्र ४,४{२८}.१४ ॥]
ऽरात्री माताऽ (५.५) इति सूक्तेन दुग्धे लाक्षां क्वाथयित्वाभिमन्त्र्य पाययति । शस्त्राद्यभिघाते पाषाणपतनाभिघातेऽग्निदाहे सर्वशरीराभिघाते भैषज्यं समाप्तम् ॥

सूतिका स्त्री अरिष्टकस्य च भैषज्यान्युच्यन्ते
[ब्रह्म जज्ञानम् (५.६) इति सूतिकारिष्टकौ प्रपादयति ॥ कौशिकसूत्र ४,४{२८}.१५ ॥]
ऽब्रह्म जज्ञानम्ऽ (५.६.१)ऽअनाप्ता येऽ (५.६.२)ऽसहस्रधार एव तेऽ (५.६.३) इति सूक्तेन भक्तमभिमन्त्र्य ददाति
भक्षणार्थम् । पूर्वं स्त्री प्रवेश्य तूष्णीं ततः पश्चात्कर्ता तूष्णीं प्रविश्य सूक्तेन भक्तमभिमन्त्र्य दद्यात् ॥

[मन्थाचमनोपस्थानमादित्यस्य ॥ कौशिकसूत्र ४,४{२८}.१६ ॥]
ऽब्रह्म जज्ञानम्ऽऽअनाप्ता येऽऽसहस्रधार एव तेऽ इति सूक्तेन सक्तुमन्थमभिमन्त्र्य पाययति । तेनैव सूक्तेनोपस्थानमादित्यस्य ।ऽब्रह्म जज्ञानम्ऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति । समाप्तं स्त्रीप्रसवदोषे सूतिकारोगे च भैषज्यम् । अद्भुतदर्शने दोषनाशनभैषज्यं समाप्तम् ॥ सर्वाद्भुतेषु भक्तकर्म वाचमनकर्म वा कुर्यात् । यानि चरकादिवैद्यकेष्वद्भुतानि पठ्यन्तेऽस्वस्थशारीरविषये तेषां सर्वेषामियं शान्तिर्भैषज्यं भवति । यानि चाद्भुतानि शरीररोगे ज्योतिषे पठ्यन्ते तेषामपीदं कर्म ॥

अथ सर्वव्याधिभैषज्यमुच्यते
[दिवे स्वाहा (५.९) इमं यवम् (६.९१) इति चतुर उदपात्रे सम्पातानानयति ॥ कौशिकसूत्र ४,४{२८}.१७ ॥]
तन्त्रं कृत्वाऽदिवे स्वाहाऽ इति सूक्तेन चतुर उदपात्रे सम्पातानानयति ॥

[द्वौ पृथिव्याम् ॥ कौशिकसूत्र ४,४{२८}.१८ ॥
तौ प्रत्याहृत्याप्लावयति ॥ कौशिकसूत्र ४,४{२८}.१९ ॥]
द्वौ सम्पातौ भूमौ दत्त्वा ततः सम्पातितां भूमिमृत्तिकां सङ्गृह्य तत उदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणं कृत्वा व्याधितमाप्लावयति ।ऽदिवे स्वाहाऽ इति त्रिभिः स्वाहाकारैरेकः सम्पातः । त्रिभिः स्वाहाकारैस्त्रयः सम्पाताः । द्वौ द्वाभ्यामृग्भ्यां सम्पातौ । एवं षड्भवन्ति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽइमं यवम्ऽ इति सूक्तेनार्धर्चेनार्धर्चेन होमः । उदपात्रे सम्पातानानीय द्वौ भूमौ सम्पातौ । तौ गृहीत्वोदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणम् । तत आप्लावयति व्याधितम् । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् ॥

[सयवे चोत्तरेण यवं बध्नाति ॥ कौशिकसूत्र ४,४{२८}.२० ॥]
अभ्यातानान्तं कृत्वाऽदिवे स्वाहाऽ इति सूक्तेन षट्सम्पातान् करोति यवसहित उदपात्रे चतुरः सम्पातानानयति । द्वौ सम्पातौ भूमौ दत्त्वा मृत्तिकामुदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणमाप्लावनं च । अभ्यातानाद्युत्तरतन्त्रम् ।ऽदिवे स्वाहाऽ इति त्रिभिः स्वाहाकारैरेकः सम्पातः । अन्यत्सर्वं यथार्थं कुर्यात् । एवं षट्सर्वत्र कुर्यात् । तन्त्रं कृत्वाऽइमं यवम्ऽ इति सूक्तेनार्धर्चेन षढोमान् कृत्वा चतुर उदपात्रे सम्पातानानयति । द्वौ पृथिव्याम् । तावुदपात्रे प्रक्षिप्य ततः सूक्तेनाभिमन्त्रणम् । यवसहित उदपात्रे सम्पाताः । ततोऽभिषेचनं मार्जनमाचमनं च । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यं समाप्तम् । अभ्यातानान्तं कृत्वाऽइमं यवम्ऽ इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । शीतज्वरक्षुद्रज्वरकामज्वरश्लेष्मज्वरग्रीष्मज्वर वर्षाज्वरदानद्रव्यत्यागप्रतिग्रहयाजनाध्ययनाध्यापनयाज्ययाजनबुद्धिध्वान्ते अक्षिपटलोद्वेगे स्त्रीषु पुरुषेषु पापलक्षणापकामहृदय तापहर्षविषादापस्मारेषु । सर्वशब्देन कथ्यन्ते । सर्वव्याधिभैषज्यं यत्र एकस्मिन् व्याधौ बहूनि कर्माणि विहितानि सर्वस्मिन् शास्त्रे तत्र सर्वत्र कर्मणां विकल्पः । यत्राभिषेकोऽवसेचनं तत्राचमनं मार्जनं च सर्वत्र ॥ चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २८ ॥


________________________________


सर्पविषभैषज्यमुच्यते
[ददिर्हि (५.१३) इति तक्षकायेत्युक्तम् ॥ कौशिकसूत्र ४,५{२९}.१ ॥]
तक्षकाय नमस्कारं कृत्वाऽददिर्हिऽ इत्यृचोदकमभिमन्त्र्याचामयति सर्पादिविषभैषज्यम् । तक्षकाय नमस्कारं कृत्वाऽददिर्हिऽ इत्यृचोदकमभिमन्त्र्यावसिञ्चति विषदष्टम् । विषभैषज्यम् ।ऽददिर्हिऽ इत्यृचा कृमुकवृक्षशकलं सङ्घृष्य तत उदकं च प्रक्षिप्य ततोऽभिमन्त्र्यावसिञ्चति विषधारितम् ।ऽददिर्हिऽ इत्यृचोदकं चर्माग्निप्रज्वालितमभिमन्त्र्य व्याधितमवसिञ्चति ।ऽददिर्हिऽ इत्यृचा हरिणजीर्णचर्मावज्वालितमुदकमभिमन्त्र्यावसिञ्चति ।ऽददिर्हिऽ इत्यृचा मार्जनिकावकरतृणावज्वालितोदकमभिमन्त्र्या वसिञ्चति । जङ्गमविषभैषज्यम् । अभ्यातानान्तं कृत्वाऽददिर्हिऽ इत्यृचोदपात्रं सम्पात्य ततः पाययति ।ऽददिर्हिऽ इत्यृचा सक्तुमन्थमूर्ध्वफलाभ्यां विषलिप्ताभ्यां मथित्वाभिमन्त्र्य पाययति सर्पदष्टम् । जङ्गमविषभैषज्यम् ।ऽददिर्हिऽ इत्यृचा मदनफलमभिमन्त्र्य भक्षयति छर्दनार्थम् । जङ्गमविषभैषज्यम् ।ऽददिर्हिऽ इत्यृचा हरिद्रां घृतं च सहाभिमन्त्र्य पाययति । जङ्गमविषभैषज्यम्.

[द्वितीयया ग्रहणी ॥ कौशिकसूत्र ४,५{२९}.२ ॥
सव्यं परिक्रामति ॥ कौशिकसूत्र ४,५{२९}.३ ॥]
ऽयत्ते अपोदकम्ऽ (५.१३.२) इत्यृचाप्रदक्षिणं व्याधितं परिक्रामति । विषस्तम्भनभैषज्यम् । विषं स्तम्भितं नान्येनोत्तारयितुं शक्यते वन वेदमन्त्रेण ॥

[शिखासिचि स्तम्बानुद्ग्रथ्नाति ॥ कौशिकसूत्र ४,५{२९}.४ ॥]
ऽयत्ते अपोदकम्ऽ इत्यृचं जपित्वा शिखां बध्नाति । विषस्तम्भनभैषज्यम् ।ऽयत्ते अपोदकम्ऽ इत्यृचं जपित्वा श्वेतवस्त्रेण ग्रन्थिं बध्नाति । विषस्तम्भनभैषज्यम् ।ऽयत्ते अपोदकम्ऽ इत्येकां जपित्वा शणस्तम्बे ग्रन्थिं बध्नाति । विषं न विसर्पति । देशस्थितं भवति । शरीरे न सर्पति । विषस्तम्भनं भवति ॥

[तृतीयया प्रसर्जनी ॥ कौशिकसूत्र ४,५{२९}.५ ॥]
ऽवृषा मे रवःऽ (५.१३.३) इत्यृचा यस्मिन् स्थाने दष्टं तं स्थानं पीडयति ऋचं जपित्वा । देशाद्विषमन्यत्र गच्छति । विषनाशने भैषज्यम् ॥

[चतुर्थ्या दक्षिणमपेहि (७.८८.१) इति दंश्म तृणैः प्रकर्ष्याहिमभिनिरस्यति ॥ कौशिकसूत्र ४,५{२९}.६ ॥]
ऽचक्षुषा ते चक्षुःऽ (५.१३.४) इत्यृचाचार्यस्ततः प्रदक्षिणं परिक्रामति ।ऽअपेह्यरिरसिऽ इत्यृचं जपित्वा तृणानि प्रज्वाल्य ततोऽहेरभिमुखं क्षिपति ॥

[यतो दष्टः ॥ कौशिकसूत्र ४,५{२९}.७ ॥]
ऽअपेह्यरिरसिऽ इत्यृचं जपित्वा यतो दष्टस्ततो ज्वलिततृणानि क्षिपति दशने ॥

[पञ्चम्या वलीकपललज्वालेन ॥ कौशिकसूत्र ४,५{२९}.८ ॥]
ऽकैरात पृश्नेऽ (५.१३.५) इत्यृचोदकं गृहतृणावज्वालितमभिमन्त्र्य व्याधितं पाययति प्रोक्षति च ॥

[षष्ठ्यार्त्नीज्यापाशेन ॥ कौशिकसूत्र ४,५{२९}.९ ॥]
ऽअसितस्यऽ (५.१३.६) इत्यृचार्त्नीज्यापाशं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । विषभैषज्यम् ॥

[द्वाभ्यां मधूद्वापान् पाययति ॥ कौशिकसूत्र ४,५{२९}.१० ॥]
ऽआलिगी च विलिगी चऽ (५.१३.७)ऽउरुगलायाःऽ (५.१३.८) इति द्वाभ्यां मधुमक्षिकां मधुवृक्षमृत्तिकां चाभिमन्त्र्य पाययति ॥

[नवम्या श्वावित्पुरीषम् ॥ कौशिकसूत्र ४,५{२९}.११ ॥]
ऽकर्णा श्वावित्तदब्रवीत्ऽ (५.१३.९) इत्यृचा शुकसारिकृशानां पुरीषं श्वावित्पुरीषमित्युच्यते । पुरीषमभिमन्त्र्य पाययति विषदष्टम् ॥

[त्रिःशुक्लया मांसं प्राशयति ॥ कौशिकसूत्र ४,५{२९}.१२ ॥]
ऽकर्णा श्वावित्तदब्रवीत्ऽ इत्यृचा शललीमांसमभिमन्त्र्य प्राशयति । विषनाशनभैषज्यम् ॥

[दशम्यालाबुनाचमयति ॥ कौशिकसूत्र ४,५{२९}.१३ ॥]
ऽताबुवं न ताबुवम्ऽ (५.१३.१०) इत्यृचालाबुमध्य उदकं प्रक्षिप्य ततोऽभिमन्त्र्याचामयति । सर्पविषभैषज्यम् ॥

[एकादश्या नाभिं बध्नाति ॥ कौशिकसूत्र ४,५{२९}.१४ ॥]
ऽतस्तुवं न तस्तुवम्ऽ (५.१३.११) इत्यृचालाबुवृन्तं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । सर्पविषदष्टम् । सर्वत्र कर्मणां प्रयोगो विकल्पेन न समुच्चयः । एकं कुर्याद्द्वे वा त्रीणि वा सर्वाणि वा । समाप्तं सर्पविषभैषज्यम् । एकव्याधौ यत्र बहूनि कर्माणि विहितानि तत्रैकं वा कुर्यात्कर्मबाहुल्याद्द्वे वा सर्वाणि वा ।ऽसर्वत्र हस्तहोमे न तन्त्रम्ऽ इति वचनात् ॥

अथ दुष्टवक्तॄणां मुखबन्धनमुच्यते
[मधुलावृषलिङ्गाभिः खलतुलपर्णी सङ्क्षुद्य मधुमन्थे पाययति ॥ कौशिकसूत्र ४,५{२९}.१५ ॥]
ऽएका च मेऽ (५.१५)ऽयद्येकवृषोऽसिऽ (५.१६) इति सूक्ताभ्यां कुलपल्लवान्मधूदकं चैतत्त्रितयमेकत्र कृत्वाभिमन्त्र्य ततो व्याधित पाययति । दुष्टवक्तृमुखबन्धनभैषज्यम् । दुष्टपुरुषाः परोक्षे न वदन्ति ॥

[उत्तराभिर्भुङ्क्ते ॥ कौशिकसूत्र ४,५{२९}.१६ ॥]
ऽयद्येकवृषःऽ इति सूक्तेन भोजनमभिमन्त्र्य भक्षयति । शापभैषज्यम् । अकृतवत्कृतपापभैषज्यम् ॥

[द्वारं सृजति ॥ कौशिकसूत्र ४,५{२९}.१७ ॥]
ऽयद्येकवृषःऽ इति सूक्तेन गृहद्वारं ददात्यपिदधातीत्यर्थः । प्रविशतीत्यर्थः । दुष्टवक्तृमुखबन्धने ब्राह्मणशापे च भैषज्यम् ॥

अथ ज्वरभैषज्यमुच्यते
[अग्निस्तक्मानम् (५.२२) इति लाजान् पाययति ॥ कौशिकसूत्र ४,५{२९}.१८ ॥]
ऽअग्निस्तक्मानम्ऽ इति सूक्तेन लाजान् पाययति । सर्वज्वरभैषज्यम् ॥

[दावे लोहितपात्रेण मूर्ध्नि सम्पातानानयति ॥ कौशिकसूत्र ४,५{२९}.१९ ॥]
अभ्यातानान्तं कृत्वाऽअग्निस्तक्मानम्ऽ इति सूक्तेन ताम्रस्रुवेण मूर्ध्नि सम्पातानानयति । तत उत्तरतन्त्रम् । एतस्मिन् तन्त्रे दावाग्निप्रणयनम् । समाप्तं ज्वरभैषज्यम् । सर्वज्वरे कुर्यात् ॥

अथ कृमिभैषज्यमुच्यते
[ओते मे (५.२३) इति करीरमूलं काण्डेनैकदेशम् ॥ कौशिकसूत्र ४,५{२९}.२० ॥]
अभ्यातानान्तं कृत्वाऽओते मेऽ इति सूक्तेन करीरमूलं सम्पात्यभिमन्त्र्य बध्नाति ।ऽओते मेऽ इति सूक्तेन गोवालैः करीरकाष्ठं वेष्टयित्वा । सूक्तं जपित्वा पाषाणेन चूर्णयति । ततः सूक्तेनाग्नौ प्रतपति । ततः सूक्तेनादधाति । तत उत्तरतन्त्रम् । कृमिभैषज्यम् ॥

[ग्रामात्पांसून् ॥ कौशिकसूत्र ४,५{२९}.२१ ॥]
ऽओते मेऽ इति सूक्तेन ग्रामपांसूनभिमन्त्र्य सव्येन हस्तेन दक्षिणाभिमुखो भूत्वा पांसून् परिकिरति । सर्वकृमिभैषज्यम् ।ऽओते मेऽ इति सूक्तेन पांसूनभिमन्त्र्य मथित्वा हस्तेन कृमेरुपरि क्षिपति ।ऽओते मेऽ इति सूक्तेन शान्तवृक्षसमिध आदधाति । कृमिभञ्जनम् । मुखकृमिकर्णकृमिसर्वकृमिभैषज्यम् ॥

[पश्चादग्नेर्मातुरुपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालुनि तापयति ॥ कौशिकसूत्र ४,५{२९}.२२ ॥]
ऽओते मेऽ इति सूक्तेन पश्चादग्नेर्मातुरुत्सङ्गे बालकं कृत्वा नवनीतान्वक्तेन मुसलबुध्नेन तालुनि तापयति । त्रिः सूक्तप्रयोगः । अपानकृमिं शिरसि वा तस्य । सर्वकृमिभैषज्यम् ॥

