तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ३/प्रपाठकः १

विकिस्रोतः तः
Jump to navigation Jump to search

3.1 प्रपाठक: 1
3.1.1 अनुवाक 1
दीक्षितवादः

VERSE: 1
प्रजापतिर् अकामयत प्रजाः सृजेयेति
स तपो ऽतप्यत स सर्पान् असृजत
सो ऽकामयत प्रजाः सृजेयेति
स द्वितीयम् अतप्यत स वयाम्̇स्य् असृजत
सो ऽकामयत प्रजाः सृजेयेति
स तृतीयम् अतप्यत स एतं दीक्षितवादम् अपश्यत् तम् अवदत् ततो वै स प्रजा असृजत
यत् तपस् तप्त्वा दीक्षितवादं वदति प्रजा एव तद् यजमानः

VERSE: 2
सृजते
यद् वै दीक्षितो ऽमेध्यम् पश्यत्य् अपास्माद् दीक्षा क्रामति नीलम् अस्य हरो व्य् एति ।
अबद्धम् मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाम्̇ श्रेष्ठो दीक्षे मा मा हासीः ।
इत्य् आह
नास्माद् दीक्षाप क्रामति नास्य नीलं न हरो व्य् एति
यद् वै दीक्षितम् अभिवर्षति दिव्या आपो ऽशान्ता ओजो बलं दीक्षाम्

VERSE: 3
तपो ऽस्य निर् घ्नन्ति ।
उन्दतीर् बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षाम् मा तपो निर् वधिष्ट ।
इत्य् आह ।
एतद् एव सर्वम् आत्मन् धत्ते
नास्यौजो बलं न दीक्षां न तपो निर् घ्नन्ति ।
अग्निर् वै दीक्षितस्य देवता
सो ऽस्माद् एतर्हि तिर इव यर्हि याति तम् ईश्वरम्̇ रक्षाम्̇सि हन्तोः ।

VERSE: 4
भद्राद् अभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्व् इत्य् आह ब्रह्म वै देवानाम् बृहस्पतिस् तम् एवान्वारभते स एनम्̇ सम् पारयति ।
एदम् अगन्म देवयजनम् पृथिव्या इत्य् आह
देवयजनम्̇ ह्य् एष पृथिव्या आगच्छति यो यजते
विश्वे देवा यद् अजुषन्त पूर्व इत्य् आह विश्वे ह्य् एतद् देवा जोषयन्ते यद् ब्राह्मणा ऋक्सामाभ्यां यजुषा संतरन्त इत्य् आह ।
ऋक्सामाभ्याम्̇ ह्य् एष यजुषा संतरति यो यजते
रायस् पोषेण सम् इषा मदेमेत्य् आहाऽऽशिषम् एवैताम् आ शास्ते ॥

3.1.2 अनुवाक 2
सोमोपस्थानादि

VERSE: 1
एष ते गायत्रो भाग इति मे सोमाय ब्रूतात् ।
एष ते त्रैष्टुभो जागतो भाग इति मे सोमाय ब्रूतात् ।
छन्दोमानाम्̇ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् ।
यो वै सोमम्̇ राजानम्̇ साम्राज्यं लोकं गमयित्वा क्रीणाति गच्छति स्वानाम्̇ साम्राज्यं छन्दाम्̇सि खलु वै सोमस्य राज्ञः साम्राज्यो लोकः
पुरस्तात् सोमस्य क्रयाद् एवम् अभि मन्त्रयेत
साम्राज्यम् एव

VERSE: 2
एनं लोकं गमयित्वा क्रीणाति गच्छति स्वानाम्̇ साम्राज्यम्
यो वै तानूनप्त्रस्य प्रतिष्ठां वेद प्रत्य् एव तिष्ठति
ब्रह्मवादिनो वदन्ति
न प्राश्नन्ति न जुह्वत्य् अथ क्व तानूनप्त्रम् प्रति तिष्ठतीति प्रजापतौ मनसीति ब्रूयात्
त्रिर् अव जिघ्रेत्
प्रजापतौ त्वा मनसि जुहोमि ।
इत्य् एषा वै तानूनप्त्रस्य प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति
यो

