सामग्री पर जाएँ

कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/षष्ठः सर्गः(विवाहप्रस्तावः)

विकिस्रोतः तः
← पञ्चमः सर्गः(तपःफलोदयः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
षष्ठः सर्गः(विवाहप्रस्तावः)
कालिदासः
सप्तमः सर्गः(उमापरिणयः) →

षष्ठः सर्गः ।


  अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् ।
  दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥१॥

 अथेति ॥ अथ देवदेवानुग्रहानन्तरं गौरी पार्वती विश्वमात्मा स्वरूपं यस्येति, विश्वस्यात्मेति वा । विश्वात्मने शिवाय मिथो रहसि । 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः । सखी संदिदेशातिससर्ज । क्रियामात्रप्रयोगेऽपि संप्रदानत्वा- चतुर्थी। किमिति ? भूभृतां नाथो हिमवान्मे मम दाता सन् प्रमाणीक्रियतामिति, दातृत्वेन प्रमाणीक्रियतामित्यर्थः । प्रार्थनायां लोट । पित्रा दीयमानायाः परिग्रहो मम महाननुग्रह इति भावः ॥१॥

  तया व्याहृतसंदेशा सा बभौ निभृता प्रिये ।
  चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी ॥२॥

 तयेति ॥ तया सख्या, सखीमुखेनेत्यर्थः । व्याहृतसंदेशोक्तवाचिका प्रिये हरविषये निभृता निश्चला, परमासक्तेत्यर्थः । सा गौरी । मधौ वसन्ते निभृता स्थिरा परभृतया कोकिलयोन्मुखी मुखरा परभृतोन्मुखी। 'मुख'शब्देनाभि- भाषणव्यापारो लक्ष्यते, तथा च परभृतामुखेन व्याहरन्तीत्यर्थः । परभृतेति क्रियाशब्दविवक्षायाम् 'जातेरस्त्री-' (पा. ४११।६३) इति ङीप्प्रत्ययो न भवति। 'तया' इस्युपमेयस्य व्यस्तत्वादुपमानवाचि 'परभृता' शब्दस्य समासः सोढव्यः। अथवा भृद्भरणम् संपदादित्वात्किप् । परैर्भ्रद्यस्यास्तया परभृतेति व्यासेन व्याख्ये- यम् । पदमञ्जरीकारस्तु-परैर्भ्रियत इति कर्मणि क्विपमाह । चूतयष्टिश्चूतशाखे- वाभ्याशेऽन्तिके बभौ । 'सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्ति- काभ्याभ्यग्रा अप्यभितोऽव्यम् ॥' इत्यमरः ॥२॥

  स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् ।
  ऋषीञ्ज्योतिर्मयान्सप्त सम्मार स्मरशासनः ॥३॥

 स इति ॥ स प्रकृतः । शास्तीति शासनः । बहुलग्रहणास्कर्तरि ल्युट् । स्मरस्य शासन ईश्वरस्तथेति प्रतिज्ञाय, तथा करिष्यामीत्युक्त्वेत्यर्थः । उमां कथमपि कृच्छ्रेण विसृज्य, तत्र गाढानुरागत्वादिति भावः । ज्योतिर्मयांस्तेजो- रूपान्सप्तर्षीमङ्गिरःप्रभृतीन्सस्मार स्मृतवान् ॥ ३॥

  ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः ।
  सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ॥ ४ ॥

 त इति । ते तप एव धनं येषां त तपोधनाः सप्तर्षयः प्रभामण्डलैस्तेजः- पुञ्जैर्व्योमाकाशं द्योतयन्तः प्रकाशयन्तः । अरुन्धत्या सह वर्तन्त इति सारु- न्धतीकाः सन्तः । 'नद्यतश्च' (पा. ५।४।१५३) इति कप् । सपदि प्रभोरीश्वरस्य पुरः पुरोभागे प्रादुरासन्प्रत्यक्षा बभूवुः ॥ ४ ॥

 इतः परं षभिः श्लोकैस्तानेव मुनीन्वर्णयति-

  आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु ।
  व्योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु ॥ ५॥

 आप्लुता इति ॥ उत्किरन्ति विक्षिपन्तीत्युत्किराः । 'इगुपध-' (पा. ३।१।- १३५) इत्यादिना कप्रत्ययः । तीरे ये मन्दाराः कल्पवृक्षास्तेषां कुसुमानामुत्किरा वीचयस्तरंगा येषां तेषु दिङ्नागानां दिग्गजानां मदगन्धो येष्विति तथोक्तेषु व्योमगङ्गाप्रवाहेष्वाकाशगङ्गास्रोतःस्वाप्लुताः स्नाताः ॥५॥


पाठा०-१ कुसुमोत्कर. २ आकाशगङ्गास्रोतःसु. टिप्प०-1 तथा चाक्तं पाराशरसंहितायाम्-'कलया चरन्ति राशिघु दिवि ये

सप्तर्षयो मरीच्याद्याः। सूर्यादयश्च ये ते खचराः सर्वे ग्रहाः प्रोक्ताः' इति ।

  मुक्तायज्ञोपवीतानि बिभ्रतो हैम[]वल्कलाः ।
  रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥ ६ ॥

 मुक्तेति ॥ मुक्तानां मौक्तिकानां यज्ञोपवीतानि, मुक्तामयानीत्यर्थः । बिभ्रतो दधानाः । हेममयानि वल्कलानि येषां ते हैमवल्कलाः । रत्नमयान्यक्षसूत्राणि येषां ते रत्नाक्षसूत्राः । प्रव्रज्यां प्रव्रजनम् । 'व्रजयजोर्भावे क्यप्' (पा. ३।३।९८) इति क्यप् । आश्रिताः कल्पवृक्षा इव स्थिताः । अत्र चतुर्थाश्रमवाचिना 'प्रव्रज्या' शब्देन वानप्रस्थाश्रमो लक्ष्यते । 'जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः' (६।३४) इति सपत्नीकत्वाभिधानात् । 'सुतविन्यस्तपत्नीकस्तया वानुगतोऽपि सन्' (याज्ञ. स्मृ. ३।४५) इति वानप्रस्थस्योभयथा स्मरणात् ॥ ६ ॥

  अधःप्रस्थापिताश्वेन समावर्जितकेतुना ।
  सहस्ररश्मिना सा[]क्षात्सप्रणाममुदीक्षिताः ॥ ७ ॥

 अध इति ॥ अधःप्रस्थापिताश्वेन । सूर्यमण्डलोपरिवर्तित्वात्सप्तर्षिमण्डलस्येति भावः । समावर्जितकेतुना तन्मण्डलाघातशङ्कया नमितध्वजेन सहस्ररश्मिना सूर्येण साक्षात्स्वयमेव सप्रणाममुदीक्षिताः, गमनाभ्यनुज्ञादानपर्यन्तमित्यर्थः । भगवतः सूर्यस्याप्युपास्या इति भावः ॥ ७ ॥

  आसक्तबाहुलतया सार्धमु[]द्धृतया भुवा ।
  महावराहदष्ट्रायां विश्रान्ताः प्रलयापदि ॥ ८ ॥

 आसक्तेति ॥ पुनः किंविधाः ? प्रलयापदि कल्पान्तसंकट आसक्तबाहुलतया, दंष्ट्रायामिति शेषः । उद्धृतया, दंष्ट्रयेति शेषः । भुवा सार्धं धरण्या सह महावराहदंष्ट्रायां विश्रान्ताः, महाप्रलयेऽप्यविनाशिन इत्यर्थः ॥ ८ ॥

  सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् ।
  पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥ ९ ॥

 सर्गेति ॥ विश्वयोनेर्ब्रह्मणोऽनन्तरं सर्गशेषस्य प्रणयनात्, ब्रह्मसृष्टावशिष्ट


 टिप्प०--1 कल्पवृक्षाणां रत्नफलत्वं चोक्तं नैषधीये (११।१०)--'एषां गिरेः सकलरत्नफलस्तरुर्यः प्राग्दग्धभूमिसुरभेरिव पञ्चशाखः' इति । सृष्टेः करणाद्धेतोरित्यर्थः । पुराविद्भिः पुराणवेदिभिर्व्यासादिभिः पुरातना धातार इति कीर्तिताः । 'विश्वयोनेः' इति संबन्धमात्रे षष्टी, 'तस्यानन्तरम्' इति भाष्ये दर्शनात् । अपादानत्वविवक्षायां तु पञ्चमी । अयमदःशब्दो यथाशब्दावृत्तादनन्तरस्येति शाबरभाष्ये दर्शनात् । तथा 'अथातो धर्मजिज्ञासा' (जै. सू. १।१।१) इत्यत्र 'अथ वेदाध्ययनादनन्तरम्' इत्याचार्याः। कविश्च 'पुराणपत्रापगमादनन्तरम्' इति । एवमन्यत्रापि द्रष्टव्यम् ॥९॥

  प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् ।
  तपसामुपभुञ्जानाः फलान्यपि तपखिनः ॥१०॥

 प्राक्तनानामिति ॥ प्राक्तनानां जन्मान्तरभवानां विशुद्धानां निर्मलानां परिपाकं फलदानोन्मुखत्वमुपेयुषां गतानां तपसां फलान्युपभुजाना अपि तपस्विनस्तपोनिष्ठाः। प्रारब्धभोगिनो निस्पृहाश्चेति भावः । कुलकम् ॥ १०॥

  तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।
  साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती ॥ ११ ॥

 तेषामिति ॥ तेषामृषीणां मध्यगता साध्वी पतिव्रता । अत एव पत्युर्वसिष्ठस्य पादयोर्पितेक्षणा निविष्टदृष्टिररुन्धती साक्षात्प्रत्यक्षा तपःसिद्धिरिव तेषामेवेति शेषः । तेषां मध्यगतेति लिङ्गवचनादिसाम्यादियमुपमा । बहु भूयिष्ठं बभासे भाति स्म ॥११॥

