तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ४/प्रपाठकः ७

विकिस्रोतः तः
Jump to navigation Jump to search

4.7 प्रपाठक: 7

4.7.1 अनुवाक 1 वसोर्धारा
1 अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आगतम् ॥ वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रावश् च मे श्रुतिश् च मे ज्योतिश् च मे सुवश् च मे प्राणश् च मे ऽपान
2 श्च मे व्यानश् च मे ऽसुश् च मे चित्तं च म आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च म ओजश् च मे सहश् च म आयुश् च मे जरा च म आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थानि च मे परूम्̇षि च मे शरीराणि च मे ॥
 
4.7.2 अनुवाक 2 वसोर्धारा
1 ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश् च मे भामस् च मे ऽमश् च मे ऽम्भश् च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश् च मे सत्यं च मे श्रद्धा च मे जगच् च
2 मे धनं च मे वशश् च मे त्विषिश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे ॥

4.7.3 अनुवाक 3 वसोर्धारा
1 शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भद्रं च मे श्रेयश् च मे वस्यश् च मे यशश् च मे भगश् च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च
2 मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥

4.7.4 अनुवाक 4 वसोर्धारा
1 ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म औद्भिद्यं च मे रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च
2 मे प्रभु च मे बहु च मे भूयश् च मे पूर्णं च मे पूर्णतरं च मे ऽक्षितिश् च मे कूयवाश् च मे ऽन्नं च मे ऽक्षुच् च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे गोधूमाश् च मे मसुराश् च मे प्रियंगवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे ॥

4.7.5 अनुवाक 5 वसोर्धारा
1 अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे ऽयश् च मे सीसं च मे त्रपुश् च मे श्यामं च मे लोहं च मे ऽग्निश् च म आपश् च मे वीरुधश् च म ओषधयश् च मे कृष्टपच्यं च
2 मे ऽकृष्टपच्यं च मे ग्राम्याश् च मे पशव आरण्याश् च यज्ञेन कल्पन्ताम् । वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म एमश् च म इतिश् च मे गतिश् च मे ॥

4.7.6 अनुवाक 6 वसोर्धारा
1 अग्निश् च म इन्द्रश् च मे सोमश् च म इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म इन्द्रश् च मे पूषा च म इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे मित्रश् च म इन्द्रश् च मे वरुणश् च म इन्द्रश् च मे त्वष्टा च
2 म इन्द्रश् च मे धाता च म इन्द्रश् च मे विष्णुश् च म इन्द्रश् च मे । अश्विनौ च म इन्द्रश् च मे मरुतश् च म इन्द्रश् च मे विश्वे च मे देवा इन्द्रश् च मे पृथिवी च म इन्द्रश् च मे । अन्तरिक्षम् च म इन्द्रश् च मे द्यौश् च म इन्द्रश् च मे दिशश् च म इन्द्रश् च मे मूर्धा च म इन्द्रश् च मे प्रजापतिश् च म इन्द्रश् च मे ॥

4.7.7 अनुवाक 7 वसोर्धारा
1 अम्̇शुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाम्̇शुश् च मे ऽन्तर्यामश् च म ऐन्द्रवायवश् च मे मैत्रावरुणश् च म आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च म आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऋतुग्रहाश् च ॥
2 मे ऽतिग्राह्याश् च म ऐन्द्राग्नश् च मे वैश्वदेवश् च मे मरुत्वतीयाश् च मे महेन्द्रश् च म आदित्यश् च मे सावित्रश् च मे सारस्वतश् च मे पौष्णश् च मे पात्नीवतश् च मे हारियोजनश् च मे ॥

4.7.8 अनुवाक 8 वसोर्धारा
1 इध्मश् च मे बर्हिश् च मे वेदिश् च मे धिष्णियाश् च मे स्रुचश् च मे चमसाश् च मे ग्रावाणश् च मे स्वरवश् च म उपरवाश् च मे ऽधिषवणे च मे द्रोणकलशश् च मे वायव्यानि च मे पूतभृच् च म आधवनीयश् च म आग्नीध्रं च मे हविर्धानं च मे गृहाश् च मे सदश् च मे पुरोडाशाश् च मे पचताश् च मे ऽवभृथश् च मे स्वगाकारश् च मे ॥

