कुमारसम्भवम् - मल्लिनाथः/पञ्चमः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← चतुर्थः सर्गः कुमारसम्भवम् - मल्लिनाथः
पञ्चमः सर्गः
कालिदासः
षष्ठः सर्गः →
पञ्चमः सर्गः


तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।

निनिन्द रुपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ।। ५.१ ।।

     अन्वयः- पार्वती तथा समक्षं मनोभवं दहता पिनाकिना भग्नमनोरथा सती हृदयेन रुपं निनिन्द ; हि चारुता प्रियेषु सौभग्यफला (भवति)।
     मल्लिo- तथेति ।। पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणाक्ष्णोः समीपे समक्षं पुरतः । `अव्ययं विभक्तिसमीपसमृद्धी-' त्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पिनाकिनेश्वरेण भग्नः खण्डितो मनोरथोऽभिलाषो यस्याः सा तथोक्ता सती हृदयेन मनसा रुपं सौन्दर्यं निनिन्द । `धिङ् मे रुपं यद्धरमनोहरणाय नालमिति गर्हितवतीत्यर्थः' । युक्तं चैतदित्याह-तथाहि । चारुता सैन्दर्यं प्रियेषु विषये सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते । नो चेद्विफलं तदिति भावः । अस्मिन्सर्गे वंशस्थं वृत्तम्- `जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ।। ५.१ ।।


इयेष सा कर्तुमबन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ।। ५.२ ।।

     अन्वयः- सा समाधिम् आस्थाय तपोभिः आत्मनः अवन्ध्यरूपतां कर्तुम् इयेष; अन्यथा तथाविधं प्रेम वा तादृशः पतिश्च द्वयं कथम् अवाप्यते ।
     मल्लिo- इयेषेति ।। सा पार्वती समाधिमेकाग्रतामास्थायावलम्ब्यतपोभिर्वक्ष्यमाणनियमैः करणभूतैरात्मनः स्वस्याबन्ध्यरुपतां सफलसौन्दर्यं कर्तुमियेषेच्छति स्म । तपसा शिवं वशीकर्तुमुद्युक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्‌द्वयमवाप्यते । किं तद्द्वयम् ? तथाभूता विधा प्राकारो यस्य तत्तथाविधं प्रेम स्नेहः येनार्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च । यो मृत्युंजय इति भावः । द्वयमेव खलु स्त्रीणामपेक्षितं यद्भर्तृवाल्लभ्यं जीवद्भर्तृकत्वं चेति । तच्च तपश्चर्यैकसाध्यमिति निश्चिकायेत्यर्थः । अत्र मनुः- `यद् दुष्करं यद् दुरापं यद् दुर्गं यच्च दुस्तरम् । तत्सर्व तपसा प्राप्यं तपो हि दुरतिक्रमम् ।।' इति ।। ५.२ ।।


निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् ।
उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ।। ५.३ ।।

     अन्वयः- मेना गिरीशप्रतिसक्तमानसां, तपसे कृतेद्यमां सुतां निशम्य एनां वक्षसा परिरभ्य महतो मुनिव्रतात् निवारयन्ती उवाच ।
     मल्लिo- निशम्येति ।। मेना मेनका च गिरीशप्रतिसक्तमानसां हरासक्तचित्तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वैनां पार्वतीं वक्षसा परिरभ्यालिङ्ग्य महतो मुनिव्रतात्तपसो निवारयन्त्युवाच । मुनिव्रतादित्यत्र यद्यपि मुनिव्रतस्य मेनकाया अनीप्सितत्वात् `वारणार्थानामीप्सितः इति नापादानत्वं तथापि कृतोद्यमामिति मानसप्रवेशोक्तत्वात् "ध्रुवमपायेऽपादानम्' इत्यपादानत्वमेव स्यात् । यथाह भाष्यकारः- `यच्च मिथ्या संप्राप्य निवर्तते तच्च ध्रुवमपायेऽपादानमिति प्रसिद्धम्' इति ।। ५.३ ।।


सामान्यनिषेधमुक्त्वा विशेषनिषेधमाह-

मनीषिताः सन्ति गृहेषु दैवतास्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पततत्त्रिणः ।। ५.४ ।।

     अन्वयः- `हे वत्से ! मनीषिता देवता गृहेषु सन्ति तपः क्व ? तावकं वपुश्च क्व ? पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत पतत्त्रिणः पुनः पदं न सहेत ।'
     मल्लिo- मनीषिता इति ।। हे वत्से ! मनस ईषिता इष्टा मनीषिताः । शकन्ध्वादित्वात्साधुः । देवताः शच्यादयो गृहेषु सन्ति । त्वं तामाराधयेति शेषः । तपः क्व तवेदं तावकम् । `युष्मदस्मदोरन्यतरस्यां खञ्च' इत्यण्प्रत्ययः । `तवकममकावेकवचन' इति तवकादेशः । वपुश्च क्व । तथाहि । पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत । पतत्त्रिणः पुनः पक्षिणस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योपभोगभोग्यं ते वपुर्न दारुणतपःक्षममित्यर्थः । अत्र द्दष्टान्तालंकारः ।। ५.४ ।।


इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् ।
क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ।। ५.५ ।।

     अन्वयः- इति अनुशासती मेना ध्रुवेच्छां सुताम् उद्यमात् नियन्तुं न शशाक; ईप्सिसाऽर्थस्थिरनिश्चयं मनो निम्नाऽभिमुखं पयश्च कः प्रतीपयेत् ।
     मल्लिo- इतीति ।। इत्येवमनुशासत्युपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां पार्वतीमुद्यमादुद्योगात्तपोलक्षणान्नियन्तुं न शशक समर्था नाभूत् । तथाहि । ईप्सितार्थ इष्टार्थे स्थिरनिश्चयं मनो निम्नाभिमुखं पयश्च कः प्रतीपयेत्प्रतिकूलयेत् । प्रतिनिवर्तयेदित्यर्थः । निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः । अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालंकारः ।। ५.५ ।।


कदाचिदासन्नसखीमुखेन मनोरथज्ञं पितरं मनस्विनी ।
अयाचितारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ।। ५.६ ।।

     अन्वयः- कदाचित् मनस्विनी सा मनोरथज्ञं पितरम् आसन्नसखीमुखेन फलोदयाऽन्ताय तपःसमाधये आत्मनः अरण्यनिवासम् अयाचत ।
     मल्लिo- कदाचिदिति ।। अथ कदाचिन्मन्स्विनी स्थिरचित्ता सा पार्वती मनोरथज्ञमभिलाषाभिज्ञं पितरं हिमवन्तमासन्नसख्याप्तसखी सैव मुखमुपायः । `मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि' इति विश्वः ।' तेन फलोदयः फलोत्पत्तिरन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थमात्मनःस्वस्यारण्यनिवासं वनवासमयाचत । `दुह्याच्-' इत्यादिना द्विकर्मकत्वम् ।। ५.६ ।।


अथानुरुपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत् ।। ५.७ ।।

     अन्वयः- अथ गौरी अनुरुपाऽभिनिवेशतोषिणा गरीयसा गुरुणा कृताऽभ्यनुज्ञा (सती) पश्चात् प्रजासु तदाख्यया प्रथितं शिखण्डिमत् शिखरं जगाम ।
     मल्लिo- अथेति ।। अथ गौर्यनुरुपेण योग्येनाभिनिवेशेनाग्रहेण तुष्यतीति तथोक्तेन गरीयसा पूज्यतमेन गुरुणा पित्रा कृताभ्यनुज्ञा तपः कुर्विति कृतानुमतिः सती पश्चात्तपःसिद्ध्युत्तरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया प्रथितम् । गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत् । न तु हिंस्रप्राणिप्रचुरमिति भावः । शिखरं श्रृङ्गं जगाम ययौ ।। ५.७ ।।


विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।
बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ।। ५.८ ।।

     अन्वयः- अहार्यनिश्चया सा विलोलयष्टिप्रविलुप्तचन्दनं हारं विमुच्य बालारुणबभ्रु पयोधरोत्सेधविशीर्णसंहति वल्कलं बबन्ध ।
     मल्लिo- विमुच्येति ।। अहार्यनिश्चया अनिवार्यनिश्चया सा गौरी विलालाभिश्चलाभिर्यष्टिभिः प्रतिसरैः प्रविलुप्तं प्रमुष्टं चन्दनं स्तनान्तगतं येन तं तथोक्तं हारं मुक्तावलीं विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गलं पयोधरयोः स्तनयोरुत्सेघेनोच्छ्रायेण विशीर्णा विघटिता संहतिरवयवसंश्लेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बिस्तनोत्तरीयभूतं बबन्ध । धारयामासेत्यर्थः ।। ५.८ ।।


यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् ।
न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ।। ५.९ ।।

     अन्वयः- तदाननं प्रसिद्धैः शिरोरुहैः यथा मधुरम् अभूत्, जटाभिः अपि एवम् अभूत् । पङ्कजं षट्पदश्रेणिभिः एव न (किन्तु) सशैवलासङ्गम् अपि प्रकाशते ।
     मल्लिo- यथेति ।। तस्या देव्या आननं तदाननं प्रसिद्धैर्भूषितैः । `प्रसिद्धौ ख्यातभूषितौ' इत्यमरः । रोहन्तीति रुहाः । "इगुपधज्ञाप्रीकिरः कः " इति कप्रत्ययः । शिरसि रुहास्तैः शिरोरुहैर्मूर्धजैर्यथा मधुरं प्रियमभूत् । "स्वादुप्रियौ तु मधुरौ" इत्यमरः । जटाभिरप्येवं मधुरमभूत् । तथाहि पङ्कजं पद्मं षट्पद्श्रेणिभिर्भ्रमरपङ्किभिरेव न किंतु सह शैवालसङ्गेन सशैवालसङ्गमपि । `तेन सहेति तुल्ययोग' इति बहुव्रीहिः । प्रकाशते । शैवलेनापि शोभत एवेत्यर्थः ।। ५.९ ।।


प्रतिक्षणं सा कृतरोमविक्रिया व्रताय मौञ्जीं त्रिगुणां वभार याम् ।
अकारि तत्पूर्वनिबद्धया तया सहागमस्या रसनागुणास्पदम् ।। ५.१० ।।

     अन्वयः- सा प्रतिक्षणं कृतरोमविक्रियां त्रिगुणा यां मौञ्जीं व्रताय बभार । तत्पूर्वनिबद्धया तया अस्या रसनागुणास्पदं सरागम् अकारि ।
     मल्लिo- प्रतीति । सा देवी प्रतिक्षणं क्षणे क्षणे कृतरोमविक्रियां पारुष्यात्कृतरोमाञ्चां त्रिगुणां त्रिरावृतां यां मौञ्जीं मुञ्जमयीं मेखलां व्रताय तपसे बभार । तदेव पूर्वं प्रथमं यस्य तत्पूर्वं यथा तथा निबद्धया तया मौञ्ज्यास्या देव्या रसनागुणस्यास्पदं स्थानं जघनम् । सह रागेण सरागं सलोहितमकारि कृतम् । सौकुमार्यातिशयादिति भावः ।। ५.१० ।।


विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ।। ५.११ ।।

     अन्वयः- तया विसृष्टरागात् अधरात् निवर्तितः स्तनाऽङ्गरागाऽरुणितात् कन्दुकाच्च निवर्तितः, कुशाऽङ्कुरादानपरिक्षताऽङ्गुलिः करः अक्षसूत्रप्रणयी कृतः ।
     मल्लिo- विसृष्टेति ।। तया देव्या विसृष्टरागात्त्यक्तलाक्षारसरञ्जनादधरादधरोष्ठान्निवर्तितः । `निसृष्टरागात्' इति पाठे नितरां त्यक्तलाक्षारागात् । रागत्यगेन निष्प्रयोजनत्वादिति भावः । तथा स्तनाङ्गरागेणारुणितादरुणीकृतात् । पतनसमये तस्य स्तनयोरुपरोधादिति भावः । कन्दुकाच्च निवर्तितः । कुशाङ्कुराणामादानेन लवनेन परिक्षता व्रणिता अङ्गुलयो यस्य स तथोक्तः करः पाणिरक्षसूत्रप्रणय्यक्षमालासहचरःकृतः ।।५.११ ।।


महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते ।
अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ।। ५.१२ ।।