  तामगौरवभेदेन मुनींश्चापश्यदीश्वरः ।
  स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥ १२ ॥

 तामिति ।। ईश्वरो भगवांस्तामरुन्धतीं मुनींश्चागौरवभेदेन समानप्रतिपत्त्यापश्यदृष्टवान् । न चायमविवेक इत्याह-हि यस्मात् स्त्रीपुमांश्चेत्येषाऽनास्था स्त्रीपुंसभेदो न विवक्षितः । किंतु सतां साधूनां वृत्तं चरित्रमेव महितं पूज्यम् । 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः' (उत्तर. ४।११) इति भावः ॥१२॥


टिप्प॰ - अयं श्लोकः “प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे बने तोये काच्च-

मपश्चरेणुकपिशे पुण्याभिषेकक्रिया। ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्काक्षंति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी' (शाकु. ७।१२) इति श्लोकेन साम्यं बिभतिं ।

  तद्दर्शनादभृच्छंभोर्भूयान्दारार्थमादरः।
  क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् ॥ १३ ॥

 तदिति ॥ तद्दर्शनादरुन्धतीदर्शनाच्छंभोरार्थं परिग्रहार्थमादरो भूयान्बहुसरोऽभूत् । ननु दाराः कुत्रोपयुज्यन्त इत्यत्राह- धर्म्याणां धर्मादनपेतानाम् । 'धर्मपथ्यर्थन्यायादनपेते' (पा. ४।४।९२) इति यत्प्रत्ययः । क्रियाणामिज्यादीनां सत्यः पतिव्रताः पत्न्यः सत्पत्न्यः 'पत्युनों यज्ञसंयोगे' (पा. ४।१।३३) इति ङीप् , नकारश्च । मूलकारणं खलु ॥ १३ ॥

  धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।
  पूर्वापराधभीतस्य कामस्योच्छ्सिे तं मनः ।। १४ ॥

 धर्मेणेति ॥ धर्मेण दारसंजिवृक्षालक्षणेनापि कर्त्रा । शर्व ईश्वरे पार्वतीं प्रति पदं कारिते सति । 'हृक्रोरन्यतरस्याम्' (पा.१।४।५३) इति शर्वस्याणिकर्तुः कर्मत्वम् । पूर्वापराधभीतस्य कामस्थ मन उच्छ्वसितम् । पुनरुज्जीवनावकाशो भवतीति सप्रत्याशमभूदित्यर्थः ॥ १४ ॥

  अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।
  इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ।। १५॥

 अथेति ॥ अथानूचानाः साङ्गवेदप्रवक्तारः । 'अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः' इत्यमरः । 'उपेयिवाननाश्वाननूचानश्च' (पा. ३।२।१०९) इति निपातः । प्रीत्या कण्टकिताः पुलकितास्त्वचो येषां ते तथोक्ताः। ते सर्वे मुनयो जगद्गुरुं हरं मानयित्वा पूजयित्वेदं वक्ष्यमाणमूचुः ॥ १५ ॥

  यद्ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् ।
  यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः॥१६॥

 यदिति ॥ ब्रह्म वेदः । वेदस्तत्त्वं तपो ब्रह्म' इत्यमरः । सम्यङ्नियमपूर्वकमान्नातमधीतमिति यत् । अग्नौ विधिना हुतमिति यत् । तपश्चान्द्रायणादिकं सप्तमिति च यत्तस्याध्ययनेज्यातपोरूपस्य, आश्रमात्रयसाध्यस्य कृत्स्नस्यापि कर्मण इत्यर्थः । समुदायाभिप्रायकमेकवचनम् ; अन्यथाऽऽवृत्त्यान्वयप्रसङ्गात् । न च


पाठा०-१ भूयः. २ साधनम्. ३ प्रथमे. ४ प्रणिपत्य. नपुंसकैकवद्भावः, अनपुंसकेनेति नियमात् । फलं कार्यमद्य नोऽस्माकं विपक्कम् सुनिष्पन्नमित्यर्थः । कर्मणि क्तः। 'पचो वः' (पा.८।२।५२) इति निष्ठातस्य वत्वम् ॥ १६ ॥

 तदेव फलमाह-

  यदध्यक्षेण जगतां वयमारोपितास्त्वया ।
  मनोरथस्याविषयं मनोविषयमात्मनः ॥ १७॥

 यदिति ॥ यद्यस्मात्कारणाज्जगतामध्यक्षेणाधिपेन त्वया वयं मनोरथस्याभिलाषस्याविषयमगोचरमात्मनः स्वस्य मनोविषयं मनोदेशमारोपिताः प्रापिताः,तस्माद्विपक्वं फलमिति पूर्वेण संबन्धः । सकलजगदन्वेष्टव्यस्य भगवतोऽपि वयमन्वेष्या भवाम इति परमोत्कृष्टा वयमिति भावः ॥ १७ ॥

 तदेवोपपादयति-

  यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः ।
  किं पुनब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥१८॥

 यस्येति ॥ यस्य जनस्य चेतसि वर्तेथाः, येन स्मर्यस इत्यर्थः । स तावत्स एवं कृतिनां कृतकृत्यानां वरः श्रेष्ठः । ब्रह्मणो वेदस्य वेधसो वा योनेः कारणस्य,यद्वा वेदप्रमाणकस्य तव चेतसि यो वर्तते, त्वया स्मर्यत इत्यर्थः । किं पुनः,स कृतिनां वर इति किमु वक्तव्यमित्यर्थः ॥ १८ ॥

  सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् ।
  अद्य तूच्चैस्तरंताभ्यां स्मरणानुग्रहात्तव ॥ १९ ॥

 सत्यमिति ॥ अर्कात्सूर्याच्च सोमाच्चन्द्राच्च परमुच्चैः पदं स्थानमध्यास्महे तिष्टामः, वयमिति शेपः । सत्यम् । 'अधिशीङ्स्थासां कर्म' (पा. १।४।४६) इति कर्मत्वम् । अद्य तु तव कर्तुः। स्मरणमेवानुग्रहः प्रसादस्तस्माद्धेतोः । ताभ्यामर्केन्दुभ्यामुच्चैस्तरमत्युचं पदम् ,अध्यास्महे इति संबन्धः । उच्चैस्तरमिति द्रव्यप्रकर्षत्वान्नामुप्रत्ययः ॥ १९ ॥


पाठा०-१ अप्यपथम्. २ विश्वयोनेः. ३ तस्मात्.

  त्वत्संभावितमात्मानं बहु मन्यामहे वयम् ।
  प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥ २० ॥

 त्वदिति ॥ वयं त्वया संभावितं सस्कृतं त्वसंभावितमात्मानमात्मस्वरूपं बह्वधिकं यथा तथा मन्यामहे । तथा हि-उत्तमादरः सत्पुरुषकर्तृकः सत्कारः स्वगुणेषु विषये प्रायेण भूम्ना प्रत्ययं विश्वासमाधत्ते जनयति, सर्वस्यापि महाजनपरिग्रह एव पूज्यताहेतुरित्यर्थः ॥ २० ॥

  या नः प्रीतिर्विरूपाक्ष ! त्वदनुध्यानसंभवा ।
  सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥ २१ ॥

 येति ॥ हे विरूपाक्ष ! त्वदनुध्यानसंभवा त्वकर्तृकस्मरणजन्या नोऽस्माकं या प्रीतिः सा प्रीतिस्तुभ्यं किमावेद्यते किमर्थ निवेद्यते ? तथा हि-देहिनां प्राणिनामन्तरात्मान्तर्याम्यसि । सर्वसाक्षिणा स्वयास्मत्प्रीतिरनावेदितापि ज्ञायत एवं यतस्ततो न बुद्धबोधनं संभवतीति भावः ॥ २१ ॥

  साक्षाद्दृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा ।
  प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥२२॥

 साक्षादिति । हे देव ! साक्षात्प्रत्यक्षेण दृष्टोऽसि । अञ्जसा पुनस्तत्त्वतस्तु त्वां वयं न विद्मः । दृश्यमानस्य रूपस्यातात्त्विकत्वादिति भावः । अतः प्रसीदानुगृहाण, आत्मानं निजस्वरूपं कथय । न चाकथितं तत्सुबोधमित्याह-धियां बुद्धीनां पथि न वर्तसे । अतस्त्वयैव त्वद्रूपं कथनीयमित्यर्थः ॥ २२ ॥

 तात्त्विकं रूपं तावदास्तां, न दृश्यमानमपि रूपं तत्त्वतो रूपयितुं शक्यमि- त्याह-

  किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् ।
  अथ विश्वस्य संहर्ता भागः कतम एष ते ॥ २३ ॥

 किमिति ॥ हे देव ! एष दृश्यमानस्ते भागो मूर्तिः किं येन भागेन व्यक्तं प्रपञ्चं सृजसि सः? यत्तदोर्नित्यसंबन्धात्सर्वत्र तच्छब्दोऽध्याहार्यः । उत येन भागेन तव्यक्तं बिभर्षि पालयसि स वा? अथ यो भागस्तस्य विश्वस्य संहर्ता


पाठा०-१ आख्यायते. २ नो विद्मः पुनः. ३ यस्तस्य. स वा? किमादयः संदेहे । कतमः? ब्रह्मविष्णुमहेश्वरेष्वयं कतमो भागस्तदु- च्यतामित्यर्थः ॥ २३ ॥

 ननु हर इत्येवं निश्चयात्कथमयं संशयस्तत्राह-

  अथवा सुमहत्येषा प्रार्थना देव ! तिष्ठतु ।
  चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ॥ २४ ॥

