कौटिलीयम् अर्थशास्त्रम्/विनयाधिकारिकम्

विकिस्रोतः तः


               




   



कौटिलीयं अर्थशास्त्रम्.


विनयाधिकारिकं--प्रथमाधिकरणम्.


ॐ नमश्शुक्रबृहस्पतिभ्याम्.

 पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यै[१] कमिदमर्थशास्त्रं कृतम् । तस्यायं प्रकरणाधिकरणसमुद्देशः--

 विद्यासमुद्देशः । वृद्धसंयोगः । इन्द्रियजयः । अमात्योत्पत्तिः । मन्त्रिपुरोहितोत्पत्तिः । उपधाभिश्शौचाशौचज्ञानममात्यानाम् । गूडपुरुषोत्पत्तिः। गूढपुरुषप्रणिधिः । स्वविषये । कृत्याकृत्यपक्षरक्षणम् । परविषये कृत्याकृत्यपक्षोपग्रहः । मन्त्राधिकारः । दूतप्रणिधिः । राजपुत्ररक्षणम् । अवरुद्धवृत्तम् । अवरुद्धे वृत्तिः । राजप्रणिधिः । निशान्तप्रणिधिः । आत्मरक्षितकम् ॥ इति विनयाधिकारिकं प्रथमाधि[२]करणम् ॥


 जनपदविनिवेशः । भूमिच्छिद्रविधानम् । दुर्गविधानम् । दुर्गनिवेशः[३] । सन्निधातृचेय[४] कर्म । समाहर्तृसमुदयप्रस्थापनम् ।


आक्षपटले[५] गाण[६]निक्याधिकारः । समुदयस्य युक्तापहृतस्य प्रत्यानयनम् । उपयुक्तपरीक्षा । शासनाधिकारः । कोशप्रवेश्यरत्नपरीक्षा । आकरकर्मान्तप्रवर्तनम् । अक्षशालायां सुवर्णाध्यक्षः । विशिखायां सौवर्णिकप्रचारः । कोष्ठागाराध्यक्षः । पण्याध्यक्षः । कुप्याध्यक्षः । आयुधागाराध्यक्षः । तुलामानपौतवम् । देशकालमानम् । शुल्काध्यक्षः । सूत्राध्यक्षः । सीताध्यक्षः । सुराऽध्यक्षः । सूनाध्यक्षः । गणिकाऽध्यक्षः । नावध्यक्षः । गोऽध्यक्षः । अश्वाध्यक्षः । हस्त्यध्यक्षः । रथाध्यक्षः । पत्त्यध्यक्षः । सेनापतिप्रचारः । मुद्राऽध्यक्षः । विवीताध्यक्षः । समाहर्तृप्रचारः । गृहपतिवै[७]देहकतापसव्यञ्जनाः प्रणिधयः । नागरिक[८] प्रणिधिः । इत्यध्यक्षप्रचारो द्वितीयमधिकरणम् ॥

 व्यवहारस्थापना । विवादपदनिबन्धः । विवाहसंयुक्तम् । दायविभागः । वास्तुकम् । समयस्यानपाकर्म । ऋणादानम् । औपनिधिकम् । दासकर्मकरकल्पः । सम्भूयसमुत्थानम् । विक्रीतक्रीतानुशयः । दत्तस्यानपाकर्म । अस्वामिविक्रयः ।। स्वस्वामिसम्बन्धः । साहसम् । वाक्पारुष्यम् । दण्डपारुष्यम् । द्यूतसमाह्वयम् । प्रकीर्णकानि ॥ इति धर्मस्थीयं तृतीयमधिकरणम् ॥


 कारुकरक्षणम् । वैदेहकरक्षणम् । उपनिपातप्रतीकारः ।

गूढाजीविनां रक्षा । सिद्धव्यञ्जनैर्माणवप्रकाशनम् । शङ्कारूपकर्माभिग्रहः ! आशुमृतकपरीक्षा । वाक्यकर्मानुयोगः । सर्वाधिकरणरक्षणम् । एकाङ्गवधनिष्क्रयः । शुद्धश्चित्रश्च दण्डकल्पः । कन्याप्रकर्म । अतिचारदण्डः ॥ इति कण्टकशोधनं चतुर्थमधिकरणम् ॥


 दाण्डकर्मिकम् । कोशाभिसंहरणम् । भृत्यभरणीयम् । अनुजीविवृत्तम् । समया[९]चारिकम् । राज्यप्रतिसन्धानम् । एकैश्वर्यम् ॥ इति योगवृत्तं पञ्चममधिकरणम् ॥


 प्रकृतिसम्पदः । शमव्यायामिकम् ॥ इति मण्डलयोनिष्षष्ठमधिकरण्म् ॥


 षाड्गुण्यसमुद्देशः । क्षयस्थानवृद्धिनिश्चयः । संश्रयवृत्तिः । समहीनज्यायसां गुणाभिनिवेशः । हीनसन्धयः । विगृह्यासनम् । सन्धायासनम् । विगृह्य यानम् । सन्धाय यानम् । सम्भूय प्रयाणम् । यातव्यामित्रयोरभिग्रहचिन्ता क्षयलोभविरागहेतवः । प्रकृतीनां सामवायित[१०]विपरिमर्शः । संहितप्रयाणिकम् । परिपणितापरिपणितापसृताश्च सन्धयः । द्वैधीभाविकास्सन्धिविक्रमाः । यातव्यवृत्तिः । अनुग्राह्यमित्रविशेषाः । मित्रहिरण्यभूमिकर्मसन्धयः । पार्ष्णिग्राहचिन्ता । हीनशक्तिपूरणम् । बलवता विगृह्योपरोधहेतवः । दण्डोपनतवृत्तम् । दण्डोपनायिवृत्तम् । सन्धिकर्म । सन्धि[११]मोक्षः । मध्यमचरितम् । उदासीनचरितम् । मण्डलचरितम् ॥ इति षाङ्गुण्यं सप्तममधिकरणम् ॥


 प्रकृतिव्यसनवर्गः । राजराज्ययोर्व्यसनचिन्ता । पुरुषव्यसनवर्गः । पीडनवर्गः । स्तम्भवर्गः । कोशसंगवर्गः । बलव्यसनवर्गः । मित्रव्यसनवर्गः ॥ इति व्यसनाधिकारिकमष्टममधिकरणम् ॥


 शक्तिदेशकालबलाबलज्ञानम् । यात्राकालाः । बलोपादानकालाः । सन्नाहगुणाः । प्रतिबलकर्म । पश्चात्कोपचिन्ता । बाह्याभ्यन्तरप्रकृतिकोप प्रतीकारः । क्षय व्ययलाभविपरिमर्शः । बाह्याभ्यन्तराश्चापदः दूष्यशत्रुसंयुक्ताः अर्थानर्थसंशययुक्ताः । तासामुपायविकल्पजास्सिद्धयः ॥ इत्यभियास्यत्कर्म नवममधिकरणम् ॥


 स्कन्धावारनिवेशः । स्कन्धावारप्रयाणम् । बलव्यसनावस्कन्दकालरक्षणम् । कूटयुद्धविकल्पाः । स्वसैन्योत्साहनम् । स्वबलान्यबलव्यायोगः । युद्धभूमयः । पत्त्यश्वरथस्तिकर्माणि । पक्षकक्षोरस्यानां बलाग्रतो व्यूहविभागः । सारगुल्फब[१२]लवि भागः । पत्त्यश्वरथहस्तियुद्धानि । दण्डभोगमण्डलासंहतव्यूहनम् । तस्य प्रतिव्यूहस्था[१३]पनम् ॥ इति साङ्ग्रामिकं दशममधिकरणम् ॥


 भेदोपदानानि । उपांशु[१४]दण्डः ॥ इति सङ्घवृत्तमेकादशमधिकरणम् ॥


 दूतकर्म । मन्त्रयुद्धम् । सेनामुख्यवधः । मण्डलप्रोत्साहनम् । शस्त्राग्निरसप्रणिधयः । वीवधासारप्रसारवधः । योगातिसन्धानम् । दण्डातिसन्धानम् । एकविजयः । इत्याबलीयसं द्वादशमधिकरणम् ॥


 उपजापः । योगवामनम् । अपसर्पप्रणिधिः । पर्युपासनकर्म । अवमर्दः । लब्धप्रशमनम् ॥ इति दुर्गलम्भोपायस्त्रयोदशमधिकरणम् ॥


 परघातप्रयोगः । प्रलम्भनम् । स्वबलोपघातप्रतीकारः ॥ इत्यौपनिषदिकं[१५] चतुर्दशमधिकरणम् ॥


 तन्त्रयुक्तयः । इति तन्त्रयुक्तिः पञ्चदशमधिकरणम् ॥  शास्त्रसमुद्देशः पञ्चदशाधिकरणानि सपञ्चाशदव्यायशतं साशीति[१६] प्रकरणशतं षट्श्लोकसहस्राणीति ॥

सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् ।
कौटिल्येन कृतं शास्त्रं विमुक्तग्रन्थविस्तरम् ॥

इति कौटिलीयेऽर्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे
राजवृत्ति: प्रथमोऽध्यायः.


१. प्रक. विद्यासमुद्देशः.


