किरातार्जुनीयम्/षोडशः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← पञ्चदशः सर्गः किरातार्जुनीयम्
षोडशः सर्गः
भारविः
सप्तदशः सर्गः →


ततः किराताधिपतेरलघ्वीं आजिक्रियां वीक्ष्य विवृद्धमन्युः ।
स तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निति कारणानि ।। १६.१ ।।

मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः ।
सहिष्णवो नेह युधां अभिज्ञा नागा नगोच्छ्रायं इवाक्षिपन्तः ।। १६.२ ।।

विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा ।
महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ।। १६.३ ।।

समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति ।
विभिन्नमर्यादं इहातनोति नाश्वीयं आशा जलधेरिवाम्भः ।। १६.४ ।।

हताहतेत्युद्धतभीष्मघोषैः समुज्झिता योद्धृभिरभ्यमित्रं ।
न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ।। १६.५ ।।

अभ्यायतः संततधूमधूम्रं व्यापि प्रभाजालं इवान्तकस्य ।
रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्य्ॐअनि मातरिश्वा ।। १६.६ ।।

भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानां ।
नास्त्यत्र तेजस्विभिरुत्सुकानां अह्नि प्रदोषः सुरसुन्दरीणां ।। १६.७ ।।

रथाङ्गसंक्रीडितं अश्वहेषा बृहन्ति मत्तद्विपबृंहितानि ।
संघर्षयोगादिव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनां ।। १६.८ ।।

अस्मिन्यशःपौरुषलोलुपानां अरातिभिः प्रत्युरसं क्षतानां ।
मूर्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिशीकराम्भः ।। १६.९ ।।

असृङ्नदीनां उपचीयमानैर्विदारयद्भिः पदवीं ध्वजिन्याः ।
उच्छ्रायं आयान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ।। १६.१० ।।

परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती ।
नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ।। १६.११ ।।

निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण ।
अर्कत्विषोन्मीलितं अभ्युदेति न खण्डं आखण्डलकार्मुकस्य ।। १६.१२ ।।

महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन ।
नावर्तमाना निनदन्ति भीमं अपां निधेराप इव ध्वजिन्यः ।। १६.१३ ।।

महारथानां प्रतिदन्त्यनीकं अधिस्यदस्यन्दनं उत्थितानां ।
आमूललूनैरतिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः ।। १६.१४ ।।

धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः ।
न बर्हभारः पतितस्य शङ्कोर्निषादिवक्षःस्थलं आतनोति ।। १६.१५ ।।

उज्झत्सु संहार इवास्तसंख्यं अह्नाय तेजस्विषु जीवितानि ।
लोकत्रयास्वादनलोलजिह्वं न व्याददात्याननं अत्र मृत्युः ।। १६.१६ ।।

इयं च दुर्वारमहारथानां आक्षिप्य वीर्यं महतां बलानां ।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ।। १६.१७ ।।

माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यं उताहं अन्यः ।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ।। १६.१८ ।।

पुंसः पदं मध्यमं उत्तमस्य द्विधेव कुर्वन्धनुषः प्रणादैः ।
नूनं तथा नैषा यथास्य वेषः प्रच्छन्नं अप्यूहयते हि चेष्टा ।। १६.१९ ।।

धनुः प्रबन्धध्वनितं रुषेव सकृद्विकृष्टा विततेव मौर्वी ।
संधानं उत्कर्षं इव व्युदस्य मुष्टेरसम्भेद इवापवर्गे ।। १६.२० ।।

अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।
धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ।। १६.२१ ।।

प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।
स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशः शराणां ।। १६.२२ ।।
परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणं आत्मरन्ध्रे ।
भीष्मेऽप्यसम्भाव्यं इदं गुरौ वा न सम्भवत्येव वनेचरेषु ।। १६.२३ ।।

अप्राकृतस्याहवदुर्मदस्य निवार्यं अस्यास्त्रबलेन वीर्यं ।
अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ।। १६.२४ ।।

स सम्प्रधार्यैवं अहार्यसारः सारं विनेष्यन्सगणस्य शत्रोः ।
प्रस्वापनास्त्रं द्रुतं आजहार ध्वान्तं घनानद्ध इवार्धरात्रः ।। १६.२५ ।।

प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः ।
महावनानीव महातमिस्रा छाया ततानेशबलानि काली ।। १६.२६ ।।

आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती ।
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ।। १६.२७ ।।

गुरुस्थिराण्युत्तमवंशजत्वाद्विज्ञातसाराण्यनुशीलनेन ।
केचित्समाश्रित्य गुणान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ।। १६.२८ ।।

कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।
अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ।। १६.२९ ।।

अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणां ।
मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ।। १६.३० ।।

तिरोहितेन्दोरथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः ।
सुमेरुशृङ्गादिव बिम्बं आर्कं पिशङ्गं उच्चैरुदियाय तेजः ।। १६.३१ ।।

