कुमारसम्भवम् - मल्लिनाथः/चतुर्थः सर्गः

विकिस्रोतः तः
← तृतीयः सर्गः कुमारसम्भवम् - मल्लिनाथः
चतुर्थः सर्गः
कालिदासः
पञ्चमः सर्गः →
चर्तुर्थः सर्गः



मूर्च्छिता रतिरित्युक्तम् । संप्रति तद्‌वृत्तान्तमेवाह-

अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता ।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ।। ४.१ ।।

     अन्वयः- अथ मोहपरायणा सती विवशा कामवधूः असह्यवेदनं नववैधव्यं प्रतिपादयिष्यता विधिना विबोधिता ।
     मल्लिo- अथेति । अथानन्तरं मोहो मूर्च्छा परमयनमाश्रयो यस्याः सा मोहपरायणा मोहैकशरणा सती । `परायणमभिप्रेते तत्परे परमाश्रये' । इति यादवः । विवशा मूढत्वान्निश्चेष्टा कामवधू रतिः । असह्या दुःसहा वेदना यस्मिंस्तत्तथोक्तम् । विधवाया गतभर्तृकाया भावो वैधव्यम् । नवं च तद्वैधव्यं चेति नववैधव्यम् । नवग्रहणं दुःसहत्वद्योतनार्थम् । प्रतिपादयिष्यतानुभावयिष्यता । क्रियार्थक्रियायाम् लृट् । विधिना दैवेन । `विधिर्विधाने दैवे च' इत्यमरः । विबोधिता । वैधव्यानुफलोयं विधिरिति भावः । अस्मिंन्सर्गे वियोगिनीवृत्तानि- `विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी इति लक्षणात्' ।। ४.१ ।।


अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।
न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्त दर्शनम् ।। ४.२ ।।

     अन्वयः- सा प्रलयाऽन्तोन्मिषिते विलोचने अवधानपरे चकार । प्रियम् अतृप्तयोः तयोः अत्यन्तविलुप्तदर्शनं न विवेद ।
     मल्लिo- अवेति । सा रतिः प्रलयान्ते मूर्च्छावसाने । `प्रलयो नष्टचेष्टता' इत्यमरः । उन्मिषिते उन्मीलिते विलोचने । अवधानं परं प्रधानं ययोस्तेऽवधानपरे दिदृक्षयावहिते चकार । द्रष्टव्याभावात्तु न विवेदेत्याह- नेति । प्रियं काममतृप्तयोस्तृप्तिं न गतयोः । नित्यदिदृक्षमाणयोरित्यर्थः । तयोर्लोचनयोः । दर्शनक्रियापेक्षया संबन्धे षष्ठी । अत्यन्तविलुप्तं दर्शनं स्वलोचनयोः करणयोर्यस्य कर्मभूतस्य तमत्यन्तविलुप्तदर्शनं सन्तं न विवेद न ज्ञातवती । प्रियनाशापरिज्ञानाद्दिदृक्षांचक्र इति तात्पर्यार्थः ।। ४.२ ।।


अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ।। ४.३ ।।

     अन्वयः- `अयि जीवितनाथ ! जीवसि ?' इति अभिधाय उत्थितया तया पुरः क्षितौ केवलं हरकोपाऽनलभस्म ददृशे ।
     मल्लिo- अयीति । अयीति प्रश्ने । `अयि प्रश्नानुनययोः' इति विश्वः । अयि जीवितनाथ ! जीवसि कच्चिदित्यभिधायोत्थितया तया रत्या पुरोऽग्रे क्षितौ पुरुषस्याकृतिरिवाकृतिर्यस्य तत्पुरुषाकृति केवलमेकं हरकोपानलभस्य ददृशे दृष्टम् । न तु पुरुष इति भावः ।। ४.३ ।।


अथ सा पुनरेव विह्वला वसुधालिङ्गन धूसरस्तनी ।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ।। ४.४ ।।

     अन्वयः- अथ पुनरेव विह्वला वसुधाऽऽलिङ्गनधूसरस्तनी विकीर्णमूर्द्धजा सा स्थलीं समदुःखाम् कुर्वती इव विललाप ।
     मल्लिo- अथेति । अथ भस्मदर्शनानन्तरं पुनरेव विह्वला विक्लवा वसुधालिङ्गनधूसरस्तनी वसुधालिङ्गनेन क्षितिलुण्ठनेन धूसरौ धूसरवर्णौ स्तनौ कुचौ यस्याः सा तथोक्ता । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति ङीष् । विकीर्णमूर्धजा विकीर्णा विक्षिप्ता मूर्धजाः केशा यस्याः सा तथोक्ता सा रतिः स्थलीं वनभूमिम् । तत्रत्यान्प्राणिन इत्यर्थः । `जानपदकुण्डगोणस्थले-' त्यादिना ङीष् । समदुःशां स्वतुल्यशोकां कुर्वतीव विललाप परिदेवितवती । `विलापः परिदेवनम्' इत्यमरः ।। ४.४ ।।


उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया ।
तदिदं गतमीदृशीं दशां, न विदीर्ये, कठिनाः खलु स्त्रियः ।। ४.५ ।।

     अन्वयः- (हे नाथ !) तव यत् करणं कान्तिमत्तया विलासिनाम् उपमानम् अभूत् । तत् इदम् ईदृशीं दशां गतम् । (तथाऽपि) न विदीर्ये, हि स्त्रियः कठिनाः खलु ।
     मल्लिo- उपेति । तव यत्करणं गात्रम् । `करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः । कान्तिमत्तया सौन्दर्येण हेतुना विलसनशीलानाम् । `वौ कषलसे-' त्यादिना घिनुण्प्रत्ययः । उपमीयते येन तदुपमानमभूत् । तत्करणमिदमीदृशीं दशामवस्थां गतम् । भस्मीभूतमित्यर्थः । तथापि न विदीर्ये न विदीर्णा भवामि । कर्तरि लट् । तथाहि । स्त्रियः कठिनाः खलु । कठिनत्वादविदीर्यमाणत्वमित्यर्थः । कारणात्कार्यसमर्थनरुपोऽर्थान्तरन्यासः । `धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता । स्मितपूर्वं तथालापो विलास इति कीर्तितः ।।' इति ।। ४.५ ।।