 आन्वीक्ष[१७]की त्रयी वार्ता दण्डनीतिश्चेति विद्याः ।

 त्रयी वार्ता दण्डनीतिश्चेति मानवाः--त्रयीविशेषो ह्यान्वीक्षकीति ॥

 वार्ता दण्डनीतिश्चेति बार्हस्पत्याः--संवरणमात्रं हि त्रयी लोकयात्राविद इति ।

 दण्डनीतिरेका विद्येत्यौशनसाः--तस्यां हि सर्वविद्यारम्भाः प्रतिबन्धा[१८](द्धा) इति ॥

 चतस्र एव विद्या इति कौटिल्यः । ताभिर्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ।

 साङ्ख्यं योगो लोकायतं चेत्यान्वीक्ष[१९]की ।

 धर्माधर्मौ त्रय्याम् । अर्थानर्थौ वार्तायाम् । नयान[२०]यौ दण्डनीत्यां बलाबले चैतासां हेतुभिरन्वीक्ष[२१]माणा लोकस्यो  आन्वीक्ष[२२]कीत्रयीवार्तानां योगक्षेमसाधनो दण्डः । तस्य नीतिर्दण्डनीतिः; अलब्धलाभार्था, लब्धपरिरक्षणी, रक्षितविवर्धनी, वृद्धस्य तीर्थेषु प्रतिपादनी च ।

 तस्यामायत्ता लोकयात्रा । तस्माल्लोकयात्रार्थी नित्यमुद्यतदण्डस्स्यात् ।

 न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्ड इत्याचार्याः ॥

 नेति कौटिल्यः । तीक्ष्णदण्डो हि भूतानामुद्वेजनीयः । मृदुदण्डः परिभूयते । यथार्हदण्डः पूज्यः । सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति । दुष्प्रणीतः कामक्रोधाभ्यामज्ञानाद्वानप्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृहस्थान् ? अप्रणीतो हि मात्स्यन्यायमुद्भावयति । बलीयानबलं हि ग्रसते दण्डधराभावे । तेन गुप्तः प्रभवतीति ॥

चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः ।
स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु ॥

इति विनयाधिकारिके प्रथमेऽधिकरणे विद्यासमुद्देशे वार्तास्थापना
दण्डनीतिस्थापना च चतुर्थोऽध्यायः.

विद्यासमुद्देशस्समाप्तः.


२. प्रक. वृद्धसंयोगः.


 तस्माद्दण्डमूलास्तिस्रो विद्याः ।
 विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः ।

 कृतकस्स्वाभाविकश्च विनयः । क्रिया हि द्रव्यं विनयति नाद्रव्यम् । शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या विनयति नेतरम् ।

 विद्यानां तु यथास्वमाचार्यप्रामाण्याद्विनयो नियमश्च ।
 वृत्तचौलकर्मा लिपिं सङ्ख्यानं चोपयुञ्जीत ।

 वृत्तोपनयनस्त्रयीमान्वाक्ष[२३]कीं च शिष्टेभ्यः, वार्तामध्यक्षेभ्यः, दण्डनीतिं वक्तृप्रयोक्तृभ्यः ।

 ब्रह्मचर्यं चाषोडशाद्वर्षात् । अतो गोदानं दारकर्म च ।

 अस्य नित्यश्च विद्यावृद्धसंयोगो विनयवृद्ध्यर्थं, तन्मूलत्वाद्विनयस्य ।

 पूर्वमहर्भाग हंस्त्यश्वरथप्रहरणविद्यासु विनयं गच्छेत् ।

पश्चिममितिहासश्रवणे । पुराणमितिवृत्तमाख्यायिकोदाहरणं धर्मशास्त्रमर्थशास्त्रं चेतीतिहासः ।

 शेषमहोरात्रभागमपूर्वग्रहणं गृहीतपरिचयं च कुर्यात् । अगृहीतानामाभीक्ष्ण्यश्रवणं च ।  श्रुताद्धि प्रज्ञोपजायते प्रज्ञया योगो योगादात्मत्तेति विद्यासामर्थ्यम् ॥

विद्याविनीतो राजा हि प्रजानां विनये रतः ।
अनन्यां पृथिवीं भुङ्के सर्वभूतहिते रतः ॥

इति विनयाधिकारिके प्रथमेधिकरणे
वृद्धसंयोगः पञ्चमोऽध्यायः


३. प्रक., इन्द्रियजयः.


 विद्याविनयहेतुरिन्द्रियजयः कामक्रोधलोभमानमदहर्षल्यागात्कार्यः । कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरस[२४]गन्धेष्वविप्रतिपत्तिरिन्द्रियजयः शास्त्रार्थानुष्ठानं वा । कृत्स्नं हि शास्त्रमिदमिन्द्रियजयः ।

 तद्विरुद्धवृत्तिरवश्येन्द्रियश्चातुरन्तोऽपि राजा सद्यो विनश्यति--यथा दाण्डक्यो नाम भोजः कामात् ब्राह्मणकन्यामभिमन्यमानस्सबन्धुराष्ट्रो विननाश । करालश्च वैदेहः ।

कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्च भृगुषु ।
लोभादैलश्चातुर्वर्ण्यमत्याहारयमाणः,सौवीरश्चाजबिन्दुः[२५]
मानात् रावणः परदारानप्रयच्छन्, दुर्योधनो राज्यादंशं च ।
मदाड्डम्भोद्भवो भूतावमानी हैहयश्चार्जुनः ।  हर्षाद्वातापिरगस्त्यामत्यासादयन्, वृष्णिसङ्घश्च द्वैपायनमिति ।

एते चान्ये च बहवः शत्रुषड्वर्गमाश्रिताः ।
सबन्धुराष्ट्रा राजानो विनेशुरजितेन्द्रियाः ॥
शत्रुषड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रियः ।
अम्बरीषश्च नाभागो बुभुजाते चिरं महीम् ॥

इति विनयाधिकारिके इन्द्रियजये
अरिषड्वर्गत्यागः षष्ठोऽध्यायः.


 तस्मादरिषड्वर्गत्यागेनेन्द्रियजयं कुर्वीत । वृद्धसंयोगेन प्रज्ञां, चारेण चक्षुः, उत्थानेन योगक्षेमसाधनं, कार्यानुशासनेन स्वधर्मस्थापनं, विनयं विद्योपदेशेन, लोकप्रियत्वमर्थसंयोगेन, हितेन वृत्तिम् ।

 एवं वश्येन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत् . स्वप्नलौल्यमनृतमुद्धतवेषत्वमनर्थ[२६]संयोगं च । अधर्मसंयुक्तमनर्थसंयुक्तं च व्यवहारम् ।

 धर्मार्थाविरोधेन कामं सेवेत । न निस्सुखस्स्यात् । समं वा त्रिवर्गमन्योन्यानुबन्धम् । एको ह्यत्यासेवितो धर्मार्थ कामाना[मा][२७]त्मानमितरौ च पीडयति । 'अर्थ एवं प्रधानः' इति कौटिल्यः---अर्थमूलौ हि धर्मकामाविति ।  मर्यादां स्थापयेदाचार्यानमात्यान्वा । य एनमपायस्थानेभ्यो वारयेयुः,[२८] छायानाळिका[२९] प्रतोदेन वा रहसि प्रमाद्यन्तमभितुदेयुः ॥

सहायसाध्यं राजत्वं चक्रमेकं न वर्तते ।
कुर्वीत सचिवांस्तस्मात्तेषां च शृणुयान्मतम् ॥

इति विनयाधिकारिके इन्द्रियजये राजर्षीवृत्तं
सप्तमोऽध्यायः. इन्द्रियजयस्समाप्तः.


४. प्रक. अमात्योत्पत्तिः.


 "सहाध्यायिनोऽमात्यान् कुर्वीत दृष्टशौचसामर्थ्यत्वात्" इति भारद्वाजः । ते ह्यस्य विश्वास्याः भवन्तीति ॥

 नेति विशालाक्षः । सहक्रीडितत्वात् परिभवन्त्येनम् । ये ह्यस्य गुह्यसधर्माणस्तानमात्यान् कुर्वीत---समानशीलव्यसनत्वात्; ते ह्यस्य मर्मज्ञभयान्नापराध्यन्तीति ॥

 "साधारण एष दोष" इति पराशरः--तेषामपि मर्मज्ञभयात्कृताकृतान्यनुवर्तेत ॥

यावद्भ्यो गुह्यमाचष्टे जनेभ्यः पुरुषाधिपः ।
अवशः कर्मणा तेन वश्यो भवति तावताम् ॥

  य एनमापत्सु प्राणाबाधयुक्तास्वनुगृह्णीयुस्तानमात्यान् कुर्वीत । दृष्टानुरागत्वादिति ॥

  नेति पिशुनः--भक्तिरेषा न बुद्धिगुणः । सङ्ख्यातार्थेषु कर्मसु नियुक्ता ये यथाऽऽदिष्टमर्थं सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत । दृष्टगुणत्वादिति ॥

  नेति कौणपदन्तः--अन्यैरमात्यगुणैरयुक्ता ह्येते । पितृपैतामहानमात्यान् कुर्वीत, दृष्टापदानत्वात् ते ह्येनमपचरन्तमपि न त्यजन्ति सगन्धत्वात् । अमानुषेष्वपि चैतत् दृश्यते--गावो ह्यसगन्धं गोगणमतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति ॥

  नेति वातव्याधिः । ते ह्यस्य सर्वमवगृह्य स्वामिवत्प्रचरन्तीति । तस्मान्नीतिविदो नवानमात्यान्कुर्वीत; नवास्तु यमस्थाने दण्डधरं मन्यमाना नापराध्यन्तीति ॥

  नेति बाहुदन्तीपुत्रः--शास्त्रविददृष्ट[३०] कर्माकर्मसु विषादं गच्छेत् । अभिजनप्रज्ञाशौचशौर्यानुरागयुक्तानमात्यान्कुर्वीत । गुणप्राधान्यादिति ॥

  सर्वमुपपन्नमिति कौटिल्यः--कार्यसामर्थ्याद्धि पुरुषसामर्थ्यं कल्प्यते । सामर्थ्यतश्च----

विभज्यामात्यविभवं देशकालौ च कर्म च ।
अमात्यास्सर्व एवैते कार्यास्स्युर्न तु मन्त्रिणः ॥

 इति विनयाधिकारिके अमात्योत्पत्तिः अष्टमोऽध्यायः.