छायां विनिर्धूय तम्ॐअयीं तां तत्त्वस्य संवित्तिरिवापविद्यां ।
ययौ विकासं द्युतिरिन्दुमौलेरालोकं अभ्यादिशती गणेभ्यः ।। १६.३२ ।।

त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या ।
निनाय तेषां द्रुतं उल्लसन्ती विनिद्रतां लोचनपङ्कजानि ।। १६.३३ ।।

पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते ।
मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ।। १६.३४ ।।

द्यौरुन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर्मयूखैः ।
क्षयं गतायां इव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ।। १६.३५ ।।

महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे ।
भुजङ्गपाशान्भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ।। १६.३६ ।।

जिह्वाशतान्युल्लसयन्त्यजस्रं लसत्तडिल्लोलविषानलानि ।
त्रासान्निरस्तां भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं विवव्रे ।। १६.३७ ।।

दिङ्नागहस्ताकृतिं उद्वहद्भिर्भोगैः प्रशस्तासितरत्ननीलैः ।
रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ।। १६.३८ ।।

निःश्वासधूमैः स्थगितांशुजालं फणावतां उत्फणमण्डलानां ।
गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखं उष्णरश्मिः ।। १६.३९ ।।

प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः ।
निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ।। १६.४० ।।

आक्षिप्तसम्पातं अपेतशोभं उद्वह्नि धूमाक्कुलदिग्विभागं ।
वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ।। १६.४१ ।।

तं आशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन ।
नेता नयेनेव परोपजापं निवारयामास पतिः पशूनां ।। १६.४२ ।।

प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजां अपि लोचनानि ।
गरुत्मता संहतिभिर्विहायः क्षणप्रकाशाभिरिवावतेने ।। १६.४३ ।।

ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन ।
जरत्तृणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः ।। १६.४४ ।।

मनःशिलाभङ्गनिभेन पश्चान्निरुध्यमानं निकरेण भासां ।
व्यूढैरुरोभिश्च विनुद्यमानं नभः ससर्पेव पुरः खगानां ।। १६.४५ ।।

दरीमुखैरासवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा ।
जवानिलाघूर्णितसानुजालो हिमाचलः क्षीब इवाचकम्पे ।। १६.४६ ।।

प्रवृत्तनक्तंदिवसंधिदीप्तैर्नभस्तलं गां च पिशङ्गयष्टिः ।
अन्तर्हितार्कैः परितः पतद्भिश्छायाः समाचिक्षिपिरे वनानां ।। १६.४७ ।।

स भोगसंघः शमं उग्रधाम्नां सैन्येन निन्ये विनतासुतानां ।
महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ।। १६.४८ ।।

साफल्यं अस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इअवापवर्गं ।
अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः ।। १६.४९ ।।

ऊर्ध्वं तिरश्चीनं अधश्च कीर्णैर्ज्वालासटैर्लङ्घितमेघपङ्क्तिः ।
आयस्तसिंहाकृतिरुत्पपात प्राण्यन्तं इच्छन्निव जातवेदाः ।। १६.५० ।।

भित्त्वेव भाभिः सवितुर्मयूखाञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः ।
विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्नकृशः कृशानुः ।। १६.५१ ।।

चयानिवाद्रीनिव तुङ्गशृङ्गान्क्वचित्पुराणीव हिरण्मयानि ।
महावनानीव च किंशुकानां अत्तान वह्निः पवनानुवृत्त्या ।। १६.५२ ।।

मुहुश्चलत्पल्लवलोहिनीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्ज्जनश्यामरुचः पयोदाः ।। १६.५३ ।।

लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे ।
पिनाकिना हूतमहाम्बुवाहं अस्त्रं पुनः पाशभृतः प्रणिन्ये ।। १६.५४ ।।

ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः ।
अध्ॐउखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पय्ॐउचः ।। १६.५५ ।।

पराहतध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ।। १६.५६ ।।

महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनतां ।
व्रजद्भिरार्द्रेन्धनवत्परिक्षयं जलैर्वितेने दिवि धूमसंततिः ।। १६.५७ ।।

स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।
असंस्थितां आदधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ।। १६.५८ ।।

जलौघसंमूर्छनमूर्छितस्वनः प्रसक्तविद्युल्लसितैधितद्युतिः ।
प्रशान्तिं एष्यन्धृतधूममण्डलो बभूव भूयानिव तत्र पावकः ।। १६.५९ ।।

प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ।। १६.६० ।।

उपैत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयं ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवं ।। १६.६१ ।।

अथ विहितविधेयैराशु मुक्ता वितानैरसितनगनितम्बश्यामभासां घनानां ।
विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियं अधिकविशुद्धां वह्निदाहादिव द्यौः ।। १६.६२ ।।

इति विविधं उदासे सव्यसाची यदस्त्रं बहुसमरनयज्ञः सादयिष्यन्नरातिं ।
विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः ।। १६.६३ ।।

वीतप्रभावतनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीं ।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर्वर्षिष्यता दिनकृतेव जलेषु लोकः ।। १६.६४ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः ।