किरातार्जुनीयम्/सप्तदशः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← षोडशः सर्गः किरातार्जुनीयम्
सप्तदशः सर्गः
भारविः
अष्टादशः सर्गः →

अथापदां उद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपुष्यन्स्वपौरुषेणेव शरासनेन ।। १७.१ ।।

भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्मश्च तदीयवृद्ध्या ।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ।। १७.२ ।।

तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रं इवोरुधैर्यं ।
आसादयन्नस्खलितस्वभावं भीमे भुजालम्बं इवारिदुर्गे ।। १७.३ ।।

वंशोचितत्वादभिमानवत्या सम्प्राप्तया सम्प्रियतां असुभ्यः ।
समक्षं आदित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ।। १७.४ ।।

पतिं नगानां इव बद्धमूलं उन्मूलयिष्यंस्तरसा विपक्षं ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ।। १७.५ ।।

संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थं इवाशशंसे ।। १७.६ ।।

भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धं इति व्यथावान् ।
स निर्ववामास्रं अमर्षनुन्नं विषं महानाग इवेक्षणाभ्यां ।। १७.७ ।।

तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।
निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ।। १७.८ ।।

क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।
घनोपरुद्धः प्रभवाय वृष्टेरूर्ध्वांशुराजीरिव तिग्मरश्मिः ।। १७.९ ।।

स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गं ।
बलानि शम्भोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ।। १७.१० ।।

सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ।। १७.११ ।।

उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः ।
अभ्युत्थितस्याद्रिपतेर्नितम्बं अर्कस्य पादा इव हैमनस्य ।। १७.१२ ।।

सम्प्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानां ।
विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ।। १७.१३ ।।

तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुं इव प्रतापं ।
चिरं विषेहेऽभिभवस्तदानीं स कारणानां अपि कारणेन ।। १७.१४ ।।

प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति ।
तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ।। १७.१५ ।।

दृष्टावदानाद्व्यथतेऽरिलोकः प्रध्वंसं एति व्यथिताच्च तेजः ।
तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपं इव प्रकाशः ।। १७.१६ ।।

ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।
गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ।। १७.१७ ।।

एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् ।
इयेष पर्यायजयावसादां रणक्रियां शम्भुरनुक्रमेण ।। १७.१८ ।।

मुनेर्विचित्रैरिषुभिः स भूयान्निन्ये वशं भूतपतेर्बलौघः ।
सहात्मलाभेन समुत्पतद्भिर्जातिस्वभावैरिव जीवलोकः ।। १७.१९ ।।

वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः ।
प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ।। १७.२० ।।

स सायकान्साध्वसविप्लुतानां क्षिपन्परेषां अतिसौष्ठवेन ।
शशीव दोषावृतलोचनानां विभिद्यमानः पृथगाबभासे ।। १७.२१ ।।

क्षोभेण तेनाथ गणाधिपानां भेदं ययवाकृतिरीश्वरस्य ।
तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ।। १७.२२ ।।

प्रसेदिवांसं न तं आप कोपः कुतः परस्मिन्पुरुषे विकारः ।
आकारवैषम्यं इदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ।। १७.२३ ।।

विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य ।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वां इव तक्षकस्य ।। १७.२४ ।।

स्व्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपं आशशङ्के ।
पर्यायसम्पादितकर्णतालं यन्ता गजं व्यालं इवापराद्धः ।। १७.२५ ।।

निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानां ।
ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ।। १७.२६ ।।

विभेदं अन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।
नेतारिलोकेषु करोति यद्यत्तत्तच्चकारास्य शरेषु शम्भुः ।। १७.२७ ।।

सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः ।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ।। १७.२८ ।।

अलंकृतानां ऋजुतागुणेन गुरूपदिष्टां गतिं आस्थितानां ।
सतां इवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिं उन्ममाथ ।। १७.२९ ।।

बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः ।
अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारं आपुः ।। १७.३० ।।

चित्रीयमाणानतिलाघवेन प्रमाथिनस्तान्भवमार्गणानां ।
समाकुलाया निचखान दूरं बाणान्ध्वजिन्या हृदयेष्वरातिः ।। १७.३१ ।।

तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन ।
हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ।। १७.३२ ।।

अनामृशन्तः क्वचिदेव मर्म प्रियैषिणानुप्रहिताः शिवेन ।
सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ।। १७.३३ ।।

अस्त्रैः समानां अतिरेकिणीं वा पश्यनीषूणां अपि तस्य शक्तिं ।
विषादवक्तव्यबलः प्रमाथी स्वं आललम्बे बलं इन्दुमौलिः ।। १७.३४ ।।

तपस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य ।
महेषुजालान्यखिलानि जिष्णोरर्कः पयांसीव समाचचाम ।। १७.३५ ।।

