सामग्री पर जाएँ

काशिका (पदमञ्जरीव्याख्यासहिता)/अष्टमोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
द्वितीयः पादः
[[लेखकः :|]]
तृतीयः पादः →

काशिकावृत्तिः---6
अथ अष्टमाध्याये द्वितीयः पादः
पूर्वत्रासिद्धम् ।। 8.2.1 ।।
पूर्वत्रासिद्धमित्ययमधिकार इति । यदि तु स्वतन्त्रो विधिः स्यात्, ततो वक्ष्यमाणस्य त्रिपादीलक्षणसमुदायस्य पूर्वत्र सपादसप्ताध्यायीलक्षणे समुदायेऽसिद्धत्वमुक्तं स्यात्, न तु त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वमापादितं स्यात्; ततश्च गुडलिण्मान्, गोधुङ्‌मानित्यादौ ढत्वघत्वादेरसिद्धत्वाभावात् `झयः' इति मतुपो वत्वप्रसङ्गः । तस्मान्न विधिः । अथ परिभाषा स्यात्, सर्वत्रैवाष्टाध्याय्यां पूर्व प्रति परस्यासिद्धत्वात् तेन, तैः, तस्य---इत्यादाविनादिषु कर्त्तव्येषु त्यदाद्यत्वस्यासिद्धत्वादकारान्तनिमित्ता इनादयो न स्युः । तस्माद्‌---अधिकारः । एवं सति यदनेन सम्पादितं भवति तद्दर्शयति---तत्रेति । तत्राधिकारे सतीत्यर्थः । अधिकारे हि त्रिपादीगतानामप्यविशेषेण सपादसप्ताध्यायीगतान्प्रत्यसिद्धत्वं त्रिपाद्यं च पूर्वत्र परस्यासिद्धत्वं सिद्ध्यति । विधौ तु नैतावत्सम्पादयितुं शक्यम्; त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वानापादनात् । परिभाषायां च नैतावति पर्यवस्यति; सर्वत्रैव प्रसङ्गात् । तस्मादधिकारत्वादेतावत्सन्पद्यते । एतावदेव च सम्पद्यत इत्यर्थः । न चैवमत्र भ्रमितव्यम्---येयं सपादसप्ताध्यायी अनुक्रान्तेत्यनेन विधिरूपेण प्रवृत्तिर्दर्शिता, इत उत्तरमित्या दिना त्वधिकाररूपेण, ततश्च शेष इतिवल्लक्षणं चाधिकारश्चेति ? निष्प्रयोजनत्वाद्, अधिकारोऽयमित्युक्तत्वाच्च । किं हि नामाधिकार एवास्मिन्न सिध्यति, यदर्थो विधिराश्रीयते ! सप्तानामध्यायानां सामाहारः सप्ताध्यायी, सपादाचासौ सप्ताध्यायी चेति कर्मधारयः, सपादेति टाबन्तपाठे त्वसमासः । उत्तरउत्तरो योग इति पाठः;वीप्सायां द्विर्वचने सुब्लुकोऽसम्भवात् । अत्राध्यायग्रहणेन योगग्रहणेन च शास्त्रासिद्धत्वमाश्रीयत इति दर्सयति । एतच्च पूर्वत्रेति वचनाल्लभ्यते । शास्त्रस्य हि मुख्यं पूर्वत्वम्; सन्निवेशविशेषयोगित्वात् । कार्यस्य तु शास्त्रद्वारकमौपचारिकम्, न हि मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम् । कथं पुनरुच्चरितं शास्त्रमसिद्धमित्युच्यते, न हि वचनशतेनापि सिद्धमपि असिद्धं भवति ? अत आह---सिद्धकायं न करोतीत्यर्थ इति । वचनादतिदेश आश्रीयत इत्यर्थः । शास्त्रास्यासिद्धत्वमाश्रीयते, न कार्यस्येति दर्शितम् ।
तत्र प्रयोजनमाह---तदेतदिति । यदिदं शास्त्रविषयमसिद्धवचनं तदेतदित्यर्थः । आदेशो लक्षणं निमित्तं यस्य कार्यस्य तस्य प्रतिषेधार्थमुत्सृज्यते आदेशेन निवर्तत इति उत्सर्गः=स्थानी, स लक्षणं निमित्तं यस्य तस्य भावः प्रवृत्तिर्यथा स्यादित्येवमर्थं चासिद्धवचनम् । कार्यासिद्धत्वे तूत्सर्गलक्षणस्य भावो न न सिध्यति । तत्रादेशलक्षणप्रतिषेधस्योदाहरणमाह---अस्मा उद्धरेत्यादि । आयावोः कृतयोः `लोपः शकल्यस्य' इति लोपः । व्यलोपस्यासिद्धत्वादिति । शास्त्रद्वारकं व्यलोपस्यासिद्धत्वम् । यदा हि पूर्वशास्त्रसन्निधौ परशास्त्रमसिद्धम्, तदा तत्प्रतिपादितं कार्यं सुतरामसिद्धं भवति । उत्सर्गलक्षणभावस्योदाहरणमाह--अमुष्मै इति । अत्रासत्यसिद्दत्वे परत्वाद् `अदसोऽसेर्दादु दो मः' इत्युत्वे सत्यत इति स्मायादयो न स्युः । असिद्धत्वे तु पूर्वं स्मादयः, पश्चादुत्वमिति सिद्धमिष्टम् । उत्वस्येति । उत्वशास्त्रस्येत्यर्थः ।
शुष्किकेत्यादिश्लोकः । अत्र निदर्शनमिति प्रत्येकमभिसम्बध्यते । निदर्शनमुदाहरणदिगित्यर्थः । मतोर्वत्वे कर्त्तव्ये `झलां जशोऽन्ते' इति जश्त्वेऽसिद्धे सति गुडलिण्मानिति दर्शनम् ।
न कोपधाया इति पुंवद्भावप्रतिषेधो न भवतीति । कोपधप्रतिषेधे तद्धितवुग्रहणमित्येतनाश्रित्येदं प्रयोजनमुक्तम् । क्षामिमानिति । `क्षायो मः' इति निष्ठातकारस्य मत्वम्, ततः `अत इञ्‌' इति इञन्ताद् `अत इनिठनौ' इतीन्, तदन्ताद्वा मतुप् ।
वहेरित्यादि । `वह प्रापणे', निष्ठा, सम्प्रसारणम्, `हो ढः', `झषस्तथोर्धोऽधः', ष्टुत्वम्, `ढो ढे लोपः', `ढ्रलोपे पूर्वस्य दीर्घोऽणः', ऊढ इति स्थिते णिचि टिलोपः, लुङ्‌, च्छेश्चङ्‌ । हतइत्येतद्‌ द्विरुच्यते इति । `अजादेर्वितीयस्य' इति वचनात्, ततः `हलादिः शेषः', `कुहोश्चुः', इति चुत्वम्---हकारस्य झकारः, तस्य `अभ्यासे चर्च' इति जश्त्वं जाकरः । अथात्र `सन्वल्लघुनि' इतीत्वं कस्मान्न भवति ? तत्राह--अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह---अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह---औजिढदित्येतत्त्विति । पूर्वत्रासिद्धीयमद्विर्वचने' इत्येतत्त्विह प्रवर्त्तते; अनिस्यत्वात् । अनित्यत्वं च `उभौ साभ्यासस्य' इति वचनाद्विज्ञायते, अन्यथा `अनितेः' इति णत्वे कृते तस्य सिद्धत्वात् सह णकारेण द्विर्वचने सति सिद्धं स्यात्---प्राणिणिवतीति ।
गुडलिण्मानिति । गुडं लेढीति क्विप्, तदन्तान्मतुप्, ढत्वजश्त्वयोः कृतयोः `यरोऽनुनासिकत्वे तद्धिते भाषायां नित्यवचनम्' इति णकारः ।
षष्ठीनिर्देशा इति । `संयोगान्तस्य लोपः' इत्यादयः, पञ्चमीनिर्देशाः `ह्रस्वादङ्गात्' इत्यादयः, सप्तमीनिर्देशाः `झलो झलि' इत्यादयलस्तेषाम् । असिद्धत्वं न भवतीति । यदि स्यात् `संयोगान्तस्य लोपः' इत्यत्र `षष्ठी स्थानेयोगा इत्येतस्याभावात्तच्छेषस्य `अलो।ञन्त्यस्य' इत्यस्याप्रवृत्तेः सर्वस्य पदस्य लोपप्रसङ्गः; `ह्रस्वादङ्गात्' इत्यत्राप्यनियमेन दिक्शब्दाध्याहारात्पूर्वस्य परस्य च लोपप्रसङ्गः; `झलो झलि' इत्यत्राप्यौपश्लेषिकेऽधिकरणे सप्तमी विज्ञायेतेति पूर्वपरयोरविशेषेण प्रसङ्गः, सत्सप्तमीविज्ञाने तु व्यवहितस्यापि प्रसङ्गः । कथं पुनः पूर्वासु परिभाषासु कर्तव्यासु तेषामसिद्धत्वं न भवति ? अत आह---कार्यकालं हीति । संज्ञापरिभाषमिति समाहारद्वन्द्वः । अयमभिप्रायः---