क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।
नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ।। ४.६ ।।

     अन्वयः-- (हे प्रिय !) क्षतसेतुबन्धनो जलसंघातो नलिनीम् इव त्वदधीनजीवितां मां क्व नु विनिकीर्य क्षणभिन्नसौहृदः (सन्) विद्रुतः असि ?
     मल्लिo-क्वेति । हे प्रिय ! क्षतसेतुबन्धनो भग्नसेतुबन्धो जलसंघातो जलौघो नलिनीमिव । जलैकायत्तजीवितामिति शेषः । त्वदधीनजीवितां त्वदायत्तप्राणां मां क्वनु विनिकीर्य कुत्र वा निक्षिप्य क्षणभिन्नसौहृदः क्षणत्यक्तसौहार्दः सन् । विद्रुतः पलायितोऽसि । सेतुसौहृदयोः स्थितिहेतुत्वेन साम्यम् । सुहृदो भावः सौहृदम् । युवादित्वादण्प्रत्ययः । `हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेशः । अणि `हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः । हृद्भूतस्याण्विधाने तूभयपदवृद्धिः स्यात् । यथा सुहृदो भावः सोहार्दमिति । तदेवाह वामनः- `सौहृददौर्हृदशब्दावदनणि हृद्भावात्' इति ।। ४.६ ।।


कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ।। ४.७ ।।

     अन्वयः- (हे प्रिय !) (त्वम्) मे विप्रियं कृतवान् न असि, मया च ते प्रतिकूलं न कृतम् । अकारणम् एव विलपन्त्यै रतये किं दर्शनं न दीयते ।
     मल्लिo- कृतेति । हे प्रिय, त्वं मे मम विप्रियमप्रियं कृतवान्नासि । मया च ते तव प्रतिकूलमप्रियं न कृतम् । अकारणं निष्कारणमेव । परस्परापकाररूपकारणाभावेऽपीत्यर्थः । क्रियाविशेषणमेतत् । विलपन्त्यै । त्वद्दर्शनार्थिन्या अपीति भावः । रतये किं कथं दर्शनं न दीयते । क्रियाग्रहणाच्चतुर्थी ।। ४.७ ।।


विप्रियमाशङ्कते-

स्मरसि स्मर ! मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् ।
च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ।। ४.८ ।।

     अन्वयः-- हे स्मर ! गोत्रस्खलितेषु मेखलागुणैः स्मरसि उत ? च्युतकेशरदूषितेक्षणानि अवतंसोत्पलताडनानि स्मरसि वा  ?
     मल्लिo- स्मरसीति । हे स्मर ! गोत्रस्खलितेषु नामव्यत्यासेषु । `गोत्रं नाम्न्यचले कुले' इति विश्वः । मेखलागुणैर्बन्धनं स्मरस्युत स्मरसि वा । `विकल्पे किं किमुत च' इत्यमरः । च्युतकेशरैर्भ्रष्टकिञ्जल्कैर्दूषिते ईक्षणे येषु तान्यवतंसोत्पलताडनानि । सधूलिक्षेपताडनानीत्यर्थः । स्मरसि वा । अपकारस्मरणादिदमदर्शनमिति भावः ।। ४.८ ।।


हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ? ।। ४.९ ।।

     अन्वयः- (हे प्रिये !) त्वं मे `हृदये वससि' इति मत्प्रियं यत् अवोचः तत् कैतवम् अवैमि । इदम् उपचारपदं न चेत् त्वम् अनङ्गः, कथं रतिः अक्षता ?
     मल्लिo- हृदय इति । हृदये वससीति स्मरवाक्यानुवादः । इत्येवं रुपं मत्प्रियं यदवोच उक्तवानसि । ब्रञो लुङि `वच उम्' इत्युमागमः । तत्कैतवमवैमि मिथ्येति मन्ये । इदं वचनमुपचापरपदं परस्य रञ्जनार्थं यदसत्यभाषणं स उपचारस्तस्य पदं स्थानम् । कैतवस्थानमिति यावत् । न चेत्त्वमनङ्गोऽशरीरः । कथं रतिरक्षताऽविनष्टा । आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः ।। ४.९ ।।


नच मे कश्चिद्विचारः किंतु लोकः शोच्यत इत्याह-

परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ।। ४.१० ।।

     अन्वयः- अहं परलोकनवप्रवासिनः तव पदवीं प्रतिपत्स्ये । विधिना एष जनो वञ्चितः, (यत्) देहिनां सुखं त्वदधीनं खलु ।
     मल्लिo- परलोकेति । परलोकं प्रति नवप्रवासिनोऽचिरप्रोषितस्य । अनेनानुगमनकालानतिपातः सूच्यते । तव पदवीं मार्गं प्रतिपत्स्ये । त्वामनुगमिष्यामीत्यर्थः । अतो मे नास्ति विचार इति भावः । किंतु विधिना दैवेनैष जनो लोको वञ्चितः प्रतारितः । देहिनां सुखं त्वदधीनं त्वय्यधीनं खलु । अधिशब्दस्य शौण्डादिकत्वात् `सप्तमी शौण्डैः' इति समासः । `अध्युत्तरपदात्' इति खप्रत्ययः । एवमन्यत्रापि सुखप्रदाभावे कुतः सुखमिति भावः ।। ४.१० ।।


