कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/पञ्चमः सर्गः(तपःफलोदयः)

विकिस्रोतः तः
← चतुर्थः सर्गः(रतिविलापः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
पञ्चमः सर्गः(तपःफलोदयः)
कालिदासः
षष्ठः सर्गः(विवाहप्रस्तावः) →

पञ्चमः सर्गः


 तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।
 निनिन्द रूपं हृदयेन पार्वती 1प्रियेषु सौभाग्यफला हि चारुता ॥१॥

 तथेति ॥ पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणाक्ष्णोः समीपे समक्षं पुरतः । 'अव्ययं विभक्तिसमीपसमृद्धि-' (पा. २।१।६) इत्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पिनाकिनेश्वरेण भग्नः खण्डितो मनोरथो- ऽभिलाषो यस्याः सा तथोक्ता सती, हृदयेन मनसा रूपं सौन्दर्यं निनिन्द, 'धिङ्मे रूपं यद्धरमनोहरणाय नालम्' इति गर्हितवतीत्यर्थः। युक्तं चैतदित्याह- तथा हि-चारुता सौन्दर्यं प्रियेषु पतिषु विषये सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते; नो चेद्वि- फलं तदिति भावः । अस्मिन्सर्गे वंशस्थं वृत्तम्-'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ॥ १ ॥

 इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
 अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥२॥

 इयेषेति ॥ सा पार्वती समाधिमेकाग्रतामास्थायावलम्ब्य तपोभिर्वक्ष्यमाण- नियमैः करणभूतैरात्मनः स्वस्यावन्ध्यरूपतां सफलसौन्दयं कर्तुमियेषेच्छति स्म,


पाठा०-१ प्रिये हि. तपसा शिवं वशीकर्तुमुधुक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्वयम- वाप्यते ? । किं तद्वम् ! तथाभूता विधा प्रकारो यस्य तत्तथाविधं प्रेम स्नेहः, येनार्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च, यो मृत्युंजय इति भावः ।। द्वयमेव खलु स्त्रीणामपेक्षितम्-यद्भर्तृवाल्लभ्यं जीवभर्तृकत्वं चेति; तच्च तपश्चर्यै- कसाध्यमिति निश्चिकायेत्यर्थः । अन मनुः ( ११।२३८)-- 'यदुष्करं यद्दुरापं यद्दुर्ग यच्च दुस्तरम् । तत्सर्वं तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥' इति ॥ २॥

 निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीश1प्रतिसक्तमानमाम् ।
 उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥३॥

 निशम्येति ॥ मेना मेनका च गिरीशप्रतिसक्तमानसां हरासक्तचित्तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वैनां पार्वतीं वक्षसा परिरभ्यालिङ्गय महतो मुनिव्रतात्तपसो निवारयन्त्युवाच । 'मुनिव्रतात्' इत्यत्र यद्यपि मुनिव्रतस्य मेनकाया अनीप्सितत्वात् 'वारणार्थानामीप्सितः (पा.१।४।२७) इति नापादानत्वं, तथापि 'कृतोद्यमाम्' इति मानसप्रवेशोत्तत्वात् 'ध्रुवमपाये- डपादानम्' (पा. १।४।२४) इत्यपादानत्वमेव स्यात् । यथाह भाष्यकारः-'स बुद्ध्या संप्राप्य निवर्तते, तत्र ध्रुवमपायेऽपादानमिति प्रसिद्धम्' इति ॥ ३ ॥

 सामान्यनिषेधमुक्त्वा विशेषनिषेधमाह-

 मनीपिताः सन्ति 2गृहेषु देवतास्तपः क्व वत्से ! क्व च तावकं वपुः ।
 पदं सहेत भ्रमरस्य पेलवं शिरीपपुष्पं न पुनः पतत्रिणः ॥ ४ ॥

 मनीषिता इति ॥ हे वत्से ! मनस ईषिता इष्टा मनीषिताः। पृषोदरा. दित्वात्साधुः । देवताः शच्यादयो गृहेषु सन्ति, त्वं ता आराधयेति शेषः । तपः क्व? तवेदं तावकम् , 'युष्मदस्मदोरन्यतरस्यां खञ्च' (पा.४/३।१) इत्यण्प्रत्ययः । तवकममकायेकवचने (पा. ४/३/३) इति तवकादेशः। वपुश्च क्व? तथा हि-पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत, पतत्रिणः पुनः पक्षिणस्तु पदं न सहेत; अतिसौकुमार्यात् । दिव्योपभोगभोग्यं ते वपुर्न दारुणतपक्षम- मित्यर्थः । आत्र दृष्टान्तालंकारः॥४॥


पाठा०-१ गिरीशं प्रति सक्त; त्रिनेत्रं प्रति सक्त, २ गृहेऽपि.

 इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् ।
 क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ।।५।।

 इतीति ॥ इत्येवमनुशासत्युपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां सुतां पार्वतीमुद्यमादुद्योगात्तपोलक्षणाम्नियन्तुं निवारयितुं न शशाक समर्था नाभूत् । तथा हि-ईप्सितार्थ इष्टार्थे स्थिरनिश्चयं मनो निम्नाभिमुखं पयश्च कः प्रतीपये- त्प्रतिकूलयेत् , प्रतिनिवर्तयेदित्यर्थः । निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः । अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालंकारः ॥ ५॥

 कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी ।
 अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥६॥

 कदाचिदिति ॥ अथ कदाचिन्मनस्विनी स्थिरचित्ता सा पार्वती मनोरथ- ज्ञमभिलाषाभिज्ञं पितरं हिमवन्तमासनसख्याप्तसखी सैव मुखमुपायः । 'मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि' इति विश्वः । तेन फलोदयः फलोत्पत्ति- रन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थमात्मनः स्वस्यारण्यनिवासं वनवासमयाचत । 'दुह्याच्-' (वा. १०९-११००) इत्यादिना द्विकर्मकत्वम् ॥६॥

 अथानुरूपाभिनिवेशतोपिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
 प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरीशिखरं शिखण्डिमत् ७

 अथेति ॥ अथ गौयनुरूपेण योग्येनाभिनिवेशेनाग्रहेण तुप्यतीति तथोक्तेन गरीयसा पूज्यतमेन गुरुणा पित्रा कृताभ्यनुज्ञा 'तपः कुरु' इति कृतानुमतिः सती, पश्चात्तपःसिद्ध्युत्तरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया प्रथितम् , गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत्, न तु हिंस्रप्राणिप्रचुरमिति भावः । शिखरं शृङ्गं जगाम ययौ ॥ ७ ॥

 विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।
 बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ ८ ॥

 विमुच्येति ॥ अहार्यनिश्चयाऽनिवार्यनिश्चया सा गौरी विलोलाभिश्चलाभि- र्यष्टिमिः प्रतिसरैः प्रविलुप्तं प्रमृष्टं चन्दनं स्तनान्तरगतं येन तं तथोक्तं हारं मुक्ता-


पाठा०-१ व्रतेच्छाम्. वलीं विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गलं पयोधरयोः स्तनयोरुत्सेधेनोच्छ्रायेण विशीर्णा विघटिता संहतिरवयवसंल्श्रेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि स्तनोत्तरीयभूतं बबन्ध, धारयामासेत्यर्थः ॥ ८ ॥

यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् |
न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ ९ ॥

 यथेति ॥ तस्या देव्या आननं तदाननं प्रसिद्धैर्भूषितैः । 'प्रसिद्धौ ख्यातभूषितौ' इत्यमरः । रोहन्तीति रुहाः । 'इगुपधज्ञाप्रीकिरः कः' (पा. ३।१।१३५) इति कप्रत्ययः । शिरसि रुहास्तैः शिरोरुहैर्मूर्धजैर्यथा मधुरं प्रियमभूत् । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । जटाभिरप्येवं मधुरमभूत् । तथा हि--पङ्कजं पद्मं षट्पदश्रेणिभिर्भ्रमरपङ्क्तिभिरेव न, किंतु सह शैवलासङ्गेन सशैवलासङ्गमपि । 'तेन सहेति तुल्ययोगे' (पा. २।२।२८) इति बहुव्रीहिः । प्रकाशते, शैवलेनापि शोभत एवेत्यर्थः ॥ ९ ॥

प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
अकारि तत्पूर्वनिबद्धया तया सरागमस्या रशनागुणास्पदम् ॥ १० ॥

 प्रतीति ॥ सा देवी प्रतिक्षणं क्षणे क्षणे कृतरोमविक्रियां पारुष्यात्कृतरोमाञ्चां त्रिगुणां त्रिरावृत्तां यां मौञ्जीं मुञ्जमयीं मेखलां व्रताय तपसे बभार । तदेव पूर्वं प्रथमं यस्य तत्पूर्वं यथा तथा निबद्धया तया मौञ्ज्याऽस्या देव्या रशनागुणस्यास्पदं स्थानं जघनम् । सह रागेण सरागं सलोहितमकारि कृतम्, सौकुमार्यातिशयादिति भावः ॥ १० ॥

विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥

 विसृष्टेति ॥ तया देव्या विसृष्टरागात्त्यक्तलाक्षारसरञ्जनादधरादधरोष्ठान्निवर्तितः । 'निसृष्टरागात्' इति पाठे नितरां त्यक्तलाक्षारागात् । रागत्यागेन निष्प्रयोजनत्वादिति भावः । तथा स्तनाङ्गरागेणारुणितादरुणीकृतात्, पतनसमये तस्य स्तनयोरुपरोधादिति भावः । कन्दुकाच्च निवर्तितः । कुशाङ्कुराणामादानेन लवनेन परिक्षता व्रणिता अङ्गुलयो यस्य स तथोक्तः करः पाणिरक्षसूत्रप्रणय्यक्षमालासहचरः कृतः ॥ ११ ॥

महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते |
अशेत सा बाहुलतोपधायिनी निषेदुपी स्थण्डिल एव केवले || १२ ||

 महाहैति || महानहौ मूल्यं यस्याः सा महार्हा श्रेष्ठा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतैर्भ्रष्टैः स्वकेशपुष्पैरपि या देवी दूयते स्म क्लिश्यति स्म, पुष्पाधिकसौकुमार्यादिति भावः | सा देवी बाहुलतामुपधत्त उपधानी- करोतीति बाहुलतोपधायिनी सती, केवले संस्तरणरहिते स्थण्डिले भूमावेवाशेत शयितवती | तथा निषेदुप्युपविष्टा च | 'क्कसुश्च' (पा. ३|२|१०७) इति क्कसुः | 'उगितश्च' (पा. ४|१|६) इति ङीप् | भूमावेव शयनादिव्यवहारः, न जातूपरी- त्यर्थः || १२ ||