VERSE: 3
वा अध्वर्योः प्रतिष्ठां वेद प्रत्य् एव तिष्ठति
यतो मन्येतानभिक्रम्य होष्यामीति तत् तिष्ठन्न् आ श्रावयेत्
एषा वा अध्वर्योः प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति
यद् अभिक्रम्य जुहुयात् प्रतिष्ठाया इयात् तस्मात् समानत्र तिष्ठता होतव्यम् प्रतिष्ठित्यै
यो वा अध्वर्योः स्वं वेद स्ववान् एव भवति
स्रुग् वा अस्य स्वं वायव्यम् अस्य

VERSE: 4
स्वं चमसो ऽस्य स्वं यद् वायव्यं वा चमसं वानन्वारभ्याश्रावयेत् स्वाद् इयात् तस्माद् अन्वारभ्याश्राव्यम्̇ स्वाद् एव नैति
यो वै सोमम् अप्रतिष्ठाप्य स्तोत्रम् उपाकरोत्य् अप्रतिष्ठितः सोमो भवत्य् अप्रतिष्ठितः स्तोमो ऽप्रतिष्ठितान्य् उक्थान्य् अप्रतिष्ठितो यजमानो ऽप्रतिष्ठितो ऽध्वर्युः ।
वायव्यं वै सोमस्य प्रतिष्ठा चमसो ऽस्य प्रतिष्ठा सोमः स्तोमस्य स्तोम उक्थानां ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकुर्यात्
प्रत्य् एव सोमम्̇ स्थापयति प्रति स्तोमम् प्रत्य् उक्थानि प्रति यजमानस् तिष्ठति प्रत्य् अध्वर्युः ॥

3.1.3 अनुवाक 3
सोमक्रयणीपदाञ्जनादि

VERSE: 1
यज्ञं वा एतत् सम् भरन्ति यत् सोमक्रयण्यै पदम् ।
यज्ञमुखम्̇ हविर्धाने
यर्हि हविर्धाने प्राची प्रवर्तयेयुस् तर्हि तेनाक्षम् उपाञ्ज्यात् ।
यज्ञमुख एव यज्ञम् अनु सं तनोति
प्राञ्चम् अग्निम् प्र हरन्त्य् उत् पत्नीम् आ नयन्त्य् अन्व् अनाम्̇सि प्र वर्तयन्ति ।
अथ वा अस्यैष धिष्णियो हीयते सो ऽनु ध्यायति स ईश्वरो रुद्रो भूत्वा

VERSE: 2
प्रजाम् पशून् यजमानस्य शमयितोः ।
यर्हि पशुम् आप्रीतम् उदञ्चं नयन्ति तर्हि तस्य पशुश्रपणम्̇ हरेत् तेनैवैनम् भागिनं करोति
यजमानो वा आहवनीयः ।
यजमानं वा एतद् वि कर्षन्ते यद् आहवनीयात् पशुश्रपणम्̇ हरन्ति
स वैव स्यान् निर्मन्थ्यं वा कुर्याद् यजमानस्य सात्मत्वाय
यदि पशोर् अवदानं नश्येद् आज्यस्य प्रत्याख्यायम् अव द्येत्
सैव ततः प्रायश्चित्तिः ।
ये पशुं विमथ्नीरन् यस् तान् कामयेत ।
आर्तिम् आर्छेयुर् इति कुविद् अङ्गेति नमोवृक्तिवत्यर्चाऽऽग्नीध्रे जुहुयात् ।
नमोवृक्तिम् एवैषां वृङ्क्ते ताजग् आर्तिम् आर्छन्ति ॥

3.1.4 अनुवाक 4
पशूपाकरणादि मन्त्राः

VERSE: 1
प्रजापतेर् जायमानाः प्रजा जाताश् च या इमाः । तस्मै प्रति प्र वेदय चिकित्वाम्̇ अनु मन्यताम् ॥
इमम् पशुम् पशुपते ते अद्य बध्नाम्य् अग्ने सुकृतस्य मध्ये । अनु मन्यस्व सुयजा यजाम जुष्टं देवानाम् इदम् अस्तु हव्यम् ॥
प्रजानन्तः प्रति गृह्णन्ति पूर्वे प्राणम् अङ्गेभ्यः पर्य् आचरन्तम् । सुवर्गं याहि पथिभिर् देवयानैर् ओषधीषु प्रति तिष्ठा शरीरैः ॥
येषाम् ईशे

