कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/त्रयोदशः सर्गः(सैनापत्यभिषेकः)

विकिस्रोतः तः
← द्वादशः सर्गः(सैनापत्यवर्णनः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
त्रयोदशः सर्गः(सैनापत्यभिषेकः)
कालिदासः
चतुर्दशः सर्गः(सेनाप्रयाणः)  →

त्रयोदशः सर्गः ।

 प्रस्थानकालोचितचारुवेषः स स्वर्गिवर्गैरनुगम्यमानः ।
 ततः कुमारः शिरसा नतेन त्रैलोक्यभर्तुः प्रणनाम पादौ ॥१॥

 प्रस्थानेति ॥ ततोऽनन्तरं स कुमारः कार्तिकेयः प्रस्थानकाल उचितो योग्य- श्चारुश्च वेषो यस्य । तथा स्वर्गिवर्गैरिन्द्रादिदेवगणैरनुगम्यमानः सन् । नतेन शिरसा त्रैलोक्यभर्तुः शिवस्य पादौ प्रणनाम नमश्चक्रे । 'उपसर्गादसमासेऽपि' (पा. ८।४।१४) इति णत्वम् ॥ १॥

 जहीन्द्रशत्रुं समरेऽमरेशपदं स्थिरत्वं नय वीर ! वत्स! ।
 इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत् ॥२॥

 जहीति ॥ प्रणमन्तं नमस्कुर्वन्तं तं कुमारमीशो हरो मुदा प्रीत्या मूर्धन्यु- पाघ्राय गन्धमुपादाय 'हे वीर! हे वत्स! समरे युधीन्द्रशत्रुं तारकं जहि मारय ।

पाठा०-१ त्रिलोक. अथामरेशपदमिन्द्रपदं स्वर्गं स्थिरत्वं स्थैर्यं नय प्रापय' । उभयत्राप्याशिषि लोट् । इत्येवंभूतयाऽऽशिषाशीर्वादेनाभ्यनन्ददस्तौपीत् ॥ २॥

 प्रह्वीभवन्नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगं स्वमातुः ।
 तस्याः प्रमोदाश्रुपयःप्रवृष्टिस्तस्याभवद्वीरवराभिषेकः ॥ ३ ॥

 प्रह्वीति ॥ स कुमारः प्रह्वीभवन्नम्रीभवन्सन् , नम्रतरेण मूर्ध्ना । अत्र प्रह्वीभव- नित्यनेनैव मूर्ध्नो नम्रत्वे सिद्धे पुनर्विशेषणोपादानं सामान्यतोऽन्येषामङ्गानां नम्रत्वोक्त्यपेक्षया मूर्ध्नि क्रियातिशयद्योतनार्थम् , पुनरुपादानेन तरब्ग्रहणलिङाच्च। स्वमातुरङ्घ्रियुगं चरणद्वन्द्वं नमश्चकार । तस्याः पार्वत्याः संबन्धीनि यानि प्रमोदा- श्रुपयांसि तेषां प्रवृष्टिर्वर्षणं तस्य कुमारस्य वीरेषु वरस्य श्रेयसः, सेनापतेरित्यर्थः । तस्याभिषेक इव योऽभिषेकः सोऽभवत् । तस्य यादगभिषेको भवति स मात्र- श्रुपयोवृष्टिरा शिरश्चरणनखपर्यन्तं प्लावयन्त्यभूदिति भावः ॥ ३ ॥

 तमङ्कमारोप्य सुता हिमाद्रेराश्लिष्य गाढं सुतवत्सला सा ।
 शिरस्युपाघ्राय जगाद शत्रुं जित्वा कृतार्थीकुरु वीरसूं माम् ॥४॥

 तमिति ॥ सुते पुत्रे वत्सला कृपावती सा हिमाद्रेः सुता पार्वती तं पुत्रम् । अस्य ल्यबन्तत्रयेण संबन्धो विधेयः । अङ्कमुत्सङ्गम् । 'अङ्को रूपकभेदाङ्गचिह्ने रेखाजिभूषणे । रूपकाण्डान्तिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोः' इति मेदिनी । आरोप्य संस्थाप्य । तथा गाढं दृढं यथा तथा । 'प्रगाढः कृच्छदृढयोः' इति मेदिनी। प्रेति त्रित्वसंघातनिवेशनायैव । एवं विना तदलाभात् । आश्लिष्यालिङ्गय । तथा शिरस्युपाघ्राय च । 'हे वत्स! त्वं शत्रु तारकं जित्वा वीरं सूते सा वीरसूम्त- थोक्ता मां कृतार्थीकुरु' इति जगाद । एवंविधे महति कार्ये भवता प्रतिपादिते सति त्रैलोक्यं प्रसृतिशीलेन यशसा धवलीकृतं सत् 'एष यदीयः पुत्रः सा कृता- र्थैव' इति जनो वर्णयिष्यतीत्यतो मत्कृतार्थत्वं सिद्धमेवेति भावः ॥ ४ ॥

 उद्दामदैत्येशविपत्तिहेतुः श्रद्धालुचेताः समरोत्सवस्य ।
 आपृच्छय भक्त्या गिरिजागिरीशौ ततः प्रतस्थेर्भि दिवं कुमारः ५

 उद्दामेति ॥ ततोऽनन्तरमुद्दाम उद्भटो यो दैत्येशस्तारकस्तस्य विपत्तिमत्यु-

पाठा०-१ युगं सः; युगाय. २ प्रपूरः; प्रवर्षः. ३ महाद्रे:, ४ आश्लिष्ट- गात्रम्. ५ कृतार्थां कुरु. ६ दैतेय. ७ समरोद्धुरः सः. ८ त्रिदिवम्. स्तस्या हेतुः कारणम् , तत्कर्तेत्यर्थः । तथा समरोत्सवस्य सङ्ग्रामरूपस्योत्सवस्य 'मह उद्धव उत्सवः' इत्यमरः । इयं कर्मणि षष्ठी । संबन्धमात्रविवक्षितत्वात् । इह षाष्ठ्यन्तस्य वृत्तिगतेनापि 'श्रद्धा'शब्देन नित्यसंबन्धवशात्संबन्धं कृत्वा कृद्यो- गलक्षणा षष्ठी समर्थनीया । केचित्तु 'समरोत्सवे सः' इति विषयलक्षणसप्त- म्यन्तत्वमङ्गीकृत्य पठन्ति । तत्रापि समासवृत्तिगतस्य 'श्रद्वालु'शब्दस्य संबन्धो दुर्घट इत्यलम् । श्रद्धालु भक्तिशीलं चेतो यस्य, सङ्ग्रामश्रद्वाधायक इत्यर्थः । एवंभूतः कुमारो भक्त्या भक्तिपूर्वकं गिरिजागिरीशौ पितरावापृच्छय, 'मया गम्यते' इत्युक्त्वेत्यर्थः । दिवमभि प्रतस्थे चचाल । 'समवप्रवि-' (पा. १।३।२२ ) इत्यात्मनेपदम् ॥ ५ ॥

 देवं महेशं गिरिजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि ।
 प्रदक्षिणीकृत्य च नाकनाथपूर्वाः समस्तास्तमथानुजग्मुः ॥६॥