[शिग्रुभिर्नवनीतमिश्रैः प्रदेग्धि ॥ कौशिकसूत्र ४,५{२९}.२३ ॥]
ऽओते मेऽ इति सूक्तेन शिग्रुबीजैर्नवनीतमिश्रितैरभिमन्त्र्य व्याधिदेशं प्रलिम्पति क्षतदेशम् । कृमिभैषज्यम् ॥

[एकविंशतिमुशीराणि भिनद्मि (५.२३.१३) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,५{२९}.२४ ॥]
ऽओते मेऽ इति सूक्तेनैकविंशत्युशीरमूलान्यभिमन्त्र्य ततः पाषाणेन कुट्टयति । ततः सूक्तं जपित्वोशीराण्यग्निना दहति ॥

[उशीराणि प्रयच्छति ॥ कौशिकसूत्र ४,५{२९}.२५ ॥]
ऽओते मेऽ इति सूक्तेनैकविंशत्युशीराण्यभिमन्त्र्य व्याधिताय समर्पयति । कृमिभैषज्यम् ॥

[एकविंशत्या सहाप्लावयति ॥ कौशिकसूत्र ४,५{२९}.२६ ॥]
ऽओते मेऽ इति सूक्तेनोदकघटमेकविंशत्युशीरपिञ्जूलीसहितं सम्पात्याभिमन्त्र्य ततो व्याधितमाप्लावयत्याज्यतन्त्रे । कृमिजातानामक्षिकर्णमुखशिरोनासिकादन्तकृमीणां कृष्मश्वेतपीतदृष्टानामदृष्टानां च सर्वेषां कृमीणां भैषज्यम् । समाप्तं कृमिभैषज्यम् ॥

अथ राक्षसभैषज्यमुच्यते । तत्राह
[आ यं विशन्ति (६.२.२) इति वयोनिवेशनशृतं क्षीरौदनमश्नाति ॥ कौशिकसूत्र ४,५{२९}.२७ ॥]
अभ्यातानान्तं कृत्वाऽआ यं विशन्तिऽ इत्यृचा वयोनिवेशनकाष्ठशृतं क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ।
राक्षसभैषज्यं समाप्तम् ॥

अथ सर्पविषभैषज्यमुच्यते
[परि द्यामिव (६.१२) इति मधुशीभं पाययति ॥ कौशिकसूत्र ४,५{२९}.२८ ॥]
ऽपरि द्यामिवऽ इति तृचेन सूक्तेन मधुशीभमभिमन्त्र्य पाययति । मधुक्रोडमित्यर्थः । सर्पविषलिङ्ग्युपतापः ॥

[जपंश्च ॥ कौशिकसूत्र ४,५{२९}.२९ ॥]
ऽपरि द्यामिवऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति । विषभैषज्यम् ।ऽपरि द्यामिवऽ इति सूक्तेनोदकमभिमन्त्र्य सम्प्रोक्षति । विषभैषज्यम् ।ऽपरि द्यामिवऽ इति सूक्तेन दुल्लकावज्वालितमुदकमभिमन्त्र्यावसिञ्चति व्याधितम् ।ऽपरि द्यामिवऽ इति सूक्तेनावकरतृणान्यवज्वालितमुदकमभिमन्त्र्यावसिञ्चति । तन्त्रं कृत्वाऽपरि द्यामिवऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य पाययति । तत उत्तरतन्त्रम् ।ऽपरि द्यामिवऽ इति सूक्तेनोर्ध्वफलाभ्यां विषदिग्धाभ्यां मन्थमुपमथ्य ततोऽभिमन्त्र्य पाययति ।ऽपरि द्यामिवऽ इति सूक्तेन मदनफलान्यभिमन्त्र्य भक्षयति छर्दनार्थम् ।ऽपरि द्यामिवऽ इति हरिद्रां सर्पिष्यभिमन्त्र्य पाययति । समाप्तं सर्पविषभैषज्यम् ॥

श्लेष्मभैषज्यमुच्यते
[अस्थिस्रंसम् (६.१४) इति शकलेनाप्स्विटे सम्पातवतावसिञ्चति ॥ कौशिकसूत्र ४,५{२९}.३० ॥]
उदक इदं क्रियते । अप्स्विटं कृत्वा तत्राग्निं प्रज्वाल्यऽअस्थिस्रंसम्ऽ इति सूक्तेन काष्ठशकलं सम्पात्य तेन शकलेन व्याधितमवसिञ्चति । मार्जनमाचमनं च । श्लेष्मभैषज्यम् । न तन्त्रम् । पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २९ ॥


________________________________


अथाक्षिरोगभैषज्यमुच्यते
[आबयो (६.१६) इति सार्षपं तैलसम्पातं बध्नाति ॥ कौशिकसूत्र ४,६{३०}.१ ॥]
अभ्यातानान्तं कृत्वाऽआबयो अनाबयोऽ इति सूक्तेन चतुरृचेन सर्षपकाण्डमणिं सम्पात्याभिमन्त्र्य बध्नाति । सर्षपतैलेन सम्पातवन्तं करोति । तन्त्रकृतेनैव । ततोऽभ्यातानाद्युत्तरतन्त्रम् । अक्षिरोगे भैषज्यम् ॥

[काण्डं प्रलिप्य ॥ कौशिकसूत्र ४,६{३०}.२ ॥]
अभ्यातानान्तं कृत्वाऽआबयो अनाबयोःऽ इति सूक्तेन सर्षपकाण्डमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आज्येन प्रधानमङ्गानि च । सर्षपतैलेनाभ्यज्य मणिं ततो बध्नाति । अक्षिरोगे भैषज्यम् ॥

[पृक्तं शाकं प्रयच्छति ॥ कौशिकसूत्र ४,६{३०}.३ ॥]
ऽआबयोऽ इति सूक्तेन सर्षपशाकं सर्षपतैलेनाभ्यक्तमभिमन्त्र्य व्याधिताय प्रयच्छति । अक्षिरोगे ॥

[चत्वारि शाकफलानि प्रयच्छति ॥ कौशिकसूत्र ४,६{३०}.४ ॥]
ऽआबयोऽ इति सूक्तेन चत्वारि शाकवृक्षफलान्यभिमन्त्र्य प्रयच्छति व्याधिताय । अक्षिरोगे ॥

[क्षीरलेहमाङ्क्ते ॥ कौशिकसूत्र ४,६{३०}.५ ॥]
ऽआबयोऽ इति सूक्तेन मूलक्षीरं मुखेन प्राश्य ततोऽभिमन्त्र्याक्षिणी आङ्क्ते व्याधितस्य । मूलक्षीरं पाटिकालग्नं तदुच्यते ॥

[अश्नाति ॥ कौशिकसूत्र ४,६{३०}.६ ॥]
तन्त्रं कृत्वाऽआबयोऽ इति सूक्तेन मूलक्षीरं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । समाप्तमक्षिरोगे भैषज्यम् ॥

पित्तज्वरभैषज्यमुच्यते
[अग्नेरिव (६.२०) इत्युक्तं दावे ॥ कौशिकसूत्र ४,६{३०}.७ ॥]
तन्त्रं कृत्वाऽअग्नेरिवास्य दहत एति शुष्मिणःऽ इति तृचेन ताम्रस्रुवेण मूर्ध्नि सम्पातानानयति । तत उत्तरतन्त्रम् । अस्मिन् तन्त्रे दावाग्निप्रणयनं कुर्यात् । समाप्तं पित्तज्वरभैषज्यम् ॥

अथ केशवृद्धिकरणे केशपतने च भैषज्यमुच्यते
[इमा यास्तिस्रः (६.२१) इति वृक्षभूमौ जाताज्वालेनावसिञ्चति ॥ कौशिकसूत्र ४,६{३०}.८ ॥]
ऽइमा यास्तिस्रःऽ इति तृचेन सूक्तेन वृक्षभूमिजातौषधिभिरवज्वालितमुदकमभिमन्त्र्योषाकालेऽवसिञ्चति । केशवृद्धौ केशपतने च भैषज्यम् । उषाकाल इदं कर्म ॥

[शीर्षफाण्टाक्षैः ॥ कौशिकसूत्र ४,६{३०}.९ ॥]
ऽइमा यास्तिस्रःऽ इति सूक्तेन मधुसिक्थकं क्वाथयित्वाभिमन्त्र्यावसिञ्चति । उषाकालेऽइमा यास्तिस्रःऽ इति सूक्तेन बिभीतकानि क्वाथयित्वाभिमन्त्र्य व्याधितमवसिञ्चति । केशभैषज्यम् ॥

[निकटाभ्याम् ॥ कौशिकसूत्र ४,६{३०}.१० ॥]
उषाकालेऽइमा यास्तिस्रःऽ इति दारुहरिद्राहरिद्रे च द्वाभ्यां क्वाथयित्वाभिमन्त्र्यावसिञ्चति । समाप्तं केशवर्धनार्थं भैषज्यं केशपतने च क्षये च ॥

अथ उदरतुण्डभैषज्यमुच्यते
[कृष्णं नियानम् (६.२२) इत्योषध्याभिश्चोतयते ॥ कौशिकसूत्र ४,६{३०}.११ ॥]
ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ (६.२३) इति सूक्ताभ्यां चित्त्याद्यौषध्या सहितमुदकमभिमन्त्र्य ततो व्याधितमवसिञ्चति । उदरतुण्डभैषज्यम् ॥

[मारुतानामप्ययः ॥ कौशिकसूत्र ४,६{३०}.१२ ॥]
ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यां मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् ।ऽमारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीय मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिजुहोतिऽ (Kऔश्ष्४०.७) । मरुतो यथा वरुणम् ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यामाज्यं जुहोति । आज्यतन्त्रे ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यामोषधीः सम्पात्य प्रवेश्याभिन्युब्जति । आज्यतन्त्रे ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यां चित्त्याद्योषधीः सम्पात्य विप्लावयेतोदकमध्ये । जलोदरे उदरे च ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यां श्वशिरोऽभिमन्त्र्योदके विप्लावयति । एडकशिरो वा विप्लावयत्यभिमन्त्रोदके ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यां केशजरदुपानहौ वंशाग्रे बद्ध्वाभिमन्त्र्य योधयति ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यामुदपात्रेण सम्पातवता । सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति । जलोदरे नाभितुण्डे बृहदुदरे भैषज्यानि समाप्तानि ॥

अथ हृदयदाघे जलोदरे कामले च भैषज्यान्युच्यन्ते
[हिमवतः (६.२४) इति स्यन्दमानादन्वीपमाहार्य वलीकैः ॥ कौशिकसूत्र ४,६{३०}.१३ ॥]
ऽहिमवतःऽ इति सूक्तेन नद्युदकमनुलोममाहार्य तत्र वलीकतृणानि प्रक्षिप्य ततोऽभिमन्त्र्य ततो व्याधितमवसिञ्चति । मार्जनाचमने च । हृदयदोषे जलोदरे कामले च भैषज्यं समाप्तम् ॥

अथ गण्डमालाभैषज्यान्युच्यन्ते
[पञ्च च याः (६.२५) इति पञ्चपञ्चाशतं परशुपर्णान काष्ठैरादीपयति ॥ कौशिकसूत्र ४,६{३०}.१४ ॥]
ऽपञ्च च याःऽ इति सूक्तेन गोपांशुलिकानां पञ्चाशत्पञ्चाधिका अग्नौ प्रज्वाल्याधस्तादयः समिध आदधाति ॥

[कपाले प्रशृतं काष्ठेनालिम्पति ॥ कौशिकसूत्र ४,६{३०}.१५ ॥]
अग्न्युपरि कपाले पर्णान् धृत्वा श्रपयति । ततः सूक्तं जपित्वा तेनैव काष्ठेन गण्डमालां लिम्पति ॥

[किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादिभ्यां दंशयति ॥ कौशिकसूत्र ४,६{३०}.१६ ॥]
ऽपञ्च च याःऽ इति सूक्तेन शङ्खं घृष्ट्वा ततोऽभिमन्त्र्य गण्डमालां प्रलिम्पति ।ऽपञ्च च याःऽ इति सूक्तेन श्वानकुवकुरलालामभिमन्त्र्य प्रलिम्पति ।ऽपञ्च च याःऽ इति सूक्तेन जलौकामभिमन्त्र्य गण्डमालायां संसर्जयति ।
रुधिरप्रवाहणार्थम् ।ऽपञ्च च याःऽ इति सूक्तेन गृहगोधिकादि मत्स्यादि अभिमन्त्र्य गण्डमालायां संसर्जयति ॥

[निशि अव मा पाप्मन् (६.२६) इति तितौनि पूल्यान्यवसिच्यापविध्य ॥ कौशिकसूत्र ४,६{३०}.१७ ॥
अपरेद्युः सहस्राक्षायाप्सु बलींस्त्रीन् पुरोडाशसंवर्तांश्चतुष्पथेऽवक्षिप्यावकिरति ॥ कौशिकसूत्र ४,६{३०}.१८ ॥]
षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३० ॥


________________________________


[यस्ते मदः (६.३०.२) इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति ॥ कौशिकसूत्र ४,७{३१}.१ ॥
अधिशिरः ॥ कौशिकसूत्र ४,७{३१}.२ ॥
अन्तर्दावे (६.३२) इति समन्तमग्नः कर्ष्वामुष्णपूर्णायां जपंस्त्रिः परिक्रम्य पुरोडाशं जुहोति ॥ कौशिकसूत्र ४,७{३१}.३ ॥
प्राग्नये (६.३४) प्रेतः (७.११४.२) इत्युपदधीत ॥ कौशिकसूत्र ४,७{३१}.४ ॥]
ऽप्राग्नये वाचम्ऽ इति सूक्तेन पुरोडाशं जुहोति ।ऽप्राग्नये वाचम्ऽ इति सूक्तेन पयो जुहोति ।ऽप्राग्नये वाचम्ऽ इति सूक्तेनोदौदनं जुहोतिऽप्राग्नयेऽ इति सूक्तेन पायसं जुहोति ।ऽप्राग्नये वाचम्ऽ इति सूक्तेन पशुं जुहोति । वपामवदानानि चरुं च वशाविधानेन ।ऽप्राग्नयेऽ इति सूक्तेन व्रीहीनावपति । रक्षोग्रहभैषज्यम् । अनुवर्तते विकारः ।ऽप्राग्नये वाचम्ऽ इति सूक्तेन यवाञ्जुहोति ।ऽप्राग्नयेऽ इति तिलाञ्जुहोति ।ऽप्राग्नयेऽ इति धाना जुहोति ।ऽप्राग्नयेऽ इति दधिसक्तूञ्जुहोति ।ऽप्राग्नयेऽ इति सूक्तेन शष्कुलीर्जुहोति । प्रत्यृचं होमः ।ऽप्रतो यन्तुऽ इत्यचाज्यं जुहोति तन्त्रे । रक्षोग्रहभैषज्यम् ।ऽप्रेतो यन्तुऽ इत्यृचा शान्तवृक्षसमिध आदधाति ।ऽप्रेतो यन्तुऽ इत्यृचा पुरोडाशं जुहोति ।ऽप्रेतो यन्तुऽ इत्यृचा पायसं जुहोति ।ऽप्रेतो यन्तुऽ इत्यृचा पशुं जुहोति । वशाविधानेन ।ऽप्रेतो यन्तुऽ इत्यृचा व्रीहीञ्जुहोति ।ऽप्रेतो यन्तुऽ इत्यृचा यवाञ्जुहोति । तन्त्रविकल्पः ।ऽप्रेतो यन्तुऽ इत्यृचा दधिसक्तूञ्जुहोति ।ऽप्रेतो यन्तुऽ इत्यृचा शष्कुलीर्जुहोति समाप्तं राक्षसग्रहभैषज्यम् ॥

अथ सर्वभैषज्यमुच्यते
[वैश्वानरीयाभ्यां पायनानि ॥ कौशिकसूत्र ४,७{३१}.५ ॥]
ऽवैश्वानरो न ऊतयेऽ (६.३५)ऽऋतावानं वैश्वानरम्ऽ (६.३६) इति सूक्ताभ्यामुदपात्रमभिमन्त्र्य पाययति । सर्वव्याधिभैषज्यम् । वैश्वानरीयाभ्यां सूक्ताभ्यां सक्तुमन्थमभिमन्त्र्य पाययति । सर्वभैषज्यम् ।ऽवैश्वानरो नऽऽऋतावानम्ऽ इति सूक्ताभ्यां हरिद्रां सर्पिष्यभिमन्त्र्य पाययति ।ऽवैश्वानरो नऽऽऋतावानम्ऽ इति सूक्ताभ्यामुद्धृतमुदकमभिमन्त्र्य पाययति । आज्य तन्त्रेऽपि यत्पीयते, तत्संशृत्य पाययति वैश्वानरीयाभ्यां सूक्ताभ्याम् । समाप्तं सर्वभैषज्यम् ॥