पुनर्ग्रहीतुं नियमस्थया तया द्वेयेऽपि निंक्षेप इवार्पितं द्वयम् |
लतासु तन्वीषु विलासचेप्टितं विलोलदृप्टं हरिणाङ्गनासु च || १३ ||

 पुनरिति || नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनर्ग्रहीतुं पुनरानेतुं निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु ? क्वचित् 'द्वयीषु' इति प्रामादिकः पाठः | कुत्र द्वये किं द्वयमर्पितमित्याह--तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं, हरिणाङ्गनासु विलोलदृष्टं चञ्चलावलोकितं च | व्रतस्थायां तस्यां तयोरदर्शनाल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा, न तु वस्तुतो- ऽर्पणमस्तीति भावः || १३ ||

अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्व्यवर्धयत् |
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति || १४ ||

 अतन्द्रितेति || सा देवी स्वयमेवातन्द्रिताऽसंजाततन्द्रा सती | तारकादि- त्वादितच्प्रत्ययः | वृक्षकान्स्वल्पवृक्षान् | 'अल्पे' (पा. ५|३|८५) इत्यल्पार्थे कप्रत्ययः | घटावेव स्तनौ तयोः प्रस्रवणैः प्रसृतपयोभिव्यवर्धयत् | गुहः कुमा- रोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् , अग्रजातानामित्यर्थः | येषां वृक्षकाणां संबन्धि पुत्रवात्सल्यं सुतप्रेम नापाकरिप्यति, उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः || १४ ||


पाठा०--१ द्वयीषु. २ निक्षेपम्. ३ दृष्टिम्.

अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः |
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने || १५ ||

 अरण्येति || अरण्यबीजानां नीवारादीनामञ्जलयस्तेषां दानेन लालिता हरिणाश्च तस्यां देव्यां तथा विशश्वसुर्विस्त्रम्भं जग्मुः | 'समौ विस्रम्भविश्वासौ' इत्यमरः | यथा कुतूहलादौत्सुक्यात्तदीयैर्हरिणसंबन्धिभिर्नयनैनैत्रैः करणैः | स्वकीये लोचने सखीनां पुरः पुरतः | अनेन तेषां संबन्धसहत्वमुक्तम् | अमि- मीत, अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः | केचित्तु सा पार्वती त्वदीयैनैत्रैः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वा- दात्मन इत्याहुः | 'माङ् माने' इत्यस्माद्धातोर्लङ् | इयमेव खलु विश्वासस्य पराकाष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः || १५ || तपःप्रभावमाह--

कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीनिनीम् |
दिदृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते || १६ ||

 कृतेति || कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् , कृतहोमा- मित्यर्थः | त्वचा वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगुत्तरासङ्गवतीम् | अधीत- मस्या अस्तीत्यधीतिनीं स्तुतिपाठादि कुर्वतीम् | 'इष्टादिभ्यश्च' (पा. ५|२|८८) इतीनिप्रत्ययः | तां देवीं दिदृक्षवो द्रष्टुमिच्छव ऋपयो मुनयोऽभ्युपागमन्समुपा- गताः | न चात्र कनिष्ठसेवादोष इत्याह--धर्मवृद्वेषु वयो न समीक्ष्यते न प्रमाणीक्रियते, सति धर्मज्यैष्ठ्ये न वयोज्यैष्ठ्यं प्रयोजकमित्यर्थः | तथा च मनुः (२|१५६)--'न तेन वृद्धो भवति येनास्य पलितं शिरः | यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ||' इति || १६ ||

विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमौरभीष्टप्रसवार्चितातिथि |
नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् || १७||

 विरोधीति || विरोधिभिः सच्वैगौव्याघ्रादिभिरुज्झितपूर्वमत्सरं त्यक्तपूर्व- वैरम्, हिंसारहितमित्यर्थः | द्रुमैरभीष्टप्रसवेनेष्टफलेनार्चिताः पूजिता अतिथयो यस्मिंस्तत्तथोक्तम् | नवानामुटजानां पर्णशालानामभ्यन्तरेषु संभृताः संचिता अनला अग्नयो यस्मिंस्तत्तथोक्तं तश्च तपोवनम् | पावयतीति पावनं बभूव,

अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः || १७ ||

यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काक्ष्ङितम् |
तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे || १८ ||

 यदेति || सा देवी यदा यस्मिन्काले तावता तावत्प्रमाणेन पूर्वतपः- समाधिना पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काक्ष्ङितं फलं लभ्यं लब्धुं शक्यं नामंस्त, अशक्यममस्तेत्यर्थः | तदा तत्काले, अविलम्बेनेत्यर्थः | स्व- शरीरस्य मार्दवं मृदुत्वं सौकुमार्यमनपेक्ष्याविगणय्य महौदृश्चरं तपश्चरितुं साधयितुं प्रचक्रम उपचक्रमे || १८ ||

क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत |
ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ||१९||

 क्लममिति || या देवी कन्दुकलीलया कन्दुकक्रीडयापि क्लमं ययौ ग्लानिं प्राप, तया देव्या मुनीनां चरितं तीव्रं तपो व्यगाह्यत प्रविष्टम् | अत्रोस्प्रेक्षते-- ध्रुवमस्या वपुः काञ्चनपद्मेन सुवर्णकमलेन निर्मितं घटितम् | अत एव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन ससारं च कठिनमेव । तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्यापि तीव्रतपः क्षमत्वमित्युत्प्रेक्षार्थः ||१९||

शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा |
विजित्य नेत्रप्रतिधातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ||२०||

 शुचाविति || शुचौ ग्रीप्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णा हविर्भुजामग्नीनां मध्यगता सती | नेत्रे प्रतिहन्तीति तां नेत्रप्रतिघातिनीं प्रभां सावित्रं तेजो विजित्य | न विद्यतेऽन्यत्र दृष्टिर्यस्याः साऽनन्यदृष्टिः सती सवितारं सूर्यमैक्षत ददर्श | 'ग्रीप्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः' इति (याश० ३।५२) स्मरणात् | पञ्चाग्निमध्ये तपश्चचारेत्यर्थः | तत्र सवितौव पञ्चमोऽग्निः— 'अग्निः सविता सवितैवाग्निः' इति श्रौतलिङ्गात् ||२०||

तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ |
अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् २१


पाठा०--१ सर्वममाधिसाधनम्. २ हि च सुसारमेव. ३ तथाभितप्तम् ; तथापि तप्तम्.  तथेति ॥ सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूर्वोक्तप्रकारेणातितप्तं संतप्तं तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभा दधौ प्राप; यथा रवितापात्कमलं न म्लायति प्रत्युत विकसनि तथा तदीयं मुखमासीदिति भावः । किंत्वस्य मुखस्य दीर्घयोरपाङ्गयोः केवलं नेत्रान्तयोरेव शनैःशनैर्मन्दमन्दं श्यामि- कया कालिन्ना पदं स्थानं कृतम् , तयोः सौकुमार्यादित्यर्थः ॥ २१ ॥

अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडपतेश्च रश्मयः |
बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसांधनः २२

 अयाचितेति || अयाचितोपस्थितमप्रार्थितोपनतं केवलमम्बूदकं रसात्मक- स्यामृतमयस्योडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणा- विधिरभ्यवहारकर्म बभूव, तावन्मात्रसाधनकोऽभूदित्यर्थः | साध्यसाधनयोर- भेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः | किलेति प्रसिद्धौ | वृक्षाणां या वृत्ति- र्जीवनोपायस्तद्व्यतिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिर्न बभूव | वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् , अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः || २२ ||

निकामतप्ता विविधेन वग्न्हिना नभश्चरेणेन्धनसंभृतेन मा |
तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुश्चदूर्ध्वगम् || २३ ||

 निकामेति || विविधेन , पञ्चविधेनेत्यर्थः | नभश्चरेण खैचरेण आदित्य- रूपेणेत्यर्थः | इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना निकाममत्यन्तं तप्ता साम्बिका तपात्यये ग्रीष्मान्ते, प्रावृपीत्यर्थः | नवैर्वारिभिरुक्षिता सिक्ता सती भुवा पञ्चा- ग्नितप्तया सहोर्ध्वगमूर्ध्त्रप्रसृतमूष्माणं बाप्पममुञ्चत् | 'ग्रीप्मोष्मबाष्पमुष्माणम्' इति यादवः || २३ ||

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः |
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः २४

 स्थिता इति || उदकस्य बिन्दव उदबिन्दवः | 'मन्यौदन-' (पा. ६|३|६७) इत्यादिनोदकशब्दस्योदादेशः | प्रथमे उदबिन्दवः | प्रथमविशेषणाद्विन्दूनां विरलस्वं बहुवचनान्नातिविरलस्वं च गम्यते | तथा च चिरत्व-नाभ्यन्तरगमन-


पाठा०--१ वृक्षवृत्तिः, २ साधनम्. ३ च. योर्निर्वाहः | तस्याः पार्वत्याः पक्ष्मसु नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः | 'स्थिताः' इत्यनेन पक्ष्मणां सान्द्रत्वं 'क्षणम्' इत्यनेन स्त्रौग्ध्यं च गम्यते | अनन्तरं ताडितो व्यथितोऽधर ओष्ठो यैस्तं तथोक्ताः | एतेनाधरस्य मार्दवं गम्यते | ततः पयोधरयोः स्तनयोरुत्सेध उपरिभागे निपातेन पतनेन चूर्णिता जर्जरिताः, कुचकाठिन्यादिति भावः | तदनु वलीपूदररेखासु स्खलिताः | निग्न्नौग्नतत्वादिति भावः | इत्थं चिरेण, न तु शीघ्रम् ; प्रतिबन्धबाहुल्यादिति भावः | नाभिं प्रपेदिरे प्रविष्टाः, न तु निर्जग्मुः | एतेन नाभेर्गाम्भीर्यं गम्यते | अन्न प्रतिपदमर्थ- वत्त्वत्परिकरालंकारः || २४ ||

शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु |
व्यलोकयन्नुन्मिपितैस्तडिन्मयैर्महातपः साक्ष्य इव स्थिताः क्षपाः २५