 अथवेति ॥ अथवा, हे देव! सुमहती गुह्यतमस्वादतिदुर्लभेत्यर्थः । एषा प्रार्थना निजरूपनिरूपणप्रार्थना तिष्ठतु। किंतु चिन्तितेन चिन्तिता वोपस्थिताश्चिन्तितोपस्थितास्तान्नोऽस्मांस्तावच्छाध्याज्ञापय किं करवाम । प्रार्थनायां लोट् । अलमप्रस्तुतेन, प्रस्तुते तावन्नियुङ्क्ष्वेत्यर्थः ॥ २४ ॥

  अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः ।
  उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ॥ २५ ॥

 अथेति ॥ अथ परमेश्वरो मौलिगतस्येन्दोस्तन्वीमल्पाम् , कलामात्रत्वादिति भावः । प्रभा कान्ति विशदैः शुभैर्दशनांशुभिरुपचिन्वन्वर्धयन्प्रत्याह, प्रत्युवाचेत्यर्थः ॥ २५॥

  विदितं वो यथा स्वाथा न मे काश्चित्प्रवृत्तयः ।
  ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥ २६ ॥

 विदितमिति ॥ हे मुनयः! काश्चिदपि मे प्रवृत्तयो व्यापाराः स्वार्था न भवन्ति यथा तथा वो युष्माकं विदितम् । वाक्यार्थः कर्म । बुद्ध्यर्थत्वाद्वर्तमाने क्तः, तद्योगात्षष्ठी। प्रवृत्तिपारार्थे प्रमाणमाह-अष्टाभिमूर्तिभिरित्थंभूतं इमं प्रकारं परार्थप्रवृत्तिरूपं प्राप्तः । 'भू प्राप्तौ' इति धातोः कर्तरि क्तः । सूचितो ज्ञापितोऽस्मि, मत्स्वमूर्तिचेष्टया स्वपारार्थ्यमनुमेयमित्यर्थः ॥ २६ ॥

  सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः ।
  अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ २७ ॥

 सोऽहमिति ॥ स परार्थप्रवृत्तिरहं तृष्णातुरश्चातकैर्वृष्टिं विद्युत्वान्मेघ इवा-


टिप्प०-1 अष्टमूर्तयस्तु- भूमिरापोऽनलो वायुरात्मा व्योम रविः शशी । इतीमाः सर्वलोकानां प्रत्यक्षाः शिवमूर्तयः' इत्युक्ताः। रिविप्रकृतैः शत्रुपीडितैर्देवैः प्रसूतिं पुत्रोत्पादनं प्रति याचितः । याचतेढुंहादित्वादप्रधाने कर्मणि क्तः ॥ २७ ॥

  अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
  उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ॥ २८ ॥

 अत इति ॥ अतः सुरप्रार्थितत्वाद्धेतोरात्मने पुत्राय, पुत्रमुत्पादयितुमित्यर्थः । 'क्रियार्थोपपदस्य-' (पा.२।३।१४) इत्यादिना चतुर्थी । पार्वती यजमानो यष्टा । 'पूङ्यजोः शानन्' (पा.३।२।१२८) इति शानन्प्रत्ययः। हविर्भोक्तुरनेरुत्पत्तयेऽरणिमग्निमन्थनदारुविशेषमिव । 'निर्मन्थ्यदारुणि त्वरणिर्द्वयोः' इत्यमरः । आहर्तुं संग्रहीतुमिच्छामि ॥ २८ ॥

  तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः।
  विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः ॥ २९ ॥

 तामिति ॥ अस्मदर्थेऽस्मत्प्रयोजने निमित्ते सति युष्माभिस्तां पार्वती हिमालयो हिमवान् या1चितव्यः । याचेर्दुहादित्वादप्रधाने कर्मणि तव्यप्रत्ययः । आवश्यकं चैतदित्याह-सद्भिः सत्पुरुषैरनुष्ठिताः संघटिताः संबन्धा यौनादयो विक्रियायै वैकल्योत्पादनाय न कल्पन्ते न पर्याप्नुवन्ति, न समर्था इत्यर्थः । अलमर्थयोगाच्चतुर्थी ॥ २९ ॥

 न चाहं लौल्यास्त्रियमिच्छामि किंतु देवोपकाराय । यद्येवं निखिलदेवेषु विद्यमानेषु हिमगिरेः शिलाभूतस्य कन्यापरिणयेच्छा कथमित्युक्ते स एव मे श्लाघ्यसंबन्धोऽत्रभवान्हिमवानित्याह-

  उन्नतेन स्थितिमता धुरमुद्वहता भुवः ।
  तेन योजितसंबन्धं वित्त मामप्यवञ्चितम् ॥ ३० ॥

 उन्नतेनेति ॥ उन्नतेन प्रांशुना प्रसिद्धेन च स्थितिमता प्रतिष्ठावता भुवो धुरं भारमुद्वहता, निर्वाहकेणेत्यर्थः । तेन हिमवता योजितः संघटितः संबन्धो


पाठा०-१ हिमाचलः. टिप्प.-1 अत्रेन्द्रयाचनमेव परिणयनेच्छायाः कारणत्वेनोपन्यस्तम्, नतु देव्यास्तपः । यतः शिवपार्वती न कदाचिदपि विश्लिष्टौ, अत एव न समागमार्य देव्यास्तपः, किन्तु लोके स्त्रीधर्मशिक्षार्थ कुलीनया स्त्रिया सर्वात्मना स्वानुरूपः पतिर्लब्धम्य इति । यौनसंबन्धो यस्य तं मामप्यवञ्चितमव्यामोहितं वित्त जानीत । 'विद ज्ञाने' इति धातोलोट् ॥ ३० ॥

 तर्हि स किं वाच्य इत्याशङ्कयाह-

  एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते ।
  भवत्प्रणीतमाचारमामनन्ति हि साधवः ॥ ३१॥

 एवमिति ॥ कन्यार्थं कन्याप्रदानाय स हिमवानेवं वाच्य इति वो युष्मभ्यं नोपदिश्यते । कुतः ? हि यस्मात्साधवो विद्वांसो भवद्भिः प्रणीतं स्मृति रूपेण निबद्धमाचारमामनन्त्युपदिशन्ति, न हि स्वयमुपदेष्टारः परोपदेशमपेक्षन्त इत्यर्थः ॥ ३१ ॥

  आर्याप्यरुन्धती तत्र व्यापारं कर्तुमर्हति ।
  प्रायेणैंवविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥ ३२ ॥

 आर्येति ॥ आर्या पूज्यारुन्धत्यपि तत्र विवाहकृत्ये व्यापारं साहाय्यं कर्तुमर्हति । तथा हि-प्रायेण प्राचुर्येणैवविधे कार्ये विवाहादिकायें, दुर्घट इत्यर्थः । पुरंध्रीणां कुटुम्बिनीनाम् । 'स्यात्तु कुटुम्बिनी। पुरंध्री' इत्यमरः । प्रगल्भता चातुर्यम् । स्त्रीप्रधानेषु कृत्येषु स्त्रीणामेव घटनापाटवमिति भावः ॥ ३२ ॥

  तत्प्रयातोषधिप्रस्थं सिद्धये हिमवत्पुरम् ।
  महाकोशीप्रपातेऽस्मिन्संगमः पुनरेव नः ॥ ३३ ॥

 तदिति ॥ तत्तस्मात्कारणादोषधिप्रस्थं नाम हिमवत्पुरं हिमवन्नगरं सिद्धये कार्यसिद्यर्थं प्रयात गच्छत । अस्मिन्पुरोवर्तिनि । महाकोशी नाम तत्रत्या काचिन्नदी तस्याः प्रपाते भृगावेव । सा नदी यत्र पतति तस्मिन्नित्यर्थः । 'प्रपातस्त्वतटो भृगुः' इत्यमरः । नोऽस्माकं पुनः संगमः, अस्त्विति शेषः । भवत्समागमं प्रतिपालयन्नहमिहैव निवत्स्यामीत्यर्थः ॥ ३३ ॥

  तस्मिन्संघमिनामाये जाते परिणयोन्मुखे ।
  जहुः परिग्रहव्रीडां प्राजापत्यास्तपखिनः ॥ ३४ ॥

 तस्मिन्निति ॥ संयमिनां योगिनामाये तस्मिन्नीश्वरे परिणयोन्मुखे विवाहो


पाठा०-१ उत्सुके. २ तपोधनाः. त्सुके जाते सति प्रजापतेरिमे प्राजापत्याः । ब्रह्मपुत्रा इत्यर्थः । तपस्विनो मुनयः परिग्रहैः पत्नीभिर्व्रीडाम्, गार्हस्थ्यनिमित्तामित्यर्थः। 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । जहुस्तत्यजुः । जहातेर्लिटि रूपम् । न हि समानगुणदोषेषु ब्रीडागमोऽस्तीति भावः ॥ ३४ ॥

  ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ।
  भगवानपि संप्राप्तः प्रथमोद्दिष्टमास्पदम् ॥ ३५ ॥

 तत इति ॥ ततोऽनन्तरं मुनिमण्डलं मुनिसमूहः परममित्युक्त्वा 'ओम्' इत्युक्त्वा, अनुमन्येत्यर्थः । अव्ययमेतत् । 'ओमेवं परमं मतम्' इत्यमरः । प्रतस्थे । भगवानीश्वरोऽपि प्रथमोद्दिष्टं पूर्वसंकेतितमास्पदं स्थानं महाकोशीप्रपातं संप्राप्तः ॥ ३५॥

  ते चाकाशमसिश्याममुत्पत्य परमर्पयः ।
  आसेदुरोपधिप्रस्थं मनसा समरंहसः ॥ ३६॥

 त इति ॥ मनसा समरंहसो मनस्तुल्यवेगास्ते परमर्षयश्च । पूर्वश्लोकोक्तेश्वरसमुच्चयार्थश्चकारः । असिवच्छ्यामं नीलमाकाशं खं प्रत्युत्पत्यौषधिप्रस्थं हिमवत्पुरमासेदुः, सद्यः प्रापुरित्यर्थः ।। ३६ ॥

 इतः परं दशभिः श्लोकैरोषधिप्रस्थमेव वर्णयति-

  अलकामतिवाह्यैव वसतिं वसुसंपदाम् ।
  स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥ ३७॥

 अलकामिति ॥ वसुसंपदा धनसमृद्धीनां वसति स्थानमलकां कुबेरनगरीमतिवाह्य । परिच्छिद्येति यावत् । उपनिवेशितमिव स्थितम् । तथा स्वर्गस्याभिष्यन्दोऽतिरेकः । अतिरिक्तजन इति यावत् । तस्य वमनं निःसारणं कृत्वोपनिवेशितमिव स्थितम् । उभयत्रापि कौटिल्य:-'भूतपूर्वमभूतपूर्व वा जनपदं परदेशापवाहेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्' इति । अलकामरावत्यतिशयितसमृद्धिकमित्यर्थः ॥ ३७ ॥


पाठा०-१ प्रमाणम्. २ आश्रमम्. ३ अथ. ४ इव. ५ विनिवेशितम्.