संज्ञाः परार्था अत्यन्तं परिभाषाश्च तद्विधाः ।
न स्वातन्त्र्येण तास्तस्मात् कार्यावगतिहेतवः ।।
अनेकस्य प्रधानस्य शेषभूता भवन्त्विति ।
एताः केवलमाचार्यः पृथन्देशा उपादिशत् ।।
विधिवाक्यैस्तु संहत्य यत्र तत्र स्थितैरपि ।
बोधयन्त्यः स्वकार्याणि नैकपूर्वाः परा इमाः ।। इति ।
यदि कार्यकालं संज्ञापरिभाषम्, `विप्रतिषेधे परम्' इत्येषापि परिभाषात्रोपतिष्ठेत, ततश्च विस्फोर्यम्, अवगोर्यमित्यत्र गुणं बाधित्वा परत्वात् `हलि च' इति दीर्घत्वं स्यात् ? इत्यत आह--विप्रतिषेधे परमित्येषा त्विति । एषा तु न प्रवर्त्तत इति सम्बन्धः । मध्ये हेतुर्येनेति । विप्रतिषेधो हि तस्या निमित्तम् । कश्च विप्रतिषेधः ? द्वयोस्तुल्यबलयोरेकस्मिन्विषये त्वं चाहं चेति प्रवृत्तिप्रसङ्गः । न चायमत्र सन्भवति, तस्मान्निमित्ताभावान्न प्रवर्त्तत इत्यथः । यद्येवम्, अपवादोऽपि परः पूर्वमुत्सग न बाधेत ? अत आह---अपवादस्येति । यद्यपवादस्यासिद्धत्वादुत्सर्ग एव स्यात्, अपवादविधानं व्यर्थं स्यात् ।।
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ।। 8.2.2 ।।
अत्र सूत्रे, उत्तरसूत्रे च कार्योपादानात् कार्ये कार्यस्यासिद्धत्वमुच्यते । `कृति' इत्येतत्तु सम्भवव्यभिचाराभ्यां तुग्विधिनैव सम्बध्यते । विधिशब्दो भावसाधनः, कर्मसाधनश्च; तत्र भावसाधनानां त्रयाणां कर्मसाधनस्य चैकस्यैकशेषः; भिन्नार्थानामपि सरूपाणामेकसेषवचनात् । विधिश्च विधिश्च विधिश्च विधयः, ततो बहुवचनान्तेन विधिशब्देन सुबादीनां द्वन्द्वस्य षष्ठीसमासः । सर्वत्र च शेषलक्षणा षष्ठी । तत्र सुब्विधौ शेष एव शेषः, इतरेषु तु कर्म शेषत्वेन विवक्षितम् । तदिदमुक्तम्---विधिशब्दोऽयमित्यादि । सम्बन्धसामान्यषष्ठ्यन्तेनेति । सम्बन्धसामान्यमुच्यते षष्ठ्या, तदन्तेनेत्यर्थः । सामान्यशब्देन स्थानेयोगव्यवच्छेदः । कथं पुनः `षष्ठी स्थानेयोगा' इति परिभाषायां सत्यां सामान्यवचनता लभ्यते ? उच्यते; नात्र सुपः स्थाने किञ्चिद्विधीयते, किं तर्हि ? अनुवादोऽयम्---सुपो यो विधिस्तत्रेति । अनुवादे च परिभाषा न प्रवर्त्तते; `उदीचामातः स्थाने' इति स्थानेग्रहणाल्लिङ्गात् । सम्बन्धसामान्यवचनषष्ठ्यन्तेनेति यदुक्तम्, तत्र प्रयोजनमाह---सुपां स्थान इत्यादि । सर्वोऽसौ सुब्विधिरिति । सर्वस्य सुप्सम्बन्धित्वात्सुबर्थमेव चेदं विधिग्रहणं कृतम् । स्वरादिषु तु नार्थः; तेन यथा `न मु ने' इत्यत्र नाभावे कर्त्तव्ये इत्यर्थी भवति, तथा स्वरादिषु कर्त्तव्येष्वित्यर्थो भविष्यति । द्वन्द्वात्परस्य तु प्रत्येकं सम्बन्धो दुर्निवार इति भावसाधनत्वमङ्गीकृतम् । `सुब्विधिस्वरसंज्ञातुक्षु' इत्युच्यमाने तु न किञ्चिद्यत्नसाध्यम् ।
राजवतीति । मतुबन्ताद् `उगितश्च' इति ङीप्, राजशब्दः कनिन्प्रत्ययान्तत्वादाद्युदात्तः । पञ्चार्ममिति । `दिक्संख्ये संज्ञायाम्' इति समासः, तत्र नलोपे कृते पूर्वपदमवर्णान्तं जातमिति स्वरः प्राप्तोऽसिद्धत्वान्न भवति, समासोदात्तत्वमेव भवति ।
पञ्चदण्डीति । समाहारद्विगुः । नलोपस्यासिद्धत्वात् ष्णान्ता षडिति षट्‌संज्ञा भवतीति । एतच्च यत्तत्रोक्तम्---`अस्तग्रहणमौपदेशिकप्रतिपत्त्यर्थम्' इति, तदनाश्रित्योक्तं द्रष्टव्यम् । न षट्‌स्वस्त्रादिभ्य इति टापः प्रतिषेधो भवतीति । अत्र हि नान्तत्वादाप्प्राप्तः, सोऽपि निषिध्यते; `स्त्रियां यदुक्तं तन्न भवति' इति सामान्येन निषेधविधानात् । तदेतत्प्रयोजनं कथं भवतीति । पाक्षिकत्वं प्रयोजनस्य दर्शयितुं प्रश्नः । केषाञ्चिद्दर्शनम्---अनारभ्य कार्यविशेषमादौ तावत्संज्ञा क्रियते, ततो यस्यां दशायां यत्कार्यं प्राप्तं तत्क्रियते लोकवत्, तद्यथा---लोके दशम्यामुत्थितायां पुत्रस्य नाम दधातीति सकृत्कृतया संज्ञया सर्वाणि कार्याणि क्रियन्ते, न तु प्रतिकार्यं नाम कुर्वन्ति, तद्वदिति । अयं च `यथोद्देशं संज्ञापरिभाषम्' इति पक्षः । कार्यकालपक्षे तु तेनतेन विधिवाक्येनेकवाक्यतापन्नेन संज्ञासूत्रेण संज्ञा प्रणीयत इति प्रतिकार्यं संज्ञाप्रवृत्तिः । तत्राद्ये दर्शने जश्शसोर्लुगर्था या संज्ञा तयैव टाप्प्रतिषेधस्यापि सिद्धत्वान्नेदं प्रयोजनम्, द्वितीये तु पक्षे भवति प्रयोजनमित्याह---यदि प्रतिकार्यमिति । कथं तदा प्रयोजनम् ? इत्याह---या हीति । जश्शसोर्लुगर्थेति । उपलक्षणमेतत्, ङीप्प्रतिषेधार्थेत्यपि द्रष्टव्यम् । स्त्रीप्रत्ययस्येति । टाप इत्यर्थः । अथ प्रथमे पक्षे न कर्त्तव्यं संज्ञाग्रहणम्, इह हि---दण्डिगुप्तौ, गुप्तदण्डिनाविति नलोपे कृते दण्डिशब्दस्य घिसंज्ञा प्राप्नोति, ततश्च तस्यैव पूर्वनिपातः स्यात्; नलोपस्यासिद्धत्वाद्धि संज्ञाया अभावादनियमः पूर्वनिपातस्य भवति ।
अत्र के चदित्यादि । सुपः सन्निपातेन नलोपः, स यदि तुकं प्रवर्त्तयेत् तत्सन्निपातं विहन्यात् । कथं पुनः सन्निपातस्य विघातः, यावता पूर्वान्तस्तुक् स तुग्ग्रहणेन गृह्यते ? सत्यम्; ह्रस्वमात्रभक्तस्तुगित्याश्रित्येदमुक्तम् । बहिरङ्गलक्षणत्वेन वेति । बहिर्भूतविभक्त्यपेक्षो नलोपोऽन्तर्भूतक्विबपेक्षे तुक्यसिद्धो भवतीत्यर्थः ।
परिभाषाद्वय्साप्यनित्यत्वं ज्ञापयितुमिति । तत्र सन्निपातपरिभाषाया अनित्यत्वाद् वृक्षायेत्यादौ `सुपि च' इति दीर्घत्वं भवति । बहिरङ्गपरिभाषायास्त्वनित्यत्वाद् एषा, द्वे इत्यत्र विभक्त्याश्रयं त्यदाद्यत्वं बहिरङ्गमपि प्रातिपदिकाश्रये टापि न सिद्धं भवति ।
वृत्रहच्छत्रमिति । नात्र सन्निपातलक्षणो नलोपः, नापि नलोपस्य बहिरङ्गत्वम्; तुकोऽपि छकारापेक्षत्वात् । राजीयतीति । `क्यचि च' इतीत्वम् । राजायत इति । `अकृत्सार्वधातुकयोः' इति दीर्घः । राजाश्व इति । `अकः सवर्ण दीर्घः' ।।
न मु ने ।। 8.2.3 ।।
