कुमारसम्भवम् - मल्लिनाथः/षष्ठः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← पञ्चमः सर्गः कुमारसम्भवम् - मल्लिनाथः
षष्ठः सर्गः
कालिदासः
सप्तमः सर्गः →
षष्ठः सर्गः

अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् ।

दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ।। ६.१ ।।

     अन्वयः- अथ गौरी विश्वात्मने `भूभृतां नाथः मे दाता प्रमाणीक्रियताम्' इति मिथः सखीं सन्दिदेश ।
     मल्लिo- अथेति । अथ देवदेवानुग्रहानन्तरं गौरी पार्वती विश्वमात्मा स्वरुपं यस्येति । विश्वस्यात्मेति वा । विश्वात्मने शिवाय मिथो रहसि । `मिथोऽन्योऽन्थं रहस्यपि' इत्यमरः । सखीं संदिदेशातिससर्ज । क्रियामात्रयोगेऽपि संप्रदानत्वाच्चतुर्थीं । किमिति । भूभृतां नाथो हिमवान्मे मम दाता सन् । प्रमाणीक्रियतामिति । दातृत्वेन प्रमाणीक्रियतामित्यर्थः । प्रार्थनायां लोट् । पित्रा दीयमानायाः परिग्रहो मम महाननुग्रह इति भावः ।। ६.१ ।।


तया व्याहृतसंदेशा सा बभौ निभृता प्रिये ।
चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी ।। ६.२ ।।

     अन्वयः- तया व्याहृतसन्देशा प्रिये निभृता सा मधौ निभृता परभृतोन्मुखी चूतयष्टिः इव अभ्याशे बभौ ।
     मल्लिo-- तयेति । तया सख्या । सखीमुखेनेत्यर्थः । व्याहृतसंदेशोक्तवाचिका प्रिये हरविषये निभृता निश्चला । परमासक्तेत्यर्थः । सा गौरी । मधौ वसन्ते निभृता स्थिरया परभृतया कोकिलयोन्मुखी मुखरा परभृतोन्मुखी । मुखशब्देनाभिभाषणव्यापारो लक्ष्यते । तथा च परभृतामुखेन व्याहरन्तीत्यर्थः । परभृतेति क्रियाशब्दविवक्षायाम् `जातेरस्त्री-' ति ङीप्प्रत्ययो नभवति । तयेत्युपमेयस्य व्यस्तत्वादुपमानवाचिपरभृताशब्दस्य समासः सेढव्यः । अथवा भृद्भरणम् । संपदादित्वात्क्विप् । परैर्भृद्यस्यास्तया परभृतेति व्यासेन व्याख्येयम् । पदमञ्जरीकारस्तु परैर्भ्रियत इति कर्मणि क्विपमाह । चूतयष्टिश्चूतशाखेवाभ्याशेऽन्तिके बभौ । `सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ।।' इत्यमरः ।। ६.२ ।।


स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् ।
ऋषीञ्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः ।। ६.३ ।।

     अन्वयः- स स्मरशासनः `तथा' इति प्रतिज्ञाय उमां कथमपि विसृज्य ज्योतिर्मयान् सप्त ऋषीन सस्मार ।
     मल्लिo- स इति । स प्रकृतः । शास्तीति शासनः बहुलग्रहणात्कर्तरि ल्युट्' स्मरस्य शासन ईश्वरस्तथेति प्रतिज्ञाय । तथा करिष्यामीत्युक्त्वेत्यर्थः । उमां कथमपि कृच्छ्रेण विसृज्य । तत्र गाढानुरागत्वादिति भावः । ज्योतिर्मयांस्तेजोरूपान्सप्तर्षीनङ्गिरसःप्रभृतीन्सस्मार स्मृतवान् ।। ६.३ ।।


ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः ।
सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ।। ६.४ ।।

     अन्वयः- ते तपोधनाः प्रभामण्डलैः व्योम द्योतयन्तः साऽरुन्धतीकः सन्तः सपदि प्रभोः पुरः प्रादुरासन् ।
     मल्लिo- त इति । ते तप एव धनं येषां ते तपोधनाः सप्तर्षयः प्रभामण्डलैस्तेजःपुञ्जैर्व्योमाकाशं द्योतयन्तः प्रकाशयन्तः । अरुन्धत्या सह वर्तन्त इति सारुन्धतीकाः सन्तः । `नद्युतश्च' इति कप् । सपदि प्रभौरीश्वरस्य पुरः पुरोभागे प्रादुरासन्प्रत्यक्षा बभूवुः ।। ६.४ ।।


इतः परं षङ्भिः श्लेकैस्तानेव मुनीन्वर्णयति--

आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु ।
व्योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु ।। ६.५ ।।

     अन्वयः- तीरमन्दारकुसुमोत्किरवीचिषु दिङ्नागमदगन्धिषु व्योमगङ्गाप्रवाहेषु आप्लुताः (ते प्रादुरासन्) ।
     मल्लिo- आप्लुता इति । उत्किरन्ति विक्षिपन्तीत्युत्किराः । `इगुपधे-' त्यादिना कप्रत्ययः । तीरे ये मन्दाराः कल्पवृक्षास्तेषां कुसुमानामुत्किरा वीचयस्तरङ्गा येषां तेषु दिङ्नागानां दिग्गजानां मदगन्धो येष्विति तथोक्तेषु व्योमगङ्गाप्रवाहेष्वाकाशगङ्गास्रोतःस्वाप्लुताः स्नाताः ।


मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः ।
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ।। ६.६ ।।

     अन्वयः- मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कला रत्नाऽक्षसूत्राः प्रव्रज्याम् आश्रिताः कल्पवृक्षा इव (ते प्रादुरासन्) ।
     मल्लिo- मुक्तेति । मुक्तानां मौक्तिकानां यज्ञोपवीतानि मुक्तामयानीत्यर्थः । बिभ्रतो दधानाः । हेमगयानि वल्कलानि येषां ते हैमवल्कलाः । रत्नमयान्यक्षसूत्राणि येषां ते रत्नाक्षसूत्राः । प्रव्रज्यां प्रव्रजनम् । `व्रजयजोर्भावे क्यप् । आश्रिताः कल्पवृक्षा इव स्थिताः । अत्र चतुर्थाश्रमवाचिना प्रव्रज्याशब्देन वानरप्रस्थाश्रमो लक्ष्यते । `जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः' (६.३४) । इति सपत्नीकत्वाभिधानात् सुतविन्यस्तपत्नीकस्तया वानुगतोऽपि सन्' । इति वानप्रस्थस्योभयथा स्मरणात् ।। ६.६ ।।


अधःप्रस्थापिताश्वेन समावर्जितकेतुना ।
सहस्ररश्मिना साक्षात्सप्रणाममुदीक्षिताः ।। ६.७ ।।

     अन्वयः- अधःप्रस्थापिताऽश्वेन समावर्जितकेतुना सहस्त्ररश्मिना साक्षात् सप्रणामम् उदीक्षिताः (ते प्रादुरासन्) ।
     मल्लिo- अध इति । अधः प्रस्थापिताश्वेन । सूर्यमण्डलोपरिवर्तित्वात्सप्तर्षिमण्डलस्येति भावः । समावर्जितकेतुना तन्मण्डलाघातशङ्कया नमितध्वजेन सहस्त्ररश्मिना सूर्येण साक्षात्स्वयमेव सप्रणाममुदीक्षिताः । गमनाभ्यनुज्ञादानपर्यन्तमित्यर्थः । भगवतः सूर्यस्याप्युपास्या इति भावः ।। ६.७ ।।


आसक्तबाहुलतया सार्धमुद्धृतया भुवा ।
महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ।। ६.८ ।।

     अन्वयः- प्रलयापदि आसक्तबाहुलतया उद्धृतया भुवा सार्धं महावराहदंष्ट्रायां विश्रान्ताः (ते प्रादुरासन्) ।
     मल्लिo- आसक्तेति । पुनः किंविधाः । प्रलयापदि कल्पान्तसंकट आसक्तबाहुलतया । दंष्ट्रायामिति शेषः । उद्धृतया । दंष्ट्रयेति शेषः । भुवा सार्धं धरण्या सह महावराहदंष्ट्रायां विश्रान्ताः । महाप्रलयेऽप्यविनाशिन इत्यर्थः ।। ६.८ ।।


सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् ।
पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ।। ६.९ ।।

     अन्वयः- विश्वयोनेः अनन्तरं सर्गशेषप्रणयनात् पुराविद्भिः `पुरातना धातार' इति कीर्तिताः । (ते प्रादुरासन्) ।
     मल्लिo- सर्गेति । विश्वयोनेर्ब्रह्मणोऽनन्तरं सर्गशेषस्य प्रणयनात् । ब्रह्मसृष्ठावशिष्टसृष्टेः करणाद्धेतोरित्यर्थः । पुराविद्भिः पुराणवेदिभिर्व्यासादिभिः पुरातना धातार इति कीर्तिताः । विश्वयोनेरिति सम्बन्धमात्रे षष्ठी । तस्यानन्तरमिति भाष्ये दर्शनात् । अपादानत्वविवक्षायां तु पञ्चमी । अयमदः शब्दो यथाशब्दावृत्तादनन्तरस्येति शाबरभाष्ये दर्शनात् । तथा `अथातो धर्मजिज्ञासा वेदाध्यायादनन्तरम्' इत्याचार्याः । कविश्च `पुराणपत्त्रापगमादनन्तरम्' इति । एवमन्यत्रापि द्रष्टव्यम् ।। ६.९ ।।


प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् ।
तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ।। ६.१० ।।

     अन्वयः- प्राक्तनानां विशुद्धानां परिपाकम् उपेयुषां तपसां फलानि उपभुञ्जाना अपि तपस्विनः (ते प्रादुरासन्) ।
     मल्लिo- प्राक्तनानामिति । प्राक्तनानां जन्मान्तरभवानां विशुद्धानां निर्मलानां परिपाकं फलदानोन्मुखत्वमुपेयुषां गतानां तपसां फलान्युपभुञ्जाना अपि तपस्विनस्तपोनिष्ठाः । प्रारब्धभोगिनो निःस्पृहाश्चेति भावः । कुलकम् ।। ६.१० ।।


तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।
साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती ।। ६.११ ।।

     अन्वयः- तेषां मध्यगता साध्वी पत्युः पादाऽर्पितेक्षणा अरुन्धती साक्षात् तपःसिद्धिः इव बहु बभासे ।
     मल्लिo- तेषामिति । तेषामृषीणां मध्यगता साध्वी पतिव्रता । अत एव पत्युर्वसिष्ठस्य पादयोरर्पितेक्षणा निविष्टदृष्टिररुन्धती साक्षात्प्रत्यक्षा तपःसिद्धिरिव तेषामेवति शेषः । तेषां मध्यगतेति लिङ्गवचनादिसाम्यादियमुपमा । बहु भूयिष्ठं बभासे भाति स्म ।। ६.११ ।।


तामगौरवभेदेन मुनींश्चापश्यदीश्वरः ।
स्त्रीपुमानत्यनास्थैषा वृत्तं हि महितं सताम् ।। ६.१२ ।।

     अन्वयः- ईश्वरः तां मुनींश्च अगौरवभेदेन अपश्यत् । हि स्त्री पुमान् इति एषा अनास्था, (किन्तु) सतां वृत्तं महितम् ।
     मल्लिo- तामिति । ईश्वरो भगवांस्तामरुन्धतीं मुनींश्चागौरवभेदेन समानप्रतिपत्त्यापश्यद्दृष्टवान् । न चायमविवेक इत्याह-हि यस्मात्स्त्री पुमांश्चेत्येषानास्था स्त्रीपुंसभेदो न विवक्षितः । किंतु सतां साधूनां वृत्तं चरित्रमेव महितं पूज्यम् । `गुणाः पुजास्थानं गुणिषु न च लिङ्गं न च वयः' इति भावः ।। ६.१२ ।।


तद्दर्शनादभूच्छंभोर्भूयान्दारार्थमादरः ।
क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् ।। ६.१३ ।।

     अन्वयः- तद्दर्शनात् शम्भोः दाराऽर्थमादरः भूयान् अभूत्, (यतः) धर्म्याणां क्रियाणां सत्पत्न्यो मूलकारणम् ।
     मल्लिo- तदिति । तद्दर्शनादरुन्धतीदर्शनाच्छंभोर्दारार्यं परिग्रहार्थमादरो भूयान्बहुतरोऽभूत् । ननु दाराः कुत्रोपयुज्यन्त इत्यत्राह--धर्म्याणां धर्मादनपेतानाम् । `धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः । क्रियामाणानामिज्यादीनां सत्यः पतिव्रताः पत्न्यः सत्पत्न्यः । `पत्युर्नो यज्ञसंयोगे' इति ङीप् । नकारश्च । मूलकारणं खलु ।। ६.१३ ।।


धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।
पूर्वापराधभीतस्य कामस्योच्छ्वसितं मनः ।। ६.१४ ।।

     अन्वयः- धर्मेण अपि शर्वे पार्वतीं प्रति पदं कारिते सति पूर्वाऽपराधभीतस्य कामस्य मनः उच्छ्वसितम् ।
     मल्लिo- धर्मेणेति । धर्मेण दारसंजिवृक्षालक्षणेनापि कर्त्रा । शर्वे ईश्वरे पार्वतीं प्रति पदं कारिते सति । `हृक्रोरन्यतरस्याम्' इति शर्वस्याणिकर्तुः कर्मत्वम् । पूर्वापराधभीतस्य कामस्य मन उच्छ्वसितम् । पुनरुज्जीवनावकाशो भवतीति सप्रत्याशमभूदित्यर्थः ।। ६.१४ ।।


अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।
इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ।। ६.१५ ।।

     अन्वयः-- अथ अनूचानाः प्रीतिकण्टकितत्वचः ते सर्वे मुनयो जगद्गुरुं मानयित्वा इदम् ऊचुः ।
     मल्लिo- अथेति । अथानूचानाः । साङ्गवेदप्रवक्तारः । `अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः' इत्यमरः । `उपेयिवाननाश्वाननूचानश्च' इति निपातः । प्रीत्या कण्टकिताः पुलकितास्त्वचो येषां ते तथोक्ताः । ते सर्वे मुनयो जगद्गुरुं हरं मानयित्वा पूजयित्वेदं वक्ष्यमाणमूचुः ।। ६.१५ ।।


यद् ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् ।
यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः ।। ६.१६ ।।

     अन्वयः- यद् ब्रह्म सम्यक् आम्नातं, यत् अग्नौ विधिना हुतं, यत् तपः तप्तं, तस्य फलम् अद्य नो विपक्वम् ।
     मल्लिo- यदिति । ब्रह्म वेदः । `वेदस्तत्त्वं तपो ब्रह्म' इत्यमरः सम्यङ् नियमपूर्वकमाम्नातमधीतमिति यत् । अग्नौ विधिना हुतमिति यत् । तपश्चान्द्रायणादिकं तप्तमिति च यत्तस्याध्ययनेज्यातपोरूपस्य आश्रमत्रयसाध्यस्य कृत्स्नस्यापि कर्मण इत्यर्थः । समुदायाभिप्रायकमेकवचनमन्यथावृत्त्यान्वयप्रसङ्गात् । न च नपुंसकैकवद्भावोऽनपुंसकेनेति नियमात् । फलं कार्यमद्य नोऽस्माकं विपक्वम् । सुनिष्पन्नमित्यर्थः । कर्मणि क्तः `पचो वः' इति निष्ठातस्य वत्वम् ।। ६.१६ ।।


तदेव फलमाह-

यदध्यक्षेण जगतां वयमारोपितास्त्वया ।
मनोरथस्याविषयं मनोविषयमात्मनः ।। ६.१७ ।।

     अन्वयः- यत् जगताम् अध्यक्षेण त्वया वयं मनोरथस्य अविषयम् आत्मनो मनोविषयम् आरोपिताः ।
     मल्लिo- यदिति । यद्यस्मात्कारणाज्जगतामध्यक्षेणाधिपेन त्वया वयं मनोरथस्याभिलाषस्याविषयमगोचरमात्मनः स्वस्य मनोविषयं मनोदेशमारोपिताः प्रापिताः । तस्माद्विपक्वं फलमिति पूर्वेण संबन्धः । `सकलजगदन्वेष्टव्यस्य भगवतोऽपि वयमन्वेष्या भवाम; इति परमोत्कृष्टा वयमिति भावः ।। ६.१७ ।।


तदेवोपपादयति-

यस्य चेतसि वर्तेथाः, स तावत्कृतिनां वरः ।
किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तवे ।। ६.१८ ।।

     अन्वयः--(हे भगवन् !) यस्य चेतसि वर्तेथाः, स तावत् कृतिनां वरः । ब्रह्मयोनेः तव चेतसि यो वर्तते स कृतिनां वर इति किमु ?
     मल्लिo- यस्येति । यस्य जनस्य चेतसि वर्तेथाः, येन स्मर्यस इत्यर्थः । स तावत्स एव कृतिनां कृतकृत्यानां वरः श्रेष्ठः । ब्रह्मणो वेधसो वा योनेः कारणस्य । यद्वा वेदप्रमाणकस्य । तव चेतसि यो वर्तते । त्वया स्मर्यत इत्यर्थः । किं पुनः । स कृतिनां वर इति किमु वक्तव्यमित्यर्थः ।। ६.१८ ।।


सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् ।
अद्य तूच्चैस्तरं ताभ्यां स्मरणानुग्रहात्तव ।। ६.१९ ।।

     अन्वयः- (हे भगवन् !) अर्कात् सोमाच्च परं पदम् अध्यास्महे सत्यम् । अद्य तु तव स्मरणाऽनुग्रहात् ताभ्याम् उच्चैस्तरं पदम् अध्यास्महे ।
     मल्लिo- सत्यमिति । अर्कात्सूर्याच्च सोमाच्चन्द्राच्च परमुच्चैः पदं स्थानमध्यास्महे तिष्ठामः । वयमिति शेषः । सत्यम् । `अधिशीङ्स्थासां कर्म' इति कर्मत्वम् । अद्य तु तव कर्तुः । स्मरणमेवानुग्रहः प्रसादस्तस्माद्धेतोः । ताभ्यामर्केन्दुभ्यामुच्चैस्तरमत्युच्चं पदम् । अध्यास्महे इति सम्बन्धः । उच्चैस्तरमिति द्रव्यप्रकर्षत्वान्नामुप्रत्ययः ।। ६.१९ ।।


त्वत्संभावितमात्मानं बहु मन्यामहे वयम् ।
प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ।। ६.२० ।।

     अन्वयः-(हे भगवन् !) वयं त्वत्संभावितम् आत्मानं बहु मन्यामहे । उत्तमादरः स्वगुणेषु स्वगुणेषु प्रायः प्रत्ययम् आधत्ते ।
     मल्लिo- त्वदिति । वयं त्वया सम्भावितं सत्कृतं त्वत्संभावितमात्मानमात्मस्वरुपं बह्वधिकं यथा तथा मन्यामहे । तथाहि । उत्तमादरः सत्पुरुषकर्तृकः सत्कारः स्वगुणेषु विषये प्रायेण भूम्ना प्रत्ययं विश्वासमाधत्ते जनयति । सर्वस्यापि महाजनपरिग्रह एव पूज्यताहेतुरित्यर्थः ।। ६.२० ।।


या नः प्रीतिर्विरूपाक्ष ! त्वदनुध्यानसंभवा ।
सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ।। ६.२१ ।।

     अन्वयः- हे विरूपाक्ष ! त्वदनुज्ञानसंभवा नः या प्रीतिः, सा तुभ्यं किम् आवेद्यते ? (यतः) देहिनाम् अन्तरात्मा असि ।
     मल्लिo- येति । हे विरूपाक्ष ! त्वदनुध्यानसम्भवा त्वत्कर्तृकस्मरणजन्या नोऽस्माकं या प्रीतिः सा प्रीतिस्तुभ्यं किमावेद्यते किमर्थ निबेद्यते । तथाहि । देहिनां प्राणिनामन्तरात्मान्तर्याम्यसि । सर्वसाक्षिणा त्वयास्मत्प्रीतिरनावेदितापि ज्ञायत एव यतस्ततो न बुद्धबोधनं सम्भवतीति भावः ।। ६.२१ ।।


साक्षाद्दृष्टोसि न पुनर्विद्मस्त्वां वयमञ्जसा ।
प्रसीद कथयात्मानं, न धियां पथि वर्तसे ।। ६.२२ ।।

     अन्वयः-(हे भगवन् !) साक्षात् दृष्टः असि, अञ्जसा पुनः त्वां वयं न विद्मः, (अतः) प्रसीद, आत्मानं कथय । (यतः) धियां पथि न वर्तसे ।
     मल्लिo- साक्षादिति । हे देव ! साक्षात्प्रत्यक्षेण दृष्टोऽसि । अञ्जसा पुनस्तत्त्वतस्तु त्वां वयं न विद्मः । दृश्यमानस्य रूपस्यातात्विकत्वादिति भावः । अतः प्रसीदानुगृहाण । आत्मानं निजस्वरुपं कथय । न चाकथितं तत्सुबोधमित्याह-धियां बुद्धीनां पथि न वर्तसे, अतस्त्वयैव त्वद्रूपं कथनीयमीत्यर्थः ।। ६.२२।।


तात्त्विकं रुपं तावदास्तां न दृश्यमानमपि रूपं तत्त्वतो रुपयितुं शक्यमित्याह-

किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् ।
अथ विश्वस्य संहर्ता भागाः कतम एष ते ।। ६.२३ ।।

     अन्वयः- (हे भगवन् !) एष ते भागः किम् ? येन व्यक्तं सृजसि सः । उत येन बिभर्षि सः । अथ यो विश्वस्य संहर्ता सः, कतमो ।
     मल्लिo- किमिति । हे देव ! एष दृश्यमानस्ते भागो मूर्तिः किम् । येन भागेन व्यक्तं प्रपञ्चं सृजसि सः । यत्तदोर्नित्यसंबन्धात्सर्वत्र तच्छब्दोऽध्याहार्यः । उत येन भागेन तद्व्यक्तं बिभर्षि पालयसि स वा । अथ यो भागस्तस्य विश्वस्य संहर्ता स वा । किमादयः संदेहे । कतमः । ब्रह्मविष्णुमहेश्वरेष्वयं कतमो भागस्तदुच्यतामित्यर्थः ।। ६.२३ ।।


ननु हर इत्येवं निश्चयात्कथमयं संशयस्तत्राह--

अथवा सुमहत्येषा प्रार्थना देव ! तिष्ठतु ।
चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ।। ६.२४ ।।

