सामग्री पर जाएँ

कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/सप्तमः सर्गः(उमापरिणयः)

विकिस्रोतः तः
← षष्ठः सर्गः(विवाहप्रस्तावः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
सप्तमः सर्गः(उमापरिणयः)
कालिदासः
अष्टमः सर्गः(सुरतवर्णनः) →

सप्तमः सर्गः ।

 अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
 समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥ १॥

 अथेति ॥ अथ त्र्यहानन्तरं हिमवानोषधीनामधिपस्य चन्द्रस्य वृद्धौ, शुक्लपक्ष इत्यर्थः । शुभकर्मस्वापूर्यमाणपक्षस्य प्राशस्त्यात् । तिथौ च जामित्रं लग्नात्सप्तमं स्थानं तस्य गुणः शुद्धिः सा च ग्रहराहित्यं तेनान्वितायां सत्याम् । यद्यपि जामित्रशुद्धिर्लग्नधर्मस्तथापि तद्द्वारा तिथेरपि तथा व्यपदेशे न दोषः। समेतबन्धुर्युक्तबन्धुः सन् । सुताया दुहितुर्विवाहदीक्षा विवाहसंस्कारः सैव विधिः कर्म तमन्वतिष्ठत्कृतवान् ॥ १ ॥


टिप्प०-1 तथा चोक्तं शैवागमे-'ब्रह्मादयो जगति जीवगणास्तृणान्ताः सर्वे विमोहितधियः पशवः प्रदिष्टाः। तेषामभूदधिपतिः शिव एक एव तस्माद्विदुः पशुपतिं परमेश्वरं तम् ॥' इति । 2 तच्चोक्तमाश्वलायनगृह्यसूत्रे-'उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः' इति । 3 तत्तु 'विवाहे स्युः सर्वे मदनसदने नैव शुभदाः', 'सर्वे जामित्रसंस्था विदधति मरणम्' इति लग्नप्रकरणे सप्तमस्थानशुध्देरावश्यकत्वं वसिष्ठादिभिश्च प्रतिपादितम् ।

 वैवाहिकः कौतुकसंविधानैर्गृहे गृहे व्यग्रपुरंध्रिवर्गम् ।
 आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥ २॥

 वैवाहिकैरिति ॥ अनुरागात् प्रीतिवशात् । गृहे गृहे प्रतिगृहम् । वीप्सायां द्विर्भावः। विवाहःप्रयोजनमेषामिति वैवाहिकानि तैः। 'प्रयोजनम्'(पा.५।१।१०९) इति ठक् । कौतुकसंविधानैर्मङ्गलार्थसंपादनैर्व्यग्रो व्याकुलः पुरंध्रिवर्गः कुटुम्बिनीजनो यास्मिंस्तत्तथोक्तं सानुमतोऽद्रेः पुरं बाह्यमोषधिप्रस्थमन्तःपुरमवरोधनं चैककुलेनैकगृहेण वोपमेयमासीत् । 'सजातीयगणे गोत्रे गृहेऽपि कथितं कुलम्' इति विश्वः । सर्वेषामपि स्वगृह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदित्यर्थः । एतेन हिमाद्रेः प्रजाराग उक्तः । अत्र सर्वं संपन्नमेवेत्यर्थः ॥२॥

 संतानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् ।
 भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवाबभासे ॥ ३॥

 संतानकेति ॥ संतानकैर्मन्दारकुसुमैराकीर्णा आस्तृता महापथा राजवीथयो यस्मिंस्तत्तथोक्तम् । चीनांशुकैः पट्टवस्त्रैः कल्पिता विरचिताः केतुमाला ध्वजपङ्क्तयो यस्य तत्तथोक्तम् । काञ्चनतोरणानां भासा प्रभयोज्वलद्दीप्यमानं तत्पुरं स्थानान्तरं मेरोरन्यत्र स्थितः स्वर्ग इवाबभासे । उत्प्रेक्षालंकारः ॥ ३ ॥

 एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।
 आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव ॥ ४ ॥

 एकैवेति ॥ पुत्राश्च दुहितरश्च पुत्राः । 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' (पा.१।२।६८) इत्येकशेषः । 'पुत्रौ पुत्रश्च दुहिता च' इत्यमरः । तेषां पङ्क्तौ सङ्घे सत्यामप्युमैकैव चिरस्य दृष्टेव चिरान्नष्टलब्धेव मृतोत्थितेव मृत्वा पुनरुत्पन्नेवासन्नपाणिग्रहणासन्नविवाहेति । भर्तृगृहं गमिष्यतीति हेतोरित्यर्थः । पित्रोर्मातापित्रोः । 'पिता मात्रा' (पा.१।२।७०) इत्येकशेषः। विशेषेणोच्छ्वसितं प्राणभूता बभूव, पुमपत्यादप्यधिकप्रेमास्पदमभूदित्यर्थः ॥ ४ ॥

 अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त ।
 संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥५॥


पाठा०-१ चतुःपथम्. २ भासा ज्वलत्. ३ स्थानान्तरस्वर्गः. ४ चिरेण, ५ उपोढपाणि.  अङ्कादिति ॥ सा पार्वत्युदीरिताशीः प्रयुक्ताशीर्वादा सत्यङ्कादङ्कमुत्सङ्गं ययौ। मण्डनान्मण्डनान्तरं मण्डनमन्वभुङ्क्त । तदा सर्वे बन्धवः प्रत्येकमेव तामङ्कमारोप्य मण्डनं प्रायच्छदित्यर्थः। तच्च स्नेहनिबन्धनमेवेत्याह-संवन्धिभिः स्वपुत्रादिभिर्भिन्नो विभक्तोऽपि गिरेः कुलस्य वंशस्य स्नेहस्तदेकायतनं सैवैकमायतनं स्थानं तज्जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यान्नपुंसकत्वमिति । सर्वे बन्धवः स्वापत्येभ्योऽपि तस्यामधिकं स्निह्यन्तीति तात्पर्यार्थः ॥५॥

 मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
 तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ ६॥

 मैत्र इति ॥ अथ मैत्रे मित्रदैवत्ये मुहूर्ते, उदयमुहूर्तात्तृतीयमुहूर्त इत्यर्थः । 'आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च' इति बृहस्पतिस्मरणात् । उत्तरफल्गुनीषु फल्गुनीनक्षत्रे । 'फल्गुनीप्रोष्ठपदानां च नक्षत्रे' (पा.१।२।६०) इत्यकस्मिन्नपि बहुवचनम् । शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्याः पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम्। 'प्रतिकर्म प्रसाधनम्' इत्यमरः। चक्रुः । कीदृश्यः ? याः पतिपुत्रवत्यः, जीवद्भर्तृका जीवदपत्याश्चेत्यर्थः ॥ ६ ॥

प्रतिकर्मप्रकारमेव प्रपञ्चयति-

 सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नशोभम् ।
 निर्नाभिकौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलंचकार ।। ७ ।।

 सेति ॥ सा गौरी गौरसिद्धार्थनिवेशवद्भिः श्वेतसर्षपप्रक्षेपवद्भिर्दूर्वाप्रवालैर्दूर्वाङ्कुरैः प्रतिभिन्नशोभं विशेषितशोभं निर्नाभ्यतिक्रान्तनाभि कौशेयं वस्त्रविशेषो यस्मिंस्तत्तथोक्तम्। 'कौशेयं कृमिकोशोत्थम्' इत्यमरः । उपात्तबाणं गृहीतशरम् । 'शरः क्षत्रियया ग्राह्यः' (३।४४) इति मनुस्मरणात् । अङ्गनेपथ्यमभ्यङ्गवेशमलंचकार, अलंकारमप्यलंचकारेत्यर्थः ॥ ७ ॥


पाठा०-१ रागम्. टिप्प०-1 विवाह उत्तर फल्गुन्याः शुभदत्वमुक्तम्-'रोहिण्यैन्दवरेवतीश्वसनभं मूलानुराधामघाहस्ताश्चोत्तरभत्रयं शुभदं वैवाहिके कर्मणि ।' 'विवाहे शुभदाऽत्यन्तं तस्मादुत्तरफल्गुनी' इत्यादिश्लोकैः । 2 अनेन हिमवतः क्षत्रियत्वं स्फुटं प्रतिपादितम् , शिवस्तु

ब्राह्मण एवेति श्रुत्यादिषु प्रसिद्धिरिति क्षात्र-ब्राह्मसंमिश्रोऽयं विवाह इत्यवसेयम् ।

 बभौ च संपर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन ।
 करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा ॥ ८॥

 बभाविति ॥ किंचेति चार्थः । बाला नवेन दीक्षाविधौ विवाहकृत्ये यः सायकस्तेन संपर्कमुपेत्य बहुलावसाने कृष्णपक्षात्यये, शुक्लपक्षादावित्यर्थः । भानो: करेण किरणेन संधुक्ष्यमाणोपचीयमाना। 'सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति' इत्यादिवचनात् । शशाङ्करेखेव बभौ ॥ ८ ॥

 तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् ।
 वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥९॥

 तामिति ॥ लोध्रकल्केन लोध्रचूर्णेन हृतमङ्गतैलं यस्यास्ताम् । कृतोद्वर्तनामित्यर्थः । आश्यानमीषच्छुष्कं तेन कालेयेन गन्धद्रव्येण कृताङ्गरागाम् , कृतस्नैग्ध्यामित्यर्थः । 'अथ जायकम् । कालेयकं च कालानुसार्यं च' इत्यमरः । अभिषेकयोग्यं वासो वस्त्रं वसानां स्नानशाटीमाच्छादयन्तीं तां पार्वतीं नार्यश्चतुष्कं चतुःस्तम्भगृहं तदभिमुखं व्यनेषुः, स्नानगृहं निन्युरित्यर्थः ॥ ९॥

 विन्यस्तवैदूर्यशिलातलेऽस्मिन्नाबद्धमुक्ताफलभक्तिचित्रे ।
 आवर्जिताष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयांबभूवुः ॥ १० ॥

 विन्यस्तेति ॥ विन्यस्तं वैदूर्यशिलातलं मरकतशिलाप्रदेशो यस्मिंस्तस्मिन्नाबद्धानां मुक्ताफलानां भक्तिभी रचनाभिश्चित्रेऽस्मिंश्चतुष्क एनां पार्वतीमावर्जितानामानमितानामष्टापदकुम्भानां कनककलशानां तोयैः सतूर्यं मङ्गलवाद्ययुक्तं यथा तथा स्नपयांबभूवुः । अष्टसु लौहेषु पदं प्रतिष्ठा यस्येत्यष्टापदम् । 'अष्टनः संज्ञायाम्' (पा.६।३।१२५) इति दीर्घः । 'अष्टापदं स्यात्कनकम्' इति विश्वः ॥१०॥

 सा मङ्गलस्नानविशुद्धगात्री गृहीतवत्युद्गमनीयवस्त्रा ।
 निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥११॥


पाठा०-१ लेखा. २ अभिमुखीमनैषुः. ३ शिले च तस्मिन्. ४ आविद्ध, ५ शुद्धोद्गमनीय. ६ निवृत्त. टिप्प०--1 तानि तु-'सुवर्णं रजतं ताम्र्ं सीसकं कांतिकं तथा । वङ्गं लौहं तीक्ष्णलौहं लौहान्यष्टाविमानि तु ॥' इत्यादिनोक्तानि ।  सेति ॥ मङ्गलार्थ स्नानेन विशुद्धगात्री निर्मलाङ्गी पत्युर्वरस्योद्गमनीयवस्त्र धौतवस्त्रम् , 'धौतमुद्गमनीयं स्यात्' इति हलायुधः । 'तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्' इत्यमरः । 'युग'ग्रहणं तु प्रायिकाभिप्रायम् । अत एवात्र क्षीरस्वामी-'युगमविवक्षितं यल्लक्ष्यं' इति व्याख्याय 'गृहीतवत्युद्गमनीयवस्त्रा' इत्येतदेवोदाहृतवान् । गृहीतवती, धौतवस्त्रमाच्छादितवतीत्यर्थः । सा पार्वती निर्वृत्तो निष्पन्नः पर्जन्यस्य जलेनाभिषेको यस्याः सा तथोक्ता । प्रफुल्लतीति प्रफुल्लं काशं काशपुष्पं यस्याः सा तथोक्ता वसुधेव रेजे शुशुभे ॥ ११ ॥

 तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।
 पतिव्रताभिः परिगृह्य निन्ये क्लृप्तासनं कौतुकवेदिमध्यम् ॥१२॥

 तस्मादिति ॥ किंचेति चार्थः । तस्मात्प्रदेशात्स्नानप्रदेशाद्वितानवन्तमुल्लोचयुक्तम् । 'अस्त्री वितानमुल्लोचः' इत्यमरः । मणिस्तम्भचतुष्टयेन युक्तं क्लृप्तं सज्जमानमासनं यस्मिंस्तं कौतुकवेदिमध्यं पतिव्रताभिः परिगृह्य दोर्भिरालिङ्ग्य निन्ये नीता, प्रसाधनार्थमित्यर्थः ॥ १२ ॥

 तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।
 भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥१३॥

 तामिति ॥ नार्यः प्रसाधिकास्तां तन्वीं पार्वतीं तत्र वेदिमध्ये प्राङ्मखीं निवेश्योपवेश्य पुरो निषण्णा अग्रे स्थिताः । प्रसाध्यतेऽनेनेति प्रसाधनेऽलंकारसाधनवर्गे संनिहितेऽपि भूतार्था सत्यरूपा, स्वाभाविकीति यावत् । या शोभा रामणीयकं तया ह्रियमाणान्याकृष्यमाणानि नेत्राणि यासां तास्तथोक्ताः क्षणं व्यलम्बन्त । स्वभावसुन्दर्याः किमस्याः प्रसाधनेनेति तूष्णीं तस्थुरित्यर्थः ॥ १३ ॥

 धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम् ।
 पर्याक्षिपत्काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ १४ ॥

 धूपेति ॥ काचित्प्रसाधिका धूपोष्मणा करणेनार्द्रभावमार्द्रत्वं त्याजितम् । पचादिषु पाठाद्द्विकर्मकत्वम् । त्यजतेर्ण्यन्तादप्रधाने कर्मणि क्तः । अन्तःकुसुम-


पाठा०-१ प्रतिगृह्य. २ धूपेन संमार्जितम्. मन्तर्निक्षिप्तकुसुमं तस्या इमं तदीयं केशान्तं केशपाशं दूर्वावता मध्ये प्रथि- तदूर्वेण पाण्डुमधूकदाम्ना हरितमधुदुमकुसुममाल्येन । 'मधूके तु गुडपुष्प- मधुद्रुमौ' इत्यमरः । उदारबन्धं रम्यबन्धं यथा तथा पर्याक्षिपद्धबन्ध ॥ १४ ॥

 विन्यस्तशुक्लागुरु चक्रुरङ्गं गोरोचनापत्रविभक्तमस्याः ।
 सा चक्रवाकाङ्कितसैकतायास्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ॥१५॥

 विन्यस्तेति ॥ अस्या गौर्या अङ्गं गात्रं विन्यस्तं विरचितं शुक्लागुरु यस्मिंस्तद्गो- रोचनायाः पत्रैः पत्ररचनाभिर्विभक्तं विशेषितं च चक्रुः । सा तथाभूता गौरी चक्रवाकैरङ्कितं सैकतं यस्यास्तस्यास्त्रिस्रोतसो गङ्गायाः कान्तिं शोभामतीत्याति- क्रम्य तस्थौ । अत्र गोरोचनाचक्रवाकयोः पीतत्वेन साम्यम् , त्रिस्रोतसो धावल्यं तु प्रसिद्धत्वान्न स्वपदेनोपात्तम् ॥ १५ ॥

 लग्नद्विरेफ परिभूय पझं समेघलेखं शशिनश्च बिम्बम् ।
 तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् ।। १६ ॥

 लग्नेति ॥ प्रसिद्धैर्भूषितैः । 'प्रसिद्धौ ख्यातभूषितौ' इत्यमरः । अलकैरुप- लक्षिता तस्या गौर्याः आननश्रीर्लग्नद्विरेफं पद्म समेघलेखं मेघरेखायुक्तं शशिनो बिम्बं च परिभूय तिरस्कृत्य सादृश्यमुपमा तस्य कथोक्तिस्तस्याः प्रसङ्गं प्रसक्ति सादृश्यं वाङ्मात्रप्रसक्तमपि चिच्छेदाभिनत् , प्रसक्तयोः पद्मचन्द्रयोः परिभूत- स्वादन्यत्र चाप्रसङ्गादित्यर्थः । अत्र पूर्वार्धवाक्यार्थस्य सादृश्यकथाच्छेदं प्रति हेतुत्वेनोपन्यासात्काव्यलिङ्गमलंकारः । लक्षणं तूक्तम् ॥ १६ ॥

 कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपॅनितान्तगौरे ।
 तस्याः कपोले परभागलाभाद्बबन्ध चक्षूंषि यवप्ररोहः ॥ १७ ॥

 कर्णेति ॥ तस्या गौर्याः कर्णेऽर्पितो निक्षिप्तो यवप्ररोहो यवाङ्कुरो लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन रूक्षे विशदे, उद्वर्तिते इत्यर्थः । 'कषायो रसभेदे स्यादङ्गरागे विलेपने' इति विश्वः । गोरोचनायाः क्षेपेण विन्यासेन नितान्तगौरेऽत्यन्तारुणे। 'गौरः श्वेतेऽरुगे पीते' इति विश्वः। कपोले गण्डस्थले परभागलाभाद्वर्णोत्कर्षप्राप्तेश्चक्षूंषि, द्रष्टणामिति शेषः । बबन्ध जहार, भाच-


पाठा०-१ आसक्त. २ अस्याः. ३ विभङ्गमङ्गम् . ४ लीन. ५ भेद. कर्षेत्यथ्ः । गोरोचनारुणे गण्डस्थले पाण्डुरो यवाङ्कुरो विजातीयवर्णसंनिधाना- ल्लब्धवर्णोत्कर्षः संश्चक्षुराकर्षकोऽभूदिति भावः ॥ १७ ॥

 रेखाविभक्तः सुविभक्तगात्र्याः किचिन्मधूच्छिष्टविमृष्टरागः ।
 कामप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्यफलोऽधरोष्ठः ॥१८॥

 रेखेति ॥ सुविभक्तगात्र्याः सुसंश्लिष्टावयवायाः पार्वत्या रेखया मध्यगतया विभक्तः सुश्लिष्टः किंचिदीषन्मधूच्छिष्टेन सिक्थकेन विमृष्टो विशेषेण निर्मली- कृतो रागो यस्य स तथोक्तः । 'मधूच्छिष्टं तु सिक्थकम्' इति, 'निर्णिक्तं शोधितं मृष्टम्' इति चामरः । अन्यत्रोक्तम् -'अलौहित्यापगमायाधरेपु सिक्थकलेपः क्रियते' । आसन्नं संनिहितं लावण्यफलं सौन्दर्यप्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तोऽधरोष्ठः स्फुरितैर्भाविशुभशंसिभिः स्पन्दैः कामप्यनिर्वाच्यामभिख्या शोभामपुष्यत्पुपोष । 'अभिख्या नामशोभयोः' इत्यमरः ॥ १८ ॥

 पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
 सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जधान ॥१९॥

 पत्युरिति ॥ संख्या कर्त्र्या । चरणौ रञ्जयित्वा लाक्षारसातौ कृत्वा । कृता- शीरिति करोतिना समानकर्तृकत्वम् । अनेन चरणेन । रञ्जने द्वयोरपि नियमात् 'चरणौ' इत्युक्त्वाप्यौचित्यात्ताडनविधावेकतरपरामर्श इत्याहुः । पत्युरीश्वरस्य शिरश्चन्द्रकलाम्, सुरतविशेष इति शेषः । 'स्पृश ताडय' इति परिहासपूर्व कृताशी प्रयुक्ताशीर्वादा सा पार्वती तां सखीं माल्येन मालया। 'माल्यं माला- सजौ' इत्यमरः । निर्वचनं यथा तथा तूष्णीमित्यर्थः । जघान ताडयामास । निर्वचनमित्यनेन विहृताख्यः शृङ्गारानुभाव उक्तः । तदुक्तम्-'प्राप्तकालं तु यद्ब्रूयात्कुर्याद्वा विहृतं हि तत्' इति ॥ १९ ॥

 तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर्नयने निरीक्ष्य ।
 न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् ॥२०॥

 तस्या इति ॥ प्रसाधिकाभिरलंकर्त्रीभिः सुजाते सम्यगुत्पन्ने उत्पलपत्रे इव कान्ते रम्ये तस्या नयने निरीक्ष्य कालाञ्जनमञ्जनविशेषश्चक्षुषोः कान्तिविशेष-


पाठा०-१ च विभक्त, २ विसृष्ट. ३ समीक्ष्य. बुद्धया शोभातिशयो भविष्यतीति बुद्ध्येत्यर्थः, नोपात्तं न गृहीतं किंतु मङ्गलं शुभमिति हेतोरुपात्तम् । निसर्गसुभगस्य किमाहार्यकाडम्बरेणेति भावः ॥२०॥

 सा संभवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा ।
 सरिद्विहंगैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥ २१ ॥

 सेति । आमुच्यमानाभरणा निबध्यमानाभरणा सा गौरी संभवद्भिरुत्पद्य- मानैः कुसुमैर्लतेव । अनेन पद्मरागेन्द्रनीलादीन्याभरणानि सूचितानि, लताकुसु. मानां नानावर्णत्वात् । उद्यद्भिरुदयं गच्छद्भिर्ज्योतिर्मिरुडुभिस्त्रियामा रात्रिरिव । अनेन मौक्तिकानि कथितानि । लीयमानैराश्रयद्भिः, निपीदद्भिरित्यर्थः । विहंग- श्चक्रवाकैः सरिदिव । अनेन सुवर्णाभरणानि सूचितानि । विहंगाश्च तत्सूचनाय चक्रवाका अभिमताः । चकासे रेजे । अत्र लताकुसुमादीनां सहजसबन्धिनामु- पमानत्वेनोपादानादाहार्यकमपि तस्याः सहजमिवाशोभतेति भावः॥ २१ ॥

 आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।
 हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेशः॥२२॥

 आत्मानमिति ॥ किंचेति चार्थः । गौरी शोभमानमात्मानं निजशरीरमा- दर्शबिम्बे दर्पणमण्डले । 'दर्पणे मुकुरादशौं' इत्यमरः। स्तिमितायताक्ष्यादरा- न्निश्चलायतलोचना सत्यालोक्य हरोपयाने हरप्राप्तौ त्वरिता व्यग्रा बभूव । स्त्रीणां वेशो नेपथ्यं प्रियस्य भर्तुरालोको दर्शनं फलं प्रयोजनं यस्य स तथोक्तो हि । अन्यथारण्यचन्द्रिका स्यादिति भावः । अनेन कालाक्षमत्वलक्षणमौत्सुक्य- मुक्तमित्यनुसंधेयम् ॥ २२॥

 अथाङ्गुलिभ्यां हरितालमार्द्रं माङ्गल्यमादाय मनःशिलां च ।
 कर्णावसक्तामलदन्तपत्रं माता तदीय मुखमुन्नमय्य ।। २३॥

 अथेति ॥ अथ प्रसाधनानन्तरं माता मेनका माङ्गल्यं मङ्गलार्थमार्द्रं द्रवं हरितालं वर्णद्रव्यविशेषं मनःशिलां धातुविशेषं चाङ्गुलिभ्यां तर्जनीमध्यमा- भ्यामादाय कर्णयोरवसक्ते लग्ने अमले दन्तपत्रे यस्य तत्तथोक्तं तस्याः पार्वत्याः इदं तदीयं मुखमुन्नमय्य । 'विवाहदीक्षातिलकं चकार' (७।२४) इत्युत्तर- श्लोकेनान्वयः ॥ २३ ॥


पाठा०-१ अङ्गुलीभ्याम् . २ मङ्गल्यम्.