तदेवाह-

रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।
वसतिं प्रिय ! कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ।। ४.११ ।।

     अन्वयः- हे प्रिय ! रजनीतिमिराऽवगुण्ठिते पुरमार्गे घनशब्दविक्लवाः प्रियाः कामिनां वसतिं प्रापयितुं त्वत् ऋते क ईश्वरः ?
     मल्लिo--रजनीति । हे प्रिय ! रजनीतिमिरेणावगुण्ठित आवृते पुरमार्गे घनशब्दविक्लवा गर्जितभीताः प्रियाः कामिनां वसतिं प्रापयितुं त्वदृते त्वां विना । `अन्यारादितरर्त-' इत्यादिना पञ्चमी । क ईश्वरः शक्तः । न कश्चिदित्यर्थः । न हि कामान्धनां भीतिरस्तीति भावः ।। ४.११ ।।


नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे पदे ।
असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ।। ४.१२ ।।

     अन्वयः- (हे प्रिय !) अरुणानि नयनानि घूर्णयन् पदे पदे वचनानि स्खलयन् प्रमदानां वारुणीमदः त्वयि असति विडम्बना ।
     मल्लिo-- नयनानीति । अरुणानि नयनानि घूर्णयन्भ्रमयन् । तथा पदे पदे प्रतिपदम् । वीप्सायां द्विरुक्तिः । वचनानि स्खलयन्विपर्यासयन्प्रमदानां वारुणीमदो मद्यमदोऽधुना त्वय्यसति विडम्बनानुकृतिमात्रम् । मदनाभावे मदस्य निष्फलत्वादिति भावः । तथा च शिशुपालवधे- `तां मदो दयितसंगमभूषः' (१०/३३) इति ।। ४.१२ ।।


अबगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः ।
बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग ! मोक्ष्यति ।। ४.१३ ।।

     अन्वयः- हे अनङ्ग ! प्रियबन्धोः तव वपुः कथीकृतम् अवगम्य निष्फलोदयो निशाकरो बहुले गते अपि तनुतां दुःखं मोक्ष्यति ।
     मल्लिo- अवगम्येति । हे अनङ्ग अशरीर ! प्रियबन्धोः प्रियसखस्य तव वपुः शरीरं कथीकृतमकथा कथा संपद्यमानं कृतं शब्दमात्रावशिष्टमवगम्य ज्ञात्वा निष्फलोदयः । उद्दीप्याभावादुद्दीपनवैफल्यमिति भावः । निशाकरश्चन्द्रो बहुले कृष्णपक्षे गतेऽपि तनुतां कार्श्यं दुःखं यथा तथा कृच्छ्रान्मोक्ष्यति । वृद्धिरिति दुःखयिष्यत इत्यर्थः ।। ४.१३ ।।


हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।
वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ।। ४.१४ ।।

     अन्वयः- (हे कुसुमायुध !) हरिताऽरुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितो नवचूतप्रसवः सम्प्रति कस्य बाणतां गमिष्यति ? वद ।
     मल्लिo- हरितेति । हरितं चारुणं च । `वर्णो वर्णेन' इति तत्पुरुषः । हरितारुणं चारु बन्धनं वृन्तं पुङ्खश्च यस्य स तथोक्तः । कलेन मधुरेण पुंस्कोकिलशब्देन पुरुषकोकिलनादेन सूचितोऽनुमापितश्च । चूतवर्णकार्यंत्वात्कलशब्दस्येति भावः । नवचूतप्रसवो नवचूतकुसुमं संप्रति कस्य बाणतां शरत्वं गमिष्यति ? वद । अन्यस्य पुष्पबाणस्याभावादिति भावः ।। ४.१४ ।।


अलिपङ्‌क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।
विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदतीव माम् ।। ४.१५ ।।

     अन्वयः- (हे प्रिय !) त्वया अनेकशो धनुषो गुणकृत्ये नियोजिता इयम् आलिपङ्‌क्तिः करुणस्वनैः विरुतैः गुरुशोकां माम् अनुरोदिति इव ।
     मल्लिo-- अलीति । त्वयानेकशो बहुशो धनुषः कार्मुकस्य गुणकृत्ये मौर्वीकार्ये गुणवत्कर्मणि च नियोजिताधिकृतेयमलिपङ्‌क्तिः करुणस्वनेर्दीनस्वनर्विरुतैः कूजितैर्गुरुशोकां दुर्भरदुःखाम् । `गुरुस्तु गोष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' । इति शब्दार्णवः । मामनुरोदितीव उपसर्गात्सकर्मकत्वम् । `रुदादिभ्यः सार्वधातुके' इतीडागमः ।। ४.१५ ।।


प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः ।
रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ।। ४.१६ ।।

     अन्वयः- (हे कान्त !) तावत् पुनरपि मनोहरं वपुः प्रतिपद्य उत्थितः सन् मधुरालापनिसर्गपण्डितां कोकिलां रतिदूतिपदेषु आदिश ।
     मल्लिo- प्रतिपद्येति । तावत्पुनरपि मनोहरं वपुः शरीरं प्रतिपद्य प्राप्योत्थितः सन् । मधुरालापेषु प्रियोक्तिषु निसर्गपण्डितां स्वभावप्रगल्भां कोकिलां रतिदूतिपदेषु । सुरतदूतीस्थानेष्वादिशाज्ञापय । प्रगल्भानामेव दौत्याधिकार इति भावः । ङीबन्तस्यापि दूतीशब्दस्य छन्दोभङ्‌गभयाद्‌ध्रस्वः । `अपि माषं मषं कुर्याच्छन्दोभङ्गे त्यजेद्‌गिरम्' इति केचित् । `उणादयो बहुलम्' इति बहुलग्रहणाद्‌घ्रस्व इति वल्लभः ।। ४.१६ ।।


शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।
सुरतानि च तानि ते रहः स्मर ! संस्मृत्य न शान्तिरस्ति मे ।। ४.१७ ।।

     अन्वयः- हे स्मर ! शिरसा प्रणिपत्य याचितानि सवेपथूनि उपगूढानि च, तानि रहः सुरतानि च संस्मृत्य मे शान्तिः न अस्ति ।
     मल्लिo- शिरसेति । हे स्मर ! शिरसा प्रणिपत्य याचितानि सवेपथूनि सकम्पानि । `ट्वितोऽथुच्' इत्यथुच्प्रत्ययः । सात्विकान्तरोपलक्षणमेतत् । `स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्विकाः परिकीर्तिताः ।।' इति । उपगूढान्यालिङ्गनानि च । नपुंसके भावे क्तः । तान्यनुभूतप्रकाराणि रह एकान्ते सुरतानि च संस्मृत्य मे शान्तिर्नास्ति । अत्र समानकर्तृकत्वं दुर्घटं समानक्रियापेक्षास्तीति केचित् ।। ४.१७ ।।


रचितं रतिपण्डित ! त्वया स्वयमङ्गेषु ममेदमार्तवम् ।
ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ।। ४.१८ ।।

     अन्वयः- हे रतिपण्डित ! त्वया मम अङ्गेषु स्वयं रचितम् इदम् आर्तवं कुसुमप्रसाधनं ध्रियते, तव चारु वपुः न दृश्यते ।
     मल्लिo-रचितमिति । हे रतिपण्डित रतिकुशल, त्वया ममाङ्‌गेष्ववयवेषु स्वयं रचितम् ऋतुरस्य प्राप्त आर्तवं वासन्तम् । `ऋतोरण्' इत्यण्प्रत्ययः । कुसुमप्रसाधनं पुष्पाभरणमिदं ध्रियतेऽवतिष्ठते । `धृञ् अवस्थाने' इति धातोस्तौदादिकात्कर्तरि लट् । तव तत्प्रसाधकं चारु सुन्दरं वपुस्तु न दृश्यते ।। ४.१८ ।।


बिबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः ।
तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ।। ४.१९ ।।

     अन्वयः- दारुणैः विबुधैः यस्य परिकर्मणि असमाप्ते (सति) स्मृतः असि, तम् इमं दक्षिणेतरं निर्मितरागं कुरु । एहि ।
     मल्लिo- विबुधैरिति । दारुणैः क्रूरैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः । अनभिज्ञत्रत्वं च ध्वन्यते । यस्य मच्चरणस्य परिकर्मणि प्रसाधने । `परिकर्म प्रसाधनम्'इत्यमरः । आसमाप्ते सति स्मृतोऽसि । तमिमं दक्षिणेतरं वामं मे चरणं निर्मितरागं कुर्वेह्यागच्छ ।। ४.१९ ।।


अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
चतुरैः सुरकामिनीजनैः प्रिय ! यावन्न विलोभ्यसे दिवि ।। ४.२० ।।

     अन्वयः- अहं पतङ्गवर्त्मना एत्य पुनः ते अङ्काश्रयणी भवामि, हे प्रिय ! दिवि चतुरैः सुरकामिनीजनैः यावत् न विलोभ्यसे ।
     मल्लिo- अहमिति । अहं पतङ्गवर्त्मना शलभमार्गेण । अग्निप्रवेशेनेत्यर्थः । `पतङ्गः शलभे चाग्नौ मार्जारेऽर्के शरे खगे' । इति वैजयन्ती । एत्यागत्य पुनस्तेऽङ्काश्रयण्युत्सङ्गवर्तिनी भवामि संप्रत्येव भविष्यामि । `वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । हे प्रिय ! दिवि स्वर्गे चतुरैः सुरकामिनीजनैरप्सरोगणैर्यावन्न विलोभ्यसे विलोभयिष्यसे । `यावत्पुरानिपातयोर्लट्' इति लट् ।। ४.२० ।।


मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।
वचनीयमिदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ।। ४.२१ ।।

     अन्वयः- हे रमण ! त्वाम् अनुयायि यद्यपि, (किन्तु) मदनेन विनाकृता रतिः क्षणमात्रं जीविता इति मे वचनीयं व्यवस्थितम् ।
     मल्लिo- मदनेनेति । हे रमण ! त्वामनुयामि यद्यप्यनुगमिष्याम्येव । `वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । `यद्यपीत्यवधारणे' इति केशवः । किंतु रतिर्मदनेन विनाकृता । वियोजिता सतीत्यर्थः । सुप्सुपेति समासः । क्षणमात्रं जीविता किलेतीदं वचनीयं निन्दा मे मम व्यवस्थितं स्थिरमभूत् ।। ४.२१ ।।


क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ।। ४.२२ ।।

     अन्वयः-- (हे नाथ !) परलोकाऽन्तरितस्य ते अन्त्यमण्डनं मया कथं क्रियताम् ? (यत्) अङ्केन जीवितेन च समम् एव अतर्कितां गतिं गतः असि ।
     मल्लिo- क्रियतामिति । परलोकेऽन्तरितस्य व्यवहितस्य । मृतस्येत्यर्थः । ते तव मयान्त्यमण्डनं कथं केन प्रकारेण क्रियताम् । क्रियातामित्यत्र कामचारे लोट् बोध्यः । द्रुतदग्धस्य ते यथेच्छमण्डनमपि न संभवतीत्यर्थः । कुतः । अङ्गेन च जीवितेन च समं सहैवातर्कितामविचारितां गतिं गतोऽसि । इह मृतशरीरमपि नास्ति कस्य मण्डनमिति भावः ।। ४.२२ ।।


ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः ।
मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् ।। ४.२३ ।।

     अन्वयः- शरम् ऋजुतां नयतः उत्सङ्गनिषण्णधन्वनः ते मधुना सस्मितां कथां, यत् नयनोपन्तविलोकितं च तत् स्मरामि ।
     मल्लिo- ऋजुतामिति । शरमृजुतामार्जवं नयत उत्सङ्गे निषण्णमङ्कगतं धनुर्यस्य तस्य । `धनुषश्च' इत्यनङादेशः । ते तव मधुना वसन्तेन सह `मधुर्दैत्ये वसत्ने च चैत्रे च' इति विश्वः । सस्मितां कथामालापं तथा यन्नयनोपान्तविलोकितमपाङ्गवीक्षणम् । तत् इत्यनुषङ्गः । तच्च स्मरामि ।। ४.२३ ।।


क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।
न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्‌गतां गतिम् ? ।। ४.२४ ।।

     अन्वयः- कुसुमयोजितकार्मुकः ते हृदयङ्गमः सखा मधुः क्व नु ? सोऽपि उग्ररुषा पिनाकिना सुहृद्गतां गतिं न गमितः खलु ?
     मल्लिo- क्वेति । हृदयं गच्छतीति हृदयंगमो हृद्यः । खच्प्रकरणे गमेः सुप्युपसंख्यानम् इति खच्प्रत्ययः । `अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः । ते तव सखा कुसुमैरायोजितमारचितं कार्मुकं येन कार्मुकनिर्माता मधुर्वसन्तः क्व नु क्व वा । गत इति शेषः । अथवा सोऽप्युग्ररुषा तीव्रकोपेन पिनाकिनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम् । भस्मतामित्यर्थः । न गमितः खलु न प्रापितः किम् । `जिज्ञासानुनये खलु' इत्यमरः ।। ४.२४ ।।


अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवाहतः ।
रतिमभ्युपपत्तुमातुरां मधुरात्मानमर्दशयत्पुरः ।। ४.२५ ।।

     अन्वयः- अथ दिग्धशरैः इव तैः परिदेविताक्षरैः हृदये आहतः मधुः आतुरां रतिम् अभ्युपपत्तुम् आत्मानं पुरः अदर्शयत् ।
     मल्लिo- अथेति । अथ तैः परिदेविताक्षरैर्विलापवचनैर्हृदये दिग्धशरैर्विषलिप्तमुखैः शरैरिवाहतः सन् । `विषाक्ते दिग्धलिप्तकौ' इत्यमरः । मधुर्वसन्त आतुरामापन्नां रतिमभ्युपपत्तुमनुग्रहीतुम् । आश्वासयितुमित्यर्थः । `अभ्युपपत्तिरनुग्रहः' इत्यमरः । आत्मानं पुराऽदर्शयत् । आविरभूदित्यर्थः ।। ४.२५ ।।


तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च ।
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ।। ४.२६ ।।

     अन्वयः- सा तम् अवेक्ष्य भृशं रुरोद, स्तनसम्बाधम् उरश्च जघान । हि दुःखं स्वजनस्य अग्रतः विवृतद्वारम् इव उपजायते ।
     मल्लिo- तमिति । सा रतिस्तं मधुमवेक्ष्य दृष्ट्वा भूशं रुरोद । स्तनौ संबाध्य स्तनसंबाधम् । `परिक्लिश्यमाने च' इति णमुल् । उरो जघान ताडितवती च । तथाहि । स्वजनस्यग्रतो दुःखं विवृतमपसारितं द्वारं कपाटं यस्य तदिवोपजायत आविर्भवति । उच्छ्रङ्खलं प्रवर्तत इत्युत्प्रेक्षाभिप्रायः ।। ४.२६ ।।


इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त ! किं स्थितम् ?।
तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ।। ४.२७ ।।

     अन्वयः- दुःखिता सा एनम् इति प्रवाच च- हि वसन्त ! पश्य सुहृदः किं स्थितं ? तत् इदं कपोतकर्बुरं भस्म पवनैः कणशो विकीर्यते।
     मल्लिo-- इतीति । दुःखमस्याः संजातं दुःखिता । संजातदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिरेनं वसन्तमित्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त ! पश्य सुहृदस्त्वत्सखस्य किं स्थितं किमुपस्थितं तदिदं कपोतकर्बुरं पारावतशबलं कणशश्चूर्णीभूतम् । अल्पार्थाच्छस्प्रत्ययः । भस्म पवनैर्विकीर्यते विक्षिप्यते । पश्य भस्मीभूतस्ते सुहृदित्यर्थः ।। ४.२७ ।।


अयि संप्रति देहि दर्शनं स्मर ! पर्युत्सुक एष माधवः ।
दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ।। ४.२८ ।।

     अन्वयः- अयि स्मर ! सम्प्रति दर्शनं देहि, एष माधवः पर्युत्सुकः । नृणां दयितासु प्रेम अनवस्थितं सुहृज्जने तु प्रेम न चलं खलु ।
     मल्लिo-- अयीति । अयि स्मर ! संप्रति दर्शनं देहि । एष माधवो वसन्तः पर्युत्सकस्त्वद्दर्शनोत्कण्ठितः । त्वामप्यनादृतवतोऽस्य को माधव इत्याशङ्क्याह- नृणां पुरुषाणां दयितासु प्रेमानवस्थितमस्थिरम् । चलमित्यर्थः । सुहृज्जने प्रेम तु न चलं खलु ।। ४.२८ ।।


ईदृशाः सुहृदः कति न सन्तीत्याशङ्क्य न कोऽपीत्याह-

गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
अहमस्य दशेव पश्य मामविषह्यव्यसनेन धूमिताम् ।। ४.२९ ।।