रिक्ते सविस्रम्भं अथ्+अर्जुनस्य निषङ्गवक्त्रे निपतात पाणिः ।
अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ।। १७.३६ ।।

च्युते स तस्मिन्निषुधौ शरार्थाद्ध्वस्तार्थसारे सहसेव बन्धौ ।
तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यं ।। १७.३७ ।।

आघट्टयामास गतागताभ्यां सावेगं अग्राङ्गुलिरस्य तूणौ ।
विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गां जिगीषोः ।। १७.३८ ।।

बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ ।
युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ।। १७.३९ ।।
तेनातिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततयानुतेपे ।
स्वां आपदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिपक्षं ।। १७.४० ।।

प्रतिक्रियायै विधुरः स तस्मात्कृच्छ्रेण विश्लेषं इयाय हस्तः ।
पराङ्मुखत्वेऽपि कृतोपकारात्तूणीमुखान्मित्रकुलादिवार्यः ।। १७.४१ ।।

पश्चात्क्रिया तूणयुगस्य भर्तुर्जज्ञे तदानीं उपकारिणीव ।
सम्भावनायां अधरीकृतायां पत्युः पुरः साहसं आसितव्यं ।। १७.४२ ।।

तं शम्भुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद ।
हृत्तोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षं ।। १७.४३ ।।

जहार चास्मादचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखं ।
चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डं इवाम्बुदस्य ।। १७.४४ ।।

विकोशनिर्धौततनोर्महासेः फणावतश्च त्वचि विच्युतायां ।
प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ।। १७.४५ ।।

विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्राथ् ।
निरस्तधूमस्य च रात्रिवह्नेर्विना तनुत्रेण रुचिं स भेजे ।। १७.४६ ।।

अचित्ततायां अपि नाम युक्तां अनूर्ध्वतां प्राप्य तदीयकृच्छ्रे ।
महीं गतौ ताविषुधी तदानीं विवव्रतुश्चेतनयेव योगं ।। १७.४७ ।।

स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तं ।
शस्त्राभिघातैस्तं अजस्रं ईशस्त्वष्टा विवस्वन्तं इवोल्लिलेख ।। १७.४८ ।।

संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यं उपागतेषु ।
मुनेर्बभूवागणितेषुराशेर्लौहस्तिरस्कार इवात्ममन्युः ।। १७.४९ ।।

ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान्क्षरल्लोहितदिग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पार्ष्णिघातैः ।। १७.५० ।।

साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण ।
शम्भुं बिभित्सुर्धनुषा जघान स्तम्बं विषाणेन महानिवेभः ।। १७.५१ ।।

रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः ।
समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव ।। १७.५२ ।।

विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः ।
विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरं अदूरपातैः ।। १७.५३ ।।

उपोढकल्याणफलोऽभिरक्षन्वीरव्रतं पुण्यरणाश्रमस्थः ।
जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ।। १७.५४ ।।

ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानं अन्यैरतिदुस्तरं सः ।
तेजःश्रियां आश्रयं उत्तमासिं साक्षादहंकारं इवाललम्बे ।। १७.५५ ।।

शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गैः ।
हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिणेव ।। १७.५६ ।।

यथा निजे वर्त्मनि भाति भाभिश्च्यायामयश्चाप्सु सहस्ररश्मिः ।
तथा नभस्याशु रणस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ।। १७.५७ ।।

शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः ।
ज्वलन्नसिस्तस्य पपात पाणेर्घनस्य वप्रादिव वैद्युतोऽग्निः ।। १७.५८ ।।

आक्षिप्तचापावरणेषुजालश्छिन्नोत्तमासिः स मृधेऽवधूतः ।
रिक्तः प्रकाशश्च बभूव भूमेरुत्सादितोद्यान इव प्रदेशः ।। १७.५९ ।।

स खण्डनं प्राप्य परादमर्षवान्भुजद्वितीयोऽपि विजेतुं इच्छया ।
ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसां इवाश्मनां ।। १७.६० ।।

नीरन्ध्रं परिगमिते क्षयं पृषत्कैर्भूतानां अधिपतिना शिलाविताने ।
उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालं इन्द्रसूनुः ।। १७.६१ ।।

निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवं अभितः कषायचित्रां ।
ईशानः सकुसुमपल्लवैर्नगैस्तैरातेने बलिं इव रङ्गदेवताभ्यः ।। १७.६२ ।।

उन्मज्जन्मकर इवामारापगाया वेगेन प्रतिमुखं एत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्यां आजघ्ने विषं अविलोचनस्य वक्षः ।। १७.६३ ।।

अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योरसुगमं अरिसैन्यैरङ्कं अभ्यागतस्य ।
जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयं अपि सेहे पाण्डवस्य स्मरारिः ।। १७.६४ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये सप्तदशः सर्गः ।