५. प्रक. मन्त्रिपुरोहितोत्पत्तिः.


 जानपदोऽभिजातः स्ववग्रहः कृतशिल्पश्चक्षुष्मान् प्राज्ञोधारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमानुत्साहप्रभावयुक्तः क्लेशस[३१]हश्शुचिर्मैत्रो दृढभक्तिश्शी[३२]लवलारोग्यसत्त्वसंयुक्तः स्तम्भचापल्यवर्जितस्संप्रियो वैराणामकर्तेत्यमात्यसम्पत् ।

अतः पादार्धगुणहीनौ मध्यमावरौ ।

 तेषां जनपदमवग्रहं चाप्य [प्त] तः [३३]परीक्षेत--समानविद्येभ्यः शिल्पं शास्त्रचक्षुष्मत्तां च; कर्मारम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च; कथायोगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च; आपद्युत्साहप्रभावौ क्लेशसहत्वं च; संव्यवहाराच्छौचं मैत्रतां दृढभक्तित्वं च; संवासिभ्यश्शीलबलारोग्यसत्त्वयोगमस्तम्भमचापल्यं च; प्रत्यक्षतः संप्रियत्वमवैरित्वं च ।

 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः । स्वयंदृष्टं प्रत्यक्षम्, परोपदिष्टं परोक्षम् । कर्मसु कृतेनाकृतावेक्षणमनुमेयम् ॥

 अयौगप[३४]द्यात्तु कर्मणामनेकत्वादनेकस्थत्वाच्च देशकालात्ययो मा भूत् इति परोक्षममात्यै: कारयेदित्यमात्यकर्म ।

 पुरोहितमुदितोदितकुलशीलं षडङ्गे वेदे दैवे निमित्ते दण्डनीत्यां च अभिविनीतमापदां दैवमानुषीणां अथर्वभिरुपा


 यैश्च प्रतिकर्तारं कुर्वीत । तमाचार्यं शिष्यः पितरं पुत्रो

भृत्यस्स्वामिनमिव चानुवर्तेत ।

ब्राह्मणेनैधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् ।
जयत्याजितमत्यन्तं शास्त्रानुगम[३५] शस्त्रितम् ॥

 इति विनयाधिकारिके मन्त्रिपुरोहितोत्पत्तिः नवमोऽध्यायः.


 ६. प्रक. उपधाभिश्शौचाशौचज्ञानममात्यानाम्.


 मन्त्रिपुरोहितसख[३६]स्सामान्येष्वधिकरणेषु स्थापयित्वाऽमात्यानुपधाभिश्शौचयेत् ।

 पुरोहितमयाज्ययाजनाध्यापने नियुक्तममृष्यमाणं राजा अवक्षिपेत् । स सत्रिभिश्शपथ[३७] पूर्वमेकैकममात्यमुपजापयेत्--- अधार्मिकोऽयं राजा साधुधार्मिकमन्यमस्य तत्कुलीनमवरुद्धं कुल्यमेकप्रग्रहं सामन्तमाटविकमौपपादिकं[३८] वा प्रतिपादयामः सर्वेषामेतद्रोचते कथं वा तवेति । प्रत्याख्याने शुचिरिति धर्मोपधा ।

 सेनापतिरसत्प्रग्रहे[३९] णावक्षिप्तस्सत्रिभिरेकैकममात्यमुपजापयेल्लोभनीयेनार्थेन[४०] राजाविनाशनाय--सर्वेषामेतद्रोचते कथं वा तवेति । प्रत्याख्याने शुचिरित्यर्थोपधा ।

 परिव्राजिका लब्धविश्वासाऽन्तःपुरे कृतसत्कारा महामात्रमेकैकमुपजपेत्---राजमहिषी त्वां कामयते कृतसमागमोपाया; महानर्थश्च भविष्यतीति । प्रत्याख्याने शुचिरिति कामोपधा ।  प्रवहण[४१]निमित्तमेकोऽमात्यः सर्वानमात्यानावाहयेत् । ते नोद्वेगेन राजा तानवरुन्ध्यात् । कापटिकच्छात्रः पूर्वावरुद्धस्तेषामर्थमानावक्षिप्तमेकैकममात्यमुपजपेत्-असत्प्रवृत्तोऽयं राजा, साध्वेनं हत्वा अन्यं प्रतिपादयिष्यामः; सर्वेषामेतद्रोचते । कथं वा तवेति । प्रत्याख्याने शुचिरिति भयोपधा ।
 तत्र धर्मोपधाशुद्धान् धर्मस्थयिकण्टकशोधनेषु स्थापयेत् ।
 अर्थोपधाशुद्धान् समाहर्तृसन्निधातुनिचयकर्मसु ।
 कामोपधाशुद्धान् बाह्याभ्यन्तरविहाररक्षासु ।
 भयोपधाशुद्धानासन्नकार्येषु राज्ञः। सर्वोपधाशुद्धान् मन्त्रिणः कुर्यात् । सर्वत्राशुचीन् खनिद्रव्यहस्तिवनकर्मान्तेषूपयोजयेत् !

त्रिवर्गभयसंशुद्धानमात्यान्स्वेषु कर्मसु ।
अधिकुर्याद्यथाशौचमित्याचार्या व्यवस्थिताः ॥
न त्वेव कुर्यादात्मानं देवीं वा लक्ष्मीश्वरः ।
शौचहेतोरमात्यानामेतत्कौटिल्यदर्शनम् ॥
ने दूषणमदुष्टस्य विषेणेवाम्भसश्चरेत् ।
कदाचिद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् ॥
कृती च कलुषा बुद्धिरुपधाभिश्चतुर्विधा ।
नागत्वाऽन्तर्निवर्तेत स्थिता सत्त्ववतां धृतौ ॥

तस्माद्धाह्यमधिष्टानं कृत्वा कार्ये चतुर्विधे ।
शौचाशौचममात्यानां राजा मार्गेत सत्रिभिः ।
इति विनयाधिकारिके उपधाभिश्शौचशौच
ज्ञानममात्यानां दशमोऽध्याय .


७. प्रक. गूढपुरुषोत्पत्तिः


 उपधाभिश्शुद्धामात्यवर्गों गूढपुरुषानुत्पादयेत् ।
कापाटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनान् सत्रिती क्ष्णरसदाभक्षुकीश्च ।  परमर्मज्ञः प्रगल्भः[४२] छात्रः कापटिकः । तमर्थमानाभ्या मुत्साह्य मन्त्री ब्रूयात्---राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीमेव प्रत्यादिशेति ।  प्रव्रज्याप्रत्यवासितः[४३]. प्रज्ञाशौचयुक्त उदास्थितः । स वार्ताकर्मपप्रदिष्टायां भूभौ प्रभूतहिरण्यान्तेवासी कर्म कारयेत् । कर्मफलाच्च सर्वप्रव्रजितानां ग्रासाच्छादनावसथान् प्रतिविद ध्यात् । वृत्तिकामांश्चापजपेत्-एतेनैव दोषेण<ref> राजार्थश्चरि तव्यों भक्तवेतनकाले चोंपस्थातव्यामिति ।

सर्वप्रजिताश्च स्वं स्वं वर्गमुपजपेयुः ।।

 कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिकव्यञ्जनः । स कृषिकर्मप्रादिष्टायां भूमाविति--समानं पूर्वेण ।।  वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदे [४४] हकव्यञ्जनः । स वाणिक्कर्मप्रादेष्टायां भूमाविति-समानं पूर्वेण ।।  मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः । स नगरा भ्याशे प्रभूतमुण्ड [४५] जटिलान्तेवासी शाकं यवसमुष्टिं वा मास द्विमासान्तरं प्रकाशमश्नीयात्, गूढामष्टमाहारम् । वैदेहकान्तेवा सिनश्चैनं समिद्धयोगैरर्चयेयुः । शिष्याश्चास्यावेदयेयुः-"असौ सिद्धस्सामोधिकः” इति । समेधाशास्तिभिश्चाभिगतानामङ्गविध्यया शिष्यसंज्ञाभिश्च कर्माण्यभिजने$वसितान्यादिशेदल्पलाभ

मग्निदाहं चोरभयं दुष्यवधं तुष्टदानं विदेशप्रवृत्तिज्ञानं "इदमद्य श्वो वा भविष्यतीदं वा राजा करिष्यतीति" ।  तदस्य गूढास्सत्रिणश्च संवादयेयुः ।।  सत्वप्रज्ञावाक्यशासम्पन्नानां राजभाव्य [४६] मनुव्याहरेत् [४७] । मन्त्रिसंयोगं च । मन्त्री चैषां वृत्तिकर्मभ्यां वियतेत । ये च का रणादाभिक्रुद्धास्तानर्थमानाभ्यां शपयेत् । अकारणकुद्धान् तू ष्णिंदण्डेन राजद्दिष्ठकारिणश्च ।। ।

पूजिताश्चार्थमानाभ्यां राज्ञा राजोपजीविनाम् ।
जानीयुः शौचामित्येताः पञ्च संस्थाः प्रकीर्तिताः ॥

इति विनयाधिकारिके गूढपुरुषोत्पत्तौ
संस्थोत्पत्तिः एकादशोऽध्यायः

८ प्रक, गूढपुरुषप्रणिधः.