     अन्वयः- (हे वसन्त !) स ते सखा अनिलाऽऽहतो दीप इव गत एव, न निवर्तते। अहम् अस्य दशा इव (तिष्ठामि) अविषह्यव्यसनेन धूमितां मां पश्य ।
      मल्लिo-- गत इति । स ते सखाऽनिलाहतो वायुताडितो दीप इव गत एव न निवर्तते । अहमस्य दीपायमानस्य दशा वर्तिरिव । तिष्ठामीति शेषः । `दशा वर्ताववस्थायां वस्त्रान्तं स्युर्दशा अपि' । इति विश्वः । कुतः । अविषह्यव्यसनेन सोढुमशक्यदुःखप्रकर्षेण धूमितां संजातधूमां मां पश्य । धूमवत्त्वान्नष्टदीपदशासाम्यं धूमश्च व्यसनमेवेत्यर्थः ।। ४.२९ ।।


अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव ।
विसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ।। ४.३० ।।

     अन्वयः- ननु ! तव पार्श्‌ववर्तिना अमुना ससुराऽसुरं जगत् विसतन्तुगुणस्य पेलवपुष्पपत्त्रिणः तव धनुषः आज्ञां कारितम् ।
     मल्लिo- अमुनेति । ननु मदन पार्श्ववर्तिना सहचरेणामुना वसन्तेन ससुरासुरं सुरासुरसहितं जगद्विसतन्दुगुणस्य मृणालसूत्रमौर्वीकस्य पेलवानि कोमलानि पुष्पाण्येव पत्रिणो बाणा यस्य तस्य तव धनुष आज्ञां कारितम् । जगदाज्ञा कारितेत्यर्थः । `हृक्रोरन्यतरस्याम्' इति जगतः कर्मत्वम् ।। ४.३० ।।


विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता ।
अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ।। ४.३१ ।।

     अन्वयः- ननु ! कामवधे मां विमुञ्चता विधिना अर्द्धवैशसं कृतम् । अनपायिनि संश्रयद्रुमे गजभग्ने सति वल्लरी पतनाय (भवति) ।
     मल्लिo- विधिनेति । ननु वसन्त ! कामवधे मदनवधे मां विमुञ्चता वर्जयता । अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिनस्तीति विशसो धातुकः । पचाद्यच् । विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसमर्धवधः कृतम् । `अर्धो वा एष आत्मनो यत्पत्नी' इति श्रुतेः । पत्युः स्वस्य चाश्रयाश्रयिभूतयोरेकपदार्थत्वाभिप्रायेणार्धोक्तिः । तथा चैकदेशवधे देशान्तरस्यापि वधनियमनान्मामपि विधिरघ्नन्नेव हतवानिति तात्पर्यम् । एतदेवोपपादयति-अनपायिन्यनपायित्वेन विश्वस्ते संश्रयद्रुमे आश्रयवृक्षे गजभग्ने सति वल्लरी लता पतनाय भवतीति शेषः । पतितुमेव सालमित्यर्थः । `तुमर्थाच्च भाववचनात्' इति चतुर्थी ।। ४.३१ ।।


संप्रति अनन्तरकर्तव्यं प्रार्थयते-

तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् ।
विधुरां ज्वलनातिसर्जनान्ननु ! मां प्रापय पत्युरन्तिकम् ।। ४.३२ ।।

     अन्वयः- तत् अनन्तरं भवता इदं बन्धुजनप्रयोजनं क्रियताम् । ननु ! विधुरां मां ज्वलनाऽतिसर्जनात् पत्यु अन्तिकं प्रापय ।
     मल्लिo- तदिति । तत्तस्मात्कारणादुक्तप्रकारेण । अन्यथापि मरणस्यावश्यंभावादित्यर्थः । अनन्तरं भवतेदं वक्ष्यमाणं बन्धुजनप्रयोजनं बन्धुकृत्यं क्रियताम् । प्रार्थनायां लोट् । तदेवोपदिशति-ननु वसन्त ! विधुरां विवशां मां ज्वलनातिसर्जनादग्निदानात्पत्युरन्तिकं प्रापय । अग्निप्रवेशनं कारयेत्यर्थः ।। ४.३२ ।।


कर्तव्यश्चायमर्थः स्त्रीणामित्याह-

शशिना सह याति कौमुदी, सह मेघेन तडित्प्रलीयते ।
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ।। ४.३३ ।।

     अन्वयः- कौमुदी शशिना सह याति । तडित् मेघेन सह प्रलीयते । हि प्रमदाः पतिवर्त्मगाः इति विचेतनैरपि प्रतिपन्नम् ।
     मल्लिo-शशिनेति । कौमुदी चन्द्रिका शशिना सह याति । शशिन्यस्तमिते स्वयं नश्यतीत्यर्थः । तडित्सौदामिनी मेघेन सह प्रलीयते प्रणश्यति । कर्तरि लट् । प्रमदाः स्त्रियः पतिवर्त्मगच्छन्तीति पतिवर्त्मगाः पतिमार्गानुगामिन्य इत्येतद्विचेतनैः । अविवेकिभिरपीत्यर्थः । नाथस्तु पृथग्जनैः इति पपाठ । प्रतिपन्नं ज्ञातम् । `अलवणा यवागूः' `अनुदराकन्या' इति वदल्पत्वाभिप्रायेण विचेतनैरपीति निर्देशः । पतिवर्त्मगा इत्यत्र स्मृतिः- `आर्तार्ते, मुदिते हृष्टा, प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ, सा स्त्री ज्ञेया पतिव्रता ।।' इति ।। ४.३३ ।।


अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ।। ४.३४ ।।

     अन्वयः-अमुना सुभगेन प्रियगात्रभस्मना एव कषायितस्तनी नवपल्लवसंस्तरे यथा विभावसौ तनुं रचयिष्यामि ।
     मल्लिo-- अमुनेति ।। अमुना पुरोवर्तिना सुभगेन शोभनेन प्रियगात्रभस्मनैव । एवकारो मण्डनान्तरनिवृत्त्यर्थः । कषायितस्तनी रञ्जितस्तनो । `रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे' । इति वैजयन्ती । नवपल्लवसंस्तरे यथा नवपल्लवतल्प इव विभावसौ वह्नौ तनुं शरीरं रचयिष्यामि निधास्यामीत्यर्थः ।। ४.३४ ।।


कुसुमास्तरणे सहायतां बहुशाः सौम्य, गतस्त्वमावयोः ।
कुरु संप्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ।। ४.३५ ।।

     अन्वयः- हे सौम्य ! त्वम् आवयोः बहुशः कुसुमास्तरणे सहायतां गतः । सम्प्रति प्रणिपाताऽञ्जलि याचितः (यन्) तावत् आशु मे चितां कुरु ।
     मल्लिo-कुसुमेति ।। हे सौम्य ! साधो त्वमावयो रतिपञ्चबाणयोर्बहुशो बहुवारं कुसुमास्तरणे पुष्पशयने सहयतां गतः । संप्रति प्रणिपाताञ्जलिना याचितः । अञ्जलिपूर्वकं प्रार्थितः सन्नित्यर्थः । आशु मे चितां काष्ठचयं कुरु कुरुष्व । यथेह तथामुत्रोपकर्तव्यं मित्रेणेत्यर्थः ।। ४.३५ ।।


तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः ।
विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ।। ४.३६ ।।

     अन्वयः--(हे वसन्त !) तदनु मदर्पितं ज्वलनं दक्षिणवातवीजनैः त्वरयेः, यथा स्मरः मां विना क्षणम् अपि न उत्सहते ते विदितं खलु ।
     मल्लिo- तदन्विति । तच्चिताकरणानन्तरं मय्यर्पितं मदर्पितं ज्वलनमग्निं दक्षिणवातवीजनैर्मलयमारुतसंचारणैस्त्वरयेः । त्वरितं ज्वलयेत्यर्थः । त्वराहेतुमाह ते तव विदितं खलु `मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः । तद्योगात्कर्तरि षष्ठी । यथा येन प्रकारेण स्मरो मां विना क्षणमपि नोत्सहते न हृष्यति । तथा त्वया ज्ञातमेवेत्यर्थः ।। ४.३६ ।।


इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ ।
अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ।। ४.३७ ।।

     अन्वयः- अपि च इति विधाय नौ एव सलिलस्य अञ्जलिः दीयताम् तं स ते बान्धवः परत्र मया सहितः अविभज्य पास्यति ।
     मल्लिo- इतीति ।। अपि चेत्येवं विधाय कृत्वा नावावाभ्यामेक एव सलिलस्याञ्जलिर्दीयताम् । तमञ्जलिं स ते बान्धवः सखा स्मरः परत्र परलोके मया सहितोऽविभज्य पास्यति ।। ४.३७ ।।


परलोकविधौ च माघवः स्मरमुद्दिश्य विलोलपल्लवाः ।
निवपेः सहकारमक्षरीः प्रियचूतप्रसवो हि ते सखा ।। ४.३८ ।।

     अन्वयः- हे माघव ! परलोकविधौ स्मरम् उद्दिश्य विलोलपल्लवाः सहकारमञ्जरीः निवपेः, हि ते सखा प्रियचूतप्रसवः ।
     मल्लिo- परलोकेति ।। किंच हे माधव वसन्त ! परलोकविधौ पिण्डोदकादिकर्मणि स्मरमुद्दिश्य विलोलाः पल्लवा यासु ताः सहकारमञ्जरीश्चूतवल्लरीर्निर्वपेर्देहि । हि यस्मात्कारणात्ते सखा स्मरः प्रियाश्चूतप्रसवा यस्य स तथोक्तः ।। ४.३८ ।।


इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ।। ४.३९ ।।

     अन्वयः- इति देहविमुक्तये स्थितां रतिम् आकाशभवा सरस्वती ह्रदशोषविक्लवां शफरीं प्रथमा वृष्टिः इव अन्वकम्पयत् ।
     मल्लिo- इतीति । इति देहस्य विमुक्तये शरीरस्य विसर्गाय स्थिताम् । कृतनिश्चयामिति यावत् । रतिमाकाशभवा सरस्वत्यशरीरा वाग्ध्रदशोषविक्लवां ह्रदस्य जलाधारस्य शोषेण विक्लवां शफलीं`प्रौष्ठी तु शफरी द्वयोः' इत्यमरः । प्रथमा वृष्टिर्वर्षमिवान्वकम्पयदनुकम्पितवती । सदयमुवाचेत्यर्थः । `कृपा दयानुकम्पा स्यात्' इत्यमरः ।। ४.३९ ।।


कुसुमायुधपत्नि ! दुर्लभस्तव भर्ता न चिराद्भविष्यति ।
शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ।। ४.४० ।।

     अन्वयः- हे कुसुमायुधपत्नि ! तव भर्ता चिरात् दुर्लभो न भविष्यति । श्रृणु, येन कर्मणा स हरलोचनाऽर्चिषि शलभत्वं गतः ।
     मल्लिo-- कुसुमेति ।। हे कुसुमायुधपत्नि रते ! तव भर्ता चिराच्चिरं दुर्लभो न भविष्यति । किंत्वचिरमेव सुलभो भविष्यतीत्यर्थः । किंच श्रृणु । तत्कर्मेति शेषः । येन कर्मणा स ते भर्त्ता हरलोचनस्यार्चिर्ज्वाला । `ज्वाला भासो न पुंस्यर्चिः' इत्यमरः । तस्मिञ्शलभत्वं पतङ्गत्वं गतः । `समौ पतङ्गशलभौ' इत्यमरः ।। ४.४० ।।