 उमास्तनोद्भेदमनुप्रवृद्धी मनोरथो यः प्रथमं बभूव ।
 तमेव मेना दुहितुः कथंचिद्विवाहदीक्षातिलकं चकार ॥ २४ ॥

 उमेति ॥ उमायाः स्तनोद्नभेदमनु, स्तनोदयमारभ्येत्यर्थः । प्रवृद्धो वृद्धिं गतः, प्रागेवोत्पन्न इति भावः । यो मनोरथो वाञ्छा । 'वाञ्छा लिप्सा मनो- रथः' इत्यमरः । प्रथमं मनोरथान्तरात्प्राक्, अयमेव प्रथमो मनोरथ इत्यर्थः । बभूव । मेना दुहितुस्तमेव मनोरथभूतमेव । तद्विषये तदुपचारः। विवाह- दीक्षायां विवाहकृत्ये निलकं कथंचित्कृच्छ्रेण चकार, आनन्दबाष्पान्धतयेति शेषः । विवाहानन्तरभावित्वादन्येषामयमेव प्रथमो मनोरथ इति भावः ॥ युग्मकम् ॥ २४ ॥

 बबन्ध चास्त्राकुलद्रुष्टिरस्या: स्थानान्तरे कल्पितसंनिवेशम् ।
 धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णामयं कौतुकहस्तसूत्रम् ॥ २५ ॥

 बबन्धेति ॥ अस्याः पार्वत्या अस्त्रैरानन्दबाप्पराकुलदृष्टिरत एव स्थानान्तरे कल्पितः संनिवेशो निक्षेपो यस्य तत्, स्वस्थानादन्यत्र स्थापितमित्यर्थः । अत एव धात्र्या उपमातुरङ्गुलीभिः प्रतिसार्यमाणं स्वस्थानं प्राप्यमाणमूर्णामयं मेषादिलोमनिर्मितम् । 'ऊर्णा मेषादिलोन्नि स्यात्' इत्यमरः । कौतुकहस्तसूत्रं मङ्गलहस्तसूत्रम् । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः। बबन्ध च, मेनेति शेषः । पूर्वोक्ततिलकक्रियासमुच्चयार्थश्चकारः ॥ २५ ॥

 क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्रियामा ।
 नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥२६॥

 क्षीरोदेति ॥ नवं नूतनं क्षौमं दुकूलं निवस्त आच्छादयतीति नवक्षौम- निवासिनी । वस्तेराच्छादनार्थाण्णिनिः । तथा नवं दर्पणमादधाना बिभ्रती सा गौरी सफेनपुञ्जा सडिण्डीरपझ्क्तिः । क्षीरमुदकं यस्य स क्षीरोदः क्षीरसमुद्रः । 'उदकस्योदः संज्ञायाम्' (पा. ६।३१५७) इत्युदादेशः। तस्य वेला तीरभूमिरिव । 'वेला काले च जलधेस्तीरे नीरविकारयोः' इति विश्वः । पर्याप्तचन्द्रा पूर्णचन्द्रा शरत्रियामा शरद्रात्रिरिव भूयो भूयिष्ठं बभौ चकासे ॥ २६ ॥

 तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता।
 अकारयत्कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥२७॥

 तामिति ॥ कारयितव्येषु दक्षा कारयित्री, कर्मोपदेशकुशलेत्यर्थः । माता

मेना । प्रतितिष्ठत्यस्यामिति प्रतिष्ठा । 'आतश्चोपसर्गे' (पा.३।१।१३६) इति कः। स्त्रियां टाप् । कुलस्य प्रतिष्ठां कुलालम्बनभूताम् , स्थितिकारिणीमित्यर्थः । तां गौरीम् । अर्चिताभ्यः पूजिताभ्यः कुलदेवताभ्यो गृहदेवताभ्यः प्रणमय्य प्रणामं कारयित्वा । ल्यपि लघुपूर्वात्' (पा. ६।४।५६) इति णेरयादेशः। सतीनां पतिव्रतानां पादग्रहणं पादाभिवन्दनं क्रमेणाकारयत्कारयामास । 'हक्रोरन्य- तरस्याम्' (पा. १।४।५३) इत्यणिकर्तुः कर्मत्वम् । अन्यत्र च 'गतिबुद्धि-' (पा. १|४|५२) इत्यादिना नमेरकर्मकन्वादणिकर्तुः कर्मत्वम् ॥ २७ ॥

 अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा ।
 तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिपोऽपि ॥२८॥

 अखण्डितमिति ॥ नम्रा प्रणतोमा ताभिः सतीभिः पत्युः शिवस्याखण्डित- मक्षतं प्रेम लभस्व प्रामुहीत्युच्यते स्म अभिहिता । 'लट् स्मे' (पा. ३।२।११८) इति भूतार्थे लट् । तस्य हरस्य । अर्धं शरीरस्यार्धशरीरम् । 'अर्धं नपुंसकम्' (पा. २।२।२) इति समासः । तद्भजतीत्यर्धशरीरभाजा तया गौर्या तु स्निग्धजना- शिषो बन्धुजनाशीर्वादा अपि पश्चात्कृता अधरीकृताः, ततोऽप्यधिकफललाभा- दिति भावः ॥ २८॥

 इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा ।
 सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥२९॥

 इच्छेति ॥ कृती कुशलः । सभायां साधुः सभ्यः । 'सभाया यः' (पा. ४।४।१०५) इति यप्रत्ययः । अद्रिर्हिमवान् । इच्छाविभूत्योरुत्साहैश्वर्ययोरनु- रूपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्यं कर्तव्यमशेषयित्वाऽशेषं निःशेषं कृत्वा । समाप्येत्यर्थः । अशेषशब्दात् 'तत्करोति' (ग० २०४) इति ण्यन्तात्क्त्वा- प्रत्ययः, सुहृदास्थितायां बन्धुजनाक्रान्तायां सभायां संसदि वृषाङ्कस्य हरस्या- गमनं प्रतीक्षत इति तथोक्तः सन् । 'कर्मण्यण' (पा. ३।२।१) इत्यण् । तस्थौ स्थितः ॥ २९॥


पाठा०-१ असौ. २ लाभात्. ३ बन्धुजनं. ४ आगमनं प्रतीक्ष्य.

 तावद्भवस्यापि कुवेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।
 प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य ॥ ३० ॥

 तावदिति ॥ तावत् , यावद्गौरीप्रसाधनं क्रियते तत्काल एवेत्यर्थः । कुबेर- शैले कैलासे । तदेव पूर्वं तत्पूर्वं तच्च तत्पाणिग्रहणं तस्यानुरूपं प्रसाधनमलंकार- सामग्री आदृताभिः सादराभिः । कर्तरि क्तः। मातृभिर्ब्राह्मीप्रभृतिभिः सप्त- मातृकाभिः। पुरं शास्तीति पुरशासनस्तस्य पुरशासनस्य । कर्तरि ल्युट् । भवस्यापि पुरस्तादग्ने न्यस्तं निक्षिप्तम् ॥ ३० ॥

 तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण ।
 स एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ॥ ३१ ॥

 तदिति ॥ ईश्वरेण शिवेन सा मङ्गलमण्डनश्रीः शुभप्रसाधनसंपत् तद्गौरवा- त्तासु मातृप्वादरात्केवलं पस्पृशे स्पृष्टैव, न तु दध्र इत्यवधारणार्थः 'केवल'- शब्दः । 'केवलं चावधारणे' इति शाश्वतः । किंतु तस्य विभोर्देवस्य स एव वेषः स्वाभाविको भस्मकपालादिवेश एव परिणेतुर्लोक उद्बोदुरिष्टमपेक्षितं भावान्तरं रूपान्तरं प्रपेदे, अङ्गरागादिरूपतां प्रापेत्यर्थः ॥ ३१ ॥

 भावान्तरापत्तिमेवाह-

 बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः ।
 उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ ३२ ॥

 वभूवेति ॥ भस्मैव सिताङ्गरागः शुभ्रगन्धानुलेपनं बभूव । कपालमेवामलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव । गजाजिनस्यैवोपान्तभागेष्वञ्चलप्र- देशेषु रोचनैवाङ्को हंसादिचिह्न यस्य स तथोक्तो दुकूलभावः पट्टांशुकत्वं च बभूव, भस्मादिकमेवाङ्गरागादिभावं प्राप्तमित्यर्थः ॥ ३२ ॥

 शड़खान्तरद्योति विलोचनं यदन्तर्निविष्टामलपिङ्गतारम् ।
 सांनिध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः॥३३॥

 शङ्खेति ॥ शङ्खान्तरे ललाटास्थिमध्ये द्योतत इति तथोक्तम् । 'शङ्खो निधौ


पाठा०-१वरस्य, २ त्स्मर. ३ ख एव. ४ कृताङ्गरागः.५ भावेषु. ६ नेत्रान्तर, ७अनल. ललाटास्ध्नि' इत्यमरः । अन्तर्निविष्टा मध्यगताऽमला पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । 'तारकाक्ष्णः कनीनिका' इत्यमरः। यद्विलोचनं तद्विलोचनमेव हरितालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रियायास्तिलकरचनायाः संनि- धिरेव सांनिध्यं तदेव पक्षः साध्यम् । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति यादवः । तस्मिन्सांनिध्यपक्षे जातम् , प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम् ॥ ३३ ॥

 यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् ।
 शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥३४॥

 यथेति ॥ यथाप्रदेशं प्रदेशान्कोष्ठादीननतिकम्याभरणान्तरस्वं कङ्कणाद्या- भरणविशेषत्वं करिष्यतां संपादयिष्यतां भुजगेश्वराणां शरीरमानं शरीरमेव विकृतिं रूपान्तरं प्रपेदे । फणरत्नशोभास्तथैव तस्थुः, तासां तथैवोपादेयत्वा- दिति भावः ॥ ३४ ॥

 दिवापि निष्ठयूतमरीचिभासा वाल्यादनाविष्कृतलाञ्छनेन ।
 चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ॥ ३५ ॥

 दिवापीति ॥ दिवा दिनेऽपि निष्ठयूता उद्गीर्णा मरीचिभासः किरणकान्तयो यस्य तेन बाल्यादल्पतनुत्वादनाविष्कृतलाञ्छनेन, अदृश्यमानकलङ्केनेत्यर्थः । चन्द्रेण नित्यं सर्वदा प्रतिभिन्नमौलेः संगतमुकुटस्य हरस्य चूडामणेग्रहणं स्वीकारः किं किमर्थम् ? । चन्द्रचूडामणेर्देवस्य किमन्यैश्चैडामणिभिरिति भावः ॥ ३५ ॥

 इत्यद्भुतैकप्रभवः प्रभावात्प्रसिद्धनेपथ्यविधेर्विधाता ।
 आत्मानमासन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥३६॥