 देवमिति ॥ ततोऽनन्तरम् । नाकनाथपूर्वा इन्द्रप्रमुखाः समस्तास्त्रिदिवौकवयो देवा अपि । पूर्वोक्तकुमारप्रस्थानसमुच्चायकः 'अपि'शब्दः । 'अपि संभावनाप्रश्न- शङ्कागर्हासमुच्चये' इति विश्वः । महेशं देवं गिरिजां देवीं च प्रणम्य । अथ प्रद- क्षिणीकृत्य, प्रदक्षिणौ परिक्रमणवशात्सव्यभागस्थौ कृत्वेत्यर्थः । 'ऊर्यादिच्चिडा. चश्च' (पा. १।४।६१ ) इति गतिसंज्ञकतया 'कुगतिप्रादयः' (पा. २।२।१८) इति समासत्वात् 'समासेऽनञ्पूर्वे-' (पा. ७।१।३७ ) इति क्त्वो ल्यबादेशः । तं कुमारमनु पश्चाज्जग्मुरित्यर्थः ॥ ६ ॥

 अथ व्रजद्भिस्त्रिदशैरशेषैः स्फुरत्प्रभाभांसुरमण्डलैस्तैः ।
 नेभो बभासे परितो विकीर्णं दिवापि नक्षत्रगणैरिवोग्रैः ॥ ७ ॥

 अथेति ॥ अथानन्तरं व्रजद्भिर्गच्छद्भिरत एव स्फुरत्प्रसरत्प्रभायाः कान्त्याः संबन्धि भासुरं दीप्यमानं मण्डलं चक्रवालं येषाम् । 'चक्रवालं तु मण्डलम्' इत्यमरः । तैरशषैः संपूर्णैस्त्रिदशैर्देवैर्विकीर्ण व्याप्तं नभोऽन्तरिक्षं दिवापि दिनेऽपि । उग्रैर्भासुरैर्नक्षत्रगणैर्विकीर्णमिव । बभासे । भासुरत्वरूपसाधारणधर्मेण त्रिदशः- विकिरणविशिष्टे नभसि नक्षत्रविकिरणविशिष्टत्वोत्प्रेक्षणादुत्प्रेक्षालंकारः । ननु 'उग्रः

पाठा०-१ सुरेशमुख्याः सुराः. २ अभिजग्मुः, ३ सरोषैः. ४ मण्डलभासुरैः. ५ ततः. ६ हरितोऽवकाशः. शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिपूत्कटे' इति कोशोक्त्योत्कटवाचिनोऽप्युग्रशब्दस्य कथं भासुरवाचकतेति चेत्, -सत्यम् ; अत्रौत्कट्यं केनचिद्धर्मेण विवक्षितं, न तु तेजसैव । कान्त्या तापेन वा सौन्दर्यादिना बोत्कटोऽधिक इत्यर्थप्रणयना- त्प्रकृते समाधेयम् ॥ ७ ॥

 रराज तेषां बजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः ।
 नक्षत्रताराग्रहमण्डलानामिव त्रियामारमणो नभोन्ते ॥ ८ ॥

 रराजेति ॥ नभोन्तेऽन्तरिक्षमध्ये व्रजतां गच्छतां तेषां सुराणां मध्ये कुमारः कार्तिकेयः । अग्रेऽपि नभोन्त इत्यस्य संबन्धः कार्यः । नक्षत्राण्यश्विन्यादीनि, ताराः सप्तविंशतिव्यनिरिक्ताः, ग्रहाः सूर्यादयो नव, तेषां मण्डलानां गोलानां मध्ये त्रियामारमणश्चन्द्र इव रराज । यतोऽधिककान्त्या कान्तो मनोहरः । नक्षत्राणां मध्ये यथा चन्द्र एव शोभते तथा देवानां मध्ये कुमार एव शुशुभ इत्यर्थः । पूर्णोपमालंकारः ॥ ८॥

 गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते ।
 उत्तीर्य नक्षत्रपथं मुहूर्तात्प्रपेदिरे लोकमथात्मनीनम् ॥ ९ ॥

 गिरीशेति ॥ अथ पुलोमपुत्री शची तस्या दयित इन्द्रः स आदिर्येषां तथाभूतास्ते देवा गिरीशगौरीतनयेन । ननु गिरीशगौर्योरेकतरेण सिद्धिरिति चेत्,-सत्यम् ; उभयगतवीर्याश्रयीभूतत्वेन कुमारवीर्याधिक्यस्य द्योतनार्थमुभय- र्ग्रहणमिति समाधातव्यम् । सार्धं मुहूर्तात्क्षणमात्रेणैव नक्षत्रपथमाकाशमुत्तीर्योल्ल- ङ्घयात्मनीनमात्मने हितम् । 'तम्मै हितम्' (पा. ५।१।५) इत्यधिकारस्थेन 'आत्मविश्वजन-' (पा. ५।१।९) इत्यनेन खः । तथाभूतं लोकं स्वर्गं प्रपेदिरे प्रापुः । 'लोकस्तु भुवने जने' इत्यमरः ॥ ९ ॥

 ते स्वर्गलोकं चिरकालदृष्टं महासुरत्रासवशंवदत्वात् ।
 सद्यः प्रवेष्टुं न विषेहिरे तत्क्षणं व्यलम्बन्त सुराः समग्राः॥१०॥

 त इति ॥ ते समग्राः सुरा महासुरात्तारकाद्यस्त्रासो भयं तस्य वशंवदत्वाद-

पाठा०-१ अधिककान्तकान्तिः. २ दयितः. ३ अन्तः. ४ मुहूर्तम्. ५ अथो मुनीनाम्. ६ तम्. ७ समस्ताः. धीनत्वाद्धेतोः चिरकालेन बहुसमयेन दृष्टं स्वर्गलोकं सद्यः सहसा प्रवेष्टुं न विपेहिरे न शेकुः । तत् किं तु क्षगं व्यलम्बन्त, कालं चिक्षिपुरित्यर्थः । अन्योऽपि सभये स्वगृहेऽपि सद्यः प्रवेष्टुं न शक्नोति, किं तु विलम्बते तद्वदिति भावः ॥ १० ॥

 पुरो भव त्वं न पुरो भवामि नाहं पुरोगोऽस्मि पुरःसरस्त्वम् ।
 इत्थं सुँरास्तत्क्षणमेव भीताः स्वर्गं प्रवेष्टुं कलहं वितेनुः ॥११॥

 पुर इति ॥ तत्क्षणम् । 'कालाध्वनो:-' (पा. २।३।५) इति द्वितीया। प्रवेशसमय इत्यर्थः । भीता अतस्तारकावस्थानशङ्कया सभयाः सुराः स्वर्गं प्रवेष्टुम 'त्वं पुरोऽग्रे भव, अहं पुरो न भवामि, किं तु त्वमेव भव, अहं पुरोगो नास्मि न भवामि । त्वं पुरःसरो भव' इत्थमेवंभूतं कलहं विग्रहं वितेनुः, चक्रुरित्यर्थः । अस्मीत्यहमर्थकमव्ययम् । सर्वेषां त्रिधाभूततया न कोऽप्यन्तः प्रवेष्टुं शशाक, किं तु तत्रैव परस्परं कलहायमानास्तस्थुरिति भावः ॥ ११ ॥

 सुरालयालोकनकौतुकेन मुदा शुचिस्मेरविलोचनास्ते ।
 दधुः कुमारस्य मुखारविन्दे दृष्टिं द्विषत्साध्वसकातरान्ताम् ॥१२॥

 सुरालयेति ॥ सुरालयस्य स्वर्गस्य यदालोकनं तेन यत्कौतुकमानन्दस्तेन निमित्तन शुचीनि शुद्धानि स्मेराणि समन्दहासानि च विलोचनानि येषां तथा- भूतास्ते देवा द्विषत्साध्वसेन तारकशत्रुभयेन कातरान्तां भीतप्रान्ताम् , भय- चिह्नतरलत्वादियुतामित्यर्थः । तथाभूतां दृष्टिं नेत्रं मुदा प्रीत्या, प्रसादनेति यावत् । उपलक्षिते कुमारस्य मुखारविन्द वदनकमले दधुः । दुर्घटप्रवेशोपायोपदेशापेक्षयेति भावः । कुमारो बालोऽपि सन् न भीत इति मुंदति विशेषगेन व्यज्यते ॥ १२ ॥

 सहेलहासच्छुरिताननेन्दुस्ततः कुमारः पुरतो भविष्णुः ।
 स तारकापातमपेक्षमाणो रणप्रवीरो हि' सुरानवोचत् ॥ १३ ॥

 सहेलेति ॥ ततो दृष्टिपातानन्तरं रणे प्रकृष्टं वीरोऽत एव तारकस्यापातं

पाठा०-१ पुरो ह्यत त्वम्, २ नवः. ३ पुरःसर त्वम्. ४ द्विषा तेन कृते खवश्ये स्वर्गे; द्विषा तेन हता मिथस्ते स्वर्गे, ५ सुरत्वरा. ६ सुविस्मेरविलोचनस्य; सुविस्मेरविलोचनान्ताः. ७ कातरास्ते; कातरान्ते. ८ उद्धरित; उच्छुरित. ९ निविष्टः. १० अवेक्षमाणः, ११ अभि. युद्धार्थमागमनमपेक्षते सोऽपेक्षमाणः, प्रतीच्छन्नित्यर्थः । अत एव पुरतोऽग्रतो भविष्णुः स कुमारः कार्तिकेयः सहेलः सक्रीडो यो हासस्तेन च्छुरिताननेन्दुर्मिश्रित. मुखचन्द्रः सन् , किंचिद्विहस्येत्यर्थः । हि निश्चितम् । सुरानवोचज्जगाद ॥ १३ ॥

 भीत्यालमद्य त्रिदिवौकसोऽमी स्वर्ग भवन्तः प्रविशन्तु सद्यः।
 अत्रैव मे दृक्पथमेतु शत्रुर्महासुरो वः खलु दृष्टपूर्वः ॥ १४ ॥

 भीत्येति ॥ भी त्रिदिवौकसो देवाः ! अद्य संप्रति भीत्या भयेनालम् , न भेतव्यमित्यर्थः । किं त्वमी भवन्तः सद्यः सहसैव स्वर्ग प्रविशन्तु, स्वर्गप्रवेशे भयहेतुको विलम्बो न विधेय इति तात्पर्यम् । सद्यः सपदि । तरक्षणमित्यर्थः । अथ रोषादाह-पूर्वं दृष्टो दृष्टपूर्वः । 'राजदन्तादिषु-'( पा. २।२।३१) इति प्राक्प्रयोगार्हस्य ‘पूर्व'शब्दस्य परः प्रयोगः। संभवानुरोधाद्भवद्भिरिति लभ्यते । ननु व इत्यनेनैव सिद्धिरिति चेन्न । 'न लोक ' ( पा. २।३।६९ ) इति षष्टी निषेधात् । तथा वो युन्मार्क शत्रुद्वेष्टा महासुरम्तारकोऽत्रैव स्वर्ग एव मे मम दृक्पथं दृग्गोचर- स्वमेतु प्राप्नोतु । दृक्पथमिति 'ऋक्पूरब्धू:-' (पा. ५।४।७४) इति समासा- न्तोऽप्रत्ययः ॥ १४ ॥

 स्खर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं वल्गति यस्य चण्डम् ।
 इहैव तच्छोणितपानकेलिमह्नाय कुर्वन्तु शरा ममैते ॥ १५ ॥

 स्वर्लोकेति ॥ स्वर्लोकस्य लक्ष्म्याः कचाः केशास्तेषां कर्षणाय । लक्ष्मीकेशानां हरणं कर्तुमित्यर्थः । 'तुमधातू-' ( पा. २।३।१५ । इति चतुर्थी । चण्डं प्रचण्डं यस्य तारकस्य दोर्मण्डलं भुजमण्डलं वल्गति चलति । तस्य तारकस्य यच्छोणितं रुधिरं तस्य पानं तदेव कलिः क्रीडा तां कर्मभूतामेते मम शरा अह्नाय झटिति । 'द्राग्झटित्यञ्जसाह्नाय' इत्यमरः । इहैव कुर्वन्तु । तं विनाशयन्त्वित्यर्थः ॥ १५ ॥

 शक्तिर्ममासावहतप्रचारा प्रभावसारा सुमहःप्रसारा ।
 खोकलक्ष्म्या विपदावहारेः शिरो हरन्ती दिशतान्मुदं वः १६

 शक्तिरिति ॥ अहतप्रचाराऽविघ्नितगतिः । तथा प्रभावः सामर्थ्यं स एव

पाठा० - १ य:, २ कालदष्ट: ३ स्वगैंकलक्ष्मी. ४ यस्य बलातिचण्डम्. ५ सुमहाप्रसारा. ६ लक्ष्मीः. ७ सहारिशिरः; सहारेः शिरः. ८ दिशतां सुखम्. सारो यस्याः । सुतरां महसस्तेजसः प्रसारो मण्डलं यस्याः, अतितेजस्विनीत्यर्थः । खर्लोकलक्ष्म्या या विपदा तस्या अवहा, किं तु सुखदेत्यर्थः । तथारेः प्रतिकूलस्य शिरः शीर्षं हरन्ती । असौ मम शक्तिरायुधं वो युष्माकं मुदं प्रीतिं दिशताद्दत्तात् । आशिषि लोट् ॥ १६॥

 इत्यन्धकारातिसुतस्य दैत्यवधाय युद्धोत्सुकमानसस्य ।
 सर्वं शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं वचसाननन्द ।। १७ ॥

 इतीति ॥ दैत्यवधाय दैत्यवधं कर्तुं युद्ध उत्सुकमानसस्योत्कण्ठितचेतसोऽन्ध- कारातिसुतस्य शिवपुत्रस्य कुमारस्य संबन्धिना इति पूर्वोक्तेन वचसा सर्वं गीर्वाण- वृन्दं देवसमूहः शुचि शुद्धं स्मेरं समन्दहासं मुखारविन्दं मुखकमलं यस्य तथाभूतं सत् आननन्द जहर्ष ॥ १७ ॥

 सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्गसंफुल्लेसहस्रनेत्रः ।
 तस्योत्तरीयेण निजाम्बरेण निरुञ्छनं चारु चकार शक्र:।।१८।।

 सान्द्रेति ॥ सान्द्रप्रमोदाद्धनानन्दाद्धेतोः पुलकै रोमाञ्चैरुपगृढ आश्लिष्टः । 'पुलकः कृमिभेदेऽश्मभेदे च मणिदोषके । रोमाञ्चे हरिताले गजात्तपिण्डे च गन्धके' इति मेदिनी । तथा सर्वेष्वङ्गेषु संफुल्लानि सहस्रनेत्राणि यस्य । यतः सहस्त्राक्षस्तथाभूतः शक इन्द्रस्तस्य कुमारस्योत्तरीयेण संव्यानेन । 'संव्यानमुत्तरीयं स्यात्' इत्यमरः । तथा निजाम्बरेण निरुञ्छनं परिवर्तनं चारु चकार, भ्रातृभावा- यान्योन्यवस्त्रग्रहणं चक्रतुरित्यर्थः । तदुक्तं मेदिन्याम्-'निरुञ्छनं बन्धुतायै वाससः परिवर्तनम्' इति । लोकेऽपि भ्रातृतायै परस्परस्योष्णीषबन्धनव्यवहार- स्तद्वदत्रापीति । अनुशासने सामान्यतो वासोग्रहणेन प्रकृत उत्तरीयग्रहणं संगच्छते। लोकव्यवहारस्तु संप्रदायसिद्धः । उष्णीषे विशेषश्रैष्ठ्योपलम्भ एव व्यवहारमूल- मिति मन्तव्यम् ॥ १८॥