     अन्वयः- या महाऽर्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैः अपि दूयते स्म, सा बाहुलतोपधायिनी (सती) केवले स्थण्डिले एव अशेत, निषेदुषी च ।
     मल्लिo- महार्हेति ।। महानर्हो मूल्यं यस्याः सा महार्हा श्रेष्ठा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतैर्भ्रष्टैः स्वकेशपुष्पैरपि या देवी दूयते स्म क्लिश्यते स्म । पुष्पाधिकसौकुमार्यादिति भावः । सा देवी बाहुलतामुपधत्त उपधानीकरोतीति बाहुलतोपधायिनी सती केवले संस्तरणरहिते स्थण्डिले भूमावेवाशेत शयितवती । तथा निषेदुष्युपविष्टा च । `क्वसुश्च' इति क्वसुः । `उगितश्च' इति ङीप् । भूमावेव शयनादिव्यवहारो न जातूपरीत्यर्थः ।। ५.१२ ।।


पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् ।
लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ।। ५.१३ ।।

     अन्वयः- नियमस्थया तया तन्वीषु लतासु विलासचेष्टितं हरिणाऽङ्गनासु विलोलदृष्टं च द्वयं द्वये अपि पुनः ग्रहीतुं निक्षेप इव अर्पितम् किमु ।
     मल्लिo-- पुनरिति ।। नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनर्ग्रहीतुं निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु । क्वचित् । `द्वयीषु' इति प्रामादिकः पाठः । कुत्र द्वये किं द्वयमर्पितमित्याह-तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु विलासदृष्टं चञ्चलावलोकितं च व्रतस्थायां तस्यां तयोरदर्शनाल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः ।। ५.१३ ।।


अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनप्रस्रवणैर्व्यवर्धयत् ।
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ।। ५.१४ ।।

     अन्वयः- सा स्वयम् एव अतन्द्रिता (सती) वृक्षकान् घदस्तनप्रस्रवणैः व्यवर्द्धयत्, गुहः अपि प्रथमाप्तजन्मनां येषां पुत्रवात्सल्यं न अपाकरिष्यति ।
     मल्लिo- अतन्द्रितेति ।। सा देवी स्वयमेवातन्द्रितासंजाततन्द्रा सती । तारकादित्वादितच्प्रययः । वृक्षकान्स्वल्पवृक्षान् । `अल्पे' इत्यल्पार्थे कप्रत्ययः । घटावेव स्तनौ तयोः प्रस्रवणैः प्रसृतपयोभिर्व्यवर्धयत् । गुहः कुमारोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् । अग्रजातानामित्यर्थः । येषां वृक्षकाणां संबन्धि पुत्रवात्सल्यं सुतप्रेम नापाकरिष्यति । उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः ।। ५.१४ ।।


अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः ।
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ।। ५.१५ ।।

     अन्वयः- अरण्यबीजाऽञ्जलिदानलालिता हरिणाश्च तस्यां तथा विशश्वसुः, यथा कुतूहलात् तदीयैः नयनैः लोचने सखीनां पुरः अमिमीत ।
     मल्लिo- अरण्येति ।। अरण्यबीजानां नीवारादीनामञ्जलयस्तेषां दानेन लालिता हरिणाश्च तस्यां देव्यां तथा विशश्वसुर्विस्रम्भं जग्मुः `समौ विस्रम्भविश्वासौ' इत्यमरः । यथा कुतूहलादौत्सुक्यात्तदीयैर्हरिण संबन्धिभिर्नयनैर्नेत्रैः । करणैः । स्वकीये लोचने सखीनां पुरः पुरतः अनेन तेषां संबन्धसहत्वमुक्तम् । अमिमीत । अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः । केचित्तु सा पार्वती तदीयैर्नेत्रैः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वात्मन इत्याहुः । `माङ् माने' इत्यस्माद्धातोर्लङ् । इयमेव खलु विश्वासस्य परा काष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः ।। ५.१५ ।।


कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् ।
दिदृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते ।। ५.१६ ।।

     अन्वयः- कृताऽभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीम् अधीतिनीं तां दिदृक्षवः ऋषयः अभ्युपागमन्, धर्मवृद्धेषु वयो न समीक्ष्यते ।
     मल्लिo - कृतेति । कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् । कृतहोमामित्यर्थः । त्वया वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगृत्तरासङ्गवतीम् । अधीतमस्या अस्तीत्यधीतिनीं स्तुतिपाठादि कुर्वतीम् । `इष्टादिभ्यश्च' इतीनिप्रत्ययः । तां देवीं दिदृक्षवो द्रष्टुमिच्छव ऋषयो मुनयोऽभ्युपागमन्समुपागताः । न चात्र कनिष्ठसेवादोष इत्याह-धर्मवृद्धेषु वयो न समीक्ष्यते न प्रमाणीक्रियते । सति धर्मज्यैष्ठ्ये वयोज्यैष्ठ्यं न प्रयोजकमित्यर्थः । तथा च मनुः- `न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ।।' इति ।। ५.१६ ।।


विरोधिसत्वोज्झ्तिपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि ।
नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् ।। ५.१७ ।।

     अन्वयः- विरोधिसत्वोज्झितपूर्वमत्सरं द्रुमैः अभीष्टप्रसवाऽर्चिताऽतिथि नवोटजाऽभ्यन्तरसंभृताऽनलं तच्च तपोवनं पावनं बभूव ।
     मल्लिo- विरोधीति ।। विरोधिभिः सत्त्वैर्गोव्याघ्रादिभिरुज्झितपूर्वमत्सरं त्यक्तपूर्ववैरम् । हिंसारहितमित्यर्थः । द्रुमैरभीष्टप्रसवेनेष्टफलेनार्चिताः पूजिता अतिथयो यस्मिंस्तत्तथोक्तम् । नवानामुटजानां पर्णशालानामभ्यन्तरेषु संभृताः संचिता अनला अग्नयो यस्मिंस्तत्तथोक्तं तच्च तपोवनम् । पावयतीति पावनं बभूव । अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः ।। ५.१७ ।।


यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काङ्क्षितम् ।
तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ।। ५.१८ ।।

     अन्वयः- सा यदा तावता पूर्वसमाधिना काङ्क्षितं फलं लभ्यं न अमंस्त, तदा स्वशरीरमार्दवम् अनपेक्ष्य महत् तपः चरितुं प्रचक्रमे ।
     मल्लिo- यदेति ।। सा देवी यदा यस्मिंन्काले तावता तावत्प्रमाणेन पूर्वतपःसमाधिना पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काङ्क्षितं फलं लभ्यं लब्धुं शक्यं नामंस्त । अशक्यममंस्तेत्यर्थः । तदा तत्काले । अविलम्बेनेत्यर्थः । स्वशरीरस्य मार्दवं मृदुत्वं सौकुमार्यमनपेक्ष्याविगणय्य महद् दुश्चरं तपश्चरितुं साधयितुं प्रचक्रम उपचक्रमे ।। ५.१८ ।।


क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत ।
ध्रुवं वपुः कञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ।। ५.१९ ।।

     अन्वयः- या कन्दुकलीलया अपि क्लमं ययौ, सा मुनीनां चरितं व्यागाह्यत । ध्रुवम् अस्या वपुः काञ्चनपद्मनिर्मितं, (यत्) प्रकृत्या मृदु ससारम् एव च ।
     मल्लिo- क्लममिति ।। या देवी कन्दुकलीलया कन्दुकक्रीडयापि क्लमं ययौ ग्लानिं प्राप तया देव्या मुनीनां चरितं तीव्रं तपो व्यगाह्यत प्रविष्टम् । अत्रोत्प्रेक्षते-ध्रुवमस्या वपुः काञ्चनपद्मेन सुवर्णकमलेन निर्मितं घटितम् । अत एव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन ससारं च कठिनमेव । तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्थापि तीव्रतपःक्षमत्वमित्युत्प्रेक्षार्थः ।। ५.१९ ।।


शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा ।
विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ।। ५.२० ।।

     अन्वयः- शुचौ शुचिस्मिता सुमध्यमा ज्वलतां चतुर्णां हविर्भुजां मध्यगता (सती) नेत्रप्रतिघातिनीं प्रभां विजित्य अनन्यदृष्टिः (सती) सवितारम् ऐक्षत ।
     मल्लिo- शुचाविति ।। शुचौ ग्रीष्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णां हविर्भुजामग्नीनां मध्यगता सती । नेत्रे प्रतिहन्तीति तां नेत्रप्रतिघातिनीं प्रभां सावित्रं तेजो विजित्य न विद्यतेऽन्यत्र दृष्टिर्यस्याः सानन्यदृष्टिः सती सवितारं सूर्यमैक्षत ददर्श । `ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः' इति स्मरणात् । पञ्चाग्निमध्ये तपश्चचारेत्यर्थः तत्र सवितैव पञ्चमोऽग्निः- `अग्निः सविता सवितैवाग्रिः' इति श्रौतलिङ्गात् ।। ५.२० ।।


तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ ।
अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ।। ५.२१ ।।

     अन्वयः- सवितुः गभस्तिभिः तथा अतितप्तं तदीयं मुखं कमलश्रियं दधौ, अस्य दीर्घयोः अपाङ्गयोः शनैः शनैः श्यामिकया पदं कृतम् ।
     मल्लिo- तथेति ।। सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूवोक्तप्रकारेणातितप्तं संतप्तं तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न म्लायति प्रत्युत विकसति तथा तदीयं मुखमासीदिति भावः । किन्त्वस्य मुखस्य दीर्धयोरपाङ्गयोः केवलं नेत्रान्तयोरेव शनैर्मन्दंमन्दं श्यामिकया कालिम्ना पदं स्थानं कृतम् । तयोः सौकुमार्यादित्यर्थः ।। ५.२१ ।।


अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः ।
बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः ।। ५.२२ ।।

     अन्वयः- अयाचितोपस्थितं केवलम् अम्बु रसात्मकस्य उडुपतेः रश्मयश्च तस्याः पारणाविधिः बभूव किल, वृक्षवृत्तिव्यतिरिक्तसाधनः पारणाविधिः न बभूव ।
     मल्लिo- अयाचितेति ।। अयाचितोपस्थितमप्रार्थितोपनतं केवलमम्बूदकं रसात्मकस्यामृतमयस्योडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणाविधिरभ्यवहारकर्म बभूव । तावन्मात्रसाधनकोऽभूदित्यर्थः । साध्यसाधनयोरभेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः । किलेति प्रसिद्धौ । वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्यतिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिर्न बभूव । वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् । अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः ।। ५.२२ ।।


निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन सा ।
तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ।। ५.२३ ।।

     अन्वयः- विविधेन नभश्चरेण इन्धनसंभृतेन वह्निना निकामतप्ता सा तपाऽत्यये नवैः वारिभिः उक्षिता (सती) भुवा सह ऊर्ध्वगम् ऊष्माणम् अमुञ्चत् ।
     मल्लिo- निकामेति । विविधेन पञ्चविधेनेत्यर्थः । नभश्चरेण खेचरेण । आदित्यरुपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना निकाममत्यन्तं तप्ता साम्बिका तपात्यये ग्रीष्मान्ते । प्रावृषीत्यर्थः । नवैर्वारिभिरुक्षिता सिक्ता सती भुवा पञ्चाग्नितप्तया सहोर्ध्वगमूष्माणं वाष्पममुञ्चत् । `ग्रीष्मोष्मवाष्पमूष्माणम्' इति यादवः ।। ५.२३ ।।


स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ।। ५.२४ ।।

     अन्वयः- प्रथमोदबिन्दवः तस्याः पक्ष्मसु क्षणं स्थिताः ताडिताऽधराः पयोधरोत्सेधनिपातचूर्णिताः वलीषु स्खलिताः सन्तः चिरेण नाभिं प्रपेदिरे ।
     मल्लिo- स्थिता इति ।। उदकस्य बिन्दव उदबिन्दवः । `मन्थौदन-' इत्यादिनोदकशब्दस्योदादेशः । प्रथम उदबिन्दवः । प्रथमविशेषणाद्विन्दूनां विरलत्वं बहुवचनान्नातिविरलत्वं च गम्यते । तथा च चिरत्वनाभ्यन्तरगमनयोर्निर्वाहः । तस्याः पार्वत्याः पक्ष्मसु नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः । स्थिता इत्यनेन पक्ष्मणां सान्द्रत्वं क्षणमिति स्नैग्ध्यं च गम्यते । अनन्तरं ताडितो व्यथितोऽधर ओष्ठो यैस्तैस्तथोक्तैः एतेनाधरस्य मार्दवं गम्यते । ततः पयोधरयोः स्तनयोरुत्सेध उपरिभागे निपातेन पतनेन चूर्णिता जर्जरिताः कुचकाठिन्यादिति भावः । तदनु वलीषूदररेखासु स्खलिताः । निम्रोन्नतत्वादिति भावः । इत्थं चिरेण न तु शीघ्रम् । प्रतिबन्धबाहुल्यादिति भावः । नाभिं प्रपेदिरे प्रविष्टा न तु निर्जग्मुः । एतेन नाभेर्गाम्भीर्यं गम्यते । अत्र प्रतिपदमर्थवत्त्वात्परिकरालंकारः ।। ५.२४ ।।


शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु ।
व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः ।।५.२५ ।।

     अन्वयः- निरन्तरासु अन्तरवातवृष्टिषु अनिकेतवासिनीं शिलाशयां तां महातपः साक्ष्ये स्थिता इव क्षपाः तडिन्मयैः उन्मिषितैः व्यलोकयन् इव ।
     मल्लिo- शिलाशयामिति । निरन्तरासु नीरन्ध्रास्वन्तरे मध्ये वाती यासां तादृश्यो या वृष्टयस्तास्वन्तरवातवृष्टिषु । न निकेते गृहे वसतीत्यनिकेतवासिनीम् । अनावृतदेशवासिनीमित्यर्थः । शिलायां शेत इति शिलाशयां शिलातलशायिनीम् । `अधिकरणे शेतेः' इत्यच्प्रत्ययः । तां पार्वतीं `साक्षाद्द्रष्टा साक्षी' । `साक्षाद्‌द्रष्टरि संज्ञायाम्' इति निप्रत्ययः । तस्य कर्म साक्ष्यं महातपसः साक्ष्ये स्थिताः क्षपास्तडिन्मयैर्विद्युद्द्रूपैतैरवलोकनैर्व्यलोकयन्निव । इवेति चक्षुषा विलोकनमेवोत्प्रेक्ष्यते । साक्ष्यं तु `आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ।।' इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसंधेयम् ।। ५.२५ ।।


निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा ।
परस्पराक्रन्दिनि चक्रवाकयोः पुरा वियुक्ते मिथुने कृपावती ।। ५.२६ ।।

     अन्वयः- सा अत्यन्तहिमोत्किराऽनिलाः सहस्यरात्रीः उदवासतत्परा परस्पराक्रन्दिनि पुरो वियुक्ते चक्रवाकयोः मिथुने कृपावती सती निनाय ।
     मल्लिo- निनायेति । सा पार्वती । उत्किरन्ति क्षिपन्तीत्युत्किराः । `इगुपधज्ञा-' इत्यादिना कः । अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पौषरात्रीः । `पौषे तैषसहस्यौ द्वौ' इत्यमरः । उदके वास उदवासः `पेषंवासवाहनधिषु च' इत्युदादेशः । उदवासे तत्परा आसक्ता तथा परस्परमाक्रन्दिन्यन्योन्यमाक्रोशिनि पुरोऽग्रे वियुक्ते विरहिणि । वियोगं प्राप्त इति यावत् । चक्रवाकी च चक्रवाकश्च चक्रवाकौ तयोश्चक्रवाकयोर्मिथुने द्वन्द्वे कृपावती सती निनाय । दुःखिषु कृपालुत्वं महतां स्वभाव इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः । `अप्सु वासस्तु हेमन्ते क्रमशो वर्धयेत्तपः' । इति मनुः ।। ५.२६ ।।


मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्त्रशोभिना ।
तुषारवृष्टिक्षतपद्मसंपदां सरोजसंधानमिवाकरोदपाम् ।। ५.२७ ।।

     अन्वयः- सा निशि पद्मसुगन्धिना प्रवेपमानाऽधरपत्त्रशोभिना मुखेन तुषारवृष्टिक्षतपद्मसम्पदाम् अपां सरोजसन्धानम् अकरोत् इव ।
     मल्लिo- मुखेनेति । सा पार्वती निशि रात्रौ पद्मवत्सुगन्धिना सुरभिणा । `गन्धस्येत्-' इत्यादिनेकारः । प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्त्रं दलं तेन शोभत इति तथोक्तेन मुखेन तुषारवृष्ट्या तुहिनवर्षेण क्षता नाशिताः पद्मसंपदो यासां तासामपां सरोजसंधानं पद्मसंघट्टनमकरोदिव । इत्युत्प्रेक्षालंकारः पद्मान्तरं तुहिनेनोपहन्यते तन्मुखपद्मं तु न तथेति व्यतिरेकालंकारो व्यज्यत इत्युभयोः संकरः ।। ५.२७ ।।


स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः ।
तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ।। ५.२८ ।।

     अन्वयः- स्वयं विशीर्णद्रुमपर्णवृत्तिता तपसः परा काष्ठा हि । तया पुनः तद् अपि अपकीर्णम्, अतः तां पार्वतीं पुराविदः `अपर्णा' इति च वदन्ति ।
     मल्लिo-स्वयमिति । स्वयं विशीर्णानि स्वतश्च्युतानि द्रुमपर्णान्येव वृत्तिर्जीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्ठा परमुत्कर्षो हि । `काष्ठोत्कर्षे स्थितौ दिशि' इत्यमरः । तया देव्या पुनस्तत्पर्णवर्तनमप्यपाकीर्णमपाकृतम् । अतः पर्णापाकरणाद्धेतोः । प्रियं वदतीति प्रियंवदा । "प्रियवशे वदः खच्" इति खच् प्रत्ययः । "अरुद्विषदजन्तस्य मुम्" इति मुमागमः । तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणसमये अविद्यमानं पर्णभक्षणं यस्याः सापर्णेति वदन्ति । नामान्तरसमुच्चयार्थश्चाकारः । अत्र`अपर्णाम्' इत्यपपाठः इति शब्दाभिहितद्वितीयानुपपत्तेः । यथाह वामनः- `निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्' इति । स्वयं प्रियंवदाः परेशामपि प्रियवादभाजनानि भवन्तीति भावः ।। ५.२८ ।।


मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् ।
तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ।। ५.२९ ।।

     अन्वयः- मृणालिकापेलवं स्वम् अङ्गम् एवमादिभिः व्रतैः अहर्निशं ग्लपयन्ती सा कठिनैः शरीरैः उपार्जितं तपस्विनां तपः दूरम् अधश्चकार ।
     मल्लिo- मृणालिकेति । मृणालिकापेलवं पद्मिनीकन्दकोमलं स्वं स्वकीयमङ्गं शरीमेवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्व्रतेरहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावः, अत्यन्तसंयोगे द्वितीया । ग्लपयन्ती कर्शयन्ती सा पार्वती कठिनैः क्लेशसहैरित्यर्थः । शरीरैरुपार्जितं संपादितं तपस्विनामृषीणां तपो दूरमत्यन्तमधश्चकार तिरश्चकार । अतिशिश्य इत्यर्थः । तपस्विभिरप्यवं तपः कर्तुं न शक्यत इति तात्पर्यार्थः ।। ५.२९ ।।


अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमे यथा ।। ५.३० ।।

     अन्वयः-- अथ अजिनाषाढधरः प्रगल्भवाक् ब्रह्ममयेन तेजसा ज्वलन् इव कश्चित् जटिलः शरीरबद्धः प्रथमाश्रमे यथा तपोवनं विवेश ।
     मल्लिo- अथेति । अथानन्तरमजिनं कृष्णमृगत्वक् । आषाढः प्रयोजनमस्येत्याषाढः पालाशदण्डः । `पालाशो दण्ड आषाढः' इत्यमरः । `विशाखाषाढादण्मन्थदण्डयोः' इत्यण्प्रत्ययः । तयोर्धरस्तथोक्तः प्रगल्भवाक्प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजसा । ब्रह्मवर्चसेनेत्यर्थः । ज्वलन्निव स्थितः । इवशब्दो निर्धारणार्थः । कश्चिदनिर्दिष्टो जटिलो जटावान् । ब्रह्मचारीति शेषः । पिच्छादित्वादिलच्प्रत्ययः । शरीरबद्धो बद्धशरीरः । शरीरवानित्यर्थः । वाहिताग्न्यादिषु पाठात्साधुः । प्रथमाश्रमो यथा ब्रह्मचर्याश्रम इव यथाशब्द इवार्थे । तपोवनम् । देव्या इति शेषः । विवेश प्रविष्टवान् ।। ५.३० ।।


तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती ।
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ।। ५.३१ ।।

     अन्वयः- आतिथेयी पार्वती तं बहुमानपूर्वया सपर्यया प्रत्युदियाय । सम्येऽपे निविष्टचेतसां वपुर्विशेषेपु अति गौरवाः क्रिया भवन्ति ।
     मल्लिo- तमिति । अतिथिषु साध्व्यातिथेयी । `पथ्यतिथी-' त्यादिना ढञ्प्रत्ययः । `टिढ्ढाणञि'-त्यादिना ङीप् । पार्वती तं ब्रह्मचारिणं बहुमानपूर्वया । बहुमानः पूर्वो यस्यास्तया । गौरवपूर्वयेत्यर्थः । सपर्ययार्चया `सपर्यार्चार्हणाः समाः' इत्यमरः । प्रत्युदियाय प्रत्युज्जगाम । कथं समानेऽपि तस्यास्तदृशी प्रतिपत्तिरत आह-साम्ये सत्यपि निविष्टचेतसां स्थरचित्तानां वपुर्विशेषेषु व्यक्तिविशेषेष्वतिशयितं गौरवं यासु ता अतिगौरवसहिताः क्रियाश्चेष्टा भवन्ति । प्रवर्तन्त । इत्यर्थः । साधवो न साम्याभिनिवेशिन इति भावः ।। ५.३१ ।।


विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् ।
उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ।। ५.३२ ।।

     अन्वयः- स विधिप्रयुक्तां सत्क्रियां परिगृह्य क्षणं परिश्रमं च विनीय नाम उमाम् ऋजुना एव चक्षुषा पश्यन् अनुज्झितक्रमः (सन्) वक्तुं प्रचक्रमे ।
     मल्लिo- विधीति । स ब्रह्मचारी विधिना प्रयुक्तामनुष्ठितां सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं च विश्रामं च विनीय नामेत्यपरमार्थे । अथोमामृजुनैव विलासरहितेनैव चक्षुषा पश्यन्ननुज्झितक्रमोऽत्यक्तोचितपरिपाटीकः सन् । वक्तुं प्रचक्रमे प्रारेभे ।। ५.३२ ।।


अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ।। ५.३३ ।।

     अन्वयः- (हे पार्वति !) क्रियाऽर्थं समित्कुशं सुलभम् अपि ? जलानि ते स्नानविधिक्षमाणि अपि ? स्वशक्त्या तपसि प्रवर्तसे अपि ? शरीरम् आद्यं धर्मसाधनम् खलु ।
     मल्लिo- अपीति । अत्रापिशब्दः प्रश्ने । क्रियार्थ होमादिकर्मनुष्ठानार्थम् । समिधश्च कुशाश्च समित्कुशम् । `जातिरप्राणिनाम्' इति द्वन्द्वैकवद्भावः । सुलभमपि सुलभं कच्चित् । जलानि ते तव स्नानविधिक्षमाणि स्नानक्रियायोग्यान्यपि कच्चित् । किञ्च स्वशक्त्या निजसामर्थ्यानुसारेण तपसि प्रवर्तसेऽपि । देहमपीडयित्वा तपश्चरसि कच्चिदित्यर्थः । युक्तं च नामैतत् । खलु यस्माच्छरीमाद्यं धर्मसाधनम् । धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहिभिः साध्यते तेषु च वपुरेव मुख्यं साधनम् । सति देहे धर्मार्थकाममोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते । अतएव `सततमात्मानमेव गोपायीत' इति श्रुतिः ।। ५.३३ ।।


अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् ।
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ।। ५.३४ ।।

     अन्वयः-- (हे पार्वति !) त्वदावर्जितवारिसंभृतम् आसां वीरुधां प्रवालम् अनुबन्धि अपि ? यत् चिरोज्झिताऽलक्तकपाटलेन ते दन्तवाससा तुलाम् आरोहति ।
     मल्लिo-- अपीति । त्वयावर्जितेन सिक्तेन वारिणा संभृतं जनितमासां वीरुधां लतानां प्रवाल पल्लवमनुबन्ध्यप्यनुस्यूतं किम् । यत्प्रवालं चिरोज्झितश्चिरकालत्यक्तो लाक्षारागो येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्तकपाटलेन ते तव दन्तवाससाधरेण । `ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । तुलां साम्यमारोहति । गच्छतीत्यर्थः । अत्र तुलाशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि `तुल्यार्थैरतुलोपमाभ्यामि'- ति न तृतीयाप्रतिषेधस्तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति ।। ५.३४ ।।


अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।
य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते ।। ५.३५ ।।

     अन्वयः-- (हे पार्वति !) करस्थदर्भप्रणयाऽपहारिषु हरिणेषु ते मनः प्रसन्नम् अपि ? हे उत्पलाक्षि ! ये प्रचलैः विलोचनैः तव अक्षिसादृश्यं प्रयुञ्जते इव ।
     मल्लिo- अपीति । करस्थान्दर्भान्प्रणयेन स्नेहेनापहरन्तीति ते तथोक्तेषु । सापराधेष्विति भावः । `करस्थदर्भप्रणयापराधिषु' इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु हरिणेषु विषये ते मनः प्रसन्नमपि ? न क्षुभितं किम् । सापराधेध्वपि न कोपितव्यं तपस्विभिरिति भावः । हे उत्पलाक्षि, ये हरिणाः प्रचलैश्चञ्चलैर्विलोचनैर्नेत्रैस्तवाक्षिसादृश्यं प्रयुञ्जत इवाभिनयन्तीव । प्रसन्नत्वान्मृगनेत्राणि त्वन्नयनैः साम्यमुपयान्तीति भावः । `उत्पलक्षेपचलैः' इति पाठान्तर उत्पलकम्पचलैः । भावानयने द्रव्यानयनमिति न्यानेन क्षिप्यमाणोत्पलचलैरित्यर्थः ।। ५.३५ ।।


यदुच्यते पार्वति ! पापवृत्तये न रुपमित्यव्यभिचारि तद्वचः ।
तथाहि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशातां गतम् ।। ५.३६ ।।

     अन्वयः- हे पार्वति ! `रुपं पापवृत्तये न' इति यत् उच्यते, तद् वचः अव्यभिचारि । तथाहि हे उदारदर्शने ! ते शीलं तपस्विनाम् अपि उपदेशतां गतम् ।
     मल्लिo- यदिति । हे पार्वति ! रुपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवतीति यदुच्यते । लोकैरिति शेषः । तद्वचो न व्यभिचरति न स्खलतीत्यव्यभिचारि सत्यम् । `यत्राकृतिस्तत्र गुणाः' `न सुरुपाः पापसमाचारा भवन्ति' इत्यादयो लोकवादा न विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते-तथाहि । हे उदारदर्शने आयताक्षि ! सुरूपे इत्यर्थः । अथवोन्नतज्ञाने । विवेकवतीत्यर्थः । ते तव शीलं सद्वृत्तम् । `शीलं स्वभावे सद्वृत्ते' इत्यमरः । तपस्विनामप्युपदिश्यतेऽनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम् । मुनयोऽपि, त्वां वीक्ष्य स्ववृत्तै प्रवर्तन्त इति भावः ।। ५.३६ ।।


विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्युतैः ।
यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ।। ५.३७ ।।

     अन्वयः- एष महीधरो यथा अनाविलैः त्वदीयैः चरितैः साऽन्वयः पावितस्तथा विकीर्णसप्तर्षिबलिप्रहासिभिः दिवः च्युतैः गाङ्गैः सलिलैः न पावितः ।
     मल्लिo- विकीर्णेति । एष महीधरो हिमवान् । सप्त च ते ऋषयश्च सप्तर्षयः । `दिक्संख्ये संज्ञायाम्' इति समासः । विकीर्णैः पर्यस्तैः सप्तर्षीणां सम्बन्धिभिर्वलिभिः पुष्पोपहारैः प्रहसन्ति यानि तथोक्तैर्दिवोऽन्तरिक्षाच्च्युतैर्गाङ्गैः सलिलैस्तथा न पावितः । अनाविलैरकलुषैस्त्वदीयैश्चरितैर्यथा सान्वयः सपुत्रपौत्रः पावितः पवित्रीकृतः ।। ५.३७ ।।


अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ! ।
त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ।। ५.३८ ।।

     अन्वयः-- हे भाविनि ! यत् मनोनिर्विषयाऽर्थकामया त्वया एको धर्म एव प्रतिगृह्य सेव्यते, अनेन अद्य मे धर्मः सविशेषं त्रिवर्गसारः प्रतिभाति ।
     मल्लिo- अनेनेति । हे भाविनि प्रशास्ताभिप्राये ! अनेन कारणेन धर्मः सविशेषं सातिशयमद्य मे । त्रयाणां धर्मकामार्थानां वर्गस्त्रिवर्गः) । `त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समीक्षकैः' । इत्यमरः । तत्र सारः श्रेष्ठः प्रतिभाति । यद्यस्मात्कारणान्मनसो निर्विषयावर्थकामौ यस्यास्तया त्वयैको धर्म एव प्रतिगृह्य स्वीकृत्य सेव्यते। यत्त्वयार्थकामौ विहाय धर्म एवावलम्बितः, अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत इत्यर्थः ।। ५.३८ ।।


सम्प्रति मनोरथं जिज्ञासुः प्रस्तौति-

प्रयुक्तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि ।
यतः सतां संनतगात्रि ! संगतं मनीषिभिः साप्तपदीनमुच्यते ।। ५.३९ ।।

     अन्वयः- हे सन्नतगात्रि ! यतो मनीषिभिः सतां सङ्गतं साप्तपदीनम् उच्यते, (अतः) आत्मना प्रयुक्तसत्कारविशेषं मां परं संप्रतिपत्तुं न अर्हसि ।
     मल्लिo- प्रयुक्तेति । आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं मां परमन्यं संप्रतिपत्तुमवगन्तुं नार्हसि । हे संनतगात्रि संनताङ्गि ! `अङ्गगात्रकण्ठेभ्यः' इति वक्तव्यान्ङीप् । यतः कारणान्मनस ईषिभिर्मनीषिभिर्विद्वद्भिः । शकन्ध्वादित्वात्साधुः । सतां संगतं सख्यं सप्तभिः पदैरापद्यत इति साप्तपदीनं सप्तपदोच्चारणसाध्यमुच्यते । ततश्चावयोस्त्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः । `साप्तदीनं सख्यम्' इति निपातनात्साधु ।। ५.३९ ।।


अतोत्र किंचिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः ।
अयं जनः प्रष्टुमनास्तपोधने ! न चेद्रहस्यं प्रतिवक्तुमर्हसि ।। ५.४० ।।

     अन्वयः- हे तपोधने ! अतः अत्र बहुक्षमां भवतीं द्विजातिभावात् उपपन्नचापलः अयं जनः किञ्चित् प्रष्टुमनाः; रहस्यं न चेत् प्रतिवक्तुम् अर्हसि ।
     मल्लिo-- अत इति । हे तपोधने ! अतः सख्याद्धेतोरत्र बहुक्षमाम् । बहूक्तिसहाम् यद्वा क्षमावतीम् । भवतीं त्वां द्विजातिभावाद् ब्राह्मणत्वादुपपन्नचापलः सुलभधार्ष्ट्योऽयं जनः । स्वयमित्यर्थः । किंचित्प्रष्टुं मनो यस्य स किञ्चित्प्रष्टुमनाः प्रष्टुकामः । `तुं काममनसोरपी' ति मकारलोपः । रहसि भवं रहस्यं गोप्यं न चेत्प्रतिवक्तुमर्हसि ।। ५.४० ।।


प्रष्टव्यमाह-

कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
अमृग्यमैश्र्वर्यसुखं, नवं वयस्तपःफलं स्यात्किमतः परं वद ।। ५.४१ ।।

     अन्वयः- प्रथमस्य वेधसः कुले प्रसूतिः, वपुः त्रिलोकसौन्दर्यम् इव उदितम्, ऐश्वर्यसुखम् अमृग्यं, नवं वयः, अतः परं किं तपः फलं ? वद ।
     मल्लिo- कुल इति । प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्ववाये प्रसूतिरुत्पत्तिः । `यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः' इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रयाणां लोकानां सौन्दर्यमिवोदितमेकत्र समाहृतम् ऐश्वर्यसुखं संपत्सुखममृग्यमन्वेषणीयं न भवति । किन्तु सिद्धमेवेत्यर्थः । वयो नवम् । यौवनमित्यर्थः । अतः परमतोऽन्यत्किं तपःफलं स्याद्वद । अस्ति चेदिति शेषः । किञ्चिदस्तीत्यर्थः ।। ५.४१ ।।


भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी ।
विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि ! त्वयि ।. ५.४२ ।।

     अन्वयः- दुःसहात् अनिष्टात् अपि मनस्विनीनाम् ईदृशी प्रतिपत्तिः भवति नाम । हे कृशोदरि ! विचारमार्गप्रहितेन चेतसा तच्च त्वयि न दृश्यते ।
     मल्लिo- भवतीति ।। दुःसहात्सोढुमशक्यादनिष्टाद्भर्त्रादिकृतादपि मनस्विनीनां धीरस्त्रीणामीदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । `प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये' इति केशवः । भवति नाम । नामेति सम्भावनायाम् । विचारमार्गे प्रहितेन चेतसा चित्तेन तदनिष्टं च । हे कृशोदरि ! त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसम्भावितत्वादित्यर्थः ।। ५.४२ ।।


अनिष्टाभावमेव प्रपञ्चयति-

अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु ! कुतः पितुर्गृहे ।
पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ।। ५.४३ ।।

     अन्वयः- हे सुभ्रु ! इयम् आकृतिः अलभ्यशोकाऽभिभवा । पितुः गृहे विमानना कुतः ? पराऽभिमर्शः तव न अस्ति, पन्नगरत्नसूचये कः करं प्रसारयेत् ?
     मल्लिo-अलभ्येति । हे सुभ्रु ! इयं त्वदीयाकृतिर्मूर्तिरलभ्यो लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता । दृश्यत इति शेषः । असम्भावितश्चायमर्थ इत्याह-पितुर्गृहे विमाननावमानः कुतः । न सम्भाव्यत एवेत्यर्थः । `सुभ्रु ! कुतस्तातगृहेऽवमाननम्' इति पाठान्तरकरणं तु साध्वसमेवोक्तोपपत्तिसम्भवात् । अन्यत्रापि `सुभ्रु ! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्' । इत्यादिप्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेत्यलं गोष्ठीभिः । न चान्यस्माद्भावीत्याह-पराभिमर्शः परघर्षणं तु तव नास्ति । पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । `क्रियार्थोपददस्य च कर्मणि स्थानिनः' इति चतुर्थी । करं हस्तं कः प्रसारयेत् `सुभ्रु' इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् `नेयङुवङ्स्थानावस्त्री' इति नदीसंज्ञाप्रतिषेधात्, "अम्बार्थनद्योर्ह्रस्वः" इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु `अप्राणिजातेश्चारज्ज्वादीनाम्' इत्यत्र `अलाबूः' `कर्कन्धूः' इत्युकारन्तस्याप्यूङ्प्रत्ययमुदाजहार भाष्यकारः । एतस्मादेव ज्ञापकात्क्वचिदूकारन्तस्याप्यूङन्तत्वान्नदीत्वे ह्रस्वत्वमित्याहुः । अतएवाह वामनः- `ऊकारादप्यूङ्प्रकृतेः' इति ।। ५.४३ ।।


किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ।। ५.४४ ।।

     अन्वयः-(हे गौरि !) किमिति यौवने त्वया आभरणानि अपास्य वार्धकशोभि वल्कलं धृतम् ? प्रदोषे स्फुटचन्द्रतारका विभावरी अरुणाय कल्पते यदि ? वद ।
     मल्लिo- किमितीति । हे गौरि ! किमिति केन हेतुना यौवने त्वयाभरणान्यपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वाद् वुञ्प्रत्ययः । `वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि' । इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् । प्रदोषे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिररुणाय सूर्याय कल्पते यद्यरुणं गन्तुं कल्पते किम् । वद ब्रूहि । `क्रियार्थोपपदस्ये-' त्यादिना चतुर्थी । दीप्यमानशशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं संघटत इति भावः ।। ५.४४ ।।


तपःप्रयोजनं निराकर्तुमाह-

दिवं यदि प्रार्थयसे वृथा श्रमः, पितुः प्रदेशास्तव देवभूमयः ।
अथोपयन्तारमलं समाधिना, न रत्नमन्विष्यति मृग्यते हि तत् ।। ५.४५ ।।

