कुमारसम्भवम् - मल्लिनाथः/तृतीयः सर्गः

विकिस्रोतः तः
← द्वितीयः सर्गः कुमारसम्भवम् - मल्लिनाथः
तृतीयः सर्गः
कालिदासः
चतुर्थः सर्गः →
तृतीयः सर्गः


तस्मिन्मघोनस्त्रिदशान्विहाय सहस्त्रमक्ष्णां युगपत्पपात ।
प्रयोजनाऽपेक्षितया प्रभूणां प्रायश्चलंकत गौरवमाश्रितेषु ।। ३.१ ।।

     अन्वयः- मघोन अक्ष्णां सहस्त्रं त्रिदशान् विहाय तस्मिन् युगपत् पपात । प्रायः प्रभूणाम् आश्रितेषु गौरवं प्रयोजनाऽपेक्षितया चलम् ।
     मल्लिo- तस्मिन्निति । मघोन इन्द्रस्याक्ष्णां सहस्त्रं त्रिरावृत्ता दशपरिमाणमेषामिति त्रिदशान्देवान् । `संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये' इति बहुव्रीहिः । `बहुव्रीहौ संख्येये-' इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्तवा तस्मिन्कामे युगपत्पपात । सहस्त्रेणाक्षिभिरद्राक्षीदित्त्यादरातिशयोक्तिः । ननु सुचिरपरित्यगेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्क्यार्थान्तरं न्यस्यति- प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थित्वेन हेतुना चलं चञ्चलम् । फलतन्त्राः प्रभवो न तु गुणतन्त्रा इति भावः ।। ३.१ ।।


स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः ।
भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम् ।। ३.२ ।।

     अन्वयः- स वासवेन आसनसन्निकृष्टम् इतो निषीद इति विसृष्टभूमिः (सन्) भर्तुः प्रसादं मूर्ध्ना प्रतिनन्द्य मिथः एनम् एवं वक्तुं प्राक्रमत ।
     मल्लिo- स इति । स कामो वासवेनेन्द्रेणासनस्य सिंहासनस्य संनिकृष्टं संनिहितमासनसंनिकृष्टं यथा तथा । शेषषष्ठ्यायं समासः । कृद्योगलक्षमया तु न । `न लोकाव्ययनिष्ठाखलर्थतृनाम्' इति षष्ठीनिषेधात् । इतो निषीदेहोपविशेति विसृष्टभूमिर्दत्तावकाशः सन् । भर्तुः स्वामिनः प्रसादमनुग्रहं मूर्ध्नाप्रतिनन्द्य सम्भाव्य मिथो रहसि । `मिथोऽन्योन्यं रहस्यपि' इत्यमरः । एनमिन्द्रमेवं वक्ष्यमाणप्रकारेण वक्तुं प्राक्रमतोपक्रान्तवान् । `प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदम् ।। ३.२ ।।


आज्ञापय ज्ञातविशेष ! पुंसां लोकेषु यत्ते करणीयमस्ति ।
अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ।। ३.३ ।।

     अन्वयः- हे पुंसां ज्ञातविशेष ! आज्ञापय, लोकेषु ते यत् करणीयम् अस्ति, संस्मरणप्रवृत्तं ते अनुग्रहम् आज्ञया संवर्द्धितम् इच्छामि ।
     मल्लिo- अज्ञापयेति ।। हे पुंसां ज्ञातविशेष ज्ञातसार । ज्ञातपुंविशेषेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । आज्ञापय । तदिति शेषः । उत्तरवाक्ये यच्छब्दप्रयोगान्न पूर्ववाक्ये तच्छब्दप्रयोगनिर्बन्धः । किं तदित्याह--लोकेषु ते तव यत्करणीयं कर्तवन्यमस्ति । संस्मरणेन प्रवृत्तमुत्पन्नं ते तवानुग्रहं प्रसादमाज्ञया नियोगेन वर्धय । क्वचित्कर्मणि नियुङ्क्ष्वेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः । तुमुन्नन्तपाठे णिजर्थे यत्नः कार्यः ।। ३.३ ।। न च मे किञ्चिदसाध्यमस्तीत्याह-


केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर्जनिता तपोभिः ।
यावद्‌भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ।। ३.४ ।।

     अन्वयः- हे प्रभो ! ते पदकाङ्क्षिणा केन नितान्तदीर्घैः तपोभिः अभ्यसूया जनिता । (तं ब्रूहि) (सः) आहितसायकस्य अस्य मत्कार्मुकस्य निदेशवर्ती भवति ।
     मल्लिo- केनेति ।। पदकाङ्क्षिणा स्वाराज्यकामेन केन पुंसा नितान्तदीर्घैरतिप्रभूतैस्तपोभिस्ते तवाभ्यसूयेर्ष्या जनिता । तं ब्रूहीति शेषः । किमर्थम् । यावद्यतः स भवद्वैर्याहितसायकस्य संहितबाणस्यास्य मत्कार्मुकस्य निदेशे वर्तत इति निदेशवर्त्याज्ञावशो भवति । अविलम्बेनैव भविष्यतीत्यर्थः । `वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् ।। ३.४ ।।


संप्रति चतुर्वर्गे मोक्षमधिकृत्याह-

असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः ।
बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ।। ३.५ ।।

     अन्वयः- (हे प्रभो !) तव असम्मतः कः पुनर्भवक्लेशभयात् मुक्तिमार्गं प्रपन्नः ? (यावत् सः) आरेचितभ्रूचतुरैः सुन्दरीणां कटाक्षैः बद्धः (सन्) चिरं तिष्ठतु ।
     मल्लिo- असंमत इति ।। तवासंमतः कः पुनर्भवः पुनरुत्पत्तिः । संसार इति यावत् । तत्र ये क्लेशा जन्मजरामरणादयस्तेभ्यो भयान्मुक्तिमार्गं प्रपन्नस्तं वद । यतः सोऽप्यारेचिताभिरेकैकशो विवर्तिताभिर्भ्रूभिश्चतुरैः सुन्दरीणां कटाक्षैर्बद्धश्चिरं तिष्टतु । आरेचितलक्षणं तु- `स्याद्‌भ्रुवोर्ललिताक्षेपादेकस्या एव रेचितम् । तयोर्मूलसमुत्क्षेपं कौटिल्याद्‌भ्रूकुटिर्विदुः ।।' इति ।। ३.५ ।।


धर्मार्थावधिकृत्याह-

अध्यापितस्योशनसापि नीतिं प्रयुक्तराग प्रणिधिद्विषस्ते ।
कस्यार्थधमौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ।। ३.६ ।।

     अन्वयः- उशनसा नीतिम् अध्यापितस्य अपि ते कस्य द्विषः अर्थधर्मौ प्रयुक्तरागप्रणीधिः (सन्) अहं प्रवृद्धः ओघः सिन्धोः तटौ इव पीडयामि ? वद ।
     मल्लिo- अध्यापितस्येति ।। उशनसा शुक्रेण नीतिं नीतिशास्त्रमध्यापितस्यापि अपि शब्दाच्छुक्रशिष्याणामप्रधृष्यत्वं गम्यते । `गतिबुद्धि-' इत्यादिना द्विकर्मकादिण्धातोर्ण्यन्तात्प्रधाने कर्मणि क्तः `अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः' ।इति वचनात् । ते द्विषस्तव शत्रोः कस्यार्थधर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एव प्रणिधिर्बूतो येन सोऽहम् । `प्रार्थने प्रणिधिः चरे' इति यादवः । प्रवृद्ध ओघः सिन्धोर्नद्यास्तटाविव पीडयामि वद ।। ३.६ ।।
काममधिकृत्याह-


कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् ।
नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ।। ३.७ ।।

     अन्वयः- एकपत्नीव्रतदुःखशीलां चारुतया लोलं मनः प्रविष्टां कां नितम्बिनीं मुक्तलज्जां (सतीम्) कण्ठे स्वयंग्राहनिषक्तबाहुम् इच्छसि ?
     मल्लिo- कामिति । एकः पतिर्यस्याः सैकपत्नी पतिव्रता । `नित्यं सपत्न्यादिषु' इति ङीप् । तस्या व्रतं पातिव्रत्यं तेन दुःखशीलां दुःखस्वभावाम् । दृढव्रतामित्यर्थः । `शीलं स्वभावे सद्‌वृत्ते' इत्यमरः । चारुतया सुन्दरत्वेन हेतुना लोलं मनस्त्वच्चितं प्रविष्टां कां नितम्बिनीं नारीं मुक्तलज्जां सतीं कण्ठे स्वयंग्राहनिषक्तबाहुम् । स्वयं गृह्णातीति स्वयंग्राहा । `विभाषा ग्रहः' इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमः । जलचरे ग्राह एवेति नियमादिति । स्वयंग्राहा च सा निषक्तबाहुश्च तां तथाभूतामिच्छसि । त्वदर्थे पतिव्रतामपि व्रताद्‌भ्रंशयिष्यामीत्यर्थः ।। एतच्चेन्द्रस्य पारदारिकत्वादुक्तम् । तथा च श्रुतिः-- `अहल्यायै जारः' इति ।। ३.७ ।।


त्रिविधा नायिका । स्वकीया परकीया साधारणी चेति । तत्र परकीयां प्रत्युक्तम् । इतरे प्रत्याह-

कयासि कामिन् सुरतापराधात्पादानतः कोपनयावधूतः ।
यस्याः करिष्यामि दृढानुतापं प्रवालशाय्याशरणं शरीरम् ।। ३.८ ।।

     अन्वयः- हे कामिन् ! सुरताऽपराधात् पादानतः सन् कोपनया कया अवधूतः असि ? तस्याः शरीरं दृढाऽनुतापं प्रवालशय्याशरणां करिष्यामि ।
     मल्लिo- कयेति ।। हे कामिन्कामुक, सुरतापराधात् । अन्यासङ्गादित्यर्थः । पादानतः प्रणतः सन् । कोपनया कोपनशीलया कया स्त्रियावधूतस्तिरस्कृतोऽसि । तस्याः शरीरं दृढानुतापं गाढपश्चात्तापमत एव प्रवालशय्याशरणं करिष्यामीति ।। ३.८ ।।


प्रसीद विश्राम्यतु वीर ! वज्रं शरैर्मदीयैः कतमः सुरारिः ।
बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ।। ३.९ ।।

     अन्वयः- हे वीर ! प्रसीद, वज्रं विश्राम्यतु । मदीयैः शरैः मोधीकृतबाहुः वीर्यः कतमः सुराऽरिः कोपस्फुरिताऽधराभ्यः स्त्रीभ्यः अपि बिभेतु ।
     मल्लिo- प्रसीदेति ।। हे वीर, प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु । उदास्तामित्यर्थः । मदीयैः शरैर्मोधीकृतबाहुवीर्यो विफलीकृतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः । वा बहूनां जातिपरिप्रश्ने डतमच्' इति डतमच्प्रत्ययः । कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु । किमु वक्तव्यं पुंभ्य इत्यर्थः सकृद्भीतः सर्वतो बिभेतीति भावः । `भीत्रार्थानां भयहेतुः' इत्यपादानत्वात्पञ्चमी ।। ३.९ ।।


तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ।। ३.१० ।।

     अन्वयः- तव प्रसादात् कुसुमायुधः अपि (अहम्) एकं मधुम् एव सहायं लब्ध्वा पिनाकपाणेः हरस्य अपि धैर्यच्युतिं कुर्याम्, अन्ये धन्विनः मम के ।
     मल्लिo-- तवेति ।। किं बहुना, तव प्रसादादनुग्रहात्कुसुमायुधोऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधुं वसन्तमेव सहायं लब्ध्वा पिनाकः पाणौ यस्य स पिनाकपाणिः । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' । हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यहानिं कुर्याम् । कर्तु शक्नुयामित्यर्थः । `शकि लिङ् च' इति शक्यार्थे लिङ् । अन्ये धन्विनो धनुर्भृते मम के । न केऽपीत्यर्थः । किंशब्दः कुत्सायाम् । `कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते' इति शाश्वतः ।। ३.१० ।।


अथोरुदेशादवतार्य पादमाक्रान्तिसंभावितपादपीठम् ।
संकल्पितार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ।। ३.११ ।।

     अन्वयः- अथ आखण्डलः ऊरुदेशात् पादम् आक्रान्तिसंभावितपादपीठम् अवतार्य सङ्कल्पिताऽर्थे विवृतात्मशक्तिं कामम् इदं बभाषे ।
     मल्लिo-- अथेति ।। अथ स्मरवाक्यश्रवणानन्तरमाखण्डलः सहस्त्राक्ष ऊरुदेशात्पादमाक्रमणेन संभावितं पादपीठं यस्मिंस्तद्यथा तथावतार्थं संकल्पितार्थे हरचित्ताकर्षणरूपे विषये विवृतात्मशक्तिम् । `कुर्यां हरस्यापि-' (३/१०) इत्यादिना प्रकटीकृतस्वसामर्थ्यं कामं स्मरमिदं वक्ष्यमाणं बभाषे ।। ३.११ ।।


सर्वं सखे ! त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च ।
वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साघकं च ।। ३.१२ ।।

     अन्वयः- सखे ! सर्वम् एतत् त्वयि उपपन्नम्, मम कुलिशं भवांश्च उभे अस्त्रे । वज्रं तपोवीर्यमहत्सु कुण्ठम् । त्वं सर्वतोगामि साधकं च ।
     मल्लिo- सर्वमिति ।। हे सखे ! सखे इति संबोधनं गौरवार्थम् । सर्वमेतत्त्वय्युपपन्नं सिद्धम् । मम कुलिशं वज्रं भवांश्चोभे अस्त्रे । तत्र वज्रं तपोवीर्येण तपोबलेन महत्सु प्रबलेषु कुण्ठं प्रतिबद्धप्रसरम् । त्वमस्त्रं पर्वतोगामि च साधकं च । तापसेष्वप्यकुण्ठमित्यर्थः ।। ३.१२ ।


अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ।। ३.१३ ।।

     अन्वयः- (हे सखे !) ते सारम् अवैमि । अतः खलु आत्मसमं त्वां गुरुणि कार्ये नियोक्ष्ये । कृष्णेन भूधरताम् अवेक्ष्य शेषो देहोद्वहनाय व्यादिश्यते ।
     मल्लिo-अवैमीति ।। हे सखे, ते सारं बलमवैमि वेद्मि । अतः खल्वत एवात्मसमं मत्तुल्यं त्वां गुरुणि महति कार्ये `तस्मै हिमाद्रेः-' (३/१६) इति वक्ष्यमाणे नियोक्ष्ये । `स्वराद्यन्तोपसर्गादिति वक्तव्यम्' इति वार्तिकादात्मनेपदनियमः । तथाहि । सारपरीक्षापूर्वक एव सर्वत्र नियोग इत्याह- कृष्णेन विष्णुना । धरतीति धरः । पचाद्यच् । भुवो धरो भूधरस्तस्य भावस्तत्तां भूधरताम् । भूधरणशक्तिमित्यर्थः । अवेक्ष्य ज्ञात्वा शेषः सर्पराजो देहोद्वहनाय स्वदेहमुद्वोढुम् । `क्रियार्थोपपदस्य-' इत्यादिना चतुर्थी । व्यादिश्यते नियुज्यते । शेषशायी हि भगवान् ।। ३.१३ ।।


नियोगाङ्गीकारं सिद्धवत्कर्तुमाह-

आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।
निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ।। ३.१४ ।।

     अन्वयः- हे मित्र ! वृषाङ्के बाणगतिम् आशंसता त्वया नः कार्यं प्रतिपन्नकल्पम् । इदानीम् उच्चैर्द्‌विषां यज्ञांऽशभुजाम् ईप्सितम् एतत् एव निबोध ।। ३.१४ ।।
     मल्लिo- आशंसतेति ।। वृषाङ्के हरे बाणगतिं बाणप्रसरमाशंसता कथयता । `कुर्यां हरस्यापि पिनाकपाणेः' (३/१०) इत्यादिनेति शेषः । त्वया नोऽस्माकं कार्यं प्रतिपन्नकल्पमङ्गीकृतप्रायम् । `ईषदसमात्पौ-' इत्यादिना कल्पप्रत्ययः । कथमेतदित्याह- इदानीमुच्चैरुन्नता द्विषो येषां तेषामुच्चैर्द्विषां यज्ञांशभुजां देवानाम् । एतेन द्विषल्लुप्तयज्ञभागत्वं सूच्यते । ईप्सितमाप्तुमिष्टमेतदेव हरे बाणप्रयोगरुपमेव निबोध । हरायत्तं बुद्ध्यस्वेत्यर्थः । `बुध बोधने' इति धातोर्लोट् । अत्र `आशंसता प्रार्थयमानेन' इति नाथव्याख्यानमनाथव्याख्यानम् । आङ्पूर्वयोः शास्तिशंसत्योरिच्छार्थत्वे आत्मनेपदनियमात् । याच्‌ञार्थत्वस्याप्रामाणिकत्वात् । `कुर्यां हरस्यापि-' (३/१०) इत्यत्रानयोरभावादयोगाच्चेति ।। ३.१४ ।।


किं तत्कार्यं कथं वा तस्य हरायत्तत्वं कुतो वा मदपेक्षेत्याह-

अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः ।
स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभू र्ब्रह्मणि योजितात्मा ।। ३.१५ ।।

     अन्वयः- हि अमी देवाः जयाय भवस्य वीर्यप्रभवं सेनान्यम् उशन्ति । ब्रह्माऽङ्गभूः ब्रह्मणि योजितात्मा स च त्वदेकेषुनियातसाध्यः ।
     मल्लिo- अमी इति ।। हि यस्मादमी देवा जयाय शत्रुजयार्थं भवस्य हरस्य वीर्यप्रभवं तेजः संभूतं सेनापतिमुशन्ति कामयन्ते । `वश कान्तौ' इति धातोर्लट् । ब्रह्मणां सद्योजातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्गभूः । कृतमन्त्रन्यास इत्यर्थः । ब्रह्मणि निजतत्त्वे `वेदस्तत्वं तपो ब्रह्म ब्रह्मा' इत्युभयत्राप्यमरः । योजितात्मा नियमितचित्तः । मन्त्रन्यासपूर्वंकं ब्रह्म ध्यायन्नित्यर्थः । स भवश्च त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः । अनन्यसाध्योऽयमस्मिन्नवसर इति भावः ।। ३.१५ ।।


तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ।। ३.१६ ।।

     अन्वयः- यतात्मने तस्मै प्रयतां हिमाऽद्रेः तनूजां रोचयितुं यतस्व । योषित्सु क्षमा तद्वीर्यनिषेकभूमिः सा एव इति आत्मभुवा उपदिष्टम् ।
     मल्लिo-- तस्मा इति ।। यतात्मने नियतचित्ताय तस्मै भवाय । `रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वाच्चतुर्थी । प्रयतां हिमाद्रेस्तनूजां पार्वतीं रोचयितुं यतस्व । भवितव्यं चात्र पार्वत्यैवेत्याह-योषित्सु स्त्रीषु मध्ये । `यतश्च निर्धारणम्' इति सत्पमी । क्षमा शक्ता तस्य हरस्य वीर्यं रेतस्तस्य निषेकः क्षरणं तस्य भूमिः क्षेत्रं सा पार्वत्येवेत्यात्मभुवा ब्रह्मणोपदिष्टम् । `उभे एव क्षमे वोढुम्' (२.६०) इत्यादिनोक्तमित्यर्थः ।। ३.१६ ।।


सापीदानीं संनिकृष्टैव तस्येत्याह-

गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् ।
अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ।। ३.१७ ।।

     अन्वयः- नगेन्द्रकन्या च गुरोः नियोगात् अधित्यकायां तपस्यन्तं स्थाणुम् अन्वास्ते इति मया अप्सरसां मुखेभ्यः श्रुतं, स वर्गः मत्प्रणीधिः ।
     मल्लिo- गुरोरिति ।। नगेन्द्रकन्या पार्वती च गुरोः पितुर्नियोगाच्छासनादधित्यकायां हिमाद्रेरुर्ध्वभूमौ । `भूमिरुर्ध्वमधित्यका' इत्यमरः । `उपाधिभ्यां त्यकन्नासन्नारुढयोः' इति त्यकन्प्रत्ययः । तपस्यन्तं तपश्चरन्तम् `कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङप्रत्ययः । ततः शतृप्रत्ययः । स्थाणुं रुद्रमध्वास्ते । उपास्ते इत्यर्थः । इतीदं मयाप्सरसां मुखेभ्यः श्रुतम् । न चैतदैतिह्यमात्रमित्याह- स वर्गः सोऽप्सरसां गणो मत्प्रणिधिर्मम गूढचरः । `प्रणिधिः प्रार्थने चर' इति यादवः ।। ३.१७ ।।


तद् गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव ।
अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ।। ३.१८ ।।

     अन्वयः- तत् सिद्ध्यै गच्छ । देवकार्यं कुरु । अयम् अर्थः अर्थान्तरभाव्य एव । बीजाऽङ्कुरः उदयात् प्राक् अम्भ इव त्वाम् उत्तमं प्रत्ययम् अपेक्षते ।
     मल्लिo- तदिति ।। तत्तस्मात्सिद्ध्यै कार्यसिद्ध्यर्थं गच्छ । देवकार्यं कुरु । आशिषि लोट् । अयमर्थः प्रयोजनमर्थान्तरभाव्यः कारणान्तरसाध्य एव । तच्च कारणान्तरं पार्वतीसंनिधानमिति भावः । `अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने ।' इति विश्वः । तथापि बीजसाध्योऽङ्कुरो बीजाङ्कुर उदयादुत्पतेः प्रागम्भ इव त्वामुत्तमं प्रत्ययं चरमं कारणमपेक्षते । `प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु'। इत्यमरः । तस्मादस्मिन्नर्थे तव चरमसहकारित्वादनन्यसाध्योऽयमर्थ इति भावः ।। ३.१८ ।।


तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।
अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ।। ३.१९ ।।

     अन्वयः- सुराणां विजयाभ्युपाये तस्मिन् अस्त्रगतिः तव एव नाम । अतः त्वं कृती । हि अप्रसिद्धम् अपि अनन्यसाधारणम् एव कर्म पुंसां यशसे भवति ।
     मल्लिo-- तस्मिन्निति ।। सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन्हरेऽस्त्रप्रसरस्तवैव नाम । नामेति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतस्त्वं कृती कृतार्थः । तथाहि । अप्रसिद्धमप्यनन्यसाधारणमेव कर्म पुंसां यशसे हि । इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः ।। ३.१९ ।।


प्रोत्साहनार्थं स्तौति-

सुराः समभ्यर्थयितार एते,कार्यं त्रयाणामपि विष्टपानाम् ।
चापेन ते कर्म न चातिहिंस्त्रमहो बतासि स्पृहणीयवीर्यः ।। ३.२० ।।

     अन्वयः- एते सुराः समभ्यर्थयितारः । कार्यं त्रयाणाम् अपि विष्टपानाम् । कर्म ते चापेन, अतिहिंस्त्रं च न । अहो बत ! स्पृहणीयवीर्यः असि ।
     मल्लिo- सुरा इति ।। एते सुराः समभ्यर्ययितारो याचितारः । कार्यं प्रयोजनं त्रयाणां विष्टपानामपि संबन्धि । सर्वलोकार्थमित्यर्थः। कर्म ते तव चापेन । न त्वन्येनेति भावः । अतिहिंस्त्रमतिघातुकं च न। अहो बत इति संबोधने । `अहो बतानुकम्पायां खेदे संबोधनेऽपि च' इति विश्वः । अथवा अहो आश्चर्ये । बतेत्यामन्त्रणे संतोषे चेति । `बतामन्त्रणसंतोषखेदानुक्रोशविस्मये' । इति विश्वः । स्पृहणीयं च इति नानार्थकोषः ।। ३.२० ।।


मधुश्च ते मन्मथ ! साहचर्यादसावनुक्तोऽपि सहाय एव ।
समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ।। ३.२१ ।।

     अन्वयः- हे मन्मथ ! असौ मधुश्च ते साहचर्यात् अनुक्तोऽपि सहाय एव । समीरणो हुताऽशनस्य नोदयिता भवेति केन व्यादिश्यते ?
     मल्लिo-- मधुरिति ।। हे मन्मथ ! असौ मधुश्च वसन्तोऽपि ते साहचर्यात्सहचरत्वादेवानुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथाहि । समीरणो वायुहुताशनस्याग्नेर्नोदयिता प्रेरको भवेति केन व्यादिश्यते । अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणं सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ्निर्दिष्ट इति प्रतिवस्तूपमालंकारोऽयम्। तदुक्तम्-- `यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ।।' इति ।। ३.२१ ।।


तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थे ।
ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ।। ३.२२ ।।

     अन्वयः- `तथा' इति भर्तुः शेषाम् इव आज्ञां मूर्ध्ना आदाय मदनः प्रतस्थे । इन्द्रः ऐरावतास्फालनकर्कशेन हस्तेन तदङ्गं पस्पर्श ।
     मल्लिo- तथेति ।। तथास्त्विति भर्तुः स्वामिनः शेषामिव प्रसाददत्तां मालामिव । `प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता' । इति विश्वः । `माल्याक्षतादिदाने स्त्री शेषा' इति वैजयन्तीकेशवौ । आज्ञां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे ।`समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । इन्द्र ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गं मदनदेहं पस्पर्श । हस्तस्पर्शेन संभावयामासेत्यर्थः ।`शेषामिवाज्ञाम्' इत्यत्र साधकबाधकप्रमाणाभावादुपमोत्प्रेक्षयोः संदेहसंकर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाज्ञामिवेत्युपमा । अथ न दत्ता तर्हि शेषात्वेनोत्प्रेक्षिता । शेषादानं तु संदिग्धमिति ।। ३.२२ ।।


स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः ।
अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ।। ३.२३ ।।

     अन्वयः- सः अभिमतेन सख्या माधवेन रत्या च साशङ्कम् अनुप्रयातः (सन्) अङ्गव्ययप्रार्थितकार्यसिद्धिः हैमवतं स्थाण्वाश्रमं जगाम ।
     मल्लिo- स इति ।। स मदनोऽभिमतेन प्रियेण सख्या सुहृदा माधवेन वसन्तेन रत्या स्वदेव्या च साशङ्कं संकटमापतितमिति सभयमनुप्रयातः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्यसिद्धिर्येन स तथोक्तः । शीर्त्वा मृत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः । हैमवतं हिमवति भवं स्थाणो रुद्रस्याश्रमं जगाम ।।३.२३ ।।


तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।
संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ।। ३.२४ ।।

     अन्वयः- तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्तो मधुः सङ्कल्पयोनेः अभिमानभूतम् आत्मानम् आधाय जजृम्भे ।
     मल्लिo- तस्मिन्निति ।। तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तते इति प्रतिकूलवर्ती विरोधी मधुर्वसन्तः संकल्पयोनोर्मनोभवस्याभिमानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः । आत्मानं निजस्वरुपमाधाय संनिधाय जजृम्भे प्रादुर्बभूव । वसन्तधर्मान्प्रवर्तयामासेत्यर्थः ।। ३.२४ ।।


कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुंप्रवृत्ते समयं विलङ्घ्‌य ।
दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिश्वासमिवोत्ससर्ज ।। ३.२५ ।।

     अन्वयः- उष्णरश्मौ समयं विलङ्घ्‌य कुबेरगुप्तां दिशं गन्तुं प्रवृत्ते (सति) दक्षिणा दिक्मुखेन गन्धवहं व्यलीकनिश्वासम् इव उत्ससर्ज ।
वसन्तधर्मानाह-
     मल्लिo-- कुबेरेति । उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं संगमकालं च विलङ्ध्याकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालितां कुत्सितशरीरेण केनचिद्रक्षितां च दिशमुदीचीं स्त्रीलिङ्गाक्षिप्तां कांचिन्नायिकां च गन्तुं चलितुं संगन्तुं च प्रवृत्ते सति दक्षिणा दिग्दाक्षिण्यवती नायिका च मुखेनाग्रभागेन वक्त्रेण च । वहतीति वहः । पचाद्यच् । गन्धस्य वहं गन्धवहमनिलं व्यलीकेन दुःखेन निश्वासस्तं व्यलीकनिस्वासमिव । `दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः' इति वैजयन्ती । उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासंगतिं प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिंचिद्वदा दुःखान्निश्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ताः इति वाक्यार्थः । अत्रोत्प्रेक्षालंकारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यम् । केवलविशेषसामर्थ्यादेवाप्रस्तुतप्रतीतौ सोत्तिष्ठते । अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । नच श्लेष एव प्रकृताप्रकृतविषयः, उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्माच्छब्दशक्तिमूलोऽयं ध्वनिः । स च व्यलीकनिश्वासरूपचेतनधर्मसंभावनार्थं दक्षिणस्या दिशो नायिकया सहाभेदमासदयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः ।। ३.२५ ।।


असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण ।। ३.२६ ।।

     अन्वयः- अशोकः सद्यः स्कन्धात् प्रभृति एव सपल्लवानि कुसुमानि कुसुमानि असूतः आसिञ्जितनूपुरेण सुन्दरीणां पादेन सम्पर्कं न अपैक्षत ।
     मल्लिo- असूतेति ।। अशोको वृक्षविशेषः सद्यः स्कन्धात्प्रकाण्डात्प्रभृत्येव स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । भाष्यं च `मूलात्प्रभृत्यग्राद्‌वृक्षांस्तक्ष्णुवन्ति' इति `कार्तिक्याः प्रभृत्याग्रहायणी मास' इत्यादि । सपल्लवानि कुसुमान्यसूत । उभयमप्यजीजनदित्यर्थः । आसिञ्जितो नूपुरो यस्य तेन । सिञ्जधातोः `अकर्मक--' इत्यादिना कर्तरि क्तः । सुन्दरीणां पादेन संपर्कं ताडनं नापैक्षत । `सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्‌गमो भवेत् ।।' इति । तथाहि- `पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः । आलोकितः कुरुबकः कुरुते विकासमालोडितस्तिलक उत्कलिको विभाति' इति ।। ३.२६ ।।


सद्यः प्रवालोद्‌गमचारुपत्रे नीते समाप्तिं नवचूतबाणे ।
निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य ।। ३.२७ ।।

     अन्वयः- मधुः प्रवालोद्गमचारुपत्रे नवचूतबाणे समात्पिं नीते सति सद्यो मनोभवस्य नामाक्षराणि इव द्विरेफान् निवेशयामास ।
     मल्लिo- सद्य इति । मधुर्वसन्त एवेषुकारः प्रवालोद्‌गमाः पल्लवाङ्कुरा एव चारुणि पत्राणि पक्षा यस्य तस्मिन् । `पत्रं वाहनपक्षयोः' इत्यमरः । नवं चूतं चूतकुसुमं तदेव बाणस्तस्मिन्नवचूतबाणे समात्पिं नीते सति सद्यो मनोभवस्य धन्विनो नामाक्षराणीव, द्विरेफान्भ्रमरान्निवेशयामास निदधौ । अत्र प्रवालपत्र इत्याद्येकदेशविवर्तिरुपकं मधोरिषुकारत्वं रुपं यन्नामाक्षराणीवेत्युत्प्रेक्षायां निमित्तमित्येकदेशविवर्तिरुपकोत्थापितेयमुत्प्रेक्षा ।। ३.२७ ।।


वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गर्न्धतया स्म चेतः।
प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्र्वसृजः प्रवृत्तिः ।। ३.२८ ।।

     अन्वयः- कर्णिकारं वर्णप्रकर्षे सति निर्गन्धतया चेतो दुनोति स्म । प्रायेण विश्वसृजः प्रवृत्तिः गुणानां सामग्र्यविधौ पराङ्मुखी ।
     मल्लिo- वर्णेति । कर्णिकारं कर्णिकारकुसुमम् । `अवयवे च प्राण्योषधिवृक्षेभ्यः' इत्युत्पन्नस्य तद्धितस्य `पुष्पमूलेषु बहुलम्' इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वर्णोत्कर्षे सत्यपि निर्गन्धतया हेतुना चेतो दुनोति स्म पर्यतापयत् । `लट् स्मे' इति भूतार्थे लट् । तथाहि । प्रायेण विश्वसृजो विधातुः प्रवृत्तिर्गुणानां सामग्र्यविधौ साकल्यसंपादनविषये पराङ्मुखी । सर्वत्रापि वस्तुनि र्किचिद्वैकल्यं संपादयति । यथा चन्द्रे कलङ्कः । अतः कर्णिकारेऽपि नैर्गन्ध्यं युज्यत इति भावः । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यासोऽलंकारः ।। ३.२८ ।।


बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ।। ३.२९ ।।

     अन्वयः- अविकासभावात् बालेन्दुवक्राणि अतिलोहितानि पलाशानि वसन्तेन समागतानां वनस्थलीनां सद्यो नखक्षतानि इव बभुः ।
     मल्लिo- बालेन्द्विति । अविकासभावान्निर्विकासत्वान्मुकुलभावाद्देतोर्बालेन्दुरिव वक्राण्यतिलोहितान्यतिरक्तानि पलाशानि किंशुकपुष्पाणि । `पलाशं किंशुकः पर्णः' इत्यमरः । वसन्तेन पुंसा समागतानां संगतानां वनस्थलीनां स्त्रीणां सद्यः सद्यो दत्तानि । पुराणेष्वतिलौहित्याभावादिति भावः । नखक्षतानीव बभुः । अत्र वसन्तस्य वनस्थलीनां च विशेषणसाधारण्यान्नायकव्यवहारप्रतीतेः समासोक्तिस्तावदस्ति । `नखक्षतानीव' इति जातिस्वरुपोत्प्रेक्षा वक्रत्वलौहित्यगुणनिमित्ता जागर्ति । सा च नायकव्यवहाराश्रितसमासोक्तिगर्भिण्येवोत्तिष्ठत इत्युभयोरेककालतैव । विशेषणसामार्थ्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिष्यत इति हि लक्षणम् ।। ३.२९ ।।


लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य ।
रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ।। ३.३० ।।

     अन्वयः- मधुश्रीः लग्नद्विरेफाञ्जनभक्तिचित्रं तिलकं मुखे प्रकाश्य बालाऽरुणकोमलेन रागेण चूतप्रवालोष्ठम् अलञ्चकार ।
     मल्लिo- लग्नेति । मधुश्रीवंसन्तलक्ष्मीर्लग्नद्विरेफा एवाञ्जनभक्तयः कज्जलरचनास्ताभिश्चित्रं चित्रवर्णं तिलकं पुष्पविशेषमेव तिलकं विशेषकम् । मुखं प्रारम्भस्तस्मिन्नेव मुखे वक्त्रे प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेणारुणिम्ना तेनेव लाक्षारागेण चूतप्रवाल एवौष्ठस्तं चूतप्रवालोष्ठमलंचकार प्रसाधयामास । अत्र रुपकालंकारः ।। ३.३० ।।


मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विध्नितदृष्टिपाताः ।
मदोद्धताः प्रत्यनिलं विचेरुर्बनस्थलीर्मर्मरपत्रमोक्षाः ।। ३.३१ ।।

     अन्वयः- प्रियालद्रुममञ्जरीणां रजःकणैः विध्नितदृष्टिपाता मदोद्धताः मृगाः प्रत्यनिलं मर्मरपत्रमोक्षा वनस्थलीः विचेरुः ।
     मल्लिo- मृगा इति । प्रियालद्रुमा राजादनवृक्षाः । `राजादनः प्रियालः स्यात्' इत्यमरः । तेषां मञ्जर्यस्तासां रजःकणैर्विध्निताः संजातविध्ना दृष्टीनां पाताः प्रसादा येषां ते तथोक्ताः मदोद्धता मृगाः प्रत्यनिलमनिलाभिमुखं मर्मरा मर्मरशब्दवन्तः पत्रमोक्षा जीर्णपर्णपाता यासु ता वनस्थलीर्विचेरुर्वनप्रदेशेषु चरन्ति स्म । `देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' । इति चरतेः सकर्मकत्वम् ।। ३.३१ ।।


चूताङ्कुरस्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ।। ३.३२ ।।

     अन्वयः- चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यत् मधुरं चुकूज, तद् एव मनस्विनीमानविघातदक्षं स्मरस्य वचनं जातम् ।
     मल्लिo- चूताङ्कुरेति । चूताङ्कुराणामास्वादेन कषायकण्ठो रक्तकण्ठः । `सरभावपथे रक्ते कषायः' इति केशवः । पुमान्कोकिलः । पुंग्रहणं प्रागल्भ्यद्योतनार्थम् । मधुरं चुकूजेति यत्तत्कूजनमेव मनस्विनीनां मानविघाते रोषनिरासे दक्षं स्मरस्य वचनं मानं त्यजतेत्याज्ञावचनं जातम् । कोकिलकूजितश्रवणानन्तरं स्मराज्ञत्पा इव मानं जहुरित्यर्थः ।। ३.३२ ।।


हिमव्यपायाद्विशदाधराणा मापाण्डरीभूतमुखच्छवीनाम् ।
स्वेदोद्‌गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ।। ३.३३ ।।

     अन्वयः-- हिमव्यपायात् विशदाऽधराणाम् आपाण्डरीभूतमुखच्छवीनां किंपुरुषाऽङ्गनानां पत्रविशेषकेषु स्वेदोद्‌गमः पदं चक्रे ।
     मल्लिo-- हिमेति । हिमस्य व्यपायादपगमाद्विशदा नीरुजा अधरा ओष्ठा यासां तासामापाण्डरीभूतमुखच्छवीनाम् । कुङ्कुमपरिहारादिति भावः । किंपुरूषाङ्गनानां पत्रविशेषकेषु पत्ररचनासु स्वेदोद्‌गमः पदं चक्रे । घर्मोदयात्स्वेदोदयोऽभूदित्यर्थः । विशदाधरात्वं मधूच्छिष्टराहित्यादिति हेमन्तेषु नार्यो बिम्बोष्ठेषु मधुच्छिष्टं शीतभयाद्दधतीति प्रसिद्धम् ।। ३.३३ ।।


तपस्विनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।
प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदीशा मनसां बभूवुः ।। ३.३४ ।।

     अन्वयः- स्थाणुवनौकसः तपस्विनः आकालिकीं तां मधुप्रबृत्तिं वीक्ष्य प्रयत्नसंस्तम्भितविक्रियाणां मनसां कथंचित् ईशा बभूवुः ।
     मल्लिo- तपस्विन इति । स्थाणोर्वनमोको येषां ति तपस्विनस्तत्रत्या मुनयः । समानकाले आद्यन्तावस्या आकालिकीम् । अकालभवत्वादुत्पत्त्यनन्तरविनीशिनीमित्यर्थः । `आकालिकडाद्यन्तवचने' इति समानकालदिकट्प्रत्ययः प्रकृतेराकाल आदेशश्च निपातितः । `टिड्ढाणञ्-' इत्यादिना ङीप् । केचिदकालाद् देहादध्यात्मादित्वाद्भवार्थे ठगित्याहुः । तामाकालिकीं मधुप्रवृत्तिं वीक्ष्य प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्धविकाराणां मनसां कथंचिदीशा नियन्तारो बभूवुः ।। ३.३४ ।।


तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवब्रुः ।। ३.३५ ।।

     अन्वयः- आरोपितपुष्पचापे रतिद्वितीये मदने तं देशं प्रपन्ने सति द्वन्द्वानि काष्ठागतस्नेहरसाऽनुविद्धं भावं क्रियया विवब्रुः ।
     मल्लिo- तमिति । आरोपितमधिज्यं कृतं पुष्पचापं येन तस्मिन्रतिर्द्वितीया यस्य तस्मिन्रतिसहाये मदने तं देशं स्थाण्वाश्रमं प्रपन्ने प्राप्ते सति द्वन्द्वानि स्थावराणि जङ्गमानि च मिथुनानि काष्ठोत्कर्षः । `काष्ठोत्कर्षे स्थितौ दिशि' इत्यमरः । तां गतो यः स्नेह इष्टसाधननिबन्धनः प्रेमापरनामा ममताभिमानः `प्रेमा ना प्रियता हार्दं प्रेम स्नेहः' इत्यमरः । स एव रसस्तेनानुविद्धं संपृक्तं भावं रत्याख्यं श्रृङ्गारभावं क्रियया कार्यभूतया चेष्टया विवब्रुः प्रकटीचक्रुः । श्रृङ्गारचेष्टाः प्रावर्तन्तेत्यर्थः ।। ३.३५ ।।


मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
श्रृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ।। ३.३६ ।।

     अन्वयः- द्विरेफः कुसुमैकपात्रे मधु स्वां प्रियाम् अनुवर्तमानः (सन्) पपौ । कुष्णासारश्च स्पर्शनिमीलिताक्षीं मृगीं श्रृङ्णेण अकण्डूयत ।
ताश्चेष्टा आह `मधु' इत्यादिभिश्चर्तुभिः-
     मल्लिo- मध्विति । द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः । उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः- `शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते । यथा भ्रमरशब्दस्य द्विरेफत्वाद् द्विरेफो भ्रमरः' इति । कुसुममेवैकं साधारणं पात्रं तस्मिन्मधु मकरन्दम् । `मधु मद्ये पुष्परसे' इति विश्वः । स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन्पपौ । तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शवलश्च कृष्णसारः कृष्णमृगः । `वर्णो वर्णेन' इति समासः । स्पर्शेन स्पर्शसुखेन निमीलिताक्षीं मृगीं श्रृङ्गेणाकण्डूयत कर्षितवान् । `कण्ड्‌वादिभ्यो यक्‌' इति यक् । ततः कर्तरि लङ् ।। ३.३६ ।।