अथापवादभैषज्यमुच्यते
[अस्थाद्द्यौः (६.४४) इत्यपवातायाः स्वयंस्रस्तेन गोशृङ्गेण सम्पातवता जपन् ॥ कौशिकसूत्र ४,७{३१}.६ ॥]
बहुभाषणमधर्मे च प्रवर्तते सोऽपवादः । अभ्यातानान्तं कृत्वाऽअस्थाद्द्यौःऽ इति सूक्तेन पूर्वेण स्वयम्पतितं गोशृङ्गं सम्पात्य ततः शृङ्ग उदकं कृत्वाभिमन्त्र्याचामयत्यभ्युक्षति च । अभ्यातानाद्युत्तरतन्त्रम् । अपवादभैषज्यं समाप्तम् । अपवादश्चन्द्रग्रहादिषु बहुभाषणादि ॥

अथोदरे वा हृदये वाङ्गे वा सर्वाङ्गे वा शूल उत्पन्ने भैषज्यमुच्यते
[यां ते रुद्रः (६.९०) इति शूलिने शूलम् ॥ कौशिकसूत्र ४,७{३१}.७ ॥]
अभ्यातानान्तं कृत्वाऽयां ते रुद्रःऽ इति सूक्तेन शूलमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । शूलो लोहमणिः पाषाणो वा दारिलभद्रमतम् ।ऽयां ते रुद्रःऽ इति सूक्तेन व्याधितमभिमन्त्रयते । रुद्रभाष्यमतम् । शूलभैषज्यं समाप्तम् ॥

रक्षोग्रहभैषज्यमुच्यते
[उत्सूर्यः (६.५२) इति शमीबिम्बशीर्षपर्ण्यावधि ॥ कौशिकसूत्र ४,७{३१}.८ ॥]
ऽउत्सूर्यःऽ इति सूक्तेन चित्त्याद्योषधिभिः सहोदकघटमभिमन्त्र्य व्याधितमवसिञ्चति ।ऽउत्सूर्यःऽ इति सूक्तेन शमीमुदकेन सहाभिमन्त्र्यावसिञ्चति ।ऽउत्सूर्यःऽ इति सूक्तेन शमीबिम्बमुदकसहितमभिमन्त्र्यावसिञ्चति ।ऽउत्सूर्यःऽ इति सूक्तेन शीर्षपर्णीमुदकेन दत्त्वाभिमन्त्र्य व्याधितमवसिञ्चति । समाप्तं रक्षोग्रहभैषज्यम् ॥

दुष्टगण्डविरिष्टभैषज्यमुच्यते
[द्यौश्च मे (६.५३) इत्यभ्यज्यावमार्ष्टि ॥ कौशिकसूत्र ४,७{३१}.९ ॥]
ऽद्यौश्च मे इदं पृथिवीऽ इति तृचेन सूक्तेन तैलमभिमन्त्र्य गण्डमभ्यज्य हस्तेन व्याधितमवमार्ष्टि । अभ्युक्षतीत्यर्थः । दुष्टगण्डभैषज्यम् ।ऽद्यौश्च मेऽ इति सूक्तं जपन् व्याधिदेशं हस्तेन मार्ष्टि । दुष्टगण्डे दुष्टव्रणे च भैषज्यम् ॥

[स्थूणायां निकर्षति ॥ कौशिकसूत्र ४,७{३१}.१० ॥]
ऽद्यौश्च मेऽ इति सूक्तेन स्थूणायां व्रणं निकर्षति । घृष्यतीत्यर्थः । रुधिरकृते दुष्टव्रणे दुष्टगण्डे भैषज्यं समाप्तम् ॥

अक्षतव्रणभैषज्यमुच्यते
[इदमिद्वै (६.५७) इत्यक्षतं मूत्रफेनेनाभ्युद्य ॥ कौशिकसूत्र ४,७{३१}.११ ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन गोमूत्रमभिमन्त्र्य । तेन व्रणं मर्दयति ॥

[प्रक्षिपति ॥ कौशिकसूत्र ४,७{३१}.१२ ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन मूत्रेण व्रणं क्षिपति ॥

[प्रक्षालयति ॥ कौशिकसूत्र ४,७{३१}.१३ ॥]
तेनैव सूक्तेन मूत्रेण व्रणं प्रक्षालयति । यस्य व्रणस्य मुखं नास्त्यक्षतव्रणमुच्यते ॥

[दन्तरजसावदेग्धि ॥ कौशिकसूत्र ४,७{३१}.१४ ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन दन्तमलमभिमन्त्र्य प्रलिम्पति । अक्षतव्रणभैषज्यम् ॥

[स्तम्बरजसा ॥ कौशिकसूत्र ४,७{३१}.१५ ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन तृणरजस्य फेनमभिमन्त्र्य व्रण प्रलिम्पति । यस्य व्रणस्य रुधिरं न वहति तस्य । समाप्तमक्षतव्रणभैषज्यम् ॥

गण्डमालाभैषज्यमुच्यते
[अपचितः (६.८३) आ सुस्रसः (७.७६) इति किंस्त्यादीनि ॥ कौशिकसूत्र ४,७{३१}.१६ ॥]
ऽअपचितः प्र पततऽ इति सूक्तेन शङ्खं घृष्ट्वाभिमन्त्र्य गण्डमालां प्रलिम्पति ।ऽअपचितःऽ इति सूक्तेन श्वानलालामभिमन्त्र्य गण्डमालां प्रलिम्पति । श्वानः कुर्करः । गण्डमालाभैषज्यम् ।ऽअपचितःऽ इति सूक्तेन जलौकामभिमन्त्र्य गण्डमालायां संश्लेषयति । यथाकथञ्चिद्रुधिरप्रवाहणार्थम् ।ऽअपचितःऽ इति सूक्तेन गृहगोधिकामभिमन्त्र्य गण्डमालायामासजति ।ऽआ सुस्रसःऽ इति द्वाभ्यां शङ्खं घृष्ट्वाभिमन्त्र्य ततो गण्डमालां प्रलिम्पति ।ऽआ सुस्रसःऽ इति द्वाभ्यां श्वानलालां कुर्करलालामभिमन्त्र्य गण्डमालां प्रलिम्पति । गण्डमालाभैषज्यम् ।ऽआ सुस्रसःऽ इति द्वाभ्यां जलौकामभिमन्त्र्य गण्डमालायां संसर्जयति रुधिरप्रवाहणार्थम् ।ऽआ सुस्रसःऽ इति द्वाभ्यां गृहगोधिकां मशकादीमभिमन्त्र्य गण्डमालायां संसर्जयति रुधिरप्रवाहणार्थम् ॥

[लोहितलवणं सङ्क्षुद्याभिनिष्ठीवति ॥ कौशिकसूत्र ४,७{३१}.१७ ॥]
ऽअपचितःऽ इति सूक्तेन सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य गण्डमालायां उपरि प्रकिरति । ततस्तस्योपरि निष्ठीवति । मुखलालां प्रक्षिपति तूष्णीम् ।ऽआ सुस्रसःऽ इति द्वाभ्यां सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य व्याध्युपरि प्रकिरति । ततस्तूष्णीमुपरि निष्ठीवति ।
समाप्तं गण्डमालाभैषज्यम् ॥

अथ पक्षिणोऽभिघाते भैषज्यमुच्यते
[अन्तरिक्षेण (६.८०) इति पक्षहतं मन्त्रोक्तं चङ्क्रमया ॥ कौशिकसूत्र ४,७{३१}.१८ ॥]
ऽअन्तरिक्षेण पततिऽ इति सूक्तेन श्वानपदस्थानमृत्तिकामभिमन्त्र्य पक्षहतं देशं प्रलिम्पति । पक्षहतभैषज्यम् ॥

[कीटेन धूपयति ॥ कौशिकसूत्र ४,७{३१}.१९ ॥]
ऽअन्तरिक्षेण पततिऽ इति सूक्तेन शुनो मक्षिकामभिमन्त्र्याग्नौ प्रक्षिप्य ततो धूपयति व्याधिप्रदेशम् । काकगृध्रकपोतश्येनादीनां पक्षिणामभिघाते भैषज्यं समाप्तम् ॥

अथ गण्डभैषज्यमुच्यते
[ग्लौः (६.८३.३) इत्यक्षतेन ॥ कौशिकसूत्र ४,७{३१}.२० ॥]
ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन गोमूत्रमभिमन्त्र्य गण्डं मर्दयति गण्डभैषज्यम् ।ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन गोमूत्रमभिमन्त्र्य गण्डं प्रक्षालयति ।ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन दन्तमलमभिमन्त्र्य गण्डं प्रलिम्पति ।ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन तृणरजफेनमभिमन्त्र्य गण्डं प्रलिम्पति । समाप्तं गण्डभैषज्यम् । गण्डः स्फोटक इत्यर्थः ॥

गर्दभश्वानाद्युरुगण्डे भैषज्यमुच्यते
[वीहि स्वाम् (६.८३.४) इत्यज्ञातारुः शान्त्युदकेन सम्प्रोक्ष्य मनसा सम्पातवता ॥ कौशिकसूत्र ४,७{३१}.२१ ॥]
ऽवीहि स्वामाहुतिं जुषाणःऽ इति सूक्तेन शान्त्युदकमभिमन्त्र्य ततः क्षतं प्रोक्षति । तत आज्यतन्त्रं कृत्वाऽवीहि स्वामाहुतिम्ऽ इति सूक्तेनाज्यं जुहोति । ततो मनसा सङ्कल्पयति । सम्पातान् ददाति । उत्तरतन्त्रम् । समाप्तं गर्दभदशनक्षतगण्डभैषज्यम् ॥

पापगृहीते जलोदरे च भैषज्यमुच्यते
[या ओषधयः (६.९६) इति मन्त्रोक्तस्यौषधीभिर्धूपयति ॥ कौशिकसूत्र ४,७{३१}.२२ ॥]
ऽया ओषधयः सोमराज्ञीःऽ इति सूक्तेन तृचेन सोमलता अग्नौ प्रक्षिप्य व्याधितं धूपयति ॥

[मधूदश्वित्पाययति ॥ कौशिकसूत्र ४,७{३१}.२३ ॥]
ऽया ओषधयःऽ इति तृचेन मधु तक्रं चाभिमन्त्र्य पाययति । जलोदरे पापे शापे च भैषज्यम् ॥

[क्षीरोदश्वित् ॥ कौशिकसूत्र ४,७{३१}.२४ ॥]
ऽया ओषधयः सोमराज्ञीःऽ इति तृचेन क्षीरं तक्रेण मिश्रयित्वाभिमन्त्र्य पाययति ॥

[उभयं च ॥ कौशिकसूत्र ४,७{३१}.२५ ॥]
ऽया ओषधयःऽ इति सूक्तेन मधु तक्रं क्षीरं दध्येतच्चतुष्टयमेकत्र कृत्वाभिमन्त्र्य पाययति । ब्राह्मणाक्रोशे पापगृहीते जलोदरे च भैषज्यं समाप्तम् ॥

विष उपविषे स्थावरे जङ्गमे च भैषज्यमुच्यते । मक्षिकायां च भैषज्यम्
[देवा अदुः (६.१००) इति वल्मीकेन बन्धनपायनाचमनप्रदेहनमुष्णेन ॥ कौशिकसूत्र ४,७{३१}.२६ ॥]
ऽदेवा अदुःऽ इति तृचेन वल्मीकपोट्टलिकां कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रम् ।ऽदेवा अदुःऽ इति तृचेन वल्मीकमृत्तिकामुदकमध्ये प्रक्षिप्य ततोऽभिमन्त्र्य पाययति ।ऽदेवा अदुःऽ इति तृचेन वल्मीकमृदमुदके प्रक्षिप्य ततोऽभिमन्त्र्याचामयति । विषभैषज्यम् ।ऽदेवा अदुःऽ इति तृचेन वल्मीकमृत्तिकामुष्णोदके प्रक्षिप्य ततोऽभिमन्त्र्य प्रलिम्पति विषदष्टव्रणम् । उपविषे विषे च मक्षिकानां भैषज्यम् । समाप्त विषभैषज्यम् ॥

अथ कासे श्लेष्मपतने च भैषज्यमुच्यते
[यथा मनः (६.१०५) अव दिवः (७.१०७) इत्यरिष्टेन ॥ कौशिकसूत्र ४,७{३१}.२७ ॥]
ऽयथा मनो मनस्केतैःऽ इति सूक्तेन भोजनमभिमन्त्र्य ददाति भक्षणार्थं प्रथमं प्रपाद्य ।ऽयथा मनःऽ इति सक्तुमन्थमभिमन्त्र्य भक्षयति । कासपतने भैषज्यम् । उपस्थानमादित्यस्य द्विः सूक्तस्य प्रयोगः ।ऽयथा मनो मनःऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति । तत उपस्थानं चादित्यस्य । द्विः सूक्तावृत्तिः । कासपतने भैषज्यम् ।ऽअव दिवस्तारयन्तिऽ इत्यृचा प्रपाद्य गृहे प्रवेश्य ततो भोजनमभिमन्त्र्य ददाति भक्षणार्थम् । कासपतने भैषज्यम् ।ऽअव दिवस्तारयन्तिऽ इत्यृचा सक्तुमभिमन्त्र्य ददाति भक्षणार्थमुपस्थानं च ।ऽअव दिवस्तारयन्तिऽ
इत्यृचोदकमभिमन्त्र्याचामयत्युपस्थानमादित्यस्य । सर्वत्र द्विः सूक्तप्रयोगः । समाप्तं कासश्लेष्मपतने भैषज्यम् ॥

केशदृढीकरणे केशवृद्धिकरणे च भैषज्यमुच्यते
[देवी देव्याम् (६.१३६) यां जमदग्निः (६.१३७) इति मन्त्रोक्ताफलं जीव्यलाकाभ्याममावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसम्पातादवनक्षत्रेऽवसिञ्चति ॥ कौशिकसूत्र ४,७{३१}.२८ ॥]
अभ्यातानान्तं कृत्वाऽदेवी देव्याम्ऽऽयां जमदग्निःऽ इति सूक्ताभ्यां काचमाचीफलमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ।ऽदेवी देव्याम्ऽऽयां जमदग्निःऽ इति सूक्ताभ्यां जीवन्तीफलमणिं बध्नाति । आज्यतन्त्रम् ।ऽदेवी देव्याम्ऽऽयां जमदग्निःऽ इति सूक्ताभ्यां भृङ्गराजं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । केशदृढीकरणे केशजनने ह्रस्वकेशेषु वृद्धिकरणे भैषज्यम् । अमावास्यायामिदं कर्म कुर्यात् । कृष्णवस्त्रपरिहितो भूत्वा माषतिलकृष्णमन्नं भैक्षयित्वा कर्ताऽदेवी देव्याम्ऽऽयां जमदग्निःऽ इति सूक्ताभ्यां काचमाचीफलभृङ्गराजाभ्यां सहोदकमभिमन्त्र्य रात्रौ ब्राह्मे मुहूर्तेऽवसिञ्चति । तेनोदकेन पुरा काकसम्पातादवनक्षत्रेऽवसिञ्चति । समाप्तं केशवृद्धिकरणं केशजननं खलतिकेशजननं केशदृढीकरणं पलितनाशनं भैषज्यम् ॥ सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३१ ॥


________________________________


जम्भगृहीते भैषज्यमुच्यते
[यस्ते स्तनः (७.१०) इति जम्भगृहीताय स्तनं प्रयच्छति ॥ कौशिकसूत्र ४,८{३२}.१ ॥]
ऽयस्ते स्तनःऽ इत्यृचा स्तनमभिमन्त्र्य बालकाय प्रयच्छति पानार्थं पतिः करोति कर्ता वा करोति । जम्भगृहीते भैषज्यम् । दुःखनाशने भैषज्यम् ॥

[प्रियङ्गुतण्डुलानभ्यवदुग्धान् पाययति ॥ कौशिकसूत्र ४,८{३२}.२ ॥]
ऽयस्ते स्तनःऽ इत्यृचा प्रियङ्गुतण्डुलानभ्यवदुग्धानभिमन्त्र्य पाययति । बालकं मातरं वा पाययति । यत्रोपरि दुह्यते तेऽभ्यवदुग्धाः । जम्भगृहीते दुःखनाशे च भैषज्यम् ॥

सर्वव्याधिभैषज्यमुच्यते
[अग्नाविष्णू (७.२९) सोमारुद्रा (७.४२) सिनीवालि (७.४६) वि ते मुञ्चामि (७.७८) शुम्भनी (७.११२) इति मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ कौशिकसूत्र ४,८{३२}.३ ॥]
अभ्यातानान्तं कृत्वाऽअग्नाविष्णूऽ इति द्वाभ्यां मौञ्जेः पाशैर्व्याधितं बद्ध्वा शरपिञ्जूलीभिः सहोदकघटं सम्पात्याभिमन्त्र्याप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वाऽसोमारुद्रा वि वृहतम्ऽ इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य ततो मौञ्जेः पर्वसु व्याधित बद्ध्वा दर्भपिञ्जूलीभिः सहोदकघटेनाप्लावयति । तत उत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वाऽसिनीवालिऽ इति नवभिरृग्भिरुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । मार्जनाचमने च स्मर्तव्ये सर्वत्र सर्वभैषज्यम् ।ऽवि ते मुञ्चामि रशनाम्ऽ इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । आज्यतन्त्रम् । अभ्यातानान्तं कृत्वाऽशुम्भनीऽऽमुञ्चन्तु माऽ (७.११२.१२) इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पाशैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । तत उत्तरतन्त्रम् ॥