     अन्वयः- दिवं प्रार्थयसे यदि (तर्हि) श्रमो वृथा । तव पितुः प्रदेशा देवभूमयः । अथ उपयन्तारं प्रार्थयसे यदि (तर्हि) समाधिना अलम् । हि रत्नं न अन्विष्यति तत् मृग्यते ।
     मल्लिo- दिवमिति ।। दिवं स्वर्गं प्रार्थयसे कामयसे यदि तर्हि श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे ततः श्रमं मा कार्षीः । तव पितुर्हिमवतः प्रदेशा देवभूमयः स्वर्गपदार्थाः इत्यर्थः । अथोपयन्तारं वरं प्रार्थयसे तर्हि समाधिना तपसालम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया । तथाहि । रत्नं कर्तृ । नान्विष्यति न मृगयते । ग्रहीतारमिति शेषः । किंतु तद्रत्नं मृग्यते ग्रहीतृभिरिति शेषः । न हि वरार्थं त्वया तपसि वर्तितव्यं किंतु तेनैव त्वदर्थमिति भावः ।। ५.४५ ।।


वरवाचकाक्षरश्रवणानन्तरमेव देव्या उष्णोच्छ्वासमालक्ष्य प्रश्नेषु च प्रत्युत्तरमनुपलभ्य स्वयमेवाशङ्क्याह-

निविदेतं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते ।
न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ।। ५.४६ ।।

     अन्वयः- सोष्मणा निःश्वसितेन निवेदितं, मे मनस्तु संशयम् एव गाहते, ते प्रार्थयितव्य एव न दृश्यते, प्रार्थितदुर्लभः कथं भविष्यति ?
     मल्लिo-- निवेदितमिति ।। सोष्मणा निश्वसितेन निश्वासवायुना निवेदितम् । चिन्तानुभावेनोष्णौच्छ्वासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसनेनेत्याह-मनस्तु तथापि मे संशयमेव गाहते प्राप्नोति । कुतः ? ते तव । `कृत्यानां कर्तरि वा' इति षष्ठी । प्रार्थयितव्यः प्रार्थयितुमर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो यो दुर्लभः स कथं भविष्यति ? नास्त्येवेत्यर्थः ।। ५.४६ ।।


अथ पतिप्रार्थनामेव सिद्धवत्कृत्वाह-

अहो! स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।
उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ।। ५.४७ ।।

     अन्वयः-- अहो! तव ईप्सितो युवा कोऽपि स्थिरः । यः चिराय कर्णोत्पलशून्यतां गते (तव) कपोलदेशे श्लथलम्बिनीः कलमाऽग्रपिङ्गला जटा उपेक्षते ।
     मल्लिo- अहो इति । अहो चित्रम् । तवेप्सित आप्तुमिष्टो युवा कोऽपि स्थिरः कठिनः । वर्तत इति शेषः । कुतः । यो युवा चिराय चिरात्प्रभृति कर्णोत्पलशून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथिलबन्धना अत एव लम्बिन्यस्ताः श्लथलम्बिनीः कलमाः शालिविशेषास्तेषामग्राणि तद्वत्पिङ्गला जटा उपेक्षते यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः ।। ५.४७ ।।


मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टबिभूषणास्पदाम् ।
शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ।। ५.४८ ।।

     अन्वयः- मुनिव्रतैः अतिमात्रकर्शितां दिवाकरप्लुष्टविभूषणास्पदाम् (अत एव) दिवा शशाङ्कलेखाम् इव त्वां पश्यतः कस्य मनो न दूयते ?
     मल्लिo- मुनिव्रतैरिति । मुनिव्रतैश्चान्द्रायणादिभिरतिमात्रमत्यन्तं कर्शितां कृशीकृतां दिवाकरेण सूर्येणाप्लुष्टानि दग्धानि वातातपसंस्पर्शात्मृदुत्वाच्च श्यामीकृतानि विभूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवाहनि शशाङ्करेखामिव स्थितां त्वां पश्यतः सचेतसो जीवतः कस्य पुंसो मनो न दूयते न परितप्यते । अपि तु सर्वस्यैवेत्यर्थः ।। ५.४८ ।।


अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्च तुरावलोकिनः ।
करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ।। ५.४९ ।।

     अन्वयः-(हे पार्वति !) तव प्रियं सौभाग्यमदेन वञ्चितम् अवैमि, यः चतुराऽवलोकिनः अरालपक्ष्मणः अस्य चक्षुषः आत्मीयं वक्त्रं चिरं ल्क्ष्यं न करोति ।
     मल्लिo- अवैमीति । तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण कर्त्रा । वञ्चितं विप्रलब्धमवैमि वेद्मि । यः प्रियश्चतुरं मधुरमवलोकत इति चतुरावलोकिनोऽरालपक्ष्मणः कुटिलरोम्णः । `अरालं वृजिनं जिह्मम्' इत्यमरः । अस्य त्वदीयस्य चक्षुष आत्मीयं वक्त्रं मुखं चिरं लक्ष्यं विषयं न करोति दृष्टिपथं न गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः ।। ५.४९ ।।


कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसंचितं तपः ।
तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ।। ५.५० ।।

     अन्वयः- हे गौरि ! कियत् चिरं श्राम्यसि । मम अपि पूर्वाश्रमसञ्चितं तपो विद्यते । तदर्द्धभागेन काङ्क्षितं वरं लभस्व । तं साधु वेदितुम् इच्छामि ।
     मल्लिo- कियदिति ।। हे गौरि, कियत्किंप्रमाणकम् । किमवधिकमित्यर्थः । चिरं श्राम्यसि तपस्यसि । अत्यन्तसंयोगे द्वितीया । ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संपादितं तपो विद्यते अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनैकदेशेन काङ्क्षितमिष्टं वरमुपयन्तारं लभस्व । तं वरं साधु सम्यग्वेदितुं ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति तदा संमतिरिति भावः ।। ५.५० ।।


इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।
अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ।। ५.५१ ।।

     अन्वयः- इति द्विजन्मना प्रविश्य अभिहिता सा मनोगतं, शंसितुं न शशाक । अथो परिपार्श्ववर्तिनीं वयस्यां विवर्तितानञ्जननेत्रम् ऐक्षत ।
     मल्लिo- इतीति । इतीत्थं द्विजन्मना द्विजेन प्रविश्यान्तर्गत्वा । आप्तवद्रहस्यमुद्भाव्येत्यर्थः । अभिहितोक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् । लज्जयेति शेषः । अथोऽनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन्कर्मणि तत्तथैक्षत नेत्रसंज्ञयैव प्रत्युत्तरं वाचयांचकारेत्यर्थः ।। ५.५१ ।।


सखी तदीया तमुवाच वर्णिनं निबोध साधो ! तव चेत्कुतूहलम् ।
यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ।। ५.५२ ।।

     अन्वयः- तदीया सखी तं वर्णिनम् उवाच-हे साधो ! तव कुतूहलं चेत् निबोध । यदर्थम् एतया अम्भोजम् उष्णवारणम् इव वपुः तपःसाधनं कृतम् ।
     मल्लिo- सखीति ।। तस्याः पार्वत्या इयं तदीया सखी वयस्यातम् । `वर्णः प्रशस्तः' इति क्षीरस्वामी । सोऽस्यास्तीति वर्णी तं ब्रह्मचारिणम् । `वर्णाद्ब्रह्मचारिणि' इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति । हे साधो विद्वन् ! तव कुतूहलं चेत् । श्रोतुमस्तीति शेषः । तर्हि निबोधावगच्छ । आकर्णयेत्यर्थः । `बुध अवगमने' इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं किं तदाह-यस्मै लाभायेदं यदर्थम् । `अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्याम्भोजं पद्ममुष्णवारणमातपत्रमिव वपुः शरीरं तपःसाधनं कृतम् । तपःप्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः ।। ५.५२ ।।


इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी ।
अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ।। ५.५३ ।।

     अन्वयः- मानिनी इयम् अधिश्रियः महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य मदनस्य विग्रहात् अरूपहार्यं पिनाकपाणिं पतिम् आप्तुम् इच्छति ।
     मल्लिo- इयमिति । मानिनीन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्यभिमानवतीयं पार्वत्यधिश्रियोऽधिकैश्वर्यान्महेन्द्रप्रभृतीनिन्द्रादींश्चतसृणां दिशामीशानिन्द्रयमवरुणकुबेरान् । `तद्धितार्थे-' त्यादिनोत्तरपदसमासः । अवमत्यवधूय मदनस्य निग्रहान्निबर्हणाद्धेतोः । अकामुकत्वादित्यर्थः । रूपेण सौन्दर्येण हार्यो वशीकरणीयो न भवतीत्यरुपहार्यं पिनाकः पाणौ यस्य तं पिनाकपाणिं हरम् । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति साधु । पतिं भर्तारमाप्तुमिच्छति । एतेन संकल्पावस्था सूचिता ।। ५.५३ ।।


`दृङ्मनःसङ्गसंकल्पो जागरः कृशतारतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ।।' इति । तत्रास्याः काश्चिद्दशाः क्रममनादृत्यैव योजयति `इयम्' इत्यादिभिः षङ्भिः श्लोकैः-

असह्यहुंकारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः ।
इमां हृदि व्यायतपातमक्षिणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ।। ५.५४ ।।

     अन्वयः- पुरा असह्यहुङ्कारनिवर्तितः पुराऽरिम् अप्रप्तमुखः विशीर्णमूर्ते अपि पुष्पधन्वनः शिलीमुखः इमां हृदि व्यायतपातम् अक्षिणोत्।
     मल्लिo- असह्येति । पुरा पूर्वमसह्येन सोढुमशक्येन हुङ्कारेण रौद्रेण निवर्तितः । अतएव पुरारिं हरमप्राप्तमुखोऽप्राप्तफलो विशीर्णमूर्तेर्नष्टशरीरस्यापि पुष्पधन्वनः कामस्य शिलीमुखो बाण इमां पार्वतीं हृदि व्यायतः । सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन्कर्मणि तत्तथाक्षिणोदकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । `मृदुः सर्वत्र बाध्यते' इति भावः । अनेन `विवृण्वती शैलसुतापि भावम्' (३/६८) इत्यत्रोक्तं चक्षुः प्रीतिमनः- सङ्गाख्यमवस्थाद्वयमनन्तरावस्थोपयोगितयानूद्य कार्श्यवस्था सूचिता ।। ५.५४ ।।


तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका ।
न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ।। ५.५५ ।।

     अन्वयः- तदा प्रभृति पितुः गुहे उन्मदना ललाटिकाचन्दनधूसराऽलका बाला तुषारसङ्घातशिलातलेषु अपि जातु निर्वृतिं न लभते ।
     मल्लिo- तदेति । तदेति छेदः । तदा प्रभृति । तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा । प्रभृतियोगे पञ्चमीनियमात् । पितुर्गृह उन्मदनोत्कटमन्मथा ललाटस्थालंकारो ललाटिका तिलकः । `कर्णललाटत्कनलंकारे' इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरंवर्णा अलकाश्चूर्णकुन्तला यस्याः सा तथोक्ता बाला पार्वती जातु कदाचिदपि तुषारसंघातास्तुषारघनास्त एव शिलास्तासां तलेषूपरिभागेष्वपि निर्वृतिं सुखं न लभते स्म । एतेनारत्यपरसंज्ञा विषयविद्वेषावस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते ।। ५.५५ ।।


उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् ।
अनेकशः किंनरराजकन्यका वनान्तसंगीतसखीररोदयत् ।। ५.५६ ।।

     अन्वयः-- इयं पिनाकिनः चरिते उपात्तवर्णे सबाष्पकण्ठस्खलितैः पदैः वनाऽन्तसङ्गीतसखीः किन्नरराजकन्यकाः अनेकशः अरोदयत् ।
     मल्लिo- उपातेति । पिनाकिनः शंभोश्चरिते त्रिपुरविजयादिचेष्टित उपात्तवर्णेप्रारब्धगीतक्रमे । `गीतक्रमेस्तुतौ वेदे वर्णशब्दः प्रयुज्यते' । इति हलायुधः । सबाष्पे गद्गदे कण्ठे स्खलितैर्विशीर्णैः पदैः सुप्तिङन्तरुपैः करणैः वनान्ते संगीतेन निमित्तेन सखीर्वयस्याः । किन्नरराजकन्यका अनेकशो बहुशोऽरोदयदश्रुमोक्षमकारयत् । हरचरितगानजनितमदनवेदनामेनां वीक्ष्यकिंनर्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलनलक्षणकार्योक्त्या पुनः पुनस्तत्कारणीभूतमूर्च्छावस्थाप्रादुर्भावो व्यज्यतेऽन्यथा सखीरोदनानुपपतेरिति । द्वादशावस्थापक्षे तु प्रलापावस्था च व्यज्यते । `प्रलापो गुणकीर्तनम्' इत्यालंकारिकाः ।। ५.५६ ।।