ददौ रसात्पङ्कजरेणुगन्धि गजाय गणडूषजलं करेणुः ।
अर्धोपभुक्तेन बिसेन जायां संभावायामास रथाङ्गनामा ।। ३.३७ ।।

     अन्वयः- रसात् करेणुः पङ्कजरेणुगन्धि गण्डूषजलं गजाय ददौ । रथाऽङ्गनामा च अर्धोपमुक्तेन बिसेन जायां सम्भावयामास ।
     मल्लिo- ददाविति । रसादतिरागात्करेणुः करिणी । `करेणुरिभ्यां स्त्री नेभे' इत्यमरः । पङ्काज्जायत इति पङ्कजं तस्य रेणुः पङ्कजरेणुस्तस्य गन्धोऽस्यास्तीति पङ्कजेरणुगन्धि गण्डूषजलं मुखान्तर्धृतजलं गजाय ददौ । रथाङ्गनामा चक्रवाकोऽर्धं यथातथोपभुक्तेनार्द्धजग्धेन बिसेन जायां संभावयामास । स्वजग्धशेषं ददावित्यर्थः ।। ३.३७ ।।


गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्‌वासितपत्रलेखम् ।
पुष्पासवाघूर्णितनेत्रशेभि प्रियामुखं किंपुरुषश्चुचुम्बे ।। ३.३८ ।।

     अन्वयः- किंपुरुषः गीताऽन्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्‌वासितपत्रलेखं पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं चुचुम्बे ।
     मल्लिo- गीतान्तरेष्विति । किंपुरुषः किंनरः श्रमवारिलेशैः स्वेदोदबिन्दुभिः किंचिदीषत्समुच्छ्‌वासिता विश्लेषिताः पत्रलेखा यस्य तत् । पुष्पाणामासवो मद्यं पुष्पासवः । पुष्पोद्भवमद्यमित्यर्थः । वसन्ते मधूकस्य संभवात्पुष्पवासितमिति केचित् । तेनाघूर्णिताभ्यामुद्‌भ्रान्ताभ्यां शोभत इति तथोक्तं प्रियामुखं गीतान्तरेषु गीतमध्यंषु चुचुम्बे चुचुम्ब ।। ३.३८ ।।


पर्याप्तपुष्पस्तवकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः ।
लतावधूभ्यस्तरवोऽप्यवापुर्विनभम्रशाखाभुजबन्धनानि ।। ३.३९ ।।

     अन्वयः- तरवोऽपि पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यो लतावधूभ्यः विनम्रशाखाभुजबन्धनानि अवापुः ।
     मल्लिo- पर्याप्तेति । पर्याप्ताः समग्राः पुष्पस्तबका एव स्तना यासां ताभ्यः । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति विकल्पान्न ङीप् । स्फुरन्तः प्रवालाः पल्लवा एवौष्ठास्तैर्मनोहराभ्यो लता एव वध्वस्ताभ्यः सकाशात्तरवोऽपि । लिङ्गादेव पुंस्त्वं गम्यते । विनम्राः शाखा एव भुजास्तैर्बन्धनान्यवापुः । ताभिरालिङ्गिता इत्यर्थः । स्थावराणामपि मदनविकारोऽभूत्किमुतान्योषामिति भावः । एतच्च तरुलतानामपि चेतनत्वादुक्तम् । यथाह मनुः- `अन्तः संज्ञा भवन्त्येते सुखदुःखसमन्विताः' । इति । अत्र रुपकालंकारः ।। ३.३९ ।।


श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां नहि जातु विध्नाः समाधिभेदप्रभवो भवन्ति ।। ३.४० ।।

     अन्वयः- अस्मिन् क्षणे हरः श्रुताऽप्सरोगीतिः अपि प्रसंख्यानपरो बभूव । आत्मेश्वराणां विध्ना जातु समाधिभेदप्रभावा न भवन्ति ।
     मल्लिo- श्रुतेति । अस्मिन्क्षणे वसन्ताविर्भावकाले भगवान्हरः श्रुताप्सरोगीतिरपि । दिव्याङ्गनागानमाकर्णयन्नपीत्यर्थः । प्रसंख्यानपर आत्मानुसंधानपरो बभूव । तथाहि । आत्मनश्चित्तस्येश्वराणां नियन्तॄणाम् । वशिनामित्यर्थः । विहन्यन्त एभिरिति विध्नाः प्रत्यूहाः । घञर्थे कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति ।। ३.४० ।।


लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः ।
मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्व्यनैषीत् ।। ३.४१ ।।

     अन्वयः- अथ लतागृहद्वारगतो वामप्रकोष्ठार्पितहेमवेत्रः नन्दी मुखाऽर्पितैकाऽङ्गुलिसंज्ञया एव गणान् `चापलाय मा (भूत) इति व्यनैषीत् ।
     मल्लिo- लतेति । अथ लतागृहद्वारं गतो वामे प्रकोष्ठेऽर्पितहेमवेत्रो धारितहेमदण्डो नन्दी नन्दिकेश्वरः । `नन्दी भृङ्गिरिटिस्तण्डुनन्दिनौ नन्दिकेश्वरे' इति कोशः । मुखेऽर्पितायाः सरोषविस्मयस्तिमितावलोकं निहिताया एकस्या अङ्गुलेस्तर्जन्याः संज्ञया सूचनयैव । `संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना' । इत्यमरः । गणान्प्रमथांश्चापलाय चापलं कर्तुं मा भवतेति । `क्रियार्थोपपदस्य-' इत्यादिना चतुर्थी । व्यनैषीच्छिक्षितवान् ।। ३.४१ ।।


पीत्याह-

निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।
तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतास्थे ।। ३.४२ ।।

     अन्वयः- निष्कम्पवृक्षं निभृतद्विरेफं मूकाऽण्डजं शान्तमृगप्रचारं सर्वम् एव काननं तच्छासनात् चिऽत्रार्पितारम्भम् इव अवतस्थे ।
     मल्लिo- निष्कम्पेति । निष्कम्पवृक्षम्, इदमुद्भिजोपलक्षणम् । निभृतद्विरेफं निश्चलभृङ्गम् । स्वेदजोपलक्षणमेतत् । मूकाण्डजं निः शब्दंपक्षिसरीसृपादिकम् । एतेनाण्डजजातिरुक्ता । शान्तमृगप्रचारम्, जरायुजोपलक्षणमेतत् । सर्वमेव काननं तच्छासनान्नन्दीश्वराज्ञया चित्रार्पितारम्भं चित्रलिखितारम्भमिवावतस्थे । `नृगवाद्या जरायुजाः । स्वेदजाः कृमिदशाद्याः पक्षिसर्पादयोऽण्डजाः । `उद्भिदस्तरुगुल्माद्या' इत्यमरः ।। ३.४२ ।।


दृष्टिप्रपातं परिहृत्य तस्य कामः पुरः शुक्रमिव प्रयाणे ।
प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ।। ३.४३ ।।

     अन्वयः- कामः प्रयाणे पुरःशुक्रम् (देशम्) इव तस्य दृष्टिप्रपातं परिहृत्य प्रान्तेषु संसक्तनमेरुशाखं भूतपतेः ध्यानास्पदं विवेश ।
     मल्लिo- दृष्टिप्रपातमिति । कामः प्रयाणे यात्रायां पुरोगतः शुक्रो यस्मिन्देशे तं पुरःशुक्रं देशमिव । `प्रतिशुक्रं प्रतिबुधं प्रत्यङ्गारकमेव च । अपि शक्रसमो राजा हतसैन्यो निवर्तते ।' इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परिहृत्य प्रान्तेषु पार्श्वदेशेषु संसक्ता अन्योन्यसंसृष्टा नमेरुणां सुरपंनागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूतपतेः शिवस्य ध्यानास्पदं समाधिस्थानम् । `आस्पदं प्रतिष्ठायम्' इति निपातः । विवेश ।। ३.४३ ।।


सदेवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श ।। ३.४४ ।।

     अन्वयः- आसन्नशरीरपातः स शर्दूलचर्मव्यवधानवत्यां देवदारुद्रुमवेदिकायाम् आसीनं संयमिनं त्रियम्बकं ददर्श ।
     मल्लिo- स इति । आसन्नशरीरपात आसन्नमृत्युः स कामः शार्दूलचर्मणा व्यवधानवत्याम् । व्याघ्रचर्मास्तृतायामित्यर्थः । `मोक्षश्रीर्व्याघ्रचर्मणि' इति प्राशस्त्यादिति भावः । देवदारुद्रुमवेदिकायामासीनमुपविष्टं संयमिनं समाधिनिष्ठं त्रियम्बकं त्रिनेत्रं ददर्श । केचित्साहसिकाः `त्रिलोचनम्' इति पेठुः । त्र्यम्बकमित्युक्ते पादपूरणव्यत्यासात्त्रियम्बकमिति पादपूरणार्थोऽयमियङादेशश्छान्दसो महाकविप्रयोगादभियुक्तैरङ्गीकृतः ।। ३.४४ ।।


तमेव देवं षङ्‌भिः श्लोकैर्वर्णयति-

पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् ।
उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ।। ३.४५ ।।

     अन्वयः- पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोत्तमाऽङ्गम् उत्तानपाणिद्वयसंवनिवेशात् अङ्कमध्ये प्रफुल्लराजीवम् इव (स्थितं ददर्श) ।
     मल्लिo- पर्यङ्केति । पर्यङ्कबन्धेन वीरासनेन स्थिरपूर्वकायं निश्चलोत्तरार्धमृजुरायतश्चर्ज्वायतस्तं संनमिताबुभावसौ यस्य तं तथोक्तम् । वृत्तिविषये उभशब्दस्थान उभयशब्दप्रयोग इत्युक्तं कैयटेन । उत्तान ऊर्ध्वतलो यः पाणिद्वयस्य संनिवेशः संस्थानं तस्मादङ्कमध्ये प्रफुल्लं राजीवं पङ्कजं यस्य तमिव स्थितम् । वीरासने वसिष्ठः- `एकं पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ।।' इति । तथा योगसारे- `उत्तानिते करतले करमुत्तानितं परम् । आदायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम् ।।' इति ।। ३.४५ ।।


भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।
कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ।। ३.४६ ।।

     अन्वयः- भुजङ्गमोन्नद्धजटाकलापं कर्णाऽवसक्तद्विगुणाऽक्षसूत्रं कण्ठप्रभासङ्गविशेषनीलां ग्रन्थिमतीं कृष्णत्वचं दधानम् (तं ददर्श) ।
     मल्लिo-- भुजंगमेति ।। बुजंगमोन्नद्ध उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् । कर्णावसक्तम् । कर्णावलम्बीत्यर्थः । अत एव द्विगुणं द्विरावृत्तमक्षसूत्रमक्षमाला यस्य तं कण्ठप्रभाणां सङ्गेन मिश्रणेन विशेषनीलामतिनीलां ग्रन्थिमतीं बन्धनयुक्तां कृष्णत्वचं कृष्णमृगाजिनं दधानम् ।। ३.४६ ।।


किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः ।
नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः ।। ३.४७ ।।

     अन्वयः- किञ्चित्प्रकाशस्तिमितोग्रतारैः भ्रूविक्रियायां विरतप्रसङ्गैः अविस्पन्दितपक्ष्ममालैः अधोमयूखैः नेत्रैः लक्ष्यीकृतघ्राणम् (तं ददर्श) ।
     मल्लिo-- किंचिदिति । किंचित्प्रकाशाः ईषत्प्रकाशाः स्तिमिता निश्चला उग्राश्च ताराः कनीनिका येषां तैः । `तारकाक्ष्णः कनीनिका' इत्यमरः । भ्रूविक्रियायां भ्रूविक्षेपे विरतप्रसङ्गैः प्रसक्तिरहितैरविस्पन्दितपक्ष्ममालैरचलितपक्ष्मपङ्क्तिभिरधःप्रसृता मयूखा येषां तैरधोमयूखैर्नेत्रैः । त्रिनेत्रत्वाद्वहुवचनम् । लक्ष्यीकृतघ्राणं नासाग्रनिविष्टदृष्टिमित्यर्थः । `करणान्यबहिष्कृत्य स्थणुवन्निश्चलात्मकः । आत्मानं हृदये ध्यायेन्नासाग्रन्यस्तलोचनः ।।' इति योगसारे ।। ३.४७ ।।


अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम् ।
अन्तश्चराणां मरुतां निरोधान्निवातनिष्कम्पमिव प्रदीपम् ।। ३.४८ ।।

     अन्वयः- अन्तश्चराणां मरुतां निरोधात् अवृष्टिसंरम्भम् अम्बुवाहम् इव, अनुत्तरङ्गम् अपाम् आधारम् इव निवातनिष्कम्पं दीपम् इव (स्थितं तं ददर्श) ।
     मल्लिo- अवृष्टीति । अन्तश्चरन्तीत्यन्तश्चरास्तेषां मरुतां प्राणादीनां निरोधाद्धेतोरवृष्टिसंरम्भमविद्यमानवर्षसंभ्रममम्बुवाहमिव स्थितम् । एतेन प्राणनिरोधः सूचितः । अनुत्तरङ्गमनुद्‌भूततरङ्गमपामाधारे ह्रदमिव स्थितम् । एतेनापाननिरोधः सूचितः । तथा निर्वाते निर्वातप्रदेशे निष्कम्पं निश्चलं प्रदीपमिव स्थितम् । एतेन शेषवायुनिरोधः सूचितः । `निवातावाश्रयावातौ' इत्यमरः ।। ३.४८ ।।


कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः शिरस्तः ।
मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ।। ३.४९ ।।

     अन्वयः- कपालनेत्रान्तरलब्धमार्गैः शिरस्त उदितैः ज्योतिःप्ररोहैः मृणालसूत्राऽधिकसौकुमार्यां बालस्य इन्दोः लक्ष्मीं ग्लपयन्तम् (तं ददर्श)
     मल्लिo-- कपालेति । कपालनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरेण लब्धमार्गैः शिरस्तो ब्रह्मरन्ध्रात् पञ्चम्यास्तसिल्‌ । उदितैरुद्‌भूतैर्ज्योतिः प्ररोहैस्तेजोङ्कुरैमृंणालसूत्राधिकं सौकुमार्यं मार्दवं यस्यास्तां बालस्येन्दोः शिरश्चन्द्रस्य लक्ष्मीं ग्लपयन्तम् ।। ३.४९ ।।


मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ।। ३.५० ।।

     अन्वयः- नवद्वारनिषिद्धवृत्ति समाधिवश्यं मनो हृदि व्यवस्थाप्य क्षेत्रविदः यम् अक्षरं विदुः तम् आत्मानम् आत्मनि अवलोकयन्तम् (तं ददर्श)।
     मल्लिo- मन इति । नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो यस्य तत्तथोक्तम् । समाधिना प्रणिधानेन वश्यं वशंगतम् । यत्प्रत्ययः । `प्रणिधानं समाधानं समाधिश्च समाश्रयः' इति हलायुधः । मनो हृदि हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः- `यतो निर्याति विषयान्यस्मंश्चैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ।।' इति । क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः । यं न क्षरतीत्यक्षरमविनाशिनं विदुर्विदन्ति । `विदो लटो वा ' इति झेर्जुस्‌ । तमात्मानमात्मनि स्वस्मिन्नवलोकयन्तं साक्षात्कुर्वन्तम् । स्वातिरेकेण परमात्मनोऽभावादिति भावः ।। ३.५० ।।


स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् ।
नालक्षयत्साध्वससन्नहस्तः स्त्रस्तं शरं चापमपि स्वहस्तात् ।। ३.५१ ।।

     अन्वयः- स्मरः तथाभृतं मनसा अपि अधृष्यम् अयुग्मनेत्रम् अदूरात् पश्यन् साध्वससन्नहस्तः (सन् ) स्वहस्तात् स्त्रस्तं शरं चापम् अपि न अलक्षयत् ।
     मल्लिo-- स्मरेति । स्मरः कामस्तथाभूतं पूर्वोक्तरुपं मनसाप्यधृष्यमयुग्मनेत्रं विषमाक्षमदूरात्पश्यन् । साध्वसेन सन्नहस्तो विश्लथपाणिः सन् । स्वहस्तात्स्त्रस्तं शरं चापमपि चापं च नालक्षयन्न विवेद । भीतो मुह्यतीति भावः ।। ३.५१ ।।


निर्वाणभूयिष्ठमथास्त वीर्यं संधुक्षयन्तीव वपुर्गुणेन ।
अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ।। ३.५२ ।।

     अन्वयः- अथ निर्वाणभूयिष्ठम् अस्य वीर्यं वपुर्गुणेन सन्धुक्षयन्ती इव (स्थिता) वनदेवताभ्याम् अनुप्रयाता स्थावरराजकन्या अदृश्यत् ।
     मल्लिo- निर्वाणेति । अथ निर्वाणेन नाशेन भूयिष्ठं निर्वाणभूयिष्ठम् । नष्टप्रायमित्यर्थः । अस्य स्मरस्य वीर्यं बलं वपुर्गुणेन सौन्दर्येण संधुक्षयन्तीव पुनरुज्जीवयन्तीव स्थिता वनदेवताभ्याम् सखीभूताभ्यामनुप्रयातानुगता स्थावरराजकन्या पार्वत्यदृश्यत दृष्टा ।। ३.५२ ।।


तामेवाह चतुर्भिः-

अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती ।। ३.५३ ।।

     अन्वयः- अशोकनिर्भर्त्सितपद्मरागम् आकृष्टहेमद्युतिकर्णिकारं मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती (स्थावरराजकन्या अदृश्यत) ।
     मल्लिo- अशोकेति । अशोकपुष्पेण निर्भर्त्सितास्तिरस्कृताः पद्मरागा येन तत्तथोक्तम् । आकृष्टहेमद्युतीन्याहृतस्वर्णाभरणवर्णानि कर्णिकाराणि यर्स्मिस्तत् तथोक्तम् । मुक्ताकलापीकृतानि सिन्धुवाराणि निगुण्डीकुसुमानि यस्मिंस्तत् । `सिन्धुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि' इत्यमरः । वसन्तपुष्पाण्येवाभरणं वहन्ती ।। ३.५३ ।।


आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ।। ३.५४ ।।

     अन्वयः- स्तनाभ्यां किञ्चित् आवर्जिता इव, तरुणाऽर्करागं वासो वसाना (अत एव) पर्याप्तपुष्पस्तबकाऽवनम्रा सञ्चारिणी पल्लविनी लता इव (स्थावरराजकन्या अदृश्यत) ।
     मल्लिo- आवर्जितेति । स्तनाभ्यां किंचिदावर्जितेवेषदानमितेव तरुणार्कस्य राग इव रागो यस्य तत् । बालार्कारुणमित्यर्थः । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसानाच्छादयन्ती । अत एव पर्याप्तपुष्पस्तबकावनम्रा पल्लविनी किसलयवती संचारिणी लतेव । स्थितेति शेषः ।। ३.५४ ।।


स्त्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसर दामकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण मौर्वी द्वितीयामिव कार्मुकस्य ।। ३.५५ ।।

     अन्वयः- स्थानविदा स्मरेम न्यासीकृता कार्मुकस्य द्वितीयां मौर्वीम् इव नितम्बात् स्रस्तां केसरदामकाञ्चीं पुनः पुनः अवलम्बमाना (स्थावरराजकन्या अदृश्यत) ।
     मल्लिo- स्रस्तामिति । स्थानविदा निक्षेपयोग्यस्थानवेदिना स्मरेण न्यासीकृतां निक्षेपीकृताम् । कर्मणि प्रभवतीति कार्मुकं धनुः । `कर्मण उकञ्' इत्युकञ्प्रत्ययः । तस्य द्वितीयां मौर्वीमिव स्थिताम् । अत्र हि न्यस्ता मौर्व्युत्तरत्र हरवैरनिर्यातनायोपयुज्यत इति भावः । नितम्बात्स्रस्तां चलितां केसरदाम बकुलमाला सैव काञ्ची तां पुनः पुनरवलम्बमाना हस्तेन धारयन्ती ।। ३.५५ ।।


सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।
प्रतिक्षणं संभ्रमलोलदृष्टिर्लिलारविन्देन निवारयन्ती ।। ३.५६ ।।

     अन्वयः- सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाऽधरासन्नचरं द्विरेफं प्रतिक्षणं संभ्रमलोलदृष्टिः (सती) लीलाऽरविन्देन निवारयन्ती (स्थावरराजकन्या अदृश्यत) ।
     मल्लिo- सुगन्धीति । सुगन्धिभिर्निश्वासैर्विवृद्धतृष्णम् । बिम्बतुल्योऽधरो बिम्बाधरः । `वृत्तौ मध्यपदलोपः स्यात्' इति वामनः । तस्यासन्नचरं संनिकृष्टचरं द्विरेफं भृङ्गं प्रतिक्षणं संभ्रमेण लोलदृष्टिश्चञ्चलाक्षी सती लीलारविन्देन निवारयन्ती ।। ३.५६ ।।


तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् ।
जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनराशशंसे ।। ३.५७ ।।

     अन्वयः- सर्वाऽवयवाऽनवद्यां रतेः अपि ह्रीपदम् आदधानां तां वीक्ष्य पुष्पचापः जितेन्द्रये शूलिनि स्बकार्यसिद्धिं पुनः आशशंसे ।
     मल्लिo-- तामिति । सर्वावयवेष्वनवद्यामगर्ह्याम् । `अवद्यपण्ये-' ति निपातः । रतेः कामकलत्रस्यापि ह्रीपदं लज्जानिमित्तमादधानाम् । न्यूनतामावहन्तीमित्यर्थः । तां पार्वतीं वीक्ष्य पुष्पचापः कामो जितेन्द्रिये दुर्जयेऽपीत्यर्थः । शूलिनि शिवे विषये स्वकार्यसिद्धिं पुनराशशंसे चकमे । पूर्वं `साध्वससन्नहस्तः' (३,५१) इत्यादिना कार्यसिद्धेरुन्मूलितत्वाभिधानादिह पुनरित्युक्तम् ।। ३.५७ ।।


भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् ।
योगात्स चान्तः परमात्मसंज्ञं दृष्ट्‌वा परं ज्योतिरुपारराम ।। ३.५८ ।।

     अन्वयः- उमा च भविष्यतः पत्युः शम्भोः प्रतिहारभूमिं समाससाद । स च अन्तः परमात्मसंज्ञं परं ज्योतिः दृष्ट्वा योगात् उपारराम ।
     मल्लिo- भविष्यत इति । उमा च भविष्यतः पत्युः शंभोः प्रतिहारभूमिं द्वारदेशं समाससाद । `स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः । स शंभुश्चान्तः परमात्मेति संज्ञा यस्य तत्परं मुख्यम् "रं दूरान्मुख्येषु " इति यादवः । ज्योतिर्दृष्ट्वा साक्षात्कृत्य योगध्यानात्। `योगः संनहनोपायध्यानसंगतियुक्तिषु' । इत्यमरः । उपाररामोपारतः । `व्याङ्परिभ्यो रमः' इति परस्मैपदम् ।। ३.५८ ।।


ततो भुजंगाधिपतेः फणाग्रैरधः कथंचिद्‌धृतभूमिभागः ।
शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ।। ३.५९ ।।

     अन्वयः-ततो भुजङ्गाऽधिपतेः फणाऽग्रैः अधः कथंचिद्‌धृतभूमिभागः शनैः कृतप्राणविमृक्तिः ईशः निबिडं पर्यङ्कबन्धं बिभेद ।
     मल्लिo- तत इति । ततो भुजंगाधिपतेः शेषस्य फणाग्रैरधो भूमेरधः कथंचिदतियत्नेन धृतो भूमिभागः स्वोपवेशनभूभागो यस्य स तथोक्तः । वायुधारणाहितलाघवनिवृत्त्या भगवतो गुरुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्‌निरुद्धानां विमुक्तिः पुनः संचारो येन स कृतप्राणविमुक्तिरीशो निबिडं दृढं पर्यङ्कबन्धं वीरासनं बिभेद शिथिलीचकार ।। ३.५९ ।।


तस्मै शशंस प्रणिपतद्य नन्दी शुश्रूषया शैलसुतामुपेताम् ।
प्रवेशयामास च भर्तुरेनां भ्रुक्षेपमात्रानुमतप्रवेशाम् ।। ३.६० ।।

     अन्वयः- अथ नन्दी तस्मै प्रणिपत्य शुश्रूषया उपेतां शैलसुतां । भर्तुः भ्रूक्षेपमात्राऽनुमतप्रवेशाम् एनां प्रवेशायामास च ।
     मल्लिo- तस्मा इति । अथ नन्दी तस्मै भगवते । क्रियाग्रहणाच्चतुर्थी । प्रणिपत्य नमस्कृत्य शुश्रूषया सेवया निमित्तेनोपेताम् । सेवार्थमागतामित्यर्थः । शैलसुतां शशंस निवेदयामास । भर्तुः स्वामिनो भ्रूक्षेपमात्रेण भ्रूसंज्ञयैवानुमतप्रवेशामङ्गीकृतप्रवेशामेनां शैलसुतां प्रवेशायामास च ।। ३.६० ।।


तस्याः सखीभ्यां प्रणीपातपूर्वं स्वहस्तलूनः शिशिराऽत्ययस्य ।
व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ।। ३.६१ ।।

     अन्वयः- तस्याः सखीभ्यां स्वहस्तलूनः पल्लवभङ्गभिन्नः शिशिराऽत्ययस्य पुष्पोच्चयः त्र्यम्बकपादमूले प्रणिपातपूर्वं व्यकीर्यत ।
     मल्लिo- तस्या इति । तस्याः पार्वत्याः सखीभ्यां पूर्वोक्ताभ्यां स्वहस्तेन लून उपचितः पल्लवभङ्गभिन्नः किसलयशकलमिश्रः शिशिरात्ययस्य वसन्तस्य सम्बन्धी पुष्पोच्चयः पुष्पप्रकारः । `हस्तादाने चेरस्तेये' इति घञ्विषयत्वात्कवीनामयं प्रामादिकः प्रयोग इति वल्लभः । त्र्यम्बकपादमूले प्रणिपातपूर्वं नमस्कारपूर्वंकं व्यकीर्यत विक्षिप्तः ।। ३.६१ ।।


उमापि नीलालकमध्यशोभि विस्त्रंसन्ती नवकर्णिकारम् ।
चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ।। ३.६२ ।।

     अन्वयः- उमा अपि नीलाऽलकमध्यशोभि नवकर्णिकारं विस्त्रंसयन्ती कर्णच्युतपल्लवेन मूर्ध्ना वृषभध्वजाय प्रणामं चकार ।
     मल्लिo-उमेति । उमापि नीलालकानां मध्ये शौभत इति तथोक्तम् । अलकन्यस्तमित्यर्थः । नवकर्णिकारं विस्रंसयन्ती कर्णाच्च्युतः पल्लवो यस्य तेन मूर्ध्ना वृषभध्वजाय प्रणामं चकार । क्रियाग्रहणात्संप्रदानत्वम् ।। ३.६२ ।।


अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन ।
न हीश्वरव्याहृतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् ।। ३.६३ ।।

     अन्वयः- सा भवेन `अनन्यभाजं पतिम् आप्नुहि' इति तथ्यम् एव अभिहिता । हि ईश्वरव्‌याहृतयः कदाचित् अपि लोके विपरीतम् अर्थम् न पुष्णन्ति ।
     मल्लिo- अनन्येति । सा कृतप्रणामा देवी, भवेन हरेण । अन्यां न भजतीति तमनन्यभाजम् `भजोण्विः' इति ण्विप्रत्ययः । सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः । पतिमाप्नुहीति तथ्यं सत्यमेवाभिहितोक्ता उत्तरत्र तथैव संभवादिति भावः । अभिदधातेर्ब्रुवर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । तथाहि । ईश्वरव्याहृतयो महापुरुषोक्तयः कदाचिदपि लोके भुवने `लोकस्तु भुवने जने' इत्यमरः । विपरीतं विपरीतं विसंवादिनमर्थमभिधेयं न पुष्णन्ति । न बोधयन्तीत्यर्थः ।। ३.६३ ।।


कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः ।
उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ।। ३.६४ ।।

     अन्वयः- कामस्तु बाणाऽवसरं प्रतीक्ष्य पतङ्गवत् वह्निमुखं विविक्षुः उमासमक्षं हरबद्धलक्ष्यः (सन्) शरऽसनज्यां मुहुः आममर्श ।
     मल्लिo- काम इति । कामस्तु बाणावसरं प्रतीक्ष्योमासंनिधानादयमेव बाणप्रयोगसमय इति ज्ञात्वा पतङ्गेन तुल्यं पतङ्गवच्छलभवत् । `समौ पतङ्गशलभौ' इत्यमरः । `तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । वह्निमुखं विविक्षुः प्रवेष्टुमिच्छुः । विशतेः सन्नन्तादुप्रत्यः । उमायाः समक्षमक्ष्णः समीपमुमासमक्षम् । `अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तोऽच्प्रत्ययः । हरे बद्धलक्ष्यः सन् । शरासनस्य ज्यां मौर्वीं मुहुराममर्श परामृष्टवान् ।। ३.६४ ।।


अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।
विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करबीजमालाम् ।। ३.६५ ।।

     अन्वयः- अथ गौरी तपस्विने गिरिशाय ताम्ररुचा करेण भानुमतो मयूखैः विशोषितां मन्दाकिनीपुष्करबीजमालाम् उपनिन्ये ।
     मल्लिo- अथेति । अथ गौरी । तपोऽस्यास्तीति तपस्वी । `अस्मायामेधास्त्रजो विनिः' इति विनिप्रत्ययः । तस्मै तपस्विने गिरिशाय ताम्ररुचा रक्तवर्णेन करेण भानुमतोंऽशुमतो मयूखैर्विशोषितां मन्दाकिन्याः पुष्कराणि पद्मानि तेषां बीजानि तेषां मालां जपमालिकामुपनिन्ये समर्पितवती ।। ३.६५ ।।


प्रतिग्रहीतुं प्रणयिप्रियत्वातत्रिलोचनस्तामुपचक्रमे च ।
संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समघत्त बाणम् ।। ३.६६ ।।

     अन्वयः- त्रिलोचनश्च प्रणयिप्रियत्वात् तां प्रतिग्रहीतुम् उपचक्रमे । पुष्पधन्वा च संमोहनं नाम अमोघं बाणं धनुषि समधत्त ।
     मल्लिo- प्रतिग्रहीतुमिति । त्रिलोचनश्च प्रणयिप्रियत्वादर्थिप्रियत्वात्तामक्षमालां प्रतिग्रहीतुं स्वीकर्तुमुपचक्रमे । पुष्पं धनुर्यस्य स पुष्पधन्वा कामश्च । `वा संज्ञायाम्' इत्यनङादेशः संमोह्यतेनेनेति संमोहनं नाम । नामेति प्रसिद्धौ अमोघं बाणं सायकं धनुषि समधत्त संहितवान् ।। ३.६६ ।।


हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ।। ३.६७ ।।

     अन्वयः- हरस्तु चन्द्रोदयारहम्भे अम्बुराशिः इव किञ्चित् परिलुप्तधैर्यः (सन्) बिम्बफलाऽधरोष्ठे उमामुखे विलोचनानि व्यापारयामास ।
     मल्लिo- हर इति । हरस्तु हरोऽपि चन्द्रोदयारम्भेऽम्बुराशिरिव किंचिदीषत्परिलुप्तधैर्यः न तु प्राकृतजनवदत्यन्तलुप्तधैर्य इति भावः । बिम्बफलतुल्योऽधरोष्ठो यस्य तस्मिन्निमामुखे विलोचनानि व्यापारयामास । त्रिभिरपि लोचनैः साभिलाषमद्राक्षीदित्यर्थः । एतेन भगवतो रतिभावोदय उक्तः ।। ३.६७ ।।


विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्‌बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ।। ३.६८ ।।

     अन्वयः- शैलसुता अपि स्फुरद्‌बालकदम्बकल्पैः अङ्गैः भावं विवृण्वती चारुतरेण पर्यस्तविलोचनेन मुखेन साचीकृता तस्थौ ।
     मल्लिo- विवृण्वतीति । शैलसुतापि स्फुरद्‌बालकल्पैर्विकसत्कोमलनीपसदृशैः । पुलकितैरित्यर्थः । `ईषदसमाप्तौ-' इत्यादिना कल्पप्प्रत्ययः । अङ्गैर्भावं रत्याख्यं विवृण्वती प्रकाशयन्ती चारुतरेण पर्यस्तविलोचनेन व्रीडाविभ्रान्तनेत्रेण मुखेनासाचि साचि संपद्यमाना साचीकृता तिर्यक्कृता । `तिर्यगर्थे साचि तिर' इत्यमरः । तस्थौ । ह्रिया मुखं साचीकृत्य स्थितेत्यर्थः । न केवलं हरस्यैव देव्या अप्युदितो रतिभाव इति भावः ।। ३.६८ ।।


अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्‌ बलवन्निगृह्य ।
हेतुं स्वचेतो विकृतेर्दिदृक्षुदिशामुपान्तेषु ससर्ज दृष्टिम् ।। ३.६९ ।।

     अन्वयः- अथ अयुग्मनेत्रः वशित्वात् इन्द्रिक्षोभं पुनः बलवत् निगृह्य स्वचेतोविकृतेः हेतुं दिदृक्षुः (सन्) दिशाम् उपान्तेषु दृष्टिं ससर्ज ।
     मल्लिo- अथेति । अथायुग्मानि नेत्राणि यस्य सोऽयुग्मनेत्रस्त्रिनेत्रो वशित्वाज्जितेन्द्रियत्वादिन्द्रियक्षोभं पूर्वोक्तमिन्द्रियविकारं पुनर्बलवद्‌ दृढं निगृह्य निवार्य स्वचेतोविकृतेः स्वचित्तविकारस्य हेतुं कारणं दिदृक्षुर्द्रष्टुमिच्छुर्दिशामुपान्तेषु दृष्टिं ससर्ज प्रसारयामास ।। ३.६९ ।।


स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ।। ३.७० ।।

     अन्वयः- स दक्षिणाऽपाङ्गनिविष्टमुष्टिं नतांऽसम् आकुञ्चितसव्यपादं चक्रीकृतचारुचापं प्रहर्तुम् अभ्युद्यतम् आत्मयोनिं ददर्श ।
     मल्लिo- स इति । स भगवान्दक्षिणापाङ्गे निविष्टा स्थिता मुष्टिर्यस्य तं नतांसमाकुञ्चितः सव्यपादो यस्य तम् । आलीढाख्यस्थानके स्थितमित्यर्थः । चक्रीकृतचारुचापं मण्डलीकृतसौम्यकोदण्डं प्रहर्तुमभ्युद्यतमात्मयोनिं मनोभवं ददर्श । आलीढलक्षणमाह यादवः- `स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । वितस्त्यन्तरगौ पादौ मण्डलं तोरणाकृति ।। समानौ स्यात्समपदमालीढं पदमग्रतः । दक्षिणं वाममाकुञ्च्य प्रत्यालीढं विपर्ययः' ।। ३.७० ।।


तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ।। ३.७१ ।।

     अन्वयः- तपःपरामर्शविवृद्धमन्योः भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य तृतीयात् अक्ष्णः स्फुरन् उदर्चिः कुशानुः सहसा निष्पपात किल ।
     मल्लिo- तप इति । तपःपरामर्शेन तपस आस्कन्दनेन विवृद्धमन्योः प्रवृद्धकोपस्य भ्रूभङ्गेण दुष्प्रेक्ष्यं दुर्दशं मुखं यस्य तस्य हरस्य तृती.यादक्ष्णः स्फुरन्नुद्दीप्यमान उदर्चिरुद्‌भूतज्वालः कृशानुरग्निः सहसातर्कितमेव । `अतर्किते तु सहसा' इत्यमरः । निष्पपात किल निश्चक्राम खलु ।। ३.७१ ।।


क्रोधं प्रभो ! संहर संहरेति यावद्‌गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ।। ३.७२ ।।

     अन्वयः- `हे प्रभो ! क्रोधं संहर संहर' इति मरुतां गिरः खे यावत् चरन्ति, तावत् भवनेत्रजन्मा स वह्निः मदनं भस्माऽवशेषं चकार ।
     मल्लिo- क्रोधमिति । हे प्रभो स्वामिन्‌, क्रोधं संहर निवर्तय निवर्तय । `चापले द्वे भवत इति वक्तव्यम्' इति वार्तिकेन द्वित्वम् । `संभ्रमेण वृत्तिश्चापलम्' इति काशिका । इत्येवं मरुतां देवानां गिरो वाचः खे व्योम्नि यावच्चरन्ति प्रवर्तन्ते तावत्तत्कलमेव भवस्य नेत्राज्जन्म यस्य स भवनेत्रजन्मा । `अवर्ज्यो बहुर्व्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' इति वामनः । स वह्निर्मदनं भस्मैवावशेषो यस्य तं भस्मावशेषं चकार । ददाहैत्यर्थः ।। ३.७२ ।।


तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ।। ३.७३ ।।

     अन्वयः- तीव्राऽभिषङ्गप्रभवेण इन्द्रियाणां वृत्तिं संस्तम्भयता मोहेन रतिः मुहुर्त्तम् अज्ञातभर्तुव्यसना (सती) कृतोपकारा इव बभूव ।
     मल्लिo- तीव्रेति । तीव्राभिषङ्गप्रभवेणातिदुःसहाभिभवसंभवेन । `अभिषङ्गस्त्वभिभवे सङ्ग आक्रोशनेऽपि च' इति वैजयन्ती । इन्द्रियाणां चक्षुरादीनां वृत्तिं व्यापारं संस्तम्भयता प्रतिबध्नता मोहेन मूर्च्छया कर्त्रा । रतिर्मदनभार्या मुहूर्तमज्ञातं भर्तृव्यसनं भर्तृनाशो यया सा तथोक्ता सती कृतोपकारेव बभूव । सहसा दुःखोपनिपातान्मुमूर्च्छेत्यर्थः । मोहेन दुःख संवेदनाभावत्तस्योपकारकत्वोक्तिः ।। ३.७३ ।।


तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य ।
स्त्रीसंनिकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ।। ३.७४ ।।

     अन्वयः- तपस्वी भूतपतिः तपसो विध्नं तम् आशु वज्रो वनस्पतिम् इव अवभज्य स्त्रीसन्निकर्षं परिहर्तुम् इच्छन् सभूतोऽन्तर्दधे ।
     मल्लिo- तमिति । तपस्वी तपोनिष्ठो भूतपतिः शिवस्तपसो विध्नमन्तरायभूतं तं काममाशु वज्रोऽशनिर्वनस्पतिं वृक्षमिवावभज्य भङ्क्त्वा स्त्रीसंनिकर्षं स्त्रीसंनिधानं परिहर्तुमिच्छन् । तस्यानर्थहेतुत्वादिति भावः । सभूतः सगणः सन्नन्तर्दधे ।। ३.७४ ।।


शैलात्मजापि पितुरुच्छिरसोऽभिलाषं

व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा

शून्या जगाम भवनाभिमुखी कथञ्चित् ।। ३.७५ ।।

     अन्वयः- शैलात्मजा अपि उच्छिरसः पितुः अभिलाषं ललितम् आत्मनो वपुश्च व्यर्थसमर्थ्य सख्योः समक्षम् इति च अधिकजातलज्जा शून्या सती कथञ्चित् भवनाभिमुखी जगाम ।
     मल्लिo- शैलात्मजा पार्वत्यप्युच्छिरस उन्नतशिरसो महतः पितुरभिलाषं हरोवरोऽस्त्विति मनोरथं ललितं सुन्दरमात्मनो वपुश्च व्यर्थ निष्फलं समर्थ्य विचार्य सख्योः समक्षं पुर इति च हेतुनाधिकं जातलज्जा । समानजनसमक्षमवमानस्य अतिदःसहत्वादिति भावः । शून्या निरुत्साहा सती कथञ्चित्कृच्छ्रेण भवनस्याभिमुखी जगाम ।। ३.७५ ।।


सपदि मकुलिताक्षीं रुद्रसंरम्भभीत्या

दुहीतरमनुकम्प्यामद्रिरादाय दोर्भ्यम् ।
सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां

प्रतिपथगतिरासीद्वेगदीर्घीकृताङ्गः ।। ३.७६ ।।

     अन्वयः- सपदि अद्रिः रुद्रसंरम्भभीत्या मुकुलिताक्षीम् अनुकम्प्यां दुहितरं दोर्भ्याम् आदाय दन्तलग्नां पद्मिनीं सुरगज इव वेगदीर्घीकृताऽङ्गः सन् प्रतिपथगतिः आसीत् ।
     मल्लिo- सपदीति । सपद्यद्रिर्हिमवान्रुद्रस्य संरम्भात्कोपाद्भीत्या । `संरम्भः संभ्रमे कोपे' इति विश्वः । मुकुलिताक्षीं निमीलितनेत्राम् । `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' इति षच्प्रत्ययः । `षिद्‌गौरादिभ्यश्च' इति ङीष् । अनुकम्पितुमर्हामनुकम्प्याम् । `ऋहलोर्ण्यत्' इति ण्यत्प्रत्ययः । दुहितरं दोर्भ्यामादाय दन्तयोर्लग्नां पद्मिनीं नलिनीं बिभ्रत्सुरगज इव वेगेन रयेण दीर्घीकृताङ्ग आयतीकृतशरीरः सन् । पन्थानं प्रतिगता मार्गानुसारिणी स गतिर्यस्य प्रतिपथगतिरासीत् । पन्थानमनुसृत्य जगामेत्यर्थः ।।३.७६ ।।


इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया

संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे

महाकाव्ये मदनदहनो नाम तृतीयः सर्गः ।