VERSE: 2
पशुपतिः पशूनां चतुष्पदाम् उत च द्विपदाम् । निष्क्रीतो ऽयं यज्ञियम् भागम् एतु रायस् पोषा यजमानस्य सन्तु ॥
ये बध्यमानम् अनु बध्यमाना अभ्येक्षन्त मनसा चक्षुषा च । अग्निस् ताम्̇ अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संविदानः ॥
य आरण्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । वायुस् ताम्̇ अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संविदानः ॥
प्रमुञ्चमानाः

VERSE: 3
भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । उपाकृतम्̇ शशमानं यद् अस्थाज् जीवं देवानाम् अप्य् एतु पाथः ॥
नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिः सह देवयानः । जीवं देवानाम् अप्य् एतु पाथः सत्याः सन्तु यजमानस्य कामाः ॥
यत् पशुर् मायुम् अकृतोरो वा पद्भिर् आहते । अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̇हसः ॥
शमितार उपेतन यज्ञम्

VERSE: 4
देवेभिर् इन्वितम् । पाशात् पशुम् प्र मुञ्चत बन्धाद् यज्ञपतिम् परि ॥
अदितिः पाशम् प्र मुमोक्त्व् एतं नमः पशुभ्यः पशुपतये करोमि । अरातीयन्तम् अधरं कृणोमि यं द्विष्मस् तस्मिन् प्रति मुञ्चामि पाशम् ॥
त्वाम् उ ते दधिरे हव्यवाहम्̇ शृतंकर्तारम् उत यज्ञियं च । अग्ने सदक्षः सतनुर् हि भूत्वाथ हव्या जातवेदो जुषस्व ॥
जातवेदो वपया गच्छ देवान् त्वम्̇ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतम्̇ हविर् अदन्तु देवाः ॥
स्वाहा देवेभ्यो देवेभ्यः स्वाहा ॥

3.1.5 अनुवाक 5
पशूपाकरणादि मन्त्रब्राह्मणम्

VERSE: 1
प्राजापत्या वै पशवस् तेषाम्̇ रुद्रो ऽधिपतिः ।
यद् एताभ्याम् उपाकरोति ताभ्याम् एवैनम् प्रतिप्रोच्या लभत आत्मनो ऽनाव्रस्काय
द्वाभ्याम् उपाकरोति
द्विपाद् यजमानः
प्रतिष्ठित्यै ।
उपाकृत्य पञ्च जुहोति
पाङ्क्ताः पशवः
पशून् एवाव रुन्द्धे
मृत्यवे वा एष नीयते यत् पशुस्
तं यद् अन्वारभेत प्रमायुको यजमानः स्यात् ।
नाना प्राणो यजमानस्य पशुनेत्य् आह व्यावृत्त्यै ।

VERSE: 2
यत् पशुर् मायुम् अकृतेति जुहोति शान्त्यै
शमितार उपेतनेत्य् आह
यथायजुर् एवैतत् ।
वपायां वा आह्रियमाणायाम् अग्नेर् मेधो ऽप क्रामति
त्वाम् उ ते दधिरे हव्यवाहम् इति वपाम् अभि जुहोति ।
अग्नेर् एव मेधम् अव रुन्द्धे ।
अथो शृतत्वाय
पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयो ऽन्ये
स्वाहा देवेभ्यो देवेभ्यः स्वाहेत्य् अभितो वपां जुहोति
तान् एवोभयान् प्रीणाति ॥

3.1.6 अनुवाक 6
आग्नीध्राद्यभिमर्शनम्

VERSE: 1
यो वा अयथादेवतं यज्ञम् उपचरत्य् आ देवताभ्यो वृश्च्यते पापीयान् भवति यो यथादेवतं न देवताभ्य आ वृश्च्यते वसीयान् भवति ।
आग्नेय्यर्चाग्नीध्रम् अभि मृशेद् वैष्णव्या हविर्धानम् आग्नेय्या स्रुचो वायव्यया वायव्यान्य् ऐन्द्रिया सदो यथादेवतम् एव यज्ञम् उप चरति न देवताभ्य आ वृश्च्यते वसीयान् भवति
युनज्मि ते पृथिवीं ज्योतिषा सह युनज्मि वायुम् अन्तरिक्षेण