[अवसिञ्चति ॥ कौशिकसूत्र ४,८{३२}.४ ॥]
ऽअग्नाविष्णूऽ इति द्वाभ्यां पिञ्जूलीभिः सहोदकमभिमन्त्र्य व्याधितमवसिञ्चति ।ऽसोमारुद्राऽ इति द्वाभ्यामुदकमभिमन्त्र्य व्याधितमवसिञ्चति । सर्वभैषज्यम् ।ऽसिनीवालिऽ इति नवभिरृग्भिरुदकमभिमन्त्र्यावसिञ्चति ।ऽवि ते मुञ्चामिऽ इति द्वाभ्यामुदकमभिमन्त्र्यावसिञ्चति ।ऽशुम्भनीऽ इति द्वाभ्यामुदकमभिमन्त्र्यावसिञ्चति । सर्वत्र मौञ्जैः पाशैरङ्गुलीत्रयं बद्ध्वा तताप्लावनमवसेवनं च सर्वत्र कुर्यात् । अस्मिन्नधिकारे आप्लावनेऽवसेचने च मार्जनमाचमनं च सर्वत्र । समाप्तानि सर्वव्याधिभैषज्यानि ॥

वृश्चिकभैषज्यमुच्यते
[तिरश्चिराजेः (७.५६) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,८{३२}.५ ॥]
ऽतिरश्चिराजेःऽ इत्यष्टर्चेन ज्येष्ठीमधु पिष्ट्वाभिमन्त्र्य पाययति ॥

[आकृतिलोष्टवल्मीकौ परिलिख्य ॥ कौशिकसूत्र ४,८{३२}.६ ॥]
ऽतिरश्चिराजेःऽ इति सूक्तेन क्षेत्रमृत्तिकां जीवकोषण्यां सम्पात्याभिमन्त्र्य बध्नाति । तन्त्रं कृत्वाऽतिरश्चिराजेःऽ इत्यष्टर्चेन वल्मीकमृत्तिकां सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । वृश्चिकमशकभैषज्यम् । जीवत्पशुचर्म जीवकोषणीत्युच्यते ॥

[पायनानि ॥ कौशिकसूत्र ४,८{३२}.७ ॥]
ऽतिरश्चिराजेःऽ इत्यष्टर्चेनोदपात्रमभिमन्त्र्य पाययति । वृश्चिकभैषज्यम् ।ऽतिरश्चिराजेःऽ इत्यष्टर्चेन हरिद्रां सर्पिषा सह मिश्रितां कृत्वाभिमन्त्र्य पाययति ।ऽतिरश्चिराजेःऽ इत्यष्टर्चेनोदपात्रं सहमधुदुग्धचर्वभिमन्त्र्य पाययति ।ऽतिरश्चिराजेःऽ इत्यष्टर्चेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । यानि पायनान्युक्तानि तानिऽतिरश्चिराजेःऽ इत्यस्य सूक्तस्य भवन्ति । समाप्तं वृश्चिकपिपीलिकामशकदंशशर्कोटजलूकाभैषज्यम् ॥

अथ गण्डमालाभैषज्यमुच्यते
[अपचिताम् (७.७४) इति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दैः स्तुकाग्रैरिति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,८{३२}.८ ॥]
ऽअपचितां लोहिनीनाम्ऽ (७.७४.१२) इति द्वे ।ऽआ सुस्रसःऽ इत्येका (७.७६.१) । एताभिस्तिसृभिर्वंशधनुषा कृष्णोर्णामयीं ज्यां कृत्वा चित्रितेन शरेण गण्डमालां विध्यति प्रत्यृचम् । त्रयः शरा भवन्ति ॥

[चतुर्थ्याभिनिधायाभिविध्यति ॥ कौशिकसूत्र ४,८{३२}.९ ॥]
ऽया ग्रैव्या अपचितःऽ (७.७६.२) इति चतुर्थ्या ऋचा चतुर्थेन शरेण गण्डमालामभिनिधाय विध्यत्याहन्ति । चतुर्थशरेण गण्डमालां प्रश्लेषयति । शरस्य स्वं भल्लं बहिर्वर्जयित्वा ॥

[ज्यास्तुकाज्वालेन ॥ कौशिकसूत्र ४,८{३२}.१० ॥]
ऽअपचिताम्ऽ इति द्वेऽआ सुस्रसःऽ इति तृतीयाऽया ग्रैव्याःऽ इति चतुर्थी एताभिश्चतसृभिः शरकृष्णोर्णाज्यावज्वालितमुदकमभिमन्त्र्योषाकाले रात्रिशेषे तेनोदकेनावसिञ्चति व्याधितम् । द्विविधा गण्डमाला । समाप्तं गण्डमालाभैषज्यम् । द्वयोरेकं कर्म ॥

अथ राजयक्ष्मभैषज्यमुच्यते
[यः कीकसाः (७.७६.३) इति पिशीलावीणातन्त्रीं बध्नाति ॥ कौशिकसूत्र ४,८{३२}.११ ॥]
आज्यतन्त्रं कृत्वाऽयः कीकसाःऽ (७.७६.३४॑ ७७.१) इति तृचेन वीणातन्त्रीखण्डं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् ॥

[तन्त्र्या क्षितिकाम् ॥ कौशिकसूत्र ४,८{३२}.१२ ॥]
पूर्वतन्त्रं कृत्वाऽयः कीकसाःऽ इति तृचेन वाद्यवीणा तस्याः खण्डं विष्णीवाद्यवीणाकण्ठं शङ्खखण्डं वीणातन्त्रीं बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् ॥

[वीरिणवध्रीं स्वयम्म्लानं त्रिः समस्य ॥ कौशिकसूत्र ४,८{३२}.१३ ॥]
अभ्यातानान्तं कृत्वाऽयः कीकसाःऽ इति तृचेन स्वयम्पतितम्लानवीरिणखण्डत्रयमेकत्र बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् । सर्वत्र यत्र बहूनि कर्माणि विहितानि तत्रैकं कुर्यात्द्वे वा सर्वाणि वा कुर्यात् । सर्वत्र कर्मणां विकल्पः । सर्वत्र हस्तहोमे तन्त्रविकल्पः । अभ्यासे वा फलं भवति । समाप्तं राजयक्ष्मभैषज्यम् ॥

जलोदरे वरुणगृहीते भैषज्यमुच्यते
[अप्सु ते (७.८३) इति वहन्त्योर्मध्ये विमिते पिञ्जूलीभिराप्लावयति ॥ कौशिकसूत्र ४,८{३२}.१४ ॥]
वहन्त्योर्नद्योर्मध्ये मण्डपं कृत्वा तत्राज्यतन्त्रं कृत्वाऽअप्सु ते राजन् वरुणऽ इति चतुरृचेनोष्णोदकघटं सम्पात्याभिमन्त्र्य पिञ्जूलीभिः सह व्याधितमाप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् । जलोदरे भैषज्यम् ॥

[अवसिञ्चति ॥ कौशिकसूत्र ४,८{३२}.१५ ॥]
नदीद्वयोर्वहन्त्योः सङ्गमे मण्डपं कृत्वाऽअप्सु ते राजन्ऽ इति चतुरृचेनोदकमभिमन्त्र्य दर्भपिञ्जूलीभिः सहोदकं गृहीत्वा व्याधितमवसिञ्चति । मार्जनाचमने च । जलोदरे भैषज्यम् ॥

[उष्णाः सम्पातवतीरसम्पाताः ॥ कौशिकसूत्र ४,८{३२}.१६ ॥]
आप्लवनमुष्णोदकेनावसेचनं शीतोदकेन । द्वयोरेकं कर्म । समाप्तं जलोदरभैषज्यम् ॥

अथ ज्वरभैषज्यमुच्यते
[नमो रूराय (७.११६११७) इति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा ॥ कौशिकसूत्र ४,८{३२}.१७ ॥]
ऽनमो रूरायऽ इति सूक्तद्वयेन खट्वायां व्याधितं कृत्वा मण्डूकमिषीकाञ्जि नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा । ततः खट्वायामधो मण्डूकं कृत्वा खट्वायां व्याधितमुपवेश्य तत उदकमभिमन्त्र्य व्याधितमवसिञ्चति । व्याधिते सिच्यमाने यथा मण्डूकोऽवसिच्यते तथा कुर्यात् । मार्जनाचमने च सर्वत्र स्मर्तव्ये । समाप्तं ज्वरभैषज्यम् ॥
अथ सर्वभैषज्यमुच्यते
[शीर्षक्तिम् (९.८) इत्यभिमृशति ॥ कौशिकसूत्र ४,८{३२}.१८ ॥]
ऽशीर्षक्तिं शीर्षामयम्ऽ इत्यर्थसूक्तेन व्याधितशरीरमभिमृशति । अभिमन्त्रणं कुर्यादित्यर्थः ॥

[उत्तमाभ्यामादित्यमुपतिष्ठते ॥ कौशिकसूत्र ४,८{३२}.१९ ॥]
ऽपादाभ्यां तेऽ (९.८.२१२२) इति द्वाभ्यामृग्भ्यामादित्यमुपतिष्ठते । शिरोरोगे कर्णरोगेऽङ्गरोगे शूले लोहितमूत्रे लोहितपुरीषे यक्ष्मणि मुखरोगेऽक्षिरोगेऽङ्गभेदेऽङ्गज्वरे व्याधिसर्पण उरोरोगे शरीराभ्यन्तररोगे हृदयरोगे कासे श्लेष्मणि गुह्यादिभैषज्यम् । समाप्तं सर्वभैषज्यम् ॥

सर्वविषभैषज्यमुच्यते
[इन्द्रस्य प्रथमः (१०.४) इति तक्षकायेत्युक्तम् ॥ कौशिकसूत्र ४,८{३२}.२० ॥]
तक्षकाय नमस्कारं कृत्वाऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदकमभिमन्त्र्याचामयति । विषभैषज्यम् । तक्षकाय नमस्कारं कृत्वाऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनाचमने च । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदके कृमुकवृक्षशकलं सङ्क्षुद्याभिमन्त्र्य पाययति ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन दुल्लकशकृद्गोमयेनाव ज्वालितमुदकमभिमन्त्र्यावसिञ्चति ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन कृष्णाजिनावज्वालितमुदकमभिमन्त्र्य विषदष्टमवसिञ्चति ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन मार्जनिकातृणावज्वालितमुदकमभिमन्त्र्याचामयति । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य ततः पाययति । आज्यतन्त्रे । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन सक्तुमन्थमर्ध्वफलकाण्डाभ्यामुपमथ्य ततोऽभिमन्त्र्य पाययति । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन मदनफलान्यभिमन्त्र्य भक्षयति छर्दनार्थम् । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन हरिद्रां घृतेन सहाभिमन्त्र्य व्याधितं पाययति ॥

[पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः ॥ कौशिकसूत्र ४,८{३२}.२१ ॥]
ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन पद्वं कीटकं तलिणीति लोके प्रसिद्धा तं पिष्ट्वाभिमन्त्र्य नस्तं ददाति । दक्षिणेनाङ्गुष्ठेन दक्षिणनासिकापुटे । समाप्तं विषभैषज्यम् ॥

अथ सर्पभये भैषज्यमुच्यते
[अहिभये सिच्यवगूहयति ॥ कौशिकसूत्र ४,८{३२}.२२ ॥]
ऽइन्द्रस्य प्रथमःऽ इति सूक्तेन पैद्वं श्वेतवस्त्रवेष्टितमभिमन्त्र्य यत्र सर्पभयं तत्र निखनति । पैद्वं
हिरण्यवर्णसदृशः कीटश्चित्रितो वा स पैद्व इत्युच्यते । सर्पभये भैषज्यम् । बध्नाति वोपरि गृहे सर्पदर्शनादर्शने वा ॥

[अङ्गादङ्गात्(१०.४.२५) इत्या प्रपदात् ॥ कौशिकसूत्र ४,८{३२}.२३ ॥]
ऽअङ्गादङ्गात्प्रच्यावयऽ इत्यृचाऽऽप्रपदान्तं शिरःप्रभृति हस्तेन मार्ष्टि । शङ्काविषभैषज्यम् ॥

[दंश्मोत्तमया निताप्याहिमभिनिरस्यति ॥ कौशिकसूत्र ४,८{३२}.२४ ॥]
ऽआरे अभूत्ऽ (१०.४.२६) इत्यृचान्तेनोल्मुकं प्रताप्याभिमन्त्र्य ततो विषव्रणं दृष्ट्वा तत्सम्मुखं क्षिपति । सर्पविषभैषज्यम् ॥

[यतो दष्टः ॥ कौशिकसूत्र ४,८{३२}.२५ ॥]
सर्पादर्शने यतो दष्टस्ततः प्रक्षिपत्युल्मुकम् । समाप्तं सर्पविषभैषज्यम् ॥
अथानूक्तेषु कौशिकीयेषु सर्वव्याधिभैषज्येषूक्तेष्वनूक्तेषु वा पठितेषु तत्र सर्वत्र भैषज्यमुच्यते । सर्वव्याधिभैषज्येषु मन्त्राः ॥

ओषधिवनस्पतीनामनूक्तान्यप्रतिषिद्धानि भैषज्यानाम् ॥ कौशिकसूत्र ४,८{३२}.२६ ॥
अंहोलिङ्गाभिः ॥ कौशिकसूत्र ४,८{३२}.२७ ॥
तानि कर्तव्यानि । अंहोलिङ्गगण उच्यते ।ऽआशानामाशापालाःऽ (१.३१.२) इत्येका ।ऽअग्नेर्मन्वेऽ (४.२३२९) इति सप्त सूक्तानि ।ऽया ओषधयः सोमराज्ञीःऽ (६.९६.१) इत्यका ।ऽवैश्वानरो न आगमत्ऽ (६.३५.२) इत्येका ।ऽशुम्भनी द्यावापृथिवीऽ (७.११७.१) इत्येका ।ऽयदर्वाचीनम्ऽ (१०.५.२२) इत्येका ।ऽअग्निं ब्रूमःऽ (११.६) इत्यर्थसूक्तम् । अस्मिन् सूक्तेऽमुञ्चतु माऽ (११.६.७),ऽभवाशर्वाविदम्ऽ (११.६.९),ऽया देवीः पञ्चऽ (११.६.२२)ऽयन्मातली रथक्रीतम्ऽ (११.६.२३) इत्येताश्चतस्रो वर्जयित्वा । अंहोलिङ्गगणः । यानि च पञ्चप्रतीकानि सूक्तानि तान्याभिमन्त्रणन सर्वव्याधिभैषज्यानि भवन्ति । तान्युच्यन्ते ।ऽअक्षीभ्यां तेऽ (२.३३),ऽमुञ्चामि त्वऽ (३.११),ऽउत देवाःऽ (४.१३),ऽआवतस्तेऽ (५.३०),ऽशीर्षक्तिं शीर्षामयम्ऽ (९.८) अंहोलिङ्गगणः । एतैः पञ्चप्रतीकैः सर्वव्याधीनामभिमन्त्रणं क्रियते । पञ्चप्रतीकानामन्यतमेनैकेनाभिमन्त्रणं कुर्यादित्यर्थः ॥