 धनप्रमोदाश्रुतरंगिताक्षैर्मुखैश्चतुर्भिः प्रचुरप्रसादैः ।
 अथो चुचुम्बे विधिराद्यवृद्धः षडाननं षट्सु शिरःसु चित्रम् ॥१९॥

पाठा०-१ बद्धोत्सवमानसस्य. २ सुविस्मेर. ३ आननन्द. ४ सान्द्रप्रमोदः. ५ संलग्न. ६ निर्मञ्छनम् ; निरूहणम् , निरुञ्छनम्. ७ परिप्लुताक्षै:. ८ प्रमोद. ९क्रमाञ्चुचुम्बे; अथो अचुम्बद्विधिरादिवृद्धः. १० मुखेषु. ११ हर्षात्. १२ सुसाधु.  घनेति ॥ अथो अनन्तरमाद्ययोर्हरिहरयोर्वृद्धो महान्विधिर्ब्रह्मा। घनः सान्द्रः। 'धनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्तादौ घनाद्येषु विस्तारे लोह- मुद्गरे । त्रिषु सान्द्रे च दृष्टार्थे' इति मेदिनी । यः प्रमोदो हर्षम्तेन निमित्तेन यदश्रु नेत्रपयम्तेन तरंगितानि संजाततरंगाणि । 'तारकादिभ्य इतच्' (पा. ५।२।३६) अक्षीणि नेत्राणि येषां तैः, हर्षवशादुद्गताश्रुभिरित्यर्थः । तथा प्रचुरप्रसादैरधिक- प्रसन्नतायुक्तैश्चतुर्भिर्मुखैः पट्सु शिरःसु मध्ये षडाननं कुमारं चुचुम्बे पस्पर्श । इति चित्रं विस्मयः । चतुर्भिर्मुखैः पण्णां मुखानां यौगपद्येन स्पर्शासंभवात् । परिहारस्तु प्रत्येकं षट्सु चतुर्भिश्चुम्बनेन संधेयः ॥ १९ ॥

 तं साधु साध्वित्यभितः प्रशस्य मुदा कुमारं त्रिपुरासुरारेः ।
 आनन्दयन्वीर ! जयेति वाचा गन्धर्वविद्याधरसिद्धसंघाः ॥२०॥

 तमिति ॥ गन्धर्वा देवगायकाः, विद्याधराः, सिद्धाश्च देवविशेषाः, तेषां संघाः समुदायाः कर्तारः तं त्रिपुरासुरस्यारेः शिवस्य कुमारं पुत्रं मुदा प्रीत्या निमित्तेन साधु साध्वित्यभितः संमुखत्वेन प्रशस्य स्तुत्वा 'हे वीर ! त्वं जय शत्रोः सकाशा- ज्जयं प्राप्नुहि' इत्येवंभूतया वाचानन्दयन्नानन्दितमकुर्वन् ॥ २० ॥

 दिव्यर्षयः शत्रुविजेष्यमाणं तमभ्यनन्दन्किल नारदाद्याः ।
 निरुञ्छनं चक्रुरथोत्तरीयैश्चामीकरीयैर्निजवल्कलैश्च ।। २१ ।।

 दिव्यर्षय इति ॥ नारदाद्या नारदप्रमुखा दिव्या दिवि भवा ऋषयः । 'द्युप्रागपागुदक्र्-' (पा. ४।२।१०१) इति यत् । शत्रुं तारकं विजेष्यमाणं जेष्यन्तं तं कुमारमभ्यनन्दंस्तुष्टुवुः किल । अथानन्तरं चामीकरीयैः सौवर्णैरुत्तरीयैर्वस्त्रैः । तथा निजैर्वल्कलैश्च निरुञ्छनं बन्धुतायै वासःपरिवर्तनं चक्रुः । निरुञ्छनं पूर्वमेव निर्णीतम् ॥ २१ ॥

 ततः सुराः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः ।
 उत्सेहिरे स्वर्गमनन्तशक्तेर्गन्तुं वनं युथपतेरिवेभाः॥ २२ ॥

 तत इति ॥ ततोऽनन्तरं शक्तिरायुधविशेषस्तां धरतीति तथोक्तस्य कुमारस्य ।

पाठा०-१ तस्य वचो वरार्थम्. २ समभ्यनन्दन् ; तदभ्यनन्दन्. ३ निर्म- ञ्छनम् ; निरुच्छनम्. ४ नववल्कलैः. ५ उत्त्यजन्तः. ६ अनन्तशक्त्यै. ७ अभिपृष्ठे. 'शक्तिरस्त्रान्तरे शौर्ये उत्साहादौ बले स्त्रियाम्' इति मेदिनी । अवष्टम्भत आश्रयतः । 'अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि' इति मेदिनी । अत्र 'स्तम्भ' शब्दनाश्रयो लक्षितः; स्तम्भस्याश्रयमिति तत्त्वात् । साध्वसं भयम् । 'भीतिर्भीः साध्वसं भयम्' इत्यमरः । उत्सृजन्तस्त्यजन्तः सुरा देवाः । अनन्तश केरपारशौर्यस्य यूथपतेर्गजराजस्यावष्टम्भत इभा गजा वनमिव । स्वर्गं गन्तुं प्रवेष्टुमुत्सेहिर उत्साहं चक्रुः । 'अनन्तशक्तेः' इति विशेषणं कुमारेऽपि योजनीयम् ॥ २२ ॥

 अथाभिपृष्ठं गिरिजासुतस्य पुरंदरारातिवधं चिकीर्षोः ।
 सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथाः समन्तात् ॥२३॥

 अथेति ॥ अथोत्साहानन्तरं सुराः पुरंदरस्येन्द्रस्यारातेस्तारकस्य वधं मृत्यु चिकीर्षोः कर्तुमिच्छोगिरिजासुतस्य कुमारस्याभिपृष्टं पृष्ठसंमुखं त्रिपुरं दैत्यं दिधक्षोर्दग्धुमिच्छोः । 'दह भस्मीकरण' इति धातोरिच्छार्थे सनि ‘सन्यङोः' (पा. ६।१।९) इति द्वित्वे 'सनाशंसभिक्ष उः' (पा. ३।२।१६८) इत्युप्रत्ययः । स्मरारेः शिवस्याभिपृष्ठं प्रमथा इव स्थिताः समन्तानिरीयुनिर्जग्मुः, अन्तर्विविशुरित्यर्थः ॥२३॥

 सुराङ्गणानां जलकेलिभाजां प्रक्षालितैः संततमङ्गरागैः ।
 प्रपेदिरे पिञ्जरवारिपूरां स्वर्गौकसः स्वर्गधुनीं पुरस्तात् ।। २४ ॥

 सुराङ्गणानामिति ॥ स्वर्गौकसो देवाः पुरस्तादग्रे जलकेलिभाजां जलक्रीडासक्तानां सुराङ्गणानामप्सरसां संततं निरन्तरं प्रक्षालितैरङ्गरागैः कुङ्कुमादिरचितैः पिञ्जरवारिपूरां पीतजलप्रवाहां स्वर्गधुनीं मन्दाकिनीं प्रपेदिरे प्रापुः । सुराङ्गणानामिति 'कुमति च' (पा. ८।४।३) इति णत्वम् ॥ २४ ॥