९ कु० सं०

  गङ्गास्रोतःपरिक्षिप्तं वप्रान्तर्ध्वलितौषधि ।
  बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥ ३८ ॥

 गङ्गेति ॥ गङ्गायाः स्रोतोभिः प्रवाहैः परिक्षिप्तं परिवेष्टितम् । तैरेव सपरिखमित्यर्थः । वप्रश्चयः। प्राकारचैत्यमिति यावत् । 'स्याच्चयो वप्रमस्त्रियाम्' इत्यमरः । तस्यान्तर्मध्ये ज्वलिताः प्रकाशमाना ओषधयो यस्य तत्तथोक्तम् , ज्वलितौषधित्वाद्वात्रिषु संचारिणां दीपनिरपेक्षमित्यर्थः । बृहद्विपुलो मणिशिलानां माणिक्यानां सालः प्राकारो यस्य तत्तथोक्तम् । 'प्राकारो वरणः सालः' इत्यमरः । अत एव गुप्तावपि संवरणेऽपि मनोहरम् । अकृत्रिमदुर्गसंवरणमिति भावः ॥ ३८ ॥

  जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
  यक्षाः किंपुरुषाः पौरा योपितो वनदेवताः ॥ ३९ ॥

 जितेति ॥ यत्र पुरे नागा गजा जितं सिंहेभ्यो भयं यैस्ते तथोक्ताः । सिंहाधिकबला इत्यर्थः । नाथस्तु-'पदं तुषारस्त्रुतिधौतरक्तम्' (पा. १।६) इत्येतद्विरोधभयात् 'वीतवीतभयाः' इति पपाठ । तथा न भेतव्यं, तत्र वनगजानां सिंहहतत्वाभिधानात् । अत्र त्वोपधिप्रस्थगजानां हिमवन्महिम्ना सिंहातिरेकसंभवेनाविरोधादिति । 'वीतवीतभयाः' इति पाठे वीतं विगतं वीतात्पादाङ्कुशकर्मभ्यां भयं येषां ते तथोक्ताः । स्वभावविनीता इत्यर्थः । 'पादकर्म युतं प्रोक्तं यातमङ्कुशवारणम् । उभयं वीतमाख्यातम्' इति यादवः । अश्वा बिलयोनयो बिलसंभवाः । अन्यत्र तु न तथेति वैचित्र्यम् । उक्तं च-'अमृताद्बाष्पतो

वह्नेर्वेदभ्योऽण्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता ॥' इति । यक्षाः प्रसिद्धाः। किंपुरुषाः किंनराश्च पौराः पुरजनाः। वनदेवता एव

योषितः । न तु मानुष्य इत्यर्थः ॥ ३९ ॥

  शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मनाम् ।
  नुगर्जितसंदिग्धाः करणैर्मुरजस्वनाः॥ ४० ॥

 शिखरेति ॥ यत्र पुरे शिखरेष्वासक्ता मेघा येषां तेषां वेश्मनां संबन्धिनः । अनुगर्जितानि प्रतिगर्जितानि तैः संदिग्धा मुरजस्वनाः करणैस्ताल


पाठा०-१ स्वर्गादपि. २ मन्द्रगर्जित. व्यवस्थापितैस्ताडनविशेषैः । तदुक्तं राजकंदर्पेण् -'नृत्यवादित्रगीतानां प्रयोग- वशभेदिनाम् । संस्थानं ताडनं रोधः करणानि प्रचक्षते ॥' इति । व्यज्यन्ते स्फुटीक्रियन्ते ॥ ४॥

यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः । गृहयत्रपताकाश्रीरपौरादरनिर्मिता ॥४१॥</poem>}}

यत्रेति ॥ यत्र नगरे विलोलानि चञ्चलानि विटपेष्वंशुकानि येषां तैः

कल्पद्रुमैरेवापौरादरेण पौरादरं विनैव निर्मिता । अयत्नसिद्धेत्यर्थः । गृहेषु यानि

यंत्राण्याधारदारूणि तेषु पताकास्तासां श्रीः। संभवतीति शेषः । तत्र लम्बाम्बराः कल्पतरव एव वैजयन्तीति संभाव्यन्त इत्यर्थः ॥ ११ ॥

यत्र स्फटिकहर्येषु नक्तमापानभूमिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥ ४२

यत्रेति ॥ यत्र पुरे नक्तं रात्रौ स्फटिकहर्म्यष्वापानभूमिषु पानगोष्ठीप्रदेशेषु ज्योतिषां नक्षत्राणां प्रतिबिम्बान्युपहारतां पुष्पोपहारत्वं मौक्तिकोपहारत्वं वा प्राप्नुवन्ति ॥ ४२ ॥

यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥ ४३ ॥

यत्रेति ॥ यत्र पुरे दुर्दिनेषु मेघच्छन्नदिवसेषु नक्तमोषधीनां त्ऱुण ज्योतिषां प्रकाशेन संचरन्त एभिरिति संचराः पन्थानः । 'गोचरसंचर-' (पा. ३।३।११९) इत्यादिना घप्रत्ययान्तो निपातः । दर्शितसंचराः प्रकाशितमार्गा अभिसारिकाः कान्तार्थिन्यः । 'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इत्यमरः । तमिस्राणां तमसाम् । कृद्योगात्कर्मणि षष्ठी । अनभिज्ञाः। तमांसि नाभिजान- न्तीत्यर्थः ॥ ४३ ॥

यौवनान्तं वयो यस्मिन्नान्तकः कुसुमायुधात् । रतिखेदेसमुत्पन्ना निद्रा संज्ञाविपर्ययः ।। ४४ ॥<

यौवनान्तमिति ॥ यस्मिन्पुरे वयो यौवनान्तं यौवनावधिकम् । सर्वेऽप्य-

पाठा०-१ पङ्क्तिषु. २ समुत्थाना. जरा इत्यर्थः। तथा कुसुमायुधात्कामात् अन्य इति शेषः । अन्तको मृत्युर्न ।अस्तीति शेषः। विरहिणां तादृग्दुःखोत्पादकत्वादन्तकत्वोपचारः । कामं विना मृत्युर्नास्तीत्यर्थः । अत एव तत्कार्यभूतमरणाभाव इत्याशयेनाह-रतीति । रतिखेदसमुत्पना निद्रा सुप्तिरेव संज्ञाविपर्ययश्चेतनापगमः । न तु दीर्घनिद्रारूप इत्यर्थः । अत्रत्याः सर्वेऽजरामरा इति श्लोकतात्पर्यार्थः । अन्तयत्यन्तं करोतीत्य- न्तकः । अन्तयतेस्तत्करोतीति ण्यन्ताद्यत्प्रत्ययः ॥ ४४ ॥

भ्ऱूभेदिभिः सकम्पोष्टललिताङ्गुलितर्जनैः । यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥४५॥</poem>}}

भ्ऱुभेदिभिरिति ॥ यत्र पुरे प्रिया युवानो भूभेदिभिर्भूभङ्गवद्भिः सकम्पा ओष्ठा येषु तैर्ललितान्यङ्गुलितर्जनानि येषु तैः स्त्रीणां कोपर्मानाख्यैराप्रसादार्थिन आ प्रसादं प्रसादपर्यन्तमर्थिनो याचकाः कृताः। न तु शत्रुकोपैरिति भावः॥४५॥ संतानकतरुच्छायासुप्तविद्याधराध्वगम् । यस्य चोपवनं बाह्यं गन्धवद्गन्धमादनम् ।। ४६॥ (कुलकम्)

संतानकेति ॥ किंचेति चार्थः । संतानकतरूणां छायासु सुप्ता विद्याधरा देवताविशेषास्त एवाध्वगा यस्मिंत्तत्तथोक्तं गन्धवद्गन्धाढ्यं गन्धमादनं नाम गिरिर्यस्य पुरस्य बहिर्भवं बाह्यमुपवनमारामः । अत्र 'गन्धवद्गन्धमादनम्' इत्यागन्तुकः पाठः । प्राचीनपाठस्तु 'सुगन्धिर्गन्धमादनः' इति पुंलिङ्गान्तः । अत एव क्षीरस्वामिना 'गन्धमादनमन्ये च' इत्यत्र गन्धेन मादयतीति गन्ध. मादन इति व्याख्याय प्रयोगे च पुंलिङ्गता दृश्यत इत्याशयेनोक्तं 'सुगन्धिर्गन्धमादनः'

इति 'कालिदासः' इति । संतानकतरुच्छायेत्यत्र पूर्वपदार्थबाहुल्यसंभवेऽपि 
'शलभच्छायम्', 'इक्षुच्छायम्' इतिवत्समर्थच्छायानिष्पत्तेस्तदपेक्षाभावात्