 शिलाशयामिति || निरन्तरासु नीरन्ध्रासु | अन्तरे मध्ये वातो यासां तादृश्यो या वृष्टयस्तास्वन्तरवातवृष्टिषु | न निकेते गृहे वसतीत्यनिकेतवासिनीम् , अनावृतदेशवासिनीमित्यर्थः | शिलायां शेत इति शिलाशयां शिलातलशायिनीम् | 'अधिकरणे शेतेः' (पा. ३|२|११५) इत्यच्प्रत्ययः | तां पार्वतीं साक्षाद्रष्टा साक्षी | 'साक्षाद्रुष्टरि संज्ञायाम्' (पा.५।२|९१) इतीनिप्रत्ययः| तस्य कर्म साक्ष्यं महातपसः साक्ष्ये स्थिताः क्षपास्तडिन्मयैर्विध्युद्रुपैरुन्मिषितैरवलोकनैर्यलोकयग्निव | इवेति चक्षुषा विलोकनमेवोत्प्रेक्ष्यते | साक्ष्यं तु 'आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भू- मिरापो हृदयं यमश्च | अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ||' (पञ्च० १|१८२) इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसंधेयम् || २५ ||  एवं वर्षासु विहितं तपःप्रकारमुक्त्वा संप्रति हेमन्ते तपश्चरणप्रकारमाह--

निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा |
परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती || २६ ||

 निनायेति || सा पार्वती || उत्किरन्ति क्षिपन्तीत्युत्किराः | 'इगुपधज्ञा-' (पा. ३|१|१३५) इत्यादिना कः | अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पौषरात्रीः | 'पौषे तैषसहस्यौ द्वौ' इत्यमरः | उदके वास उदवासः | 'पेषंवासवाहनधिषु च' (पा. ६|३|५८) इत्युदादेशः | उदवासे तत्परा आसक्ता,


पाठा०--१ अत्यर्थहिमोत्तरानिलाः तथा परस्परमा त्र न्दिन्यन्योन्यमाक्रोशिनि पुरोऽग्ने वियुक्ते विरहिणि, वियोगं प्राप्त इति यावत् | चक्रवाकी च चक्रवाकश्च चक्रवाकौ, तयोश्चक्रवाकयोमिथुने द्वन्द्वे कृपावती सती निनाय | दुःखिपु कृपालुत्वं महतो स्वभाव इति चक्रवाक- मिथुने कृपा, न तु कामितयेति वाच्यानवकाशः| 'अप्सु वासस्तु हेमन्ते क्रमशो वर्धयंस्तपः' इति (६।२३) मनुः ||२६||

मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना |
तुपारवृष्टिक्षतपद्मसंपदां सरोजसंधानमिवाकरोदपाम् || २७ ||

 मुखेनेति || सा पार्वती निशि रात्रौ पद्मवत्सुगन्धिना सुरभिणा | 'गन्ध- स्येत्-' (पा. ५|४|१३५) इत्यादिनेकारः | प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्रं दलं तेन शोभत इति तथोक्तेन मुखेन, तुषारवृष्ट्या तुहिनवर्षेण क्षता नाशिताः पद्मसंपदो यासां तासामपां सरोजसंधानं पद्मसंघट्टनमकरोदिव इत्युत्प्रेक्षालंकारः | पद्मान्तरं तुहिनेनोपहन्यते, तन्मुखपद्मं तु न तथेति व्यति- रेकालंकारो व्यज्यत इत्युभयोः संकरः || २७ ||

स्वयंविशीर्णद्रुभपर्णवृत्तिता परा हि काष्टा तपसस्तया पुनः |
तदप्यपाकीर्णमतः प्रियंवदां वदन्त्येपर्णेति च तां पुराविदः || २८ ||

 स्वयमिति || स्वयं विशीर्णानि स्वतश्चयुतानि द्रुमपर्णान्येव वृत्तिजीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्टा परमुत्कर्षो हि | 'काष्टोत्कर्षे स्थितौ दिशि' इत्यमरः | तया देव्या पुनस्तत्पर्णवर्तनमप्यपाकीर्णभपाकृतम् | अतः पर्णापा- करणाद्धेतोः | प्रियं वदतीति प्रियंवदा | 'प्रियवशे वदः खच्' (पा. ३|२|३८) इति खच्प्रत्ययः | 'अरुर्द्विषदजन्तस्य मुम्' (पा. ६|३|६७) इति मुमागमः | तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणसमयेऽविद्यमानं पर्णभक्षणं यस्याः साऽपर्णेति वदन्ति | नामान्तरसमुच्चयार्थश्चकारः | स्वयं प्रियंवदाः परेषामपि प्रियवाद- भाजनानि भवन्तीति भावः । अत्र 'अपर्णाम्' इत्यापाठः; 'इति' शब्दाभिहिते द्वितीयानुपपत्तेः, यथाह वामनः (काव्या.सू.५|२|२१)--'निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात्' इति || २८ ||


पाठा०--१ अपर्णामिति.

७ क० सं०

मृणालिकापेलवमेवमादिभिव्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् |
तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा || २९ ||

 मृणालिकेति || मृणालिकापेलवं पद्मिनीकन्दकोमलं स्वं स्वकीयमङ्गं शरीर- मेवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्व्रतैरहश्च निशा चाहर्निशम् | समाहारे द्वन्द्वैकवद्भावः | अत्यन्तसंयोगे द्वितीया | ग्लपयन्ती कर्शयन्ति सा पार्वती | कठिनैः, क्लेशसहैरित्यर्थः | शरीरैरुपार्जितं संपादितं तपस्विनामृषीणां तपो दूरमत्यन्तमधश्चकार तिरश्चकार, अतिशिश्य इत्यर्थः | तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तात्पर्याथः || २५ ||

अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा |
विवेश कश्चिञ्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा || ३० ||

 अथेति || अथानन्तरमजिनं कृष्णमृगत्वक् | आषाढः प्रयोजनमस्येत्याषाढः पालाशदण्डः | 'पालाशो दण्ड आषाढः' इत्यमरः | "विशाखाषाढादण्मन्थ- दण्डयोः' (पा. ५|१|११०) इत्यण्प्रत्ययः | तयोर्धरस्तथोक्तः प्रगल्भवाक्प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजसा, ब्रह्मवर्चसेनेत्यर्थः | ज्वलन्निव स्थितः | 'इव'शब्दो निर्धारणार्थः | कश्चिदनिर्दिष्टो जटिलो जटावान् , ब्रह्मचारीति शेषः | पिच्छा- दित्वादिलच्प्रत्ययः | शरीरबद्धो बद्धशरीरः, शरीरवानित्यर्थः | वाहिताभ्यदिपु पाठास्साधुः | प्रथमाश्रमो यथा ब्रह्मचर्याश्रम इव | 'यथा'शब्द इवार्थे | तपो- वनम् , देव्या इति शेषः | विवेश प्रविष्टवान् || ३० ||

तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती |
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ३१

 तमिति || अतिथिषु साध्व्यातिथेयी | 'पथ्यतिथि-' (पा. ४|४|१०४) इत्यादिना ढञ्प्रत्ययः | 'टिड्डाणज-'(पा. ४|१|१५) इत्यादिना ङप् | पार्वती तं ब्रह्मचारिणं बहुमानः पूर्वो यस्यास्तया, गौरवपूर्वयेत्यर्थः | सपर्ययाऽर्चया | 'सपर्यार्चाहणाः समाः' इत्यमरः | प्रत्युदियाय प्रत्युज्जगाम | कथं समानेऽपि


पाठा०-- १ कोमल. २ तदङ्गम्. ३ क्षपयन्ति. ४ 'सुराः समुद्वीक्ष्य नगेन्द्र- कन्यया कृतं तपः शंभुवशक्रियाक्षमम् | ययाचिरे तं प्रणिपत्य दुःखिताः पतिं चमूनां सुतमाजिहेतुम् ||' (१ तदुद्वीक्ष्य. २ हेतवे.) . तस्यास्ताहशी प्रतिपत्तिरत आह--साम्ये सत्यपि निविष्टचेतसां स्थिरचित्तानां वपुर्विशेषेषु शरीरविशेषेष्वतिशयितं गौरवं यासु ता अतिगौरवा अतिगौरव- सहिताः क्रियाश्चेष्टा भवन्ति, प्रवर्तन्त इत्यर्थः | साधवो न साम्याभिनिवेशिन इति भावः || ३१ ||

विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् |
उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः || ३२ ||

 विधीति || स ब्रह्मचारी विधिना प्रयुक्तामनुष्टितां सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं विश्रामं च विनीय नाम | 'नाम' इत्यपरमार्थे | अथोमामृजु- नैव विलासरहितेनैव चक्षुषा पश्यन्ननुज्झितक्रमोऽत्यक्तोचितपरिपाटीकः सन् | वक्तुं प्रचक्रमे प्रारेभे || ३२ ||

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते |
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् || ३३ ||

 अपीति || 'अत्रपि'शब्दः प्रश्ने | क्रियार्थं होमादिकर्मानुष्ठानार्थम् | समिधश्च कुशाश्च समित्कुशम् | 'जातिरप्राणिनाम्' (पा. २|४|६) इति द्वन्द्वैकवद्भावः | सुलभमपि सुलभं कञ्चित् ? जलानि ते तव स्नानविधिक्षमाणि स्नानक्रियायोग्या- ण्यपि कच्चित् ? किंच स्वशक्त्या निजसामर्थ्यानुसारण तपसि प्रवर्तसेऽपि, देह- मपीडयित्वा तपश्चरसि कञ्चिदित्यर्थः | युक्तं च नामैतत् , यस्माच्छरीरमाद्यं खलु धर्मसाधनम् | धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहुभिः साध्यते, तेपु च वपुरेव मुख्यं साधनम् | सति देहे धर्मार्थकाममोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते | अत एव 'सततमात्मानमेव गोपायीत' इति श्रुतिः || ३३ ||

अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् |
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा || ३४ ||

 अपीति || त्वयाऽऽवर्जितेन सिक्तेन वारिणा संभृतं जनितमासां वीरुधां लतानां प्रवालं पल्लवमनुबन्ध्यप्यनुस्यूतं किम् ? यत्प्रवालं चिरोज्झितश्चिरकाल- त्यक्तो लाक्षारागो येन तत्तथापि पाटलम् , स्वभावरक्तमित्यर्थः | तेन चिरोज्झि- तालक्तकपाटलेन ते तव दन्तवाससाधरेण | 'ओष्ठाधरौ तु रदनच्छदौ दशन-


पाठा०--१ प्रतिगृह्य. २ अयि. ३ अयि. ४ अयि. ५ अयि. वाससी' इत्यमरः | तुलां साम्यमारोहति, गच्छतीत्यर्थः | अत्र 'तुला'शब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि 'तुल्यार्थेस्तुलोपमाभ्याम्-' (पा. २|३|७२) इति न तृतीयाप्रतिषेधः; तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति || ३४ ||

अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु |
य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते || ३५ ||