`मु' इत्यविभक्तिको निर्देशः । घिलक्षणो नाभावो न स्यादिति । यद्येतन्नारभ्येतेति शेषः । अनेन सूत्रारम्भस्य प्रयोजनमुक्तम् । कृते तु नाभावे इत्यादि । यद्यत्र दीर्घत्वं स्यात् भाव्यमानोऽप्युकारः सवर्णान् गृह्णातीति, यथा---अमूभ्यामित्यादौ दीर्घस्य स्थानिनो दीर्घोकारो भवति, तथात्राप्याकारस्य दीर्घोकारः स्यात्, ततश्च ह्रस्वसन्निपातकृतो नाभावस्तं विहन्यादिति भावः । अत्र चोदयन्ति---मुभावस्य सिद्धत्वात्किल दीर्घप्रसङ्गश्चोद्यते, तत् किं मुभावमपश्यद् दीर्घशास्त्रं घिलक्षणं नाभावमपि न पश्यति, वृक्षादिशब्दस्थानीयं ह्येतद्दीर्घशास्त्रं प्रति, ततश्च यञादेरभावात्कथमत्र दीर्घप्रसङ्ग इति ? अत्राहुः---प्रयोगे तावन्नाभावः श्रूयते, शास्त्रमपि तस्य सिद्धकाण्डे पठितम्, केवलं तन्निदानभूतं मुभावमेव दीर्घशास्त्रं न पश्यतिं, तन्मा द्राक्षीत्, नाभावं तावत्पश्यति, ततश्च दीर्घत्वं प्रवर्त्तयेदिति ।
अथ वेति । यथा कश्चित्कुशलमतिः किञ्जातीयो धावति, किंवर्णो धावति---इत्येकेनानेकेन वा पृष्टस्तन्त्रेण प्रतिवक्ति---श्वेतो धावतीति; तथात्रापि योगद्वयमेतत्; तत्रैकं ने कर्त्तव्ये मुत्वस्यासिद्धत्वं निषेधति, अपरं ने परतो यत्प्राप्तं तत्र । तदिदमुक्तम्---उभयार्थमिति । तन्त्रणेति । साधारणं भवेत्तन्त्रम्, यथा---तुल्यकक्षयोर्भुञ्जानयोः प्रदीपः, इह तु साधारणप्रयत्नस्तन्त्रम् ।
इदानीमेकस्मिन्नेव योगे यथोभयं साध्यते, तथा दर्शयति---अथ वेति । अर्थात्संगृहीतमिति । वृद्धकुमारीवाक्यवत्, तद्यथा---वृद्धकुमारीन्द्रेणोक्ता वरं वृणीष्वेति सा वरमवृणोत्---पुत्रा मे बहुक्षीरघृतमन्नं कांस्यपात्र्यां भुञ्जीरन्निति, पतिरेव तावदस्या न भवति कुतः पुत्राः, कुतो गावः, कुतो धान्यम् ! अनेनैव खल्वेकवाक्येन पतिः पुत्राः गावो धान्यमिति सर्वं वृतं भवति; तद्वदत्रापि ने परतो यत्कार्यं तत्र कर्त्तव्ये मुभावस्यासिद्धत्वस्य प्रतिषेधं ब्रुवता नाभावेऽपि कर्त्तव्येऽर्थान्मुत्वस्यासिद्धत्वं प्रतिषिद्धं भवति ।
एकादेशस्वरोऽन्तरङ्ग इति । एकादेशस्वरे चत्वारि दर्शनानि---उदात्तानुदात्तयोरेकादेश आन्तर्यतः स्वरितोऽभिनिर्वृत्तस्य स्थाने' एकादेश उदात्तेनोदात्तः' इत्यनेनोदात्तगुणादेशः क्रियत इत्येकं दर्शनम् । तथैवाभिनिवृत्त एकादेशस्वरे स्वरितगुणमात्रस्योदात्तमात्रं विधीयत इति द्वितीयं दर्शनम् । तृतीयं तु दर्शनम् `एकादेश उदात्तेनोदात्तः' इति परिभाषा एकादेशविधिषूपतिष्ठते; तत्रायमर्थो भवति---आद्‌गुणो भवति, उदात्तानुदात्तयोस्त्वाद्‌गुण उदात्त इति; एवं सत्येकादेशो विधीयमान एवोदात्तो भवति । चतुर्थदर्शनमुदात्तानुदात्तयोरेकादेशः स्वरितगुणः प्राप्त उदात्तो भवतीति । तत्र येननाप्राप्तिन्यायेन स्वरितत्वापवाद उदात्तविधिः सम्पद्यते, तत्र परिभाषापक्षे सिद्धमुदात्तत्वमयादिषु । इतरेषु तु पक्षेषु असिद्धत्वे प्राप्ते सिद्धत्वमुच्यते, आन्तर्यतोऽयादेश उदात्तो यथा स्यादिति, अन्यथा स्वरितः स्यात् ।
कुमार्या इदमिति । कुमारशब्दः प्रातिपदिकस्वरेणान्तोदात्तः, तस्माद् `वयसि प्रथमे' इति ङीप्‌, `यस्येति च' इति लोपः, `अनुदात्तस्य च यत्रोदात्तलोपः' इति ङीप उदात्तत्वं चतुर्थ्येकवचनम्, कुमारी + ए इति स्थिते' आण्नद्याः' इत्याट्‌, यणादेशः, `उदात्तयणो हल्पूर्वात्' इत्याट उदात्तत्वम्, `आटश्च' इति वृद्धिरेकादेशः, स आन्तर्यतः स्वरितः प्रसक्तः `एकादेश उदात्तेनोदात्तः' इत्यनेनोदात्तः क्रियते, तत्सिद्धत्वं वक्तव्यम्--अयादेश उदात्तो यथा स्यात् । यदीत्यादि । पूर्वमुदात्तत्वं क्रियते पश्चादेकाधेशः । यथानन्तरं दर्शितं तदा भवतीदं प्रयोजनमित्यर्थः । अथ त्वित्यादि । कुमार्या ए इति स्थिते `आटश्च' इति वृद्धिश्च प्राप्नोति, `उदात्तयणो हल्पूर्वात्' इति आटः स्वरश्च, द्वावप्यनित्यौ; स्वरः शब्दान्तरप्राप्तेरनित्यः, स हि प्रागाकारस्य प्राप्नोति कृतायां वृद्धावैकारस्य, वृद्धिरपि प्रागनुदात्तयोः परत्वात्स्वरे, आटस्तु स्वरे कृते उदात्तानुदात्तयोः स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति, उभयोरनित्ययोः परत्वात्स्वरे प्राप्ते वर्णाश्रयत्वेनान्तरङ्गत्वाद्वद्धिः, स्वरस्तु विभक्तेरुच्यमानः पदाश्रयो बहिरङ्गः ।
गाङ्गेऽनूप इति । गङ्गाया इदमित्यण्, प्रत्ययस्वरेणोन्तोदात्तः, ततो ङिः, सुप्त्वादनुदात्तः, तयोरेकादेश उदात्तः । आपोऽनुगतमनूपमिति प्रादिसमासः, अव्ययपूर्वपदप्रकृतिस्वरे प्राप्ते `अनोरप्रधानकनीयसी' इत्युत्तरपदान्तोदात्तत्वं शेषनिघातः । तस्य सिद्धत्वादित्यादि । एकादेशस्वरस्य सिद्धत्वे `एङः पदान्तादति' इत्ययमेकादेश उदात्तेन सह भवति । ततश्च `स्वरितो वानुदात्ते पदादौ' इति पक्षे स्वरितः पक्षे उदात्तो भवति । यदि त्वसिद्धत्वं स्यात्, तदासावेकार उदात्तानुदात्तस्थानिकत्वादान्तर्यतः स्वरितः स्यात् । तथा च सति तस्य `एङः पदान्तादति' इत्ययमेकादेश उदात्तेन न भवति, किं तर्हि ? `स्वरितेन' इति पक्षे स्वरितो न स्यात् । अपि तु स्वरितानुदात्तयोः स्थाने भवन्नान्तर्यतो नित्यमेव स्वरितः स्यात् । स उदात्तेनेत्यत इति पाठः, स एकादेश उदात्तेन सहेत्यतो हेतोरित्यर्थः ।
शतृस्वर इति । तुदिवदिनदिभ्यो लट्‌, तस्य शत्राश्रयो नद्यजाद्योः स्वरः शतृस्वरः, `शतुरनुमो नद्यजादी' इत्यत्र `अन्तोदात्तादुत्तरपदात्' इत्यन्तोदात्तादुत्तरपदादीत्यनुवर्तते । तुदती, नुदतीति । तुदिनुदिभ्यां लट, शत्रादेशः, `तुदादिभ्यः शः', प्रत्ययस्वरेणोदात्तः । अनुम इति प्रतिषेधो ज्ञापक इति । तेन नैतदर्थं सिद्धत्वं वक्तव्यमिति भावः । कथमेतत् ज्ञापकम् ? इत्याह---नदीति । अनुम इति प्रतिषेध स्येतत्प्रयोजनम्---नुदन्तीत्यत्र `आच्छीनद्योर्नुम्' इति यदा नुम् भवति, तदा मा भूदिति । असिद्धे चैकादाशस्वरेऽन्तोदातत्वाभावादेव शतृ न भविष्यति, किमनुम इति प्रतिषेधेन ! प्रतिषेधात्तु सिद्धत्वमनुमीयते । ननु यत्र लसार्वधातुकानुदात्तत्वस्य निमित्तं नास्ति, तदर्थः प्रतिषेधः स्यात्; यान्ती, वान्तीत्यत्र हि धातुप्रत्ययोरुदात्तयोरान्तर्यत एकादेश उदात्तः, स च शतृस्वरे सिद्धः ? अत्रापि प्रत्ययस्वरे सति तदनन्तरमेव धातोः शेषनिघातो भवति, ततश्चात्रापि नान्तरेणैकादेशस्वरमन्तोदात्तत्वं भवति ।