 इतीति ॥ इतीत्थं प्रभावात्सामर्थ्यात्प्रसिद्धस्य नेपथ्यविधेर्वेशविधानस्य विधाता निर्माता । अत एवाद्भुतानामाश्चर्याणामेकप्रभवो मुख्यनिधिः स देव आसन्नगणेन पार्श्वस्थवर्गेण, प्रमथगणेनेत्यर्थः । उपनीत आनीते खड्गे निषक्त- प्रतिम संक्रान्तप्रतिबिम्बमात्मानं ददर्श । वीरपुरुषाणामेष आचारः ॥३६॥

 स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
 तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥३७॥


पाठा०-१ अत्यद्भुत. २ नेपथ्यांवधिः.  स इति ॥ स देवो नन्दिभुजावलम्बी नन्दिकेश्वरभुजावलम्बनः सन् , शार्दूलचर्मणा व्याघ्रचर्मणाऽन्तरितमाच्छादितमुरु विशालं पृष्ठं यस्य तं तथोक्तम् । 'शार्दूलद्वीपिनो व्याने' इत्यमरः । तस्मिन्देवे भक्त्या संक्षिप्तं संकोचितं बृह- त्प्रमाणं यस्य तं गोपतिं वृषभं कैलासमिवारुह्य प्रतस्थे चचाल ॥ ३७ ॥

 तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।
 मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिखान्तरीक्षम् ॥ ३८ ॥

 तमिति ॥ तं देवमनुवजन्त्योऽनुगच्छन्त्यः स्ववाहनानां क्षोभेण प्रकम्पेण चलावतंसाश्चलकुण्डला मातरः सप्तमातृकाः प्रभामण्डलान्येव रेणवः परागा- स्तैगौरैररुणैः । 'गौरोऽरुणे सिते पीते' इति यादवः । मुखैरन्तरीक्षमाकाशं पद्मा- करमिव चक्रुः ॥ ३८ ॥

 तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे ।
 बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतहदेव ॥३९॥

 तासामिति ॥ कनकप्रभागां सुवर्णवर्णानां तासां मातॄणां पश्चात्कपाला- भरणा, सितकपालालंकारेत्यर्थः । काली महाकाली देवी च । कृष्णवर्णत्वसूचनाय कालीसंज्ञयाभिधानम् । बलाकिनी बलाकावती । ब्रीह्यादित्वादिनिः । दूरं यथा तथा पुरोऽग्रे क्षिप्ताः प्रसारिताः शतहदा विद्युतो यस्याः सा तथोक्का नीलपयोद- राजी कालमेघपङ्क्तिरिव चकासे ॥ ३९ ॥

 ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः ।
 विमानशृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥ ४० ॥

 तत इति ॥ ततोऽनन्तरं शूलभृतः शिवस्य पुरो गच्छन्तीति पुरोगैरग्रेसरैः । 'अन्यत्रापि दृश्यत इति वक्तव्यम्' (वा. २०१८) इति गमेर्डप्रत्ययः । गणैः प्रमथैरुदीरित उत्पादितो मङ्गलतूर्यघोषो मङ्गलवाद्यध्वनिर्विमानशृङ्गाण्यवगाहमानः सन् सुरेभ्यो विमानस्थेभ्यः सेवावसरं शशंस। सुराः प्रस्थानतूर्यध्वनिमाकर्ण्य 'अयमेव नः सेवावसरः' इत्याजग्मुरित्यर्थः ॥ ४०॥


पाठा०-१ नाक्षोभ. २ पद्माकरीचक्रुः. ३ अन्तरिक्षम्. ४ राजिः,  सुराणां सेवाप्रकारमेवाह-

 उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
 स तद्रुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥४१॥

 उपादद इति ॥ तस्य हरस्य सहस्ररश्मिः सूर्यस्त्वष्ट्रा विश्वकर्मणा निर्मितं नव- मातपत्रमुपाददे। धृतवानित्यर्थः, उत्प्रेक्षते-तढुकूलात्तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलादविदूरमौलिः, तद्रुकूलस्यासन्नमौलिरित्यर्थः । स हर उत्तमाङ्गे शिरसि । 'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः । पतन्ती गङ्गा यस्य स पतद्गङ्ग इव बभौ। तद्रुकूलादित्यत्र 'दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्' (पा. २।३।३४) इति दूरार्थयोगे विकल्पेन पञ्चमी । नाथेनोक्तम्-'अन्यारात्-' (पा. २।३।२९) इत्यत्र 'आरात्'- शब्दस्यार्थग्रहणार्थत्वात्पञ्चमीति,-तदनाकरम् ; किंचास्य शास्त्रोक्तविकल्पापवाद- त्वात् 'दूरं ग्रामस्य' इत्यादिषष्ठीप्रयोगो दूरापास्तः स्यादित्युपेक्षणीयमेव ॥ ४१ ॥

 मृते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् ।
 समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ॥४२॥

 मूर्ते इति ॥ गङ्गा च यमुना च गङ्गायमुने मूर्ते विग्रहधारिण्यौ सचामरे चामरसहिते सत्यौ । अत एव समुद्रगा नदी तस्या रूपं स्वरूपं तस्य विपर्यये. ऽप्यभावेऽपि हंसपातेन हंसचारेण सह वर्तेते इति सहंसपाते इव । 'तेन सहेति तुल्ययोगे' (पा. २।२।२८) इति बहुव्रीहिः । 'वोपसर्जनस्य' (पा. ६।३।८२) इति सभावः । लक्ष्यमाणे दृश्यमाने सत्यौ तदानी विवाहसमये देवमसेविषाताम- भजताम् । सेवतेलुङ् । गङ्गायमुने चामरग्राहिण्यो देवमुपतस्थतुरित्यर्थः ॥ ४२ ॥

 तमभ्यगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।
 जयेति वाचा महिमानमस्य संवर्धयन्तौ हविपेव वह्निम् ॥४३॥

 तमिति ॥ प्रथम आद्यो विधाता चतुर्मुखस्तथा श्रीवत्सलक्ष्मा श्रीवत्साङ्कः पुरुषो विष्णुश्च साक्षात्तं देवमभ्यगच्छत् संमुखमाययौ । किं कुर्वन्तौ ? नयेति


पाठा०-१ वहन्गाङ्गमिव प्रवाहं. २ सहस्रपाते. ३ एव. टिप्प०-1 'अभ्यगच्छत्' इत्येकवचनप्रयोगविरोधात् केचित्त्वत्र 'संवर्धयन्तौ' इति दिवचनप्रयोगोऽयुक्त इत्याहुः,-तत्त्वयुक्तम् ; भयकृतपरिचर्याप्रकारवाचित्वाद्वाक्यस्यास्य द्विवचनप्रयोगोपपत्तेः, अर्थादभूतामिति क्रियान्तरान्वयस्य सिद्धत्वाच्चेत्यवसेयम् । वाचा जयशब्देनास्येश्वरस्य महिमानं महत्त्वं हविषा वह्निमिव संवर्धयन्तौ वृद्धिं गमयन्तौ ॥ ४३ ॥

  न चानुचितमेतदुक्तमित्याह--

 एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् ।
 विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥४४॥

 एकैवेति ॥ सैकैव मूर्तिस्त्रिधा ब्रह्मविष्णुशिवात्मकत्वेन विभिदे । औपाधि- कोऽयं भेदो न वास्तविक इत्यर्थः । अत एवैषां प्रयाणां प्रथमावरयोर्भावः प्रथमावरत्वं ज्येष्ठकनिष्ठभावः । सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा भवन्ति कनिष्ठाश्चेत्यर्थः । एतदेव विवृणोति-कदाचिद्विष्णोर्हर आद्यः । कदाचित्तस्य हरस्य हरिराद्यः । कदाचित्तयोर्हरिहरयोर्वेधा आद्य: । कदाचित्तौ हरिहरावपि धातुः स्रष्टुराद्यौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम् ॥ ४४ ॥

 तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।
 दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ ४५ ॥

 तमिति ॥ पुरुहूतमुख्या इन्द्रादयो लोकपालाः श्रीलक्षणानामैश्वर्यचिह्नानां छत्रचामरवाहनानामुत्सर्गेण त्यागेन विनीतवेषा अनुनीतवेषाः सन्तः । तथा दृष्टिप्रदाने दर्शननिमित्ते, दर्शनप्रदानार्थमित्यर्थः । कृतनन्दिसंज्ञाः कृता नन्दिनः प्रतीहारस्य संज्ञा संकेतो यैस्तादृशाः । मम दर्शनं दापयेति नन्दिनं प्रति कृत- हस्तादिसूचना इत्यर्थः । 'संज्ञा स्याञ्चेतना नाम हस्ताद्यैश्चार्थसूचना' इत्यमरः । तद्दर्शितास्तेन नन्दिना दर्शिता 'अयमिन्द्रः प्रणमत्ययं चन्द्रः' इत्याधुक्तिपूर्वकं निवेदिताः प्राञ्जलयः कृताञ्जलयः सन्तः तं भवं प्रणेमुः प्रणताः ॥ ४५ ॥

 कम्पेन मूर्ध्न्ः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन ।
 ।आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् ॥ ४६॥

 कम्पेनेति ॥ स देवः शतपत्रयोनिं चतुर्मुखं मूर्ध्नः कम्पेन तथा हरिं वाचा संभाषणेन वृत्रं हतवन्तं वृत्रहणमिन्द्रम् । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' (पा. ३।२१८७) इति क्विप्। स्मितेन मन्दहासेनाशेषान्सुरानालोकमात्रेण दृष्टिमात्रेणेत्थं यथाप्रधानं यथार्हं संभावयामास ॥ १६ ॥


पाठा०~-१ असौ. २ ईडयां.

 तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह ।
 विवाहयज्ञे विततेत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥४७॥

 तस्मा इति ॥ तस्मै शिवाय सप्तर्षिभिः । 'दिक्संख्ये संज्ञायाम्' (पा. २।१/५०) इति समासः। पुरस्तादग्रे 'जय' इत्याशीः ससृजे प्रयुक्ता तान्सप्तर्षीन्स्मितपूर्वमाह-किमिति । अत्र वितते विस्तृते प्रवर्तिते विवाह एवं यज्ञस्तस्मिन्यूयं मया पूर्वमेव वृताःप्रार्थिता अध्वर्यवो ऋत्विज इति विशेषवाचिना सामान्यमुक्तम् ॥ ४७ ॥

 विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।
 अध्वानमध्वान्तविकारलङ्घयस्ततार ताराधिपखण्डधारी ॥ ४८ ॥

 विश्वावस्विति ॥ विश्वावसुर्नाम कश्चिद्गन्धर्वो देवगायकस्तत्प्राग्रहरैस्तत्प्रमुखैः प्रवीणैः प्रकृष्टवीणनिपुणैर्वा । 'प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः' इत्यमरः । त्रयाणां पुराणां समाहारस्त्रिपुरम् । 'तद्धितार्थोत्तरपद-' (पा. २।१।५) इत्यादिना समाहारसमासः। 'स नपुंसकम्' (पा.२।४।१७) इति सूत्रवृत्तौ 'पात्रादिभ्यः प्रतिषेधो वक्तव्यः' (वा. १५५९) इति स्त्रीलिङ्गान्ततानिषेधः । त्रिपुरस्य संबन्ध्य- वदानं पूर्ववृत्तं कर्म विजयरूपं त्रिपुरावदानं तत्संगीयमानं स्तूयमानं यस्य स तथोक्तः । 'अवदानं कर्म वृत्तम्' इत्यमरः। ध्वान्तं तमः, मोह इति यावत् । तद्विकारेण रागादिना लङ्घयोऽभिभवनीयो न भवतीत्यध्वान्तविकारलङ्घयः, विवाहादिकं तु तस्य लीलेत्यर्थः । ताराधिपखण्डधारी चन्द्रशेखरः शंभुरध्वानं मार्गं ततारात्यगच्छत् ॥ ४८ ॥

 खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिंकिणीकः ।
 तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ॥४९॥

 ख इति ॥ ख आकाशे खेलं सुन्दरं गच्छतीति खेलगामी । सशब्दाः शब्दायमानाश्चामीकरकिंकिण्यः काञ्चनक्षुद्रघण्टिका यस्य स तथोक्तः । 'किंकिणी क्षुद्रघण्टिका' इत्यमरः । 'नवृतश्च' (पा. ५।४।१५३) इति क्यप् । वाह्यतेऽनेनेति वाहो वृषभः । करणे घञ् । प्रोतघने स्यूतमेघे अत एव तटाभि- घातादोधोभेदालग्नपङ्के श्लिष्टकर्दमे इव स्थिते विषाणे शृङ्गे मुहुर्धन्वंतं हर- मुवाह वहति स्म ॥ ४९ ॥

११ कु. सं.