4.7.9 अनुवाक 9 वसोर्धारा
1 अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम् ऋक् च मे साम च मे स्तोमश् च मे यजुश् च मे दीक्षा च मे तपश् च म ऋतुश् च मे व्रतं च मे ऽहोरात्रयोर् वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥

4.7.10 अनुवाक 10 वसोर्धारा
1 गर्भाश् च मे वत्साश् च मे त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे पष्ठवाच् च मे पष्ठौही च मे । उक्षा च मे वशा च मे । ऋषभश् च
2 मे वेहच् च मे ऽनड्वाञ् च मे धेनुश् च मे । आयुर् यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् । व्यानो यज्ञेन कल्पताम् । चक्षुर् यज्ञेन कल्पताम् । श्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् । वाग् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् । यज्ञो यज्ञेन कल्पताम् ॥

4.7.11 अनुवाक 11 वसोर्धारा
1 एका च मे तिस्रश् च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविम्̇शतिश् च मे त्रयोविम्̇शतिश् च मे पञ्चविम्̇शतिश् च मे सप्तविम्̇शतिश् च मे नवविम्̇शतिश् च म एकत्रिम्̇श्च् च मे त्रयस्त्रिम्̇शच् च ॥
2 मे चतस्रश् च मे ऽष्टौ च मे द्वादश च मे षोडश च मे विम्̇शतिश् च मे चतुर्विम्̇शतिश् च मे ऽष्टाविम्̇शतिश् च मे द्वात्रिम्̇शच् च मे षट्त्रिम्̇शच् च मे चत्वारिम्̇शच् च मे चतुश्चत्वारिम्̇शच् च मे ऽष्टाचत्वारिम्̇शच् च मे वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च ॥

4.7.12 अनुवाक 12 वाजप्रसवीय होमः
1 वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः । वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥ विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वं अस्तु द्रविणं वाजो अस्मे ॥ वाजस्य प्रसवं देवा रथैर् याता हिरण्ययैः । अग्निर् इन्द्रो बृहस्पतिर् मरुतः सोमपीतये ॥ वाजेवाजे ऽवत वाजिनो नो धनेषु
2 विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
वाजः पुरस्ताद् उत मध्यतो नो वाजो देवाम्̇ ऋतुभिः कल्पयाति । वाजस्य हि प्रसवो नंनमीति विश्वा आशा वाजपतिर् भवेयम् ॥ पयः पृथिव्याम् पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाम् । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ सम् मा सृजामि पयसा घृतेन सम् मा सृजाम्य् अप
3 ओषधीभिः । सो ऽहं वाजम्̇ सनेयम् अग्ने ॥ नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥ समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहावस्युर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥

4.7.13 अनुवाक 13 अग्नियोगः
1 अग्निं युनज्मि शवसा घृतेन दिव्यम्̇ सुपर्णं वयसा बृहन्तम् । तेन वयम् पतेम ब्रध्नस्य विष्टपम्̇ सुवो रुहाणा अधि नाक उत्तमे ॥ इमौ ते पक्षाव् अजरौ पतत्रिणो याभ्याम्̇ रक्षाम्̇स्य् अपहम्̇स्य् अग्ने । ताभ्याम् पतेम सुकृताम् उ लोकं यत्रर्षयः प्रथमजा ये पुराणाः ॥ चिद् असि समुद्रयोनिर् इन्दुर् दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युर् महान्त् सधस्थे ध्रुव
2 आ निषत्तः ॥ नमस् ते अस्तु मा मा हिम्̇सीर् विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः । समुद्रे ते हृदयम् अन्तर् आयुर् द्यावापृथिवी भुवनेष्व् अर्पिते ॥ उद्नो दत्तोदधिम् भिन्त्त दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत । दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् । विश्वायुः शर्म सप्रथा नमस् पथे ॥ येनर्षयस् तपसा सत्त्रम् ॥
3 आसतेन्धाना अग्निम्̇ सुवर् आभरन्तः । तस्मिन्न् अहं नि दधे नाके अग्निम् एतं यम् आहुर् मनवः स्तीर्णबर्हिषम् ॥ तम् पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतद् अधस्पदं कृणुते
4 ये पृतन्यवः ॥ अयम् अग्निर् वीरतमो वयोधाः सहस्रियो दीप्यताम् अप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य उप प्र यात दिव्यानि धाम ॥ सम् प्र च्यवध्वम् अनु सम् प्र याताग्ने पथो देवयानान् कृणुध्वम् । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥ येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह देवयानो य
5 उत्तमः ॥ उद् बुध्यस्वाग्ने प्रति जागृह्य् एनम् इष्टापूर्ते सम्̇ सृजेथाम् अयं च । पुनः कृण्वम्̇स् त्वा पितरं युवानम् अन्वाताम्̇सीत् त्वयि तन्तुम् एतम् ॥ अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाथा नो वर्धया रयिम् ॥

4.7.14 अनुवाक 14 विहव्या इष्टकाः
1 ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तनुवम् पुषेम । मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥ मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुर् अग्निः । ममान्तरिक्षम् उरु गोपम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त
2 पूर्वेऽरिष्टाः स्याम तनुवा सुवीराः ॥ मह्यं यजन्तु मम यानि हव्याऽऽकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता मे ॥ देवीः षड्उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥ अग्निर् मन्युम् प्रतिनुदन् पुरस्ता
3 दब्धो गोपाः परि पाहि नस् त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधा वि नेशत् ॥ धाता धातृणाम् भुवनस्य यस् पतिर् देवम्̇ सवितारम् अभिमातिषाहम् । इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥ उरुव्यचा नो महिषः शर्म यम्̇सद् अस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा ॥
4 नो रीरिषो मा परा दाः ॥ ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥ अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥

4.7.15 अनुवाक 15 अश्वमेधीया याज्यानुवाक्याः
1 अग्नेर् मन्वे प्रथमस्य प्रचेतसो यम् पाञ्चजन्यम् बहवः समिन्धते । विश्वस्यां विशि प्रविविशिवाम्̇सम् ईमहे स नो मुञ्चत्व् अम्̇हसः ॥ यस्येदम् प्राणन् निमिषद् यद् एजति यस्य जातं जनमानं च केवलम् । स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अम्̇हसः ॥ इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्न स्तोमा उप माम् उपागुः । यो दाशुषः सुकृतो हवम् उप गन्ता
2 स नो मुञ्चत्व् अम्̇हसः ॥ यः संग्रामं नयति सं वशी युधे यः पुष्टानि सम्̇सृजति त्रयाणि । स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अम्̇हसः ॥ मन्वे वाम् मित्रावरुणा तस्य वित्तम्̇ सत्यौजसा दृम्̇हणा यं नुदेथे । या राजानम्̇ सरथं याथ उग्रा ता नो मुञ्चतम् आगसः ॥ यो वाम्̇ रथ ऋजुरश्मिः सत्यधर्मा मिथुश् चरन्तम् उपयाति दूषयन् । स्तौमि
3 मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥ वायोः सवितुर् विदथानि मन्महे याव् आत्मन्वद् बिभृतो यौ च रक्षतः । यौ विश्वस्य परिभू बभूवतुस् तौ नो मुञ्चतम् आगसः ॥ उप श्रेष्ठा न आशिषो देवयोर् धर्मे अस्थिरन् । स्तौमि वायुम्̇ सवितारं नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥ रथीतमौ रथीनाम् अह्व ऊतये शुभं गमिष्ठौ सुयमेभिर् अश्वैः । ययो
4 र्वां देवौ देवेष्व् अनिशितम् ओजस् तौ नो मुञ्चतम् आगसः ॥ यद् अयातं वहतुम्̇ सूर्यायास् त्रिचक्रेण सम्̇सदम् इच्छमानौ । स्तौमि देवाव् अश्विनौ नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥ मरुताम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥ तिग्मम् आयुधं वीडितम्̇ सहस्वद् दिव्यम्̇ शर्धः
5 पृतनासु जिष्णु । स्तौमि देवान् मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥ देवानाम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्वेनसः ॥ यद् इदम् माभिशोचति पौरुषेयेण दैव्येन । स्तौमि विश्वान् देवान् नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥ अनु नो ऽद्यानुमतिर
6 न्विदनुमते त्वम् । वैश्वानरो न ऊत्या पृष्ठो दिवि ये अप्रथेताम् अमितेभिर् ओजोभिर् ये प्रतिष्ठे अभवतां वसूनाम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अम्̇हसः ॥ उर्वी रोदसी वरिवः कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयातम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अम्̇हसः ॥ यत् ते वयम् पुरुषत्रा यविष्ठाविद्वाम्̇सश् चकृमा कच्चना
7 ऽऽगः । कृधी स्व् अस्माम्̇ अदितेर् अनागा व्य् एनाम्̇सि शिश्रथो विष्वग् अग्ने ॥ यथा ह तद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । एवा त्वम् अस्मत् प्र मुञ्चा व्य् अम्̇हः प्रातार्य् अग्ने प्रतरां न आयुः ॥  


4.7.1 अनुवाक 1
वसोर्धारा

 1
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आगतम् ॥
वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रावश् च मे श्रुतिश् च मे ज्योतिश् च मे सुवश् च मे प्राणश् च मे ऽपान

 2
श्च मे व्यानश् च मे ऽसुश् च मे चित्तं च म आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च म ओजश् च मे सहश् च म आयुश् च मे जरा च म आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थानि च मे परूम्̇षि च मे शरीराणि च मे ॥

4.7.2 अनुवाक 2
वसोर्धारा

 1
ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश् च मे भामस् च मे ऽमश् च मे ऽम्भश् च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश् च मे सत्यं च मे श्रद्धा च मे जगच् च

 2
मे धनं च मे वशश् च मे त्विषिश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे ॥

4.7.3 अनुवाक 3
वसोर्धारा

 1
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भद्रं च मे श्रेयश् च मे वस्यश् च मे यशश् च मे भगश् च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च

 2
मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥

4.7.4 अनुवाक 4
वसोर्धारा

 1
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म औद्भिद्यं च मे रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च

 2
मे प्रभु च मे बहु च मे भूयश् च मे पूर्णं च मे पूर्णतरं च मे ऽक्षितिश् च मे कूयवाश् च मे ऽन्नं च मे ऽक्षुच् च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे गोधूमाश् च मे मसुराश् च मे प्रियंगवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे ॥

4.7.5 अनुवाक 5
वसोर्धारा

 1
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे ऽयश् च मे सीसं च मे त्रपुश् च मे श्यामं च मे लोहं च मे ऽग्निश् च म आपश् च मे वीरुधश् च म ओषधयश् च मे कृष्टपच्यं च

 2
मे ऽकृष्टपच्यं च मे ग्राम्याश् च मे पशव आरण्याश् च यज्ञेन कल्पन्ताम् ।
वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म एमश् च म इतिश् च मे गतिश् च मे ॥

4.7.6 अनुवाक 6
वसोर्धारा

 1
अग्निश् च म इन्द्रश् च मे
सोमश् च म इन्द्रश् च मे
सविता च म इन्द्रश् च मे
सरस्वती च म इन्द्रश् च मे
पूषा च म इन्द्रश् च मे
बृहस्पतिश् च म इन्द्रश् च मे
मित्रश् च म इन्द्रश् च मे
वरुणश् च म इन्द्रश् च मे
त्वष्टा च

 2
म इन्द्रश् च मे
धाता च म इन्द्रश् च मे
विष्णुश् च म इन्द्रश् च मे ।
अश्विनौ च म इन्द्रश् च मे
मरुतश् च म इन्द्रश् च मे
विश्वे च मे देवा इन्द्रश् च मे
पृथिवी च म इन्द्रश् च मे ।
अन्तरिक्षम् च म इन्द्रश् च मे
द्यौश् च म इन्द्रश् च मे
दिशश् च म इन्द्रश् च मे
मूर्धा च म इन्द्रश् च मे
प्रजापतिश् च म इन्द्रश् च मे ॥

4.7.7 अनुवाक 7
वसोर्धारा

 1
अम्̇शुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाम्̇शुश् च मे ऽन्तर्यामश् च म ऐन्द्रवायवश् च मे मैत्रावरुणश् च म आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च म आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऋतुग्रहाश् च ॥

 2
मे ऽतिग्राह्याश् च म ऐन्द्राग्नश् च मे वैश्वदेवश् च मे मरुत्वतीयाश् च मे महेन्द्रश् च म आदित्यश् च मे सावित्रश् च मे सारस्वतश् च मे पौष्णश् च मे पात्नीवतश् च मे हारियोजनश् च मे ॥

4.7.8 अनुवाक 8
वसोर्धारा

 1
इध्मश् च मे बर्हिश् च मे वेदिश् च मे धिष्णियाश् च मे स्रुचश् च मे चमसाश् च मे ग्रावाणश् च मे स्वरवश् च म उपरवाश् च मे ऽधिषवणे च मे द्रोणकलशश् च मे वायव्यानि च मे पूतभृच् च म आधवनीयश् च म आग्नीध्रं च मे हविर्धानं च मे गृहाश् च मे सदश् च मे पुरोडाशाश् च मे पचताश् च मे ऽवभृथश् च मे स्वगाकारश् च मे ॥

4.7.9 अनुवाक 9
वसोर्धारा

 1
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम्
ऋक् च मे साम च मे स्तोमश् च मे यजुश् च मे दीक्षा च मे तपश् च म ऋतुश् च मे व्रतं च मे ऽहोरात्रयोर् वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥

4.7.10 अनुवाक 10
वसोर्धारा

 1
गर्भाश् च मे वत्साश् च मे
त्र्यविश् च मे त्र्यवी च मे
दित्यवाट् च मे दित्यौही च मे
पञ्चाविश् च मे पञ्चावी च मे
त्रिवत्सश् च मे त्रिवत्सा च मे
तुर्यवाट् च मे तुर्यौही च मे
पष्ठवाच् च मे पष्ठौही च मे ।
उक्षा च मे वशा च मे ।
ऋषभश् च

 2
मे वेहच् च मे ऽनड्वाञ् च मे धेनुश् च मे ।
आयुर् यज्ञेन कल्पताम्
प्राणो यज्ञेन कल्पताम्
अपानो यज्ञेन कल्पताम् ।
व्यानो यज्ञेन कल्पताम् ।
चक्षुर् यज्ञेन कल्पताम् ।
श्रोत्रं यज्ञेन कल्पताम्
मनो यज्ञेन कल्पताम् ।
वाग् यज्ञेन कल्पताम्
आत्मा यज्ञेन कल्पताम् ।
यज्ञो यज्ञेन कल्पताम् ॥

4.7.11 अनुवाक 11
वसोर्धारा

 1
एका च मे तिस्रश् च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविम्̇शतिश् च मे त्रयोविम्̇शतिश् च मे पञ्चविम्̇शतिश् च मे सप्तविम्̇शतिश् च मे नवविम्̇शतिश् च म एकत्रिम्̇श्च् च मे त्रयस्त्रिम्̇शच् च ॥

 2
मे
चतस्रश् च मे ऽष्टौ च मे द्वादश च मे षोडश च मे विम्̇शतिश् च मे चतुर्विम्̇शतिश् च मे ऽष्टाविम्̇शतिश् च मे द्वात्रिम्̇शच् च मे षट्त्रिम्̇शच् च मे चत्वारिम्̇शच् च मे चतुश्चत्वारिम्̇शच् च मे ऽष्टाचत्वारिम्̇शच् च मे
वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च ॥

4.7.12 अनुवाक 12
वाजप्रसवीय होमः

 1
वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः । वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वं अस्तु द्रविणं वाजो अस्मे ॥
वाजस्य प्रसवं देवा रथैर् याता हिरण्ययैः । अग्निर् इन्द्रो बृहस्पतिर् मरुतः सोमपीतये ॥
वाजेवाजे ऽवत वाजिनो नो धनेषु

 2
विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
वाजः पुरस्ताद् उत मध्यतो नो वाजो देवाम्̇ ऋतुभिः कल्पयाति । वाजस्य हि प्रसवो नंनमीति विश्वा आशा वाजपतिर् भवेयम् ॥
पयः पृथिव्याम् पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाम् । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
सम् मा सृजामि पयसा घृतेन सम् मा सृजाम्य् अप

 3
ओषधीभिः । सो ऽहं वाजम्̇ सनेयम् अग्ने ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥
समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहावस्युर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥

4.7.13 अनुवाक 13
अग्नियोगः

 1
अग्निं युनज्मि शवसा घृतेन दिव्यम्̇ सुपर्णं वयसा बृहन्तम् । तेन वयम् पतेम ब्रध्नस्य विष्टपम्̇ सुवो रुहाणा अधि नाक उत्तमे ॥
इमौ ते पक्षाव् अजरौ पतत्रिणो याभ्याम्̇ रक्षाम्̇स्य् अपहम्̇स्य् अग्ने । ताभ्याम् पतेम सुकृताम् उ लोकं यत्रर्षयः प्रथमजा ये पुराणाः ॥
चिद् असि समुद्रयोनिर् इन्दुर् दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युर् महान्त् सधस्थे ध्रुव

 2
आ निषत्तः ॥
नमस् ते अस्तु मा मा हिम्̇सीर् विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः । समुद्रे ते हृदयम् अन्तर् आयुर् द्यावापृथिवी भुवनेष्व् अर्पिते ॥
उद्नो दत्तोदधिम् भिन्त्त दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत । दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् । विश्वायुः शर्म सप्रथा नमस् पथे ॥
येनर्षयस् तपसा सत्त्रम् ॥

 3
आसतेन्धाना अग्निम्̇ सुवर् आभरन्तः । तस्मिन्न् अहं नि दधे नाके अग्निम् एतं यम् आहुर् मनवः स्तीर्णबर्हिषम् ॥
तम् पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतद् अधस्पदं कृणुते

 4
ये पृतन्यवः ॥
अयम् अग्निर् वीरतमो वयोधाः सहस्रियो दीप्यताम् अप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य उप प्र यात दिव्यानि धाम ॥
सम् प्र च्यवध्वम् अनु सम् प्र याताग्ने पथो देवयानान् कृणुध्वम् । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥
येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह देवयानो य

 5
उत्तमः ॥
उद् बुध्यस्वाग्ने प्रति जागृह्य् एनम् इष्टापूर्ते सम्̇ सृजेथाम् अयं च । पुनः कृण्वम्̇स् त्वा पितरं युवानम् अन्वाताम्̇सीत् त्वयि तन्तुम् एतम् ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाथा नो वर्धया रयिम् ॥

4.7.14 अनुवाक 14
विहव्या इष्टकाः

 1
ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तनुवम् पुषेम । मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥
मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुर् अग्निः । ममान्तरिक्षम् उरु गोपम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥
मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त

 2
पूर्वेऽरिष्टाः स्याम तनुवा सुवीराः ॥
मह्यं यजन्तु मम यानि हव्याऽऽकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता मे ॥
देवीः षड्उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥
अग्निर् मन्युम् प्रतिनुदन् पुरस्ता

 3
दब्धो गोपाः परि पाहि नस् त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधा वि नेशत् ॥
धाता धातृणाम् भुवनस्य यस् पतिर् देवम्̇ सवितारम् अभिमातिषाहम् । इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥
उरुव्यचा नो महिषः शर्म यम्̇सद् अस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा ॥

 4
नो रीरिषो मा परा दाः ॥
ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥
अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥

4.7.15 अनुवाक 15
अश्वमेधीया याज्यानुवाक्याः

 1
अग्नेर् मन्वे प्रथमस्य प्रचेतसो यम् पाञ्चजन्यम् बहवः समिन्धते । विश्वस्यां विशि प्रविविशिवाम्̇सम् ईमहे स नो मुञ्चत्व् अम्̇हसः ॥
यस्येदम् प्राणन् निमिषद् यद् एजति यस्य जातं जनमानं च केवलम् । स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अम्̇हसः ॥
इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्न स्तोमा उप माम् उपागुः । यो दाशुषः सुकृतो हवम् उप गन्ता

 2
स नो मुञ्चत्व् अम्̇हसः ॥
यः संग्रामं नयति सं वशी युधे यः पुष्टानि सम्̇सृजति त्रयाणि । स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अम्̇हसः ॥
मन्वे वाम् मित्रावरुणा तस्य वित्तम्̇ सत्यौजसा दृम्̇हणा यं नुदेथे । या राजानम्̇ सरथं याथ उग्रा ता नो मुञ्चतम् आगसः ॥
यो वाम्̇ रथ ऋजुरश्मिः सत्यधर्मा मिथुश् चरन्तम् उपयाति दूषयन् । स्तौमि

 3
मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥
वायोः सवितुर् विदथानि मन्महे याव् आत्मन्वद् बिभृतो यौ च रक्षतः । यौ विश्वस्य परिभू बभूवतुस् तौ नो मुञ्चतम् आगसः ॥
उप श्रेष्ठा न आशिषो देवयोर् धर्मे अस्थिरन् । स्तौमि वायुम्̇ सवितारं नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥
रथीतमौ रथीनाम् अह्व ऊतये शुभं गमिष्ठौ सुयमेभिर् अश्वैः । ययो

 4
र्वां देवौ देवेष्व् अनिशितम् ओजस् तौ नो मुञ्चतम् आगसः ॥
यद् अयातं वहतुम्̇ सूर्यायास् त्रिचक्रेण सम्̇सदम् इच्छमानौ । स्तौमि देवाव् अश्विनौ नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥
मरुताम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥
तिग्मम् आयुधं वीडितम्̇ सहस्वद् दिव्यम्̇ शर्धः

 5
पृतनासु जिष्णु । स्तौमि देवान् मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
देवानाम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्वेनसः ॥
यद् इदम् माभिशोचति पौरुषेयेण दैव्येन । स्तौमि विश्वान् देवान् नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
अनु नो ऽद्यानुमतिर

 6
न्विदनुमते त्वम् ।
वैश्वानरो न ऊत्या
पृष्ठो दिवि
ये अप्रथेताम् अमितेभिर् ओजोभिर् ये प्रतिष्ठे अभवतां वसूनाम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अम्̇हसः ॥
उर्वी रोदसी वरिवः कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयातम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अम्̇हसः ॥
यत् ते वयम् पुरुषत्रा यविष्ठाविद्वाम्̇सश् चकृमा कच्चना

 7
ऽऽगः । कृधी स्व् अस्माम्̇ अदितेर् अनागा व्य् एनाम्̇सि शिश्रथो विष्वग् अग्ने ॥
यथा ह तद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । एवा त्वम् अस्मत् प्र मुञ्चा व्य् अम्̇हः प्रातार्य् अग्ने प्रतरां न आयुः ॥