अथांहोलिङ्गगणेन सर्वव्याधिभैषज्यं क्रियते । अंहोलिङ्गगणेनोदपात्रं सम्पात्याभिमन्त्र्य सर्वव्याधिष्वाप्लावयति । आज्यतन्त्रम् । अंहोलिङ्गगणेनोदकमभिमन्त्र्य व्याधितमवसिञ्चति । अंहोलिङ्गगणेन मृत्तिकामभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गगणेन मृत्तिकामभिमन्त्र्य व्याधितमालिम्पति । तथा सम्भवे व्याधिषु । अंहोलिङ्गगणेन प्रमेहमणिं बध्नाति सर्वव्याधिषु । तन्त्रे । अंहोलिङ्गगणेनाखुमृत्तिकामभिमन्त्र्य पाययति सर्वव्याधिभैषज्येषु । अंहोलिङ्गेन गणेन पूतीकान् पिष्ट्वाभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गेन गणेन प्रमन्दं पिष्ट्वाभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गेन गणेनावतक्षणानि पिष्ट्वाभिमन्त्र्य पाययति । अंहोलिङ्गेन गणेनैतेषां द्रव्याणामास्थापयति पाययति च । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन यानं सम्पात्याभिमन्त्र्यारोहयति । तन्त्रे । सर्वव्याधिषु । अत्र सर्वत्रेषुं विसृजतीति च योजनीयम् । आज्यतन्त्रमभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पातवन्तं कृत्वा तेन व्याधिदेशं सम्मार्ष्टि । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन पालाशादयः समिध आदधाति । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेनाज्यं जुहोति । तन्त्रे । अंहोलिङ्गेन गणेन बुसं जुहोति । तन्त्रे । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन पालाशसमिधः सोमरसाक्ता आदधाति । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्य तेनोदकेन सम्प्रोक्षति । एवं बन्धनं मोचयित्वा । अभ्यातानाद्युत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन सप्तभिः
प्रतीकैरुदपात्रं सम्पात्याभिमन्त्र्य व्याधितमाप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेन सप्त काम्पीलपुटानुदकेन पूरयित्वा सम्पात्याभिमन्त्र्य प्रत्यृचं व्याधितमवसिञ्चति पश्चादपविध्यति पुटान् । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेन चतुर उदपात्रे सम्पातानानयति द्वौ पृथिव्यामावपति तौ प्रत्याहृत्याप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रे यवान् प्रक्षिप्य सम्पात्याभिमन्त्र्याप्लावयति पूर्ववत् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रे सयवे चतुरः सम्पातानानयति द्वौ पृथिव्यां तौ प्रत्याहृत्याप्लावयति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा अंहोलिङ्गेन यवमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेनाकृतिलोष्टं पाययति । सर्वव्याधिभैषज्यम् । आकृतिलोष्टवल्मीके उद्धृतमुदकं लाजा एवमाद्यभिमन्त्र्य पाययति । सर्वव्याधिभैषज्यम् । वैश्वानरीयाभ्यां पायनकर्माणि भवन्ति । अभ्यातानान्तं कृत्वांहोलिङ्गेनोदपात्रं सम्पात्याभिमन्त्र्य पिञ्जूलीभिराप्लावयति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्याभिमन्त्र्य मौञ्जैः पाशैः पर्वसु
बद्ध्वा पिञ्जूलीभिराप्लावयत्यवसिञ्चति । उत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गगणेन द्वाभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । अंहोलिङ्गेन मौञ्जैः पर्वसु बद्ध्वा दर्भमणिं सहोदकमभिमन्त्र्यावसिञ्चति । अंहोलिङ्गेन गणेनोदकमभिमन्त्र्याचमयति । अंहोलिङ्गेन गणेनालबिसोलं फाण्टं पाययति । अंहोलिङ्गेन त्रपुसमुसलखदिरतार्ष्टाघानां समिध आदधाति । अंहोलिङ्गेन खादिरानायसलोहांश्च शङ्कूनभिमन्त्र्य निखनति । यवान् सकृद्गृहीताननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य जुहोति । अंहोलिङ्गेन मेदो मधु सर्पिस्तैलमभिमन्त्र्य पाययति । सर्वव्याधिषु । यथासम्भवं पानं कर्तव्यम् । अंहोलिङ्गेन वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । अंहोलिङ्गेन यवमणिं वरणमणिं पृश्निपर्णीमूर्ध्निसम्पातशाकलमणिमाप्लावनं बहिर्विसर्जनं काण्डमणिं यवपलालमणिं तिलपिञ्जिकामणिमाकृतिलोष्टवल्मीक जीवकोषण्या वेष्टितमणिं बध्नातीत्यादि । आज्यतन्त्रं सर्वत्र योजनीयम् । यथासम्भवं भैषज्यम् ॥

उक्तव्याधीनां परिगणनं क्रियते । ज्वररोगे । अतिसाररोगे । अतिमूत्रे । दुःखमूत्रे । दुःखपुरीषे उदावर्ते च । नाड्यावहने । अङ्गभेदे । अङ्गज्वरे । अङ्गछेदे । सोमवमने । सोमस्य छर्दनज्वरे । अप्सरोगन्धर्वयक्षराक्षसपिशाचासुरेषु ज्वरेषु । जलोदरे । वातपित्तश्लेष्मविकाररोगेषु । शिरोवेदनायाम् । अङ्गवेदनायाम् । अपस्मारे । हृद्रोगे । कामले । पापरोगे । २० । उद्वेगरोगे । ज्वरे च । एकान्तरितज्वरे च । कामज्वरे । ब्राह्मणशापे च । आक्रोशे च । शिरोरोगे च । आक्रोशव्रणे । शत्रोराक्रोशे । पुत्रदुहितुरसजातासगोत्राणामाक्रोशरोगे । चक्षुर्दृष्टिनिपातरोगे । दुर्नामरोगे । गर्भसम्भवरोगे । निरृतिक्रव्यादगृहीतरोगे । राजयक्ष्मणि । धनुर्वाते । वातगुल्मे च । वातभङ्गे च । वातज्वरे च । कासे च । २० । उत्कासे च । श्लेष्मणि च । श्लेष्मपतने च । रुधिरवहने च । कर्णरोगे । बलासे । व्याधिविसर्पणे । कक्षागन्धिविसर्पणे । अङ्गे गण्डविसर्पणे । कर्णविसर्पणे । अक्षिविसर्पणे । हृदयामये । कुष्ठरोगे । अष्टादशजातिकुष्ठरोगे । शरीरविस्फोटरोगे । ग्रहणीरोगे । अज्ञाते राजयक्ष्मशरीरशोषे । रोहिणीरोगे । अङ्गप्रसर्पणे । नितम्बरोगे । २० । तीक्ष्णशृङ्गाद्यभिघाते । जलोदरे । कन्दविषे । उपविषे । सर्पविषे । कृत्याज्वरे । ग्रामज्वरे । ग्रामनगरजनपदेषु सहज्वरे । पापरोगे सहोत्पन्नरोगे । श्वेतकुष्ठे । श्वेताङ्गे । श्वेतकेशेषु । गोअश्वपुरुषेषु रोगेषु सह उत्पन्नेषु । गवां क्षयरोगे । पुरुषाणां क्षयरोगे । उदके अनिपाते । रुचितृषारोगे । बुभुक्षारोगे । स्वशरीरे क्षेत्रियरोगे । उदरगण्डुलकरोगे । उदरकृमिरोगे । शरीरपुरुषस्त्रीणां श्वाजाविहस्तिनादिषु कृमिरोगेषु । यूकालिक्षाद्यपुरुषरोगेषु । अक्षिरोगे । नासिकारोगे । कर्णरोगे । एकरोगे । अन्त्ररोगे । गुदरोगे । धमनिषु रोगे । उदररोगे । पाणिरोगे । हृदयरोगे । पांशुलिरोगे । अङ्गुलिषु रोगे । नखरोगे
। उभूअर्वीवती (?) प्रपदपार्ष्णिभसदश्रोणितम् । उद्वेगज्वरे । ज्वरे च । एकान्तरितज्वरे । कामज्वरे च । ब्राह्मणशापे च । आक्रोशरोगे । आक्रोशव्रणे । शत्रोराक्रोशे । पुत्रदुहितुरसजातासगोत्राणामाक्रोशरोगे । चक्षुर्दृष्टिनिपातरोगे । दुर्नामरोगे । गर्भसम्भवरोगे । निरृतिक्रव्यादगृहीतरोगे । राजयक्ष्मणि । धनुर्वाते । वातगुल्मे च । वातभङ्गे च । वातज्वरे च । कासे च । उत्कासे च । श्लेष्मणि च । श्लेष्मपतने च । सदअस्थिनजश्वाबाधमणिपाणिमवातरोगेषु । क्षेत्रियरोगे । सर्वव्याधिरोगे । पापरोगे । गन्धर्वरक्षाग्रहव्याधिरोगे । अमतिगृहीतरोगे । धर्मार्थकामेषु शून्यबुद्धिषु त्रिवर्गशून्येषु पुरुषेषु रोगे । शिरोरोगे । अक्षिदीर्घरोगे । २० । शरीरदुःखव्याधिपीडारोगे । पदाभिघातरोगे । शरीराभिघातरोगे । इष्टिकालोष्टाभिघातरोगे । शस्त्राद्यभिघाते । काष्ठाभिघाते । प्रथमप्रसूतासूतिकारोगे । अद्भुतदर्शने । रोगमध्ये वैद्यकपठिते । अरिष्टरोगे ज्योतिषपठिते । ग्रहनक्षत्रविवक्षार्थं बन्धहिरण्यश्च तत्रारिष्टाभिघातरोगे । शरीरवातसम्भवरोगे । सन्निपाते । वातपित्तश्लेष्मविकाररोगे । मैथुनकृतरोगे । कर्णलोहितवहने । कर्णमूले । विसल्पके । यक्ष्मरोगे । शारदरोगे । २० । शीतज्वरे । क्षुद्रज्वरे । कामज्वरे । श्लेष्मज्वरे । पामायाम् । ग्रीष्मज्वरे । वर्षाज्वरे । दाने द्रव्यत्यागे प्रतिग्रहे याजने अध्ययनेऽध्यापनेऽयाज्ययाजने रोगेषूत्पन्नेषु । बुद्धिप्रध्वंसने । अक्षिपटलरोगे । अङ्गभेदे । उद्वेगे । सर्पविषौपविषकन्दविषादिषु । स्त्रीपुरुषेषु पापलक्षणेषु । अपकामे हृदये । हृदयतापे । राजयक्ष्मणि । हरिषाकामतोविषये । अपस्मारेषु । २० । उरसेषु गण्डेषु । गर्भभक्तेषु द्वादशजातिषु । सव्रणेऽव्रणे गण्डेषु । क्षये । कुष्ठे । साण्डेऽङ्गसूजने । अतिशोषायाम् । अङ्गे कृमिषूत्पन्नेषु
। वृश्चिकदष्टे । सर्पकृकवाकुमयूरचक्रवाककाककपोतश्येनगृध्रहरिणव्याघ्रचित्रकतरक्षऋक्ष महिषगोश्वमार्जारसर्वेषु मृगेषु सर्वेषु पक्षिष्वभिघातेषु । उदरे नाभ्यां कण्ठे ग्रीवायां चारुगृहीते । सर्पदर्शने । सर्पभये । सर्पदष्टे ।
मानुषादिदष्टे । श्वानादिदष्टे । हस्ताद्यभिघाते । योनिप्रवाहे । रुधिरप्रवाहे । सर्वव्याधिषु केशपतने । केशदृढीकरणे । २० । गण्डमालायाम् । ग्रीवामालायाम् । खलतिकण्डूयने । केशबन्धने शतबृहत्प्रवाहे । पूतिनासिकायाम् । नाभितुण्डे । बृहदुदरे । उदरवृद्धौ । नाभिग्रीवानासिकापादकर्णदन्तादिवृद्धिषु । विस्फोटकापापरोगकुष्ठक्षयश्वित्रोदुम्बरादिषु कुष्ठेषु । दद्रविचर्चिकावतां स्त्रीसन्निपातेषु । सद्योवान्ती । अङ्गभेदे । वातरोगे । धनुर्वाते । नाडीवहने । स्त्र्यासक्तौ । ब्राह्मणाक्रोशे । स्त्र्याकोशे । द्रव्यनाशे । २० । हृद्रोगे । फलमूलपत्रशाकार्द्रमांसतैलघृतव्यञ्जनमिष्टान्नभोजनेषु रोगेषु । अजीर्णे । चतुर्विधेषु सामान्याजीर्णेषु । उदरशूलेषु । मस्तकशूलेषु । शिश्नेषु पुरुषरोगेषु । स्त्रीरोगेषु च । बालरोगे । तरुणवलयोत्पत्तिः । वालाः श्वेतकचाः । अङ्गछेदे । शस्त्रछेदे । अरुगण्डे । पापेऽधर्मप्रवृत्तौ । कृमिव्याधौ । सत्त्वरजस्तमप्रवृत्तौ । कामक्रोधलोभमोहादिषु ।
शृङ्गाभिघाते । दन्ताभिघाते । २० । नानाभिघाते । जनपदे चाङ्गुष्ठवेष्टके । अर्बुदरोगे । मशकानाम् । तिलकेषु । दुभित्तके । कुलिकेषु । व्याधिप्रकोपेषु सर्वव्याधिप्रकोपेषु । इत्युक्तव्याधिषु परिगणनं समाप्तम् ॥
अथ भैषज्यानि पठितानि तानि सर्वाण्यंहोलिङ्गेन सर्वव्याधिषु कर्तव्यानि । अंहोलिङ्गेनोदपात्रकर्म करोति । तन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्योदकेन वलीर्विमार्ष्टि । पुनस्तन्त्रं च । एवं सर्वव्याधिषु । तन्त्रं कृत्वांहोलिङ्गेन गणेन मुञ्जशिरो रज्ज्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन प्रमेहणं बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अथवा तैः सूक्तैः सर्वाणि कर्तव्यानि । अथवांहोलिङ्गेन गणेन कर्तव्यानि सर्वाणि । समिध आदधाति । आज्यं जुहोतीत्येवमादिसर्वभैषज्यम् । यानीह कर्माणि पठितानि तानि सर्वाण्यंहोलिङ्गेन कर्तव्यानि । यानि वैद्यकेष्वजीर्णप्रभवानि रोगजातानि चरकबाहडसुश्रुतेषु पठ्यन्ते तेषु तत्पठितानि सर्वाणि व्याधिष्वौषधानि । अंहोलिङ्गेन गणेन समाम्नातम् । अजीर्णप्रभवा रोगा इति सम्भवे कार्याणि । बन्धनपायनाचमनेषु बध्नाति । धूपनस्नानाभ्यञ्जनमर्दनपथ्यभोजन विलेपनविपुलाञ्जनावसेचनशयनादीनि तान्यंहोलिङ्गेन संस्कर्तव्यानि । अभिमन्त्र्य कर्तव्यानीत्यर्थः । अभिमन्त्रणं संस्कारः सर्वत्र कर्तव्य इत्यर्थः ।ऽसर्वाण्यभिमन्त्र्याणिऽ (Kऔश्ष्७.१६) इति वचनात् । बन्धने तन्त्रम् । यानि स्वशास्त्रपठितानि तान्यंहोलिङ्गेन कर्तव्यानि । परशास्त्रपठितानि वैद्यकपठितानि च तानि सर्वाणि कर्तव्यानि । सर्वत्र तन्त्रं वा यथासम्भवं योज्यम् । तथा चोक्तं मूलकौशिकग्रन्थे । ओषधिबन्धनं पठितं तदंहोलिङ्गेन गणेन कर्तव्यम् । आज्यतन्त्रमध्ये सम्पात्याभिमन्त्र्य बध्नाति । तत्रैवोक्तं खननविधानेन बन्धनं च सर्वत्रऽआश्यबन्ध्याप्लवनयानभक्ष्याणि सम्पातवन्तिऽऽसर्वाण्यभिमन्त्र्याणिऽ (Kऔश्ष्७.१५१६) इति वचनात् । तथा चोक्तम् ऽस्रजेनौषधिखननं व्याख्यातम्ऽ (Kऔश्ष्३३.१६) । ओषधिखननं
विधानेनैव । बन्धनमपि विधानेनैव । तथा गोपथ उक्तम् । वैद्यकज्योतिषपुराणेषु बन्धनपायनस्नानादिष्वंहोलिङ्गः सर्वत्र प्रयोक्तव्यः । अधर्मसमुद्भवत्वाद्रोगनाम । हस्तिवैद्यकाश्ववैद्यकेषूक्तमेतदेव भैषज्यम् । मन्त्रविशेषकृतो विशेषः । अन्यथा क्रियमाणे दृष्टादृष्टेषूपकारो नास्ति । शूद्रेणैव ज्योतिष्टोमे न दृष्टं नाप्यदृष्टम् । द्विविधा व्याधयः आहारनिमित्ता अधर्मनिमित्ताश्च । आहारेण व्याधिरुत्पद्यते यस्तत्र वैद्यकम् । अधर्मेणोत्पन्ने व्याधौ वेदोक्तेन विधानेनाधर्मशमनं भवति । सर्वव्याधिभैषज्यानि समाप्तानि । अष्टोत्तरशतव्याध्यपनोदनानि विनाशकानि ॥

अथ भैषज्यानि (Kऔश्ष्२५.१) इति यानि सूक्तानि भैषज्यानि कानिचित्पठितानि तानि सर्वाण्युपधाने उपस्थाने च विनियोज्यानि तत्र तत्र व्याधौ रुद्रभाष्यमते । उपदधीतेत्यनादेश आज्यसमित्पुरोडाशपयौदौदनपायसपशुव्रीहियवतिलधाना करम्भशष्कुल्य एतानि हवींषि जानीयात् । हस्तहोमत्वात्तन्त्रविकल्पः । उपस्थानं चादित्यस्य । अन्वारब्धे यजमाने सर्वत्र होमाभिमन्त्रणम् । यथासम्भवं तन्त्रसम्बन्धः । उपधानमुपस्थानं च कर्तव्यम् । समाप्तानि भैषज्यानि ॥

[स्त्रीकर्माणि]

अथ स्त्रीकर्मणां विधिं वक्ष्यामः
[पूर्वस्य पुत्रकामावतोकयोरुदकान्ते शान्ता अधिशिरोऽवसिञ्चति ॥ कौशिकसूत्र ४,८{३२}.२८ ॥]
पुत्रकामायै स्त्रियै मृतापत्यायै च रजोनाशे च शान्तिरुच्यते ।ऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन शान्तौषधिं सहोदकमभिमन्त्र्य स्त्रीमवसिञ्चति ॥

[आव्रजितायै पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति ॥ कौशिकसूत्र ४,८{३२}.२९ ॥]
ततोऽभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः कृत्वा प्रयच्छति भक्षणार्थं क्रीडनार्थं बन्धनार्थम् । पर्यायेण स्त्रियः करोति । अभ्यातानाद्युत्तरतन्त्रम् । पुत्रकामामृतापत्ययो रजोनाशे च समाप्तमिदं कर्म ॥ अष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३२ ॥