 ये चाप्यसम्वन्धिनोऽवश्यभर्तव्यास्ते लक्षणमङ्गविद्यां जम्भ कविद्यां मायागतमाश्रमधर्म [४८]निमित्तमन्तरचक्रमित्यधीयानाः स- त्रिणसंसर्गविद्या वा ।।
 ये जनपदे शूरास्त्यक्तास्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ।
 ये बन्धुषु निस्नेहाः क्रूराश्र्चालसाश्च ते रसदाः ।।
 परित्राजिका वृत्तिकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्य न्तःपुरे कृतसत्कारा महामात्रकुलान्याधिगच्छेत् ॥
  एतया मुण्डा वृषल्यो व्याख्याताः ।
इति सञ्चाराः ।।
 तान्राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वाशिकप्रशास्तृसमाहर्तृसन्निधातृप्रदेष्टनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषदध्यक्षदण्डदुर्गान्तपालाटविकेषु श्रद्धेयदेशवेष शिल्पभाषाभिजनोपदेशान् भक्तितस्सामर्थ्ययोगाच्चापसर्पयेत् ॥
 तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहनो पग्राहिणः तीक्ष्णा विद्युः ।।
  तं सत्रिणः संस्थास्वयेयुः ।।  सूदाराळिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरिचारका रसदाः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मानो नटनर्तकगायनवादकवाग्जीवनकुशीलवाः स्त्रियश्चभ्यन्तरं चारं विद्युः । तं भिक्षुक्यः संस्थास्वर्पयेयुः ।

 संस्थानामन्तेवासिनः संज्ञालिपिभिश्चारसञ्चारं कुर्युः ।।
 न चान्योन्यं संस्थास्ते वा विद्युः ।
 भिक्षुकीप्रतिषेधे द्वास्थपरम्परा मातापितृव्यञ्जनाः शिल्प कारिकाः कुशीलवा दास्यो वा गीतवाद्य[४९]भाण्डगूढलेख्य संज्ञाभिर्वा चारं निर्हरेयुः । दीर्घरोगोन्मादाग्निरसविसर्गेण वा गूढनिर्गमनम् ।

त्रयाणा [५०] मेकवाक्ये सम्प्रत्ययः ।।
तेषामभीक्ष्णविनिपाते तूष्णीदण्डः प्रतिषेधो वा ।
कण्टकशोधनोक्ताश्चापसर्पाः परेषु कृतवेतना वसेयुः ।
सम्पातश्चोरार्थ[५१] । त उभयवेतनाः ।।

 गृहीतपुत्रदारांश्च कुर्यादुभयवेतनान् ।
 तश्चारित्रहितान्विद्यात्तेषां शौचं च तद्विधैः ॥
 एवं शत्रौ च मित्रे च मध्यमे चावपेच्चरान् ।
 उदासीने च तेषां च तीर्थेष्वष्टादशस्वापि ।।
 अन्तगृहचरास्तेषां कुब्जवामनषण्डकाः ।
 शिल्पवत्य: स्त्रियों मूकाश्चित्राश्च म्लेञ्छजातयः ॥


दुर्गेषु वणिजस्संस्था दुर्गान्ते सिद्धतापसाः ।
कर्षकोदास्थिता राष्ट्रे राष्ट्रान्ते व्रजवासिनः ॥
वने वनचरैः[५२] कार्याश्श्रमणाटविकादयः ।
परप्रवृत्तिज्ञानार्था: शीघ्राश्चारपरम्परा: ॥
परस्य चैके [५३] बोद्धव्याः तादृशैरेव तादृशाः ।
चारसञ्चारिणस्संस्था गूढाश्चागूढसंज्ञिताः ॥
अकृत्यान् कृत्यपक्षीयैः दर्शितान्कार्यहेतुभिः ।
परापसर्पज्ञानार्थे मुख्यानन्तेषु वासयेत् ।।
इति विनयाधिकारिके गूढपुरुषोत्पत्तौ ।
सञ्चारोत्पत्तिः द्वादशोऽध्यायः.

९ प्रक. स्वविषये कुत्याकृत्यपक्षरक्षणम्

 गूढपुरुषप्राणिधिः कृतमहामात्या[५४]पसर्प: पौरजानपदानपस र्पयेत् ।
 सत्रिणो द्वन्द्विनस्तीर्थसभाशालापूगजनसमवायेषु विवादं कु र्यु:-- "सर्वगुणसम्पन्नश्चयं राजा श्रूयते । न चास्य कश्चित् गुणो दृश्यते यः पौरजानपदान् दण्डकराभ्यां पीडयाति" इति ।
 तत्र येऽनुभशंसेयुः तानितरस्तं च प्रतिपेधयेत्---"मात्स्यन्यायभिभूताः प्रजा मनं वैवस्वतं राजानं चक्रिरे । धान्यषड्भागं पण्यदशभार्ग हिरण्यं चास्य भागधेयं प्रकल्पयामासुः, तेन


भृता राजानः प्रजानां योगक्षेमवहाः तेषां किल्बिषमदण्डकरा

हरन्ति यो [रन्त्ययो १] ग[५५] क्षेमवहाश्र्च प्रजानाम् । तस्मादुञ्छष ङ्भगमारण्यका अपि निवपन्ति-'तस्यैतद्भागधेयं योऽस्मान् गोपायतीति' | इन्द्रय[५६]मस्थानमेतत् राजानः प्रत्यक्षहेडप्रसादाः । तानवमन्यमानान् दैवोऽपि दण्ड. स्पृशति । तस्माद्राजानो नावमन्तव्याः" इति क्षुद्रकान्प्रतिषेधयेत् ।   किंवदन्तीं च विद्युः ।।
 ये चास्य धान्यपशुहिरण्यान्याजीवन्ति तैरुपकुर्वन्ति, व्य- सने अभ्युदये वा कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्त्यमि त्रमाटविकं वा प्रतिषेधयन्ति, तेषां मुण्डजटिलव्यञ्जनास्तुष्टा तुष्टत्वं विद्युः ।।   तुष्टान् भूयः [५७]पूजयेत् ।।
 अतुष्टान् तुष्टिहेतोस्त्यागेन सान्ना च प्रसादयेत् । परस्प राद्रा भैदयेदेनान् सामन्ताविकतत्कुलीनावरूद्धेभ्यश्च । तथाऽ प्यतुष्यतो दण्डकरसाधनाधिकारेण वा जनपदविद्वेषं ग्राह येत् । विद्दिष्टानुपांशुदण्डेन जनपदकोपेन वा साधयेत् । गुप्तपुत्रदारानाकरकर्मान्तेषु वा वासयेत् परेषामास्पदभयात् ।  क्रुद्धलुब्धभीतावमानिनस्तु परेषां कृत्याः । तेषां कार्ता न्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः परस्परभिसम्बन्धं अमित्र [५८] प्रतिसम्बन्धं वा विद्युः ।।


तुष्टानर्थमानाभ्यां पूजयेत् ।
अनुष्टान् सामदानभेददण्डैस्साधयेत् ।।
एवं स्वविषये कृत्यानकृत्यांश्च विचक्षणः ।
परोपजापात्संरक्षेत् प्रधानान् क्षुद्रकानपि ।

 इति विनयाधिकारिके स्वविषये कृत्याकृत्यपक्षरक्षणं त्रयोदशोऽध्याय.

१०. प्रक. परविषये कृत्याकृत्यपक्षोपग्रहः.


 कृत्याकृत्यपक्षोपग्रहस्स्वविषये व्याख्यातः । परविषये वाच्यः।
 संश्रुत्यार्थान् विपलब्धः, तुल्यकारि[५९]णोशिशल्पे वोपकारे वा विमानितः, वल्लभावरुद्धः, समाहूय पराजितः, प्रवासोपतप्तः, कृत्वा व्ययमलब्धकार्यः, स्वधर्माद्दायाद्याद्वोपरुद्धः मानाधिका राभ्यां भ्रष्ट:,[६०] तुल्यैर[६१]न्तर्हितः, प्रसभाभिमृष्टस्त्रीकः, काराभिन्यस्त:, परोक्ष[६२]दण्डितः, मिथ्याचारवारितः, सर्वस[६३] माहारितः, बन्धनपरिक्लिष्टः, भवासितबन्धुरिति क्रृद्धवर्ग: ।।
 स्वयमुपहतः, विप्रकृत[६४], पापकर्माभिख्यातः, तुल्यदोपदण्डे नोद्दिग्न:, पर्यात्तभूमिः, दण्डेनोपनतः, सर्वाधिकरणस्थः, सहसो पचितार्थः, तत्कुलीनो वाशंसुः, प्रद्रिष्टो राज्ञा, राजद्वेषी चेति भीतवर्गः ॥


 परिक्षीणोऽत्यात्तस्वः कदर्यो व्यसन्यत्वाहितव्यवहारश्चेति

लुब्धवर्गः ।
 आत्मसम्भावितो मानकामः शत्रुपूजामर्षितो नीचैरुपाहित स्तीक्ष्णस्साहासिको भोगेनासन्तुष्ट इति मानिवर्गः ।  तेषां मुण्डजटिलव्यञ्जनैर्यो यद्भक्तिः कृत्यपक्षीयस्तं तेनोप जापयेत्‌---"यथा मदान्धो हस्ती मतेनाधिष्ठितो यद्यदासा दयति तत्सर्वे प्रमृद्नात्येवमयमशास्त्रचक्षुरन्धो राजा पौरजान- पदवधायाभ्युत्थितः; शक्यमस्य प्रातहस्तिप्रोत्साहनैनापकर्तुम मर्षः[६५] क्रियताम्” इति क्रुद्धवर्गमुपजापयेत् ।।
 “यथा लीनस्सर्पो यस्माद्ब्भयं पश्यति तत्र विषमुत्सृजत्ये वमयं राजा जातदोषाशङ्कस्त्वयि पुरा क्रोधविषमुत्सृजत्यन्यत्र गम्यताम्" इति भीतवर्गमुपजापयेत् ।
 यथा श्वगाणिनां धेनुश्वभ्यो दुग्धे न ब्राह्मणेभ्य एवमयं राजा सत्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुग्धे नात्मगुणसम्पन्नेभ्यः । असौ राजा पुरुषविशेषज्ञस्सेव्यतामिति" लुभ्धवर्गमुपजापयेत् ।
 "यथा चण्डालोदपानश्चण्डालानामेवोपभोग्यो नान्येषामेव मयं राजा नीचो नीचानामेवेपभेाग्यो न त्वद्विधानामार्या णाम् । असौ राजा पुरुषविशेषज्ञः तत्र गम्यतामिति" मान- वर्गमुपजापयेत् ।


तथेति प्रतिपन्नांस्तान् संहितान् पणकर्मणा ।
योजयेत यथाशक्ति सापसर्पान् स्वकर्मसु ।।
लभेत सामदानाभ्यां कृत्यांश्च परभूमिपु ।
अकृत्यान् भेददण्डाम्यां परदोषांश्च दर्शयेत् ।।

इति विलायधिकारिके परावषये कृत्याकृत्यपक्षोपग्रह।

चतुर्दशोऽध्याय .