 अथ चतुर्भिस्तामेव “दिग्दन्तिनाम्" इत्यादिभिर्विशिनष्टि-

 दिग्दन्तिनां वारिविहारभौजां कराहतैर्भीमतरैस्तरङ्गैः।
 आप्लावयन्तीं मुहुरालवालश्रेणिं तरूणां निजतीरजानाम् ॥ २५ ॥

 तत्र दिग्दन्तिनामिति ॥ किंभूतां स्वर्गधुनीम् ? वारिणि विहारभाजां क्रीडतां

पाठा०-१ जयम्. २ सुराङ्गनानाम्. ३ विहारलीलाम्, ४ भीमवराहयूथैः । आशंसयन्सादरमद्रिपुत्रीमहेशपुत्राय पुरःपुरोगाः । स कार्तिकेयः पुरतः परीतो विय- चरैर्लोलतैरस्तरंगैः. ५ श्रेणीः; श्रेणीम्. ६ गुरुतीरजानाम्, दिग्दन्तिनामैरावतादीनां करैः शुण्डादण्डैः । 'करो वर्षोपले पाणौ रश्मौ प्रत्ययशुण्डयोः' इति मेदिनी । आहतैस्ताडितैरत एव भीमतरैरतिशयभयानकैस्तरङ्गैः कल्लोलैः कृत्वा निजतीरजानामात्मीयतटोत्पन्नानां तरूणां वृक्षाणां संबन्धिनीमालवालानां मूलस्थलीनां श्रेणिम् । 'श्रेणिः स्त्रीपुंसयोः पङ्क्तौ समाने शिल्पिसंहतौ' इति मेदिनी । मुहुर्वारंवारम् । 'मुहुः पुनःपुनः शश्वत्' इत्यमरः । आप्लावयन्तीं सेचयन्तीम् ।। २५ ॥

 लीलारसाभिः सुरकन्यकाभिर्हिरण्मयीभिः सिकताभिरुच्चैः ।
 माणिक्यगर्भाभिरुपाहिताभिः प्रकीर्णतीरां वरवेदिकाभिः॥२६॥

 लीलेति ॥ पुनः किंभूताम् ! लीलायां क्रीडायां रसः प्रीतिर्यासां ताभिः सुराणां कन्यकाभिः पुत्रीभिः । तथा हिरण्मयीभिः सौवर्णीभिः सिकताभिर्वालुकाभिः तथा माणिक्यगर्भाभिर्मणिखचितमध्याभिः तथोपाहिताभिर्निर्मिताभिः, न त्वकृत्रिमाभिः । तथोच्चैर्महतीभिर्वराः श्रेयस्यो या वेदिकास्ताभिश्च प्रकीर्णतीरां व्याप्तसैकताम् ॥ २६ ॥

 सौरभ्यलुब्धभ्रमरोपगीतैर्हिरण्यहंसावलिकेलिलोलैः ।
 चामीकरीयैः कमलैर्विनिद्रश्च्युतैः परागैः परिपिङ्गतोयाम् ॥ २७ ॥

 सौरभ्येति ॥ पुनः किंभृताम् ? सौरभ्ये सौगन्ध्ये लुब्धा लम्पटा ये भ्रमरा द्विरेफास्तैरुपगीतैः, मुखरितैरित्यर्थः । हिरण्यस्य सुवर्णस्य ये हंसा मरालास्तेषामावल्यः पङ्क्तयस्तासां केलिः क्रीडा तया निमित्तेन लोलैश्चञ्चलैश्चामीकरीयैः सौवर्णैर्विनिर्विदलितैः कमलैरुपलक्षिताम् । अत एव च्युतैः कमलेभ्यो भ्रष्टैः परागैः सुमन । रजोभिः । 'परागः सुमनोरजः' इत्यमरः । परिपिङ्गं परितः पीतं तोयं जलं यस्यास्तथोक्ताम् ॥ २७ ॥

 कुतूहलाद्द्रष्टुमुपागताभिस्तीरस्थिताभिः सुरसुन्दरीभिः ।
 अभ्यूर्मिराजि प्रतिबिम्बिताभिर्मुदं दिशन्तीं व्रजतां जनानाम् ॥२८॥

 कुतूहलादिति ॥ द्रष्टुं कुतूहलात्कौतुकात् , आनन्दादिति यावत् । उपा-

पाठा०-१ लीलालसाभिः. २ हिरण्यहंसाभिरुताभिः; हिरण्यजाभिः सिकताभिः. ३ उपोहिताभिः. ४ अवकीर्णैः. ५ परिपिञ्जतोयाम्. ६ तीरे स्थिताभिः. ७ सुरकन्यकाभिः. ८ अभ्यूर्मिराजीः; अत्यूर्मिराजि. . गताभिरागताभिः । अत एव तीरस्थिताभिः । अत एवाभ्यूर्मिराजि । ऊर्मिराजावित्यभ्यूर्मिराजि तरङ्गमध्ये प्रतिबिम्बिताभिः सुरसुन्दरीभिर्देवाङ्गनाभिर्निमित्तेन व्रजतां गच्छतामपि जनानां मुदं दिशन्तीं ददनीम् । एतासामप्यप्सरसां प्रतिबिम्बवशादनेकधा दृश्यमानत्वाद्युक्ता प्रीतिजनकनेति भावः ॥ २८ ॥

 ननन्द सद्यश्चिरकालदृष्टां विलोक्य शक्रः सुरदीर्घिकां ताम् ।
 अदर्शयत्सादरमद्रिपुत्रीमहेशपुत्राय ततः पुरोगः ।। २९ ।।

 ननन्देति ॥ शक्र इन्द्रश्चिरकालेन बहुकालेन दृष्टां तां मुरदीर्घिकां मन्दाकिनी विलोक्य सद्यो झटिति ननन्द जहर्ष, अतिरमणीयं वस्तु चिरकालदृष्टं सद्बहुप्रीतिजनकं भवतीति भावः । ततोऽनन्तरमद्रिपुत्रीमहेशयोः पुत्राय कुमाराय सादरं यथा तथा पुरोगः सन्नदर्शयत् ॥ २९ ॥

 स कार्तिकेयः पुरतः परीतः सुरैः समस्तैः सुरनिम्नगां ताम् ।
 अपूर्वदृष्टामवलोकमानः सविस्मयः स्मेरविलोचनोऽभूत् ।। ३० ॥

 स इति ॥ समस्तैः सुरैः परीतो व्याप्तः स कार्तिकेयः कुमारः । अपूर्वदृष्टाम् , अधुनैव दृष्टामित्यर्थः । तां सुरनिम्नगां पुरतोऽग्रेऽवलेकमानः सन् सविस्मयः साश्चर्यः स्मेरविलोचन समन्दहासनेत्रश्चाभूत् ॥ ३० ॥

 उपेत्य तां तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः।
 गीर्वाणवृन्दैः प्रणुतां प्रणुत्य नम्रेण मूर्ध्ना मुदितो ववन्दे ॥ ३१ ॥