________________________________


अथ प्रसवकाल इदं कर्म क्रियते । यथा सुखेनैव प्रसवो भवतीत्यर्थः.
अथ प्रसूतिकरणमुच्यते
[वषट्ते पूषन् (१.११) इति चतुर उदपात्रे सम्पातानानीय चतुरो मुञ्जान्मूर्ध्नि विवृहति प्राचः ॥ कौशिकसूत्र ४,९{३३}.१ ॥]
अभ्यातानान्तं कृत्वाऽवषट्ते पूषन्ऽ इति सूक्तेनोष्णोदके चतुरोऽप्सु सम्पातानानयति । त्रयः सम्पाताः प्रत्यृचम् । चतुर्थसम्पातश्च तिसृभिरृग्भिः । ततः सर्वेण सूक्तेनानुमन्त्रणम् । चतुरो मुञ्जजातानिषीकान् गर्भिण्या मूर्ध्नि तत्र पृथक्विवृहति । तत
उदपात्रेण सम्पातितेनाप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् ॥

[प्रतीचीरिषीकाः ॥ कौशिकसूत्र ४,९{३३}.२ ॥]
ततः पश्चादेवाभिमुख इषीका निःसारयति ॥

[छिद्यमानासु संशयः ॥ कौशिकसूत्र ४,९{३३}.३ ॥
उष्णेनाप्लावयति दक्षिणात्केशस्तुकात् ॥ कौशिकसूत्र ४,९{३३}.४ ॥]
छिद्यमानासु मुञ्जेषीकासु गर्भस्य मरणं भवेत् । एकं कर्म ॥

[शालाग्रन्थीन् विचृतति ॥ कौशिकसूत्र ४,९{३३}.५ ॥]
ऽवषट्ते पूषन्ऽ इति सूक्तं जपित्वा शालाग्रन्थीन् विचृतति मोचयति । द्वितीयं कर्म ॥

[उभयतःपाशं योक्त्रमाबध्नाति ॥ कौशिकसूत्र ४,९{३३}.६ ॥]
ऽवषट्ते पूषन्ऽ इति सूक्तेन योक्त्रमभिमन्त्र्य कटिप्रदेशे बध्नाति । तन्त्रम् । तृतीयं कर्म । केचित्ऽवषट्ते पूषन्ऽ इति सूक्तेन तैलमभिमन्त्र्याभ्यञ्जनं कुर्वन्ति प्रसवकाले । चतुर्थी ॥

लाङ्गलीओषधिविधानमुच्यते
[यदि सोमस्यासि राज्ञः सोमात्त्वा राज्ञोऽधि क्रीणामि यदि वरुणस्यासि राज्ञो वरुणात्त्वा राज्ञोऽधि क्रीणामि इत्येकविंशत्या यवैः स्रजं परिकिरति ॥ कौशिकसूत्र ४,९{३३}.७ ॥]
ऽयदि सोमस्यासि राज्ञःऽ इति मन्त्रेणैकविंशत्या यवैरोषध्युपरि प्रकिरति ॥

[अन्या वो अन्यामवत्वन्यान्यस्या उपावत । सध्रीचीः सव्रता भूत्वास्या अवत वीर्यमिति सन्नयति ॥ कौशिकसूत्र ४,९{३३}.८ ॥]
ऽअन्या वो अन्यामवऽ इत्योषध्या सयवमेकत्र बध्नाति ॥

[मा ते रिषत्खनिता यस्मै च त्वा खनामसि । द्विपाच्चतुष्पादस्माकं मा रिषद्देव्योषधे ॥ स्रजो नामासि । प्रजापतिष्ट्वामखनदात्मने शल्यस्रंसनम् । तां त्वा वयं खनामस्यमुष्मै त्वा शल्यस्रंसनमित्यस्तमिते छत्रेण चान्तर्धाय फालेन खनति ॥ कौशिकसूत्र ४,९{३३}.९ ॥]
ओषधिखननविधानम् ।ऽमा ते रिषत्खनिताऽ इति मन्त्रेण लोहफालेन खनति ॥

[अत्र तव राध्यतामित्यग्रमवदधाति ॥ कौशिकसूत्र ४,९{३३}.१० ॥]
ऽअत्र तव राध्यताम्ऽ इति मन्त्रेणौषध्यग्रं तत्रैव दधाति ॥

[इह मम इति मूलमुपयच्छति ॥ कौशिकसूत्र ४,९{३३}.११ ॥
एकसरेऽनुपलीढे कुमारः ॥ कौशिकसूत्र ४,९{३३}.१२ ॥]
ऽइह मम राध्यताम्ऽ इति मन्त्रेण मूलं गृह्णाति । गृहीत्वाऽवषट्ते पूषन्ऽ इति सूक्तेनौषधीमभिमन्त्र्य गर्भिण्याः शिरसि निदधाति ॥

[दर्भेण परिवेष्ट्य केशेषूपचृतति ॥ कौशिकसूत्र ४,९{३३}.१३ ॥]
दर्भेण वेष्टयित्वा रात्रावोषधिखननं करोति । छत्रेण वान्तर्धाय खनति ॥

[एवं ह विवृहशाकवृषे ॥ कौशिकसूत्र ४,९{३३}.१४ ॥
अवपन्ने जरायुण्युपोद्धरन्ति ॥ कौशिकसूत्र ४,९{३३}.१५ ॥]
पतिते गर्भेऽन्यत्र स्फोटयति । चतुर्थं कर्म ॥

[स्रजेनौषधिखननं व्याख्यातम् ॥ कौशिकसूत्र ४,९{३३}.१६ ॥]
सर्वत्रौषधिखननमनेन विधानेन कर्तव्यम् । यत्र क्वचिदोषधिखननं तत्र सर्वत्रानेन विधानेन कर्तव्यम् । स्वशास्त्रे परशास्त्रे च वैद्यकाद्येषु सर्वत्र ।ऽस्रजेनौषधिखननं व्याख्यातम्ऽ इति वचनात् । श्वेतकण्टारिकामूलं पुत्रकामा पिबति । यथोक्तेन सम्पातः । सर्वकर्मणां विकल्पेन प्रयोगः । एकं वा द्वे वा सर्वाणि वा कुर्यात् । कर्मबाहुल्यात्फलबाहुल्यम् । ओषधिवत्स्रजमूलं खात्वाऽवषट्ते पूषन्ऽ इत्यभिमन्त्र्य शिरसि विचृतति । ओषधिवद्व्रीहिमूलं खात्वाऽवषट्ते पूषन्ऽ इत्यभिमन्त्र्य ददाति । ओषधिवत्काकजङ्घामूलं खात्वाऽवषट्तेऽ इत्यभिमन्त्र्य शिरस्युपरि ददाति ॥

[चत्वार्युमाफलानि पाणावद्भिः श्चोतयते ॥ कौशिकसूत्र ४,९{३३}.१७ ॥]
ऽवषट्तेऽ इति सूक्तेन चत्वार्यौदुम्बरफलानि हस्ते कृत्वा तत उदकं प्रक्षिप्य ततो निरीक्षते ॥

[संवर्तमानेषु कुमारः ॥ कौशिकसूत्र ४,९{३३}.१८ ॥]
यदि तान्येकत्र भवति तदा पुत्रो जायते । विज्ञानकर्मेदम् ॥

[ब्राह्मणायनोऽङ्गान्यभिमृशति ॥ कौशिकसूत्र ४,९{३३}.१९ ॥]
ऽवषट्ते पूषन्ऽ इति सूक्तेन ब्राह्मणमभिमन्त्र्य ततः स गर्भिण्या अङ्गान्यभिमृशति ॥

[पुन्नामधेये कुमारः ॥ कौशिकसूत्र ४,९{३३}.२० ॥]
यदि पुन्नामधेयं स्पृशति तदा कुमारो जायते । विज्ञानकर्म । समाप्तानि सुखप्रसवकर्माणि । एभिः कर्मभिः कृतैः गर्भिण्याः सुखेन प्रसवो भवतीत्यर्थः ॥ नवमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३३ ॥


________________________________


अथ वन्ध्याप्रजननकरणमुच्यते
[इदं जनासः (१.३२) इत्यस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरोऽवसिञ्चति ॥ कौशिकसूत्र ४,१०{३४}.१ ॥]
ऽइदं जनासःऽ इति सूक्तेन शिंशपाशाखासूपविष्टायै शान्त्यौषधिसहितमुदकमभिमन्त्र्य वन्ध्यामवसिञ्चति ॥

[आव्रजितायै ॥ कौशिकसूत्र ४,१०{३४}.२ ॥]
ततो गृहेऽभ्यातानान्तं कृत्वाऽइदं जनासःऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं वन्ध्या काकवन्ध्या च प्रजननकर्म ॥

अथ मृतापत्यायाः स्त्र्यास्तस्याः शान्तिरुच्यते
[निःसालाम् (२.१४) इत्यवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेष्वप्सु सम्पातानानयति ॥ कौशिकसूत्र ४,१०{३४}.३ ॥]
गर्भास्त्रावे जातमात्रे मृते वा स्त्र्यां वा पुरुषे वा बाले वा यूनि वा मृते इदं कर्म । त्रीणि मण्डपानि प्राग्द्वाराणि कृत्वैकस्मिन्मण्डपेऽभ्यातानान्तं कृत्वाऽनिःसालाम्ऽ इति सूक्तेन ततः स्त्री कृष्णं वासः परिधाय ॥

[पलाशे सीसेषूत्तरान् ॥ कौशिकसूत्र ४,१०{३४}.४ ॥]
तत उदपात्रे सम्पात्याभिमन्त्र्य पलाशपत्रे सीसं कृत्वा सीसेषूत्तरसम्पातानानयति ॥

[सीसान्यधिष्ठाप्याप्लावयति ॥ कौशिकसूत्र ४,१०{३४}.५ ॥]
सीसेषूपरि स्त्रीमधिष्ठाप्य तेनोदपात्रेणाप्लावयति ॥

[निधाय कृष्णं व्रजति ॥ कौशिकसूत्र ४,१०{३४}.६ ॥]
कृष्णवस्त्रं तस्मिन्मण्डपे निधाय ॥

[आदीप्य ब्रह्मा ॥ कौशिकसूत्र ४,१०{३४}.७ ॥]
तत उत्तरतन्त्रं कृत्वा मण्डपमग्निना ज्वालयति ॥

[एवं पूर्वयोः पृथक्सम्भार्ये ॥ कौशिकसूत्र ४,१०{३४}.८ ॥
शाखासूक्तम् ॥ कौशिकसूत्र ४,१०{३४}.९ ॥]
तत द्वितीयमण्डप एवं कृत्वा श्वेतवस्त्रं परिधानं कृत्वा शिंशपाशाखासूपवेश्य स्त्रींऽनिःसालाम्ऽ इति सूक्तेन शान्तौषधिभिस्तदुदकमभिमन्त्र्यावसिञ्चति स्नपनं करोति । ततो गृह आगत्याज्यतन्त्रं कृत्वाऽनिःसालाम्ऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । तत उत्तरतन्त्रम् । त्रिमण्डपाद्येकं कर्म ॥

[पश्चादग्नेरभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीराधापयति ॥ कौशिकसूत्र ४,१०{३४}.१० ॥]
एकं मण्डपं कृत्वा प्राक्पश्चिमद्वारे इषीकां द्वार्योपरि बद्ध्वा ततोऽनिःसालाम्ऽ इति सूक्तेनौदुम्बरीः समिधो मृतापत्यायै आदधाति । तन्त्रविकल्पः । मन्त्रं कर्ता ब्रूयात् ॥

[उत्तमाव्रजितायै ॥ कौशिकसूत्र ४,१०{३४}.११ ॥]
ततोऽनिःसालाम्ऽ इति सूक्तेनोदकान्ते शान्तौषधिसहोदकमभिमन्त्र्यावसिञ्चति । ततो गृहेऽभ्यातानान्तं कृत्वाऽनिःसालाम्ऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । मृतापत्याविषये द्वितीयं कर्म । समाप्ता मृतापत्याशान्तिः । गर्भपतिते बालमरणे युवाने वा मृते एकस्मिन् वा मृते बहुषु वा मृतेषु स्त्रीणां शान्तिः कर्तव्या ॥

पतिलाभकर्माण्युच्यन्ते
[पतिवेदनानि ॥ कौशिकसूत्र ४,१०{३४}.१२ ॥
आ नो अग्ने (२.३६) इत्यागमकृशरमाशयति ॥ कौशिकसूत्र ४,१०{३४}.१३ ॥]
अभ्यातानान्तं कृत्वाऽआ नो अग्नेऽ इति सूक्तेनागमकृशरं सम्पात्याभिमन्त्र्याशयति कुमारीम् । उत्तरतन्त्रम् । पतिलाभकर्मार्थिनाम् ॥

[मृगाखराद्वेद्यां मन्त्रोक्तानि सम्पातवन्ति द्वारे प्रयच्छति ॥ कौशिकसूत्र ४,१०{३४}.१४ ॥]
मृगाखरमृत्तिकाया वेदिं कृत्वाभ्यातानान्तं समानम् ।ऽआ नो अग्नेऽ इति सूक्तेन हिरण्यालङ्कारान् गुग्गुलमौक्षं च यथोक्तान् सम्पात्य बन्धनं धूपनं प्रलेपनं करोति कुमार्याः । अभ्यातानाद्युत्तरतन्त्रम् । द्रव्यं प्रति सूक्तावृत्तिः । पूर्वस्य संहिताविधिः । श्लोकः
आवपेत्सुरभिर्गन्धान् क्षीरे सर्पिस्तथोदके.
एतदायनमित्याहुरौक्षं तु मधुना सह ॥

[उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति ॥ कौशिकसूत्र ४,१०{३४}.१५ ॥]
ऽआ नो अग्नेऽ इति सूक्तेन कांस्यपात्रे उदकसहिते व्रीहियवौ गृहीत्वा प्रत्यृचं जुहोति रात्रौ । ततो दक्षिणामुखीं कुमारीं प्रक्रामति । तन्त्रं वा ॥

[पश्चादग्नेः प्रक्षाल्य सन्धाव्य सम्पातवतीं भगस्य नावम् (२.३६.५) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,१०{३४}.१६ ॥]
अभ्यातानान्तं कृत्वाऽआ नो अग्नेऽ इति सूक्तेन नावं सम्पात्योदके कृत्वा कुमारीं चटापयित्वाऽभगस्य नावम्ऽ इत्यृचा
उत्तारयति । तत उत्तरतन्त्रम् ॥

[सप्तदाम्न्यां सम्पातवत्यां वत्सान् प्रत्यन्तान् प्रचृतन्तो वहन्ति ॥ कौशिकसूत्र ४,१०{३४}.१७ ॥]
अभ्यातानान्तं कृत्वाऽआ नो अग्नेऽ इति सूक्तेन सप्तदामतन्त्र्यां सम्पातवत्यां वत्सान् बन्धयित्वाभिमन्त्र्य कुमारी मोचयति स्वयं न कर्ता । उत्तरतन्त्रम् । दिशा पतिवेदनं च । यदि प्रदक्षिणं मोचयति तदा पतिलाभः ॥

[अहतेन सम्पातवता ऋषभमभ्यस्यति ॥ कौशिकसूत्र ४,१०{३४}.१८ ॥
उदर्दयति यां दिशम् ॥ कौशिकसूत्र ४,१०{३४}.१९ ॥]
तन्त्रं कृत्वाऽआ नो अग्नेऽ इति सूक्तेनाहतवस्त्रेण वेष्टितं वृषभं सम्पात्याभिमन्त्र्य विसर्जयति । उत्तरतन्त्रम् ॥

[जाम्यै प्र यदेते (५.१.४) इत्यागमकृशरम् ॥ कौशिकसूत्र ४,१०{३४}.२० ॥]
ऽप्र यदेते प्रतरम्ऽ इत्यृचागमकृशरं सम्पात्याभिमन्त्र्याशयति । आज्यतन्त्रे ॥

[इमा ब्रह्म (५.२.८) इति स्वस्रे ॥ कौशिकसूत्र ४,१०{३४}.२१ ॥]
ऽइमा ब्रह्मऽ इत्यृचागमकृशरं सम्पात्याभिमन्त्र्याशयति । आज्यतन्त्रे । भगिनीकम् ॥

[अयमा याति (६.६०) इति पुरा काकसम्पातादर्यम्णे जुहोति ॥ कौशिकसूत्र ४,१०{३४}.२२ ॥]
ऽअयमा यातिऽ इति सूक्तेनाज्यं जुहोति । आज्यतन्त्रे । पुरा काकसम्पातात् ॥

[अन्तःस्रक्तिषु बलीन् हरन्ति ॥ कौशिकसूत्र ४,१०{३४}.२३ ॥]
ततःऽअर्यम्णेऽ इत्यर्धर्चेन गृहाभ्यन्तरे कोणे बलिहरणं करोति । रात्राविदं कर्म ॥

[आपतन्ति यतः ॥ कौशिकसूत्र ४,१०{३४}.२४ ॥]
यतः काक आगच्छति तत आगच्छति वरः । समाप्तानि पतिलाभकर्माणि ॥ दशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३४ ॥