११. प्रक. मन्त्राधिकारः.

 कृतस्वपक्षपरपक्षोपग्रहः कार्यारम्भान् चिन्तयेत् ।।
 मन्त्रपूर्वास्सर्वारभ्भाः । तदुद्देशः संवृतः कथानाभानिस्रावी पक्षिभिरप्यनालोक्यस्स्यात् ।।
 श्रूयते हि शुकशारिकाभिः मन्त्रो भिन्नश्श्वभरन्यैश्च तिर्य ग्योनिभिः ।।
 तस्मान्मन्त्रोद्वेशमनायुक्तो नोपगच्छेत् ।।
 उच्छिद्येत मन्त्रभेदी।।
 मन्त्रभेदो हि दुतामात्यस्वामिनामिङ्गिताकाराभ्याम् ।
 इङ्गितमन्यथावृत्तिः ।।
 आकृतिग्रहणमाकारः। तस्य संवरणं आयुक्तपुरुषरक्षण मा कार्यकालादिति । तेषां हि प्रमादमदसुप्तप्रलापकामा-


दिरुत्सेकः । प्रन्छन्नोऽवमतो वा मन्त्रं भिनात्ति । तस्मा

द्रक्षेन्मन्त्रम् ।
 मन्त्रभेदोऽन्ययेाग[६६]क्षेमकरो राज्ञस्तदायुक्तपुरुषाणां च ।।
 तस्मात्-"गुह्यमेको मन्त्रयतेति" भारद्वाजः । मन्त्रि णामपि हि मन्त्रिणो भवन्ति । तेषामप्यन्ये । सैषा मन्त्रि- परम्परा मन्त्रं भिनत्ति !

तस्मानास्य परे विद्युः कर्म किञ्चिञ्चिकीर्षितम्।
अरब्धारस्तु जानीयुरारब्धं कृतमेव वा ।।

 "नैकस्य मन्त्रसिद्धिरस्तीति" विशालाक्षः । प्रत्यक्षप रोक्षानुमेया हि राजवृत्तिः । अनुपलब्धस्य ज्ञानमुपलब्धस्य नि श्चयबलाधानमर्थद्वैधस्य संशयच्छेदनमेकदेशद्दष्टस्य शेषोपलब्धि रिति मन्त्रिसाध्यमेतत् । तस्माद्बुद्धिवृद्धैसार्धमासीत मन्त्रम् ।।

न किञ्चदवमन्येत सर्वस्य शृणुयान्मतम् ।
बालस्याप्यर्थवद्राख्यम्मुपयुञ्जीत पण्डितः ॥

 “एतन्मन्त्रज्ञानं नैतन्मन्त्ररक्षणमिति" पराशरः । यद स्य कार्यमाभिप्रेतं तत्प्रतिरूपकं मंन्त्रिणः पृच्छेत् । 'कार्यमि दमेवमासीदेवं वा यदि भवेत्तत्कथं कर्तव्यमिति' । ते यथा ब्रूयुः तत्कुर्यात् । एवं मन्त्रोपलब्धिः संवृतिश्च भवतीति ।


 “नेति” पिशुनः । मन्त्रिणो हि व्यवहितमर्थे वृत्त

मवृत्तं वा पृष्टमनादरेण ब्रुवन्ति प्रकाशयन्ति वा स दोषः । तस्मात्कर्मसु ये येष्वभिप्रेतास्तैस्सह मन्त्रयेत् । तैमन्त्रयमाणो हि मन्त्रबुद्धि गुप्तिं च लभत इति ।
 “न” इति कौटिल्यः । अनवस्था ह्येषा । मन्त्रिभिस्त्रिभि श्चतुर्भिव सह मन्त्रयेत ।
 मन्त्रयमाणो ह्येकेनार्थकृच्छ्रेषु निश्वयं नाधिगच्छेत् । एकश्च मन्त्री यथेष्टमनवग्रहश्चरति ।
 द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यामवगृह्यते । विगृ हीताभ्यां विनाश्यते ।
 त्रिषु[६७] चतुर्षु वा नैकान्तं कृछ्रेणोपपद्यते महादोषम् । उपपन्नं[६८] तु भवति । ततः परेषु कृछ्रेणार्थनिश्चयो गम्यते । मन्त्रो वा रक्ष्यते ।
 देशकालकार्यवशेन त्वेकेन सह द्वाभ्यामेको वा यथासामथ्र्ये मन्त्रयेत ।
 कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पत्, देशकालविभागः, वि- निपातप्रतीकारः, कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः ।
 तानेकैकशः पृच्छेत् समस्तांश्च ।।
 हेतुभिश्चैषां मतिप्रविवेकान् विद्यात् । अवाप्तार्थः कालं नातिक्रामयेत् ।


 न दीर्घकाले मन्त्रयेत च तेषां पक्षै[६९]र्येषां अपकुर्यात् ।

 “मन्त्रिपरिषदं द्वादशामात्यान्कुर्वीतेति” मानवाः ।
 “षोडशेति” बार्हस्पत्याः ।
 “विंशतिम्” इत्यौशनसाः ।
 “यथासामथ्र्यम्” इति कौटिल्यः ।।
 ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः । अकृतारम्भमा रब्धानुष्ठानमनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्युः । आसन्नै[७०] स्सह कार्याणि पश्येत् । अनासनैस्सह पत्रसम्प्रेषणेन मन्त्रयेत।
 इन्द्रस्य हि मन्त्रिपरिषदृषीणां सहस्रम् । तचक्षुः[७१] । तस्मा दिमं द्वयक्षं सहस्राक्षमाहुः ।
 अत्यायिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात् । तत्र यद्भूयिष्टाः कार्यसिद्धिकरं वा ब्रूयुस्तत्कुर्यात् । कुर्वतश्च‌---

 नास्य गुह्यं परे विद्युः छिद्रं विद्यात्परस्य च । 337
गृहेकूर्म इवाङ्गानि यत्स्याद्विवृतमात्मनः ।।
यथा ह्यश्रोत्रियश्राद्धं न सतां भोक्तुमर्हति ।
एवमश्रुतशास्त्रार्थो न मन्त्रं श्रोतृमर्हति ॥

इति विनयाधिकारिके मन्त्राधिकारः पञ्चदशोऽध्यायः,





१२. प्रक. दूतप्रणिधि:


उद्धृतमन्त्रो दूतप्रणिधि: ।
अमात्यसम्पदोपेतो निस्सृष्टार्थः ।
पादगुणहीनः परिमितार्थः ।
अर्धगुणहीनः शासनहरः ।

 सुप्रतिविहितयानवाहनपुरुषपरिवापः प्रतिष्ठेत “शासनमेवं वाच्य.,[७२] परस्स वक्षत्येवं तस्येदं प्रतिवाक्यमेवमतिसन्धातव्यम्” इत्यधीयानो गच्छेत् । अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गे गच्छेत् । अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य चावेक्षेत । दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि चोपलभेत पराधिष्ठानमनुज्ञातः प्रविशेत् । शासनं च यथोक्तं ब्रूयात् । प्राणाबाधेऽपि दृष्टे परस्य वाचि वक्त्रे दृष्टयां च प्रसादं वाक्य पूजनमिष्टपरिप्रश्नं गुणकथासङ्गमासन्नमासनं सत्कारमिष्टेषु स्म रणं विश्वासगमनं च लक्षयेत्तुष्टस्य । विपरीतमतुष्टस्य । तं ब्रूयात्---“दूतमुखा[७३] वै राजीनस्त्वं चान्ये च । तस्मादुद्भृते[७४]ष्वापि शस्त्रेषु यथोक्तं वक्तारस्तेषामन्तावसायिनो[७५] ऽप्यवध्याः । किमङगं पुनर्ब्राह्मणः । परस्यैतद्वाक्यमेष दूतधर्म” इति ।
 वसेदविसृष्टः[७६] प्रपूजया[७७] नोसिक्तः । परेषु बलित्वं न