 स प्रापदप्राप्तपराभियोग नगेन्द्रगुप्तं नगरं मुहूर्तात् ।
 पुरोविलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव 1कृष्यमाणः ॥ ५० ॥

 स इति ॥ स वाहः, न प्राप्तः पराभियोगः शत्रुसमाक्रान्तिर्यस्य तत्तथोक्तं नगेन्द्रेण हिमवता गुप्तं रक्षितं नगरमोषधिप्रस्थं पुरोऽग्रे विलग्नैः संक्रान्तैर्हरदृष्टि- पातैः सुवर्णसूत्रैः कृष्यमाण इव मुहूर्तात्प्रापत् , अन्यथा कथं दूरस्याशुप्राप्तिः स्यादिति भावः । पुरः प्रसृता हरदृष्टयः पिङ्गलवर्णत्वात्सौवर्णानि वृषाकर्षण- दामानीवालक्ष्यन्तेत्यर्थः ॥ ५० ॥

 तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः ।
 स्व2बाणचिह्नादवतीर्य 3मार्गादासन्नभूपृष्ठमियाय देवः ।। ५१ ॥

 तस्येति ॥ तस्य पुरस्योपकण्ठेऽन्तिके घनो मेघ इव नीलः कण्ठो यस्य स घननीलकण्ठो देवः कुतूहलाद्दर्शनौत्सुक्यादुन्मुखैः पौरैर्दृष्टः सन् । स्वबाण. चिह्नात्रिपुरविजयसमये स्वबाणाङ्कान्मार्गात्कुतश्चिदाकाशदेशादवतीर्यावरुह्यासन्न- भूपृष्ठं निकटभूतलमियाय प्राप ॥ ५ ॥

 तमृद्धिमद्वन्धुजनाधिरूढैर्वृन्दैर्गजानां गिरिचक्रवती ।
 प्रत्युञ्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः ।। ५२ ॥

 तमिति ॥ आगमनेन शिवागमनेन प्रतीतो हृष्टो गिरिचक्रवर्ती पर्वताधिराजो हिमवानृद्धिमता वस्त्रालंकारादिसमृद्धेन बन्धुजनेनाधिरूढैः । अनेन बन्धूनां समस्वाम्यं सूचितम् । गजानां वृन्दैः प्रफुल्ला विकसितकुसुमा वृक्षा येषु तैः स्वैः स्वकीयैः कटकैर्नितम्बैरिव तं हरं प्रत्युजगामाभिययौ । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः ॥ ५२ ॥

 वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने ।
 समीयतुर्दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवोधौ ॥ ५३॥

 वर्गाविति ॥ दूरविसर्पी दूरगामी घोषो ययोस्तौ देवाश्च महीधराश्च तेषां देवमहीधराणामुभौ वर्गावुद्धटितापिधानेऽपनीतकवाटे पुरस्य द्वारे भिन्नो दीर्णं एकसेतुर्ययोस्तौ भिन्नैकसेतू पयसामोधौ प्रवाहाविव समीयतुः संगतौ ॥ ५३ ॥

पाठा०-१ कृष्यमाणम्. २ स्ववाहवाहात.. ३ वाहात्.

 ह्रीमानभूभूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।
 पूर्व महिम्ना स हि तस्य 1दूरमावर्जितं नात्मशिरो विवेद ॥५४॥

 ह्रीमानिति ।। भूमिधरो हिमवान् । यो लोकास्त्रैलोक्यम् । चातुर्वर्णादि- त्वात्ष्यञ्प्रत्ययः। तस्य वन्द्येन नमस्कार्येण हरेण कृतप्रणामः सन् ।'ऋविक्पितृव्य- श्वशुरमातुलानां यवीयसाम् । प्रवयाः प्रथमं कुर्यात्प्रत्युत्थायाभिवादनम् ॥' इति स्मरणात् । हीमानभूत् , महादेवं प्रति स्वयमल्पत्वात्संकोचं प्रापेत्यर्थः । ननु विदितेश्वरमहिम्नः स्वयं प्रागेव प्रणतस्य जामातुराचारमात्रस्वीकारे कः संकोच इति शङ्कां निरस्यति-पूर्वमिति ॥ हि यस्मात्स हिमवान्पूर्वं प्रागेव तस्येश्वरस्य महिम्ना सामर्थ्येन दूरमत्यन्तमावर्जितं नमितमात्मशिरो न विवेद । सत्यम् ; स्वयं प्रणतत्वानुसंधानेन संकोचः, तदनुसंधानं त्वौत्सुक्यान्नास्तीति भावः॥ ५४॥

 स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रसरतामुपेत्य |
 प्रावेशयन्मन्दिरमृद्धमेन2मागुल्फकीर्णापणमार्गपुष्पम् ।। ५५ ।।

 स इति ॥ प्रीतियोगात्संतोषसंबन्धाद्विकसन्मुखश्रीर्विकसन्ती मुखश्रीर्यस्य स तथोक्तः स हिमवान् । जायां मिमीते जानातीति जामातुर्वरस्य । पृषोदरा- दिस्वात्साधुः । 'जामाता दुहितुः पतिः' इत्यमरः । अग्रेसरतां पुरोगामित्व- मुपेत्यैनं देवमागुल्फं पादग्रन्थिपर्यन्तं कीर्णानि पर्यस्तान्यापणमार्गेषु पण्य- वीथिकासु पुष्पाणि यस्मिंस्तदागुल्फकीर्णापणमार्गपुष्पम् । 'तद्गन्थी धुटिके गुल्फौ इत्यमरः । ऋद्धं समृद्धं मन्दिरं नगरम् । 'मन्दिरं नगरेऽगारे मन्दिरो मकरालये' इति विश्वः । प्रावेशयत् ॥ ५५ ॥

 तस्मिन्मुहूर्ते पुरसुन्दरीणामीशानसंदर्शनलालसानाम् ।
 प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ५६

 तस्मिन्निति ॥ तस्मिन्मुहूर्ते हरपुरप्रवेशसमय ईशानस्य संदर्शने लालसानां लोलुपानाम् । 'लोलुपे लोलुभो लोलो लालसो लम्पटश्च सः' इति यादवः । पुरसुन्दरीणां प्रासादमालास्वित्थं वक्ष्यमाणप्रकारेण त्यक्तान्यकार्याणि विसृष्ट- - पाठा०-१दूरात्. २ माङ्गल्य. कार्यान्तराणि विचेष्टितानि व्यापाराः । 'नपुंसके भावे क्तः' (पा.३।३।११४) इति कः । बभूवुरासन्1 ॥ ५६ ॥

 तान्येवाह पञ्चभिः श्लोकैः-

 आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
 बन्धुं न संभावित एव तावत्करेण रुद्धोऽपि 1च केशपाशः॥५७॥

 आलोकमार्गमिति ॥ आलोकमार्गं दर्शनपथम् , गवाक्षमित्यर्थः। सहसा व्रजन्त्या गच्छन्त्या कयाचिदुद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनोऽत एव वान्त- माल्य उद्गीर्णमाल्यश्च यः स उद्वेष्टनवान्तमाल्यः करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । तावदालोकनमार्गप्राप्तिपर्यन्तं बन्धु, बन्धनायेत्यर्थः । न संभावितो न स्मृत एव ।। ५७॥

 प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्रवरागमेव ।
 2उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्क्षां पदवीं ततान ।। ५८ ॥

 प्रसाधिकेति ॥ काचित्स्त्री प्रसाधिकयाऽलंकर्त्र्यालम्बितं रञ्जनार्थ धृतं द्रव- रागमेवार्द्रालक्तकमेव । अग्रश्चासौ पादश्चाप्रपादः इति समानाधिकरणसमासः। 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भैदाभेदाभ्याम्' (काव्या. सू. ५।२।२०) इति वामनः।तमाक्षिप्याकृष्योत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती आगवाक्षाद्वाक्ष- पर्यन्तम् । पदद्वयमेतत् । पदवीमलककाङ्कां लाक्षारसचिह्नां चकार ॥ ५८ ॥

 विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा।
 तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥ ५९॥

 विलोचनमिति ॥ अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालङ्कृत्य तद्वञ्चितं तेनाञ्जनेन 2वञ्चितं वर्जितं वामनेत्रं यस्याः सा तथोक्ता सती। तथैव


पाठा०-१ न केशहस्त; हि केशपाशः. २ उन्मृष्ट. टिप्प०-1 अत्र पुरवधूवृत्तवर्णनसम" संभ्रमोपकृतमौत्कण्ठ्यं प्रतिपाद्यते। 2 तच्चोक्तं भोजराजेन-'अदानं च प्रतिश्रुत्य विसंवादनमेव च । कालस्य हरणं चाहुः प्रत्यादानं च वञ्चनम्' इति । तेनैव रूपेण शलाकामञ्जनकूर्चिकां वहन्ती बिभ्रती वातायनसंनिकर्ष गवाक्ष- समीपं ययौ । 'दक्षिण'ग्रहणं संभ्रमायुरक्रमद्योतनार्थनम् । 'सव्यं हि पूर्वं मनुष्या अञ्जते' इति श्रुतेः ॥ ५९॥

 जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
 नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ६॥

 जालान्तरेति ॥ अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमध्यप्रसारितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वस्त्रग्रन्थिम् । 'नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि' इति विश्वः । न बबन्ध नाबध्नात् , किंतु नाभि प्रविष्टाभरणानां अलंकाराणां प्रभा यस्य तेन, प्रभैव नाभेरावरणमभूदिति भावः । हस्तेन वासोऽवलम्ब्य कृत्वा तस्थौ ॥ ६ ॥

 1अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
 कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ६॥

 अर्धाचितेति ॥ सत्वरं सवेगमुत्थितायाः कस्याश्चिदर्धमाचिता मणि- भिर्गुम्फितार्धाचिता दुर्निमिते संभ्रमाद्दुःखेन निक्षिप्ते । 'डुमिञ् प्रक्षेपणे' इति धातोः कर्मणि क्तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गल- द्रत्ना सती रशना मेखला तदानीं तस्मिन्नवसरेऽङ्गुष्ठमूलेऽर्पितं लगितं सूत्रमेव शेषो यस्याः सासीत् ॥ ६१ ॥

 तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
 विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ६२ ॥

 तासामिति ॥ तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्मे येषां तैः विलोलानि नेत्राण्येव भ्रमरा येषु तैर्मुखैर्व्याप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्राभरणा इवासन् कमलालंकृता इव स्थिता इत्यर्थः ।। ६२ ॥