________________________________


पुंसवनान्युच्यन्ते
[पुंसवनानि ॥ कौशिकसूत्र ४,११{३५}.१ ॥
रजौद्वासायाः पुन्नक्षत्रे ॥ कौशिकसूत्र ४,११{३५}.२ ॥]
नक्षत्रकल्प उक्तानि पुन्नक्षत्राणि ॥

[येन वेहत्(३.२३) इति बाणं मूर्ध्नि विवृहति बध्नाति ॥ कौशिकसूत्र ४,११{३५}.३ ॥]
ऽयेन वेहत्ऽ इति सूक्तेन बाणमभिमन्त्र्य स्त्रीमूर्ध्नि विवृहति पुण्याहान्ते । ततः श्राद्धं करोति । एवं कर्म । अथवा इदं कर्म करोति । पुंसवनकर्मणि वर्तते । अभ्यातानान्तं कृत्वाऽयेन वेहत्ऽ इति सूक्तेन शरमणिं सम्पात्याभिमन्त्र्य बध्नाति पुण्याहान्ते । अभ्यातानाद्युत्तरतन्त्रम् ॥

[फालचमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वमिव ॥ कौशिकसूत्र ४,११{३५}.४ ॥]
ऽयेन वेहत्ऽ इति सूक्तेन फालचमसे सारूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा एकत्र पिष्ट्वाभिमन्त्र्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नासिकायां नस्तं ददाति । पुत्रार्थं कर्म पुंसवनमित्युच्यते । समाप्तं पुंसवनम् ॥

अथ गर्भाधानमुच्यते
[पर्वताद्दिवः (५.२५) इत्यागमकृशरमाशयति ॥ कौशिकसूत्र ४,११{३५}.५ ॥
युगतर्द्मना सम्पातवन्तं द्वितीयम् ॥ कौशिकसूत्र ४,११{३५}.६ ॥]
अभ्यातानान्तं कृत्वाऽपर्वताद्दिवःऽ इति सूक्तेनागमकृशरं चरुद्वयं श्रपयित्वैकं चरुं सम्पात्याभिमन्त्र्य द्वितीयं चरुं युगछिद्रेण सम्पात्याभिमन्त्र्य ततः प्राशनम् । तत उत्तरतन्त्रम् ॥

[खे लूनांश्च पलाशत्सरून्निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति ॥ कौशिकसूत्र ४,११{३५}.७ ॥]
केलूनांश्च पलाशत्सरून्निवृत्ते निघृष्यऽपर्वताद्दिवःऽ इति सूक्तेनाभिमन्त्र्य शिश्ने आधाय । ततो मैथुनं करोति । समाप्तं गर्भाधानम् ॥

पुनःपुंसवनमुच्यते
[शमीमश्वत्थः (६.११) इति मन्त्रोक्तेऽग्निं मथित्वा पुंस्याः सर्पिषि पैद्वमिव ॥ कौशिकसूत्र ४,११{३५}.८ ॥]
ऽशमीमश्वत्थःऽ इति सूक्तेनाग्निं मथित्वा ततोऽग्निं सर्पिषि निक्षिप्य घृतमभिमन्त्र्य स्त्र्या दक्षिणनासिकायां नस्तं ददाति दक्षिणेनाङ्गुष्ठेन ॥

[मधुमन्थे पाययति ॥ कौशिकसूत्र ४,११{३५}.९ ॥]
ततोऽग्निं मथित्वा ततो मधुमन्थेऽग्निं निक्षिप्यऽशमीमश्वत्थःऽ इति सूक्तेनाभिमन्त्र्य पाययति स्त्रीम् ॥

[कृष्णोर्णाभिः परिवेष्ट्य बध्नाति ॥ कौशिकसूत्र ४,११{३५}.१० ॥]
ऽशमीमश्वत्थःऽ इति सूक्तेन शमीगर्भाश्वत्थस्याग्निं कृष्णोर्णया वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रे । समाप्तं पुनःपुंसवनम् ॥

अथ गर्भाधानमुच्यते
[यन्तासि (६.८१) इति मन्त्रोक्तं बध्नाति ॥ कौशिकसूत्र ४,११{३५}.११ ॥]
ऽयन्तासिऽ इति सूक्तेन हस्तावर्तं कङ्कणादिकं सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रे । समाप्तं गर्भाधानम् ॥

अथ गर्भदृंहणान्युच्यन्ते
[ऋधङ्मन्त्रः (५.१.१) इत्येका यथेयं पृथिवी (६.१७) अच्युता इति गर्भदृंहणानि ॥ कौशिकसूत्र ४,११{३५}.१२ ॥
जम्भगृहीताय प्रथमावर्जं ज्यां त्रिरुद्ग्रथ्य बध्नाति ॥ कौशिकसूत्र ४,११{३५}.१३ ॥]
ऽऋधङ्मन्त्रःऽ इत्येकया धनुर्ज्यां त्रिरुद्ग्रथ्य सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रम् ।ऽयथेयं पृथिवीऽ इति सूक्तम् ।ऽअच्युता द्यौःऽ इति सूक्तम् । द्वाभ्यां धनुर्ज्यां त्रिरुद्ग्रथ्य सम्पात्याभिमन्त्र्य बध्नाति स्त्रियाः । अभ्यातानाद्युत्तरतन्त्रम् ॥

[लोष्टानन्वृचं प्राशयति ॥ कौशिकसूत्र ४,११{३५}.१४ ॥]
ऽऋधङ्मन्त्रःऽ इत्येकया क्षेत्रलोष्टमृत्तिकामभिमन्त्र्य प्राशयति ।ऽयथेयं पृथिवीऽऽअच्युताऽ इति सूक्ताभ्यां क्षेत्रलोष्टमृत्तिकामभिमन्त्र्य प्राशयति गर्भिणीं प्रत्यृचम् ॥

[श्यामसिकताभिः शयनं परिकिरति ॥ कौशिकसूत्र ४,११{३५}.१५ ॥]
ऽऋधङ्मन्त्रःऽ इत्येकया कृष्णसिकता अभिमन्त्र्य गर्भिण्याः शयनं परिकिरति ।ऽयथेयं पृथिवीऽऽअच्युताऽ इति सूक्ताभ्यां श्यामसिकता अभिमन्त्र्य प्रत्यृचं गर्भिण्याः शयनं परिकिरति । जम्भगृहीताय प्रथमावर्जम् । समाप्तानि गर्भदृंहणानि ॥

[यामिच्छेद्वीरं जनयेदिति धातर्व्याभिरुदरमभिमन्त्रयते ॥ कौशिकसूत्र ४,११{३५}.१६ ॥]
ऽधाता दधातुऽ (७.१७) इति चतसृभिर्गर्भिण्या उदरमभिमन्त्रयते । ब्राह्मणक्षत्रियवैश्यशूद्राणां जात्याधर्मस्वजात्याधर्मबलवीर्यादियुक्ताः पुत्रा भवन्ति । वीरो जायते । वीरकर्म समाप्तम् ॥

अथ प्रजननकर्म
[प्रजापतिः (७.२०) इति प्रजाकामाया उपस्थे जुहोति ॥ कौशिकसूत्र ४,११{३५}.१७ ॥]
ऽप्रजापतिर्जनयतुऽ इति सूक्तेन प्रजाकामायाः स्त्रिय उत्सङ्गे आज्यं जुहोति । प्रजननकर्म ॥

[लोहिताजापिशितान्याशयति ॥ कौशिकसूत्र ४,११{३५}.१८ ॥]
अभ्यातानान्तं कृत्वाऽप्रजापतिर्जनयतुऽ इत्यृचा रक्तच्छागमांसं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥

[प्रपान्तानि ॥ कौशिकसूत्र ४,११{३५}.१९ ॥]
अभ्यातानान्तं कृत्वाऽप्रजापतिःऽ इत्यृचोदकुलिजं सम्पातवन्तं कृत्वा गर्भिणीं परिहृत्य मध्ये निनयति । उत्तरतन्त्रम् । तन्त्रे
सुराकुलिजं सम्पात्य स्त्रीं परिहृत्याग्रे निनयति । भक्तं सुरां प्रपां सम्पात्याभिमन्त्र्य प्रजाकामायै प्रयच्छति तन्त्रे । समाप्तं
प्रजाकर्म वन्ध्यायाः ॥

अथ सीमन्तकर्मोच्यते
[यौ ते माता (८.६) इति मन्त्रोक्तौ बध्नाति ॥ कौशिकसूत्र ४,११{३५}.२० ॥]
अभ्यातानान्तं कृत्वाऽयौ ते माताऽ इत्यर्थसूक्तेन श्वेतपीतसर्षपान् सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं सीमन्तोन्नयनम् । समाप्तानि दृंहणानि ॥

अथ स्त्रीवशीकरणमुच्यते
[यथेदं भूम्या अधि (२.३०), यथा वृक्षम् (६.८), वाञ्छ मे (६.९), यथायं वाहः (६.१०२) इति संस्पृष्टयोर्वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणमाज्येन सन्नीय संस्पृशति ॥ कौशिकसूत्र ४,११{३५}.२१ ॥]
वृक्षत्वक्शरखण्डं तगरमञ्जनं कुष्ठं ज्येष्ठीमधु श्लेष्मवातसंश्रयगततृणमेतानि द्रव्याण्याज्यमध्ये पेषयित्वाऽयथेदं भूम्याःऽ इति सूक्तेनाभिमन्त्र्य स्त्रिया अङ्गं समालभते । रुच्यर्थम् ।ऽयथा वृक्षं लिबुजाऽऽवाञ्छ मे तन्वम्ऽ इति सूक्ताभ्यां वृक्षत्वक्तगरमञ्जनं कुष्ठं ज्येष्ठीमधु वातसम्भ्रमतृणान्येतानि द्रव्याण्याज्येनालोड्याभिमन्त्र्य जायां प्रलिम्पति ।ऽयथायं वाहःऽ इत्येतानि द्रव्याण्यालोड्य घृतेन ततोऽभिमन्त्र्य जायां प्रलिम्पति । वशीकरणकामः ॥

[उत्तुदस्त्वा (३.२५) इत्यङ्गुल्योपनुदति ॥ कौशिकसूत्र ४,११{३५}.२२ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तं जपित्वा अङ्गुल्या नुदति भार्यामुदरे पृष्टौ रुच्यर्थी ॥

[एकविंशतिं प्राचीनकण्टकानलङ्कृताननूक्तानादधाति ॥ कौशिकसूत्र ४,११{३५}.२३ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेनैकविंशति बदरीकण्टकानादधाति । घृतेनाभ्यज्य ॥

[कूदीप्रान्तानि ससूत्राणि ॥ कौशिकसूत्र ४,११{३५}.२४ ॥]
एकविंशतिबदरीप्रान्तानि सूत्रेण वेष्टयित्वाऽउत्तुदस्त्वाऽ इति सूक्तेन सकृत्जुहोति । रुच्यर्थी ॥

[नवनीतान्वक्तं कुष्ठं त्रिरहनः प्रतपति त्रिरात्रे ॥ कौशिकसूत्र ४,११{३५}.२५ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेन कुष्ठं नवनीतेनाभ्यज्याग्नौ प्रक्षिपति प्रातर्मध्यन्दिने सायं च । एकरात्रौ वा ॥

[दीर्घोत्पलेऽवगृह्य संविशति ॥ कौशिकसूत्र ४,११{३५}.२६ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेन खट्वाधोमुखपट्टिकां गृहीत्वा संविशति स्वपिति । त्रिरात्रं कर्म ॥

[उष्णोदकं त्रिपादे पत्तः प्रबद्धाङ्गुष्ठाभ्यामर्दयञ्छेते ॥ कौशिकसूत्र ४,११{३५}.२७ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेनोष्णोदकं त्रिपादे शिक्ये प्रबद्धाङ्गुष्ठाभ्यामर्दयञ्छेते । रुच्यर्थी ॥

[प्रतिकृतिमावलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्ययोलूकपत्रयासितालकाण्डया हृदये विध्यति ॥ कौशिकसूत्र ४,११{३५}.२८ ॥]
प्रतिकृतिमावलेखनीं दार्भ्यषेण भाङ्गज्येन कण्टकशल्ययोलूकपत्रयासितालकाण्डयाऽउत्तुदस्त्वाऽ इति सूक्तेन हृदये विध्यति ।
समाप्तानि संवननानि वशीकरणानि । कामविषये स्त्रिया उत्साहो भवति । तथा च यस्य कामो नास्ति तस्य कामोऽतिशयेन कामकरणमित्यर्थः । अनेन कर्मणा कामो भवति ॥ एकादशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३५ ॥


________________________________


स्वापनविघ्नशमनम् । स्त्रीस्वापनकर्मोच्यते
[सहस्रशृङ्गः (४.५) इति स्वापनम् ॥ कौशिकसूत्र ४,१२{३६}.१ ॥
उदपात्रेण सम्पातवता शालां सम्प्रोक्ष्यापरस्मिन् द्वारपक्षे न्युब्जति ॥ कौशिकसूत्र ४,१२{३६}.२ ॥]
अभ्यातानान्तं कृत्वाऽसहस्रशृङ्गःऽ इति सूक्तेनोदपात्रं सम्पात्य शालां सम्प्रोक्षति । शयनशालां सर्वां प्रोक्षति । अभ्यन्तरद्वारे
शेषमुदकं न्युब्जति । अभ्यातानाद्युत्तरतन्त्रम् । स्वापनकर्म ॥

[एवं नग्नः ॥ कौशिकसूत्र ४,१२{३६}.३ ॥
उलूखलमुत्तरां स्रक्तिं दक्षिणशयनपादं तन्तूनभिमन्त्रयते ॥ कौशिकसूत्र ४,१२{३६}.४ ॥]
ऽसहस्रशृङ्गःऽ इति सूक्तेन नग्नो भूत्वोलूखलमभिमन्त्रयते ।ऽसहस्रशृङ्गःऽ इति सूक्तेन गृहस्योत्तरं कोणमभिमन्त्रयते ।ऽसहस्रशृङ्गःऽ इति सूक्तेन स्त्रियाः खटवाया दक्षिणं पादमभिमन्त्रयते ।ऽसहस्रशृङ्गःऽ इति सूक्तेन खट्वाया रज्जुमभिमन्त्रयते । कर्मणां विकल्पः । स्त्रीस्वापनम् । पुरुषस्य विषये काम उत्पद्यते । कामविषये स्त्रीस्वापनं समाप्तम् । लज्जाप्रच्छादनं न भवतीत्यर्थः । स्वापनं सर्वेषां मानुषाणां निद्राकामानां निद्रा भवति । मैथुनमाचरतो विघ्नं न भवति । अन्तःस्वापनमित्युच्यते । मैथुनान्निद्रेच्छा भवतीत्यर्थः ॥

अथ पलायिन्याः स्त्रियो बन्धनकर्म तन्त्रक्रमेण क्रियते । रज्जुः कल्पते । तद्रज्जुवेष्टनमुच्यते । पलायमानाया निरोधकरणं कर्मोच्यते
[अस्थाद्द्यौः (६.७७) इति निवेष्टनम् ॥ कौशिकसूत्र ४,१२{३६}.५ ॥
आवेष्टनेन वंशाग्रमवबध्य मध्यमायां बध्नाति ॥ कौशिकसूत्र ४,१२{३६}.६ ॥]
ऽअस्थाद्द्यौःऽ इति सूक्तेन द्वितीयेन रज्जुवेष्टनमभिमन्त्र्य वंशाग्रे बद्ध्वा मध्यमस्थूणे बध्नाति ॥

[शयनपादमुत्पले च ॥ कौशिकसूत्र ४,१२{३६}.७ ॥
आकृष्टे च ॥ कौशिकसूत्र ४,१२{३६}.८ ॥
आकर्षेण तिलाञ्जुहोति ॥ कौशिकसूत्र ४,१२{३६}.९ ॥]
ऽअस्थाद्द्यौःऽ इति सूक्तेन शयनपादमभिमन्त्र्योत्पले च बध्नाति ।ऽअस्थाद्द्यौःऽ इति सूक्तेनाङ्कुशेन तिलाञ्जुहोति । पलायिन्याः स्त्रिया बन्धनकर्माणि समाप्तानि । निरोधकरणानि ॥

जायापत्योरक्रोधकरणमुच्यते
[इदं यत्प्रेण्यः (६.८९) इति शिरःकर्णमभिमन्त्रयते ॥ कौशिकसूत्र ४,१२{३६}.१० ॥]
ऽइदं यत्प्रेण्यः शिरःऽ इति सूक्तेन स्त्रीशिरःकर्णं चानुमन्त्रयते । पुरुषस्य च ॥

[केशान् धारयति ॥ कौशिकसूत्र ४,१२{३६}.११ ॥]
ऽइदं यत्प्रेण्यः शिरःऽ इति सूक्तेन केशान् धारयति । समाप्तं स्त्रीपुरुषयोरक्रोधकरणम् ॥

सौभाग्यकरणमुच्यते
[भगेन मा (६.१२९) न्यस्तिका (६.१३९) इदं खनामि (७.३८) इति सौवर्चलमोषधिवच्छुक्लप्रसूनं शिरस्युपचृत्य ग्रामं प्रविशति ॥ कौशिकसूत्र ४,१२{३६}.१२ ॥]
अभ्यातानान्तं कृत्वाऽभगेन मा शांशपेनऽ इति सूक्तेन शङ्खपुष्पीमूलमोषधिवत्खात्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ।ऽभगेन माऽ इति सूक्तेन सौवचलपुष्पमभिमन्त्र्य यस्य सौभाग्यमिच्छति तस्य शिरसि बद्ध्वा स मैथुनं करोति । समाप्तं सौभाग्यकरणम् ॥