VERSE: 2
ते सह युनज्मि वाचम्̇ सह सूर्येण ते युनज्मि तिस्रो विपृचः सूर्यस्य ते
अग्निर् देवता गायत्री छन्द उपाम्̇शोः पात्रम् असि सोमो देवता त्रिष्टुप् छन्दो ऽन्तर्यामस्य पात्रम् असीन्द्रो देवता जगती छन्द इन्द्रवायुवोः पात्रम् असि बृहस्पतिर् देवतानुष्टुप् छन्दो मित्रावरुणयोः पात्रम् अस्य् अश्विनौ देवता पङ्क्तिश् छन्दो ऽश्विनोः पात्रम् असि सूर्यो देवता बृहती

VERSE: 3
छन्दः शुक्रस्य पात्रम् असि चन्द्रमा देवता सतोबृहती छन्दो मन्थिनः पात्रम् असि विश्वे देवा देवतोष्णिहा छन्द आग्रयणस्य पात्रम् असीन्द्रो देवता ककुच् छन्द उक्थानाम् पात्रम् असि पृथिवी देवता विराट् छन्दो ध्रुवस्य पात्रम् असि ॥

3.1.7 अनुवाक 7
मत्सरिणोर्यजमानयोः नैमित्तिकः प्रयोगः

VERSE: 1
इष्टर्गो वा अध्वर्युर् यजमानस्येष्टर्गः खलु वै पूर्वो ऽर्ष्टुः क्षीयते ।
आसन्यान् मा मन्त्रात् पाहि कस्याश् चिद् अभिशस्त्याः ।
इति पुरा प्रातरनुवाकाज् जुहुयाद् आत्मन एव तद् अध्वर्युः पुरस्ताच् छर्म नह्यते ऽनार्त्यै
संवेशाय त्वोपवेशाय त्वा गायत्रियास् त्रिष्टुभो जगत्या अभिभूत्यै स्वाहा
प्राणापानौ मृत्योर् मा पातम् प्राणापानौ मा मा हासिष्टं देवतासु वा एते प्राणापानयोः

VERSE: 2
व्यायच्छन्ते येषाम्̇ सोमः समृच्छते
संवेशाय त्वोपवेशाय त्वा ।
इत्य् आह छन्दाम्̇सि वै संवेश उपवेशश् छन्दोभिर् एवास्य छन्दाम्̇सि वृङ्क्ते
प्रेतिवन्त्य् आज्यानि भवन्त्य् अभिजित्यै मरुत्वतीः प्रतिपदो विजित्यै ।
उभे बृहद्रथन्तरे भवतः ।
इयं वाव रथंतरम् असौ बृहद् आभ्याम् एवैनम् अन्तर् एति ।
अद्य वाव रथंतरम्̇ श्वो बृहद् अद्याश्वाद् एवैनम् अन्तर् एति
भूतम्

VERSE: 3
वाव रथंतरम् भविष्यद् बृहद् भूताश् चैवैनम् भविष्यतश् चान्तर् एति
परिमितं वाव रथंतरम् अपरिमितम् बृहत् परिमिताच् चैवैनम् अपरिमिताच् चान्तर् एति
विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताम्̇ स एतज् जमदग्निर् विहव्यम् अपश्यत् तेन वै स वसिष्ठस्येन्द्रियं वीर्यम् अवृङ्क्त
यद् विहव्यम्̇ शस्यत इन्द्रियम् एव तद् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते
यस्य भूयाम्̇सो यज्ञक्रतव इत्य् आहुः
स देवता वृङ्क्त इति
यद्य् अग्निष्टोमः सोमः परस्तात् स्याद् उक्थ्यं कुर्वीत यद्य् उक्थ्यः स्याद् अतिरात्रं कुर्वीत यज्ञक्रतुभिर् एवास्य देवता वृङ्क्ते वसीयान् भवति ॥
===
टिप्पणी- आ नो भद्राः (ऋ. १.८९.१) इत्येतन्नित्यप्रयोगे वैश्वदेवशस्त्रगतं सूक्तं, तस्य स्थाने ममाग्ने वर्चो विहवेष्वस्तु(तै.सं. ४.७.१४) इत्येतत् सूक्तं मात्सर्यग्रस्तः प्रयुञ्जीत - सायणभाष्य
===
3.1.8 अनुवाक 8
उपांशुग्रहार्थो अभिषवः