 उपेत्येति ॥ भक्तिपरो भक्तिप्रवीणः कुमारः कार्तिकेयो गीर्वाणवृन्दैर्देवसमूहैः प्रणुतां प्रकर्षेण स्तुताम् । 'णु स्तुतौ' इति धातोः कर्मणि क्तः । तां मन्दाकिनीं तत्रोपेत्य, तत्समीपं गत्वेत्यर्थः । किरीटकोटौ मुकुटाग्रे । 'कोटिः स्त्री धनुषोऽग्रेऽस्त्री' इति मेदिनी । अत्र 'अग्रशब्दस्य धनुःशब्दोपलक्षिततया सर्वेषामग्रवाचकत्वं बोध्यम् । न्यस्तोऽञ्जलिर्येन तथाभूतः सन् । प्रणुत्येडयित्वा मुदितो मुमुदे । इदं कृदन्तरूपं क्रियापदम् । तथा नम्रेण मूर्ध्ना शिरसा ववन्दे नमश्चक्रे ॥ ३१ ॥

 प्रणर्तितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोर्मिः ।
 कपोलपालिश्रमवारिहारी भेजे गुहं तं सरितः समीरः॥ ३२ ॥


पाठा०-१ शक्रः. २ सद्यः. ३ पुरः. ४ पुरोज्ञः. ५ इव लोकमानः. ६ सविस्मय. ७ रत्नकिरीट, ८ प्रणताम्. ९ नमितः; प्रणतः. १० प्रपाटित. ११ स्वःसरितः,  प्रणर्तितेति ॥ प्रणर्तिता कम्पिता स्मेरमरोजानां विकसितकमलानां राजिर्माला येन । अनेन सौगन्ध्योक्तिः । तथा परीरम्भेणाश्लेषेण मिलन्त आत्मनि मिश्रीभवन्तो महोर्मयो यस्य । अनेन शैत्योक्तिः । कपोलपाल्याः, कपोलरूपलताग्रस्येत्यर्थः । 'पालिः कर्णे लताग्रेऽश्रौ' इति विश्वः । श्रमेण यद्वारि स्वेदस्तस्य हारी । अनेन मान्द्योक्तिः । अन्यथा श्रमहृतेरसंभवः । एवंभूतः सरितो मन्दाकिन्याः समीरः पवनः पुरोऽग्रे स्थित तं गुहं स्वामिकार्तिकेयम् । यद्वा पुरोऽग्रे भेजे सिपेवे ॥ ३२ ॥

 ततो व्रजन्नन्दननामधेयं लीलावनं जम्भजितः पुरस्तात् ।
 विभिन्नभग्नोद्धृतशालसंघ प्रेक्षांचकार स्मरशत्रुसूनुः ॥ ३३ ॥

 तत इति ॥ ततो गङ्गावलोकनानन्तरं व्रजंश्चलन् स्मरशत्रुसूनुः कुमारः पुरस्तादग्रे विभिन्नो विदारितः, बाणैः शतरन्ध्रीकृत इति तात्पर्यार्थः । तथा भन्न आमर्दितो मूलं विनोपर्येव शतशकलीकृत उद्धृत उत्पाटितश्च शालसंघो यस्य तत् । 'शालो हाले मत्स्यभेदे शालौकस्तत्प्रभेदयोः । शालद्रुस्कन्धशाखायां शालेति परिकीर्तिता ॥' इति मेदिनी । नन्दननामधेयं नन्दनसंज्ञकम् । 'नन्दनं वनम्' इत्यमरः । जम्भजित इन्द्रस्य लीलावनमुपवनं प्रेक्षांचकार ददर्श । 'इजादेश्च-' (पा. ३।१।३६ ) इत्याम् ॥ ३३ ॥

 सुरद्विषोपप्लुतमेवमेतद्वनं बलस्य द्विपतो गतश्रि ।
 इत्थं विचिन्त्यारुणलोचनोऽभूद्भ्रभङ्गदुष्प्रेक्ष्यमुखः स कोपात्॥३४॥

 सुरद्विषेति ॥ स कुमारः । एतत्पुरोवर्ति बलस्य द्विषत इन्द्रस्य । अत्र 'न लोक-' (पा. २१३।६९ ) इत्यादिना षष्ठीनिषेधेऽपि 'द्विषः शतुर्वा' (वा० १५२२) इति विकल्पात्षष्ठी । वनमुपवनं सुरद्विषा तारकेणैव, न केनापि । यथा तारकेणोपद्रुतं तथा न केनापीत्यवधारणार्थकैवकारेण ध्वन्यते । 'एव प्रकारोपमयोरङ्गीकारावधारणे' इति विश्वः । अभितः सर्वतः। उपप्लुतमुपद्रुतमत एव गतश्रि नष्टशोभमित्थं विचिन्त्य कोपादरुणे लोचने यस्य तथोक्तो भ्रूभङ्गेन दुष्प्रेक्ष्यं दुर्दर्शं मुखं यस्य तथोक्तश्चाभूत् । महतां सति स्वस्मिन्परदुःखं महादुःखावहं भवतीति भावः ॥ ३४ ॥


पाठा०-१ अवात्. २ वज्रभृतः. ३ उन्नतशाखि. ४ एव. ५ दुष्प्रेक्षमुखः. ६ च.

 नर्लूनलीलोपवनामपश्यद्दुःसंचरीभूतविमानमार्गाम् ।
 विध्वस्तसौधप्रचयां कुमारो विश्वैकसाराममरावतीं सः ॥ ३५॥

 निर्लूनेति ॥ स कुमारः कार्तिकेयः निर्लूनानि कर्तितानि लीलायाः क्रीडाया उपवनानि यस्याम् । तथा दुःखेन संचरः संचारो येषु तथाभूना विमानमार्गा विमानसंचारपथा यस्याम् । तथा विध्वस्ताः खण्डिताः, स्फोटिता इति यावत् । सौधप्रचया राजसदनसमूहा यस्याम् । 'सौधोऽस्त्री राजसदनम्' इत्यमरः । तथा विश्वस्मिन्नेकामेव सारां तत्त्वभूतां ताममरावतीमिन्द्रपुरीमपश्यत् । 'नगरी त्वमरावती' इत्यमरः ॥ ३५ ॥

 गतश्रियं वैरिवराभिभूतां दशां सुदीनामभितो दधानाम् ।
 नारीमवीरामिव तामवेक्ष्य स बाढमन्तः करुणापरोऽभूत् ॥३६॥

 गतश्रियमिति ॥ स कुमारः वैरिवरेण तारकेणाभिभूतां पूर्वोक्तविधिना पराभूताम् । पराभवोऽत्र विध्वंसनक्रियानुकुलो व्यापारो ग्राह्यः । अत एव गतश्रियं भ्रष्टशोभाम् । अत एव सुतरां दीनां कृपणाम् , अनुकम्प्यामिति यावत् । दशामवस्थामभितो दधानाम् । अत एवावीरां नपुंसकभर्तृकां नारीमिव स्थितां ताममरावतीमवेक्ष्यान्तर्मनसि बाढं बहु यथा तथा करुणायां पर आसक्तोऽभूत् ॥ ३६॥

 दुश्चेष्टिते देवरिपौ सरोपस्तस्याविषण्णः समराय चोत्कः ।
 तथाविधां तां स विवेश पश्यन्सुरैः सुराधीश्वरराजधानीम् ॥३७॥

 दुश्चेष्टित इति ॥ दुश्चेष्टिते दुष्कर्मणि देवरिपौ तारके विषये सरोपः सक्रोधः । तथा तस्य तत्कर्तृकाय समराय समरं युद्धं कर्तुमुत्कश्च तथाऽविषण्णोऽनलसः स कुमारः तथाविधां पूर्वोक्तप्रकारां तां सुराधीश्वरस्येन्द्रस्य राजधानीं पुरीं पश्यन्सन् सुरैः सह विवेश । तदन्तरिति शेषः ॥ ३७ ॥