सौभाग्यसंवननमुच्यते
अभ्यातानान्तं कृत्वाऽन्यस्तिका रुरोहिथऽ इति सूक्तेन सौवर्चलमूलं सम्पात्याभिमन्त्र्य बध्नाति पुष्पं च शिरसि ददाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽइदं खनामिऽ इति सूक्तेन सौवर्चलमूलं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सौवर्चलं सूर्यवेलेति प्रसिद्धा ।ऽइदं खनामिऽ इति सूक्तेन सौवर्चलमूलमभिमन्त्र्य बध्नाति । तन्त्रे । शिरसि स्त्रियः । समाप्तं पतिरुचिकरणम् ॥

दुष्टास्त्रीवशीकरणमुच्यते
[रथजिताम् (६.१३०१३२) इति माषस्मरान्निवपति ॥ कौशिकसूत्र ४,१२{३६}.१३ ॥]
ऽरथजिताम्ऽ इति सूक्तैस्त्रिभिर्माषानभिमन्त्र्य स्त्रिया आक्रमेषु वपति ।ऽरथजिताम्ऽ इति त्रिभिः सूक्तैश्चणकानभिमन्त्र्य स्त्रिया आक्रमेषु वपति । खट्वास्थाने वा गृहे शयनदेशे वा ॥

[शरभृष्टीरादीप्ताः प्रतिदिशमभ्यस्यत्यर्वाच्या आवलेखन्याः ॥ कौशिकसूत्र ४,१२{३६}.१४ ॥]
ऽरथजिताम्ऽ इति त्रिभिः सूक्तैः शरभृष्टीरादीप्ता अभिमन्त्र्य प्रतिदिशमभ्यस्यति । एषु पतिः प्रतिकृतिं कृत्वाऽरथजिताम्ऽ इति त्रिभिसूक्तैः हृदये विध्यति दार्भ्यूषेण भाङ्गज्येन । समाप्तानि दुष्टस्त्रीवशीकरणानि । पुरुषो वा स्त्रीणां द्वेषं करोति । अनेन कर्मणा शान्तिर्भवति ॥

अथ स्त्रियो वा पुरुषस्य वा दौर्भाग्यकरणमुच्यते
[भगमस्या वर्चः (१.१४) इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशमुलूखलदरणे त्रिशिले निखनति ॥ कौशिकसूत्र ४,१२{३६}.१५ ॥]
स्त्रियाः पुष्पमालानिष्प्रमन्ददन्तधावनकेशास्तानेकीकृत्य । ज्वरहतगोचर्मणावेष्ट्यऽभगमस्याःऽ इति सूक्तेनाभिमन्त्र्योलूखलदरणे त्रिशिले निखनति । तत उलूखले ददाति । दौर्भाग्यकामः । मालानिष्प्रमन्ददन्तधावनकेशास्तानेकीकृत्यऽभगमस्याःऽ इति सूक्तेनाभिमन्त्र्य । दहनघातिता गौरनुस्तरणीत्युच्यते । ईशानहता ज्वरहतेत्युच्यते । तस्याश्चर्मणावेष्ट्य तत उलूखलदरणे त्रिशिले निखनति । तत उलूखले ददाति उपरि । यस्य दौर्भाग्यं क्रियते तस्यैतानि गृह्णीयात् ॥

[मालामुपमथ्यान्वाह ॥ कौशिकसूत्र ४,१२{३६}.१६ ॥]
ऽभगमस्या वर्चःऽ इति सूक्तेन स्त्रीपुष्पमालां हस्तेन मथित्वा स्त्रीं दृष्ट्वान्वाह । जपतीत्यर्थः । दौर्भाग्यकामः ॥

[त्रीणि केशमण्डलानि कृष्णसूत्रेण विग्रथ्य त्रिशिलेऽश्मोत्तराणि व्यत्यासम् ॥ कौशिकसूत्र ४,१२{३६}.१७ ॥]
ऽभगमस्या वर्चःऽ इति सूक्तेन त्रीणि केशमण्डलानि कृष्णसूत्रेण वेष्टयित्वाभिमन्त्र्य त्रिशिलेऽश्मोत्तराणि व्यत्यासमश्मानं शालाया उपरि ददाति । व्यत्यासेन निखनति । दौर्भाग्यकामः । समाप्तं दौर्भाग्यकरणम् ॥

दुष्टस्त्री वेश्याकुलटादि । अथ तस्याः सौभाग्यकरणमुच्यते
[अथास्यै भगमुत्खनति यं ते भगं निचख्नुस्त्रिशिले यं चतुःशिले । इदं तमुत्खनामि प्रजया च धनेन च इति ॥ कौशिकसूत्र ४,१२{३६}.१८ ॥]
ऽयं ते भगं निचख्नुःऽ इत्यृचा शिला उत्खनति । उत्पाटयति ।ऽभगमस्याःऽ इत्यनेन सूक्तेन यत्कृतं तदनया विनश्यति । समाप्तं यस्या दौर्भाग्यं कृतं तस्याः सौभाग्यकरणम् ॥

अथ सपत्नीजयकर्माण्युच्यन्ते । भर्त्रा सह विद्वेषो भवतीत्यर्थः
[इमां खनामि (३.१८) इति बाणापर्णीं लोहिताजाया द्रप्सेन सन्नीय शयनमनु परिकिरति ॥ कौशिकसूत्र ४,१२{३६}.१९ ॥]
ऽइमां खनामिऽ इति सूक्तेन बाणापर्णीं रक्तवर्णाया अजाया दध्युदकेन सन्नीय ततोऽभिमन्त्र्य सपत्नीशयने परिकिरति । सपत्नीविद्वेषणं भर्त्रा सह ॥

[अभि तेऽधाम् (३.१८.६) इत्यधस्तात्पलाशमुपचृतति ॥ कौशिकसूत्र ४,१२{३६}.२० ॥]
ऽअभि तेऽधाम्ऽ इति पादेन बाणापर्णीपत्राण्यभिमन्त्र्य शयनाधस्तात्प्रक्षिपति । सपत्नीशयने जयकामः ॥

[उप तेऽधाम् (३.१८.६) इत्युपर्युपास्यति ॥ कौशिकसूत्र ४,१२{३६}.२१ ॥]
ऽउप तेऽधाम्ऽ इति पादेन बाणापर्णीओषधिपत्राण्यभिमन्त्र्य सपत्नीशयन उपरि क्षिपति । बाणापर्णी मासिका लोके प्रसिद्धा । समाप्तानि सपत्नीजयकर्माणि । भर्त्रा सह विद्वेषो भवतीत्यर्थः ॥

अथ स्त्रीविषये काम उत्पन्ने कामविनाशकान्युच्यन्ते
[कामं विनेष्यमाणोऽपाघेनासङ्ख्याताः शर्कराः परिकिरन् व्रजति ॥ कौशिकसूत्र ४,१२{३६}.२२ ॥]
ऽअप नः शोशुचदघम्ऽ (४.३३) इति सूक्तेनासङ्ख्याताः शर्करा अभिमन्त्र्य परिकिरन् व्रजति । यस्मिन् देशे काम उत्पन्नः तत्
स्थानं यावत् । स्त्री वा पुरुषो वा ॥

[सम्मृद्नञ्जपति ॥ कौशिकसूत्र ४,१२{३६}.२३ ॥]
ऽअप नः शोशुचत्ऽ इति सूक्तेनासङ्ख्याताः शर्करा हस्ते गृहीत्वा परिकिरन् व्रजति । स्त्रीगृहं यावत्कामोत्पत्तिदेशम् ॥

[असम्मृद्नन् ॥ कौशिकसूत्र ४,१२{३६}.२४ ॥]
ऽअप नः शोशुचत्ऽ इति सूक्तेनासङ्ख्याताः शर्करा हस्ते गृहीत्वा जपति । कामो विनश्यति । स्त्रीकामं यावत् । स्त्रीणां पुरुषाणां कामविनाशकानि समाप्तानि ॥

स्त्रीविषय ईर्ष्याविनाशकान्युच्यन्ते
[ईर्ष्याया ध्राजिम् (६.१८) जनाद्विश्वजनीनात्(७.४५) त्वाष्ट्रेणाहम् (७.७४.३) इति प्रतिजापः प्रदानाभिमर्शनानि ॥ कौशिकसूत्र ४,१२{३६}.२५ ॥]
ऽईर्ष्याया ध्राजिं प्रथमाम्ऽ इति सूक्तेनेर्ष्यालुं दृष्ट्वा जपति । ईर्ष्या विनश्यति ।ऽजनाद्विश्वजनीनात्ऽ इति द्व्यृचमीर्ष्यालुं दृष्ट्वा जपति ।ऽत्वाष्ट्रेणाहम्ऽ इत्यृचेर्ष्यालुं दृष्ट्वा जपति । ईर्ष्या विनश्यति ।ऽईर्ष्याया ध्राजिम्ऽ इति सूक्तेन सक्तुमन्थमभिमन्त्र्येर्ष्यालुकाय ददाति । ईर्ष्याविनाशकामः ।ऽजनाद्विश्वजनीनात्ऽ इत्यृचा मन्थमभिमन्त्र्येर्ष्यालुकाय ददाति भक्षणार्थम् ।ऽत्वाष्ट्रेणाहम्ऽ इत्यृचा मन्थमभिमन्त्र्येर्ष्यालुकाय ददाति ।ऽईर्ष्याया ध्राजिम्ऽ इति सूक्तमीर्ष्यालुं स्पृष्ट्वा जपति ।ऽजनाद्विश्वजनीनात्ऽ इत्यृचेर्ष्यालुं स्पृष्ट्वा जपति ।ऽत्वाष्ट्रेणाहम्ऽ इत्यृचेर्ष्यालुं स्पृष्ट्वा जपति ॥

[प्रथमेन वक्षणासु मन्त्रोक्तम् ॥ कौशिकसूत्र ४,१२{३६}.२६ ॥]
ऽईर्ष्याया ध्राजिम्ऽ इति सूक्तेन कटिप्रदेशे वक्षणे खल्वामभिमन्त्र्य धमति । ईर्ष्याविनाशनम् ॥

[अग्नेरिव (७.४५.२) इति परशुफाण्टम् ॥ कौशिकसूत्र ४,१२{३६}.२७ ॥]
ऽअग्नेरिवऽ इत्यृचा परशुना तप्तेन क्वाथितमुदकमभिमन्त्र्य पाययति । समाप्तानीर्ष्याविनाशकानि । स्त्रीविषये ॥

अथ मन्युविनाशकान्युच्यन्ते स्त्रीविषये पुरुषस्य
[अव ज्यामिव (६.४२) इति दृष्ट्वाश्मानमादत्ते ॥ कौशिकसूत्र ४,१२{३६}.२८ ॥]
ऽअव ज्यामिवऽ इति सूक्तेन मन्युमन्तं पुरुषं दृष्ट्वाश्मानमभिमन्त्र्य हस्तेन गृह्णाति । सर्वत्र कर्ता कर्म करोति ॥

[द्वितीययाभिनिदधाति ॥ कौशिकसूत्र ४,१२{३६}.२९ ॥]
ऽसखायाविव सचावहैऽ (६.४२.२) इत्येकां जपित्वाश्मानं भूमौ निदधाति ॥

[तृतीययाभिनिष्ठीवति ॥ कौशिकसूत्र ४,१२{३६}.३० ॥]
ऽअभि तिष्ठामि ते मन्युम्ऽ (६.४२.३) इत्येकां जपित्वाश्मनोपरि निष्ठीवति ॥

[छायायां सज्यं करोति ॥ कौशिकसूत्र ४,१२{३६}.३१ ॥]
ऽअव ज्यामिवऽ इति सूक्तेन मन्युमतः पुरुषस्य छायायां धनुरभिमन्त्र्य सज्यं करोति । चटापयतीत्यर्थः । स्त्रीविषये पुरुषस्य
मन्युर्भवति । पुरुषविषये स्त्रीणां वा । समाप्तानि स्त्रीविषये मन्युविनाशकानि ॥

अथ सर्वविषये मन्युविनाशकान्युच्यन्ते
[अयं दर्भः (६.४३) इत्योषधिवत् ॥ कौशिकसूत्र ४,१२{३६}.३२ ॥]
तन्त्रं कृत्वाऽअयं दर्भःऽ इति सूक्तेन दर्भमूलमोषधिवत्खात्वा सम्पात्याभिमन्त्र्य बध्नाति मन्युके । तत उत्तरतन्त्रम् । मन्युविनाशम् । स्त्रीविषये मन्युविनाशो भवति । समाप्तानि स्त्रीमन्युविनाशकानि ॥

अवीरजननमुच्यते । अपुत्रजननमित्यर्थः
[अग्ने जातान् (७.३४) इति न वीरं जनयेत्प्रान्यान् (७.३५) इति न विजायेतेत्यश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्य भक्तेऽलङ्कारे ॥ कौशिकसूत्र ४,१२{३६}.३३ ॥
सीमन्तमन्वीक्षते ॥ कौशिकसूत्र ४,१२{३६}.३४ ॥]
ऽअग्ने जातान्ऽ इत्यचाश्वतरीमूत्रेण पाषाणं निघृष्य ततोऽभिमन्त्र्य भक्तेन सह ददाति विद्वेषिण्य परस्त्र्यै ।ऽअग्ने जातान्ऽ इत्यृचाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्यालङ्कारं समालभते परस्त्र्यै विद्वेषिण्यै ।ऽअग्ने जातान्ऽ इत्यृचा सीमन्तमन्वीक्षते परस्त्र्यै । दुहिता वा पुरुषो वेति । कृष्णो वा जायते । समाप्तान्यवीरजननानि ॥

अथ वन्ध्याकरणमुच्यते
ऽप्रान्यान्त्सपत्नान्ऽ इति तृचेनाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्य भक्ते ददाति । तद्भक्तं परस्त्र्यै विद्वेषिण्यै ददाति भोजनार्थम् ।ऽप्रान्यान्त्सपत्नान्ऽ इति तृचेनाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्य तस्यालङ्कारा॑म्ल्लेपयति ।ऽप्रान्यान्ऽ इति तृचेन सीमन्तमन्वीक्षते विद्वेषिण्यै । समाप्तानि परस्त्रीवन्ध्याकरणानि ॥

जारोच्चाटनमुच्यते
[अपि वृश्च (७.९०) इति जायायै जारमन्वाह ॥ कौशिकसूत्र ४,१२{३६}.३५ ॥]
ऽअपि वृश्चऽ इति सूक्तं तृचं जारं दृष्ट्वा जपति ॥

[क्लीबपदे बाधकं धनुर्वृश्चति ॥ कौशिकसूत्र ४,१२{३६}.३६ ॥]
ऽअपि वृश्चऽ इति सूक्तेन जारपदस्थाने बाधकं धनुर्वृश्चति ॥

[आशयेऽश्मानं प्रहरति ॥ कौशिकसूत्र ४,१२{३६}.३७ ॥]
ऽअपि वृश्चऽ इति तृचेन सूक्तेन पाषाणमभिमन्त्र्य जारमैथुनस्थाने प्रक्षिपत्युच्चाटनार्थम् । समाप्तं जारोच्चाटनम् ॥

पुरुषस्य स्त्रियाः परस्परविद्वेषकरणान्युच्यन्ते
[तृष्टिकः (७.१३३) इति बाणापर्णीम् ॥ कौशिकसूत्र ४,१२{३६}.३८ ॥]
ऽतृष्टिकःऽ इति द्व्यर्चेन सूक्तेन बाणापर्णीं लोहिताजाया द्रप्सेन सन्नीयाभिमन्त्र्य शयनमनु परिकिरति । पुरुषस्त्रीशयने च । समाप्तं विद्वेषणकरणं स्त्रीपुरुषस्योभयरुचिविनाशकरणम् ॥

अथ दौर्भाग्यकरणमुच्यते
[आ ते ददे (७.११४.१) इति मन्त्रोक्तानि संस्पृशति ॥ कौशिकसूत्र ४,१२{३६}.३९ ॥
अपि चान्वाहापि चान्वाह ॥ कौशिकसूत्र ४,१२{३६}.४० ॥]
ऽआ ते ददेऽ इत्येका । हृदयं मुखं वाभिमन्त्रयते परस्त्र्यै ।ऽआ ते ददेऽ इत्येकां जपित्वान्वाह । दौर्भाग्यकरणं स्त्रियो वा पुरुषस्य वा । समाप्तानि स्त्रीकर्मकरणानि । तत्र भद्रश्लोकः

भैषज्यकर्माणि प्रोक्तानि सर्वव्याध्युपशान्तये.
स्त्रीकर्माणि ततः पश्चाच्चतुर्थे संहिताविधौ ॥
द्वादशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३६ ॥


________________________________


इति कौशिके संहिताविधौ चतुर्थोऽध्यायः समाप्तः ॥


॥ चतुर्थोऽध्यायः समाप्तः ॥

____________________________________________________________________________