किरातार्जुनीयम्/पञ्चदशः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← चतुर्दशः सर्गः किरातार्जुनीयम्
पञ्चदशः सर्गः
भारविः
षोडशः सर्गः →

अथ भूतानि वार्त्रघ्न- शरेभ्यस्तत्र तत्रसुः ।
भेजे दिशः परित्यक्त- महेष्वासा च सा चमूः ।। १५.१ ।।

अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
मुह्यतीव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ।। १५.२ ।।

खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतौ कृतोच्चैर्वानरं नरं ।। १५.३ ।।

आस्थां आलम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिं आयाति महतां माहात्म्यं अनुकम्पया ।। १५.४ ।।

स सासिः सासुसूः सासो येयायेयाययाययः ।
ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन् ।। १५.५ ।।

त्रासजिह्मं यतश्चैतान्मन्दं एवान्वियाय सः ।
नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः ।। १५.६ ।।

अथाग्रे हसता साचि- स्थितेन स्थिरकीर्तिना ।
सेनान्या ते जगदिरे किंचिदायस्तचेतसा ।। १५.७ ।।

मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ।। १५.८ ।।

विवस्वदंशुसंश्लेष- द्विगुणीकृततेजसः ।
अमी वो मोघं उद्गूर्णा हसन्तीव महासयः ।। १५.९ ।।

वनेऽवने वनसदां मार्गं मार्गं उपेयुषां ।
वाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति ।। १५.१० ।।

पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः ।
गुर्वीं कां आपदं हन्तुं कृतं आवृत्तिसाहसं ।। १५.११ ।।

नासुरोऽयं न वा नागो धरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ।। १५.१२ ।।

मन्दं अस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ।। १५.१३ ।।

न नोननुन्नोऽनुन्नेनो न ना नानानना ननु ।
नुन्नोऽनुन्नो न नुन्नेनो नानेनानुन्ननुन्न नुथ् ।। १५.१४ ।।

वरं कृतध्वस्तगुणादत्यन्तं अगुणः पुमान् ।
प्रकृत्या ह्यमणिः श्रेयान्नालंकारश्च्युतोपलः ।। १५.१५ ।।

स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः ।
स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ।। १५.१६ ।।

भवद्भिरधुनाराति- परिहापितपौरुषैः ।
ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्सहः ।। १५.१७ ।।

वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ।। १५.१८ ।।

अयं वः क्लैब्यं आपन्नान्दृष्टपृष्ठानरातिना ।
इच्छतीशश्च्युताचारान्दारानिव निगोपितुं ।। १५.१९ ।।

ननु हो मथना राघो घोरा नाथमहो नु न ।
तयदातवदा भीमा माभीदा बत दायत ।। १५.२० ।।

किं त्यक्तापास्तदेवत्व- मानुष्यकपरिग्रहैः ।
ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मान्यता ।। १५.२१ ।।

निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
सारतो न विरोधी नः स्वाभासो भरवानुत ।। १५.२२ ।।

तनुवारभसो भास्वानधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ।। १५.२३ ।।

निर्भिन्नपातिताश्वीय- निरुद्धरथवर्त्मनि ।
हतद्विपनगष्ठ्यूत- रुधिराम्बुनदाकुले ।। १५.२४ ।।

देवाकानिनि कावादे वाहिकास्वस्वकाहि वा ।
काकारेभभरे काका निस्वभव्यव्यभस्वनि ।। १५.२५ ।।

प्रनृत्तशववित्रस्त- तुरगाक्षिप्तसारथौ ।
मारुतापूर्णतूणीर- विक्रुष्टहतसादिनि ।। १५.२६ ।।

ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि ।
त्वराधिककसन्नादे रमकत्वं अकर्षति ।। १५.२७ ।।

आसुरे लोकवित्रास- विधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तं इह पौरुषं ।। १५.२८ ।।

इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किंचित्तत्र तस्थेऽन्धकारिणा ।। १५.२९ ।।

मुनीषुदहनातप्तांल्लज्जया निविवृत्सतः ।
शिवः प्रह्लादयामास तान्निषेधहिमाम्बुना ।। १५.३० ।।

दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे ।
भीताः शितशराभीताः शंकरं तत्र शंकरं ।। १५.३१ ।।

महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारं इवेशानं आशश्वास पताकिनी ।। १५.३२ ।।

स बभार रणापेतां चमूं पश्चादवस्थितां ।
पुरः सूर्यादुपावृत्तां छायां इव महातरुः ।। १५.३३ ।।

मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ।। १५.३४ ।।

तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ।। १५.३५ ।।

परिमोहयमाणेन शिक्षालाघवलीलया ।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ।। १५.३६ ।।

अवद्यन्पत्रिणः शम्भोः सायकैरवसायकैः ।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ।। १५.३७ ।।

चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारैराचारचञ्चुरः ।। १५.३८ ।।

स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः ।
धृतोल्कानलयोगेन तुल्यं अंशुमता बभौ ।। १५.३९ ।।

पार्थबाणाः पशुपतेरावव्रुर्विशिखावलिं ।
पय्ॐउच इवारन्ध्राः सावित्रीं अंशुसंहतिं ।। १५.४० ।।

शरवृष्टिं विधूयोर्वीं उदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ।। १५.४१ ।।

तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ।। १५.४२ ।।

द्युवियद्गामिनी तार- संरावविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युतां इव संहतिः ।। १५.४३ ।।

विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः ।
ज्यायो वीर्यं समाश्रित्य न चकम्पे कपिध्वजः ।। १५.४४ ।।

जगतीशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षीकृताशंसो नागराज इवाबभौ ।। १५.४५ ।।

विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना ।
गाण्डीवधन्वनः खेभ्यो निश्चचार हुताशनः ।। १५.४६ ।।

स पिशङ्गजटावलिः किरन्नुरुतेजः परमेण मन्युना ।
ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ।। १५.४७ ।।

शतशो विशिखानवद्यते भृशं अस्मै रणवेगशालिने ।
प्रथयन्ननिवार्यवीर्यतां प्रजिगायेषुं अघातुकं शिवः ।। १५.४८ ।।

शम्भो धनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुं इवांशुभर्तुः ।
निवारयिष्यन्विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीं ।। १५.४९ ।।

घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ।। १५.५० ।।

रुजन्परेषून्बहुधाशुपातिनो मुहुः शरौघैरपवारयन्दिशः ।
चलाचलोऽनेक इव क्रियावशान्महर्षिसंघैर्बुबुधे धनंजयः ।। १५.५१ ।।

विकाशं ईयुर्जगतीशमार्गणा विकाशं ईयुर्जगतीशमार्गणाः ।
विकाशं ईयुर्जगतीशमार्गणा विकाशं ईयुर्जगतीशमार्गणाः ।। १५.५२ ।।

सम्पश्यतां इति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यं ।
अङ्गान्यभिन्नं अपि तत्त्वविदां मुनीनां र्ॐआञ्चं अञ्चिततरं बिभराम्बभूवुः ।। १५.५३ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये पञ्चदशः सर्गः ।