 दैतेयदन्त्यावलिदन्तघातैः क्षुण्णान्तराः स्फाटिकहर्म्यपङ्क्तीः ।
 महाहिनिर्मोकपिनद्धजालाः स वीक्ष्य तस्यां विपसाद सद्यः।।३८॥


पाठा०-१ असंचरी. २ सौख्यप्रचयाम्. ३ प्रसृष्टविश्वौकसाराम् ; प्रमृष्टवस्त्वेकसाराम्. ४ गर्भश्रियम्. ५ वैरिपराभिभूताम्. ६ स गाढम् : सबाष्पम्. ७ तस्यां विषण्णः. ८ च. ९ दैत्येन्द्रदन्तावलः. १० क्षुण्णान्तर. ११ संवीक्ष्य. .  दैतेयेति ॥ दैतेयानां दैत्यानां दन्त्यावलिर्गजावलिस्तस्यास्तत्कर्तृका ये दन्तघाता रदनताडितानि तैः क्षुण्णान्तराः क्षोदितमध्या अत एव महाहीनां महासर्पाणां निर्मोकाः कञ्चुकाः । 'समौ कञ्चुकनिर्मोकौ' इत्यमरः । तैः पिनद्धानि जालानि सौधजलानि यासु ताः स्फाटिकहर्मपङ्क्तीः स्फटिकनिर्मितसौधनिचयान्वीक्ष्य स सद्यस्तस्यां विपसाद, खिद्यति स्मेत्यर्थः । 'सद्यः सपदि तत्क्षणे' इत्यमरः ॥ ३८ ॥

 अथ युग्मेनाह-

 उत्कीर्गचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूपितानाम् ।
 हिरण्यहंसव्रजवर्जितानां विदीर्णवैडूयमहाशिलानाम् ॥ ३९ ॥
 आविर्भवद्भालतृणाञ्चितानांतदी यलीलागृहदीर्घिकाणाम् ।
 स दुर्दशां वीक्ष्य विरोधिजातां विषादवैलक्ष्यभरं बभार ॥ ४० ॥

 उत्कीर्णेति ॥ आविर्भवदिति ॥ स कुमारः । उत्कीर्णान्युत्खनितानि चामीकरस्य सुवर्णस्य पङ्कजानि कमलानि यासाम् , उत्खनितसुवर्णकमलानामित्यर्थः । तथा दिग्दन्निनामैरावतादीनां दानाः खण्डनाः, तज्जेतारस्तारकगजाः । कर्तरि ल्युट् । तेषां द्रवो मदजलं तेन दूषितानां म्लानीकृतानाम् , तारककुम्भीन्द्रमदकलुषीकृतजलानामित्यर्थः । हिरण्यप्रचुरा ये हंसास्तेषां व्रजेन वर्जितानां रहितानाम् । दैत्योपद्रवादिति भावः । तथा विदीर्णाः स्फोटिता वैडूर्याणां रत्नविशेषाणां महत्यः शिला यासाम् । तथाविर्भवन्युदयमानानि यानि बालतृणानि शष्पाणि तैरञ्चितानां व्याप्तानाम् । तदीया ऐन्द्र्या या लीलार्थं गृहदीर्घिका गृहवापिकास्तासां संबन्धिनीम् । विरोधिभ्योऽरिभ्यो जातां दुर्दशां दुष्टावस्थां वीक्ष्य विषादवैलक्ष्ययोः खेदलज्जयोर्भरम् । बह्व्यौ विषादलज्जे इत्यर्थः । बभार, दुर्दशादर्शनजनितकरुणाबीजं दुःखं मयि सत्यपि सुदुर्दशेति लज्जा हेतुरित्यर्थः ॥ ३९-४० ॥

 तद्दन्तिदन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालम् ।
 निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम् ॥ ४१॥

 तदन्तीति ॥ स कुमारः। सुरेन्द्रेणेन्द्रेण पुरोगतेनाग्रण्या सता तस्य तारकस्य


पाठा०-१ तदीय. २ तृणावृतानाम्. ३ सुदुर्दशाम्. ४ विरोधिजां ताम्. ५ हेमभित्तिम् ; गेहभित्तिम्. दन्तिनां गजानां दन्तैः क्षताः क्षुण्णा हैम्यो भित्तयः कुड्यानि यस्मिन् यस्य वा । सुतन्तदो लूतानां शोभनानि सूत्राणि तेषां जालेनाकुलं व्याकुलं रत्नजालं रत्नसमूहो यस्मिन् । तथा वैजयन्ताभिधं वैजयन्तसंज्ञकम् । 'स्यात्प्रासादो वैजयन्तः' इत्यमरः । आत्मसौधं स्वराजसदनं निन्ये प्रापितः । कर्मणि लिट् ॥ ४१ ॥

 निर्दिष्टवर्त्मा विबुधेश्वरेण सुरैः समग्रैरनुगम्यमानः ।
 स प्राविशत्तं विविधाश्मरश्मिच्छिन्नेन सोपानपथेन सौधम् ॥४२॥

 निर्दिति ॥ स कुमारः । विबुधेश्वरेणेन्द्रेण कर्त्रा । निर्दिष्टवर्त्मा 'इतो गमनं विधेयम्' इत्युक्तिपूर्वकप्रदर्शितमार्गः । तथा समग्रैः सुरैर्देवैरनुगम्यमानोऽनुस्नियमाणः सन् । विविधा अनेकवर्णा येऽश्मानो रत्नानि तेषां रश्मिभिः किरणैश्छिन्नेन भिन्नेन । रहितेनेति यावत् । तारककृतसोपानखचितरत्नोत्पाटनादिति भावः । सोपानपथेनारोहणमार्गेण । 'आरोहणे स्यात्सोपानम्' इत्यमरः । तं सौधं प्राविशत् ॥ ४२ ॥

 निसर्गकल्पद्रुमतोरणं तं स पारिजातप्रसवस्रगाढ्यम् ।
 दिव्यैः कृतस्वस्त्ययनं मुनीन्द्रैरन्तःप्रविष्टप्रमदं प्रपेदे ॥४३॥

 निसर्गेति ॥ स कुमारः । निसर्गेण स्वभावेन, अनायासेनेति यावत् । 'निसर्गः शीलसर्गयोः' इति विश्वः । कल्पद्रुमा एव तोरणानि यत्र । तथा पारिजातस्य देववृक्षविशेषस्य प्रसवानां पत्रपुष्पाणां स्रजा मालयाढ्यं युक्तम् , पूजनार्थमनेकपत्रपुष्पसहितमित्यर्थः । तथा दिव्यैः स्वर्गीयैर्मुनीन्द्रैः कश्यपादिभिः कृतस्वस्त्ययनं विहितस्वस्तिवाचनम् । तथान्तःप्रविष्टा मध्यं प्रविश्य स्थिताः प्रमदाः स्त्रियो यत्र तं सौधं प्रपेदे प्राप ॥ ४३ ॥

 पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम् ।
 प्रदक्षिणीकृत्य कृताञ्जलिः सन्षड्भिः शिरोभिः सं नतैर्ववन्दे ॥४४॥

 पादाविति ॥ स कुमारः । सुरासुराणां देवदैत्यानां कुल आदिवृद्धस्य कश्य-


पाठा०-१ तद्विविधात्मरश्मिच्छन्नेन; तं विविधेन रत्नाच्छन्नेन. २ तोरणाङ्कम् ; तोरणान्तम्. ३ सुपारिजात. ४ स्रजाढ्यम्. ५ कृतस्वस्त्ययनः. ६ कुमारः; प्रविश्य. ७ सः. ८ विनतैः. पस्य महर्षेः पादौ चरणौ कर्मभूतौ । प्रदक्षिणीकृत्य कृताञ्जलिः सन् । नतैः षड्भिः शिरोभिर्ववन्दे नमश्चके । किलेत्यैतिह्ये ॥ ४४ ॥