त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत ।
क्व नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ।। ५.५७ ।।

     अन्वयः- त्रिभागशेषासु निशासु क्षणं नेत्रे निमील्य सहसा `हे नीलकण्ठ ! क्व व्रजसि' इति अलक्ष्यवाक् असत्यकण्ठाऽर्पितबाहुबन्धना (सती) व्यबुध्यत ।
     मल्लिo- त्रिभागेति । किंचेति चार्थः । शिष्यत इति शेषः । कर्मणि घञ् । त्रिभ्यो भागेभ्यः शेषास्वशिष्टासु । यद्वा रात्रेस्त्रियामत्वेन प्रसिद्धत्वात्तृतीयो भागास्त्रिभागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा `शतांशः' `सहस्रांशः' इति । त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेत्रे निमील्य मीलयित्वा सहसा सद्यः । हे नीलकण्ठ ! क्व व्हजसि कुत्र गच्छसीत्यलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता तथासत्ये मिथ्याभूते कण्ठेऽर्पितं बाहुबन्धनं यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन जागरोन्मादौ सूचितौ ।। ५.५७ ।।


स्वप्नसादृश्यप्रतिकृतिदर्शनतदङ्गस्पृष्टस्पर्शाख्याश्चत्वारो विरहिणां विनोदाः । तत्र स्वप्नसंदर्शनमुक्त्वा प्रतिकृतिदर्शनमाह-

यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं कथं जनम् ।
इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ।। ५.५८ ।।

     अन्वयः- `यदा त्वं बुधैः सर्वगत उच्यसे, ततः भावस्थम् इमं जनं कथं न वेत्सि ?' इति मुग्धया स्वहस्तोल्लिखितः चन्द्रशेखरो रहसि उपालभ्यत ।
     मल्लिo- यदेति । यदा यत इत्यर्थः । यदेति हेतावित्युक्त्वा गणव्याख्यानेऽस्योदाहृतत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्युच्यसे । तत इत्यध्याहारः । भावे रत्याख्ये तिष्ठतीति भावस्थम् । त्वय्यनुरागिणमित्यर्थः । इमं जनम् । इममित्यात्मनिर्देशः । कथं न वेत्सि न जानासीति मुग्धया मूढया अकिंचित्करश्चित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तया स्वहस्तेनोल्लिखितश्चित्रे लिखितश्चन्द्रशेखरो रहस्येकान्ते । सखीमात्रसमक्षमित्यर्थः । उपालभ्यत साधिक्षेपमुक्तश्च । उक्तसमुच्चयार्थश्चकारः । यद्यपि रहसीत्युक्तं तथापि सखीसमक्षकरणाल्लज्जत्यगो व्यज्यत एव ।। ५.५८ ।।


यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती ।
तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ।। ५.५९ ।।

     अन्वयः- जगत्पतेः तस्य अधिगमे अन्यं विधिं विचिन्वती (पार्वती) यदा न अपश्यत् , तदा इयं गुरोः अनुज्ञया अस्माभिः सह तपसे तपोवनं प्रपन्ना ।
     मल्लिo- यदेति । जगत्पतेस्तस्येश्वरस्याधिगमे प्राप्तावन्यं विधिमुपायं विचिन्वती मृगयमाणा यदा नापश्यत्तदेयं पार्वती गुरोः पितुरनुज्ञयास्माभिः सह तपसे तपश्चरितुं तपोवनं प्रपन्ना प्राप्ता ।। ५.५९ ।।


द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपः साक्षिषु दृष्टमेष्वपि ।
न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ।। ५.६० ।।

     अन्वयः- सख्या स्वयं कृतजन्मसु तपःसाक्षिषु एषु द्रुमेषु अपि फलं दृष्टम् । (परम्) अस्याः शशिमौलिसंश्रयो मनोरथश्च प्ररोहाऽभिमुखोऽपि न दृश्यते ।
     मल्लिo- द्रुमेष्विति । सख्या पार्वत्या स्वयं कृतं जन्म येषां तेषु । स्वयं रोपितेष्वित्यर्थः । तपसः साक्षिषु साक्षाद्रष्टृष्वेषु द्रुमेष्वपि फलं दृष्टम् लब्धम् । जनितमित्यर्थः । अस्याः पार्वत्याः शशिमौलिसंश्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखोऽङकुरोन्मुखोऽपि न दृश्यते । `प्ररोहस्त्वङ्कुरोङ्कुरः' इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य नाङ्कुरोदयोऽप्यस्ति । फलाशा तु दूरापास्तेत्यर्थः ।। ५.६० ।।


न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्त्रोत्तरमीक्षितामिमाम् ।
तपःकृशामभ्युपपत्स्यते सखी वृषेव सीतां तदवग्रहक्षताम् ।। ५.६१ ।।

     अन्वयः- प्रार्थितदुर्लभः स तपःकुशां सखीभिः अस्त्रोत्तरम् ईक्षिताम् इमां सखीं तदवग्रहक्षतां सीताम् इव कदा अभ्युपपत्स्यते (इति) न वेद्मि ।
     मल्लिo- नेति । प्रार्थितः सन्दुर्लभः स देवस्तपःकृशां तपसा कृशां क्षीणामत एव सखीभिरस्त्रोत्तरमश्रुप्रधानं यथा भवति तथेक्षितामिमां नः सखीं तस्येन्द्रस्यावग्रहेणानावृष्ट्या क्षतां पीडिताम् । `वृष्टिर्वर्षं तद्विघातोऽवग्रहावग्रहौ समौ' इत्यमरः । अवग्रहः । वर्षप्रतिबन्ध इत्यर्थः । सीतां कृष्टभुवम् । `सीता लाङ्गलपद्धतिः' इत्यमरः । वृषा वासव इव । `वासवो वृत्रहा वृषा' इत्यमरः । कदाभ्युपपत्स्यते कदानुग्रहिष्यति न वेद्मि । अत्र वाक्यार्थः कर्म । तदवग्रहक्षतामित्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्यापत्तेस्तदिति भिन्नं पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः ।। ५.६१ ।।


अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया ।
अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ।। ५.६२ ।।

     अन्वयः- इङ्गितज्ञया तया इति अगूढसद्भावं निवेदितो नैष्ठिकसुन्दरः अव्यञ्जितहर्षलक्षणः (सन्) `अयि ! इदम् एवं, परिहासो वा' ? इति उमाम् अपृच्छत् ।
     मल्लिo-- अगूढेति । इङ्गितज्ञया पार्वतीहृदयाभिज्ञया । `इङ्गितं हृद्गतो भावः' इति सज्जनः । तया गौरीसख्येत्येवमगूढसद्भावं प्रकाशितसदभिप्रायं यथा तथा निवेदितो ज्ञापितो निष्ठा मरणमवधिर्यस्य स नैष्ठिको यावज्जीवब्रह्मचारी सुन्दरो विलासी । नैष्ठिकश्चासौ सुन्दरश्चेति तथोक्तः । द्वयोरन्यतरस्य विशेषणत्वविवक्षायां विशेषणसमासः । किंतु नैषठिकत्वविशेषणेन कामित्वविरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विकमिति न विरोधः । अव्यञ्जितं हर्षलक्षणं मुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ! अयीति कोमलामन्त्रणे । इदं त्वत्सखीभाषितमेवम् । सत्यं किमित्यर्थः । परिहासः केलिर्वा । `द्रवकेलिपरीहासाः' इत्यमरः । इत्येवमुमामपृच्छत्पृष्टवान् ।। ५.६२ ।।


अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् ।
कथंचिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ।। ५.६३ ।।

     अन्वयः- अथ अद्रेः तनया मुकुलीकृताऽङ्गुलौ अग्रहस्ते स्फटिकाऽक्षमालिकां समर्पयन्ती कथंचित् चिरव्यवस्थापितवाक् मिताऽक्षरम् अभाषत ।
     मल्लिo- अथेति । अथानन्तरमद्रेस्तनया पार्वती मुकुलीकृताङ्गुलौ संपुटीकृताङ्गुलौ । अग्रश्चासौ हस्तश्चेति समानाधिकरणसमासः । हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदाभेदादिति वामनः । तस्मिन्नग्रहस्ते स्फटिकानामक्षमालिकां जपमालिकामर्पयन्त्यामुञ्चती कथंचिन्महता कष्टेन चिरव्यवस्थापितवाक्चिरेण स्वीकृतवाक् । एतेन लज्जोपरोधो व्यज्यते । मिताक्षरं परिमितवर्णं यथा तथाभाषत बभाषे ।। ५.६३ ।।


किमुवाचेत्याह-

यथा श्रुतं वेदविदां वर ! त्वया जनोयमुच्चैःपदलङ्घनोत्सुकः ।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ।। ५.६४ ।।

     अन्वयः-- हे वेदविदां वर ! त्वया यथा श्रुतम् । अयं जनः उच्चैःपदलङ्घनोत्सुकः । इदं तपः तदवाप्तिसाधनं, (यतः) मनोरथानाम् अगतिः न विद्यते ।
     मल्लिo- यथेति । हे वेदविदांवर वैदिकश्रेष्ठ ! त्वया यथा श्रुतां सम्यक् श्रुतम् । श्रुतार्थमेवाह-अयं जनः । स्वयमित्यर्थः । उच्चैःपदस्य शिवलाभरूपोन्नतस्थानस्य लङ्घन आक्रमण उत्सुकः । किमत्रायुक्तमित्यत्राह- इदं तपस्तदवाप्तेस्तस्योच्चैः पदस्यावाप्तेः प्राप्तेः साधनं किलेत्यलीके । अतितुच्छत्वादसाधकमेवेत्यर्थः । तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चतीत्याशयेनाह-मनोरथानां कामानामगतिरविषयो न विद्यते । न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्त इति भावः ।। ५.६४ ।।


अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे ।
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृतिं न च कर्तुमुत्सहे ।। ५.६५ ।।

     अन्वयः-- अथ वर्णी आह- `महेश्वरो विदितः, पुनः त्वं तदर्थिनी वर्तसे ? तम् अमङ्गलाऽभ्यासरतिं विचिन्त्य तव अनुवृत्तिं कर्तुं न उत्सहे' ।
     मल्लिo- अथेति । अथ वर्णी ब्रह्मचारी । `वर्णिनो ब्रह्मचारिणः' इत्यमरः । आह । उवाचेत्यर्थः । `आहेति भूतार्थे लट्प्रयोगो भ्रान्तमूलः' इत्याह वामनः । किमित्याह-महेश्वरो महादेवो विदितः । मया ज्ञायत इत्यर्थः । बुद्धर्थत्वाद्वर्तमाने क्तप्रत्ययः, तद्योगात्षष्ठी च । येन त्वं प्राग्भग्नमनोरथा कृतेतिभावः । पुनरेव त्वं तमीश्वरमर्थयसे तदर्थिन्येव तत्कामैव प्रवर्तसे । तत्प्रभावमनुभूयापीति भावः । अनुसरणे को दोषस्तत्राह- अमङ्गलाभ्यासेऽमङ्गलाचारे रतिर्यस्य तं यथोक्तमीश्वरं विचिन्त्य वितवानुवृत्तिमनुसरणं कर्तुं नोत्सहे । नानुमन्तुं शक्नोमीत्यर्थः ।। ५.६५ ।।


अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः ।
करेण शंभोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ।। ५.६६ ।।

     अन्वयः- हे अवस्तुनिर्बन्धपरे ! आमुक्तविवाहकौतुकः ते अयं करः वलयीकृताऽहिना शम्भोः करेण तत्प्रथमाऽवलम्बनं कथं नु सहिष्यते ?
     मल्लिo- अवस्त्विति । अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्यास्तस्याः संबुद्धिरवस्तुनिर्बन्धपरे पार्वति, आमुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य स तेऽयं करः । `कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शास्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोर्महादेवस्य करेण करणभूतेन । तदेव प्रथमं तत्प्रथमम् । अपरिचितत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं नु सहिष्यते । न कथंचिदपि सहिष्यत इत्यर्थः । अग्रतो यद्भावि तद् दूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः ।। ५.६६ ।।


त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः ।
वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ।। ५.६७ ।।