 अपीति || करस्थान्दर्भान् प्रणयेन स्त्रेहेनापहरन्तीति ते तथोक्तेषु, सापरा- धेष्विति भावः | 'करस्थदर्भप्रणयापराधिषु' इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु हरिणेषु विषये ते मनः प्रसन्नमपि न क्षुभितं किम् ? सापरा- धेष्वपि न कोपितच्यं तपस्विभिरिति भावः | हे उत्पलाक्षि ! ये हरिणाः प्रचलै- श्वञ्चलैर्विलोचनैनैत्रैस्तवाक्षिसादृश्यं प्रयुञ्जत इवाभिनयन्तीव | प्रसन्नत्वान्मृग- नेत्राणि त्वन्ञयनैः साम्यमुपयान्तीति भावः | 'उत्पलक्षेपचलैः' इति पाठान्तर उत्पलकम्पचलै: 'भावानयने द्रव्यानयनम्' इति न्यायेन क्षिप्यमाणोत्पलचलैरि- त्यर्थः || ३५ ||

यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः |
तथा हि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशतां गतम् || ३६ ||

 यदिति || हे पार्वति ! रूपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवतीति यदुच्यते | लोकैरिति शेपः | तद्वचो न व्यभिचरति न स्खलतीत्यव्यभिचारि सत्यम् | 'यत्राकृतिस्तत्र गुणाः', 'न सुरूपाः पापसमाचारा भवन्ति' इत्यादयो लोकवादा न विसंवादमासादयन्तीत्यर्थः | किमिति ज्ञायते ? तथा हि--हे उदारदर्शने आयताक्षि ! सुरूपे इत्यर्थः | अथवोन्नतज्ञाने ! विवेकवतीत्यर्थः | ते तव शीलं सद्वुत्तम् | 'शीलं स्वभावे सद्वृत्ते' इत्यमरः | तपस्विनामप्युप- दिश्यतेऽनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम् | मुनयोऽपि स्वां वीक्ष्य स्ववृत्ते प्रवर्तन्त इति भावः || ३६ ||

पाठा०--१ अयि. २ सापत्न्यम्. टिप्प०--1 तथा चोक्तं भोजेन-सदृशपदार्थवाची सादृश्यमात्रवारी चेति द्वौ 'तुला'शब्दौ, तयोः सदृशपदार्थवाची तुलाशब्दयोग एव तृतीयाप्रतिषेधः | अत एव 'कृष्णस्य तुला नास्ति' कृष्णेन सदृशः कोऽपि नास्तीत्यर्थ इति | 2 शीलानुगुणं रूप- मिति विषयो 'न तुलाविषये तवाकृतिर्न वचोवर्मनि ते सुशीलता' (नैषध. २|५१) इत्यादिना नैषधे स्फुटीकृतः |

 विकीर्णसप्तर्षिबलि[१]प्रहासिभिस्तथा न गाङ्गैः सलिलैर्र्दिवश्चयुतैः ।
 यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥३७॥

 विकीर्णेति ॥ एष महीधरो हिमवान् । सप्त च ते ऋषयश्च सप्तर्षयः । 'दिक्संख्ये संज्ञायाम्' (पा. २।१।५०) इति समासः । विकीर्णैः पर्यस्तैः सप्तर्षीणां संबन्धिभिर्बलिभिः पुष्पोपहारैः प्रहसन्ति ये तथोक्तैर्दिवोऽन्तरिक्षाच्युतैर्गाङ्गैः सलिलैस्तथा न पावितः। अनाविलैरकलुषैस्त्वदीयैश्वरितैर्यथा सान्वयः सपुत्र- पौत्रः पावितः पवित्रीकृतः ॥ ३७ ॥

 अनेन धर्मः सविशेषमद्य मे त्रिवर्गमारः प्रतिभाति [२]भाविनि!।
 त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥३८॥

 अनेनेति ॥ हे भाविनि प्रशस्ताभिप्राये ! अनेन कारणेन धर्मः सविशेषं सातिशयमद्य मे त्रयाणां धर्मकामार्थानां वर्गस्त्रिवर्गः। 'त्रिवर्गो धर्मकामार्थै- श्चतुर्वर्गः समोक्षकैः' इत्यमरः । तत्र सारः श्रेष्ठः प्रतिभाति । यद्यस्मात्कारणा- न्मनसो निर्विषयावर्थकामौ यस्यास्तया त्वयैको धर्म एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ विहाय धर्म एवावलम्बितः, अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत इत्यर्थः ॥ ३८ ॥

 संप्रति मनोरथं जिज्ञासुः प्रस्तौति---

 प्रयुक्तसत्कारविशेषमात्मना न मां परं संग्रतिपत्तुमर्हसि ।
 यतः[३] सतां संनतगात्रि! संगतं मनीषिभिः साप्तपदीनमुच्यते ॥३९॥

 प्रयुक्तेति ॥ आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं मां परमन्यं संप्रतिपत्तुमवगन्तुं नाहसि । हे संनतगात्रि संनताङ्गि ! 'अङ्ग- गात्रकण्ठेभ्यः' (पा. ४।१।५५) इति वक्तव्यान्डीप् । यतः कारणान्मनस ईषिभि- र्मनीषिभिर्विद्वद्भिः । शकन्ध्वादित्वात्साधुः । सतां संगतं सख्यं सप्तभिः पदैरा- पद्यत इति साप्तपदीनं सप्तपदोच्चारणसाध्यमुच्यते, तच्चावयोस्त्वत्कृतसत्कार- प्रयोगादेव सिद्धमित्यर्थः। 'साप्तपदीनं सख्यम्' (पा. ५।२।२२) इति निपात- नात्साधु ॥ ३९॥


पाठा०-१ प्रवाहिभिः. २ भामिनि. ३ यथा.

 अतोत्र[४] किंचिद्भवतीं बहुक्षमा द्विजातिभावादुपपन्नचापलः ।
 अयं जनः प्रष्टुमनास्तपोधने ! न चेद्रहस्यं [५]प्रतिवक्तुमर्हसि ॥४०॥

 अत इति ॥ हे तपोधने ! अतः सख्या्द्धेतोरत्र प्रस्तावे बहुक्षमाम् । बहूक्ति- सहाम् , यद्वा क्षमावतीम् । भवतीं त्वां द्विजातिभावाद्ब्राह्मणत्वादुपपन्नचापलः सुलभधार्ष्ट्योऽयं जनः । स्वयमित्यर्थः । किंचित्प्रष्टुं मनो यस्य स किंचित्प्रष्टुमनाः प्रष्टुकामः । 'तुं काममनसोरपि' (वा० ) इति मकारलोपः। रहसि भवं रहस्यं गोप्यं न चेत्प्रतिवक्तमर्हसि ॥ ४० ॥

 प्रष्टव्यमाह-

 कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
 अमृग्यमैश्वर्यसुखं नवं वयस्तप:फलं स्यात्किमतः परं वद ॥ ४१ ॥

 कुल इति ॥ प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्ववाये प्रसूतिरुत्पत्तिः । 'यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः' इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रयाणां लोकानां सौन्दर्यमिवोदितमेकत्र समाहृतम् । ऐश्वर्यसुखं संपरसुखम- मृग्यमन्वेषणीयं न भवति, किंतु सिद्धमेवेत्यर्थः । वयो नवम् , यौवनमित्यर्थः। अतः परमतोऽन्यस्किं तपःफलं स्यात् ? वद, अस्ति चेदिति शेषः । न किंचिद- स्तीत्यर्थः ॥४१॥

 भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी ।
 विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कुशो[६]दरि! त्वयि ॥४२॥

 भवतीति ॥ दुःसहात्सोढुमशक्यादनिष्टाद्भर्त्रादिकृतादपि मनस्विनीनां धीर- स्त्रीणामीदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । 'प्रतिपत्तिस्तु गौरवे । प्राप्ती प्रवृत्तौ प्रागल्भ्ये' इति केशवः । भवति नाम । 'नाम'इति संभावनायाम् । विचारमार्गे प्रहितेन चेतसा चित्तेन तदनिष्टं च । हे कृशोदरि ! त्वयि न दृश्यते, विचार्यमाणे तदपि नास्त्यसंभावितत्वादित्यर्थः ॥ ४२ ॥

 अनिष्टाभावमेव प्रपञ्चयति-

 अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु ! कुतः पितुर्गृहे ।
 [७]राभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥४३॥


पाठा०-१ अद्य. २ प्रतिगोप्तुम्. ३ तनूदरि. ४ परावमर्शः.  अलभ्येति ॥ हे सुभ्र ! इयं स्वदीयाकृतिर्मूर्तिरलभ्यो लब्धुमनर्हः शोकेन मार्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता, दृश्यत इति शेषः । असंभावितश्चायमर्थः इत्याह-पितुर्गृहे विमाननावमानः कुतः ? न संभाव्यत एवेत्यर्थः । 'सु भ्रू कुतस्तातगृहेऽवमाननम्' इति पाठान्तरकरणं तु साध्वसमेव; उक्तोपपत्तिसंभवात् । अन्यत्रापि 'सुश्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्' इत्यादिप्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रस-. ङ्गाचेत्यलं गोष्ठीभिः । न चाप्यन्यस्माद्भावीत्याह-पराभिमर्शः परधर्षणं तु तव नास्ति, पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (पा. २।३।१४) इति चतुर्थी । करं हस्तं कः प्रसारयेत् ? 'सुभ्र' इत्यत्र भ्रूशब्दस्योवस्थानीयत्वात् 'नेयङुवङ्स्थानावस्त्री' (पा. १।४।४) इति नदीसंज्ञाप्रतिषेधात् 'अम्बार्थनद्योर्ह्रस्वः' (वा० ७।३।१०७) इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु 'अप्राणिजातेश्चारज्ज्यादी- नाम् -' (वा० २५०२) इत्यत्र ‘अलाबूः' 'कर्कंधूः' इत्यूकारान्तादप्यूङ्प्रत्यय- मुदाजहार भाष्यकारः । एतस्मादेव नियमज्ञापकात्क्वचिदूकारान्तस्याप्यूङन्तत्वा- न्नदीत्वे हृस्वत्वमित्याहुः । अत एवाह वामनः --- 'ऊकारादप्यूङ्प्रकृतेः' (काव्या. सू. ५।२।४७) इति ॥ ४३ ॥

 किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।
 वद प्रदोषे स्फु[८]टचन्द्रतारका विभावरी यद्यरुणाय कल्पते ।। ४४॥

 किमिति ॥ हे गौरि ! किमिति केन हेतुना यौवने स्वयाभरणान्यपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वाद्वुप्रत्ययः । 'वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि' इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् ? प्रदोपे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिररुणाय सूर्याय कल्पते यदि अरुणं गन्तुं कल्पते किम् ? वद ब्रूहि । ‘क्रियार्थोपपदस्य-' (पा. २।३।१४) इत्यादिना चतुर्थी । दीप्यमान- शशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं सं[९]घटत इति भावः ॥ ४४ ॥