     अन्वयः-- अथवा हे देव ! सुमहती एषा प्रार्थना तिष्ठतु । चिन्तितोपस्थितान् नः तावत् शाधि । किं करवाम ?
     मल्लिo- अथवेति । अथवा हे देव ! सुमहती । गुह्यतमत्वादतिदुर्लभेत्यर्थः । एषा प्रार्थना निजरुपनिरुपणप्रार्थना, तिष्ठतु । किंतु चिन्तितेन चिन्तिता वोपस्थिताश्चिन्तितोपस्थितास्तान्नोऽस्मांस्तावच्छाध्याज्ञापय किं करवाम ? प्रार्थनायां लोट् । अलमप्रस्तुतेन, प्रस्तुते तावन्नियुङ्क्ष्वेत्यर्थः ।। ६.२४ ।।


अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः ।
उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ।। ६.२५ ।।

     अन्वयः- अथ परमेश्वरो मौलिगतस्य इन्दोः तन्वीं प्रभां विशदैः दशानांऽशुभिः उपचिन्वन् प्रत्याह ।
     मल्लिo- अथेति । अथ परमेश्वरो मौलिगतस्येन्दोस्तन्वीमल्पाम् । कलामात्रत्वादिति भावः । प्रभां कान्तिं विशदैः शुभ्रैर्दशनांशुभिरुपचिन्वन्वर्धयन्प्रत्याह । प्रत्युवाचेत्यर्थः ।। ६.२५ ।।


विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः ।
ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ।। ६.२६ ।।

     अन्वयः- (हे मुनयः !) काश्चित् मे प्रवृत्तयः स्वार्था न, वो विदितं । अष्टाभिः मूर्तिभिः इत्थंभूतः सूचितः अस्मि ।
     मल्लिo- विदितमिति । हे मुनयः ! काश्चिदपि मे प्रवृत्तयो व्यापाराः स्वार्था न भवन्ति यथा तथा वो युष्माकं विदितम् । वाक्यार्थः कर्म । बुद्धर्थत्वाद्वर्तमाने क्तः, तद्योगात्षष्ठी । प्रवृत्तिपारार्थ्ये प्रमाणमाह-अष्टाभिर्मूर्तिभिरित्थंभूतं इमं प्रकारं परार्थप्रवृत्तिरुपं प्राप्तः । `भू प्राप्तो' इति धातोः कर्तरि क्तः । सूचितो ज्ञापितोऽस्मि । मत्स्वमूर्तिचेष्टया स्वपारार्थ्यमनुमेयमित्यर्थः ।


सोऽहं तृष्णातुरैर्वृर्ष्टिं, विद्युत्वानिव चातकैः ।
अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ।। ६.२७ ।।

     अन्वयः- सः अहं तृष्णाऽऽतुरैः चातकैः वृष्टिं विद्युत्वान् इव, अरिविप्रकृतैः देवैः प्रसूतिं प्रति याचितः ।
     मल्लिo- सोऽहमिति । स परार्थवृत्तिरहं तृष्णातुरैश्चातकैर्वृष्टिं विद्युत्वान्मेघ इवारिविप्रकृतैः शत्रुपीडितैर्देवैः प्रसूतिं पुत्रोत्पादनं प्रति याचितः । याचतेर्दुहादित्वादप्रधाने कर्मणि क्तः ।। ६.२७ ।।


अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ।। ६.२८ ।।

     अन्वयः- अतः (अहम्) आत्मजन्मने पार्वतीं, यजमानः हविर्भोक्तुः उत्पत्तये अरणिम् इव आहर्तुम् इच्छामि ।
     मल्लिo- अत इति । अतः सुरप्रार्थितत्वाद्धेतोरात्मने पुत्राय । पुत्रमुत्पादयितुमित्यर्थः । `कियार्थोपपदस्ये-' त्यादिना चतुर्थी । पार्वतीं यजमानो यष्टा । `पूङ्यजोः शानन्' इति शानन्प्रत्ययः । हविर्भोक्तुरग्नेरुत्पतयेऽरणिमग्निमन्थनादारुविशेषमिव । `निर्मन्थ्यदारुणि त्वरणिर्द्वयोः' इत्यमरः । आहर्तुं संग्रहीतुमिच्छामि।। ६.२८ ।।


तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः ।
विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः ।। ६.२९ ।।

     अन्वयः- अस्मदर्थे युष्मामिः तां हिमालयो याचितव्यः, सदनुष्ठिताः सम्बन्धः विक्रियायै न कल्पन्ते ।
     मल्लिo- तामिति । अस्मदर्थेऽस्मत्प्रयोजने निमित्ते सति युष्माभिस्तां पार्वतीं हिमालयो हिमवान्याचितव्यः । याचेर्दुहादित्वादप्रधाने कर्मणि तव्यप्रत्ययः । आवश्यकं चैतदित्यह-सद्भिः सत्पुरुषैरनुष्ठिताः संघटिताः संबन्धाः यौनादयो विक्रियायै वैकल्योत्पादनाय न कल्पन्ते न पर्याप्नुवन्ति । न समर्था इत्यर्थः । अलमर्थयोगाच्चतुर्थी ।। ६.२९ ।।


न चाहं लौल्ल्यात्स्त्रियमिच्छामि किन्तु देवोपकाराय । यद्येवं निखिलदेवेषु विद्यमानेषु हिमगिरेः शिलाभूतस्य कन्यापरिणयेच्छा कथमित्युक्ते स एव मे श्लाघ्यसम्बन्धोऽत्र भवान् हिमवानित्याह-

उन्नतेन स्थितिमता धुरमुद्वहता भुवः ।
तेन योजितसंबन्धं वित्त मामप्यवञ्चितम् ।। ६.३० ।।

     अन्वयः- उन्नतेन स्थितिमता भुवो धुरम् उद्वहता तेन योजितसम्बन्धं माम् अपि अवञ्चितं वित्त ।
     मल्लिo- उन्नतेनेति । उन्नतेन प्रांशुना प्रसिद्धेन च स्थितिमता प्रतिष्ठावता भुवो धुरं भारमुद्वहता । निर्वाहकेणेत्यर्थः । तेन हिमवता योजितः संबन्धो यौनसंबन्धो यस्य तं मामप्यवञ्चितमव्यामोहितं वित्त जानीति । `विद ज्ञाने' इति धातोर्लोट् ।। ६.३० ।।


एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते ।
भबत्प्रणीतमाचारमामनन्ति हि साधवः ।। ६.३१ ।।

     अन्वयः- `कन्याऽर्थं स एवं वाच्यः' इति वः न उपदिश्यते, हि साधवो भवत्प्रणीतम् आचारम् आमनन्ति ।
     मल्लिo- एवमिति । कन्यार्थं कन्याप्रदानार्थं स हिमवानेवं वाच्य इति वो युष्मभ्यं नोपदिश्यते । कुतः । हि यस्मात्साधवो विद्धांसो भवद्भिः प्रणीतं स्मृतिरुपेण निबद्धमाचारमामनन्त्युपदिशन्ति । न हि स्वयमुपदेष्टारः परोपदेशमपेक्षन्त इत्यर्थः ।। ६.३१ ।।


आर्याप्यरुन्धती तत्र व्यापारं कर्तुमर्हति ।
प्रायेणैवंविधे कार्ये पुरंध्रीणां प्रगल्भता ।। ६.३२ ।।

     अन्वयः-- आर्या अरुन्धती अपि तत्र व्यापरं कर्तुम् अर्हति । प्रायेण एवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ।
     मल्लिo- आर्येति । आर्या पूज्यारुन्धत्यपि तत्र विवाहकृत्ये व्यापारं साहाय्यं कर्तुमर्हति । तथाहि । प्रायेण प्राचुर्येणैवंविधे । कार्य विवाहादिकार्ये । दुर्घट इत्यर्थः । पुरंध्रीणां कुटुम्बिनीनाम् । `स्यात्तु कुटुम्बिनी । पुरन्ध्री' इत्यमरः । प्रगल्भता चातुर्यम् । स्त्रीप्रधानेषु कृत्येषु स्त्रीणामेव घटनापाटवमिति भावः ।। ६.३२ ।।


तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् ।
महाकोशीप्रपातेऽस्मिन्संगमः पुनरेव नः ।। ६.३३ ।।

     अन्वयः-- तत् ओषधिप्रस्थं हिमवत्पुरं सिद्धये प्रयात । अस्मिन् महाकोशीप्रपाते नः पुनःरेव सङ्गमः ।
     मल्लिo- तदिति । तत्तस्मात्कारणादोषधिप्रस्थम् नाम हिमवत्पुरं हिमवन्नगरं सिद्धये कार्यसिद्ध्यर्थं प्रयात गच्छत । अस्मिन्पुरोवर्तिनि । महाकोशी नाम तत्रत्या काचिन्नदी तस्याः प्रपाते भृगावेव । सा नदी यत्र पतति तस्मिन्नित्यर्थः । `प्रपातस्त्वतटो भृगुः' इत्यमरः । नोऽस्माकं पुनः संगमः । अस्त्विति शेषः । भगवत्समागमं प्रतिपालयन्नहमिहैव निवत्स्यामीत्यर्थः ।। ६.३३ ।।


तस्मिन्संयमिनामाद्ये जाते परिणयोन्मुखे ।
जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः ।। ६.३४ ।।

     अन्वयः- संयमिनाम् आद्ये तस्मिन् परिणयोन्मुखे जाते प्राजापत्याः तपस्विनः परिग्रहव्रीडां जहुः ।
     मल्लिo- तस्मिन्निति । संयमिनां योगिनामाद्ये तस्मिन्नीश्वरे परिणयोन्मुखे विवाहोत्सुके जाते सति प्रजापतेरिमे प्राजापत्याः । ब्रह्मपुत्रा इत्यर्थः । तपस्विनो मुनयः परिग्रहैः पत्नीभिर्व्रीडाम् । गार्हस्थ्यनिर्मितामित्यर्थः । `पत्नीपरिजनापानमूलशापाः परिग्रहाः' इत्यमरः । जहुस्तत्यजुः । जहातेर्लिटि रुपम् । न हि समानगुणदोषेषु व्रीडागमोऽस्तीति भावः ।। ६.३४ ।।


ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ।
भगवानपि संप्राप्तः प्रथमोद्दिष्टमास्पदम् ।। ६.३५ ।।

     अन्वयः- ततो मुनिमण्डलं `परमम्' इति उक्त्त्वा प्रतस्थे । भगवान् अपि प्रथमोद्दिष्टम् आश्रमं संप्राप्तः ।
     मल्लिo- तत इति । ततोऽनन्तरं मुनिमण्डलं मुनिसमूहः परममित्युक्त्वा ओमित्युक्त्वा। अनुमन्येत्यर्थः । अव्ययमेतत् । `ओमेवं परमं मतम्' इत्यमरः । प्रतस्थे । भगवानीश्वरोऽपि प्रथमोद्दिष्टं पूर्वसंकेतितमास्पदं स्थानं महाकोशीप्रपातं संप्राप्तः ।। ६.३५ ।।


ते चाकाशमसिश्याममुत्पत्य परमर्षयः ।
आसेदुरोषधिप्रस्थं मनसा समरंहसः ।। ६.३६ ।।

     अन्वयः- मनसा समरंहसः ते परमर्षयः असिश्यामम् आकाशम् उत्पत्य ओषधिप्रस्थम् आसेदुः ।
     मल्लिo- त इति । मनसा समरंहसो मनस्तुल्यवेगास्ते परमर्षश्च । पूर्वश्लोकोक्तेश्वरसमुच्चयार्थश्चकारः । असिवच्छ्यामं नीलमाकाशं खं प्रत्युत्पत्यौषधिप्रस्थं हिमवत्पुरमासेदुः । सद्यः प्रापुरित्यर्थः ।। ६.३६ ।।