एकानुदात्तत्वमिति । एवं वर्जयित्वा परिशिष्टस्य यदनुदात्तत्वं तदेकानुदात्तत्त्वम् । भाष्ये त्वेकाननुदात्तमिति पाठः, तत्रापि `अनुदात्तं पदमेकवर्जम्' इत्ययमेव स्वरो विवक्षितः, तत्र हि `एकमेवानुदात्तमन्यत्सर्वमुदात्तम्' इत्युच्यते । तथा च तत्रोक्तम्---`सिद्धं त्वेकाननुदात्तत्वात्' इति । तुदन्तीति । शविकरण उदात्तः, लसार्वधातुकमनुदात्तम्, तयोरेकादेशः । अनेनेति । एकादेशस्वरेण सिद्धेन । वर्ज्यमानतेति । `अनुदात्तं पदमेकवर्जम्' इत्यस्यार्थो लक्ष्यते । यदि त्वसिद्धत्वं स्यात्, ततोऽसत्यां वर्ज्यमानतायां द्वयोरुदात्तयोः श्रवणं स्यात् । ननु चोदात्तस्यासिद्धत्वेऽपियोऽसावुदात्तानुदात्तयोरेकादेश आन्तर्यतः स्वरितोऽभिनिर्वृत्तस्तदाश्रया वर्ज्यमानता भविष्यति ? सत्यम्; सिद्ध्यति यदा स्वरितस्योदात्तो भवतीति पक्षः, यदा तु स्वरितापवाद उदात्तो विधीयते तदा तस्यासिद्धत्वात् स्थानिनश्च स्वरान्तराभावात्केन वर्ज्यमानता स्यात् ! तस्मात्सिद्धत्वमुच्यते । न च कार्यकालपक्षाश्रयेण परिभाषान्तरवद्वज्यमानपरिभाषाया अपि त्रिपाद्यां प्रवृत्तिः शक्याभ्युपगन्तुम्; अतिप्रसङ्गात् । `उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य', `उदात्तादनुदात्तस्य स्वरितः' इत्यत्रापि शेषनिघातप्रसङ्गात् । यथा तु यान्तीत्यत्र प्रागेवैकादेशाच्छेषनिघातो भवति, तथात्रापीत्यप्रयोजनमित्याहुः ।
ब्राह्मणास्तुदन्तीति । अत्रापि स्वरितत्वापवाद उदात्तत्वमिति दर्शने सिद्धत्वमुच्यते, अन्यथोदात्तस्यानुदात्तत्वाभावादुदात्तः प्रयोगे श्रूयेत । बहरिरङ्गस्यासिद्धत्वमेव भवतीति । `असिद्ध बहिरङ्गमन्तरङ्गे' इत्यनेन । पचतीति । इतिशब्दो निपातत्वादाद्युदात्तः । अत्र बाह्यपदापेक्षत्वादादेकादेशस्य बहिरङ्गत्वात्तत्स्वरोऽपि बहिरङ्गः, तस्यासिद्धत्वात्तेन वर्ज्यमानता न भवति । प्रपचतीति । अत्रापि `तिङि चोदात्तवति' इति गतिनिघातो न भवति । उभयत्रापि पूर्वं प्रत्यन्तवद्भावात्प्रसङ्गः ।
हरिव इति । यदा `छन्दसीवनिपौ' इति वनिप्प्रत्ययः क्रियते `वन उपसंख्यानम्' इति, तस्य च रुत्वम्, तदा नार्थः सिद्धवचनेन ।
अलावीदिति । लुङ्‌, च्लेः सिच्, इट्‌, `अस्तिसिचोऽपृक्ते' इतीट्‌, सिचि वृद्धिः ननु च `इट ईटि' इत्यत्र इट इति षष्ठी विज्ञास्यते, न पञ्चमी, सस्येत्यनुवर्तते, तत्रेडादेः सस्य लोपो विधीयमान इटो भविष्यतीति सिद्धमलावीदिति ? सत्यं रूपं सिद्धम्; स्वरे तु दोषः स्यात्---यदि लोपेनेकारो निवर्त्येत, अनुदात्तस्य ईटः श्रवणं प्रसज्येत, उदात्तनिवृत्तिस्वरे लोपस्यासिद्धत्वाद् । यदा तु सकारमात्रस्य लोपे सवर्णदीर्घत्वं तदा सिचश्चित्करणादिडुदात्त इत्येकादेशस्वरो भवति ।
वृक्ण इति । `ओदितश्च' इति निष्ठानत्वम् । षत्वस्वरप्रत्ययेड्‌विधिष्वित्यस्य व्यावर्त्यं दर्शयति---कुत्वं तु प्रतीति । क्षीबशब्द एवोदाह्रियत इति । कथं पुनरेकमेव त्रिषु विधिषूदाहरणम् ? इत्यत आह---तत्र हीति । तत्र क्वचित्पक्षे किञ्चित् प्रयोजनं प्रत्युदाहरणमित्याह---यदेति । संज्ञायामिति वचनम्, तत्र संज्ञायामुपमानम्' इत्यतः `संज्ञायाम्' इत्यनुवृत्तेः । एष स्वर इति । आद्युदात्तत्वम् । क्षीबिक इति । `नौद्व्यचः ष्ठन्' ।
प्लुतसहितो विकारः प्लुतविकारः । अग्ना3इ, पटा3उ इति । अग्निपटुशब्दयोः सम्बुद्धिगुणे कृते `एचोऽप्रगृह्यस्य' इत्यादिना पूर्वस्यार्धस्याकारः प्लुतः, उत्तरस्य त्विदुतौ । नित्यस्तुग्न प्राप्नोतीति । `पदान्ताद्वा' इति दीर्घलक्षणो विकल्पः स्यात् । छ इति किम् ? अन्यत्र प्लुतविकारस्यासिद्धत्वमेव यथा स्यात्---खलपु ब्राह्मणकुलम्, तत्र सम्बुद्धाविह किञ्चित्रपो इति न्यायेन गुणे खलपा + उ इति स्थिते `ह्रस्वस्य पिति कृति' इति तुग्‌ न भवति । द्विविधं चात्रासिद्धत्वम्---बहिरङ्गलक्षणम्, पूर्वत्रासिद्धमिति च ।
किमर्थ पुनरिति । सकारस्य क्वचिदपि श्रवणाभावात्प्रश्नः ।
उचिच्छितीति । `उछी विवासे', तुक्, सन्, इट्, `अजादेर्द्वितीयस्य' इति छिस्शब्दस्य द्विर्वचनम्, `शर्पूर्वाः खयः' इति खयः शेषः, छस्य `अभ्यासे चर्च' इति चकारः ।
संय्यन्तेत्यादौ `मोऽनुस्वारः', `अनुस्वारस्य ययि परसवर्णः' ।
पदाधिकारश्चेदिति । यदि लत्वादिविधिपु पदस्येत्यपेक्ष्यते, तदा लत्वादीनां द्विर्वचनस्य च समकक्षत्वम्, अनपेक्षायां तु बहिरङ्गं द्विर्वचनमन्तरङ्गेषु लत्वादिष्वसिद्धमिति `पूर्वत्रासिद्धम्' इत्येतन्न प्रवर्त्तते इति लत्वादिषु कृतेषु द्विर्वचनमिति सिद्धमिष्टम् । गलोगल इति । `अचि विभाषा' इति लत्वम् । दोग्धेति । `वा द्रुह' इति वा घत्वम्, तदभावे `हो ढः' । नुन्न इति । `नुदविद' इति वा निष्ठानत्वम् । अभिन इति । भिदेर्लङ्‌, सिपि श्नमि हल्ङ्यादिलोपः, `सिपि धातो रुर्वा', `दश्च' इति वा रुत्वम्, आडागमः । मातुः ष्वसेति । `मातुः पितुर्भ्यामनन्तरस्याम्' इति वा षत्वम् । माषवापाणीति । `प्रातिपदिकान्त' इति वा णत्वम् । वाङ्‌नयनमिति । `यरोऽनुनासिकेऽनुनासिको वा' इति वा गकारस्य ङकारः । वाक्शयनमिति । `शश्छोऽटि' इति वा छत्वम् । लत्वादीनामित्यादिनाऽसिद्धत्वे लत्वादीनां यो दोषस्तं दर्शयति---अनिष्टोऽपि विकल्पः स्यादिति । पूर्वोत्तरयोः पदयोरेकत्र प्रवृत्तिः, अपरत्राप्रवृत्तिरित्येषोऽनिष्टो विकल्पः । एतत्सर्वमित्यादि । योगविभागार्थमेव च प्रतिषेधाश्रयणम्, अन्यथा लाघवार्थममुनेति निपातनमाश्रयणीयं स्यात्, ततः `मु ने' इति द्वितीयो योगः । किमर्थमिदम् ? पूर्वयोगस्यासर्वविषयत्वख्यापनार्थम्, तेनातिप्रसङ्गो नोद्भावनीयः ।।
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ।। 8.2.4 ।।
`उदात्तस्वरितयोः' इत्यनुवादेऽपि स्थानषष्ठ्येषा; व्याख्यानात् । तेन उदात्तस्वरितयोः समीपवर्त्ती यो यण् ततः परस्यानुदात्तस्य स्वरितत्वं न भवति । सकृल्ल्व्याशा, खलप्व्याशा इति । ततः परस्य सप्तम्येकवचनस्य स्वरितत्वमिति । केन ? इत्यत आह---उदात्तयण् इत्यनेनेति । योऽयमस्मिन्सूत्रे पूर्वो भागः, तेनेत्यर्थः । `उदात्तयणो हल्पूर्वात्' इत्युदात्तत्वं तु न भवति, `नोङ्‌दात्वोः' इति प्रतिषेधात्, आशाशब्दः `आशाया अदिगाख्या चेत्' इति अन्तोदात्तत्वादनुदात्तादिः । तत्कथमयं स्वरितयण् भवतीति । न कथञ्चित्, न ह्ययं स्वरितमपनीय तत्स्थाने भवति । न हि पूर्वं शास्त्रं स्थानिबुध्या आदेशे प्रवर्त्तते, किं तर्हि ? स्थानिन्येव । यथोक्तम्---`हत इत्येतद् द्विरुच्यते' इति, न पुनस्तद्वुध्या ढशब्दो द्विरुच्यत इति । आश्रयादिति । आहायम्---स्वरितयण इति, न चास्ति सिद्धः स्वरितः, तत्राश्रयात् सिद्धत्वं भविष्यति ।
एवमुच्यमानेऽतिप्रसङ्गमुद्भावयति---यद्येवमिति । दध्याशेति । दविशब्दः `नब्विषयस्यानिसन्तस्य' इत्याद्युदात्तः, सेषनिघातः, `उदात्तादनुदात्तस्य स्वरितः' इति तस्य स्वरितत्वम्, तस्याश्रयात्सिद्धत्वे सति तत्स्थानिकादपि यणः परस्यानुदात्तस्य स्वरितत्वप्रसङ्ग इत्यर्थः । तस्मादित्यादि । यत एवमाश्रयात्सिद्धत्वे दोषः, तस्मादयमेव यण्स्वरो यता सिद्धो भवति तथा वक्तव्यम् । तत्कथम् ? योगविभागः करिष्यते--`उदात्तयणः', ुदात्तयणः परस्यानुदात्तस्य स्वरितो भवति; ततः `स्वरितयणः;, स्वरितयणश्च परस्यानुदात्तस्य स्वरितो भवति, उदात्तयण इत्येव । तेन उदात्तयण इत्येवं योऽभिनिर्वृत्तः स्वरितः, तद्यणः परस्यानुदात्तस्य स्वरितत्वं भवतीत्यर्थः । तेनास्यैव स्वरितस्याश्रयात्सिद्धत्वं भविष्यति ।
यद्येवमित्यादिना योऽतिप्रसङ्ग उद्भावितः, तं केषाञ्चिन्मतेन परिहरति---केचित्त्विति । उदात्तात्स्वरितयणो पीति । उदात्तात्परो यः स्वरितः `उदात्तादनुदात्तस्य' इति विहितः तस्य यो यण्‌ तस्मादपि परस्येत्यर्थः । तैत्तिरीयक इति । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः, तेषामाम्नायस्तैत्तिरीयकम्, चरणलक्षणो वुञ्‌ । शाखान्तर इति । वृत्तिकारदेशे या शाखा तदपेक्षं शाखान्तरत्वम् । एकशतं ह्यध्वर्युशाखाः, विशेषवचनो वान्तरशब्दः । यास्ते विश्वा इति । `यद्वृत्तान्नित्यम्' इति सन्तीत्यस्य निघातप्रतिषेधः, अग्नेशब्दस्यामन्त्रितनिघातः । ब्राह्मण इति । तत्रैव तैत्तिरीयके दधिशब्द उक्तस्वरः, आशयतीत्यस्य तिङ्‌निघातः । ननु चोभयत्राप्यत्र यणादेशे कृते `उदात्तादनुदात्तस्य स्वरितः' इत्येव स्वरितः, तथा च यत्र स प्रतिषिध्यते `नोदात्तस्वरितोदयम्' इति, तत्र स्वरितो न दृश्यते च---स्वस्मभ्यमाभर प्रत्यग्निरुपसामग्रमख्यादिति, अयं तु स्वरित उदात्तस्वरितपरस्यापि भवति---दहाशसो रक्षसः पाह्यस्मानिति । तथा च भाष्येऽप्युदात्तपर एवानुदात्तेति प्रसङ्ग उद्भावितः---दध्याशेति । तस्मात् पूर्वोक्तस्यातिप्रसङ्गस्य नायं व्यभिचार इति चिन्त्यमेतत् ।
निराकरिष्यमाणत्वाद्वास्य नात्र सुष्ठु निर्बन्धनीयं दर्शयति---यथा त्विति । अत्र वार्त्तिकम्---`यण्स्वरो यणादेशे सिद्धो वक्तव्यः', `स्वरितयणः स्वरितार्थः आश्रयात्सिद्धत्वमिति चेदुदात्तात् स्वरिते दोषः' इति । यदि च `उदात्तादनुदात्तस्य स्वरितः' इति यः स्वरितः तस्य यो यण्‌ ततः परस्यानुदात्तस्य स्वरितत्वमिष्टं स्याद्, दोषत्वेन वचनमनुपपन्नं स्यात् । भाष्ये तु यथायमर्थः स्थितः, तथा दर्सयति---तथा चेति । अत्र भाष्यम्---`अथ वा स्वरितग्रहणं न करिष्यते; यदि न क्रियते, केनेदानीं स्वरितयणः परस्यानुदात्तस्य स्वरितत्वं भवति ? उदात्तयण इत्येव, स्वरितयणा व्यवहितत्वान्न प्राप्नोति, `स्वरविधौ व्यञ्जनमविद्यमानवत्' इति नास्ति व्यवधानम्" इति । यदि चोदात्तात् स्वरितयणः परस्यानुदात्तस्य स्वरितत्वमिष्टं स्यात् प्रत्याख्यानं न युज्येत । यदि प्रत्याख्यानम्, किमर्थं तर्हि स्वरितयण्ग्रहणं क्रियते ? इत्याह---तत्क्रियत इति । स्थानिवद्भावाद्व्यवधानमस्तीति । यण्स्थानिकेनेकारेण । व्यञ्जनस्य ह्यविद्यमानवद्भावः, नाचः । ननु च `न पदान्तद्विर्वचन' इति स्वरविधौ प्रतिषिद्धः स्थानिवद्भावः ? तत्राह---स्वरदीर्घेति । बैद्याशेति । बिदस्यापत्यं स्त्री `अनृष्यानन्तर्ये बिदादिभ्योऽञ्‌', `शार्ङ्गवाद्यञो ङीन्‌', नित्स्वरेणाद्युदात्तो बैदीशब्दः ।।
एकादेश उदात्तेनोदत्तः ।। 8.2.5 ।।
`अनुदात्तस्य' इति वर्त्तते । अग्न्यादिशब्दाः प्रातिपदिकस्वरेणान्तोदात्ताः, विभक्तिरनुदात्ता ।
पचन्तीति । अत्र शबकारस्य यत्स्वरितत्वम् `उदात्तादनुदात्तस्य स्वरितः' इति, तस्यासिद्धत्वाद् द्वयोरनुदात्तयोरेकादेशः ।।
स्वरितो वानुदात्ते पदादौ ।। 8.2.6 ।।
प्रादित्वात्समासे सतीति । `प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः' इत्यस्य तु तत्रैव `स्वती पूजायाम्' इति प्रतिषेधः कृतः । गतिसमासस्त्वनाश्रितः; `गतिर्गतौ' इति निगातप्रसङ्गात् । वसुकशब्दः पूर्ववदन्तोदात्तः ।
स्वरितग्रहणं विस्पष्टार्थमिति । कथम् ? इत्याह---उदात्ते हीति । आन्तर्यत एव स्वरितो भविष्यतीति । यद्येवम्, तस्य सिद्धत्वाच्छेषनिघातः स्यात्---गाङ्गेऽनूप इति ? एकादेशस्य परं प्रत्यादिवद्भावादनूपशब्दोऽनुदात्तः प्राप्नोति, स्वरितग्रहणे तु सति अस्यासिद्धत्वाद्यथोक्तदोषाभावः । अथ क्रियमाणेऽपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मान्न भवति---कन्यानूप इति ? कन्याशब्दः `कन्याराजन्यमनुष्याणामन्तः' इत्यन्तस्वरितः, ततः स्वरितानुदात्तयोरेकादेश आन्तर्यतः स्वरितः, तस्य सिद्धत्वात्तेन वर्ज्यमानता प्राप्नोति ? ततश्चात्र यः परिहारः स एव गाङ्गेऽनूप इत्यत्र भविष्यति । कः पुनरसौ ? पदद्वयाश्रयत्वेन एकादेशस्य बहिरङ्गत्वात्स्वरोऽपि तदीयो बहिरङ्गः, शेषनिघातस्तु एकपदाश्रयत्वात् स्वरोऽपि तदीयोऽन्तरङ्गः; ततः किम् ? `असिद्धं बहिरङ्गमन्तरङ्ग' ।।