मन्येत । वाक्यमनिष्ठं सहेत । स्त्रियः पानं च वर्जयेत् ।

एकश्शयीत । सुप्तमत्तयोर्हि भावज्ञानं दृष्टं, कृत्यपक्षोपजापम कृत्यपक्षे गूढप्रणिधानं, रागाप[७८]रागौ भर्तरि, रन्ध्रं च प्रकृतीनां तापसवैदेहकव्यञ्जनाभ्यामुपलभेत । तयोरन्तेवासिभिश्चिकित्स कपाषण्डव्यञ्जनोभयवेतनैर्वा । तेषामसम्भाषायां याचकमत्तों न्मत्तसुप्रलापैः पुण्यस्थानदेवगृहचित्र[७९]लेख्यसंज्ञाभिर्वा चारमुपलभेत । उपलब्धस्योपजापभुपेयात् । परेण चोक्तस्स्वासां प्रकृतीनां परिमाणं नाचक्षति ! “सर्वे वेद भवानिति" ब्रूयात् । कार्यसिद्धिकरं वा कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत् ।
 किं भर्तुर्मे व्यसनमासन्नं पश्यन्, स्वं वा व्यसनं प्रातः कर्तुकामः । पार्ष्णिग्राहासारावन्तःकोपमाटविकं वा समुत्थाप यितुकामः; भित्रमाक्रन्दाभ्यां वा व्यापादयितुकामः; स्वं वा परतो विग्रहमन्तःकोपमाटविकं वा प्रतिकर्तुकामः; संसिद्ध में भर्तुर्यात्राकालमभिहन्तुकामः; सस्यकुप्यपण्यसङ्ग्रहं दुर्गकर्म बल- समुत्थानं[८०] वा कर्तुकामः; स्वसैन्यानां व्यायामदेशकालावाकाङ्क्षमाणः; परिभवप्रभादाम्यां वा संसर्गानुबन्धार्थी वा, मामुपरुणद्धीति ।।
 ज्ञात्वा वसेदपसरेद्रा । प्रयोजनमिष्टमपेक्षेत[८१] वा । शासनमनिष्टमुक्त्वा बन्धवधभयादपि विसृष्टो[८२] व्यपगच्छेदन्यथा नियम्येत[८३]


प्रेषणं सन्धिपालत्वं प्रतापो भित्रसङ्ग्रहः ।
उपजापस्सुहृद्भेदो गूढदण्डातिसारणम् ॥
वन्धुरत्नापहरणं चारज्ञानं पराक्रमः ।।
समाधिमोक्षो दूतस्य कर्मयोगस्य चाश्रयः ॥
स्वदूतैः कारयेदेतत् परदूतांश्च रक्षयेत् ।।
प्रतिदूतापसर्पाभ्यां दृश्यादृश्यैश्च रक्षिभिः ॥

इति विनयाधिकारिके दूतप्रणिधिः षोडशोऽध्यायः,


१६. प्रक, राजपुत्ररक्षण,

 रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च[८४] । पूर्वे दारेभ्यः पुत्रेभ्यश्च ।
 दाररक्षणं निशान्तप्रणिधौ वक्ष्यामः ।
 पुत्ररक्षणं-जन्मप्रभृति राजपुत्रान्नक्षेत् । कर्कटकसधर्माणो हि जनकभक्षाः राजपुत्राः ।
 “तेषामजातस्नेहे पितर्युपांशुदण्डश्श्रेयान्” इति भारद्वाजः ।
 “नृशंसमदृष्ट[८५] वधः क्षेत्रबीजविनाशश्चेति” विशालाक्षः । तस्मादेकस्थानावरोधश्श्रेयानिति ।
 “अहिभयमेतदिति” पाराशराः । कुमारो हि विक्र-


मभयान्मां पिता रुगद्धीति ज्ञात्वा तमेवाङ्के कुर्यात्तस्मादन्तपालदुर्गे वासश्श्रेयानिति ।

 “औरभ्रकं[८६] भयमेतत्” इति पितुन: । “प्रयापत्तेर्हितदेव कारणं ज्ञात्वाऽन्तपालसखस्यात् । तस्मात् स्त्रविपयादपकृष्टे सामन्तदुर्गे वासश्श्रेयानिति” ।।
 “वत्सस्थानमेतदिति” कौणपदन्तः । वत्सेनेव हि धेनुं पितरमस्य सामन्तो दुह्यात् । तस्यान्मातृवन्धुषु वासश्श्रेयानिति ।
 “ध्वजस्थानमेतत्” इति वातव्याधिः । तेन हि ध्वजेनादितिकौशिकवदरय् मातृबान्धवा भजेरन् । तस्मात् ग्राम्यधर्मे- ष्वेनमवसृजेयुः । सुखोपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्तीति ।  “जीवन्मरणमेतत्” इति कौटिल्यः । काष्ठमिव हि घुण्जग्धं राजकुलमविनीतपुत्रमभियुक्तमात्रं भज्येत । नस्मादृतुमत्यां महिष्यां ऋर्त्विजश्चरुयैन्द्रावार्हस्पयं निर्वपेयुः । आपन्न सत्त्वायां कौमारभृत्यो गर्भधर्मणि प्रजनने[८७] च वियतेत । प्रजा तायाः पुत्रसंस्कारं पुरोहितः कुर्यात् । समर्थ तद्विदो विनयेयुः ।।
 सत्रिणामेकश्र्चैन्ं मृगयाद्यूतमद्ययस्त्रीभिः: प्रलेभयेत्-पितरि विक्रम्य राज्य गृहाणेति । तदन्यस्स्त्री प्रतिषेधयेत्” इत्याम्भीया:[८८]


 “महादोषमबुद्धबोधनमिति" कौटिल्यः । नवं हि द्रव्यं

येन येनार्थजातेनोपदिह्यते तत्तदाचूषति । एवमयं नवबुद्धि र्यद्यदुच्यते तत्तच्छास्त्रोपदेशमिवाभिजानाति । तस्माद्धर्ममर्थे चास्योपदिशेन्नाधर्ममनर्थे च । सत्रिणस्त्वेनं[८९] 'तव स्मः' इति वदन्तः पालयेयुः ।  यौवनोन्सेकात् परस्त्रीषु मनः कुर्वाणं आर्याव्यञ्जनाभि स्स्त्रिभिरमेध्या[९०] भिश्शून्यागारेपु रात्रावुद्वैजयेयु: ॥

मद्यकामं योगपानेनोद्रेजयेयुः ।
द्युत्कामं कापाटिकैः पुरुषैरुद्वैजयेयुः ।।
मृगयाकामं प्रतिरोधकव्यञ्जनैस्त्रासयेयुः ।
पितरि विक्रमबुद्धिं तथेत्यनुप्रविश्य भेदयेयुः ।।

 “अप्रार्थनीयो राजा विपन्न्ने घातस्सम्पन्ने नरकपातः, संक्रो शः प्रजाभिरेकलोष्टवधश्चेति" । विरागं प्रियमेकपुत्रं वा बध्नियात्।।  बहुपुत्रः प्रत्यन्तमन्यविपयं वा प्रेपयेद्यत्र गर्भः एण्ड्यं[९१] डिमवो[९२] वा न भवेत् ।।
 आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ।

बुद्धिमानाहार्यवृद्धिदुर्वृद्धिरिति पुत्रविशेषाः ।
शिष्यमाणो धर्मार्थावुपलभते चानुतिष्टतेि च बुद्धिमान् ।
उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः ।
अपायनित्यो धर्मार्थद्वेषी चेति दुर्बुद्धिः ।।

 स यद्येकपुत्रः पुत्रोत्पत्तावत्य प्रयतेत ।

पुत्रिकापुत्रानुत्पादयेद्वा ।
 वृद्धस्तु व्याधितो वा राजा मातृबन्धुतुल्य' गुणवत्सामन्ता नामन्यतमेन क्षेत्रे बीजमुत्पादयेत् । न चैकपुत्रमविनीतं राज्ये स्थापयेत् ।

बहूनामकसंरोधः पिता पुत्रहितो भवेत् ।।
अन्यत्रापद ऐश्वर्यं ज्येष्ठभागी तु पूज्यते ॥
कुलस्य वा भवेद्राज्यं कुलसञ्घो हि दुर्जयः ।
अराजव्यसनाबाधः शश्वदावसति क्षितिम् ॥
इति विनयाधिकारके राजपुत्ररक्षणं सप्तदशोऽध्यायः


१४-१५. प्रक. अवरुद्धवृत्तमवरुद्धे च वृत्तिः.

 राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरमनुवर्तेत अन्यत्र प्राणाबाधकप्रकृतिकोप पातकेभ्यः ।

पुण्यकर्मणि नियुक्तः पुरुषमधिष्ठातारं याचेत ।।
पुरुषाधिष्ठितश्च सावशेषमादेशमनुतिष्ठेत् ।
अभिरुप च कर्मफलमैौपायनिकं च लाभ पितुरुपनाययेत् ।।

 तथाऽप्यतुष्यन्तमन्यस्मिन् पुत्रे दारेषु वा स्त्रिह्यन्तमरण्याय आपृच्छेत् बन्धबधभयाद्वा यस्सामन्तो न्यायव्रत्तिधार्मिकः


1 कुल्य, 2. कोपक. ३ अविरुद्धं. सत्यवागविसंवादकः प्रतिगृहीता मानयिता चाभिपन्नानां तमाश्रयेत ।
 तत्रस्थ कोदण्ड[९३] 'सम्पन्नः प्रवरिपुरुषकन्यासम्बन्धमटवीस म्वन्धं कृत्यपक्षोपगृहं वा कुर्यात् ।
 एकचरस्थुवर्ण[९४]पाकमणिरागहेमरूप्यपण्याकरकर्मान्तानाजी वेत् । पापण्डसञ्चद्रव्ययश्रोत्रियभोग्यं देवव्यमाढ्यविधवां वा गूढमनुप्रविश्य सार्थयानपात्रणि च मदनरसयोगेनातिसन्धायापहरेत् ।।

पारग्रामिकं वा योगमातिष्टेत् ।
मातुः परिजनोपग्रहेण वा चेष्टेत ।

 कारुशिल्पिकुलशिलवचिकित्सकवाग्जीनपाषण्डछद्मभिर्वा नष्टरूपस्तद्वयञ्जनसख छिद्रे प्रविश्य राज्ञः शस्त्ररसाभ्यां प्रह्रुत्य ब्रूयात्----“ अहमसौ कुमार:, सहभोग्यमिदं राज्यमेको नाईति भोक्तुं तत्र ये कामयन्ते मर्तु:[९५] नाहं [९६] द्विगुणेन भक्तवेतने- नोपस्थास्ये इति ।
 इत्यवरुद्धवृत्तम् ।
 अवरुद्धं तु मुख्यपुत्रमपसर्पा: प्रतिपाद्यानयेयुः ।।
 माता वा प्रतिगृहीता ।।
 त्यक्तं गूढपुरुषाः शस्त्ररसाभ्यां हन्युः ।।

 अत्यक्तं तुल्यशीलाभिस्त्रीभिः पानेन म्रृगयया वा प्रसज्य रात्रावुपगृह्यानयेयुः ।
उपस्थितं च राज्येन मदूर्ध्वमिति सान्त्वयेत् ।।

एकस्थमथ संरुन्ध्यात् पुत्रवान्वा प्रवासयेत् ।।

इति विनयाधिकारिके अवरुद्धवृत्तमवरुद्धेbr> च वृत्तिः अष्टादशोऽध्याय.