'छाया बाहुल्ये' (पा.२।४।२२) इति नपुंसकत्वं नास्तीत्यनुसंधेयम् ॥ ४६ ॥ अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसंधिसुकृतं वश्चनामिव मेनिरे ॥ ४७ ॥</poem>}}

अथेति ॥ अथ ते दिवि भवा दिव्या मुनयो हिमवत इदं हैमवतं पुरं प्रेक्ष्य

पाठा०--१ सुगन्धि गन्धमादनम्. २ ततस्ते. स्वर्गाभिसंधिना स्वर्गोद्देशेन यत्सुकृतं ज्योतिष्टोमाद्यनुष्ठानं तत्स्वर्गाभिसंधिसुकृतं वञ्चनां प्रतारणामिव मेनिरे, हिमवन्नगरमवेक्ष्य स्वर्गस्य पुण्यफलत्वं वदता वेदेन वयं विप्रलब्धा इत्यर्थः । स्वर्गादतिरमणीयमिति भावः ॥ ४७ ॥ ते सद्मनि गिरेर्वेंगादुन्मुखद्वाःस्थवीक्षिताः । अवतेरुजटाभारैलिखितानलनिश्चलैः ॥ ४८ ॥

त इति ॥ लिखितानलनिश्चलैः । चित्रगतज्वलननिष्पन्दैरिति वेगप्रकर्षोक्तिः।

जटाभारैरुपलक्षितास्ते मुनयः । द्वारि तिष्ठन्तीति द्वाःस्था द्वारपालकाः

'प्रतीहारे द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः' इत्यमरः । उन्मुखैरूर्ध्वमुखैर्वीक्षिताः सन्तः न तु विनिवारिता इत्यर्थः । गिरेर्हिमवतः सद्मनि वेगादवतेरुरवतीर्णवन्तः॥ ४८॥

गगनादवतीर्णा सा यथावृद्धपुरस्सरा । तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥ ४९ ॥</poem>}}

गगनादिति ॥ गगनादवतीर्णावरूढा यथावृद्धं वृद्धानुक्रमेण स्थिताः पुरःसरा

अग्रेसरा यस्यां सा तथोक्ता। अनुपसर्जनाधिकारान्न ङीप् । सा मुनिपरम्परा 

परम्परा मुनिपंक्तिस्तोयान्तस्तोयाभ्यन्तरे भास्कराली प्रतिबिम्बितार्कपङ्रिक्तिरेव रेजे। एतेन मुनीनां तेजस्वित्वेऽपि सुखसंदर्शनं सूचयति । भास्कराणां भूयिष्टत्वसंभावनार्थ

तोयान्तरित्युक्तम् । अत एव बहुत्वसिद्धिश्च ॥ ४९ ॥

तानार्घनर्घ्य॑मादाय दूरात्प्रत्युद्ययौ गिरिः । नमयन्सारगुरुभिः पादन्यासैवसुन्धराम् ।। ५०॥ तानिति ॥ गिरिहिमवानव्य॑मर्धाथ जलमादाय सारगुरुभिरन्तःसारदुर्भरैः पादन्यासैर्वसुंधरां नमयन्नधः प्रापयन् । अर्घमर्हन्तीत्यान्पूज्यान् । दण्डादित्वाद्यत्प्रत्ययः ।

तान्मुनीन्दूरात्प्रत्युद्ययौ ॥ ५० ॥

संप्रति हिमवन्तमेव जंगमस्थावररूपद्वयसाधारणैर्विशिनष्टि- धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः । प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥५१॥

धात्विति ॥ धातुवत्ताम्रोऽधरो यस्य स तथोक्तः । अन्यत्र धातुरेव ताम्रो

पाठा०-१ निश्चलाः. ऽधरो यस्य । प्रांशुरुग्नतः । उभयत्रापि समानम्। देवदारुवबृहन्तौ भुजौ यस्य स तथोक्तः। देवदारव एव बृहन्तौ भुजौ यस्येत्यन्यत्र । प्रकृत्या स्वभावेनैव शिलावदुरो यस्य स शिलोरस्कः शिलैवेत्यन्यत्र । 'उरःप्रभृतिभ्यः कप्' (पा.५।४।१५१) इति कप् । अतो हिमवानिति सुव्यक्तः। वर्तमाने क्तः । सत्यं स एवायं हिमवानिति तद्धर्मप्रत्यभिज्ञानादवधारित इत्यर्थः ॥ ५१ ॥

विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः । स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ॥ ५२ ॥<

विधीति ॥ स हिमवान्विधिना शास्त्रेण प्रयुक्तसत्कारैः कृतार्चनैः शुद्धकर्मभिरदुष्टचरितैः-

शुद्धान्तप्रवेशाहरित्यर्थः । तैर्मुनिभिः स्वयं मार्गस्य दर्शयतीति

दर्शको दर्शयिता सन् । पश्यतेय॑न्तादण्प्रत्ययः। शुद्धान्तमन्तःपुरमाक्रमयामास । प्रवेशयामासेत्यर्थः । अत्र क्रमेरगत्यर्थत्वात् 'गतिबुद्धि-' (पा.१।४।५२) इत्यादिना तैरित्यस्य न कर्मत्वम् ॥५२॥

तत्र वेत्रासनासीनान्कृतासनपरिग्रहः । इत्युवाचेश्वरान्वाचं प्राञ्जलिर्भूधेरेश्वरः ।। ५३ ।।

तत्रेति ॥ वेत्रं लताविशेषः । तत्र शुद्धान्ते वेत्रासनासीनान्वेत्रमयविष्टरोपविष्टानीश्वरान्प्रभून्मुनीन्भूधरेश्वरो

हिमवान् कृतासनपरिग्रहः, उपविष्टः सन्नित्यर्थः।

प्राञ्जलिः कृताञ्जलिः सन् । इत्येवं वाचमुवाच ॥ ५३ ॥

अपमेघोदयं वर्षमदृष्टकुसुमं फलम् । अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ ५४ ॥

अपेति ॥ अतर्कितोपपन्नमविचारितमेवोपगतम् , अत्यन्तासंभावितमित्यर्थः । वो युष्माकं दर्शनमपमेघोदयं वर्षमनभ्रा वृष्टिस्तथाऽदृष्टं कुसुमं यस्य तत्तथोक्तं फलं च तन्मे प्रतिभाति, अतिदुर्लभलाभः संवृत्त इत्यर्थः । अत्र मेघोदयकुसुम-

पाठा०-1 सत्कारान् . २ देशकः. ३ तान् . ४ अनासन; नीचासन. ५ पृथिवीधरः, टिप्प.--1 अयमेवार्थः कविरत्नेन शाकुन्तले वर्णितः-'उदेति पूर्व कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमो भवत्प्रसादस्य पुरस्तु सम्पदः' इति । रुपकारणयोरभावेऽपि वर्षफलरूपकार्ययोरुदयाभिधानाद्विभावना। मुनिदर्शनस्य विशिष्टवृत्तित्वेन च निरूपणाद्रूपकालंकारश्चेत्युभयोः संसृष्टिः ॥ ५४ ॥

मुढं बुद्धमिवात्मानं हैमीभूतमिवायसम् । भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात् ।। ५५

मूढमिति ॥ भवदनुग्रहादात्मानं मां मूढं बुद्धिं विना कृतं बुद्धमिव मूढो भूत्वा यो बुद्धवास्तमिव । कर्तरि क्तः। आयसमयोविकारं हैमीभूतम् , अपि. सत्यं विहाय सौवर्णत्वं प्राप्तमिवेत्यर्थः । भूमेर्भूलोकाद्दिवं स्वर्गमारुढमिव मन्ये, ज्ञानरूपस्थानान्यद्य मे परमुत्कृष्यन्त इति भावः ॥ ५५ ॥ अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ॥ ५६ ॥

अद्येति ॥ अद्यप्रभृति इत आरभ्य भूतानां प्राणिनां शुद्धयेऽधिगम्योऽस्मि, शुद्ध्यार्थिनां तीर्थभूतोऽस्मीत्यर्थः । भवदागमनादिति शेषः । हि यस्मात् । यदर्हद्भिः

सद्भिरध्यासितमधिष्ठितम् , जुष्टमिति यावत् । तत्तीर्थं प्रचक्षते । निपा-

निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः ॥ ५६ ॥ अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः!। मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ।। ५७ ॥

अवैमीति ॥ हे द्विजोत्तमाः ! आत्मानं मां द्वयेनैव पूतं शुद्धमवैम्यवगच्छामि ।

केन ? द्वयेन  मूर्ध्नि गङ्गाप्रपातेन मन्दाकिनीपातेन, वो युप्माकं

धौतयोः क्षालितयोः पादयोरम्भसा च । अत्र गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं

गम्यते, तञ्च 'प्रस्तुताग्रस्तुतयोः' इति दीपकालंकारः । 'प्रेयः प्रियतराख्यानम्' 
इति लक्षणात्प्रेयोलंकार इति केचित् ॥ ५७ ॥

जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् । विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥ ५८ ॥

पाठा०-१ कृत. प्रचक्ष्यत. २ मर्त्यानां. ३ प्रेक्ष्याभावेन. ४ विरूपम् ; ५ द्वैरूप्यम् . टिप्प.---1 वस्तुतस्त्वत्र ‘धौतयुष्मत्पादांभसा' इत्येव समस्तमुचितम् , तथापि युष्मच्छब्दस्य समासात् पृथग्भावो गमकत्वादुपपन्नः । अर्थप्रतीतिरेव हि शब्देन साध्या। जङ्गममिति ॥ हे मुनयः ! द्विरूपं जंगमस्थावरात्मकत्वाद्विप्रकारकमपि मे वपुर्विभक्तानुग्रहं विभज्य कृतप्रसादं मन्ये। कुतः ? जङ्गमं वपुर्वो युष्माकं प्रैष्यभावे कैंकर्ये, स्थितमिति शेषः । 'प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या' (वा० ३६०५) इति वृद्धिः । 'नियोज्यकिंकरप्रैष्यभुजिष्यपरिचारकाः' इत्यमरः । स्थावरं वपुश्चरणाङ्कितम् । अयमेव हि महाननुग्रहो दासजनस्य यत्कर्मसु नियोजनं मूर्धनि पादन्यासश्चेति तात्पर्यार्थः ॥ ५८ ॥

भवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥ ५९॥

भवदिति ॥ व्याप्ता दिगन्ता यैस्तानि व्याप्तदिगन्तानि, महान्त्यपीत्यर्थः । मे ममाङ्गानि भवत्संभावनोत्थाय युष्मदनुग्रहजन्याय मूर्च्छते व्याप्नुवते परि- तोषाय न प्रभवन्ति न पर्याप्नुवन्ति । अलमर्थयोगाच्चतुर्थी । यथा महत्स्वपि मद्गात्रेषु न माति, तथा मे हर्षों वर्धत इत्यर्थः ॥ ५९ ॥

न केवलं दरीसंस्थं भास्वतां दर्शनेन वः । अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ॥ ६० ॥

नेति ॥ भास्वतां तेजस्विनां विवस्वतां च वो युष्माकं दर्शनेन केवलं दरीसंस्थं

गुहागतं तमो ध्वान्तरूपमेव नापास्तम् , किंतु मेऽन्तर्गतमन्तरात्मगतं

रजसो रजोगुणात्परमनन्तरं तमोऽज्ञानरूपमप्यपास्तम् । रजस्तु पादन्यासैरेवापास्तमिति भावः । प्रसिद्वैर्भास्वद्भिर्बाह्यं तमोऽपास्यते, एभिस्त्वान्तरमपीति व्यतिरेको व्यज्यते ॥ ६० ॥

कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते । मन्ये मत्पावनायैव प्रस्थानं भवतामिह ॥ ६१ ॥

कर्तव्यमिति ॥ कर्तव्यं कार्य वो युष्माकं न पश्यामि, निःस्पृहत्वादिति भावः । अथ स्याञ्चेद्विद्येत यदि, किं नोपपद्यते किं नाम न संभवति ? सर्व सुलभमेवेत्यर्थः ।

अथवा किमत्र प्रयोजनचिन्तयेत्याह-मत्पावनाय मच्छोधनायैव

पाठा०-१ अभिव्याप्त. २ उपदिश्यते. ३ शङ्के. ४ इदम्. टिप्प.-1 तथा चोक्तं भागवते-'न अम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधव:' इति । . भवतामिह विषये प्रेस्थानम्, इमं देशमुद्दिश्येदं प्रयाणमित्यर्थः । मन्ये तर्कयामि ॥ ६ ॥


तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किंकराः प्रभविष्णुषु ।। ६२ ॥

तथापीति ॥ तथापि भवतां निःस्पृहत्वेऽपि कस्मिंश्चित् , कर्मणीति शेषः । आज्ञा 'इदं कुरु' इत्यादेशं तावदिदानी मे मह्यं दातुमर्हथ, मदनुग्रहबुद्ध्येति भावः । हि यस्माकिंकरा भृत्याः । प्रभवन्तीति प्रभविष्णवस्तेषु प्रभुषु विषये

'भुवश्च' (पा. ४।१।४७) इतीष्णुच्यत्ययः। विशेषेण नियोगो विनियोगः, प्रेषणमेव प्रसादोऽनुग्रहो येषां ते तथोक्ताः । अन्यथा स्वस्वामिभावो निष्फल इति भावः॥ ६२ ॥ एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥ ६३ ॥

एत इति ॥ किंबहुना, एते वयम् , अमी दाराः, इयं कुलस्य जीवितं प्राणभूता परमप्रेमास्पदमित्यर्थः । कन्या। अत्रैषां मध्ये येन जनेन वः कार्य प्रयोजन ब्रूत । तमिति शेषः । येन सोऽपि दीयत इति भावः । रत्नहिरण्यादिकं तु न मे गण्यमित्याह-बाह्यवस्तुषु कनकरत्नादिष्वनस्थानादरः । प्रसज्यप्रतिषेधेऽपि नज्न्समास इष्यते । अदेयं न किंचिदस्तीति भावः ॥ ६३ ॥ इत्यूंचिवांस्तमेवाथ गुहामुखविसर्पिणा । द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥ ६४</poem>}}

इतीति । इत्यूचिवानुक्तवान् । वचे क्वसुप्रत्यय: । हिमालयो हिमवान् गुहानां मुखेषु विवरेषु विसर्पतीति तथोक्तेन प्रतिशब्देन तं पूर्वोक्तमेवार्थ द्विर्द्विवारम् । 'द्वित्रिचतुर्यः सुच्' (पा. ५।४।१८) इति सुच्यत्ययः । व्याजहार बभाषे ॥६॥

अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयो नोदयामासु: प्रत्युवाच स भूधरम् ॥ ६५॥</poem>}}


पाठा०-१ उक्तवान् . २ दरी. ३ हिमाचलः. ४ चोदयामासु:,

प्रेरयामासुः.

टिप्प०-1 प्रस्थानं समागमनमित्यन्ये; 'प्रशब्दस्तु प्रकर्षं च द्योतयेच्च समागमम्' इत्युपसर्गवृत्तावित्याहुः। 2 अत्र 'वयम्' इति बहुवचनं स्वाथें । अथेति ॥ अथानन्तरमृषय उदाहरणानि कथाप्रसङ्गास्त एव वस्तून्यर्थास्तेषु अग्रं नयतीत्यग्रणीस्तमग्रण्यं प्रगल्भम् । 'सत्सूद्विष-' (पा.३।२।६१) इत्यादिना क्विप् , 'अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्' (वा. ५०३४) इति णत्वम् । अङ्गिरसं नामर्षि नोदयामासुः प्रतिवक्तुं प्रेरयामासुः । सोऽङ्गिरा भूधरं हिमवन्तं प्रत्युवाच ॥ ६५ ॥ वाच ॥ ६५ ॥ उपपन्नमिदं सर्वमतः परमपि त्वयि । मनसः शिखराणां च सदृशी ते समुन्नतिः ॥ ६६ ॥

उपपन्नमिति ॥ इदम् ‘एते वयममी दाराः' (६।६३ ) इत्याद्युक्तं सर्वमतः परमतोऽधिकमपि त्वय्युपपन्नं युज्यते। तथा हि-ते मनसः शिखराणां च समुन्नतिः सदृशी, शिखराणीव मनो महोन्नतमित्यर्थः । किं नाम दुष्करमुन्नतचित्तानामिति-

भावः । प्रस्तुता प्रस्तुतयोर्मनःशिखरयोरौपम्यस्य गम्यत्वाद्दीपकालंकारः॥६६ ॥

स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते । चराचराणां भूतानां कुक्षिराधारतां गतः ॥ ६७ ॥ स्थान इति ॥ त्वां स्थावरात्मानं स्थावररूपिणं विष्णुमाहुः । 'स्थावराणां हिमालयः' इति (१०।२५) गीतावचनात् । स्थाने युक्तम् , युक्तार्थेऽव्ययमेतत् । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । तथा हि-ते तव कुक्षिश्चराचराणां जंगमस्था- वररूपिणां भूतानां पृथिव्यादीनामाधारतां गतः । तवेव विष्णोः कुक्षिरेवंभूत इति भावः ॥ ६ ॥ गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूलात्वमवालम्बिष्यथा न चेत् ॥ ६८ ॥

गामिति ॥ नागः शेषाहिणालमृदुभिर्बिसकोमलैः फणैर्गां भुवं कथमधास्यद्धारयेत् ?-

त्वमा रसातलमूलात्पातालपर्यन्तम् । विकल्पादसमासः । नावा-

नावालम्बिष्यथाश्चेत्पादैर्नावलम्बेथा यदि, त्वदवलम्बनादेव भुजगराजोऽपि भुवं बिभर्तीत्यर्थः । अत्र क्रियातिपत्त्यभावाल्लुप्रयोगश्चिन्त्यः ॥ ६८ ॥

पाठा०-१ मनीषणः.२ सदृशेः, अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः । पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥ ६९ ।।

अच्छिन्नेति । अच्छिन्ना अविच्छिन्ना अमलाश्च संतानाः प्रबन्धाः प्रवाहाच यासां तास्तथोक्ताः समुद्रोर्मिभिरनिवारिताः, पारगमनादन्तःप्रवेशाच्चेति भावः । ते तव कीर्तयः सरितश्च गङ्गादयः पुण्यत्वात्पवित्रत्वाल्लोकान्पुनन्ति पावयन्ति । लोकपावनाः खलु पुण्यश्लोका इति भावः । केवलप्रकृतविषयस्तुल्ययोगितालंकारः॥ ६९॥- यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः । प्रभवेण द्वितीयेन तथवोच्छिरसा त्वया ॥ ७० ॥

यथैवेति ॥ गङ्गा भागीरथी । प्रभवत्यस्मादिति प्रभवस्तेन कारणेन परमे तिष्ठतीति परमेष्ठिनो विष्णोः। परमे किप्प्रत्यय: । 'तत्पुरुषे कृति बहुलम्' (पा. ६।३।१४) इत्यलुक् । '- परमेबर्हिर्दिव्यग्निभ्यः स्थः' (उ.स.४।१०) इति षत्वम् । पादेन चरणेन यथैव श्लाघ्यते प्रशस्यते तथैव द्वितीयेन प्रभवेणोच्छिरसा त्वया श्लाघ्यते । हरिचरणवत्तीर्थस्यापि तीर्थभूतस्त्वमिति भावः ॥ ७० ॥ तिर्यगृर्ध्वमधस्ताच व्यापको महिमा हरेः । त्रिविक्रमोद्यतस्यासीत्स तु स्वाभाविकस्तवं ।। ७१ ॥