नलोपः प्रातिपदिकान्तस्य ।। 8.2.7 ।।
विशेष्यमन्तस्येत्यस्य नेत्येतदविभक्तिकम् ।
तथैव प्रातिपदिकेत्येतत् पदविशेषणम् ।।
प्रातिपदिकस्य, पदस्य---इति समानाधिकरणे षष्ठ्यौ । अहन्निति । हन्तेर्लङ्‌तिपो हल्ङ्यादिलोपः ।
अन्तग्रहणं किमिति । `नलोपः प्रातिपदिकस्य' इत्येवास्तु, `पदस्य' इति वर्तते, तत्र नकारेण पदे विशेष्यमाणे तदन्तविधिना नकारान्तस्य पदस्य लोपो विधीयमानः `अलोऽन्त्यस्य' इत्यन्त्यस्यैव भविष्यतीति प्रश्नः । राजानाविति । असत्यन्तग्रहणे प्रातिपदिकस्य पदस्य योऽवयवो नकारः, तस्य यत्र तत्र स्थितस्य लोपो भवतीत्यर्थः स्यात्, ततश्चेहापि स्यादिति भावः । एवं च नराभ्यामित्यादावपि प्रसङ्गो दर्शयितव्यः । ननु च क्रियमाणमप्यन्तग्रहणं प्रातिपदिकग्रहणेन समस्तम्, ततश्च प्रातिपदिकान्तस्य पदावयवस्य नकारस्येत्येषोऽर्थो भवति, न पुनः पदान्तस्येति; ततश्चाहन्, नराभ्यामित्यादौ मा भूत्‌; राजानावित्यादौ तु स्यादेव ? अत आह---प्रातिपदिकग्रहणमिति ।
अहरिति । `स्वमोर्नपुंसकात्' इति स्वमोर्लुक्, `न लुमताङ्गस्य' इति प्रत्ययलक्षणप्रतिषेधात्सुप्परत्वाभावात् `रोऽसुपि' इति रुत्वम् । अहोभ्यामिति । `अहान्' इति रुत्वम् ।
ननु चात्र रत्वरुत्वयोः कृतयोर्नकाराभावादेव नलोपो न भविष्यत्यत आह---रुत्वरेफयीरसिद्धत्वादिति । नन्वनवकाशत्वाद्रत्वरुत्वे एव भविष्यतः, उक्तं ह्यपवादस्य परस्यापि वचनप्रामाण्याद सिद्धत्वं न भवतीति ? अत आह---सावकाशं वै तदुभयमिति । सम्बुद्धौ हि `न ङिसंबुद्ध्योः' इति नलोपः प्रतिषिद्ध्यते । हे अहरिति । `वा नपुंसकानाम्' इति पक्षे नलोपप्रतिषेधः, अत्र रत्वं सावकाशम् । हे दीर्घाहो निदाघेति । पुंल्लिङ्गेऽन्यपदार्थे बहुव्रीहिः, सम्बुद्धेर्हल्ङ्यादिलोपः । निदाघशब्दस्य परस्य प्रयोगो विशेषणार्थः, `हशि च' इत्युत्वम् । अथ अहः, अहोभ्यामित्यादौ नलोपेकृतेऽप्येकदेशविकृतस्यानन्यत्वात्स एवाहः शब्द इत्यवसिष्टस्य योऽन्त्याकारः सोऽवकाशा इति कस्मान्नोक्तम् ? एवं मन्यते---अहन्निति नकारापरित्यागेन निर्देशान्नकारान्तस्यैव स्थानित्वम्, अन्यथा हस्येत्येव ब्रूयादिति । अहन्निति प्रथमैकवचनान्तमिति । आदेशमात्रे विधित्सिते अह्न इति नकारान्तस्यैव षष्ठ्या प्रथमैकवचनान्तमिति । आदेशमात्रे विधित्सिते अह्न इति नकारान्तस्यैव षष्ठ्या निर्देशं कुर्यात्; प्रथमान्तस्य निर्देशे प्रयोजनम्---एतस्य रूपस्यान्वाख्यानमेवेति भावः ।।
न ङिसम्बुद्ध्योः ।। 8.2.8 ।।
आर्द्रे चर्मन्निति । `सुपां सुलुक्' इत्यादिना ङेर्लुक् ।
ननु च ङिसम्बुद्ध्योर्द्वयोरपि लुप्तयोः पूर्वस्य प्रातिपदिकसज्ञा नास्ति, प्रत्ययलक्षणेनाप्रत्यय इति निषेधात्; ङौ तु पदसंज्ञापि नास्ति, प्रत्ययलक्षणेनैव प्रवृत्तया भसंज्ञया बाधित्वातः तत्कुतोऽत्र नलोपप्रसङ्गः ? अत आह---एतस्मादेवेति । ननु च हे सुराजन्नित्याद्यर्थमेतत्स्याद्, अत्र हि `कृत्तद्धितसमासाश्च' इति प्रातिपदिकसंज्ञा, न च तस्या अपि `अप्रत्ययः' इति निषेधः, सूत्रान्तर्गतत्वात् ? एवं तर्ह्यत्रापि `अप्रत्ययः' इत्यनुवर्त्तते, अन्यथा सुराजेत्यादौ विध्यर्थत्वसम्भवात् समासग्रहणं नियमार्थं न स्यात् । तस्मादुपपन्नमेवास्य ज्ञापकत्वम् । एतच्च प्रतिकार्यं संज्ञाप्रवृत्तिरिति पक्षाश्रयेणोच्यते, तत्र हि विभक्त्यर्थमुत्पन्नया प्रातिपदिकसंज्ञया नलोपो न प्राप्नोति । भसंज्ञा च न भवतीति । अत्रापि `एतस्मादेव प्रतिषेधवचनात्प्रत्ययलक्षणेन ज्ञाप्यते'---इति च सम्बध्यते । ज्ञापनस्य प्रयोजनमाह---तथा चेति । नलोपश्च भवतीति । प्रातिपदिकत्वात् । अल्लोपश्च न भवतीति । भसंज्ञाया अभावात् । अपर आह---``नायमर्थो ज्ञापकसाध्यः भसंज्ञा न भवतीति । कथम् ? `यचि' इत्युच्यते, न चात्र यजादिं पश्यामः; प्रत्यलक्षणेन ? `न लुमताङ्गस्य' इति प्रतिषेधः, तत्र हि लुमता लुप्ते प्रत्यये यदङ्गं तस्य यत्कार्यमाङ्गमनाङ्गं वा तत्सर्वं प्रतिषिध्यते" इति ।
चर्मतिल इति । वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः । ननु चात्यल्पमिदमुच्यते, ङाविति सम्बुद्धावप्युत्तरपदे प्रतिषेधो वक्तव्यः; अन्यथा हे राजन् वृन्दारकेति विगृह्य `वृन्दारकनागकुञ्जरैः पूज्यमानम्' इति सम्बुद्ध्यन्तयोः समासे सति लोपो न स्यात् । तथा च वार्त्तिकम---ङिसम्बुद्ध्योरनुत्तरपद इति । अत आह---हे राजवृन्दारकेत्यत्र त्विति । तत्र न पूर्वपदार्थसम्भोधनमिति । न हि पृथगवयवार्थयोरभिमुखीकरणे परस्परमेकार्थीभावः सम्भवति । किञ्च `सम्बुद्धौ' इत्युच्यते, न चात्र सम्बुद्धिं पश्यामः । प्रत्ययलक्षणेन ? `न लुमताङ्गस्य' इति प्रतिषेधः । वचनं तु हे राजन्नित्यादौ यत्र लोपशब्देन सम्बुद्धिर्लुप्यते तत्र चरितार्थम् । ङौ तु नायं परिहारः सम्भवति; सर्वत्र लुमता लुप्तत्वात् ।
वा नपुंसकानामिति । अप्राप्तिविभाषेयम्; सम्बुद्धेर्लुमता लुप्तत्वात् ।
मादुपधायाश्च मतोर्वोऽयवादिभ्यः ।। 8.2.9 ।।
अत्र चकाराद्वाक्यभेदः, मश्च अश्चेति समाहारद्वन्द्वः । तस्मान्मात्परस्य मतोर्वो भवति । `उपधायाश्च', मादित्येव, उपधायाश्च मात्परस्य मतोर्वो भवति, पूर्वेणानन्तर्ये विहितं व्यवधानेऽपि यथा स्यादित्ययमारम्भः । एवं व्याख्यातव्ये मतोरिह कार्यित्वेनेत्यादि यदुक्तम्, तत्राभिप्रायो मृग्यः । कश्चिदाह---`मकारान्तान्मकारोपधावर्णान्तादवर्णोपधाच्चेति वैयाकरणगोष्ठीषु पठ्यते, तस्येदमुपपादनम्' इति; तत्रापि मकारोपधादकारोपधादिति बहुव्रीह्यर्थस्य नोपपादनं दृश्यते । व इत्ययमादेशो भवतीति । अत्रेतिशब्दः पठितव्यः, तदयमर्थो भवतीत्युपक्रमात्, यवादिविप्रतिषेधे प्रकारे आदिशब्दः । पयस्वानिति । `तसौ मत्वर्थे' इति भत्वाद्रुत्वाभावः, ।
इह नरोऽस्यास्तीति नृमान्, तस्येदं नार्मतमिति वृद्धौ कृतायामवर्णोपधादिति वत्वं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः ? इत्यत आह---इहेति । बहिर्भूततद्धितापेक्षत्वाद्वहिरङ्गा वृद्धिरन्तर्भूतमतुबपेक्षे वत्वे असिद्धा भवतीत्यर्थः ।।
झयः ।। 8.2.10 ।।
अग्निचित्वानिति । पूर्ववद्भत्वाज्जश्त्वाभावः ।।
संज्ञायाम् ।। 8.2.11 ।।
अहीवतीत्यादौ चातुरर्थिको नद्यां मतुप् ।।
आसन्दीवदष्टीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ।। 8.2.12 ।।
आसन्दीवदहिस्थलमिति । देशविशेषः, यत्रेदमुच्यते---
आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम् ।
अश्वं बबन्ध सारङ्गं देवेभ्यो जनमेजयः ।। इति ।
तथा चोक्तमिति । प्रयोगशास्त्रेषु । राजासन्दी = सोमराजस्यासनम् । यदि तस्यैव संज्ञायामिति वत्वेन सिद्धम्, आसन्दीवदित्येतत्किमर्थं तहि निपातनम् ? इत्यत आह---प्रपञ्चार्थं त्विह पठ्यत इति । अत्रेतिशब्दः पठितव्यः, अपरे त्वाहुरित्युपक्रमात् । शरीरैकदेशस्येति । स पुनर्जान्वोः सन्धिः । चक्रीवन्ति सदो हविर्धानानीति । सारस्वते सत्रे जङ्गमानि सदोहविर्धानानि, न त्वेकत्रावस्थितानि, तानि तत्र तत्र कर्षणाय चक्रयुक्तानि भवन्ति । कक्षीवानिति । `हलः' इति दीर्घत्वम् । रुमन्निति प्रकृत्यन्तरमस्तीति । `रुमा च लवणाकरः' । णत्वार्थं चेति । `पदान्तस्य' इति प्रतिषेधप्रसङ्गात् । मतोर्वा नुडर्थमिति । अत्र पक्षे पूर्वस्य नकारस्य लोपः, णत्वमपि `रषाभ्याम्' इत्येव सिद्धम् ।।
उदन्वानुदधौ च ।। 8.2.13 ।।
उदन्वान्नाम ऋषिरिति । यस्य च कामवर्षो पर्जन्यः---यस्मिन्नुदकं धीयत इति, स पुनस्तटाकादिः । `कर्मण्यधिकरणे च' इति किप्रत्ययः, `पेषंवासवाहनधिषु च' इति उदकस्योद्भावः ।
उदकसत्तासम्बन्धसामान्यमिति । तच्च देवदत्तादिष्वपि सम्भवति । असंज्ञार्थं वोदधिग्रहणम् ।।
राजन्वान्‌ सौराज्ये ।। 8.2.14 ।।
शोभनो राजा तस्य भावः सौराज्यम्, ब्राह्मणादित्वात्ष्यञ्‌, टिलोपः । तत्पुनः शोभनेन राज्ञा देशस्य सम्बन्धः । समासकृत्तद्धितेषु सम्बन्धाभिधानम्; भावप्रत्ययेनेति वचनात् । एतच्च राजन्वानित्यस्य प्रवृत्तिनिमित्तम्, देश एव त्वभिधेयः, यदाह---सौराज्ये गम्यमान इति । राजन्वानिति । प्रशंसायां मतुप्, नलोपाभावो निपात्यते । सूत्रे पुंल्लिङ्गस्याविवक्षितत्वं दर्शयति---राजन्वती पृथिवीति ।।
अनो नुट्‌ ।। 8.2.16 ।।
अक्षण्वन्त इति । अक्षिशब्दस्य मतुपि `छन्दस्यपि दृश्यते' इति अनङादेशः, नुटोऽसिद्धत्वात् पूर्वं नलोपे भूतपूर्वगत्या नुट्, तस्य णत्वम् । शीर्षण्वतीति । `शीर्षंश्छन्दसि' शिरसः शीर्षन्नादेशः । प्रकृत्यन्तरं वा शिरस्शब्देन समानार्थः । शीर्षन्निति छन्दसि निपात्यते । नुडयं परादिः क्रियते, तस्य मतुब्ग्रहणेन ग्रहणात् `मादुपधायाः' इति वत्वं प्राप्नोति । मकारस्य तु न प्राप्नोति; नुटा व्यवधानात् । यदि पुनरयं नुक् पूर्वान्तः क्रियेत ? नैवं शक्यम्; अक्षण्वता, शीर्षण्वता---णत्वं न स्यात् । इह च सुपथिन्तरः---उत्तरसूत्रेण नुकि कृते पदान्तत्वात् `नश्छव्यप्रशान्' इति रुत्वं प्राप्नोति, तस्मात्परादिरेव कर्त्तव्यः, तत्र चोक्तो दोषः । अत आह---नुटोऽसिद्धत्वादिति । नन्वेवमप्यवग्रहे दोषः प्राप्नोति---अक्षण्वन्त इति अक्षण्वन्ते इति णान्तमवगृह्णाति, तन्न प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम् ।।
नाद्‌ घस्य ।। 8.2.17 ।।
भूरिदावत्तर इति । `आतो मनिन्' इत्यादिना वनिप् ।
रथीतर इति । रथशब्दान्मत्वर्थीय इनिः, तदन्तात्तरप्, नकारलोपे कृते दकारस्य ईकारः । यदि तु नकारलोपापवादो नकारस्य स्थाने विधीयेत, तदा तस्यासिद्धत्वादेकादेशो न स्यात् ।।
कृपो रो लः ।। 8.2.18 ।।
कृपो धातोरिति पाठः । भाष्ये---`कृपो रो लः' इति पठितत्वात् । `नुड्‌विधिलादेशविनामेष्वृकारे प्रतिविधातव्यम्' इत्युक्तम्, तत्रावसरे प्राप्ते लादेशे प्रतिविधत्ते---इति सामान्यमिति । वर्णत्वावर्णत्वकृतभेदतिरस्कारेण वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ यत्सामान्यं वर्त्तते यतो द्वयोरपि तयो र इत्यभिन्नाभिधानप्रत्ययौ भवतः, तदुपादीयते; न तु वर्णात्मिकैव रेफव्यक्तिरित्यर्थः । ततः किम् ? इत्यत आह---तेनेति । इत्यपि सामान्यं चेति । उपादीयत इत्यपेक्षते । अत्रापि तेन यश्च केवलो लकारः, यश्च लृकारस्थः, तयोर्द्वयोरपि ग्रहणमिति पठितव्यम्, पूर्वानुसारेण तु गम्यमानत्वान्न पठितम् । यदि द्वयोरपि ग्रहणम्, ततोऽपि किम् ? इत्याह---ततोऽयमिति । केवलस्य=शुद्धस्य । लकार आदेश इति । अत्रापि केवल इति द्रष्टव्यम् । ऋकारस्यापि लृकार इति । आन्तरतम्यात् । ननु सत्यपि द्वयोरपि ग्रहणे ऋकारस्थस्य रेफस्य लृकारस्थो लकार आदेशो भवतु, कथं तु कृत्स्नस्य कृत्स्नो वर्ण आदेशो लभ्यते ? इत्याशङ्क्योक्तम्---एकदेशद्वारेणेति । एकदेशविकारस्थो रेफः, तस्य विकार एकदेशविकारः । यद्वा---अत्र एकदेश लृकारस्थो लकारः, स एव विकार एकदेशविकारः, तद्‌द्वारेण । तत एतदुक्तं भवति---अज्भक्तिसम्पुटितयो रेफलकारयोर्निष्कृष्य कर्तुमशक्यत्वात्समुदायस्य समुदाय आदेश इति । यदि निष्कर्षोऽशक्यक्रियः, मा भूत्तयोरुपादानम्, न पुनरेतावता सूत्रेऽनुपात्तयोः समुदाययोः स्थान्यादेशभावो विद्यते ? इत्यत आह--तथा चेति । एवमादय इति । आदिशब्देन `तासि च क्लृपः', `ऋदुपधाच्चाक्लृपि चृतेः' `अनवक्लृप्त्यवमर्षयोः' इत्यादेर्ग्रहणम् । कल्प्तेति । ऊदित्त्वात्पक्षे इडभावः । अत्र लत्वस्यासिद्धत्वात् पूर्वं परस्मैपदे `तासि च क्लपः' इतीडभावः, अन्यत्र तु गुणे कृते रेफस्य लकारः । चिक्लृप्सतीति । `हलन्ताच्च' इति सनः कित्त्वम् ।
क्रपेरिति । `क्रप कृपायाम्' । भवतु सम्प्रसारणे कृते रूपम्, तथापि रूपसामान्याद् ग्रहणप्रसङ्गः ? अत आह---तस्य हीति । क्रपेरेव द्रष्टव्या इति । `रञ्जे क्युन्', बहुलवचनात्क्रपेरपि भवति `कृकृपिभ्यां कीटन्' इत्यत्रापि क्रपिरेव पठितव्यः । `खर्जिपिञ्जादिभ्य ऊरोलचौ' क्रपेरपि भवतु, सर्वत्र बहुलवचनात् सम्प्रसारणम् ।