१६. प्रक. राजप्रणिधिः.


 राजानमुत्तिष्ठमान[९७] मनूत्तिष्ठन्ते भृत्या: ।
 प्रमाद्यन्तमनुप्रमाद्यन्ति । कर्माणि चास्य भक्षयन्ति । द्विषद्भिश्चातिसन्धीयते ।
 तस्मादुत्थानमात्मनः कुर्वीत ।
 नाळिकाभिरहरष्टधा रात्रिं च विभजेत् । छायाप्रमाणेन वा ।  त्रिपौरुषी पौरुषी चतुरङ्गुलाऽच्छायो[९८] मध्याह्न इति[९९] पूर्वे- दिवसस्याष्टभागाः ।।
 तैः पश्चिमाः व्याख्याताः ।
 तत्र पूर्वे दिवस्याष्टभागे रक्षाविधानमायव्ययौ च श्रुणुयात् ।
 द्वितीये पौरजानपदानां कार्याणि पश्येत् ।

 तृतीये, स्नानभोजनं सेवेत । स्वाध्यायं च कुर्वीत ।
 चतुर्थे हिरण्यपतिग्रहमध्यक्षांश्च कुर्वीत ।

 पञ्चमे मन्त्रिपरिषदा पत्रसंप्रेषेणेन मन्त्रयेत । चारगु ह्याबोधनीयानि च बुद्धयेत् ।।
 षष्टे स्वैरविहारं मन्त्रं वा सेवेत । सप्तमे हस्त्यश्वर- थायुधीयान् पश्येत् ।।

अष्टमे सेनापतिसखो विक्रमं चिन्तयेत् ।
प्रतिष्टितेsहानि सन्ध्यामुपासीत ।
प्रथमे रात्रिभागे गूढपुरुषान् पश्येत् ।
द्वितीये स्नानभोजनं कुर्वीत स्वाध्यायं च ।
तृतीये तूर्यघोषेण संविष्टः चतुर्थपञ्चमौ शयीत ।
षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रमितिकर्तव्यतां च चिन्तयेत् ।
सप्तमे मन्त्रमध्यासीत । गूढपुरुषांश्च प्रेषयेत् ।
अष्टमे ऋत्विगाचार्यपुरोहितसखः स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सकमाहानसिकमौहूर्तिकांश्च पश्येत् । सवत्सां धेनुं वृषभं च प्रदक्षिणीकृत्योपस्थानं गच्छेत् ।।

 आत्मवलानुकूल्येन वा निशार्भागान् प्रतिविभज्य का र्याणि सेवेत ।
 उपस्थानगतः कार्यार्थिनामद्वारसङ्गं कारयेत् । दुर्दर्शो हि राजा कार्यकार्यविषयसमा[१००] मन्नैः कार्यते । तेन प्र-


कृतिकोपरिवशं वा गच्छेत् । तस्माद्देवताश्रमपापण्डश्रोत्रिय

पशुपुण्यस्थानानां बालवृद्धव्याधितव्यसन्यनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्यगौरवादात्यायिकवशेन वा ।

सर्वमात्ययिकं कार्यं श्रुणुयान्नातिपातयेत् ।
कृच्छ्रसाध्यमतिक्रान्तमसाध्यं वा विजायते ।।
अग्नयगारगतः कार्ये पश्येद्वैद्यतपस्विनाम् ।
पुरोहिताचार्यसख: प्रत्युत्थायाभिवाद्य च ।।
तपस्विनां तु कार्याणि त्रैविद्येस्सह कारयेत् ।
मायायोगविदां चैव न स्वय कोपकारणात् ।।
राज्ञो हि व्रतमुत्थानं यज्ञः कार्यानुशासनम् ।।
दक्षिणा वृत्तिसाम्यं च दीक्षितस्याभिषेचनम् ।।
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥
तस्मान्नित्योत्थितो राजा कुर्यादर्थानुशासनम् ।
अर्थस्य मूलमुत्थानमनर्थस्य विपर्ययः ।।
अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।।
प्राप्यते कलमुत्थानाल्लभते चार्थसम्पदम् ।।

इति विन्याधिकारके राजप्रणिधि: एकोनविंशोध्यायः


१७, प्रक, निशान्तप्रणिधिः.

 वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्धारमनेककक्ष्यापरिगत मन्तःपुरं कारयेत् ।।
 कोशगृहविधानेन वास[१०१] गृहं, गूढभित्तिसञ्चारं मोहनगृहं तन्मध्ये वा वासगृहं, भूमिगृह वा, आसन्नकाष्ठचैत्यदेवताविधान द्वारमनेकसुरुङ्गासञ्चारं प्रासादं वा गूढभित्तिसोपानं, सुषिर स्तम्भप्रवेशापसारं वा वासगृहं यन्त्रबद्धतलावपातं कारयेत् ।

आपत्प्रतीकारार्थमापादि वा कारयेत् ।
अतोऽन्यथा वा विकल्पयेत् सहाध्यायिभयात् ।

 मानुषेणाग्निना त्रिरपसव्यं परिगतमन्तःपुरमग्निरन्यो न दहति । न चात्रान्योऽग्निर्ज्वलति । वैद्युतेन भस्मना मृत्संयु क्तेन करकचारिणऽवलिप्तं च ।
 जीवन्तीश्वेतामुष्ककपुष्पवृन्दाकाभिरक्षीपे[१०२] जातस्याश्वत्थस्य प्रतानेन वा गुप्तं सर्पा विषाणि वा ने प्रसहन्ते ।
 मार्जारमयूरनकुलपृषतोत्सर्गसर्पान् भक्षयति[१०३] [र्गास्सर्पान् भक्षयन्ति ?} ।

शुकश्शा[१०४] रिका भृङ्गराजो वा सपॉविषशङ्कायां क्रोशति[१०५]
क्रौञ्चो विपाभ्याशे माद्यति ।

 ग्लायति जीवंजीवकः ।

 म्रियते मत्तकोकिल:।
 चकोरस्याक्षिणी विरज्येते[१०६]
 इत्येवं अग्निदिषसर्पेभ्यः प्रतिकुर्वीत ।
 पृष्टतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्वाधिवैद्यप्रख्यातसंस्थावृक्षोदकस्थानं च ।
 बहि: कन्याकुमारपुरम् ।
 पुरस्तादलङ्कारभूमि, मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च ।
 कक्ष्यान्तरेष्वन्तर्वशिकसैन्यं तिष्ठेत् ।
 अन्तर्गृहगतस्स्थविरस्त्रीपारेशुद्धां देवीं पश्येत् । न काञ्चिदभिगच्छेत् ।
 देवीगृहे लीनो हि भ्राता भद्रसेनं जघान ।
 मातुश्शय्यान्तर्गतश्च पुत्रः कारूशम् ।
 लाजान्मधुनेति विषेण पर्यस्य देवी काशिराजम् ।
 विषदिग्धेन नूपुरेण वैरन्त्यं मेखलामणिना सौवीरं जालूथमादर्शेन वेण्यागूढं शस्त्रं कृत्वा देवी विदूरथं जघान।
 तस्मादेतान्यास्पदानि परिहरेत् ।।
 मुण्डजटिलकुहकप्रतिससर्ग वाह्याभिश्च दासीभिः प्रतिषेधयेत् ।
 न चैना' कुल्या' पश्येयुरन्यत्र गर्भव्याधिसंस्याभ्यः । रूपाजीवास्नानप्रघर्पशुद्धशरीराः परिवर्तितवस्त्रालङ्कारा: पश्येयुः ।


 आशीतिकाः पुरुषाः पञ्चाशत्कास्त्रीयो वा मातापितृव्यञ्ज

नास्स्थविरवर्षवराभ्यागारिकाश्चावरोधानां शौचाशौचं विद्यु: स्थापपयेयुश्च स्वामिहिते ।

स्वभूमौ च वसेत्सर्वः परभूमौ न सञ्चरेत् ।
न च बाह्येन संसर्गे कश्चिदाभ्यन्तरो व्रजेत् ॥
सर्व चावेक्षितं द्रव्यं निबद्धागमनिर्गमम् ।
निर्गच्छेदधिगच्छेद्वा मुद्रासङ्घान्तभूमिकम् ॥

इति विनयाधिकारिके निशान्तप्राणिधि: विंशोऽध्यायः

१८. प्रक, आत्मरक्षितकम्.