     अन्वयः- हे गौरि ! त्वम् एव तावत् परिचिन्तय । कलहंसलक्षणं वधूदुकूलं शोणितबिन्दुवर्षि गजाऽजिनं च, एते कदाचित् योगम् अर्हतः यदि ? ।
     मल्लिo- त्वमेवेति । हे गौरि ! त्वमेव स्वयमात्मना । तावदिति मात्रार्थे। यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदाहृतं च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति । कलहंसलक्षणं कलहंसचिह्नम् । `चिह्नं लक्ष्म च लक्ष्मणम्' इत्यमरः वध्वा नवोढाया दुकूलं वधूदुकूलम् । `वधूः स्नुषा मनोढा स्त्री' इति विश्वः । तथा शोणितबिन्दून्वर्षतीति यथोक्तम् । आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवासश्च । तत्पिनाकिन इत्याशयः । एते कदाचिज्जात्वपि योगं संगतिमर्हतो यद्यर्हतः किम् । एतत् त्त्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणकाले वधूवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु दुकूलधारिण्यास्तव कथं संघटिष्यत इति भावः ।। ५.६७ ।।


चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते ।
अलक्तकाङ्कानि पदानि पादयोर्विकोर्णकेशासु परेतभूमिषु ।। ५.६८ ।।

     अन्वयः- चतुष्कपुष्पप्रकरावकीर्णयोः तव पादयोः अलक्तकाऽङ्कानि पदानि विकीर्णकेशासु परेतभूमिषु परोऽपि के नाम अनुमन्यते ?
     मल्लिo- चतुष्केति । चतुष्के गृहविशेषे यः पुष्पप्रकरस्तत्राऽवकीर्णयोर्न्यस्तयोः । कुसुमास्तृतदिव्यभवनभूसंचारोचितयोरित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षारञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । `पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिह्नयोः' इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकार्णकेशासु । `अतत्स्थं तत्र दृष्टं च' इति वचनात् । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति विकल्पान्न ङीष् । परेतभूमिषु प्रेतभूमिषु । श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानुमन्यते । न कोऽपीत्यर्थः । नामेति कुत्सायाम् । पिनाकपाणिग्रहणे तस्य परेतभूसंचारित्वेन साहचर्यात्तवापि तत्र संचारोऽवश्यंभावीति भावः ।। ५.६८ ।।


अयुक्तरुपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।
स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ।। ५.६९ ।।

     अन्वयः- त्रिनेत्रवक्षः तव सुलभम् अपि, अतःपरम् अयुक्तरुपं किं ? वद यत् हरिचन्दनास्पदे अस्मिन् स्तनद्वये चिताभस्मरजः पदं करिष्यति ।
     मल्लिo- अयुक्तेति । त्रिनेत्रवक्षः, त्र्यम्बकालिङगनमित्यर्थः । तव तत्संबन्धितया सुलभमपि सुप्रापं च । भवतीति शेषः । तवेति शेषे षष्ठी । `न लोकाव्यये-' त्यादिना कृद्योगलक्षणषष्ठ्या निषेधात् । अतः परमस्मात्त्रिनेत्रवक्षोलाभादन्यदयुक्तरूपमत्यन्तायुक्तं किं वद । न किंचिदित्यर्थः । `प्रशंसायां रूपप्' इति रूपप्प्रत्ययः । कुतः । यद्यस्मात्कारणाद्धरिचन्दनास्पदे हरिचन्दनस्यास्पदे स्थानभूतेऽस्मिन्स्तनद्वये चिताभस्म श्मशानभस्म तदेव रजश्चूर्ण कर्तृ । पदं करिष्यति पदं निधास्यति । भर्तुर्भवस्य भस्माङ्गरागादिति भावः ।। ५.६९ ।।


इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ।। ५.७० ।।

     अन्वयः- इयं च ते पुरतः अन्या बिडम्बना, यत् ऊढया वारणराजहार्यया त्वया अधिष्ठितं वृद्धोक्षं विलोक्य महाजनः स्मेरमुखो भविष्यति ।
     मल्लिo- इयमिति । इयं च ते तव पुरत आदावेवान्या विडम्बना । परिहास इत्यर्थः । का सेत्यत्राह-ऊढया परिणीतया । वहेः कर्मणि क्तः । वारणराजहार्यया त्वयाधिष्ठितमारुढं वृद्धमुक्षाणं वृद्धोक्षम् । `अचतुरे-' त्यादिना निपातः । विलोक्य महाजनः साधुजनः स्मेरमुखः स्मितमुखो भविष्यत्युपहसिष्यति यत् । इयमिति पूर्वेण सबन्धः । स्मेरेति `नमिकम्पिस्म्यजसे-' त्यादिना रप्रत्ययः ।। ५.७० ।।


द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ।। ५.७१ ।।

     अन्वयः- पिनाकिनः समागमप्रार्थनया सम्प्रति कलावतः कान्तिमती सा कला अस्य लोकस्य नेत्रकौमुदी त्वं च द्वयं शोचनीयतां गतम् ।
     मल्लिo- द्वयमिति । पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया । क्रियमाणयेति शेषः । संप्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदाह-सा प्रागेव हरशिरोगता । अत्र सेति प्रसिद्धार्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे-प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते इति । कान्तिमती । नित्ययोगे मतुप् । कलावतश्चन्द्रस्य कला षोडशो भागश्चास्य लोकस्य नेत्रकौमुदी । नेत्रानन्दिनीत्यर्थः । त्वं च । कान्तिमतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या । संप्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यात्वं च निकृष्टाश्रयणादिति भावः ।। ५.७१ ।।


`कन्या वरयते रुपं, माता वित्तं, पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति, मिष्टान्नमितरे जनाः ।।' इति लोकानामाभाषणम् । तत्र किंचिदपि नास्तीत्याह-

वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि ! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ? ।। ५.७२ ।।

     अन्वयः- वपुः विरूपाक्षम्, अलक्ष्यजन्मना, वसु दिगम्बरत्वेन निवेदितम् । हे बालमृगाक्षि ! वरेषु यत् मृग्यते तत् त्रिलोचने व्यस्तम् अपि अस्ति किम् ?
     मल्लिo-- वपुरिति । वपुस्तावदस्य विरुपाणि विकृतरुपाण्यक्षीणि नेत्राणि यस्य तद्विरुपाक्षम् । `बहुव्रीहौ सक्थ्यक्षणोः स्वाङ्गात्षच्' इति षच् प्रत्ययः । वैरूप्यं च त्रिनेत्रत्वादिति क्षीरस्वामी । अतो न सौन्दर्यवार्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस्य भावस्तत्ता । कुलमपि न जायत इत्यर्थः । "अलक्षिता जनिः" इति पाठे जनिरुत्पत्तिरलक्षिता न ज्ञाता । `जनिरुत्पत्तिरुद्भवः' इत्यमरः । वसु वित्तं दिगम्बरत्वेनैव निवेदितम् । नास्तीति ज्ञापितमित्यर्थः । यदि वित्तं भवति तदा कथं दिगम्बरो भवति । अतो ज्ञेयं निर्धनोऽयमिति । किं बहुना हे बालमृगाक्षि पार्वति ! वरेषु वोढृषु । `वरौ जामातृवोढारौ' इति विश्वः । यद्रूपवित्तादिकं मृग्यते कन्यातद्बन्धुभिरन्विष्यते तत्त्रिलोचने त्र्यम्बके व्यस्तम् । एकमपि समस्तं मा भूदिति भावः । अस्ति किम् । नास्त्येवेत्यर्थः ।। ५.७२ ।।


निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा ?
अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ।। ५.७३ ।।

     अन्वयः- अस्मात् असदीप्सितात् मनो निवर्तय । तद्विधः क्व ? पुण्यलक्षणा त्वं च क्व ? साधुजनेन श्मशानशूलस्य वैदिकी यूपसत्क्रिया न अपेक्ष्यते ।
     मल्लिo- निवर्तयेति । अस्मादसदीप्सितादनिष्टमनोरथान्मनो निवर्तय निवारय । सा पूर्वोक्ता विधा प्रकारो यस्य तथोक्तः । अमङ्गलशील इत्यर्थः । क्व । महदन्तरमित्यर्थः । पुण्यलक्षणा प्रशस्तभागयचिह्ना त्वं च क्व । अतो न तवायमर्ह इत्यर्थः । तथाहि साधुजनेन । `साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्' । इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य वध्यशङ्कोर्वैदिकी वेदोक्ता । यूपो नाम पशुबन्धनसाधनभूतः संस्कृतदारुविशेषस्तस्य सत्क्रिया प्रोक्षणाभ्युक्षणादिसंस्कारो यूपसत्क्रिया नापेक्ष्यते नेष्यते । यथा श्मशानशूले यूपसत्क्रिया न क्रियते तथा त्वमपि तस्मै न घटस इति तात्पर्यार्थः ।। ५.७३ ।।


इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।
विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ।। ५.७४ ।।

     अन्वयः- इति द्विजातौ प्रतिकूलवादिनि सति प्रवेपमानाऽधरलक्ष्यकोपया तया उपान्तलोहिते विलोचने विकुञ्चितभ्रूलतं तिर्यक् आहिते ।
     मल्लिo- इतीति । इत्येवंप्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति प्रवेपमानेन चञ्चलेनाधरेणाधरोष्ठेन लक्ष्योऽनुमेयः कोपः क्रोधो यस्यास्तथोक्तया तया पार्वत्योपान्तलोहिते प्रान्तरक्ते विलोचने विकुञ्चिते कुटिलिते भ्रूलते यस्मिंस्तत्तथा । सभ्रूभङ्गमित्यर्थः । तिर्यक्साच्याहिते निहिते अनादरात्तिर्यगैक्ष्यतेत्यर्थः ।। ५.७४ ।।


उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ।
अलोकसामन्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ।। ५.७५ ।।

     अन्वयः- अथ एनम् उवाच च-त्वं परामार्थतो हरं न वेत्सि नूनम्, यत एवम् आत्थ । मन्दा अलोकसामान्यम् अचिन्त्यहेतुकं महात्मनां चरितं द्विषन्ति ।
     मल्लिo- उवाचेति । अथैनं ब्रह्मचारिणमुवाच च । किमिति ? परमार्थतस्तत्त्वतो हरं न वेत्सि न जानासि नूनम् । कुतः । यतो मामेवमुक्तया रीत्यात्थ ब्रवीषि । `ब्रुवः पञ्चानामादित-इति रुपसिद्धिः । अज्ञानादेवायं शिवद्वेषस्तवेत्याशयेनाह-मन्दा मृढाः `मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । लोकसामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचिन्त्यहेतुकं दुर्बोधकारणकं महात्मनां चरितम् । द्विषन्ति हेत्वपरिज्ञानाद् दूषयन्ति । विद्वांसस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः ।। ५.७५ ।।


संप्रति `अमङ्गलाभ्यासरतिम्' (५/६५) इत्याद्युक्तं दूषणजातम् `विपद्' इत्यादिभिः षङ्भिः श्लोकैः परिहर्तुमारभते-

विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।
जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ? ।। ५.७६ ।।

     अन्वयः- विपत्प्रतीकारपरेण भूतिसमुत्सुकेन वा मङ्गलं निषेव्यते । जगच्छरण्यस्य निराशिषः सतः आशोपहतात्मवृत्तिभिः एभिः किम् ?
     मल्लिo- विपदिति । विपत्प्रतीकारपरेण । अनर्थपरिहारार्थिनेत्यर्थः । `उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । भूतिसमुत्सुकेनैश्वर्यकामेन वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः । `तत्र साधुः' इति यत्प्रत्ययः । `शरणं गृहरक्षित्रोः' इत्यमरः । जगतः शरण्यस्तस्य जगच्छरण्यस्य निराशिषो निरभिलाषस्य सतः शिवस्य । `आशीरिरगदंष्टायां विप्रवाक्याभिलाषयोः' इति शाश्वतः । आशया तृष्णयोपहतादूषितात्मवृत्तिरन्तःकरणवृत्तिर्येषां तैरेभिर्मङ्गलैः किम् । वृथेत्यर्थः पूर्वमङ्लमित्येकवचनस्य जात्यभिप्रायत्वादेभिरिति बहुवचनेन परामर्शो न विरुध्यते । इष्टावाप्त्यनिष्टपरिहारार्थिनो हि मङ्गलाचारनिर्बन्धः । तदुभयासंसृष्टस्य तु यथाकथंचिदास्ताम् । को दोष इत्यर्थः । एतेन `अमङ्गलाभ्यासरतिम्' । (५/६५) इत्युक्तं प्रत्युक्तम् ।। ५.७६ ।।