VERSE: 1
निग्राभ्या स्थ देवश्रुत आयुर् मे तर्पयत प्राणम् मे तर्पयतापानम् मे तर्पयत व्यानम् मे तर्पयत चक्षुर् मे तर्पयत श्रोत्रम् मे तर्पयत मनो मे तर्पयत वाचम् मे तर्पयतात्मानम् मे तर्पयताङ्गानि मे तर्पयत प्रजाम् मे तर्पयत पशून् मे तर्पयत गृहान् मे तर्पयत गणान् मे तर्पयत सर्वगणम् मा तर्पयत तर्पयत मा

VERSE: 2
गणा मे मा वि तृषन् ।
ओषधयो वै सोमस्य विशो विशः खलु वै राज्ञः प्रदातोर् ईश्वरा ऐन्द्रः सोमः ।
अवीवृधं वो मनसा सुजाता ऋतप्रजाता भग इद् वः स्याम । इन्द्रेण देवीर् वीरुधः संविदाना अनु मन्यन्ताम्̇ सवनाय सोमम्
इत्य् आहौषधीभ्य एवैनम्̇ स्वायै विशः स्वायै देवतायै निर्याच्याभि षुणोति
यो वै सोमस्याभिषूयमाणस्य

VERSE: 3
प्रथमो ऽम्̇शु स्कन्दति स ईश्वर इन्द्रियं वीर्यम् प्रजाम् पशून् यजमानस्य निर्हन्तोस् तम् अभि मन्त्रयेत ।
आ मास्कान्त् सह प्रजया सह रायस् पोषेणेन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इत्य् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्य प्रजायै पशूनाम् अनिर्घाताय
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥

3.1.9 अनुवाक 9
सवनाहुत्यादि मन्त्राः

VERSE: 1
यो वै देवान् देवयशसेनार्पयति मनुष्यान् मनुष्ययशसेन देवयशस्य् एव देवेषु भवति मनुष्ययशसी मनुष्येषु
यान् प्राचीनम् आग्रयणाद् ग्रहान् गृह्णीयात् तान् उपाम्̇शु गृह्णीयाद् यान् ऊर्ध्वाम्̇स् तान् उपब्दिमतो देवान् एव तद् देवयशसेनार्पयति मनुष्यान् मनुष्ययशसेन देवयशस्य् एव देवेषु भवति मनुष्ययशसी मनुष्येषु ।
अग्निः प्रातःसवने पात्व् अस्मान् वैश्वानरो महिना विश्वशम्भूः । स नः पावको द्रविणं दधातु ॥

VERSE: 2
आयुष्मन्तः सहभक्षाः स्याम ॥
विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियम् एषां वदन्तो वयं देवानाम्̇ सुमतौ स्याम ॥
इदं त्रितीयम्̇ सवनं कवीनाम् ऋतेन ये चमसम् ऐरयन्त । ते सौधन्वनाः सुवर् आनशानाः स्विष्टिं नो अभि वसीयो नयन्तु ॥
आयतनवतीर् वा अन्या आहुतयो हूयन्ते ऽनायतना अन्याः ।
या आघारवतीस् ता आयतनवतीर् याः

VERSE: 3
सौम्यास् ता अनायतना ऐन्द्रवायवम् आदायाघारम् आ घारयेत् ।
अध्वरो यज्ञो ऽयम् अस्तु देवा ओषधीभ्यः पशवे नो जनाय विश्वस्मै भूतायाध्वरो ऽसि स पिन्वस्व घृतवद् देव सोम ।
इति
सौम्या एव तद् आहुतीर् आयतनवतीः करोत्य् आयतनवान् भवति य एवं वेद ।
अथो द्यावापृथिवी एव घृतेन व्य् उनत्ति
ते व्युनत्ते उपजीवनीये भवत उपजीवनीयो भवति