शयनादुत्थितस्स्त्रीगणैधन्विभिः परिगृह्येत ।
द्वितीयस्यां कक्ष्यायां कञ्चकोष्णीषिभिर्वर्पवराभ्यागारिकैः ।
तृतीयस्यों कुब्जवामनकिरातैः ।
चतुर्थ्यां मन्त्रिभिस्सम्बन्धिभिदौवारिकैश्च प्रासपाणिभिः ।
पितृपैतामहं महासम्बन्धानुबन्धं शिक्षितमनुरक्तं कृतकर्माणं

जनमासन्नं कुर्वीत्त ।

नान्यतोदेशीयमकृतार्थमानं स्वदेशीयं वाऽप्यकृत्योपगृहीतं

अतर्वशिकसैन्यं राजानमन्तःपुरं च रक्षेत् ।


 गुप्ते देशे माहानसिकः सर्वमास्वादबाहुल्येन कर्म कारयेत् ।

'तद्राजा तथैव प्रतिभुञ्जीत पूर्वमग्नये वयोभ्यश्च बलिं कृत्वा ।
 अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य,-वयसां --विपत्तिश्च,‌अन्नस्योष्मा मयूरग्रीवाभः शैव, आशुक्लि ष्ट्स्यैव वैवर्ण्य सोदकत्वमक्लिन्नत्वं च,--व्यञ्जनानामाशुशुष्कत्वं च क्काथश्यामफेनपटल[१०७] विच्छिन्नभावो गन्धस्पर्शरसवधश्च,- द्रव्येषु हीनातिरिक्तछायादर्शनं फेनपटलसीमन्तोर्ध्वराजीदर्शनं च,--रसस्य मध्ये नीला राजी,--पयसस्ताम्रा,-- मद्यतो- ययोः काली,-दधश्श्यामा च,--मधुनश्श्वेता,-द्रव्याणामा माद्राणामाशुप्रम्लात[१०८]त्वमुत्पक्वभावः काथनलिश्यावता च,-- शुष्काणामाशुशातनं वैवर्ण्य च,-कठिनानां मृदुत्वं मृदूनां कठिनत्वं च,--तदभ्याशे क्षुद्रसत्ववधश्च, --आस्तरणप्राव रणानां श्याम[१०९]मण्डलता तन्तुरोमपक्ष्मशातनं च,-लोहमणि मयानां पाकलोपदेहता[११०] स्नेहरागगौरवप्रभाववर्णस्पर्शवधश्चेति विषयुक्तलिङ्गानि ।
 विषप्रदस्य तु शुष्कश्याववक्तूता वाक्सङ्गस्स्वेदो विज्रुम्भण चातिमात्रं वेपथुः प्रस्खलनं वाक्यविप्रेक्षणमावेशः[१११] कर्मणि स्वभूमौ चानवस्थानमिति ।
 तस्मादस्य जाङ्गलीविदो भिषजश्वासन्नास्युः।


491  भिषग्भेपज्यागारादास्वादविशुद्धौपध गृहीत्वा पाचकपो
षकाभ्यामात्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ।
 पानं पानीयं चौषधेन व्याख्यातम् ।
कल्पकप्रसाधकास्नानशुद्धवस्त्रहस्तास्समुद्रमुपकरणमन्तर्ेवशिक-
हस्तादादाय परिचरेयुः।

493  स्नपकसंवाहकास्तरकरजकमालाकारकर्म दास्यः कुर्युः ।
ताभिरविष्टिता वा शिल्पिन आत्मचक्षुषि निवेश्य वस्त्रमाल्यं
दधुः । स्नानानुलेपनमघर्षचूर्णवासस्नानीयानि स्ववक्षोबाहुषु च ।
 एतेन परस्मादागतकं च व्याख्यातम् ।
कुशीलवाश्शस्त्राग्निरलवर्ज नर्मयेयुः । आतोद्यानि चैषाम
न्तस्तिष्ठेयुरश्वरथद्विपालङ्काराश्च ।

496  मौलपुरुषाधिष्ठितं यानवाहनमारोहेत् ।
नावं चाप्तनाविकाधिष्ठितामन्यनोप्रतिबद्धां वातवेगवशां च
नोपेयात् ।
 उदकान्ते सैन्यमासीत ।
 मत्स्यग्राहविशुद्धमवगाहेत ।
 व्याळग्राहपरिशुद्धमुद्यानं गच्छेत् ।

499  लुब्धकैः श्वगणिभिरपास्तस्तेनव्याळपरावाधभयं चललक्षप-
'रिचयार्थ मृगारण्यं गच्छेत् ।

 आप्तशस्त्रग्राहाधिष्ठितस्सिद्धतापसं पश्येत् ।502
 मन्त्रिपरिषदा सामन्तदूतं । सन्नद्धोऽश्वं हस्तिनं रथं वाऽऽ-.
रूढस्सन्नद्धमनीकं गच्छेत् ।
निर्याणेऽभियाने च राजमार्गमुभयत कृतारक्षं दण्डिभिरपा-
स्तशस्त्रहस्तप्रव्रजितव्यङ्गं गच्छेत् । न पुरुषसम्बाधमवगाहेत ।
यात्रासमाजोत्सवप्रवहणानि च दशवर्गिकाधिष्ठितानि गच्छेत्

 यथा च योगपुरुषैरन्यात्राजाधितिष्ठति । 506
 तथाऽयमन्यबाधेभ्यो रक्षेदात्मानमात्मवान् ॥

 इति विनयाधिकारिके आत्मरक्षितकम् एकविंशोऽध्याय
  एतावता कौटिलीयस्यार्थशास्रस्थ विनयाधिकारिक
   प्रथममधिकरणं समाप्तम्.


  1. संङ्गृह्यै.
  2. प्रथममधि.
  3. विनिवेश.
  4. तृनिचय.
  5. पाले.
  6. गण.
  7. पतिकवै.
  8. रीक.
  9. सामया.
  10. यिक.
  11. समाधि.
  12. फल्गुविभाग.
  13. संस्था.
  14. प्रांशु.
  15. निषद.
  16. ति.
  17. क्षि.
  18. बद्धा.
  19. क्षि.
  20. नयायन.
  21. क्ष्य.
  22. क्षि.
  23. क्षि.
  24. स्पर्शरस.
  25. बिन्दुस्सौवीरश्चाजमा,
  26. मानर्थ्य.
  27. मानामात्मा.
  28. "नृपस्य ते हि सुहृदस्स्त एव गुरवो मता । य एनमुत्पथगत धारयन्त्यनिवारित ॥" इति कामान्दक.
  29. नाळिकेति पाठः. नाळिकेति उपाध्यायनिरपेक्षास्थानुवादः.
  30. मातृकाकोशे “शास्त्रविद्दृष्ट" इत्यपि पठितु शक्यते.
  31. हर.
  32. भक्तिशील.
  33. चाप्यतः
  34. यौगप.
  35. गत.
  36. पुरोहितः,
  37. शापथ.
  38. पादिक.
  39. रसत्प्रतिग्रहे.
  40. ल्लोभयेद्राज.
  41. सामुद्रिकाः व्यापारिण महासमुद्र प्रवहणैस्तरन्ति" इति उत्तराध्ययनसूत्रटीकायाम् प. २४६.
  42. प्रगल्भच्छात्र ।
  43. प्रवृज्यप्रत्यवग्रत ,
  44. वैदेहि.
  45. मुण्डनको.
  46. भाग्य,
  47. रेत.
  48. धुर्म.
  49. गतिपाव्य.
  50. त्रयाणामन्योन्य,
  51. तनिश्चरार्थ,
  52. चरा
  53. चते
  54. मात्र,
  55. अयोग,
  56. इन्द्रिय
  57. अर्थमानाभ्या पु
  58. अमित्राटबिक प्र.
  59. तुख्याधिकारि.
  60. भृष्ट.
  61. कुल्यै,
  62. परोक्त.
  63. सर्वस्व.
  64. कृष्टः,
  65. कर्तुमेध.
  66. दोऽयोग.
  67. तत्त्रिषु.
  68. दोष उपपन्नस्तु
  69. पक्ष्यै,
  70. अनासन्नै.
  71. स तच्चक्षु.।
  72. वाच्यम्,
  73. तमुदरेवारवेन.
  74. दुद्यते.
  75. मन्तेवासिनो,
  76. दवसृष्ट.,
  77. पूजया,
  78. रागोप
  79. विचित्र.
  80. समुद्धाने,
  81. मवेक्षेत.
  82. दविसृष्टो.
  83. यम्यते.
  84. छात्रेभ्यश्च,
  85. मद्दष्टं
  86. भ्रग.
  87. प्रसवने,
  88. त्याजयि .
  89. श्चैन
  90. रसैव्या.
  91. पण्य,
  92. डिम्वो,
  93. कोशदण्ड--Ed
  94. स्सुपर्ण,
  95. भर्तु.
  96. तानहं.
  97. नमुत्थित,
  98. ला च छाया,
  99. चत्वारः पूर्वे.
  100. पर्यानमासमा,
  101. का मध्ये बास
  102. रक्षिवे, ‘वन्दाकानाभक्षिपे' इति चतुर्दशाभकरणे तुर्था ध्ययै पाठो दृश्यते.
  103. 'मयूरपृषतोत्सर्गे न भवन्ति भुञ्जनामा ' इति कमन्दक .
  104. शुकशारिका,
  105. क्रोशन्ति ,
  106. ज्येत.
  107. मण्डल.
  108. म्लान.
  109. ध्यायश्याम.
  110. पङ्कमलोपदेहता,'लोहाना च मणी- ना च मलपङ्कोपदिग्धता' इति कामन्दक.
  111. वेग.