अकिंचनः सन्प्रभवः स संपदां, त्रिलोकनाथः पितृसद्मगोचरः ।
स भीमरूपः शिव इत्युदीर्यते, न सन्ति याथार्थ्यविदः पिनाकिनः ।। ५.७७ ।।

     अन्वयः- सः अकिञ्चनः सन् सम्पदां प्रभवः, पितृसद्मगोचरः सन् त्रिलोकनाथः भीमरूपः सन् `शिव' इति उदीर्यते । (अतः) पिनाकिनः याथार्थ्यविदो न सन्ति ।
     मल्लिo- अकिंचनेति । स हरः । न विद्यते किंचन द्रव्यं यस्य सोऽकिंचनो दरिद्रः सन् । संपदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसद्मगोचरः श्मशानाश्रयः सन् । त्रयाणां लोकानां नाथः `तद्धितार्थे-' त्यादिनोत्तरपदसमासः । सदेवो भीमरूपो भयंसराकारः सन् । शिवः सौम्यरूप इत्युदीर्यते उच्यते । अतः पिनाकिनो हरस्य यथाभूतोऽर्थो यथार्थस्तस्य भावो याथार्थ्यं तत्वं तस्य विदो न सन्ति । लोकोत्तरमहिम्नो निर्लेपस्य यथाकथञ्चिदवस्थानं न दोषायेति भावः । एतेन `अवस्तुनिर्बन्धपरे' (५/६६) इति परिहृतं वेदितव्यम् ।। ५.७७ ।।


देवस्य लौकिकमलौकिकं च प्रसाधनं नास्तीत्याशयेनाह-

विभूषणोद्भासि, पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ।। ५.७८ ।।

     अन्वयः- विश्वमूर्तेः वपुः विभूषणोद्भासि, पिनद्धभोगि वा, गजाऽजिनालम्बि, दुकूलधारि वा, कपालि वा, अथवा इन्दुशेखरं स्यात् न अवधार्यते ।
     मल्लिo- विभूषणेति । विश्वं मूर्तिर्यस्येति विश्वमूर्तेरष्टमूर्तेः शिवस्य वपुः शरीरं भूषणैरुद्भासत इति भूषणोद्भासि स्यात् । पिनद्धभोग्यामुक्तभुजङ्गमं वा स्यात् । पिनद्धेति नह्यतेरपिपूर्वात्कर्मणि क्तः । `वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । गजाजिनालम्बि स्यात् अथवा दुकूलधारि स्यात् । कपालमस्यास्तीति कपालि ब्रह्मशिरःकपालशेखरं वा स्यात् इन्दुशेकरं वा स्यात् । नावधार्यते न निर्धार्यते । सर्वं संभवतीत्यर्थः । एतेन `त्वमेव तावत्' (५/६७) इति श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ।। ५.७८ ।।


अयुक्तरुपं किमतः परं वद (५/६९) इति श्लोकोक्तं प्रत्याह-

तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।
तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् ।। ५.७९ ।।

     अन्वयः- तदङ्गसंसर्गम् अवाप्य चिताभस्मरजो विशुद्धये कल्पते ध्रुवम् । तथा हि-नृत्याऽभिनयक्रियाच्युतं चिताभस्मरजः अम्बरौकसां मौलिभिः विलिप्यते !
     मल्लिo- तदिति । शिवस्याङ्गम् तस्य संसर्गमवाप्यासाद्य चिताभस्मैव रजो विशुद्धये कल्पते । अलं पर्याप्नोतीत्यर्थः । अलमर्थयोगात् `नमः- स्वस्तिस्वाहे-' त्यादिना चतुर्थी । ध्रुवं शोधकत्वम् । प्रमाणसिद्धमित्यर्थः । प्रमाणमेवाह--तथाहि । प्रसिद्धमेवेत्यर्थः । नृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्जकचेष्टाविशेषः स एव क्रिया तया निमित्तेन च्युतं पतितम् । चिताभस्मरज इति शेषः । अम्बरौकसां देवानां मौलिभिर्विलिप्यते ध्रियते । अशुद्धं चेत्कथमिन्द्रादिभिर्ध्रियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः ।। ५.७९ ।।


यदुक्तम् `दिगम्बरत्वेन निवेदितं वसु (५/७२) `इयं च तेऽन्या पुरतो विडम्बना' (५/७०) इत्यादि च तत्रोत्तरमाह-

असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा ।
करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ।। ५.८० ।।

     अन्वयः- प्रभिन्नदिग्वारणवाहनो वृषा असम्पदो वृषेण गच्छतः तस्य पादौ मौलिना उपगम्य विनिद्रमन्दाररजोऽरुणाऽङ्गुली करोति ।
     मल्लिo- असंपद इति । प्रभिन्नो मदस्रावी दिग्वारणो दिग्गजो वाहनं यस्य सः । ऐरावतेनोढ इत्यर्थः । वृषा देवेन्द्रोऽसंपदो दरिद्रस्य वृषेण गच्छतो वृषभारूढस्य तस्येश्वरस्य पादौ मौलिना मुकुटेनोपगम्य प्रणम्येत्यर्थः । विनिद्राणां विकसितानां मन्दाराणां कल्पतरुकुसुमानां रजोभिः परागैररुणा अङ्गुलयो ययोस्तौ तथोक्तौ करोति । दिग्गजारोहिणामिन्द्रादीनामपि वन्द्यस्येन्दुमौलेः किं संपदा, वृषारोहणे वा को दोष इत्यर्थः ।। ५.७० ।।


यदुक्तम् `अलक्ष्यजन्मता' (५/७२) इति तत्रोत्तरमाह-

विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ? ।। ५.८१ ।।

     अन्वयः- च्युतात्मना, दोषं विवक्षता अपि त्वया ईशं प्रति एकं साधु भाषितम् । यम् आत्मभुवोऽपि कारणम् आमनन्ति स कथं लक्ष्यप्रभवो भविष्यति ।
     मल्लिo- विवक्षतेति । च्युतात्मना नष्टस्वभावेनात एव दोषं दूषणं विवक्षता वक्तुमिच्छतापि त्वयेशं प्रत्येकम् `अलक्ष्यजन्मता' इत्येतदेकम् । वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः ? यमीश्वरमात्मभुवोऽपि ब्रह्माणोऽपि । `ब्रह्मात्मभूः सुरज्येष्ठ' इत्यमरः । कारणमामनन्त्युदाहरन्ति । विद्वांस इति शेषः । `पाध्राध्मास्थाम्नादाणी-' त्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यप्रभवो लक्ष्यजन्मा भविष्यति । अनादिनिधनस्य भगवतः कारणशङ्काकलङ्कश्च नान्विष्यत इत्यर्थः ।। ५.८१ ।।


अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं, न कामवृत्तिर्वचनीयमीक्षते ।। ५.८२ ।।

     अन्वयः- (अथवा) विवादेन अलम् । त्वया यथा स श्रुतः, अशेषः तथाविधः अस्तु । मम मनः अत्र भावैकरसं स्थितम् । कामवृत्तिः वचनीयं न ईक्षते ।
     मल्लिo--अलमिति । अथवा विवादेन कलहेनालम् । त्वया यथा येन प्रकारेण स ईश्वरः श्रुतोऽशेषं कार्त्स्न्येन तथाविधस्तावत्प्रकार एवास्तु । मम मनस्त्वत्रेश्वरे भावः श्रृङ्गार एकोऽद्वितीयो रस आस्वाद्यो यस्य तत्तथा स्थितम् । तथाहि । कामवृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति । न हि स्वेच्छासंचारिणो लोकापवादाद् बिभ्यतीति भावः ।। ५.८२ ।।


निवार्यतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतोऽपभाषते श्रृणोति तस्मादपि यः स पापभाक् ।। ५.८३ ।।

     अन्वयः- हे आलि ! स्फुरितोत्तराऽधरः अयं वटुः पुनः किमपि विवक्षुः निवार्यताम् । यो महतः अपभाषते न केवलं स पापभाक् भवति, यः तस्मात् श्रृणोति सोऽपि पापभाग् भवति ।
     मल्लिo- निवार्यतामिति । हे आलि सखि ! `आलिः सखी वयस्या च' इत्यमरः । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोऽयं वटुर्माणवकः पुनः किमपि विवक्षुर्वक्तुमिच्छुः । ब्रुवः सन्नन्तादुप्रत्ययः । निवार्यताम् । तर्हि वक्तुमेव कथं न ददासीत्याह-तथाहि । यो महतः पूज्यानपभाषतेऽपवदति न केवलं स पापभाग्भवति । किंतु तस्मादपभाषमाणात्पुरुषाद्यः श्रृणोति सोऽपि पापभाक् । भवतीति । शेषः । अत्र स्मृतिः-`गुरोः प्राप्तः परीवादो न श्रीतव्यः कथंचन । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ।' इति ।। ५.८३ ।।


संप्रति गन्तव्यपक्षमाश्रयते-

इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।
स्वरुपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ।। ५.८४ ।।

     अन्वयः- `अथवा इतो गमिष्यामि' इति वादिनी स्तनभिन्नवल्कला बाला चचाल । वृषराजकेतनः स्वरूपम् आस्थाय कृतस्मितः सन् तां समाललम्बे ।
     मल्लिo- इत इति । अथवेतोऽन्यत्र गमिष्यामीति वादिनी वदन्ती स्तनाभ्यां भिन्नवल्कला रयवशात्कुचस्रस्तचीरा बाला पार्वती चचाल । वृषराजकेतनो वृषभध्वजश्च स्वरुपमास्थाय निजरुपमाश्रित्य कृतस्मितः सन् तां पार्वतीं समाललम्बे जग्राह ।। ५.८४ ।।


तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ।। ५.८५ ।।

     अन्वयः- तं वीक्ष्य वेपथुमती सरसाऽङ्गयष्टिः निक्षेपणाय उद्धृतं पदम् उद्वहन्ती शैलाऽधिराजतनया मार्गाऽचलव्यतिकराकुलिता सिन्धुः इव न ययौ न तस्थौ ।
     मल्लिo- तमिति । तं देवं वीक्ष्य वेपथुमती कम्पवती सरसाङ्गयष्टिः स्विन्नगात्री । महादेवदर्शनेन देव्याः सात्विकभावोदयः उक्तः । निक्षेपणायान्यत्र विन्यासायोद्धृतमुत्क्षिप्तं पदमङ्‌ध्रिमुद्वहन्ती शैलाधिराजतनया पार्वती मार्गेऽचलस्तस्य व्यतिकरेण समाहत्या । अवरोधनेनेति यावत् । आकुलिता संभ्रमिता सिन्धुर्नदीव । `देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । न ययौ न तस्थौ । लज्जयेति भावः । वसन्ततिलकावृत्तमेतत् ।। ५.८५ ।।


अद्य प्रभृत्यवनताङ्गि ! तवास्मि दासः

क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
अह्नाय सा नियमजं क्लममुत्ससर्ज

क्लेशः फलेन हि पुनर्नवतां विधत्ते ।। ५.८६ ।।

     अन्वयः- `हे अवनताङ्गि ! अद्यप्रभृति तव तपोभिः क्रीतः दासः अस्मि' इति चन्द्रमौलौ वादिनि (सति) सा अह्नाय नियमजं क्लमम् उत्ससर्ज । हि क्लेशः फलेन पुनः नवतां विधत्ते ।
     मल्लिo- अद्येति । चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति ! अद्य प्रभृति । अस्माद्दिनादारभ्येत्यर्थः । प्रभृतियोगादद्येति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते । तव तपोभिः क्रीतः । दासृ दाने । दासत आत्मनं ददातीति दासोऽस्मीति वादिनि वदति सति । सा देव्यह्नाय सपदि । `स्राग्झटित्यञ्जसाह्नाय द्राङ् मङ्क्षु सपदि द्रुतम्' इत्यमरः । नियमजं तपोजन्यं क्लमं क्लेशमुत्ससर्ज । फलप्राप्त्या क्लेशं विसस्मारेत्यर्थः । तथाहि । क्लेशः फलेन फलसिद्ध्या पुनर्नवतां विधत्ते पूर्ववदेवाक्लिष्टतामापादयतीत्यर्थः । सपलः क्लेशो न क्लेश इति भावः ।। ५.८६ ।।


इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया

सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतै

कुमारसंभवमहाकाव्ये तपःफलोदयो नाम पञ्चमः सर्गः ।।