इतः परं दशभिः श्लोकैरोषधिप्रस्थमेव वर्णयति-

अलकामतिवाह्यैव वसतिं वसुसंपदाम् ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोप निवेशितम् ।। ६.३७ ।।

     अन्वयः- वसुसम्पदां वसतिम् अलकाम् अतिवाह्य इव स्वर्गाऽभिष्यन्दवमनं कृत्वा इव उपनिवेशितम् अलका ते आसेदुः' ।
     मल्लिo- अलकामिति । वसुसंपदां धनसमृद्धीनां वसतिं स्थानमलकां कुबेरनगरीमतिवाह्य । परिच्छिद्येति यावत् । उपनिवेशितमिव स्थितम् । तथा स्वर्गस्याभिष्यन्दोऽतिरेकः । अतिरिक्तजन इति यावत् । तस्य वमनं निःसारणं कृत्वोपनिवेशितमिव स्थितम् । उभयत्रापि कौटिल्यः- `भूतपूर्वमभूतपूर्वं वा जनपदं परदेशापवादेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्' इति । अलकामरावत्यतिशयितसमृद्धिकमित्यर्थः ।। ६.३७ ।।


गङ्गास्रोतःपरिक्षिप्तं वप्रान्तर्ज्वलितौषदि ।
बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ।। ६.३८ ।।

     अन्वयः- गङ्गास्रोतःपरिक्षिप्तं वप्राऽन्तर्ज्वलितौषधिबृहन्मणिशिलासालं गुप्तौ अपि मनोहरम् (ओषधिप्रस्थं ते आसेदुः) ।
     मल्लिo-- गङ्गेति । गङ्गायाः स्रोतोभिः प्रवाहैः परिक्षिप्तं परिवेष्टितम् । तैरेव सपरिखमित्यर्थः । वप्रश्चयः । प्राकारचैत्यमिति यावत् । `स्याच्चयो वप्रमस्त्रियाम् ।' इत्यमरः । तस्यान्तर्मध्ये ज्वलिताः प्रकाशमाना ओषधयो यस्य तत्तथोक्तम् । ज्वलितौषधित्वाद्रात्रिषु संचारिणां दीपनिरपेक्षमित्यर्थः । बृहन् विपुलो मणिशिलानां माणिक्यानां सालः `प्राकारो वरणः सालः' इत्यमरः । यस्मिंस्तत् अतएव गुप्तावपि संवरणेऽपि मनोहरम् । अकृत्रिमदुर्गसंवरणमिति भावः ।। ६.३८ ।।


जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
यक्षाः किपुरुषाः पौरा योषितो वनदेवताः ।। ६.३९ ।।

     अन्वयः- यत्र नागा जितसिंहभयाः, अश्वा बिलयोनयः, यक्षाः किम्पुरुषाः पौराः, वनदेवता योषितः ।
     मल्लिo- जितेति । यत्र पुरे नागा गजा जितं सिंहेभ्यो भयं यैस्ते तथोक्ताः । सिंहाधिकबला इत्यर्थः । नाथस्तु `पदं तुषारस्रुतिधौतरक्तम्' (१/६) इत्येतद्विरोधभयात् `वीतभयाः' इति पपाठ । तथा न भेतव्यं तत्र वनगजानां सिंहहतत्वाभिधानात् । अत्र त्वोषधिप्रस्थगजानां हिमवन्महिम्ना सिंहातिरेकसंभवेनाविरोधादिति । `वीतवीतभयाः' इति पाठे वीतं विगतं वीतात्पादाङ्कुशकर्मभ्यां भयं येषां ते तथोक्ताः । स्वभावविनीता इत्यर्थः । `पादकर्मयुतं प्रोक्तं यातमङ्कुशावारणम् । उभयं वीतमाख्यातम्' इति यादवः । अश्वा बिलयोनयो बिलसंभवाः । अन्यत्र तु न तथेति वैचित्र्यम् । उक्तं च- `अमृताद्वाष्पतो वह्नेर्वेदेभ्योण्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता ।' इति । यक्षाः प्रसिद्धाः । किंपुरुषाः किंनराश्च पौराः पुरजनाः । वनदेवता एव योषितः । न तु मानुष्य इत्यर्थः ।। ६.३९ ।।


शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मनाम् ।
अनुगर्जितसंदिग्धाः करणैर्मुरजस्वनाः ।। ६.४० ।।

     अन्वयः- यत्र शिखरासक्तमेघानां वेश्मनाम् अनुगर्जितसन्दिग्धाः मुरजस्वनाः करणैः व्यज्यन्ते ।
     मल्लिo- शिखरेति । यत्र पुरे शिखरेष्वासक्ता मेधा एषां वेश्मनां संबन्धिनः । अनुगर्जितानि प्रतिगर्जितानि तैः संदिग्धा मुरजस्वनाः करणैस्तालव्यवस्थापकैस्ताडनविशेषैः । तदुक्तम् राजकंदर्पेण-- `नृत्यवाद्दित्रगीतानां प्रयोगवशमेदिनाम् । संस्थानं ताडनं रोधः करणानि प्रचक्षते ।।' इति व्यज्यन्ते स्फुटीक्रीयन्ते ।। ६.४० ।।


यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः ।
गृहयन्त्रपताकाश्रीरपौरादरनर्मिता ।। ६.४१ ।।

     अन्वयः- यत्र विलोलविटपांऽशुकैः कल्पद्रुमैः एव अपौरादरनिर्मिता गृहयन्त्रपताकाश्रीः (भवति) ।
     मल्लिo- यत्रेति । यत्र नगरे विलोलानि चञ्चलानि विटपेष्वंशुकानि येषां तैः कल्पद्रुमैरेवापौरादरेण पौरादरं विनैव निर्मिता । अयत्नसिद्धेत्यर्थः, गृहेषु यानि यन्त्राण्याधारदारूणि तेषु पताकास्तासां श्रीः संभवतीति शेषः । तत्र लम्बाम्बराः कल्पतरव एव वैजयन्तीति संभाव्यन्त इत्यर्थः ।। ६.४१ ।।


यत्र स्फटिकहर्म्येषु नक्तमापानभूमिषु ।
ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ।। ६.४२ ।।

     अन्वयः- यत्र नक्तं स्फटिकहर्म्येषु आपानभूमिषु ज्योतिषां प्रतिबिम्बानि उपहारतां प्राप्नुवन्ति ।
     मल्लिo- यत्रेति । यत्र पुरे नक्तं रात्रौ स्फटिकहर्म्येष्वापानभूमिषु पानगोष्ठीप्रदेशेषु ज्योतिषां नक्षत्राणां प्रतिबिम्बान्युपहारतां पुष्पोपहारत्वं मौक्तिकोपहारत्वं वा प्राप्नुवन्ति ।। ६.४२ ।।


यत्रौपधिप्रकाशेन नक्तं दर्शितसंचराः ।
अनभिज्ञास्तमिस्त्राणां दुर्दिनेष्वभिसारिकाः ।। ६.४३ ।।

     अन्वयः-- यत्र दुर्दिनेषु नक्तम् ओषधिप्रकाशेन दर्शितसञ्चराः अभिसारिकाः तमिस्राणाम् अनभिज्ञाः ।
     मल्लिo- यत्रेति । यत्र पुरे दुर्दिनेषु मेधाच्छन्नदिवसेषु नक्तमोषधीनां तृणज्योतिषां प्रकाशेन संचरन्त एभिरिति संचराः पन्थानः । `गोचरसंचर' इत्यादिना घप्रत्ययान्तो निपातः दर्शितसंचारः प्रकाशितमार्गा अभिसारिकाः कान्तार्थिन्यः । `कान्तार्थिनी तु या याति संकेतं साभिसारिका' इत्यमरः । तमिस्राणां तमसाम् । कृद्योगात्कर्मणि षष्ठी । अनभिज्ञाः । तमांसि नाभिजानन्तीत्यर्थः ।। ६.४३ ।।


यौवनान्तं वयो यस्मिन्नान्तकः कुसुमायुधात् ।
रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ।। ६.४४ ।।

     अन्वयः- यस्मिन् वयो यौवनाऽन्तं, कुसुमायुधात् (अन्यः) अन्तको न, रतिखेदसमुत्पन्ना निद्रा एव संज्ञाविपर्ययः ।
     मल्लिo-- यौवनान्तमिति । यस्मिन्पुरे वयो यौवनान्तं यौवनावधिकम् । सर्वेऽप्यजरा इत्यर्थः । तया कुसुमायुधात्कामात् । अन्य इति शेषः । अन्तको मृत्युर्न । अस्तीति शेषः । विरहिणां तादृग्दुःखोत्पादकत्वादन्तकत्त्वोपचारः । कामं विना मृत्युर्नास्तीत्यर्थः । अतएव तत्कार्यभूतमरणाभाव इत्याशयोनाह-रतीति । रतिखेदसमुत्पन्ना निद्रा सुप्तिरेव संज्ञाविपर्ययश्चेतनापगमः । न तु दीर्घनिद्रारुप इत्यर्थः । अत्रत्याः सर्वेऽजरामरा इति श्लोकतात्पर्यार्थः । अन्तयत्यन्तं करोतीत्यन्तकः । अन्तयतेस्तत्करोतीति ण्यन्ताद्यत्प्रत्ययः ।। ६.४४ ।।


भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः ।
यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ।। ६.४५ ।।

     अन्वयः-- यत्र प्रियाः भ्रूभेदिभिः सकम्पोष्ठैः ललिताऽङ्गुलितर्जनैः स्त्रीणां कोपैः आप्रसादाऽर्थिनः कृताः ।
     मल्लिo- भ्रूभेदिभिरिति तत्र पुरे प्रिया युवानो भ्रुभेदिभिर्भ्रूभङ्गवद्भिः सकम्पा ओष्ठा येषु तैर्ललितान्यङ्गुलितर्जनानि येषु तैः, स्त्रीणां कोपैर्मानाख्यैराप्रसादार्थिन आप्रसादं प्रसादपर्यन्तमर्थिनो याचकाः कृताः । न तु शत्रुकोपैरिति भावः ।। ६.४५ ।।


संतानकतरुच्छायासुप्तविद्याधराध्वगम् ।
यस्य चोपवनं बाह्यं गन्धवद् गन्धमादनम् ।। ६.४६ ।।

     अन्वयः-- सन्तानकतरुच्छायासुप्तविद्याधराऽध्वगं गन्धवत् गन्धमादनं यस्य बाह्यम् उपवनम् ।
     मल्लिo- संतानकेति । किंचेति चार्थः । संतानकतरोश्छायासु सुप्ता विद्याधरा देवताविशेषास्त एवाध्वगा यस्मिंस्तत्तथोक्तम् गन्धवद् गन्धाढ्यम् गन्धमादनं नाम गिरिर्यस्य पुरस्य बहिर्भवं बाह्यमुपवनमारामः । संतानकतरुच्छायेत्यत्र पूर्वपदार्थबाहुल्यसंभवेऽपि `शलभच्छायम्' `इक्षुच्छायम्' इति वत्समर्थच्छायानिष्पत्तेस्तदपेक्षाभावात् `छाया बाहुल्ये' इति नपुंसकत्वं नास्तीत्यनुसंधेयम् अत्र `गन्धवद् गन्धमादनम्' इत्यागन्तुकः पाठः । प्राचीनः पाठस्तु `सुगन्धिर्गन्धमादनः' इति पुंल्लिङ्गान्तः । अतएव क्षीरस्वामिना `गन्धमादनमन्ये च' इत्यत्र गन्धेन मादयतीति गन्धमादन इति व्याख्याय प्रयोगे च पुलिङ्गता दृश्यत इत्याशयेनोक्तम् `सुगन्धिर्गन्धमादनः' इति कालिदास इति ।। ६.४६ ।।


अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।
स्वर्गाभिसंधिसुकृतं वञ्चनामिव मेनिरे ।। ६.४७ ।।

     अन्वयः- अथ ते दिव्या मुनयः हैमवतं पुरं प्रेक्ष्य स्वर्गाऽभिसन्धिसुकृतं वञ्चनाम् इव मेनिरे ।
     मल्लिo-- अथेति । ते दिवि भवा दिव्या मुनयो हिमवत इदं हैमवतं पुरं प्रेक्ष्य स्वर्गाभिसंधिना स्वर्गोद्देशेन यत्सुकृतं ज्योतिष्टोमाद्यनुष्ठानं तत्स्वर्गाभिसंधिसुकृतं वञ्चनां प्रतारणामिव मेनिरे । हिमवन्नगरमवेक्ष्य स्वर्गस्य पुण्यफलत्वं वदता वेदेन वयं विप्रलब्धा इत्यर्थः । स्वर्गादतिरमणीयमिति भावः ।। ६.४७ ।।


ते सद्मनि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः ।
अवतेरुर्जटाभारैर्लिखितानलनिश्चलैः ।। ६.४८ ।।

     अन्वयः- लिखिताऽनलनिश्चलैः जटाभारैः (उपलक्षिताः) ते उन्मुखद्वाःस्थवीक्षिताः (सन्तः) गिरैः सद्मनि वेगात् अवतेरुः ।
     मल्लिo- त इति । लिखितानलनिश्चलैः । चित्रगतज्वलननिष्पन्दैरिति वेगप्रकर्षोक्तिः । जटाभारैरुपलक्षितास्ते मुनयः । द्वारि तिष्ठन्तीति द्वाःस्थाद्वारपालकाः `प्रतिहारे द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः' इत्यमरः । उन्मुखैरूर्ध्वमुखैर्द्वाःस्थैर्वीक्षिताः सन्तः । न तु विनिवारिता इत्यर्थः । गिरेर्हिमवतः सद्मनि वेगादवतेरुरवतीर्णवन्तः ।। ६.४८ ।।


गगनादवतीर्णा सा यथावृद्धपुरःसरा ।
तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ।। ६.४९ ।।

     अन्वयः- गगनात् अवतीर्णा यथा वृद्धपुरःसरा सा मुनिपरम्परा तोयाऽन्तः भास्कराली इव रेजे ।। ६.४९ ।।
     मल्लिo- गगनादिति । गगनादवतीर्णावरुढा यथावृद्धं वृद्धानुक्रमेण स्थिताः पुरःसरा अग्रेसरा यस्यां सा तथोक्ता । अनुपसर्जनाधिकारान्न ङीप् । सा मुनिपरम्परा मुनिपंक्तिस्तोयान्तस्तोयाभ्यन्तरे भास्कराली प्रतिबिम्बितार्कपङ्क्तिरिव रेजे । एतेन मुनीनां तेजस्वित्वेऽपि सुखसंदर्शनं सूचयति । भास्कराणां भूयिष्ठत्वसंभावनार्थ तोयान्तरित्युक्तम् । अतएव बहुत्वसिद्धिश्च ।। ६.४९ ।।


तानर्घ्यानर्घ्यमादाय दूरात्प्रत्युद्ययौ गिरिः ।
नमयन्सारगुरुभिः पादन्यासैर्वसुंधराम् ।। ६.५० ।।

     अन्वयः-गिरिः अर्घ्यम् आदाय सारगुरुभिः पादन्यासैः वसुन्धरां नमयन् अर्घ्यान् तान् दूरात् प्रत्युद्ययौ ।
     मल्लिo- तानिति । गिरिर्हिमवानर्घ्यमर्घार्थं जलमादाय सारगुरुभिरन्तःसारदुर्भरैः पादन्यासैर्वसुंधरां नमयन्नधः प्रापयन् । अघमर्हन्तीत्यर्ध्यान् पूज्यान् । दण्डादित्वाद्यप्रत्ययः । तान्मुनीन्दूरात्प्रत्युद्ययौ ।। ६.५० ।।


संप्रति हिमवन्तमेव जङ्गमस्थावररूपद्वयसाधारणैर्विशिनष्टि-

धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः ।
प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ।। ६.५१ ।।

     अन्वयः- धातुताम्राऽधरः प्रांशुः देवदारुबृहद्भुजः प्रकृत्या एव शिलोरस्कः (अतः) हिमवान् इति सुव्यक्तः (अभूत्) ।
     मल्लिo- धात्विति । धातुवत्ताम्रोऽधरो यस्य स तथोक्तः । अन्यत्र धातुरेव ताम्रोऽधरो यस्य । प्रांशून्नतः । उभयत्रापि समानम् । देवदारुवद् बृहन्तौ भुजौ यस्य सः तथोक्तः । देवदारव एव बृहन्तौ भुजौ यस्येत्यन्यत्र । प्रकृत्या स्वभावेनैव शिलावदुरो यस्य स शिलौरस्कः । शिलैवेत्यन्यत्र `उरःप्रभृतिभ्यः कप्' इति कप् । अतो हिमवानिति सुव्यक्तः । वर्तमाने क्तः । सत्यं स एवायं हिमवानिति तद्धर्मप्रत्यभिज्ञानादवधारित इत्यर्थः ।। ६.५१ ।।


विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।
स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ।। ६.५२ ।।

     अन्वयः- स विधिप्रयुक्तसत्कारैः शुद्धकर्मभिः तैः स्वयं मार्गस्य दर्शकः सन् शुद्धाऽन्तम् आक्रामयामास ।। ६.५२ ।।
     मल्लिo- विधीति । स हिमवान्विधिना शास्त्रेण प्रयुक्तसत्कारैः कृतार्चनैः, शुद्धकर्मभिरदुष्टचरितैः । शुद्धान्तप्रवेशार्हैरित्यर्थः । तैर्मुनिभिः स्वयं मार्गस्य दर्शयतीति दर्शको दर्शयिता सन् । पश्यतेर्ण्यन्तादण्प्रत्ययः । शुद्धान्तमन्तःपुरमाक्रमयामास । प्रवेशयामासेत्यर्थः । अत्र क्रमेरगत्यर्थत्वात् `गतिबुद्धी-' त्यादिना तैरित्यस्य न कर्मत्वम् ।। ६.५२ ।। ?


तत्र वेत्रासनासीनान्कृतासनपरिग्रहः ।
इत्युवाचेश्वरान्वाचं प्राञ्जलिर्भूधरेश्वरः ।। ६.५३ ।।

     अन्वयः- तत्र वेत्रासनासीनान् ईश्वरान् भूघरेश्वरः कृतासनपरिग्रहः (सन्) प्राञ्जलिः इति उवाच ।
     मल्लिo- तत्रेति । वेत्रं लताविशेषः । तत्र शुद्धान्ते वेत्रासनासीनान्वेत्रमयविष्टरोपविष्टानीश्वरान्प्रभून्मुनीन्भूधरेश्वरो हिमवान्कृतासनपरिग्रहः । उपविष्टः सन्नित्यर्थः । प्राञ्जलिः कृताञ्जलिः सन् । इत्येवं वाचमुवाच ।। ६.५३ ।।


अपमेघोदयं वर्षमदृष्टकुसुमं फलम् ।
अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ।। ६.५४ ।।

     अन्वयः- अतर्कितोपपन्नं वो दर्शनम् अपमेघोदयं वर्षम्, अदृष्टकुसुमं फलं मे प्रतिभाति ।
     मल्लिo- अपेति । अतर्कितोपपन्नमविचारितमेवोपगतम् । अत्यन्ताऽसंभावितमित्यर्थः । वो युष्माकं दर्शनमपमेघोदयं वर्षमनभ्रा वृष्टिस्तथादृष्टं कुसुमं यस्य तत्तथोक्तं फलं च तन्मे प्रतिभाति । अतिदुर्लभलाभः संवृत्त इत्यर्थः । अत्र मेघोदयकुसुमरूपकारणयोरभावेऽपि वर्षफलरुपकार्ययोरुदयाभिधानाद्विभावना । मुनिदर्शनस्य विशिष्टवृत्तित्वेन च रुपणाद्रूपकालंकारश्चेत्युभयोः संसृष्टिः ।। ६.५४ ।।


मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम् ।
भूमेर्दिवमिवारुढं मन्ये भवदनुग्रहात् ।। ६.५५ ।।

     अन्वयः- (हे प्रभवः) भवदनुग्रहात् मूढम् आत्मानं बुद्धम् इव, आयसं हैमीभूतम् इव, भूमेः दिवम् आरुढम् इव मन्ये ।
     मल्लिo- मूढमिति । भवदनुग्रहादात्मानं मां मूढं बुद्धिं विनाकृतं बुद्धमिव मूढो भूत्वा यो बुद्धवांस्तमिव । कर्तरि क्तः । आयसमयोविकारं हैमीभूतम् । आयसत्वं विहाय सौवर्णत्वं प्राप्तमिवेत्यर्थः । भूमेर्भूलोकाद्दिवं स्वर्गमारुढमिव मन्ये । ज्ञानरूपस्थानान्यद्य मे परमुत्कृष्यन्त इति भावः ।। ६.५५ ।।


अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये ।
यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते ।। ६.५६ ।।

     अन्वयः- अद्यप्रभृति भूतानां शुद्धये अधिगम्यः अस्मि । हि यत् अर्हद्भिः अद्यासितं तत् तीर्थ प्रचक्षते ।
     मल्लिo- अद्येति । अद्यप्रभृतीत आरभ्य भूतानां प्राणिनां शुद्धयेऽधिगम्योऽस्मि । शुद्ध्यर्थिनां तीर्थभूतोऽस्मीत्यर्थः । भवदागमनादिति शेषः । हि यस्मात् । यदर्हद्भिः सद्भिरध्यासितमधिष्ठितम् । जुष्टमिति यावत् । तत्तीर्थ प्रचक्षते । `निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः ।। ६.५६ ।।


अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ! ।
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ।। ६.५७ ।।

     अन्वयः- हे द्विजोत्तमाः ! मूर्ध्नि गङ्गाप्रपातेन वः धौतपादाऽम्भसा च द्वयेन एव आत्मानं पूतम् अवैमि ।
     मल्लिo- अवैमिति । हे द्विजोत्तमाः ! आत्मानं मां द्वयेनैव पूतं शुद्धमवैम्येव गच्छामि । केन द्वयेन । मूर्ध्नि गङ्गाप्रपातेन मन्दाकिनीपातेन वो युष्माकं धौतयोः क्षालितयोः पादयोरम्भसा च । गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं गम्यते । तच्च `प्रस्तुताप्रास्तुतयोः' इति दीपकालंकारः । `प्रियः प्रियतराख्यानम्' इति लक्षणात्प्रियोऽलंकार इति केचित् ।। ६.५७ ।।


जंगमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।
विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ।। ६.५८ ।।

     अन्वयः- (हे ब्रह्मर्षयः !) जङ्गमम् वः प्रैष्यभावे स्थावरं वः चरणाऽङ्कितं (सत्) द्विरूपम् अपि मे वपुः विभक्ताऽनुग्रहं मन्ये ।
     मल्लिo-जङ्गममिति । हे मुनयः ! द्विरूपं जङ्गमस्थावरात्मकत्वाद् द्विप्रकारकमपि मे वपुर्विभक्तानुग्रहं विभज्य कृतप्रसादं मन्ये । कुतः । जंगमं वपुर्वो युष्माकं प्रैष्यभावे कैङ्कर्ये, स्थितमिति शेषः । `प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या' इति वृद्धिः । `नियोज्यकिंकरप्रैष्यभुजिष्यपरिचारकाः' इत्यमरः । स्थावरं वपुश्चरणाङ्कितम् । अयमेव हि महाननुग्रहो दासजनस्य यत्कर्मसु नियोजनं मूर्धनि पादन्यासश्चेति तात्पर्यार्थः ।। ६.५८ ।।