 पाठा०-विनिकीर्णतारका. २ संगच्छते.  तपःप्रयोजनं निराकतुमाह

 दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः ।
 अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥४५॥

 दिवमिति ॥ दिवं स्वर्ग प्रार्थयसे कामयसे यदि तर्हि श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे, ततः श्रमं मा कार्षीः । कुतः ? तव पितु- र्हिमवतः प्रदेशा देवभूमयः स्वर्गपदार्थाः, तत्रत्या इत्यर्थः । अथोपयन्तारं वरं प्रार्थयसे, तर्हि समाधिना तपसाऽलम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया । तथा हि-रलं कर्तृ, नान्विष्यति न मृगयते, ग्रहीता. रमिति शेषः; किंतु तद्नत्नं मृग्यते, ग्रहीतृभिरिति शेषः । न हि वरार्थं त्वया तपसि वर्तितव्यं किंंतु तेनैव त्वदर्थमिति भावः ॥ ४५ ॥

 वरवाचकाक्षरश्रवणानन्तरमेव देव्या उष्णोच्छ्वासमालक्ष्य प्रश्नेषु च प्रत्युत्तर मनुपलभ्य स्वयमेवाशङ्कयाह-

 निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते ।
 न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥४६॥

 निवेदितमिति ॥ सोप्मणा निश्वसितेन निश्वासवायुना निवेदितम् , चिन्तानुभावेनोप्णोच्छासेन ने वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसने- नेत्याह-मन इति । मनस्तु तथापि मे संशयमेव गाहते प्रामोति । कुतः ? ते तव । 'कृत्यानां कर्तरि वा' (पा. २।३।७१) इति पष्ठी । प्रार्थयितव्यः प्रार्थयितु- मर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो यो दुर्लभः स कथं भविष्यति ? नास्त्येवेत्यर्थः ॥ ४६॥

 अथ पतिप्रार्थनामेव सिद्धवत्कृत्वाह-

 अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते।
 उपेक्षते यः श्लथ[१०]लम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥४७॥

 अहो इति ॥ अहो चित्रम् । तवेप्सित आप्नुमिष्टो युवा कोऽपि स्थिरः कटिनः, वर्तत इति शेषः । कुतः ? यो युवा चिराय चिरात्प्रभृति कर्णोत्पल- शून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथितबन्धना अत एक लम्बि-


पाठा-१ बन्धनीर्जटाः कपोलदेशे; बन्धलम्बिनीर्जटाः कपोले. न्यस्ताः श्थलम्बिनीः कलमाः शालिविशेषास्तेषामग्राणि तद्वत्पिङ्गला जटा उपेक्षते, यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः ॥ ४७ ॥

 मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् ।
 शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥४८॥

 मुनिव्रतैरिति ॥ मुनिव्रतैश्चान्द्रायणादिभिरतिमात्रमत्यन्तं कर्शितां कृशी- कृतां दिवाकरेण सूर्येणाप्लुष्टानि दग्धानि वातातपसंस्पर्शान्मृदुत्वाञ् श्यामीकृतानि विभूषणास्पदानि भूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवाहनि शशाङ्कलेखामिव स्थितां त्वां पश्यतः सचेवसो जीवतः कस्य पुंसो मनो न दूयते न परितप्यते ? अपि तु सर्वस्यैवेत्यर्थः ॥ ४८ ॥

 अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः ।
 करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ४९

 अवैमीति ॥ तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण का, वञ्चितं विप्रलब्धमवैमि वेद्मि । यः प्रियश्चतुरं मधुरमवलोकत इति चतुरावलोकिनो- ऽरालपक्ष्मणः कुटिलरोम्णः । 'अराल वृजिनं जिह्मम्' इत्यमरः । अस्य त्वदीयस्य चक्षुष आत्मीयं वकं मुखं चिरं लक्ष्यं विषयं न करोति, दृष्टिपथं न गच्छती- त्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः ॥ ४९ ॥

 कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसंचितं तपः ।
 तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ५०

 कियदिति ॥ हे गौरि! कियर्त्किंप्रमाणकम् , किमवधिकमित्यर्थः । चिरं श्राम्यसि तपस्यसि ? अत्यन्तसंयोगे द्वितीया। ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संपादितं तपो विद्यते । अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनैकदेशेन काङ्क्षितमिष्टं वरमुपयन्तारं लभस्व । तं वरं साधु सम्य- ग्वेदितुं ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति तदा ममापि संमतिरिति भावः ५०

 इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।
 अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ॥ ५१ ॥

 इतीति । इतीत्थं द्विजन्मना द्विजेन प्रविश्यान्तर्गत्वा, आप्तवद्रहस्यमुद्भाव्येत्यर्थः । अभिहितोक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् , लज्जयेति शेषः । अथोऽनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन्कर्मणि तत्तथैक्षत, नेत्रसंज्ञयैव प्रत्युत्तरं वाचयांचकारेत्यर्थः ॥ ५१ ॥

 सखी तदीया तमुवाच वर्णिनं निबोध साधो! तव चेत्कुतूहलम् ।
 यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥

 सखीति ॥ तस्याः पार्वत्या इयं तदीया सखी वयस्या तम् । 'वर्णः प्रशस्तिः' इति क्षीरस्वामी। सोऽस्यास्तीति वर्णिनं ब्रह्मचारिणम् । 'वर्णाद्द्रह्मचारिणि' (पा. ५।२।१३४) इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति ? हे साधो विद्वन् ! तव कुतूहलं चेत् , श्रोतुमस्तीति शेषः। तर्हि निबोधावगच्छ, आकर्णयेत्यर्थः । 'बुध अवगमने' इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं किं तदाह-- --यस्मै लाभायेदं यदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' (बा० १२ ७३-७४) इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्याम्भोंजं पद्ममुष्णवारणमातपत्रमिय वपुः शरीरं तपःसाधनं कृतम् , तपःप्रवृत्तिकारण- मुच्यते श्रूयतामित्यर्थः ॥ ५२ ॥

 'दृङ्मनःसङ्गसंकल्पो जागरः कृशताऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्ग- दशा दश ॥' इति । तत्रास्याः काश्चिद्दशाः क्रममनादृत्यैव योजयति 'इयम्' इत्यादिभिः षड्भिः श्लोकः-

 इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशा[११]नवमत्य मानिनी ।
 अरूपहार्य मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ।।५३।।

 इयमिति ॥ मानिनी 'इन्द्राणीप्रभृतीर्रातशय्य वर्तितव्यम्' इत्यभिमानव-. तीयं पार्वत्यथिश्रियोऽधिकैश्वर्यान्महेन्द्रप्रभृतीनिन्द्रादींश्चतसृणां दिशामीशानिन्द्र- वरुणयमकुबेरान् । 'तद्धितार्थ-' (श. २॥१॥५१) इत्यादिनोत्तरपदसमासः । अवमत्यावधूय मदनस्य निग्रहान्निबर्हणाद्धेतोः, अकामुकत्वादित्यर्थः । रूपेण सौन्दर्येण हायों वशीकरणीयो न भवतीत्यरूपहार्यं पिनाकः पाणौ यस्य तं पिनाक- पाणिं हरम् । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा० १।४।२५) इति साधु । पति भर्तारमाप्तुमिच्छति । एतेन संकल्पावस्था सूचिता ॥ ५३ ॥


पाठा०-१अवमन्य.

 असह्यहुंकारनिवर्तितः पु[१२]रा पुरारिमप्राप्तमुखः शिलीमुखः ।
 इमां हृदि व्यायतपातम[१३] क्षिणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥५४॥

 असहोति ॥ पुरा पूर्वमसह्येन सोढुमशक्येन हुंकारेण रौद्रेण निवर्तितः । अत एव पुरारि हरमप्राप्तमुखोऽप्राप्तफलो विशीर्णमूर्तेर्नष्टशरीरस्यापि पुष्पधन्वनः कामस्य शिलीमुखो बाण इमां पार्वतीं हृदि व्यायतः, सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन्कर्मणि तत्तथाक्षिणोदकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । 'मृदुः सर्वत्र बाध्यते' इति भावः। अनेन 'विवृण्वती शैलसुतापि भावम्' (३।६८) इत्यत्रोक्तं चक्षुःप्रीतिमनःसङ्गाख्यमवस्थाद्वयमनन्तरावस्थोप- योगितयानूद्य कार्यावस्था सूचिता ॥ ५४ ॥

 
 तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका ।

 न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ॥५५।।

तदेति ॥ तदेति च्छेदः । तदा प्रभृति, तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा; प्रभृतियोगे पञ्चमीनियमात् । पितुर्ग्रह उन्मदनो- स्कटमन्मथा ललाटस्थालंकारो ललाटिका तिलकः । 'कर्णललाटात्कनलंकारे' (पा.४।३।३५) इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरवर्णा अलकाश्च्वर्ण- कुन्तला यस्याः सा तथोक्ता बाला पार्वती जातु कदाचिदपि तुषारसंघातास्तु- षारधनास्त एव शिलास्तासां तलेषूपरिभागेध्वपि निवृतिं सुखं न लभते स्म । एतेनारस्यपरसंज्ञा विषयविद्वेषावस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते ॥५५॥

 उपात्तवणे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् ।
 अनेकशः किंनरराजकन्यका वनान्तसंगीतसखीररोदयत् ॥५६॥

 उपात्तेति ॥ पिनाकिनः शंभोश्चरिते त्रिपुरविजयादिचेष्टित उपात्तवर्णे प्रारब्धगीतक्रमे । 'गीतक्रमे स्तुतौ वेदे वर्णशब्दः प्रयुज्यते' इति हलायुधः । सबाष्पे गद्गदे कण्ठे स्खलितैर्विशीर्णैः पदैः सुप्तिङन्तपदैः करणैः । वनान्ते संगी- तेन निमित्तेन सखीर्वयस्याः किंनरराजकन्यका अनेकशो बहुशोऽरोदयदश्रुमोक्ष- मकारयत् । हरचरितगानजनितमदनवेदनामेनां वीक्ष्य किंनर्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलनलक्षणकार्योक्त्या पुनः पुनस्तत्कारणीभूतमूर्छावस्था


पाठा०-१ स्मरारिम्. २ अक्षणोत्. प्रादुर्भावो व्यज्यते, अन्यथा सखीरोदनानुपपत्तेरिति । द्वादशावस्थापक्षे तु प्रला- पावस्था च व्यज्यते । 'प्रलापो गुणकीर्तनम्' इत्यालंकारिकाः ॥ ५६ ॥