 तावत्पताकाकुलमिन्दुमौलिरुत्तोरणं राजपथं प्रपेदे ।
 प्रासादशृङ्गाणि दिवापि कुर्वञ्ज्योत्स्नाभिषेकद्विगुण3द्युतीनि ६३

पाठा०-१ अर्धाञ्चिता. २ स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया वजन्ती । संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवाक्षम् ॥ ३ छवीनि.  तावदिति ॥ तावत्तस्मिन्नवसर इन्दुमौलिरीश्वरो दिवापि प्रासादशृङ्गाणि ज्योत्स्नाया अभिषेकेण स्त्रपनेन द्विगुणधुतीनि द्विरावृत्तकान्तीनि । 'गुणस्त्वा- वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । कुर्वन् । पताकाभिराकुलं व्याकीर्णमुत्तोरणमुच्छ्रिततोरणं राजपथं प्रपेदे ॥ ६३ ॥

 तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
 तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिख प्रविष्टा ॥६४॥

 तमिति ॥ एक एव दृश्यो दर्शनीयस्तमेकदृश्यं तमीश्वरं नयनैः पिबन्त्यः, अतितृष्णया पश्यन्त्य इत्यर्थः । 'ताः शंकरं दृष्टिभिरापिबन्त्यः' इति वा पाठः । नार्यो विषयान्तराणि ततोऽन्यान्विषयान् , शब्दादीनित्यर्थः । न जग्मुः, न विदुरित्यर्थः । तथा हि-आसां नारीणां शेषेन्द्रियवृत्तिः श्रोत्रादि- प्रवृत्तिः सर्वात्मना स्वरूपकार्त्स्येन चक्षुः प्रविष्टेव, श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु ? अन्यथा स्वस्व विषयाधिगमः किं न स्यादिति भावः ॥ ६४ ॥

 अथ पौराङ्गनावचनान्याह-

 स्थाने तपो दुश्चरमेतदर्थमपर्णया 1पेलवयापि तप्तम् ।
 यादास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम्॥

 स्थान इति ॥ पेलवया कोमलयाप्यपर्णया पार्वत्यैतस्मै शिवायेदमेतदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च' (वा. १२७३) इति विशेष्यनिघ्नत्वम् । दुश्चरं तपस्तप्तं स्थाने युक्तम् । कुतः? या नार्यस्येश्वरस्य दास्यं दासीत्वमपि लभेत सा कृतार्था स्यात् । या अङ्क एवं शय्या तामङ्कशय्यां लभेत सा किमुत ? कृतार्थेति किमु वक्तव्यमित्यर्थः ॥ ६५ ॥

 परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
 अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां 2विफलोऽभविष्यत् ६६

 परस्परेणेति ॥ स्पृहणीयशोभं सर्वैराशास्यमानसौन्दर्यमिदं द्वन्द्व मिथुनम्। 'द्वन्दं रहस्य-' (पा.८/१/१५) इत्यादिना निपातः । परस्परेण नायोजयिष्यच्चेन्न योजयेद्यदि, प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रूपविधाने सौन्दर्यनिर्माणे

पाठा०-१ कोमलया. २ वितथः. यत्नः प्रयासो विफलोऽभविष्यद्भवेत् , एतदनुरूपस्त्रीपुंसान्तराभावादिति भावः। ‘लिङ्निमित्ते लुङ् क्रियातिपत्तौ' (पा.३।३।१३९) इति लृङ ॥ ६६ ॥

 न नूनमारूढरुषा शरीरमनेन दग्धं कुसुमायुधस्य ।
 व्रीडादमुं देवमु1दीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः ॥६७॥

 नेति ॥ आरूढरुषा प्ररूढकोपेनानेन हरेण कुसुमायुधस्य कामस्य शरीरं न दग्धं नूनम् , किंतु कामोऽमुं देवमुदीक्ष्य दृष्ट्वा व्रीडात्सौन्दर्येण 'जितोऽस्मि' इति लज्जया स्वयमेव संन्यस्तदेहस्त्यक्तदेह इति मन्य इत्युत्प्रेक्षा । न स्वयं न्यस्ताकृतेः कोपः संभवतीति भावः ॥ ६७ ॥

 काचिकांचिदाह-

 अनेन संबन्ध2मुपेत्य दिष्टया मनोरथप्रार्थितमीश्वरेण ।
 मूर्धानमालि ! 3क्षितिधारणोच्च4मुच्चैस्तरं वक्ष्यति शैलराजः॥८॥

 अनेनेति ॥ हे आलि सखि ! 'आलिः सखी वयस्या च' इत्यमरः । शैल- राजो हिमवान् । 'दिष्ट्या' इत्यानन्देऽव्ययम् । मनोरथैः प्रार्थितमवरुद्धम् , अभि- लाषविषयीकृतमित्यर्थः । 'प्रार्थना याञ्जावरोधयोः' इत्यभिधानात् । अनेनेश्वरेण संबन्धमुपेत्यावाप्य क्षितिधारणेनोच्चमुन्नतं मूर्धानमुच्चस्तरमुन्नततरम् । उच्चैरित्य- व्ययात्तरप्प्रत्ययः । मूर्ध्नो द्रव्यत्वान्नामुप्रत्ययान्तो निपातः । 'किमेत्तिङ्व्यय- धादाम्वद्रव्यप्रकर्षे' (पा. ५।४।११) इत्यादिनाऽद्रव्यप्रकर्षे तस्य विधानादिति । वक्ष्यति धारयिष्यति । वहतेर्लट् ॥ ६८॥

 इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः ।
 केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयमाससाद ।। ६९ ॥

 इतीति ॥ त्रिनेत्रस्त्रयम्बकः । त्रिनेत्र-त्रिनयनशब्दयोः 'क्षुभ्नादिषु च' (पा. ८।४।३९) इति णत्वाभावः । इतीत्थमोषधिप्रस्थविलासिनीनां संबन्धिनीः श्रोत्रसुखाः श्रवणमधुराः कथा आलापाञ्शृण्वन् केयूरैरङ्गदैश्चूर्णीकृता लाजानां\


पाठा०-१ अवेक्ष्य. २ अवाप्य. ३ क्षितिपालनोच्चम्. ४ उच्चैस्तराम्. ५ वृष्टिः, मुष्टिः. टिप्प०-1 अनेन पुरसुन्दरीणां स्वपक्षभूतस्य मन्मथस्य मारणजनिताया भगवद्विष यिण्या असूयायाः प्रशमो दर्शितः। मुष्टयो यस्मिंस्तं तथोक्तम् । तत्रावकीर्णा आचारलाजा अन्तराल एवाङ्गदैश्चूर्णपेषं पिष्यन्त इति पुरंध्रीजनसंबन्धातिशयोक्तिः । हिमालयस्य हिमवत आलयं भवनमाससाद प्राप॥ ६९॥

 तंत्रावतीर्याच्युतदत्तहस्तः शरद्धनाद्दीधितिमानिवोक्ष्णः ।
 क्रान्तानि पूर्व कमलासनेन 2कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥७॥

 तत्रेति ॥ तत्र हिमवदालयेऽच्युतेन विष्णुना दत्तहस्तो वितीर्णहस्तावलम्बः सन् शरद्धनाच्छरन्मेषात् । शरद्विशेषणान्मेघस्य शुभ्रत्वं गम्यते । दीधितिमान् सूर्य इवोक्ष्णो वृषादवतीर्य कमलासनेन पूर्वमग्रे क्रान्तानि प्रविष्टान्यद्रिपतेः कक्ष्यान्तराणि गेहप्रकोष्ठान्तराणि विवेश। 'कक्ष्या कच्छे वस्त्रायां काङ्क्ष्यां गेहप्रकोष्टके' इति यादवः॥ ७० ॥

 तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्पयश्च ।
 गणाश्च गिर्यालयम3भ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः।।७।।

 तमिति ॥ तमीश्वरमन्वगनुपदम् । अव्ययमेतत् । 'अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्' इत्यमरः । इन्द्रप्रमुखा देवाश्च सप्तर्षयः पूर्वे येषां ते सप्तर्षि- पूर्वाः । 'न बहुव्रीहौ' (पा. १।१।२९) इति सर्वनामसंज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयश्च । 'सन्महत्परमोत्कृष्टाः पूज्यमानैः' (पा. २/१।६१) इति तत्पुरुषः । गणाः प्रमथाश्चोत्तमार्था महाप्रयोजनानि प्रशस्तं प्रकृष्टम् , अमोघ- मित्यर्थः । आरभ्यत इत्यारम्भ उपायस्तमिव गिर्यालयं हिमवन्मन्दिरमभ्य- प्राविशन्नित्यर्थः ॥७॥

 तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्घ्यं मधुमच्च गव्यम् ।
 नवे दुकूले च 4नगोपनीतं प्रत्यग्रहीत्सर्वममत्र5वर्जम् ।। ७२ ॥

 तत्रेति ॥ तत्र हिमवदालय ईश्वरो विष्टरभागासनगतः, उपविष्ट इत्यर्थः । यथावद्यथार्हम् , विधिवदित्यर्थः । सरत्नं रत्नसहितमर्घ्य॑मर्घार्थं जलम् । मधु क्षौद्रमस्मिन्नस्तीति मधुमत् । गवि भवं गव्यं दधि च, मधुपर्कमित्यर्थः । 'दधिमधुनी सर्पिर्वा मध्वलाभे' (१।२४) इत्याश्वलायनगृह्यसूत्रात् । नवे दुकूले चेति सर्व नगोपनीतं हिमवदानीतमादिकं मन्त्रान्वर्जयित्वा मन्त्रवर्जम् । ततो

पाठा०-१ ततः.२ कक्षान्तराणि. ३ अन्वगच्छन्. ४ नगोपनीते. ५ वन्ध्यम्. गच्छन्, नभ्समासः। अमन्नवर्जम् , मन्त्रान्न वर्जयित्वेत्यर्थः । 'द्वितीयायां च' (पा. ३/४/५३) इति णमुल्प्रत्यय इत्याह न्यासकार:-'अनुदात्तं पदमेकवर्जम्' (पा. ६।१/१५८) इत्यत्र । प्रत्यग्रहीत्स्वीकृतवान् ॥ ७२ ॥

 दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोध1दक्षैः ।
 वेला2समीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ।। ७३ ।।

 दुकूलेति ॥ अथ दुकूलवासाः, दुकूलं वसान इत्यर्थः । स हरो विनीतैर- नुद्धतैरवरोधेषु ये दक्षास्तैरवरोधदक्षैर्वधूसमीपं निन्ये नीतः । कथमिव? स्फुटा फेनानां राजिर्यस्य स उदकमस्यास्तीत्युदन्वान् समुद्रः । 'उदन्वानुदधौ च' (पा. ८।२।१३) इति निपातनात्साधु । नवैरचिरोदितैश्चन्द्रकिरणैर्वेलासमीप- मिव ॥७३॥

 तया 3प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।
 प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः।।७४॥

 तयेति ॥ आननं चन्द्र इवेत्युपमितसमासः । प्रवृद्धा आननचन्द्रस्य कान्तिर्यस्यास्तया तथोक्तया तया कुमार्या, शरदा लोक इव संसृज्यमानः संगच्छमानः शिवश्चक्षूंषि कुमुदानीव तानि प्रफुल्लानि यस्य स तथोक्तः । चेतः सलिलमिव तत्प्रसन्नं यस्य स तथोक्तः प्रसन्नचेतःसलिलोऽभूत् । शरल्लोकयोरपि यथोचितं विशेषणानि योज्यानि ॥ ७४ ॥

 तयोः समापत्तिषु कातराणि किंचिद्यवस्थापितसंहृतानि ।
 ह्रीयत्रणां4तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि।।७५।।

 तयोरिति ॥ तयोर्वधूवरयोः समापत्तिषु यदृच्छया संगतिषु कातराणि चकितानि । 'अधीरे कातरः' इत्यमरः, द्रष्टुमसमर्थानीति भावः । किंचिदी- षव्ध्यवस्थापितानि स्थिरीकृतानि पश्चात्संहृतानि निवर्तितानि चेति व्यवस्थापित- संहृतानि । 'पूर्वकाल-' (पा. २।१।४९) इत्यादिना तत्पुरुषः । अन्योन्यस्मिंल्लो- लानि सतृष्णानि । 'लोलश्चलसतृष्णयोः' इत्यमरः । विलोचनानि दृष्टयस्तत्क्षणं तस्मिन्क्षणे ह्रीयन्त्रणां ह्रिया निमित्तेन संकोचमन्वभूवन् ॥ ७५ ॥

पाठा०-१ पक्षैः. २ सकाशम्. ३ विवृद्ध. ४ आनशिरे मुहूर्तम् ; आनशिरे

मनोज्ञाम्.

 तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्तिः ।
 उमा1तनौ गूढतनोः स्मरस्य 2तच्छङ्किनः पूर्वमिव प्ररोहम्॥७६ ।।

 तस्या इति ॥ अष्टमूर्तिः शिवः । तस्मादीश्वराच्छङ्कत इति तच्छङ्किनः, तद्भीतस्येत्यर्थः । अत एवोमातनावुमाशरीरे गूढतनोर्गुप्तशरीरस्य स्मरस्य पूर्व प्ररोहमिव प्रथमाङ्कुरमिव स्थितं शैलगुरूपनीतं शैलगुरुणा हिमवतोपनीतं प्रापि- तम् । अथवा शैलगुरुणा हिमवत्पुरोधसोपनीतं ताम्राङ्गुलिं रक्ताङ्गुलिं तस्याः पार्वत्याः करं जग्राह ॥ ७६ ॥

 रोमोद्गमः प्रादुरभृदुमायाः स्वि3न्नाङ्गुलिः पुंगवकेतुरासीत् ।
 वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥७७॥

 रोमोद्गम इति ॥ उमाया रोमोद्गमो रोमाञ्चः प्रादुरभूत् । पुमान् गौः पुंगवो वृषभः । 'गोरतद्धितलुकि' (पा. ५।४।९२) इति टच् । स केतुश्चिह्नं यस्य स पुंगवकेतुः शिवः स्विन्नाङ्गुलिरासीत् । अत्रोत्प्रेक्षते-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा । तयोर्वधूवरयोर्मनोभवस्य वृत्तिरवस्थितिः समं विभक्तेव, समीकृतेवेत्यर्थः । प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणि- संस्पर्शकृतत्वमुत्प्रेक्षते। ननु 'कन्या तु प्रथमसंगमे स्विन्नकर चरणा भवति, पुमांस्तु रोमाञ्चितो भवति' इति वात्स्यायनेन विपरीतमुक्तमिति चेत् ,-नैष दोषः; 'एभिर- नयोर्भावं परीक्षेत' इति वाक्यशेष 'एभिः' इति बहुवचनेन स्वेदरोमाञ्चग्रहणस्य सकलसात्त्विकोपलक्षणत्वावगमेनानियमावधारणात् । अत एव रघुवंशेऽन्यथाभि- धानात्स्वोक्तिविरोध इत्यपास्तम् । तदेतद्रधुवंशसंजीविन्यां (७।२२) सुव्यक्तम- वोचम् । सात्त्विकास्तु 'स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू। अश्रु वैस्वर्य- मित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥' इति ॥ ७७ ॥

 प्रयुक्तपाणिग्रहणं यदन्यवधूवरं पुष्यति कान्तिमग्र्याम् ।
 सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य।।७८॥

 प्रयुक्तेति ॥ यद्यस्मात्कारणात्प्रयुक्तं पाणिग्रहणं यस्य तत्तथोक्तमन्यल्लौकिकं वधूश्च वरश्च वधूवरम् । समाहारे द्वन्द्वैकवद्भावः । तदानीं पाणिग्रहणकाले- ऽनयोरुमाशिवयोः सांनिध्ययोगात्संनिधिभावादग्र्यामुत्तमां कान्तिं शोभां पुष्यति २ तच्छङ्कितः. ३ चित्राङ्गुलिः.

पाठा०-१उमात्मना.  पुष्णाति तस्योभयस्योमामहेश्वररूपस्य मिथुनस्य श्रीः किं कथ्यते ? यत्प्रसादादन्यस्य शोभालाभस्तस्य शोभा किमु वक्तव्येत्यर्थः । 'विवाहसमये गौरीशिवौ वधूवरावनुप्रविशेताम्' इत्यागमः ॥ ७८ ॥

 प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिपस्तन्मिथुनं च[]कासे ।
 मेरोरु[]पान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ ७९ ॥

 प्रदक्षिणेति ॥ तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात्प्रदिक्षिणीकरणाच्चकासे । किमिव ? मेरोरुपान्तेषु परिसरेषु वर्तमानमावर्तमानम्, मेरुं प्रदक्षिणीकुर्वदित्यर्थः । अन्योन्येन संसक्तं संगतम् । मिथुनस्याप्येतद्विशेषणम् । अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिवमिव । समाहारे द्वन्द्वैकवद्भावः ॥ ७९ ॥

  तौ दम्पती त्रिः परिणीय वह्विमन्योन्यसंस्पर्शनिमीलिताक्षौ ।
  स कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ८०

  ताविति ॥ स पुरस्तादेव हितं विधत्त इति पुरोधाः पुरोहितोऽन्योन्यस्य संस्पर्शेन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दम्पती कर्मभूतौ । जायाशब्दस्य दम्भावो निपातितः । वह्निं त्रिस्त्रिवारम् । 'द्वित्रिचतुर्थ्यः सुच्'(पा.५।४।१८) इति सुच् प्रत्ययः । परिणीय परितो नीत्वा, प्रदक्षिणीकार्येत्यर्थः । नयतेर्द्विकर्मकाल्ल्यप् । समिद्धार्चिषि दीप्तज्वाले तस्मिन्वह्नौ वधूं लाजमोक्षं लाजविसर्गं कारयामास । 'हृक्रोरन्यतरस्याम्' (पा. १।४।५३) इति विकल्पादणिकर्तुः कर्मत्वम् ॥ ८० ॥

  सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद्वदनं निनाय ।
  कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ ८१ ॥

  सेति ॥ सा वधूर्गुरोः पुरोधस उपदेशात्, इष्टः, घ्राणतर्पण इत्यर्थः । गन्धो यस्य तं लाजधूमाञ्जलिं वदनं निनाय कपोलसंसर्पिणी शिखा यस्य स तथोक्तः स धूमस्तस्या गौर्या मुहूर्तकर्णोत्पलतां प्रपेदे । धूमस्य विस्मरत्वान्मुहूर्तग्रहणम् ॥ ८१ ॥

 तदीषदार्द्रारुणगण्डलेखमुच्छ्वसिकालाञ्जनरागमक्ष्णोः ।
 वधूमुखं क्लान्तयवावतंसमाचारधूमग्रहणाद्बभूव ॥ ८२ ॥

 तदिति ॥ तद्विधूमुखमाचारधूमग्रहणादाचारप्राप्तधूमत्वादीषदार्द्रे स्विन्ने अरुणे च गण्डलेखे गण्डस्थले यस्य तत्तथोक्तम् । अक्ष्णोरुच्छ्वास्युद्गच्छन्कालाञ्जनस्य रागो रञ्जनं यस्य तत्तथोक्तम् । क्लान्तो यवावतंसो यवाङ्कुरकर्णपूरो यस्य तत्तथाभूतं बभूव । 'लाजाञ्जलिं विसृज्य धूमाग्रं समाजिघ्रेत्' इति प्रयोग- वृत्तिकारः ॥ ८२ ॥

 वधूं द्विजः प्राह तवैष वत्से ! वह्निर्विवाहं प्रति कर्मसाक्षी ।
 शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥८३।।

 वधूमिति ॥ अथ वधूं द्विजः पुरोधाः प्राह । किमिति ? । हे वत्से ! वह्निस्तव विवाहं प्रति, विवाहकर्मणीत्यर्थः । कर्मसाक्षी कर्मद्रष्टा । भर्त्रा शिवेन सह मुक्तविचारया निर्विचारया त्वया धर्मचर्या धर्माचरणं कार्या कर्तव्येति । अयं च प्राजापत्यविवाहो द्रष्टव्यः । यथाहाश्वलायनः (गृह्य.१।६१)—'सह धर्मचरतमिति प्राजापत्यः' इति ॥ ८३

 आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या।
 निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या।।८४॥

 आलोचनान्तमिति ॥ भवस्य पत्न्या भवान्या। 'इन्द्रवरुणभवशर्वरुद्र-' (पा. ४।१।४) इत्यादिना ङीष्, आनुगागमश्च । आलोचनान्तं नेत्रान्तपर्यन्तम् । 'आङ् मर्यादाभिविध्योः' (पा. २११।१३) इत्यव्ययीभावः । श्रवणे श्रोत्रे वितत्य विस्तार्य तत्पूर्वोक्तं गुरोर्याज्ञिकस्य वचनं 'सह धर्मं चर' इति वाक्यं निदाघकाले ग्रीष्मकाले उल्बणतापयोत्कटसंतापया पृथिव्या प्रथममाद्यं माहेन्द्रं पार्जन्यमम्भ इव पीतम् , अत्यादरेण शुश्रावेत्यर्थः ॥ ८४ ॥

 ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।
 सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच ।। ८५ ॥

 ध्रुवेणेति ॥ प्रियं दर्शनं यस्य कर्मभूतस्य तेन प्रियदर्शनेन ध्रुवेण शाश्वतेन

पाठा०-१ पूर्वसाक्षी. २ श्रवणो. ३ तप्तयेव. ४ कण्ठम्. भर्त्रा ध्रुवस्य नक्षत्रविशेषस्य दर्शनाय । 'ध्रुवो भभेदे क्लीबं तु निश्चिते शाश्वते त्रिषु' इत्यमरः । प्रयुज्यमाना 'दृश्यताम्' इति प्रेर्यमाणा ह्रीसन्नकण्ठी ह्रिया हीनस्वरा सा वधूः कथमप्याननमुन्नमम्य 'दृष्टः' इत्युवाच ॥ ८५ ॥

 इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।
 प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥८६॥

 इत्थमिति ॥ इत्थमनेन प्रकारेण 'इदमस्थमुः' (पा. ५.३।२४) इति थमुप्रत्ययः। विधिज्ञेन विवाहप्रयोगज्ञेन, शास्त्रज्ञेनेत्यर्थः । पुरोहितेन हैमवतेन प्रयुक्तपाणिग्रहणोपचारौ कृतविवाहकर्माणौ प्रजानां पितरौ तावुमामहेश्वरौ पद्मासनस्थाय पद्मासनोपविष्टाय पितॄणां पित्रे पितामहाय ब्रह्मणे । 'पितामहो विरिञ्चौ स्यात्तातस्य जनकेऽपि च' इति विश्वः । पितृव्यमातुलमातामहपितामहाः'(पा. ४।२।२६) इति निपातनात्साधु । प्रणेमतुर्नमश्चक्रतुः। पितामहस्य पित्रोरपि पूज्यत्वादिति भावः ॥ ८६ ॥

 वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि ! वीरप्रसवा भवेति ।
 वाचस्पतिः सन्नपि सोऽष्टमूर्तौ त्वाशास्यचिन्तास्तिमितो बभूव।।८७।।