भवत्संभावनोत्थाय परितोषाय मूर्च्छते ।
अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ।। ६.५९ ।।

     अन्वयः-- व्याप्तदिगन्तानि अपि मे अङ्गानि भवत्संभावनोत्थाय मूर्च्छते परितोषाय न प्रभवन्ति ।
     मल्लिo- भवदिति । व्याप्ता दिगन्ता यैस्तानि व्याप्तदिगन्तानि । महान्त्यपीत्यर्थः । मे ममाङ्गानि भवत्संभावनोत्थाय युष्मदनुग्रहजन्याय मूर्च्छते व्याप्नुवते परितोषाय न प्रभवन्ति न पर्याप्नुवन्ति । अलमर्थयोगाच्चतुर्थी । यथा महत्स्वपि मद्गात्रेषु न माति तथा मे हर्षो वर्धत इत्यर्थः ।। ६.५९ ।।


न केवलं दरीसंस्थं भास्वतां दर्शनेन वः ।
अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ।। ६.६० ।।

     अन्वयः- भास्वतां वो दर्शनेन केवलं दरीसंस्थम् एव न (किन्तु) अन्तर्गतं रजसोऽपि परं मे तमः अपास्तम् ।
     मल्लिo- नेति । भास्वतां तेजस्विनां च युष्माकं दर्शनेन केवलं दरीसंस्थं गुहागतं तमो ध्वान्तरूपमेव नापास्तम् । किंतु मेऽन्तर्गतमन्तरात्मगतं रजसो रजोगुणात्परमनन्तरं तमोऽज्ञानरूपमप्यपास्तम् । रजस्तु पादन्यासैरेवापास्तमिति भावः । प्रसिद्धैर्भास्वद्भिर्बाह्यं तमोऽपास्यत एभिस्त्वान्तरमपीति व्यतिरेको व्यज्यते ।। ६.६० ।।


कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते ।
मन्ये मत्पावनायैव प्रस्थानं भवतामिह ।। ६.६१ ।।

     अन्वयः-- कर्तव्यं वो न पश्यामि, अथ स्यात् चेत् किं न उपपद्यते ? मत्पावनाय एव भवताम् इह प्रस्थानं मन्ये ।
     मल्लिo-- कर्तव्यमिति । कर्तव्यं कार्यं वो युष्माकं न पश्यामि । निःस्पृहत्वादिति भावः । अथ स्याच्चेद्विद्येत यदि, किं नोपपद्यते किं नाम न संभवति । सर्वं सुलभमेवेत्यर्थः । अथवा किमत्र प्रयोजनचिन्तयेत्याह-- मत्पावनाय मच्छोधनायैव भवतामिह विषये प्रस्थानम् । इमं देशमुद्दिश्येदं प्रयाणमित्यर्थः । मन्ये तर्कयामि ।। ६.६१ ।।


तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ ।
विनियोगप्रसादा हि किंकराः प्रभविष्णुषु ।। ६.६२ ।।

     अन्वयः-- तथाऽपि कस्मिंस्चित् आज्ञाम् इदानीं मे दातुम् अर्हथ । हि किङ्कराः प्रभविष्णुषु विनियोगप्रसादाः ।
     मल्लिo- तथापीति । तथापि भवतां निःस्पृहत्वेपि कस्मिंश्चित् कर्मणीति शेषः । आज्ञामिदं कुर्वित्यादेशं तावदिदानीं मे मह्यं दातुमर्हथ । मदनुग्रहबुद्ध्येति भावः । हि यस्मात्किंकरा भृत्याः । प्रभवन्तीति प्रभविष्णुषु प्रभुषु विषये । `भुवश्च' इतीष्णुच्प्रत्ययः । विशेषेण नियोगो विनियोगः । प्रेषणमेव प्रसादोऽनुग्रहो येषां ते तथोक्ताः । अन्यथा स्वस्वामिभावो निष्फल इति भावः ।। ६.६२ ।।


एते वयममी दाराः, कन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ।। ६.६३ ।।

     अन्वयः- एते वयम्, अमी दाराः, कुलजीवितम् इयं कन्या । अत्र येन वः कार्यं, ब्रूत । बाह्यवस्तुषु अनास्था ।
     मल्लिo- एत इति । किं बहुना एते वयममी दारा इयं कुलस्य जीवितं प्राणभृतां परमप्रेमास्पदमित्यर्थः । कन्या । अत्रैषां मध्ये येन जनेन वः कार्यं प्रयोजनं ब्रूत । तदिति शेषः । येन तदपि दोयत इति भावः । रत्नहिरण्यादिकं तु न मे गण्यमित्याह-बाह्यवस्तुकनकरत्नादिष्वनास्थानादरः । प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । अदेयं न किंचिदस्तीति भावः ।। ६.६३ ।।


इत्यूचिवांस्तमेवार्थं गुहामुखविसार्पिणा ।
द्विरिव प्रतिशब्देन व्याजहार हिमालयः ।। ६.६४ ।।

     अन्वयः- इति ऊचिवान् हिमालयो गुहामुखविसर्पिणा प्रतिशब्देन तम् अर्थं द्विः व्याजहार इव ।
     मल्लिo- इतीति । इत्यूचिवानुक्तवान् । वचेः क्वसुप्रत्ययः । हिमालयो हिमवान्गुहानां मुखेषु विवरेषु विसर्पतीति तथोक्तेन प्रतिशब्देन तमेव पूर्वोक्तमेवार्थं द्विर्द्विवारम् । `द्वित्रिचतुर्भ्यः सुच्' इति सुच्प्रत्ययः । व्याजहार बभाषे ।। ६.६४ ।।


अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु ।
ऋषयो नोदयामासुः प्रत्युवाच स भूधरम् ।। ६.६५ ।।

     अन्वयः-- अथ ऋषयः उदाहरणवस्तुषु अग्रगण्यम् अङ्गिरसं नोदयामासुः । स भूधरम् प्रत्युवाच ।
     मल्लिo- अथेति । अथानन्तरमृषय उदाहरणानि कथाप्रसङ्गास्त एव वस्तून्यर्थास्तेष्वग्रं नयतीत्यग्रणीस्तमग्रण्यं प्रगल्भम् । `सत्सूद्विषे-' त्यादिना क्विप् । `अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्' इति णत्वम् । अङ्गिरसं नामर्षि नोदयामासुः प्रतिवक्तुम् प्रेरयामासुः । सोऽङ्गिरा भूधरं हिमवन्तं प्रत्युवाच ।। ६.६५ ।।


उपपन्नमिदं सर्वमतः परमपि त्वयि ।
मनसः शिखराणां च सदृशी ते समुन्नतिः ।। ६.६६ ।।

     अन्वयः- (हे पर्वतराज !) इदं सर्वम् अतः परम् अपि त्वयि उपपन्नम्, ते मनसः शिखराणां च सदृशी समुन्नतिः ।
     मल्लिo- उपपन्नमिति । इदम् `एते वयममी दाराः' (६/६३) इत्याद्युक्तं सर्वमतः परमतोऽधिकमपि त्वय्युपपन्नं युज्यते । तथाहि । ते मनसः शिखराणां च समुन्नतिः सदृशी । शिखराणीव मनो महोन्नतमित्यर्थः । किं नाम दुष्करमुन्नतचित्तानामिति भावः । प्रस्तुताप्रस्तुतयोर्मनः शिखरयोरौपम्यस्य गम्यत्वाद्दीपकालंकारः ।। ६.६६ ।।


स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथाहि ते ।
चराचराणां भूतानां कुक्षिराधारतां गतः ।। ६.६७ ।।

     अन्वयः- त्वां स्थावरात्मानं विष्णुम् आहुः, स्थाने । तथा हि ते कुक्षिः चराऽचराणां भूतानाम् आधारतां गतः ।
     मल्लिo-- स्थान इति । त्वां स्थावरात्मानं स्थावररूपिणं विष्णुमाहुः `स्थावराणां हिमालयः' इति गीतावचनात् । स्थने युक्तम् । युक्तार्थेऽव्ययमेतत् । `युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । तथाहि । ते तव कुक्षिश्चराचराणां जङ्गमस्थावररूपिणां भूतानां पृथिव्यादीनामाधारतां गतः । तवेव विष्णोः कुक्षिरेवंभूत इति भावः ।। ६.६७ ।।


गामधास्यत्कथं नागो मृणालमृदुभिः फणैः ।
आरसातलमूलात्त्वमवालम्बिष्यथा न चेत् ।। ६.६८ ।।

     अन्वयः-- नागो मृणालमृदुभिः फणैः गां कथम् अधास्यत् त्वम् आरसातलमूलात् न अवलम्बिष्यथ न चेत् ।
     मल्लिo-- गामिति । नागः शेषाहिर्मृणालमृदुभिर्बिसकोमलैः फणैर्गां भुवं कथमघास्यद्धारयेत् । त्वमारसातलमूलात्पातालपर्यन्तम् । विकल्पादसामासः नावालम्बिष्यथाश्चेत्पादैर्नावलम्बेथा यदि । त्वदवलम्बनादेव भुजगराजोऽपि भुवं बिभर्तीत्यर्थः । अत्र क्रियातिपत्त्यभावाल्लृङ्प्रयोगश्चिन्त्यः ।। ६.६८ ।।


अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः ।
पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ।। ६.६९ ।।

     अन्वयः-- अच्छिन्नाऽमलसन्तानाः समुद्रोर्म्यनिवारिताः ते कीर्तयः सरितश्च पुण्यत्वात् लोकान् पुनन्ति ।
     मल्लिo-- अच्छिन्नेति । अच्छिन्ना अविच्छिन्ना अमलाश्च संतानाः प्रबन्धाः प्रवाहाश्च यासां तस्तथोक्ताः समुद्रोर्मिभिरनिवारिताः । पारगमनादन्तःप्रवेशाच्चेति भावः । ते तव कीर्तयः सरितश्च गङ्गादयः पुण्यत्वात्पवित्रत्वाल्लोकान्पुनन्ति पावयन्ति । लोकपावनाः खलु पुण्यश्लोका इति भावः । केवलप्रकृतविषयस्तुल्ययोगितालङ्कारः ।। ६.६९ ।।


यथैव श्लाध्यते गङ्गा पादेन परमेष्ठिनः ।
प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ।। ६.७० ।।

     अन्वयः- गङ्गा प्रभवेण परमेष्ठिनः पादेन यथैव श्लाध्यते तथैव द्वितीयेन प्रभवेण उच्छिरसा त्वया श्लाध्यते ।
     मल्लिo- यथैवेति । गङ्गा भागीरथी । प्रभवत्यस्मादिति प्रभवस्तेन कारणेन परमे तिष्ठतीति परमेष्ठिनो विष्णोः । परमे कित्प्रत्ययः । `तत्पुरुषे कृति बहुलम्' इत्यलुक् `-परमेवर्हिर्दिव्यग्निभ्यः स्थः' इति षत्वम् । पादेन चरणेन यथैव श्लाध्यते प्रशस्यते तथैव द्वितीयेन प्रभवेणोच्छिरसा त्वया श्लाध्यते । हरिचरणवत्तीर्थस्यापि तीर्थभूतस्त्वमिति भावः ।। ६.७० ।।


तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः ।
त्रिविक्रमोद्यतस्यासीत्स तु स्वाभाविकस्तव ।। ६.७१ ।।

     अन्वयः- तिर्यक् ऊर्ध्वम् अधस्ताच्च व्यापको महिमा त्रिविक्रमोद्यतस्य हरेः आसीत्, तव तु व्यापको महिमा स्वाभाविकः ।
     मल्लिo- तिर्यगिति । तिर्यगूर्ध्वमधस्ताच्च व्यापकः । सर्वव्यापीत्यर्थः । महिमा महत्त्वं हरेर्विष्णोस्त्रिषु विक्रमेषूद्यतस्य सत आसीत् । त्रिविक्रमोद्यतस्यास्ति कदाचिदेव न तु सर्वदेत्यर्थः । तव तु व्यापको महिमा स्वाभाविकः । नित्यसिद्ध इत्यर्थः ।। ६.७१ ।।


यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया ।
उच्चैर्हिरण्मयं श्रृङ्गं सुमेरोर्वितथीकृतम् ।। ६.७२ ।।

     अन्वयः-- यज्ञभागभुजां मध्ये पदम् आतस्थुषा त्वया सुमेरोः हिरण्मयम् उच्चैः श्रृङ्गं वितथीकृतम् ।
     मल्लिo- यज्ञेति । यज्ञभागभुजामिन्द्रादीनां मध्ये पदमातस्थुषा निहितवता त्वयोच्चैरुन्नतं हिरण्यस्य विकारो हिण्मयम् । `दाण्डिनायनहास्तिनायने-' त्यादिनिपातनात्साधु । सुमेरोः श्रृङ्गं शिखरम् । प्राधान्यं च ध्वन्यते । `श्रृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । वितथीकृतं व्यर्थीकृतम् । तस्य यज्ञभागाभावादिति भावः । अस्य तु तत्सद्भावे प्रमाणम्- `हिमवतो हस्ती' ति श्रुतिः ।। ६.७२ ।।


काठिन्यं स्थावरे काये भवता सर्वमर्पितम् ।
इदं तु ते भक्तिनम्रं सतामाराधनं वपुः ।। ६.७३ ।।

     अन्वयः- भवता सर्वं काठिन्यं स्थावरे काये समर्पितम्, सताम् आराधनं ते इदं वपुस्तु भक्तिनम्रम् ।
     मल्लिo- काठिन्यमिति । भवता सर्वं काठिन्यम् । अनम्रत्वमित्यर्थः । स्थावरे स्थिरे काये । शिलामय इत्यर्थः । अर्पितं न्यस्तम् । सतामर्हतामाराधनं पूजासाधनं त इदं वपुस्तु जङ्गममित्यर्थः । भक्तिनम्रम् । काठिन्यलेशोऽप्यत्र नास्त्यन्यथा नम्रत्वासंभवादित्यर्थः । तथा चासाधारण्यं ध्वन्यते ।। ६.७३ ।।


तदागमनकार्यं नः श्रृणु कार्यं तवैव तत् ।
श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ।। ६.७४ ।।

     अन्वयः-- तत् नः आगमनकार्यं श्रृणु । तत् कार्यं तव एव । वयं तु श्रेयसाम् उपदेशात् अत्र अंशभागिनः ।
     मल्लिo- तदिति । तत्तस्मान्नोऽस्माकमागमनस्य कार्यं प्रयोजनं श्रृणु । तत्कार्यं च तवैव, न त्वस्माकमित्यवधारणार्थ एवकारः । वयं तु श्रेयसामुपदेशादत्र कार्येंऽशभागिनः । त्वमेवात्र फलभाग्वयमुपदेष्टार इति भावः ।। ६.७४ ।।


अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् ।
शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ।। ६.७५ ।।

     अन्वयः- यः अणिमादिगुणोपेतम् अस्पृष्टपुरुषाऽन्तरम् उच्चैः ईश्वर इति शब्दं सार्धचन्द्रं बिभर्ति ।
     मल्लिo- अणिमेति । यः शंभुरणिमादिगुणोपेतमणिमादिभिरष्टाभिर्गुणैर्वाच्यभूतैरुपेतम् । अष्टैश्वर्यवाचकमित्यर्थः, अतएवास्पृष्टं पुरुषान्तरं येन तं तथोक्तम् पुरुषान्तरस्यानभिधायकम् । तस्यैवैवंगुणत्वादित्यर्थः, उच्चः परमेश्वर इति शब्दम् । निरुपपदेश्वरशाब्दमित्यर्थः । सार्धचन्द्रमर्धचन्द्रयुक्तम् । अर्धचन्द्रं चेत्यर्थः । बिभर्ति ।। ६.७५ ।।


कलितान्योन्यसामर्थ्यैः पृथिव्यादिभिरात्मभिः ।
येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ।। ६.७६ ।।

     अन्वयः-- येन कलिताऽन्योन्यसामर्थ्यैः पृथिव्यादिभिः आत्मभिः इदं विश्वं धुर्यैः अध्वनि यानम् इव ध्रियते ।
     मल्लिo- कलितेति । येन शंभुना कलितं धृतिसंग्रहादिस्वस्वगुणसंपादितमन्योन्यसामर्थ्यं परस्परसहकाररुपं यैस्तथोक्तैः । स्वस्वरुपसामर्थ्यमन्योन्याधेयमेवेति भावः । पृथिव्यादिभिरात्मभिः । अष्टाभिर्मूर्तिभिरित्यर्थः । इदं व्यक्तं विश्वं धुरं वहन्तीति धुर्यैरश्वैः । `धुरो यड्ढको' इति यत्प्रत्ययः । अध्वनि यानं रथ इव ध्रियते ।। ६.७६ ।।


योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।
अनावृत्तभयं यस्य पदमाहुर्मनीषिणः ।। ६.७७ ।।

     अन्वयः- योगिनः क्षेत्राऽभ्यन्तरवरवर्तिनं यं विचिन्वन्ति, मनीषिणो यस्य पदम् अनावृत्तिभयम् आहुः ।
     मल्लिo- योगिन इति । योगिनोऽध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनं शरीरान्तश्चरं सर्वभूतान्तर्यामिणम् । परमात्मस्वरूपिणमित्यर्थः । `क्षेत्रं पत्नीशरीरयोः' इत्यमरः । यं शंभुं विचिन्वन्ति मृगयन्ते, मनीषिणो विद्वांसो यस्य शंभोः पदं स्थानमविद्यमानमावृत्तेः पुनः संसारापत्तेर्भयं यत्र तत्तथाभूतमाहुः ।। ६.७७ ।।


स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणाम् ।
वृणुते वरदः शंभुरस्मत्संक्रामितैः पदैः ।। ६.७८ ।।

     अन्वयः- विश्वस्य कर्मणां साक्षी वरदः स शम्भुः अस्मत्संक्रामितैः पदैः ते दुहितरं साक्षात् वृणुते ।
     मल्लिo-- स इति । विश्वस्य जगतः कर्मणां साक्षी द्रष्टा । `साक्षाद्द्रष्टरि संज्ञायाम्' इतिनिप्रत्ययः । वरानिष्टान्ददातीति वरदः । `आतोऽनुपसर्गे कः' इति कप्रत्ययः । स पूर्वोक्तः शंभुरस्मत्संक्रामितैः पदैरस्मासु निवेशितैर्वाक्यैस्ते दुहितरं साक्षाद् वृणुते । अस्मन्मुखेन स्वयमेव याचत इत्यर्थः ।। ६.७८ ।।


तमर्थमिव भारत्या सुतया योक्तुमर्हसि ।
अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता ।। ६.७९ ।।

     अन्वयः-- भारत्या अर्थम् इव तं सुतया योक्तुम् अर्हसि । हि सद्भर्तृप्रतिपादिता कन्या पितुः अशोच्या ।
     मल्लिo- तमिति । तं शंभुं भारत्या वाचार्थमभिधेयमिव सुतया दुहित्रा योक्तुं संघटयितुमर्हसि । अत्र वागर्थयोरुपमानत्वसामर्थ्याच्छिवयोर्नित्ययोगो विवक्षित इत्युक्तम् `वागर्थाविव संपक्तौ' (रघुवंशे १/१) इत्यत्रापि । तथाहि सद्भर्त्रे प्रतिपादिता दत्ता कन्या पितुरशोच्या ।। ६.७९ ।।


गुणान्तरमप्याह-

यावन्त्येतानि भूतानि स्थावराणि चराणि च ।
मातरं कल्पयन्त्वेनामीशो हि जगतः पिता ।। ६.८० ।।

     अन्वयः- स्थावराणि चराणि च यावन्ति एतानि भूतानि एनां मातरं कल्पयन्तु, हि ईशो जगतः पिता ।
     मल्लिo- यावन्तीति । स्थावराणि चराणि च यावन्त्येतानि भूतानि सन्तीति शेषः । सर्वाणि भूतानीत्यर्थः । एनां ते दुहितरं मातरं कल्पयन्तु । हि यस्मादीशो जगतः पिता । पितृदारेषु मातृभावो न्याय्य इति भावः ।। ६.८० ।।


प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः ।। ६.८१ ।।

     अन्वयः- विबुधाः शितिकण्ठाय प्रणम्य तदनन्तरम् अस्याः चरणौ चूडामणिमरीचिभिः रञ्जयन्तु ।
     मल्लिo- प्रणम्येति । विबुधा देवाः शितिकण्ठाय शिवाय प्रणाम्य तदनन्तरं नीलकण्ठप्रणामानन्तरमस्याश्चरणौ चूडामणिमरीचिभी रञ्जयन्तु । ईश्वरपरिग्रहादखिलदेवतावन्द्या भवत्वित्यर्थः ।। ६.८१ ।।


उमा वधूर्भवान्दाता, याचितार इमे वयम् ।
वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ६.८२ ।।

     अन्वयः- उमा वधूः, भवान् दाता, इमे वयं याचितारः, शम्भुः वरः, हि एष विधिः त्वत्कुलोद्भूतये अलम् ।
     मल्लिo-- उमेति । उमा वधूः । इमे वयं याचितारः प्रार्थकाः । शंभुर्वरो वोढा । एष विधिरेषा सामग्री त्वत्कुलस्योद्भूतये उच्छ्रयायालं पर्याप्तं हि । `नमः स्वस्तिस्वाहास्वधे-' त्यादिना चतुर्थी ।। ६.८२ ।।


अस्तोतुः स्तूयमानस्य, वन्द्यस्यानन्यवन्दिनः ।
सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः ।। ६.८३ ।।

     अन्वयः- अस्तोतुः स्तूयमानस्य, वन्द्यस्य अनन्यवन्दिनो विश्वगुरोः सुतासम्बन्धविधिना गुरुः भव ।
     मल्लिo-- अस्तोतुरिति । स्वयमन्यस्तोता न भवतीत्यस्तोतुः, किंतु स्तूयमानस्य सर्वस्तुत्यस्य, वन्द्यस्य, जगद्वन्द्यस्य स्वयमन्यं न वन्दत इत्यनन्यवन्दिनो विश्वगुरोर्देवस्य सुतासंबन्धविधिना यौवनसंबन्धाचरणेन गुरुर्भव । यो नान्यं स्तौति न वन्दते तस्यापि त्वं स्तुत्यो वन्द्यश्चेत्यहो तव भाग्यवत्तेत्यर्थः ।। ६.८३ ।।


एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ।। ६.८४ ।।

     अन्वयः- देवर्षौ एवंवादिनि (सति) पार्वती पितुः पार्श्वे अधोमुखी (सती) लीलाकमलपत्राणि गणयामास ।
     मल्लिo-- एवमिति । देवर्षावङ्गिरस्येवंवादिनि सति पार्वती पितुः पार्श्वेऽधोमुखी सती । लज्जयेति शेषः । लीलाकमलपत्राणि गणयामास संचख्यौ । लज्जावशात्कमलदलगणनाव्याजेन हर्ष जुगोपेत्यर्थः । अनेनावहित्याख्यः संचारी भाव उक्तः । तदुक्तम्- `अवहित्था तु लज्जादेर्हर्षादाकारगोपनम्' । इति ।। ६.८४ ।।


शैलः संपूर्णकामोऽपि मेनामुखमुदैक्षत ।
प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ।। ६.८५ ।।

     अन्वयः- शैलः सम्पूर्णकामः अपि मेनामुखम् उदैक्षत, (हि) प्रायेण कुटम्बिनः कन्यार्थेषु गृहिणीनेत्राः ।
     मल्लिo- शैल इति । शैलो हिमवान्संपूर्णकामोऽपि । दातुं कृतनिश्चयोऽपीत्यर्थः । मेनामुखमुदैक्षत । उचितोत्तरजिज्ञासयेति भावः । तथा हि । प्रायेण कुटुम्बिनो गृहस्थाः कन्यार्थेषु कन्याप्रयोजनेषु गृहिण्येव नेत्रं कार्यं ज्ञानकारणं येषां ते तथोक्ताः । कलत्रप्रधानवृत्तय इत्यर्थः ।। ६.८५ ।।


मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् ।
भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ।। ६.८६ ।।

     अन्वयः-- मेना अपि पत्युः तत् सर्वम् अभीप्सितं कार्यं मेने । (तथा हि) पतिव्रता भर्तुः इष्टे अव्यभिचारिण्यो भवन्ति ।
     मल्लिo- मेना इति । मेनापि पत्युर्हिमालयस्य तत्सर्वमभीप्सितं कार्यं मेनेऽङ्गीचकार । तथाहि । पतिरेव व्रतं यासां ता भर्तुरिष्टेऽभीप्सिते न विद्यते व्यभिचारो यासां ता अव्यभिचारिण्यो भवन्ति भर्त्तुचित्ताभिप्रायज्ञा भवन्तीति भावः ।। ६.८६ ।।


इदमत्रोत्तरं न्याय्यमिति बुद्ध्या बिमृश्य सः ।
आददे वचसामन्ते मङ्गलालंकृतां सुताम् ।। ६.८७ ।।

     अन्वयः-- स वचसाम् अन्ते अत्र इदं न्याय्यम् उत्तरम् इति बुद्ध्या विमृश्य मङ्गलाऽलंकृतां सुताम् आददे ।
     मल्लिo-- इदमिति । स हिमवान्वचसामन्ते मुनिवाक्यावसानेऽत्र मुनिवाक्य इदमुत्तरश्लोके वक्ष्यमाणं दानमेव न्याय्यं न्यायादनपेतमुत्तरमिति बुद्ध्या चित्तेन विमृश्य विचिन्त्य मङ्गलं यथा तथालंकृतां सुतामाददे हस्ताभ्यां जग्राह ।। ६.८७ ।।


एहि विश्वात्मने वत्से ! भिक्षासि परिकल्पिता ।
अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ।। ६.८८ ।।

     अन्वयः- हे वत्से ! एहि । त्वं विश्वात्मने भिक्षा परिकल्पिता असि । अर्थिनो मुनयः । मया गृहमेधिफलं प्राप्तम् ।
     मल्लिo- एहीति । हे वत्से पुत्रि ! एह्यागच्छ । त्वं विश्वात्मने शिवाय भिक्षा परिकल्पितासि निश्चितासि । `रत्नादिस्तम्बपर्यन्तं सर्वं भिक्षा तपस्विनः' । इति वचनादिति भावः । अर्थिनो याचितारो मुनयः । मया गृहमेधिनो गृहस्थस्य फलं प्राप्तम् । इह परत्र च तारकत्वात्पात्रे कन्यादानं गार्हस्थ्यस्य फलमित्यर्थः ।। ६.८८ ।।


एतावदुक्त्वा तनयामृषीनाह महीधरः ।
इयं नमति वः सर्वास्त्रिलोचनवधूरिति ।। ६.८९ ।।

     अन्वयः- महीधरः तनयाम् एतावत् उक्त्वा `इयं त्रिलोचनवधूः सर्वान् वो नमति' इति ऋषीन् आह ।
     मल्लिo- एतावदिति । महीधरो हिमवांस्तनयामेतावत्पूर्वोक्तमुक्त्वार्षीनाह-किमिति । इयं त्रिलोचनवधूस्त्र्यम्बकपत्नी वः सर्वान्नमतीति । त्रिलोचनवधूरितिसिद्धवदभिधानेनाविप्रतिपन्नं दानमिति सूचयति ।। ६.८९ ।।


ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः ।
आशीर्भिरेधयामासुः पुरःपाकाभिरम्बिकाम् ।। ६.९० ।।

     अन्वयः- ते ईप्सिताऽर्थक्रियोदारं गिरेः वचः अभिनन्द्य अम्बिकां पुरःपाकाभिः आशीर्भिः एधयामासुः ।
     मल्लिo- ईप्सितार्थेति । ते मुनयः । ईप्सितार्थक्रिययेष्टार्थकरणेनोदारं महत् । `उदारो दातृमहतोः' इत्यमरः । गिरेर्हिमवतो वचो वचनमभिनन्द्य साध्विति संस्तुत्याम्बिकामम्बाम् । पच्यत इति पाकः फलम् । पुरःपाकाभिः पुरस्कृतफलाभिराशीर्भिराशीर्वादैरेधयामासुः संवर्धयामासुः ।। ६.९० ।।


तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् ।
अङ्कमारोपयामास लज्जमानामरुन्धती ।। ६.९१ ।।

     अन्वयः- प्रणामादरस्रस्तजाम्बूनदवतंसकां लज्जमानां ताम् अरुन्धती अङ्कम् आरोपयामास ।
     मल्लिo- तामिति । प्रणामादरेण नमस्कारासक्त्या स्रस्ते जाम्बूनदे सुवर्णविकारौ वतंसके कनककुण्डले यस्यास्तां लज्जमानां तामम्बिकामरुन्धत्यङ्कमारोपयामास । `रुहः पोऽन्यतरस्याम्' इति पकारः ।। ६.९१ ।।


तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।
वरस्यानन्यपूर्वस्य विशोकामकरोद् गुणैः ।। ६.९२ ।।

     अन्वयः-- दुहितृस्नेहविक्लवाम् अश्रुमुखीं तन्मातरं च अनन्यपूर्वस्य वरस्य गुणैः विशोकाम् अकरोत् ।
     मल्लिo- तदिति । दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवां वियोक्ष्यत इति भीताम् । अत एवाश्रूणि मुखे यस्यास्तामश्रुमुखीं तस्या अम्बिकाया मातरं तन्मातरं मेनां च । अन्या पूर्वं यस्यास्ति सोन्यपूर्वः । `सर्वनाम्नो वृत्तिविषये पुंवद्भावः' इति पूर्वपदस्य पुंवद्भावः । स न भवतीत्यनन्यपूर्वस्तस्यानन्यपूर्वस्य । सापत्न्यदुःखमकुर्वत इत्यर्थः । वरस्य वोढुर्गुणैर्मृत्युंजयत्वादिभिर्विशोकां निर्दुःखामकरोत् ।। ६.९२ ।।


वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना ।
ते त्र्यहादूर्ध्वमाख्याय चेरुश्चीरपरिग्रहाः ।। ६.९३ ।।

     अन्वयः- चीरपरिग्रहाः ते तत्क्षणं हरबन्धुना वैवाहिकीं तिथिं पृष्टाः (सन्तः) त्र्यहात् ऊर्ध्वम् आख्याय चेरुः ।
     मल्लिo- वैवाहिकीमिति । चीरपरिग्रहा वल्कलमात्रवसनास्ते तपस्विनस्तत्क्षणं तस्मिन्नेव क्षणे हरबन्धुना हिमवता वैवाहिकीं विवाहयोग्यां तिथिं पृष्टाः केप्यनुयुक्ताः सन्तः । त्रयाणामह्नां समाहरस्त्र्यहः । `तद्धितार्थोत्तरपदसमाहारे च' इति समासः । `राजाहः सखिभ्यष्टच्' इति टच्प्रत्ययः । द्विगुत्वादेकवचनम् । `रात्राह्नाहाः पुंसि' इति पुलिङ्गता । तस्मात्त्र्यहादूर्ध्वमुपार्याख्याय चतुर्थेऽहनि विवाह इत्युक्त्वा चेरुश्चलिताः ।। ६.९३ ।।


ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ।। ६.९४ ।।

     अन्वयः- ते हिमालयम् आमन्त्र्य पुनः शूलिनं प्राप्य सिद्धम् अर्थम् अस्मै निवेद्य च तद्विसृष्टाः खम् उद्ययुः ।
     मल्लिo- त इति । ते मुनयो हिमालयमामन्त्र्य साधु यामेत्यापृच्छ्य पुनः शूलिनं हरं संकेतस्थानस्थं प्राप्य सिद्धं निष्पन्नमर्थं प्रयोजनमस्मै निवेद्य च प्रापयित्वा च तद्विसृष्टास्तेन शूलिना विसृष्ठाः खमाकाशं प्रत्युद्ययुरुत्पेतुः । अत्र संक्षिप्तार्थाभिधानात्संक्षेपो नाम गुण उक्तः । तदुक्तम्- `संक्षिप्तार्थाभिधानं यत्संक्षेपः परिकीर्तितः' इति ।। ६.९४ ।।


भगवान्पशुतिस्त्र्यहमात्रविलम्बमपि सोढुं न शशाक तदौत्सुक्यादित्याह-

पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ।। ६.९५ ।।

     अन्वयः- अद्रिसुतासमागमोत्कः पशुपतिः अपि तानि अहानि कृच्छ्रात् अगमयत् । अमी भावाः अवशम् अपरं कं न विप्रकुर्युः, यत् विभुं तम् अपि स्पृशन्ति ।
     मल्लिo- पशुपतिरिति । उत्कं मनो यस्य स उत्कः । `उत्क उन्मनाः' इति निपातः । अद्रिसुतासमागमोत्कः पार्वतीपरिणयोत्सुकः पशुपतिरपि तानि । त्रीणीति शेषः । अहानि कृच्छ्रादगमयदयापयत् । कविराह-अमी भावा औत्सुक्यादयः संचारिणोऽवशमिन्द्रियपरतन्त्रमपरं पृथग्जनं कं न विप्रकुर्युर्न विकारं नयेयुः । यद्यस्माद्विभुं समर्थम् । जितेन्द्रियमिति यावत् । तं स्मरहरमपि स्पृशन्ति । विकुर्वन्तीत्यर्थः । अत्र विभुविकारसमर्थनादर्थादितरजनविकारः । कैमुतिकन्यायायादापततीत्यर्थापत्तिरलंकारः । तथा च सूत्रम्- `दण्डापूपिकयार्थान्तरपतनमर्थापत्तिः' इति । अर्थान्तरन्यास इति । अर्थान्तरन्यास इति केचित्, तदुपेक्षणीयम् । युक्तिस्तु विस्तरभयान्नोच्यते । पुष्पिताग्रावृत्तम् `-अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' । इति लक्षणात् ।। ६.९५ ।।


इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया

संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे

महाकाव्ये उमाप्रदानो नाम षष्ठः सर्गः ।