 स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम् ।
 मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवशैलसुतातनूजः ॥ ४५ ॥

 स इति ॥ स शैलसुतातनूजः पार्वतीनन्दनो भक्त्त्या निमित्तेन प्रह्वीभवन्नम्रीभवन्सन् । मुनेश्च तस्य कलत्रस्य पत्न्याश्च देवानां मातुर्जनन्या अदितेः । जगत एकवन्द्यौ केवलनमस्करणीयौ पादौ तथैव मुनिनमस्कारप्रकारेणैव कामं यथायोग्य प्रणनाम नमश्चक्रे ॥ ४५ ॥

 स कश्यपः सा जननी सुराणां तमेधयामासतुराशिपा द्वौ ।
 तया यया नैकजगज्जिगीषुं जेता मृधे तारकमुग्रवीर्यम् ।। ४६ ॥

 स इति ॥ स कश्यपो मुनिः सा सुराणां जनन्यदितिः, एतौ द्वौ तं कुमार तयाशिषाशीर्वादेनैधयामासतुर्वर्धयतः स्म । ययाशिषा निमित्तेनोग्रवीर्यमत एव नैकजगन्त्यनेकजगन्ति, त्रीणि जगन्तीत्यर्थः । जिगीषुं जेतुमिच्छुम् । 'न लोक-' (पा. २।३।६९) इति षष्ठीनिषेधः । तारकं दैत्यं मृधे संगरे जेता, जेष्यतीत्यर्थः । कर्तरि लुट् ॥ ४६॥

 स्वदर्शनार्थं समुपेयुपीणां सुदेवतानामदितिश्रितानाम् ।
 पादौ ववन्दे पतिदेवतास्तमाशीर्वचोभिः पुनरभ्यनन्दन् ॥ ४७ ।।

 स्वेति ॥ स कुमारः । स्वदर्शनार्थं स्वावलोकनार्थं समुपेयुपीणां प्राप्नुवतीनाम् । तथाऽदितिं देवमातरं श्रितानाम् , देवमातुराश्रयेण जीवन्तीनामित्यर्थः । सु शोभनाः सौभाग्यवत्यो देवतास्तासां पादौ चरणौ ववन्दे प्रणनाम । अथ च पतिरेव देवता यासां ताः पतिव्रतास्ता देवतास्त्वाशीर्वचोभिः 'त्वं जय' इत्यादिभिः पुनस्तं कुमारमभ्यनन्दन् , अस्तुवनेत्यर्थः ॥ ४७ ॥

 पुलोमपुत्रीं विबुधाधिभर्तुस्ततः शचीं नाम कलत्रमेषः ।
 नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा समुपाचरच्च ॥ ४८ ॥


पाठा-१ द्वे. २ यथा तथा. ३ अनया; यथा. ४ उग्रवीर्यः. ५ तद्दर्शनार्थम्. ६ स देवतानाम्. ७ अदितेः सुतानाम्. ८ विनयेन ताः, ९ गुहम्. १० शची. ११ अत्र. १२ समुपाचचार. .  पुलोमपुत्रीमिति ॥ ततोऽनन्तरम् । 'नाम' इति योग्यताप्रतिपादकमव्ययम् ; अव्ययानामनेकार्थत्वात् , ततश्च प्रणामकर्तृत्वयोग्य इत्यर्थः । न च पुलोमपुत्र्या एव प्रणामार्हत्वविवक्षया विशेषणता स्यादिति वाच्यम् ; विबुधाधिभर्नुसंबन्धोद्धाटनेनैव ध्वनितत्वात् । एष स्मरशत्रुसूनुः कुमारो विबुधानां देवानामधिभर्तुरिन्द्रस्य कलत्रं स्त्रीभूतां शचीं शचीसंज्ञिकां पुलोमपुत्रीं नमश्चकार । अथ च सेन्द्राण्याशिषाशीर्वादेन तं कुमारं समुपाचरत् , अवर्धयदित्यर्थः ॥ ४८ ॥

 अथादितीन्द्रप्रमदाः समेतास्ता मातरः सप्त धनप्रमोदाः ।
 उपेत्य भक्त्या नमते महेशपुत्राय तस्मै ददुराशिषः प्राक् ॥४९॥

 अथेति ॥ अथानन्तरं धनप्रमोदाः सान्द्रानन्दाः, कुमारावलोकनादिति भावः । अत एव समेता एकत्रभूतास्ता अदितीन्द्रस्य कश्यपस्य प्रमदाः स्त्रियः सप्त मातरो ब्राह्मीप्रभृतयो भक्त्या निमित्तेनोपेत्य समीपमागत्य नमते नमस्कुर्वते तस्मै महेशपुत्राय कुमाराय तारकविजयसाधना आशिष आशीर्वादात्प्राङ्नमस्कारात्पूर्वमेव ददुः ॥ ४९ ॥

 समेत्य सर्वेऽपि मुदं दधाना महेन्द्रमुख्यास्त्रिदिवौकसोऽथ ।
 आनन्दकल्लोलितमानसं तं समभ्यपिश्चन्पृतनाधिपत्ये ॥ ५० ॥

 समेत्येति ॥ अथानन्तरं मुदं दधाना महेन्द्रमुख्या इन्द्रप्रभृतयः सर्वेऽपि त्रिदिवौकसो देवा आनन्देन भावितारकयुद्धकर्तृत्वजन्मना कल्लोलितं तरंगितं मानसं सर एवं मानसं चेतो यस्य तम् , महानन्दमित्यर्थः । तं कुमारं पृतनाधिपत्ये सैनापत्ये समभ्यषिञ्चन्नभिषिक्तमकुर्वन् ॥ ५० ॥

  सकलविबुधलोकः स्रस्तनिःशेषशोकः
   कृतरिपुविजयाशः प्राप्तयुद्धावकाशः ।
  अजनि हरसुतेनानन्तवीर्येण तेना-
   खिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम् ॥ ५१ ॥

 सकलेति ॥ अनन्तवीर्येणापारपराक्रमेणात एवानूनां महतीमखिला या

पाठा०-१ अदितिप्राप्रमुखाः समेताः; अदितीन्द्रप्रमदासमेताः; अदितीन्द्रप्रमुखाः समेताः. २ सः; तम्. ३ मातृकाः. ४ नमति. ५ स्म शर्वपुत्राय. ६ ताः. ७ मुदमादधानाः. ८ अत्र. ९ ते. १० तमभ्यषिञ्चन्. विबुधचम्बो देवसेनास्तासां लक्ष्मीं वैभवं प्राप्य स्थितेन तेन हरसुतेन, हरसुलसाहाय्येनेत्यर्थः । सकलविबुधलोकः समस्तवृन्दारकनिचयः । स्रस्ताः ध्वस्ताः, नष्टा इति यावत् । निःशेषाः समग्राः शोका यस्य तथा कृता रिपोस्तारकस्य विजय आशा येन । तथा प्राप्तो युद्धायावकाशोऽवसरो येन । तथाभूतश्चाजनि जातः, कुण्ठितवीर्याणां सवीर्यसाहाय्यकमेव कार्यसिद्धिहेतुर्भवतीति भावः । मालिनीवृत्तमेतत् । लक्षणं तु पूर्वमेवोक्तम् ॥ ५१ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमार-
सैनापत्याभिषेको नाम त्रयोदशः सर्गः ॥