 वधूरिति ॥ वधूः कन्या विधात्रा ब्रह्मणा, हे कल्याणि शोभने ! वीरः प्रसवोऽपत्यं यस्याः सा वीरप्रसवा वीरसूर्भवेति प्रतिनन्द्यते स्म, आशिषमुक्तेत्यर्थः। स विधाता वाचस्पतिर्वागीश्वरोऽपि सन् । 'कस्कादिषु' (पा. ८।३।४८)पाठात्साधुः । अष्टमूर्तौ शिवे त्वाशास्यमाकाङ्क्षयं तत्र चिन्ता विचारस्तस्यां स्तिमितो मन्दो बभूव, तस्य निरीहस्याभावादाशिषि स्तिमितत्वमित्यर्थः ॥ ८७ ॥

 क्लृप्तोपचारां चतुरस्रवेदीं तावेत्य पश्चात्कनकासनस्थौ ।
 जायापती लौकिकमेषणीयमार्द्राक्षतारोपणमन्वभूताम् ।।८८॥

 क्लृप्तेति ॥ तौ जायापती वधूवरौ पश्चान्नमस्कारानन्तरं क्लृप्ता रचिता उपचाराः पुष्परचनादयो यस्यां तां चतुरस्रवेदीमेत्य प्राप्य कनकासनस्थौ सन्तौ लौकिकं लोके विदितम् , आचारप्राप्तमित्यर्थः । अत एवैषणीयमाशास्यम् , 'तथाहि लौकिकाचारं मनसापि न लङ्घयेत्' इति शास्त्रादवश्यकर्तव्यमित्यर्थः । इषेरिच्छार्थादिनीयर्प्रत्ययः । आर्द्राक्षतारोपणमन्वभूताम् ॥ ८८ ॥

पाठा०-१ उन्नत. २ मूर्तावाशास्य. ३ एषितव्यम्.

 पत्रान्तलग्नैर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम् ।
 तयोरुपर्यायतनालदण्डमाधत्त लक्ष्मीः कमलातपत्रम् ।। ८९ ॥

 पत्रान्तेति ॥ लक्ष्मीः श्रीदेवी पत्रान्तेषु दलप्रान्तेषु लग्नेर्जलबिन्दुजालैराकृष्टाऽपहृता मुक्ताफलजालेन प्रान्तलम्बिना मुक्ताकलापेन या शोभा सा येन तत्तथोक्तमायतं दीर्घं नालमेव दण्डो यस्य तत्कमलमेवातपत्रं तत्तयोरुपर्याधत्त दधौ ॥ ८९ ॥

 द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव ।
 संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥९०॥

 द्विधेति ॥ अथ सरस्वती वाग्देवी द्विधा संस्कृतप्राकृतरूपेण द्वैविध्येन प्रयुक्तेनोच्चारितेन वाङ्मयेन शब्दजालेन तन्मिथुनं नुनाव तुष्टाव । 'णु स्तुतौ' इति धातोर्लिट् । केन कमिवेत्याह-संस्कारेति ॥ संस्कारेण शास्त्रव्युत्पत्त्या पूतेन प्रकृतिप्रत्ययविभागशुद्धेन संस्कृतेनेत्यर्थः। वरेण्यं वरणीयम् , श्लाघ्यमित्यर्थः । वृणोतेरौणादिको 'वृञ एन्य' इति एन्यप्रत्ययः । वरं वोढारं शिवम् । सुखेन ग्राह्यं सुबोधं निबन्धनं रचना यस्य तेन वाङ्मयेन, प्राकृतभाषयेत्यर्थः । वधू नुनावेत्यनेन संबन्धः ॥ ९० ॥

 तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।
 अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ।। ९१ ।।

 ताविति ॥ तौ दंपती संधिषु मुखादिनिर्वहणान्तेषु पञ्चसंधिषु । तदुक्तं दशरूपके (१।२४)-'मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः' इति । व्यञ्जितवृत्तिभेदं स्फुटीकृतकौशिक्यादिवृत्तिविशेषम् , रसानुगुण्येनेति शेषः। तदुक्तं भूपालेन – 'कौशिकी स्यात्तु शृङ्गारे रसे वीरे तु सात्वती । रौद्रबीभत्सयोर्वृत्तिर्नियतारभटी पुनः । शृङ्गारादिषु भावज्ञैः रसेष्विष्टा तु भारती ॥' तथा- 'कैशिक्यारभटी चैव सात्वती भारती तथा। चतस्रो वृत्तयो ज्ञेयास्तासु नाट्यं प्रतिष्ठितम् ॥' इति । रसान्तरेषु शृङ्गारादिरसभेदेषु 'शृङ्गारादौ विषे वीर्य गुणे रागे द्रवे रसः' इत्यमरः । 'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताख्या रसाः पूर्वैरुदाहृताः' इति । प्रतिबद्धरागं प्रतिनियमेन बद्धः प्रवर्तितो वसन्तललितादिरागो यस्मिंस्तम् । यस्मिन्रसे यो रागो विहितस्तदनुसारेण

पाठा०-५ वृन्दैः. २ भक्तिशोभम्. प्रयुक्तरागमित्यर्थः । यथाह काहल:- 'रौद्रेऽद्भुते तथा वीरे पुंरागेण प्रगीयते । शृङ्गारहास्यकरुणाः स्त्रीरागेण प्रकीर्तिताः ॥ भयानके च बीभत्से शान्ते गेयो नपुंसके ॥' इति । ललिताङ्गहारं मधुराङ्गविक्षेपम् । 'अङ्गहारोऽङ्गविक्षेपः' इत्यमरः । आदौ भवमाद्यम् , रूपकान्तरप्रकृतिभूतमित्यर्थः । तदुक्तं—'आहुः प्रकरणादीनां नाटकप्रकृतिं बुधाः' इति अप्सरसामुर्वश्यादीनाम् । प्रयुज्यत इति प्रयोगो रूपकम् , नाटकमित्यर्थः । आद्यमिति विशेषणात् । तं मुहूर्तमपश्यतां दृष्टवन्तौ । 'पाघ्राध्मास्था-'(पा.७।३।७८) इत्यादिना दृशेः पश्यादेशः ॥ ९१ ॥

 देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपत्य ।
 शापावसाने प्रतिपन्नमूर्तेर्ययाचिरे पञ्चशरस्य सेवाम् ॥ ९२ ॥

 देवा इति ॥ देवा इन्द्रादयस्तदन्ते तस्य प्रयोगदर्शनस्यान्तेऽवसान ऊढभार्यं परिणीतदारं हरं किरीटेषु बद्धा अञ्जलयो येषां ते तथोक्ताः सन्तः। निपत्य प्रणम्य शापावसाने प्रतिपन्नमूर्तेर्लब्धशरीरस्य, ‘परिणेष्यति पार्वतीं यदा'(४।४२) इत्यादिना शापस्य पार्वतीपरिणयान्तत्वादित्यर्थः । पञ्चशरस्य कामस्य कर्तुः । सेवां ययाचिरे, पुनः समासादितशरीरस्य तस्य सेवा स्वीक्रियतामिति प्रार्थयामासुरित्यर्थः । 'दुह्याच्पच्-' (वा. १०९०।९१) इत्यादिना द्विकर्मकत्वम् ॥ ९२ ॥

 तस्यानुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् ।
 कालप्रयुक्ता खलु कार्यविद्भिर्विज्ञापना भर्तृषु सिद्धिमेति ॥९३॥

 तस्येति ॥ विमन्युर्विगतक्रोधो भगवानीश्वर आत्मन्यपि तस्य कामस्य सायकानां व्यापारमनुमेने। तथा हि-कार्यविद्भिः कार्यज्ञैः, अथवा कालविद्भिः अवसरज्ञैः । काले योग्यावसरे प्रयुक्तानुष्ठिता भर्तृषु स्वामिषु विषये विज्ञापना सिद्धिमेति खलु, सफला भवतीत्यर्थः । अयमेवास्य स्मरसेवास्वीकारो यदात्मन्यपि तत्सायकव्यापारमङ्गीकृतवानिति ॥ ९३ ॥

  अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य
   क्षितिधरपतिकन्यामाददानः करेण ।
  कनककलशयुक्तं भक्तिशोभासनाथं
   क्षितिविरचितशय्यं कौतुकागारमागात् ॥ ९४ ॥

पाठा०-१ प्रतिलब्ध. २ काले प्रयुक्ता. ३ कालविद्भिः. ४ आदधानः, ५ रक्षा.  अथेति ॥ अथेन्दुमौलिरीश्वरस्तान्विबुधगणान्विसृज्य क्षितिधरपतिकन्यां पार्वतीं करेणाददानः कनककलशयुक्तं मङ्गलार्थमन्तर्निहितहेममयपूर्णकुम्भं भक्तयः पुष्पादिरचनास्तासां शोभया सनाथम् , सहितमित्यर्थः । क्षितिविरचितशय्यं क्षितौ विरचिता स्थण्डिले कल्पिता शय्या तल्पं यस्मिंस्तत्तथोक्तं कौतुकागारमागाच्छय्यागृहं जगाम। भत्राश्वलायनः (गृह्य. ११८।१०)-'अत ऊर्ध्वमक्षारालवणाशिनावधःशायिनौ ब्रह्मचारिणो स्याताम्' इति । अत ऊर्ध्वं विवाहादूर्ध्वम् , आ त्रिरात्रादिति शेषः । 'त्रिरात्रं द्वादशरात्रं वा' (याज्ञ० प्रा० १।८) इति वचनात् । तथा कामशास्त्रेऽपि-'अथ परिणयरात्रौ प्रक्रमेन्नैव किंचित्तिसृषु च रजनीषु स्तब्धभावा दुनोति । त्रिदिनमिह न भिन्द्याद्ब्रह्मचर्यं न चास्या हृदयमननुरुध्य स्वेच्छया नर्म कुर्यात् ॥' इति ॥ ९४ ॥

  नवपरिणयलज्जभूपणां तत्र गौरीं
   वदनमपहरन्तीं तत्कृताक्षेपमीशः।
  अपि शयनसखीभ्यो दत्तवाचं कथंचि-
   त्प्रमथमुखविकारैर्हासयामास गूढम् ॥ ९५ ।।

 नवेति ॥ तत्र कौतुकागार ईश ईश्वरो नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणं यस्यास्तामत एव तेनेश्वरेण कृताक्षेपं कृताकर्षणम् , उन्नमितमिति यावत् । वदनमपहरन्तीं साचीकुर्वन्तीम् । अयं लज्जानुभावः । अनुभावान्तरमाह-शयनसखीभ्योऽपि शयने सहशायिनीभ्योऽपि, नर्मसहचरीभ्योऽपीत्यर्थः। कथंचित्कृच्छ्रेण दत्तवाचं दत्तोत्तरां गौरीं मथा भृङ्गिरिटिप्रभृतयो हास्यरसादिदेवताः पशुपतेः पारिषदाः। यथाह भरतः-'शृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः' इति । 'प्रमथाः स्युः पारिषदाः' इत्यमरः । तेषां मुखविकारैर्मुखविकृतचेष्टितैर्गूढमप्रकाशं हासयामास, हासाद्यपायैर्लज्जामपाकर्तुं प्रवृत्त इत्यर्थः । यथाह गोनर्दः–'हासेन मधुना नर्मवचसा लजितां प्रियाम् । विलुप्तलज्जां कुर्वीत निपुणैश्च सखीजनैः ॥' इति ॥ ९५ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
उमापरिणयो नाम सप्तमः सर्गः ।

  1. बभासे.
  2. मेरोरिवान्तपरिवर्त.