तदेव कर्मोपाचष्टे-

अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ।। ४.४१ ।।

     अन्वयः- उदीरितेन्द्रियः प्रजापतिः स्वसुतायाम् अभिलाषम् अकरोत् । अथ तेन विक्रियां निगृह्य अभिशप्तः (सन्) एतत् फलम् अन्वभूत् ।
     मल्लिo- अभिलाषेति ।। उदीरितेन्द्रियः प्रेरितेन्द्रियः स्मरेणेति शेषः । प्रजापतिर्ब्रह्मा स्वसुतायां सरस्वत्यामभिलाषमनुरागमकरोत् । अथ तेन प्रजापतिना विक्रियामिन्द्रियविकारं निगृह्य निरुद्याभिशप्तः सन् । एतत् फलं दाहात्मकं स्वकर्मफलमन्वभूत् ।। ४.४१ ।।


शापावधिरपि तेनैवोक्त इत्याह श्लोकद्वयेन-

परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।

उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ।। ४.४२ ।।
इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् ।

अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ।। ४.४३ ।।

     अन्वयः- धर्मयाचितः स `तपसा तत्प्रवणीकृतो हरो यदा पार्वतीं परिणेष्यति,तदा उपलब्धसुखः (सन्) स्मरं स्वेन वपुषा नियोजयिष्यति' इति स्मरशापाऽवधिदां सरस्वतीम् आह । वशिनः अम्बुधराश्च अशने अमृतस्य उभयोश्च योनयः ।
     मल्लिo- परिणेष्यतीति ।। इतीति च । धर्मेण धर्माख्यप्रजापतिना याचितः प्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वतीं परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तनन्दः सन् । स्मरं कामं स्वेन वपुषा नियोजयिष्यति । इत्येवं स्मरशापस्यावधिदामवसानदायिनीं सरस्वती वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाश्चाम्बुधराश्चाशनेरमृतस्य चेत्युभयोर्योनयः प्रभवः वशिपक्षेऽशन्यमृतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताग्न्युदकपरौ । युग्मकम् ।। ४.४२ - ४३ ।।


तदिदं परिरक्ष शोभने ! भवितव्यप्रियसंगमं वपुः ।
रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी ।। ४.४४ ।।

     अन्वयः- हे शोभने ! तत् भवितव्यप्रियसङ्गमम् इदं वपुः परिरक्ष । हि रविपीतजला नदी तपाऽत्यये पुनरोघेण युज्यते ।
     मल्लिo-- तदिति ।। हेशोभने ! तत्तस्मात्कारणाद्भवितव्यो भविष्यन्प्रियसंगमो यस्य तत्तथोक्तमिदं वपुः परिरक्ष । तथाहि । रविपीतजला नदी तपात्यये प्रावृषि। `प्रावृट् तपात्यये' इति हलायुधः । पुनरोघेण प्रवाहेण युज्यते संगच्छते हि ।। ४.४४ ।।


इत्थं रतेः किमपि भूतमदृश्यरुपं मन्दीचकार मरणाव्यवसायबुद्धिम् ।
तत्प्रत्ययाच्च कुसुमायुधबन्धुरेनामाश्वासयत्सुचरितार्थपदैर्वचोभिः ।। ४.४५ ।।

     अन्वयः- इत्थम् अदृश्यरुपं किमपि भूतं रतेः मरणव्यवसायबुद्धिं मन्दीचकार । अथ कुसुमायुधबन्धुः तत्प्रत्ययात् एनां सुचरिताऽर्थपदैः वचोभिः आश्वासयत् ।
     मल्लिo-- इत्थमिति ।। इत्थमनेन प्रकारेणादृश्यरुपं किमपि भूतं कश्चित्प्राणी । `युक्तेक्ष्मादावृते भूतं प्राण्यतोते समे त्रिषु' इत्यमरः । रतेर्मदनदाराणां मरणव्यवसायबुद्धिं मरणोद्योगबुद्धिं मन्दीचकार । निवारयामासेत्यर्थः । `मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । अथ कुसुमायुधबन्धुर्वसन्तश्च तत्प्रत्ययात्तस्मिन्भूते विश्वासात् । `प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । एनां रतिं सुष्ठु चरितार्थानि पदानि येषां तैर्वचोभिर्वाक्यैराश्वासयत् । सर्वथा ते देवताप्रसादात्प्रियसंगमो भविष्यतीत्यादिवचनैरस्या दुःखमपाचकारेत्यर्थः ।। ४.४५ ।।


अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयांबभूव ।
शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ।। ४.४६ ।।

     अन्वयः- अथ व्यसनकृशा मदनवधूः उपप्लवाऽन्तं किरणपरिक्षयधूसरा दिवातनस्य शशिनः लेखा प्रदोषम् इव परिपालयाम्बभूव ।
     मल्लिo- अथेति ।। अथानन्तरं व्यसनेन दुःखेन कृशा मदनवधू रतिरुपप्लवान्तं विपदवधिं किरणपरिक्षयेण धूसरा मलिना दिवातनस्य दिनभवस्य । `सायंचिरम्' इत्यादिना ट्युप्रत्ययः । शशिनश्चन्द्रस्य लेखा प्रदोषं रात्रिमिव परिपालयांबभूव प्रतीक्षांचक्रे । पुष्पिताग्रावृत्तम्- `अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ।। ४.४६ ।।


इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया

सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे

महाकाव्ये रतिविलापो नाम चतुर्थः सर्गः ।। ४.४ ।।