VERSE: 4
य एवं वेद ।
एष ते रुद्र भागो यं निरयाचथास् तं जुषस्व विदेर् गौपत्यम्̇ रायस् पोषम्̇ सुवीर्यम्̇ संवत्सरीणाम्̇ स्वस्तिम्
मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठम् ब्रह्मचर्यं वसन्तं निर् अभजत् स आगच्छत् सो ऽब्रवीत्
कथा मा निर् अभाग् इति
न त्वा निर् अभाक्षम् इत्य् अब्रवीद् अङ्गिरस इमे सत्त्रम् आसते ते

VERSE: 5
सुवर्गं लोकं न प्र जानन्ति तेभ्य इदम् ब्राह्मणम् ब्रूहि ते सुवर्गं लोकम् यन्तो य एषाम् पशवस् ताम्̇स् ते दास्यन्तीति
तद् एभ्यो ऽब्रवीत् ते सुवर्गं लोकं यन्तो य एषाम् पशव आसन् तान् अस्मा अददुस्
तम् पशुभिश् चरन्तं यज्ञवास्तौ रुद्र आगच्छत् सो ऽब्रवीन् मम वा इमे पशव इत्य् अदुर् वै

VERSE: 6
मह्यम् इमान् इत्य् अब्रवीन् न वै तस्य त ईशत इत्य् अब्रवीद् यद् यज्ञवास्तौ हीयते मम वै तद् इति तस्माद् यज्ञवास्तु नाभ्यवेत्यम् ।
सो ऽब्रवीद् यज्ञे मा भजाथ ते पशून् नाभि मम्̇स्य इति
तस्मा एतम् मन्थिनः सम्̇स्रावम् अजुहोत् ततो वै तस्य रुद्रः पशून् नाभ्य् अमन्यत
यत्रैतम् एवं विद्वान् मन्थिनः सम्̇स्रावं जुहोति न तत्र रुद्रः पशून् अभि मन्यते ॥

3.1.10 अनुवाक 10
प्रवृत्तहोमादि मन्त्राः

VERSE: 1
जुष्टो वाचो भूयासं जुष्टो वाचस् पतये देवि वाक् । यद् वाचो मधुमत् तस्मिन् मा धाः स्वाहा सरस्वत्यै ॥
ऋचा स्तोमम्̇ सम् अर्धय गायत्रेण रथंतरम् । बृहद् गायत्रवर्तनि ॥
यस् ते द्रप्स स्कन्दति यस् ते अम्̇शुर् बाहुच्युतो धिषणयोर् उपस्थात् । अध्वर्योर् वा परि यस् ते पवित्रात् स्वाहाकृतम् इन्द्राय तं जुहोमि ॥
यो द्रप्सो अम्̇शुः पतितः पृथिव्याम् परिवापात्

VERSE: 2
पुरोडाशात् करम्भात् । धानासोमान् मन्थिन इन्द्र शुक्रात् स्वाहाकृतम् इन्द्राय तं जुहोति ॥
यस् ते द्रप्सो मधुमाम्̇ इन्द्रियावान्त् स्वाहाकृतः पुनर् अप्येति देवान् । दिवः पृथिव्याः पर्य् अन्तरिक्षात् स्वाहाकृतम् इन्द्राय तं जुहोमि ॥
अध्वर्युर् वा ऋत्विजाम् प्रथमो युज्यते तेन स्तोमो योक्तव्यः ।
इत्य् आहुः ।
वाग् अग्रेगा अग्र एत्व् ऋजुगा देवेभ्यो यशो मयि दधती प्राणान् पशुषु प्रजाम् मयि

VERSE: 3
च यजमाने च ।
इत्य् आह वाचम् एव तद् यज्ञमुखे युनक्ति
वास्तु वा एतद् यज्ञस्य क्रियते यद् ग्रहान् गृहीत्वा बहिष्पवमानम्̇ सर्पन्ति
पराञ्चो हि यन्ति पराचीभिः स्तुवते वैष्णव्यर्चा पुनर् एत्योप तिष्ठते यज्ञो वै विष्णुर् यज्ञम् एवाकर्
विष्णो त्वं नो अन्तमः शर्म यच्छ सहन्त्य । प्र ते धारा मधुश्चुत उत्सं दुह्रत अक्षितम्
इत्य् आह यद् एवास्य शयानस्योपशुष्यति तद् एवास्यैतेनाऽऽ प्याययति ॥