तिर्यगिति ॥ तिर्यगूर्ध्वमधस्ताच्च व्यापकः, सर्वव्यापीत्यर्थः । महिमा महत्त्वं हरेर्विष्णोस्त्रिपु विक्रमेषूद्यतस्य सत आसीत् । त्रिविक्रमोद्यतस्यापि कदाचिदेव, न तु सर्वदेत्यर्थः । तव तु व्यापको महिमा स्वाभाविकः, नित्यसिद्ध इत्यर्थः ॥७॥

यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया । उच्चैहिरण्मयं शृङ्ग सुमेरोर्वितथीकृतम् ।। ७२ ।। यज्ञेति ॥ यज्ञभागभुजामिन्द्रादीनां मध्ये पदमातस्थुषा निहितवता त्वयोच्चैरुन्नतं-

हिरण्यस्य विकारो हिरण्मयम् । 'दाण्डिनायनहास्तिनायन-' (पा. ६।-

४।१७४) इत्यादिनिपातनात्साधु । सुमेरोः शृङ्गं शिखरम् प्राधान्यं च ध्वन्यते। 'शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । वितथीकृतं व्यर्थीकृतम् । तस्य यज्ञभागा-

पाठा०-१ समुद्रोर्मिनिवारिताः. २ लोकम्. ३ प्रभावेण. ४ च. ५ तथा. भावादिति भावः । अस्य तु तत्सद्भावे प्रमाणम् -'हिमवतो हस्ती' इति श्रुतिः ॥ ७२ ॥

काठिन्यं स्थावरे काये भवता सर्वमर्पितम् । इदं तु ते भक्तिननम्रं सतामाराधनं वपुः ॥ ७३ ॥

काठिन्यमिति ॥ भवता सर्वं काठिन्यम्, अनम्रत्वमित्यर्थः । स्थावरे स्थिरे काये, शिलामय इत्यर्थः । अर्पितं न्यस्तम् । सतामर्हतामाराधनं पूजासाधनं साधनं त इदं वपुस्तु जङ्गममित्यर्थः । भक्ति नम्रम् । काठिन्यलेशोऽपि नास्ति, अन्यथा नम्रत्वासंभवादित्यर्थः । तथा चासाधारण्यं ध्वन्यते ॥ ७३ ॥ तदागमनकार्यं नः शृणु काय तवैव तत् । श्रयसामुपदेशात्तु वयमत्रांशभागिनः ।। ७४ ॥

तदिति ॥ तत्तस्मान्नोऽस्माकमागमनस्य कार्यं प्रयोजनं शृणु, तत्कार्यं च तवैव न त्वस्माकमित्यवधारणार्थं एवकारः। वयं तु श्रेयसामुपदेशादत्र कार्यंऽशभागिनः। त्वमेवात्र फलभाक्, वयमुपदेष्टार इति भावः ॥ ७४ ॥

कार्यमेवाह-

अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चः सार्धचन्द्रं बिभर्ति यः ॥ ७५ ॥

अणिमेति ॥ यः शंभुरणिमादिगुणोपेतमणिमादिभिरष्टभिर्गुणैर्वाच्यभूतैरुपेतम् , अष्टैश्वर्यवाचकमित्यर्थः । अत एवास्पृष्टं पुरुषान्तरं येन तं तथोक्तं पुरुषान्तरस्यानभिधायकम् ।

तस्यैवैवंगुणत्वादित्यर्थः । उँच्चैः परममीश्वर इति शब्दम् ,

निरुपपदेश्वरशब्दमित्यर्थः । सार्धचन्द्रमर्धचन्द्रयुक्तम् , अर्धचन्द्रं चेत्यर्थः । बिभर्ति ॥ ७५॥

कल्पितान्योन्यसामर्थ्यै: पृथिव्यादिभिरात्मभिः । येनेदं ध्रियते विश्वं धुर्यैयानमिवाध्वनि ।। ७६ ॥

पाठा०-१ अर्हदाराधनम्, २ यथा यत् ; ३ तथा. ४ च. ५ अपि. ६ भाजिनः.. गुणोत्थानम्. ८ धार्यते. .  कलितेति ॥ येन शंभुना कल्पितं धृतिसंग्रहादिस्वस्वगुणसंपादितमन्योन्यसामर्थ्यं परस्परसहकाररूपं यैस्तथोक्तैः, स्वस्वरूपसामर्थ्यमन्योन्याधेयमेवेति भावः । पृथिव्यादिभिरात्मभिः, अष्टाभिर्मूर्तिभिरित्यर्थः । इदं व्यक्तं विश्वं धुरं वहन्तीति धुर्यैरश्वैः। 'धुरो यड्डकौ' (पा. ४।४।७७) इति यत्प्रत्ययः । अध्वनि यानं रथ इव ध्रियते ॥ ७६ ॥

  योगिनो यं विचिन्वन्ति क्षत्राभ्यन्तरवर्तिनम् ।
  अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ।। ७७ ॥

 योगिन इति ॥ योगिनोऽध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनं शरीरान्तश्चरं सर्वभूतान्तर्यामिणम् , परमात्मस्वरूपिणमित्यर्थः । 'क्षेत्रं पत्नीशरीरयोः' इत्यमरः। यं शंभुं विचिन्वन्ति मृगयन्ते मनीषिणो विद्वांसो यस्य शंभोः पदं स्थानमविद्यमानमावृत्तेः पुनः संसारापत्तेर्भयं यत्र तत्तथाभूतमाहुः ॥ ७७ ॥

  स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणाम् ।
  वृणुते वरदः शंभुरस्मत्संक्रामितैः पदः ॥ ७८ ॥

 स इति ॥ विश्वस्य जगतः कर्मणां साक्षी द्रष्टा । 'साक्षाद्द्रष्टरि संज्ञायाम्' (पा. ५।२।९१) इतीनिप्रत्ययः । वरानिष्टान् ददातीति वरदः । 'आतोऽनुपसर्गे कः' (पा, ३।२।३) इति कप्रत्ययः। स पूर्वोक्तः शंभुरस्मत्संक्रामितैः पदैरस्मासु निवेशितैर्वाक्यैस्ते दुहितरं साक्षाद्वृणुते, अस्मन्मुखेन स्वयमेव याचत इत्यर्थः ॥ ७८ ॥

  तमर्थमिव भारत्या सुतया योक्तुमर्हसि ।
  अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता ॥ ७९ ॥

 तमिति ॥ तं शंभु भारत्या वाचाऽर्थमभिधेयमिव सुतया दुहित्रा योक्तुं संघटयितुमर्हसि । अत्र वागर्थयोरुपमानत्वसामर्थ्याच्छिवयोर्नित्ययोगो विवक्षित इत्युक्तं । 'वागर्थाविव संपृक्तौ' (रघु० १।१) इत्यत्रापि । तथा हि-सद्भर्त्रे प्रतिपादिता दत्ता कन्या पितुरशोच्या ॥ ७९ ॥


पाठा०-१ संक्रमितः. २ सद्भर्त्रे. टिप्प०---1 अत्र 'येनेदं ध्रियते व्यक्तं' इति मल्लिनाथादृतः पाठ इति प्रतीयते ।  गुणान्तरमप्याह--

  यावन्त्वेतानि भूतानि स्थावराणि चराणि च ।
  मातरं कल्पयन्त्वेनामीशो हि जगतः पिता ॥ ८ ॥

 यावन्तीति ॥ स्थावराणि चराणि च यावन्त्येतानि भूतानि, सन्तीति शेषः । सर्वाणि भूतानीत्यर्थः । एनां ते दुहितरं मातरं कल्पयन्तु । हि यस्मादीशो जगतः पिता । पितृदारेषु मातृभावो न्याय्य इति भावः ॥ ८० ॥

  प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
  चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः ॥ ८१ ॥

 प्रणम्येति ॥ विबुधा देवाः शितिकण्ठाय शिवाय प्रणम्य तदनन्तरं नीलकण्ठप्रणामानन्तरमस्याश्चरणौ चूडामणिमरीचीभी रञ्जयन्तु । ईश्वरपरिग्रहादखिलदेवतावन्द्या भवत्वित्यर्थः ॥ ८१ ॥

  उमा वधूर्भवान्दाता याचितार इमे वयम् ।
  वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः॥ ८२ ॥

 उमेति ॥ उमा वधूः । भवान्दाता । इमे वयं याचितारः प्रार्थकाः । शंभुर्वरो वोढा । एष विधिरेषा सामग्री त्वत्कुलस्योद्भूतय उच्छ्रयायालं पर्याप्तं हि । 'नमःस्वस्तिस्वाहास्वधा-' (पा. २।३।१६) इत्यादिना चतुर्थी ॥ ८२ ॥

  अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।
  सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः ॥ ८३॥

 अस्तोतुरिति ॥ स्वयमन्यस्तोता न भवतीत्यस्तोतुः किंतु स्तूयमानस्य सर्वस्तुत्यस्य वन्द्यस्य जगद्वन्द्यस्य स्वयमन्यं न वन्दत इत्यनन्यवन्दिनो विश्वगुरोर्देवस्य सुतासंबन्धविधिना यौनसंबन्धाचरणेन गुरुर्भव, यो नान्यं स्तौति न चन्दते तस्यापि त्वं स्तुत्यो वन्द्यश्चेत्यहो तव भाग्यवत्तेत्यर्थः ॥ ८३ ॥


पाठा०-१ जगताम्. टिप्प०-1 शिशुपालवधे माघेनायमेवार्थो विशदतया प्रतिपादित:-'केवलं दधति कर्तृवाचिन: प्रत्ययानिह न जातु कर्मणि। धातवः सृजति संहृशास्तयः स्तौतिरत्र

विपरीतकारकः' इत्यनेन ।

  एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
  लीलाकमलपत्राणि गणयामास पार्वती ।। ८४ ॥

 एवमिति ॥ देवर्षावङ्गिरस्येवंवादिनि सति पार्वती पितुः पार्श्वेऽधोमुखी सती, लज्जयेति शेषः । लीलाकमलपत्राणि गणयामास संचख्यौ, लज्जावशात्कमलदलगणनाव्याजेन हर्षं जुगोपेत्यर्थः । अनेनावाहित्थाख्यः संचारी भाव उक्तः । तदुक्तम्-'अवहित्था तु लजादेर्हर्षादाकारगोपनम्' इति ॥ ८४ ॥

  शैलः संपूर्णकामोऽपि मेनामुखमुदैक्षत ।
  प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ॥ ८५ ॥

 शैल इति ॥ शैलो हिमवान्संपूर्णकामोऽपि, दातुं कृतनिश्चयोऽपीत्यर्थः । मेनामुखमुदैक्षत, उचितोत्तरजिज्ञासयेति भावः । तथा हि-प्रायेण कुटुम्बिनो गृहस्थाः कन्यार्थेषु कन्याप्रयोजनेषु गृहिण्येव नेत्रं कार्यज्ञानकारणं येषां ते तथोक्ताः, कलत्रप्रधानवृत्तय इत्यर्थः ॥ ८५ ॥

  मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् ।
  भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥ ८६ ॥

 मेन इति ॥ मेनापि पत्युर्हिमालयस्य तत्सर्वमभीप्सितं कार्यं मेनेऽङ्गीचकार । तथा हि-पतिरेव व्रतं यासां ता भर्तुरिष्टेऽभीप्सिते न विद्यते व्यभिचारो यासां ता अव्यभिचारिण्यो भवन्ति, भर्तृचित्ताभिप्रायज्ञा भवन्तीति भावः ॥ ८६ ॥

  इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः ।
  आददे वचसामन्ते मङ्गलालंकृतां सुताम् ॥ ८७ ॥

 इदमिति ॥ स हिमवान्वचसामन्ते मुनिवाक्यावसानेऽत्र मुनिवाक्य इदमुत्तरश्लोके वक्ष्यमाणं दानमेव न्याय्यं न्यायादनपेतमुत्तरमिति बुद्ध्या चित्तेन विमृश्य विचिन्त्य मङ्गलं यथा तथालंकृतां मङ्गलालंकृतां सुतामाददे हस्ताभ्यां जग्राह ८७

  एहि विश्वात्मने वत्से ! भिक्षासि परिकल्पिता ।
  अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥ ८८ ॥

 एहीति ॥ हे वत्से पुत्रि! एह्यागच्छ । त्वं विश्वात्मने शिवाय भिक्षा परि-


पाठा०-१ कन्यार्थे हि. २ सद्यः.३ समीहितम्. ४ शर्वार्पणे. ५ भिक्षात्वम्. कल्पितासि निश्चितासि । 'रत्नादिस्तम्बपर्यन्तं सर्वं भिक्षा तपस्विनः' इति वचनादिति भावः । अर्थिनो याचितारो मुनयः । मया गृहमेधिनो गृहस्थस्य फलं प्राप्तम् । इह परत्र च तारकत्वात्पात्रे कन्यादानं गार्हस्थ्यस्य फलमित्यर्थः ॥१८॥

  एतावदुक्त्वा तनयामृषीनाह महीधरः।
  इयं नमति वः सवास्त्रिलोचनवधूरिति ॥ ८९ ॥

 एतावदिति ॥ महीधरो हिमवांस्तनयामेतावत्पूर्वोक्तमुक्त्वर्षीनाह । किमिति ? इयं त्रिलोचनवधूस्त्र्यम्बकपत्नी वः सर्वान्नमतीति । 'त्रिलोचनवधूः' इति सिद्धवदभिधानेनाविप्रतिपन्नं दानमिति सूचयति ॥ ८९ ॥

  ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः।
  आशीर्भिरेधयामासुः पुरःपाकाभिरम्बिकाम् ॥ ९० ॥

 ईप्सितार्थेति ॥ ते मुनयः ईप्सितार्थक्रिययेष्टार्थकरणेनोदारं महत् । 'उदारो दातृमहतोः' इत्यमरः। गिरेर्हिमवतो वचो वचनमभिनन्द्य साध्विति संस्तुत्याम्बिकामम्बाम् । पच्यत इति पाकः फलम् । पुरःपाकाभिः पुरस्कृतफलाभिराशीर्भिराशीर्वादैरेधयामासुः संवर्धयामासुः ॥ ९० ॥

  तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् ।
  अङ्कमारोपयामास लज्जमानामरुन्धती ॥ ९१ ॥

 तामिति ॥ प्रणामादरेण नमस्कारासक्त्या स्रस्ते जाम्बूनदे सुवर्णविकारे वतंसके कनककुण्डले यस्यास्तां लज्जमानां तामम्बिकामरुन्धत्यङ्कमारोपयामास । 'रुहः पोऽन्यतरस्याम्' (पा. ७।३।४३) इति पकारः ॥ ९१ ॥

  तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।
  वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥ ९२ ॥

 तदिति ॥ दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवां वियोक्ष्यत इति भीताम् ।


पाठा०-१ दुहितुः टिप्प०-1 गार्हस्थ्यसाफल्यं चोक्तमन्यत्र-गृहस्थः श्रद्धया दद्याद्भिक्षां भिक्षार्थिने सदा। भिक्षामददतः पुंसो गाईस्थ्यं निष्फलं भवेत्' इत्यादिना। 2 'आर्याप्यरुन्धती' (६।३२) इति श्लोकयुग्मेनोक्तमत्रानुसंधेयम् । अत एवाश्रूणि मुखे यस्यास्तामश्रुमुखीं तस्या अम्बिकाया मातरं तन्मातरं मेनां च । अन्या पूर्वं यस्यास्ति सोऽन्यपूर्वः । 'सर्वनाम्नो वृत्तिविषये पुंवद्भावः' (वा० १३७६) इति पूर्वपदस्य पुंवद्भावः। स न भवतीत्यनन्यपूर्वस्तस्यानन्यपूर्वस्य । सापहयदुःखमकुर्वत इत्यर्थः । वरस्य वोढुर्गुणैर्मृत्युंजयत्वादिभिर्विशोकां निर्दुःखामकरोत् ॥ ९२ ॥

  वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना ।
  ते त्र्यहादूर्ध्वमाख्याय चेरुश्चीरपरिग्रहाः ॥ ९३ ।।

 वैवाहिकीमिति ॥ चीरपरिग्रहा वल्कलमात्रवसनास्ते तपस्विनस्तत्क्षणं तस्मिन्नेव क्षणे हरबन्धुना हिमवता वैवाहिकीं विवाहयोग्यां तिथिं पृष्टाः केत्यनुयुक्ताः सन्तः। त्रयाणामह्नां समाहारस्त्र्यहः । 'तद्धितार्थोत्तरपदसमाहारे च' (पा. २।१।५१) इति समासः। 'राजाहःसखिभ्यष्टच्' (पा. ५।४।९१) इति टच्प्रत्ययः। द्विगुत्वादेकवचनम्। 'रात्राह्णाहाः पुंसि' (पा. २।४।२९) इति पुंलिङ्गता। तस्मात्त्र्यहादूर्ध्वमुपर्याख्याय 'चतुर्थेऽहनि विवाहः' इत्युक्त्वा चेरुश्चलिताः ॥९३॥

  ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् ।
  सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ ९४ ॥

 त इति ॥ ते मुनयो हिमालयमामन्त्र्य 'साधु यामः' इत्यापृच्छय पुनः शूलिनं हरं संकेतस्थानस्थं प्राप्य सिद्धं निष्पन्नमर्थं प्रयोजनमस्मै निवेद्य च ज्ञापयित्वा च तद्विसृष्टास्तेन शूलिना विसृष्टाः खमाकाशं प्रत्युद्ययुरुत्पेतुः । अत्र संक्षिप्तार्थाभिधानात्संक्षेपो नाम गुण उक्तः। तदुक्तम्-'संक्षिप्तार्थाभिधानं यत्संक्षेपः परिकीर्तितः' इति ॥ ९४ ।।

 भगवान्पशुपतिस्त्र्यहमात्रविलम्बमपि सोढुं न शशाक, तदौत्सुक्यादित्याह-

  पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः ।
  कमपरमवशं न विप्रकुयुर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥१५॥

 पशुपतिरिति ॥ उत्कं मनो यस्य स उत्कः । 'उत्क उन्मनाः' (पा.५।२।८०) इति निपातः । अद्रिसुतासमागमोत्कः पार्वतीपरिणयोत्सुकः पशुपतिरपि तानि,


पाठा०-१ चेलुः. २ प्रेक्ष्य. ३ तस्मै. १० कु. सं. त्रीणीति शेषः । अहानि कृच्छ्रादगमयदहापयत् । कविराह-अमी भावा औत्सुक्यादयः संचारिणोऽवशमिन्द्रियपरतन्त्रमपरं पृथग्जनं कं न विप्रकुर्युर्न विकारं नयेयुः? यद्यस्माद्विभुं समर्थम् , जितेन्द्रियमिति यावत् । तं स्मरहरमपि स्पृशन्ति, विकुर्वन्तीत्यर्थः । अत्र विभुविकारसमर्थनादर्थादितरजनविकारः कैमुतिकन्यायादापततीत्यर्थापत्तिरलंकारः । तथा च सूत्रम्-'दण्डापूपिकयार्थान्तरपतनमर्थापत्तिः' इति । 'अर्थान्तरन्यास' इति केचित् तदुपेक्षणीयम् , युक्तिस्तु विस्तरभयान्नोच्यते । पुष्पिताग्रा वृत्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति तल्लक्षणात् ॥ ९५ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
पार्वतीतपःफलोदयो नाम षष्ठः सर्गः ।

  1. हेम.
  2. शश्वत्.
  3. उद्धतया.