 त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्य[१४]वुध्यत ।
 क्व नीलकण्ठ! ब्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ।।५७॥

 त्रिभागेति ॥ किंचेति चार्थः । शिष्यत इति शेषः । कर्मणि घञ् । त्रिभ्यो भागेभ्यः शेषास्ववशिष्टासु । यद्वा,-रात्रेस्त्रियामत्वेन प्रसिद्धत्वात्तृतीयो भागस्त्रि- भागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा-'शतांशः, सहस्रांशः' इति । त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेग्रे निमील्य मीलयित्वा सहसा सद्यः हे नीलकण्ठ ! क्व व्रजसि कुत्र गच्छसीत्यलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता । तथाऽसत्ये मिथ्याभूने कण्टेऽर्पितं बाहुबन्धनं यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन जागरोन्मादौ सूचितौ ॥ ५७ ॥

 स्वमसादृश्यप्रतिकृतिदर्शनतदङ्गस्पृष्टस्पर्शाख्याश्चत्वारो विरहिणां विनोदाः; तत्र स्वप्नसंदर्शनमुक्त्वा प्रतिकृतिदर्शनमाह-

 [१५]यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं कथं जनम् ।
 इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥५८।।

 यदेति ॥ यदा, यत इत्यर्थः । यदेति हेतावित्युक्त्वा गणव्याख्यानेऽन्यत्रो-. दाहृतत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्युच्यसे, तत इत्यध्या- हारः । भावे रत्याख्ये तिष्ठतीति भावस्थम् , त्वय्यनुरागिणमित्यर्थः । इमं जनम् । 'इमम्' इत्यात्मनिर्देशः । कथं न वेत्सि न जानासीति मुग्धया मूढया, अकिंचि- स्करश्चित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तया स्वहस्तेनोलिखितश्चित्रे लिखित- श्चन्द्रशेखरो रहस्येकान्ते, सखीमात्रसमक्षमित्यर्थः। उपालभ्यत साधिक्षेपमुक्तश्च । उक्तसमुच्चयार्थश्चकारः । यद्यपि रहसीत्युक्तं तथापि सखीसमक्षकरणाल्लज्जात्यागो व्यज्यत एवं ॥ ५८ ॥

 यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचि[१६]न्वती ।
 तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥५९॥

 यदेति ॥ जगत्पतेस्तस्येश्वरस्याधिगमे प्राप्तावन्यं विधिमुपायं विचिन्वती


पाठा०-१ विबुध्यते. २ यतः. ३ वितन्वती. मृगयमाणा यदा नापश्यत्तदेयं पार्वती गुरोः पितुरनुज्ञयास्माभिः सह तपसे तपश्चरितुं तपोवनं प्रपन्ना प्राप्ता ॥ ५९ ॥

 द्रुमेषु सख्या कृतजन्ममु स्वयं फलं तपःसाक्षिषु [१७]दृष्टमेष्वपि ।
 न च प्ररोहाभिमुखोऽपि[१८]दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥

 द्रुमेष्विति ॥ सख्या पार्वत्या स्वयं कृतं जन्म येषां तेषु । स्वयं रोपिते- ष्वित्यर्थः । तपसः साक्षिषु साक्षाद्द्रष्ट्टप्वेषु द्रुमेष्वपि फलं दृष्टं लब्धम् । जनित- मित्यर्थः । अस्याः पार्वत्याः शशिमौलिमंश्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखोऽङ्कुरोन्मुखोऽपि न दृश्यते । 'प्ररोहस्त्वङ्कुरोङ्करः' इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य नाङ्कुरोदयोऽप्यस्ति । फलाशा तु दूरापाम्तेत्यर्थः ॥ ६०॥

 न वेद्मि म प्रार्थितदुर्लभः कदा सखीभि[१९]रस्रोत्तरमीक्षितामिमाम् ।
 तपःकृशामभ्युपपत्स्यते सखीं वृपेव सीतां तदवग्रहक्षताम् ।।६१॥

 न वेद्मीति ॥ प्रार्थितः सन्दुर्लभः प्रार्थितदुर्लभः स देवम्तपःकृशां तपसा कृशां क्षीणामत एव सखीभिरस्रोत्तरमश्रुप्रधानं यथा भवति तथेक्षितामिमां नः सखीं तस्येन्द्रस्यावग्रहेणानावृष्ट्या क्षतां पीडिताम् । 'वृष्टिर्वर्षं तद्विधातेऽवग्राहा- वग्रही समौ' इत्यमरः। अवग्रहो वर्षप्रतिबन्ध इत्यर्थः । सीतां कृष्टभुवम् । 'सीता लाङ्गालपद्धतिः' इत्यमरः । वृषा वासव इव । 'वासवो वृत्रहा वृषा' इत्यमरः । कदाभ्युपपत्स्यते कदानुग्रहीप्यति न वेद्मि । अत्र वाक्यार्थः कर्म । ['तदवग्रहक्षताम्' इत्यत्र 'अवग्रहक्षताम्' इत्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्या- पत्तेस्तदिति भिन्नं पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः ] ॥ ६१ ॥

 अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया ।
 अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ।। ६२ ।।

 अगूढेति ॥ इङ्गितज्ञया पार्वतीहृदयाभिज्ञया। 'इङ्गितं हृद्गतो भावः' इति सज्जनः । तया गौरीसख्येत्येवमगूढसद्भावं प्रकाशितसदभिप्रायं यथा तथा निवे- दितो ज्ञापितो निष्ठा मरणमवधिर्यस्य स नैष्ठिको यावजीवब्रह्मचारी सुन्दरो विलासी । नैष्ठिकश्चासौ सुन्दरश्चेति तथोक्तः । द्वयोरन्यतरस्य विशेषणत्वविव-


पाठा०-१ बद्धम्. २ न. ३ अस्राकलम. क्षायां विशेषणसमासः। किंतु नैष्टिकत्वविशेषणेन कामिस्वविरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विकमिति न विरोधः। अव्यञ्जितं हर्षलक्षणं मुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ! 'अयि' इति कोमला- मन्त्रणे । इदं त्वत्सखीभाषितमेवम् ? सत्यं किमित्यर्थः । परिहासः केलिर्वा । 'द्रवकेलिपरीहासाः' इत्यमरः । इत्येवमुमामपृच्छत्पृष्टवान् ॥ ६२ ॥

 अथाग्रहस्ते मुकुलीकृताङ्गुला समर्पयन्ती स्फटिकाक्ष[२०]मालिकाम् ।
 कथंचिदद्रस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥ ६३॥

 अथेति ॥ अथानन्तरमदेस्तनया पार्वती मुकुलीकृताङ्गुलौ संपुटीकृताङ्गुलौ। अग्रश्वासौ हस्तश्चेति समानाधिकरणसमासः । 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भैंदा- भेदात्' इति वामनः । तस्मिन्नग्रहस्ते स्फटिकानामक्षमालिकां जपमालिकामर्पय- न्त्यामुञ्चती कथंचिन्महता कष्टेन चिरव्यवस्थापितवाक् चिरेण स्वीकृतवाक् । एतेन लज्जोपरोधो व्यज्यते । मिताक्षरं परिमितवर्णं यथा तथाऽभाषत बभाषे ॥ ६३॥

 किमुवाचेत्याह--

 यथा श्रुतं वेदविदांवर ! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः ।
 तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥६४॥

 यथेति ॥ हे वेदविदांवर वैदिकश्रेष्ठ ! त्वया यथा श्रुतं सम्यक्श्रुतम् । श्रुतार्थमेवाह-अयं जनः । स्वयमित्यर्थः । उच्चैःपदस्य शिवलाभरूपोन्नतस्था- नस्य लङ्घन आक्रमणे उत्सुकः । किमत्रायुक्तमित्यत्राह-इदं तपस्तदवाप्तेस्त- स्योच्चैःपदस्यावाप्तेः प्राप्तेः साधनं किल । किलेत्यलीके । अतितुच्छत्वादसाधकमे- वेत्यर्थः । तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चतीत्याशयेनाह-मनो- रथानां कामानामगतिरविषयो न विद्यते । न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्त इति भावः ॥ ६४ ॥

 अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे |
 अमङ्गलाभ्यासर्[२१] तिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥६५॥

 अथेति ॥ अथ वर्णी ब्रह्मचारी । 'वर्णिनो ब्रह्मचारिणः' इत्यमरः । आह, उवाचेत्यर्थः । 'आहेति भूतार्थे लट्प्रयोगो भ्रान्तिमूलः' (काव्या. सू. ५।२।४३)


पाठा०--१ मण्डलम्. २ रतम्. इत्याह वामनः । किमित्याह--महेश्वरो महादेवो विदितः, मया ज्ञायत इत्यर्थः । बुद्ध्यर्थत्वाद्वर्तमाने क्तप्रत्ययः, तद्योगात् षष्ठी च । येन त्वं प्राग्भग्नमनोरथा कृतेति भावः । पुनरेव त्वं तमीश्वरमर्थयसे तदर्थिन्येव तत्कामैव वर्तसे, तत्प्रभावमनुभूयापीति भावः । अनुसरणे को दोषस्तत्राह--अमङ्गलाभ्यासेऽमङ्गलाचारे रतिर्यस्य तं यथोक्तमीश्वरं विचिन्त्य विचार्य तवानुवृत्तिमनुसरणं कर्तुं नोत्सहे, नानुमन्तुं शक्नोमीत्यर्थः ॥ ६५ ॥

 अवस्तुनिर्बन्धपरे ! कथं नु ते करोऽयमामुक्तविवाहकौतुकः ।
 [२२]रेण शंभोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ॥

 अवस्त्विति ॥ अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्यास्तस्याः संबुद्धिरवस्तुनिर्बन्धपरे पार्वति ! आमुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य स तेऽयं करः । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोर्महादेवस्य करेण करणभूतेन । तदेव प्रथमं तत्प्रथमम् । अपरिचिततत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं नु सहिष्यते ? न कथंचिदपि सहिष्यत इत्यर्थः । अग्रतो यद्भावि तद्दूरेऽवतिष्ठतां, प्रथमं करग्रह एवं दुःसह इति भावः ॥ ६६ ॥

 त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः ।
 वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ ६७ ॥

 त्वयेवेति ॥ हे गौरि ! त्वमेव स्वयमात्मना । 'तावत्' इति मात्रार्थे, यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदाहृतं च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति ? कलहंसलक्षणं कलहंसचिह्नम् । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । वध्वा नवोढाया दुकूलं वधूदुकूलम् । 'वधूः स्नुषा नवोढा स्त्री' इति विश्वः । तथा शोणितबिन्दून्वर्षतीति तथोक्तम्, आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवासश्च । तत्पिनाकिन इत्याशयः । एते कदाचिज्जात्वपि योगं संगतिमर्हतो यद्यर्हतः किम् ? एतत्त्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणणे किल वधूवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु

दुकूलधारिण्यास्तव कथं संघटिष्यत इति भावः ॥ ६७ ॥

 चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते ।
 अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमि षु॥६८॥

 चतुष्केति ॥ चतुष्के गृहविशेषे यः पुष्पप्रकरस्तत्रावकीर्णयोनर्यस्तयोः, कुसुमास्तृतदिव्यभवनभूसंचारोचितयोरित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षा- रञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । “पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिन्हयोः' इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकीर्णकेशासु । 'अतत्स्थं तत्र दृष्टं च' इति वचनात् । 'स्वाङ्गच्चोपसर्जनादसंयोगोपधात्' (पा. ४।१।५४) इति विकल्पाक्ष ङीष् । परेत- भूमिपु प्रेतभूमिपु, श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानुमन्यते ? न कोऽपीत्यर्थः । 'नाम' इति कुत्सायाम् । पिनाकपाणिपाणिग्रहणे तस्य परेतभूमंचारि- स्वेन साहचर्यात्तवापि तत्र संचारोऽवश्यंभावीति भावः ॥ ६८ ॥

 अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।
 स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभम्मरजः करिष्यति ॥६९॥

 अयुक्तेति ॥ त्रिनेत्रवक्षः, त्र्यम्बकालिङ्गनमित्यर्थः । तव तत्संबन्धितया सुलभमपि सुप्रापं च । भवतीति शेषः । 'तव' इति शेषे षष्टी । 'न लोकाव्यय-' (पा. २।३१६९) इत्यादिना कृद्योगलक्षणषध्या निषेधात् । अतःपरमस्माधिनेत्रवक्षो- लाभादन्यदयुक्तरूपमत्यन्तायुक्तं किं वद । न किंचिदित्यर्थः । 'प्रशंसायां रूपप्' (पा. ५।३१६६) इति रूपप्प्रत्ययः । कुतः ? यद्यस्मात्कारणाद्वरि चन्दनास्पदे हरि- चन्दनस्यास्पदे स्थानभूतेऽस्मिन्स्तनद्वये चिताभस्म श्मशानभस्म तदेव रजश्चूर्णं कर्तृ । पदं करिष्यति पदं निधास्यति, भर्तुर्भवस्य भस्माङ्गरागादिति भावः ॥६९॥

 इयं च तेऽन्या पुरतो विडम्बना यदृढया वारणराजहार्यया ।
 विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ७०

 इयमिति ॥ इयं च ते तव पुरत आदावेवान्या विडम्बना, परिहास इत्यर्थः । का सेत्यत्राह-ऊढया परिणीतया । वहेः कर्मणि क्तः। वारणराजहार्यया गजेन्द्रवाह्यया त्वयाधिष्टितमारूढं वृद्धमुक्षाणं वृद्धोक्षम् । 'अचतुर- (पा. ५।- ४।७७) इत्यादिना निपातः । विलोक्य महाजनः साधुजनः स्मेरमुखः स्मितमुखो


पाठा०-१ अनुमंस्यते. २ भवेत्. ३ अङ्किते. भविष्यत्युपहसिष्यति यत् । इयमिति पूर्वेण संबन्धः । स्मेरेति 'नमिकम्पिस्म्य- जस-' (पा. ३।२।१६७) इत्यादिना रप्रत्ययः ॥ ७० ॥

 द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः ।
 कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ७१

 द्वयमिति ॥ पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया, क्रिय- माणयेति शेषः। संप्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदाह-सा प्रागेव हरशिरोगता । अत्र सेति प्रसिद्ध्यर्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्य- प्रकाशे-'प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छन्दो यदुपादानं नापेक्षते' इति । कान्तिमती । नित्ययोगे मतुप् । कलावतश्चन्द्रस्य कला षोडशो भागश्चास्य लोकस्य नेत्रकौमुदी, नेत्रानन्दिनीत्यर्थः, स्वं च । कान्तिमतीव-नेत्रकौमुदीत्व- विशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या, संप्रति तु त्वमप्यपरेति द्वयं शोच्य मिति पिण्डितार्थः । शोच्यत्वं च निकृष्टाश्रयणादिति भावः ॥ ७१ ॥ 'कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥' इति लोकानामाभाषणम् । तत्र किंचिदपि नास्तीत्याह-

 वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
 वरेषु यद्धालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने॥७२॥

 वपुरिति ॥ वपुः शरीरं तावदस्य विरूपाणि विकृतरूपाण्यक्षीणि नेत्राणि यस्य तद्विरूपाक्षम् । 'बहुदीही सक्थ्यक्ष्णोः स्वाङ्गात्पचच्' (पा. ५।४।११३) इति पच्प्रत्ययः । वैरूप्यं च त्रिनेत्रत्वादिति क्षीरस्वामी। अतो न सौन्दर्यवार्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस्य भावस्तत्ता, कुलमपि न ज्ञायत इत्यर्थः । 'अलक्षिता जनिः' इति पाठे-जनिरुत्पत्तिरलक्षिता न ज्ञाता । 'जनिरुत्पत्ति- रुद्भवः' इत्यमरः । वसु वित्तं दिगम्बरत्वेनैव निवेदितम् , नास्तीति ज्ञापितमित्यर्थः। यदि चित्तं भवति तदा कथं दिगम्बरो भवति ? मतो ज्ञेयं निर्धनोऽयमिति । किं बहुना, हे बालमृगाक्षि पार्वति ! वरेषु वोध्रढृषु। 'वरौ जामातृवोढारौ' इति विश्वः । यद्रूपवित्तादिकं मृग्यते कन्यातद्वन्धुभिरन्विष्यते तत्रिलोचने त्र्यम्बके व्यस्तम् , एकमपि समस्तं नाभूदिति भावः । अस्ति किम् ? नास्त्येवेत्यर्थः॥७२॥


पाठा०-१ कपालिनः.

८ कु० सं०

 निवर्तयास्मादसदीप्सितान्मनः क्क तद्विधस्त्वं क्क च पुण्यलक्षणा ।
 अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्किया॥७३॥

 निवर्तयेति ॥ अस्सादसदीप्सितादनिष्टमनोरथान्मनो निवर्तय निवारय । सा पूर्वोक्ता विधा प्रकारो यस्य स तथोक्तः । अमङ्गलशील इत्यर्थः । क ? मह- दन्तरमित्यर्थः । पुण्यलक्षणा प्रशस्तभाग्यचिह्वा त्वं च क ? अतो न तवायमर्हं इत्यर्थः । तथा हि-साधुजनेन । 'साधुर्वाधुषिके चारौ सज्जने चाभिधेयवत् ' इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य वध्यशङ्कोर्वैदिकी वेदोक्ता। यूपो नाम पशुबन्धनसाधनभूतः संस्कृतदारुविशेषः, तस्य सत्क्रिया प्रोक्षणाभ्यु- क्षणादिसंस्कारो यूपसत्क्रिया नापेक्ष्यते नेष्यते । यथा श्मशानशूले यूपसस्क्रिया न क्रियते, तथा त्वमपि तस्मै न घटस इति तात्पर्यार्थः ॥ ७३ ॥

 इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानावरलक्ष्यकोपया ।
 विकुञ्चितब्भ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥७४॥

 इतीति ॥ इत्येवंप्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति प्रवेपमाने न चञ्चलेनाधरेणाधरोष्ठेन लक्ष्योऽनुमेयः कोपः क्रोधो यस्यास्तथोक्तया तया पार्वत्योपान्तलोहिते प्रान्तरक्ते विलोचने विकुञ्चिते कुटिलिते भ्रूलते यस्मिंस्तत्तथा, सभ्रूभङ्गमित्यर्थः । तिर्यक्साच्याहिते निहिते, अनादरात्तिर्यगैक्षतेत्यर्थः ॥ ७४ ॥

 उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ।
 अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ७५

 उवाचेति ॥ अथैनं ब्रह्मचारिणमुवाच च। किमिति ? परमार्थतस्तस्वतो हरं न वेल्सि न जानासि नूनम् । कुतः ? यतो मामेवमुक्तया रीत्यास्थ ब्रवीषि । 'ब्रुवः पञ्चानामादित:-' (पा. ३।४।८४) इति रूपसिद्धिः । अज्ञानादेवायं शिवद्वेष- स्तवेत्याशयेनाह-मन्दा मूढाः ! 'मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । लोक- सामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचिन्त्यहेतुकं दुर्योधकारणकं महात्मनां चरितम् । द्विषन्ति हेत्वपरिज्ञानाद्रूषयन्ति विद्वांसस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः ॥ ७५ ॥


पाठा०-१ अपेक्षते. २ हि. ३ भ्रूलतया.  संप्रति 'अमङ्गलाभ्यासरतिम्' (५।६५) इत्याद्युक्तं दूषणजातं 'विपत्प्रतीकार- परेण' इत्यादिभिः षड्भिः श्लोकैः परिहर्तुमार्भते ‌- ‌

 विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।
 जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मव्रत्तिभिः ७६

 विपदिति ॥ विपत्प्रतीकारपरेण, अनर्थपरिहारार्थनेत्यर्थः । 'उपसर्गस्य घन्यमनुष्ये बहुलम्' (पा.६।३।१२२) इति दीर्घः । भूरिसमुत्सुकेनैश्वर्यकामेन वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः । 'तत्र साधुः' (पा.४।४।९८) इति यत्प्रत्ययः । शरणं गृहरक्षित्रोः' इत्यमरः । जगतः शरण्यस्तस्य जगच्छरण्यस्य निराशिषो निरभिलाषस्य सतः शिवस्य । 'आशीरुरगदंष्ट्रायां विप्रवाक्याभिलाषयोः' इति शाश्वतः । आशया तृष्णयोपहता दूषितात्मवृत्तिर- न्तःकरणवृत्तिर्येषां तैरेभिर्मङ्गलैः किम् ? वृथेत्यर्थः । पूर्व 'मंङ्गलम्' इत्येकवचनस्य जात्यभिप्रायत्वात् 'एभिः' इति बहुवचनेन परामर्शों न विरुध्यते । इष्टावास्य- निष्टपरिहारार्थिनो हि मङ्गलाचारनिर्बन्धः । तदुभयासंसृष्टस्य तु यथाकथंचिदा- स्ताम् । को दोष इत्यर्थः । एतेन 'अमङ्गलाभ्यासरतिम्' (५।६५) इत्युक्तं प्रत्युक्तम् ॥ ७६ ॥

 अकिंचनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसङ्मगोचरः।
 स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः॥

 अकिंचनेति ॥ स हरः। न विद्यते किंचन द्रव्यं यस्य सोऽकिंचनो दरिद्रः सन् संपदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसङ्मगोचरः श्मशानाश्रयः सन् त्रयाणां लोकानां नाथः तद्धितार्थ-'(पा.२।१९५१) इत्यादिनोत्तरपदसमासः । स देवो भीमरूपो भयंकराकारः सन् शिवः सौम्यरूप इत्युदीर्यत उच्यते । अतः पिनाकिनो हरस्य यथाभूतोऽर्थः यथार्थस्तस्य भावो याथार्थ्य तत्वं तस्य विदो न सन्ति, लोकोत्तरमहिन्ना निर्लेपस्य यथाकथंचिदवस्थानं न दोषायेति भावः । एतेन 'अवस्तुनिर्बन्धपरे' (५।६६) इति श्लोकोक्तं परिहृतं वेदितव्यम् ॥ ७७ ॥ देवस्य लौकिकमलौकिकं च प्रसाधनं नास्तीत्याशयेनाह-

 विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
 कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ।। ७८ ॥


पाठा०-१ स लोकनाथः. २ अथ चन्द्रशेखरम्. टिप्प०-1 अनेन 'दिगंबरत्वेन निवेदितं वसु' (५।७२) इत्याक्षिप्तं परिहृतम्।  विभूषणेति ॥ विश्वं मूर्तिर्यस्येति विश्वमूर्तेरष्टमूर्तेः शिवस्य वपुः शरीरं भूषणैरुदासत इति भूषणोद्भासि स्यात् , पिनद्धभोग्यामुक्तभुजंगमं वा स्यात् । पिनद्धेति नह्यतेरपिपूर्वात् कर्मणि क्तः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । गजाजिनालम्बि स्यात् , अथवा दुकूलधारि स्यात् , कपालम- स्यास्तीति कपालि ब्रह्मशिरःकपालशेखरं वा स्यात् , इन्दुशेखरं वा स्यात् , नाव- धार्यते न निर्धार्यते, सर्वं संभवतीत्यर्थः । एतेन 'स्वमेव तावत्' (५।६७) इति श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ॥ ७८ ॥

 'अयुक्तरूपं किमतः परं वद' (५।६९) इति श्लोकोक्तं प्रत्याह-

 तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।
 तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसां ७९

 तदिति ॥ तस्य शिवस्याङ्गं तस्य संसर्गमवाप्यासाद्य चिताभस्मैव रजो विशुद्धये कल्पते, अलं पर्यामोतीत्यर्थः । अलमर्थयोगात् 'नमःस्वस्तिस्वाहा-' (पा.२।३।१६) इत्यादिना चतुर्थी । ध्रुवं शोधकत्वम् , प्रमाणसिद्धमित्यर्थः । प्रमा- णमेवाह -तथा हि प्रसिद्धमेवेत्यर्थः । नृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्जक- चेष्टाविशेषः स एव क्रिया तया निमित्तेन च्युतं पतितम् , चिताभस्मरज इति शेषः । अम्बरौकसां देवानां मौलिभिर्विलिप्यते ध्रियते, अशुद्धं चेत्कथमिन्द्रा- दिभिर्धियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः ॥ ७९ ॥

 यदुक्तम् 'दिगम्बरत्वेन निवेदितं वसु' (५।७२), 'इयं च तेऽन्या पुरतो विडम्बना' (५१७०), इत्यादि च तत्रोत्तरमाह-

 असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा।
 करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥८॥

 असंपद इति ॥ प्रभिन्नो मदस्त्रावी दिग्वारणो दिग्गजो वाहनं यस्य सः, ऐरावतेनोढ इत्यर्थः । वृषा देवेन्द्रोऽसंपदो दरिद्रस्य वृषेण गच्छतो वृषभारूढस्य तस्येश्वरस्य पादौ मौलिना मुकुटेनोपगम्य, प्रणम्येत्यर्थः । विनिद्राणां विकसि- तानां मन्दाराणां कल्पतरुकुसुमानां रजोभिः परागैररुणा अङ्गुलयो ययोस्तौ तथोक्तौ करोति । दिग्गजारोहिणामिन्द्रादीनामपि वन्द्यस्येन्दुमौले: किं संपदा ? वृषारोहणे वा को दोष इत्यर्थः ॥ ८॥


पाठा०‌--१ संस्पर्शम. २ विलुप्यते.  यदुक्तं 'चपुर्विरूपाक्षमलक्ष्यजन्मता' (५/७२ ) इति तत्रोत्तरमाह-

 विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
 यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ८१

 विवक्षतेति ॥ च्युतात्मना नष्टस्वभावेनात एव दोषं दूषणं विवक्षता वक्तुमिच्छतापि स्वयेशं प्रति एकम् 'अलक्ष्यजन्मता' इत्येतदेकम् , वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः ? यमीश्वरमात्नभुवोऽपि ब्रह्मणोऽपि । 'ब्रह्मा- रमभूः सुरज्येष्ठः' इत्यमरः । कारणमामनन्त्युदाहरन्ति, विद्वांस इति शेषः । 'पाघ्राध्मास्थाम्नादाण् -' (पा. ७१३:७८) इत्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यप्रभवो लक्ष्यजन्मा भविष्यति ? अनादिनिधनस्य भगवतः कारणशङ्काकल- ङ्कश्च नान्विष्यत इत्यर्थः ॥ ८ ॥

 अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः ।
 ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥८२॥

 अलमिति ॥ अथवा विवादेन कलहेनालम् । त्वया यथा येन प्रकारेण स ईश्वरः श्रुतोऽशेषं कात्स्न्य्रेन तथाविधस्तावत्प्रकार एवास्तु । मम मनस्त्वत्रेश्वरे भावः शृङ्गार एकोऽद्वितीयो रस आस्वादो यस्य तत्तथा स्थितम् । तथा हि- कामवृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति; न हि स्वेच्छासंचारिणो लोकापवादाद्विभ्यतीति भावः ॥ ८२ ॥

 निवार्यतामालि! किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
 न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्८३

 निवार्यतामिति ॥ हे आलि सखि ! 'आलिः सखी वयस्या च' इत्यमरः । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोष्टः अयं बटुर्माणवकः पुनः किमपि विवक्षुर्वक्तु- मिच्छुः । ब्रुवः समन्तादुप्रत्ययः । निवार्यताम् । तर्हि वक्तुमेव कथं न ददासी- त्याह-तथा हि-यो महतः पूज्यानपभाषतंऽपवदति न केवलं स पापभाग्भ- वति । किंतु तस्मादपभाषमाणात्पुरुषाधः शृणॉति सोऽपि पापभाक् । भवतीति शेषः । अत्र स्मृतिः (मनु. २।२००)-'गुरोः प्राप्तः परीवादो न श्रोतव्यः कथंचन । सत्र कर्णौ पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥' इति ॥ ८३ ॥


पाठा०-१ श्रुतम् . २ महतां विभाषते.   संप्रति गन्तव्यपक्षमाश्रयते-

 इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।
 स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥४॥

 इत इति ॥ अथवा, 'इतोऽन्यत्र गमिष्यामि' इति वादिनी वदन्ती स्तनाभ्यां भिन्नवल्कला रयवशात्कुचस्रस्तचीरा बाला पार्वती चचाल । वृषराजकेतनो वृष- भध्वजश्च स्वरूपमास्थाय निजरूपमाश्रित्य कृतस्मितः सन् तां पार्वती समाल- लम्बे जग्राह ॥ ८४ ॥

  तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि-
   र्निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।
  मार्गाचलव्यतिकराकुलितेव सिन्धुः
   शैलाधिराजतनया न ययौ न तस्थौ ॥ ८५॥

 तमिति ॥ तं देवं वीक्ष्य वेपथुमती कम्पवती सरसामयष्टिः स्विष्चगात्री । महादेवदर्शनेन, देव्याः सात्त्विकभावोदय उक्तः । निक्षेपणाय, अन्यत्र विन्या- सायोद्धृतमुत्क्षिप्तं पदमङ्र्गीमुद्वहन्ती शैलाधिराजतनया पार्वती मार्गेऽचलस्तस्य व्यतिकरेण समाहत्या । अवरोधनेनेति यावत् । आकुलिता संभ्रमिता सिन्धुर्न- दीव । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । न ययौ न तस्थौ, लजयेति भावः । वसन्ततिलका वृत्तमेतत् ॥ ८५ ॥

  अद्यप्रभृत्यवनताङ्गि! तवास्मि दासः
   क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
  अह्नाय सा नियमजं क्लममुत्ससर्ज
   क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ ८६ ।।

 अद्येति ॥ चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति ! अद्यप्रभृति, अस्मा- दिनादारभ्येत्यर्थः । प्रभृतियोगादद्येति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते। तव तपोभिः क्रीतः । 'दास्र दाने' । दासत भास्मानं ददातीति दासोऽस्मीति वादिनि


पाठा०-१ रय. २ निक्षेप एव. ३ पिधत्ते. वदति सति । सा देव्याय सपदि । 'स्त्राग्झटित्यञ्जसाह्नाय द्राङ्प्राङ्क्षु सपदि द्रुतम्' इत्यमरः । नियमजं तपोजन्यं क्लमं क्लेशमुत्ससर्ज, फलप्रास्या क्लेशं विसस्मारेत्यर्थः । तथा हि-क्लेशः फलेन फलसिया पुनर्नवतां विधत्ते पूर्ववदे- बाक्लिष्टतामापादयतीत्यर्थः । सफलः क्लेशो न क्लेश इति भावः ॥ ८६ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
तपःफलोदयो नाम पञ्चमः सर्गः।

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः
  4. लघुः पाठ्यांशः
  5. लघुः पाठ्यांशः
  6. लघुः पाठ्यांशः
  7. लघुः पाठ्यांशः
  8. लघुः पाठ्यांशः
  9. लघुः पाठ्यांशः
  10. लघुः पाठ्यांशः
  11. लघुः पाठ्यांशः
  12. लघुः पाठ्यांशः
  13. लघुः पाठ्यांशः
  14. लघुः पाठ्यांशः
  15. लघुः पाठ्यांशः
  16. लघुः पाठ्यांशः
  17. लघुः पाठ्यांशः
  18. लघुः पाठ्यांशः
  19. लघुः पाठ्यांशः
  20. लघुः पाठ्यांशः
  21. लघुः पाठ्यांशः
  22. भुजेन.