3.1.11 अनुवाक 11 काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
अग्निना रयिम् अश्नवत् पोषम् एव दिवेदिवे । यशसं वीरवत्तमम् ॥
गोमाम्̇ अग्ने ऽविमाम्̇ अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । इडावाम्̇ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥
आ प्यायस्व
सं ते ॥
इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये । अस्माकम् अस्तु केवलः ॥
तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । यतो वीरः

VERSE: 2
कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना । यज्ञेयज्ञे न उद् अव ॥
पिशंगरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः ॥
प्र णो देवी ।
आ नो दिवः ॥
पीपिवाम्̇सम्̇ सरस्वत स्तनं यो विश्वदर्शतः । धुक्षीमहि प्रजाम् इषम् ॥

VERSE: 3
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेषां ते सुम्नम् ईमहे ॥
यस्य व्रतम् पशवो यन्ति सर्वे यस्य व्रतम् उपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर् निविष्टस् तम्̇ सरस्वन्तम् अवसे हुवेम ॥
दिव्यम्̇ सुपर्णं वयसम् बृहन्तम् अपां गर्भं वृषभम् ओषधीनाम् । अभीपतो वृष्ट्या तर्पयन्तं तम्̇ सरस्वन्तम् अवसे हुवेम ॥
सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । जुषस्व हव्य

VERSE: 4
माहुतम् प्रजां देवि दिदिड्ढि नः ॥
या सुपाणिः स्वङ्गुरिः सुषूमा बहुसूवरी । तस्यै विश्पत्नियै हविः सिनीवाल्यै जुहोतन ॥
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ॥
असितवर्णा हरयः सुपर्णा मिहो वसाना दिवम् उत् पतन्ति । त आऽववृत्रन्त् सदनानि कृत्वाऽऽद् इत् पृथिवी घृतैर् व्य् उद्यते ॥
हिरण्यकेशो रजसो विसारे ऽहिर् धुनिर् वात इव ध्रजीमान् । शुचिभ्राजा उषसः

VERSE: 5
नवेदा यशस्वतीर् अपस्युवो न सत्याः ॥
आ ते सुपर्णा अमिनन्त एवैः कृष्णो नोनाव वृषभो यदीदम् । शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिह स्तनयन्त्य् अभ्रा ॥
वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति । यद् एषां वृष्टिर् असर्जि ॥
पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः । यत् क्रीडथ मरुतः

VERSE: 6
ऋष्टिमन्त आप इव सध्रियञ्चो धवध्वे ॥
अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन । दृतिम्̇ सु कर्ष विषितं न्यञ्चम्̇ समा भवन्तूद्वता निपादाः ॥
त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे । धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ॥
अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य धाम । याश् च

VERSE: 7
माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥
दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः । अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः ॥
पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व् आभुवः । अत्यं न मिहे वि नयन्ति वाजिनम् उत्सं दुहन्ति स्तनयन्तम् अक्षितम् ॥
उदप्रुतो मरुतस् ताम्̇ इयर्त वृष्टिम्

VERSE: 8
ये विश्वे मरुतो जुनन्ति । क्रोशाति गर्दा कन्येव तुन्ना पेरुं तुञ्जाना पत्येव जाया ॥
घृतेन द्यावापृथिवी मधुना सम् उक्षत पयस्वतीः कृणुताप ओषधीः । ऊर्जं च तत्र सुमतिं च पिन्वथ यत्रा नरो मरुतः सिञ्चथा मधु ॥
उद् उ त्यम् ।
चित्रम् ॥
और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे । अग्निम्̇ समुद्रवाससम् ॥ आ सवम्̇ सवितुर् यथा भगस्येव भुजिम्̇ हुवे । अग्निम्̇ समुद्रवाससम् ॥
हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यम्̇ सहः । अग्निम्̇ समुद्रवाससम् ॥