कर्पूरादय इति । आदिशब्देन कृपाणस्य ग्रहणम् । `युधिबुधिदृशेः किच्च' इति बाहुलकात् कृपेरपि आनच्‌ । यद्यवश्यं बाहुलकमाश्रयणीयम्, कृपेरपि न दोषः ? इत्याह---उणादय इति ।
बालेति । `बल वल्ल संवरणे', बल्यत इति बालः । मूलमिति । `मूल प्रतिष्ठायाम्' इत्यस्मादिगुपधलक्षणः कः । `लङ्घिवंह्योर्नलोपश्च' इति कुप्रत्ययान्तो लघुशब्दः । अलमित्यव्ययम् । `अङ्गेः कुलिः' अङ्गुलः । `अमेर्गुरी रश्च लो वा' इति नाश्रितम् ।
कपिलकादिषुचारस्य लः । रोमाणीति । रौतेर्मनिन्, `रोमन् नामन् सीमन् स्तोमन् होमन् सोमन् लोमन् व्योमन् विधर्मन् पाप्मन् धामन्' इत्यत्र `लोमन् समान्' इति निपातनं नाश्रितम् । पांसुरमिति । पांसुरस्मिन्नस्तीति `नगपांसुपाण्डुभ्यश्च' इति रः । `कृञो मनिन्' कर्म । शुक्रः, शुक्ल इति । `ऋज्राग्र' इति निपातनं नाश्रितम् । अथ `क्लृपू सामर्थ्ये, इत्येव कस्मान्न पठितम्, एवं हि लत्वं न विधेयं भवति ? नैतदस्ति; अचीक्लृपदिति हि न सिध्येत् । `ऋकारलृकारयोः सवर्णविधिः' इति लृकारस्य `उरत्' इति अकारे कृते अचीकृपदिति स्यात्, लत्वविधौ तस्यासिद्धत्वात्पूर्वमृकारः, ततो लत्वमिति सिद्धमिष्टम् । तथा चलीक्लृप्यते इति रीको पि लत्वसिद्धिर्भवति ।।
उपर्गस्यायतौ ।। 8.2.19 ।।
अयतौ पर इति । अत्र द्वौ पक्षौ---अयतिग्रहणं रेफविशेषणम्---अयतिपरस्य रेफस्य, स चेदुपसर्गस्येति; उपसर्गविशेषणं वा---अयतिपरस्योपसर्गस्य यो रेफ इति । तत्राद्ये पक्षे एवमन्वयः---अयतौ परतो यो रेफ उपसर्गसम्बन्धी तस्येति; द्वितीये तु---अयतौ परतो य उपसर्गस्तस्य यो रेफस्तस्येति । प्लायत इति । अयतिरनुदात्तेत् । कथं तहि `उदयति विततोर्ध्वरश्मिरज्जौ' इति परस्मैपदम् ? किमनेन वन्यगजशौचेन ! यदि वा---पचाद्यजन्तादुदयशब्दादाचारे क्विपि लट् । केचित्तु `इट कटी गतौ' इत्यत्र इकारमपि धातुं पठन्ति । यथा त्वत्र दर्शिते पक्षद्वयेऽपि दोषो न भवति, तथा क्रमेण दर्शयति--अत्रेति । स्थानवद्भावादिति । `पूर्वत्रासिद्धे न स्थानिवत्' इत्येतत्त्विह न भवति; `तस्य दोषः संयोगादिलोपलत्वणत्वेषु' इत्यपवादस्मरणात् । यद्ययतिग्रहणं रेफस्य विशेषणमिति । कार्यित्वेन प्रधानत्वात् । एकेन वर्णेनेति । एकग्रहणं प्रत्यय इत्यत्र सङ्घातेन व्यवाये न भवतीति प्रदर्शनार्थम् । तथा चेति । एवं च कृत्वेत्यर्थः । पल्ययत इत्यत्रापीति । यत्र श्रूयमाणेनैकेनैव वर्णेन लौकिकं व्यवधानम्, तत्रापि प्रवर्तते । न केवलं प्लायत इत्यादौ यत्र स्थानिभावद्वारेण शास्त्रीयं तत्रैवेत्यपिशब्दस्यार्थः । अमुमेव विशेषं दर्शयितुमस्य पृथगुपन्यासः ।
ननु च `निर कुषः', `सुदुरोरधिकरणे' इति निर्देशाद्रेकान्तावप्युसर्गौ स्तः, तौ वचनस्यावकाशौ इति कथं व्यवधाने भवति ? उच्यते; यद्येतावत्प्रयोजनं स्यात्, `दुरोरयतौ' इत्येव ब्रूयात्, उपसर्गग्रहणात्तु व्यवायेऽपि भविष्यति, एतच्चैकवर्णव्यवधानेनाप्युपपन्नमिति न प्रत्ययत इत्यत्र प्रसङ्गः । उपसर्गविशेषणेत्विति । श्रुतत्वादिति भावः । सिद्धमेवैतत्सवामति । `येन नाव्यवधानमित्यादि न कश्चित् यत्नोऽस्मिन्पक्षे' इत्येवशब्दस्यार्थः । प्रतेरपि तु प्राप्नोतीति । पूर्वस्मिन्पक्षे सङ्घातेन व्यवायान्न प्राप्नोति, अत्र तु प्राप्नोतीत्यमुं विशेषं तुशब्दो द्योतयति । प्रथमपक्षदर्शनाभिनिविष्टास्त्विति । प्रथमपक्षस्य या दर्शना=परेभ्यः प्रतिपादना, तत्राभिनिविष्टाः = तत्परायणा इत्यर्थः । अपरे त्वित्यादि । आप्तपर्यायः प्रत्ययितशब्द इतच्प्रत्ययान्तः, सञ्जातप्रत्ययाः प्रत्ययिता इति ।
निस्दुस् इत्येतयोस्त्विति । सकारान्तविषयो ग्रन्थः, रेफान्तयोस्तु भवितव्यमेव लत्वेन ।।
ग्रो यङि ।। 8.2.20 ।।
उदाहरणे `ऋत इद्धातोः' इतीत्वम्, रपरत्वम्, `हलि च' इति दीर्घस्यासिद्धत्वात्पूर्वमनेन लत्वम्, ततोऽपहृतनिमित्तत्वाद्दीर्घाभावः ।
गिरतेः, गृणातेश्चेति । निगरणार्थस्य, शब्दार्थस्य च । सामान्येनेति । विशेषानुपादानात् । अपरे तु गिरतेरेव ग्रहणमिच्छन्तीत्यनुषङ्गः । कः पुनरत्र हेतुः ? इत्यत आह---गृणातेस्त्विति । तु ह्यर्थे । निगीर्यत इति । यक् ।।
अचि विभाषा ।। 8.2.21 ।।
धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्प्रत्ययः सन्निधापितः, तस्याचा विशेषणात्तदादिविधिर्विज्ञायते, यदाह---अजादौ प्रत्यये इति । निगिरतीति । तुदादित्वाच्छः, तस्य ङित्त्वादसति गुणे इत्वम् । णिलोपस्य स्थानिवद्भावादिति । पदस्य लत्वविधानादन्तरङ्गत्वाभावात् `पूर्वत्रासिद्धम्' इति च लत्वस्यासिद्धत्वापूर्वं णिलोप एव भवतीति भावः । प्रत्ययलक्षणमप्यत्र शक्यं वक्तुम् । न च वर्णाश्रयत्वम्; `अजादौ प्रत्यये' इत्युक्तत्वात् ।
कथं पुनः स्थानिवद्भावः, यावता `पूर्वत्रासिद्धे न स्थानिवत्' इति पठ्यते ? अत आह---पूर्वत्रासिद्ध इति । कः पुनरस्यापवादः ? इत्यत आह---तस्य दोष इति । अन्तरङ्गत्वाद्वेति । `पदस्य' इत्यधिकारात् कालतोऽन्तरङ्गत्वाभावेऽप्यन्तर्भूताजाद्यपेक्षत्वाल्लत्वमन्तरङ्गम्, बहिर्भूतयगपेक्षत्वात्तु णिलोपो बहिरङ्ग इति भावः । गिरौ, गिर इति । विस्पष्टार्थम् ।।
परेश्च घाङ्कयोः ।। 8.2.22 ।।
परि घ इति । `परौ घः' इत्यप्, हन्तेष्टिलोपः, घत्वं च । पर्यङ्क इति । `अकि लक्षणे' पचाद्यच्, `हलश्च' इति घञ्‌, चाद्‌ घश्च ।
घ इति स्वरूपग्रहणमत्रेष्यत इति । इष्टिरेवेयम् । परियोगः, पर्यनुयोगः ।।
संयोगान्तस्य लोपः ।। 8.2.23 ।।
इह श्रेयान्, भूयानिति संयोगान्तलोपो न प्राप्नोति, परत्वाद्रुत्वेन बाध्यमानत्वात् ? इत्याशङ्क्याह---इहेति ।
यथैव तर्हि रुत्वमसिद्धत्वात्संयोगान्तलोपं न बाधते, तथा जश्त्वमपि न बाधेत; ततश्च पयः, यश इति जश्त्वमेव स्याद् ? अत आह---जश्त्वे त्विति । संयोगान्तलोपे हि प्राप्तेऽप्राप्ते च रुत्वमारभ्यते---श्रेयानित्यादौ प्राप्ते, पय इत्यादौ त्वप्राप्ते । जश्त्वे तु सर्वत्र प्राप्ते एव । तस्माद्येननाप्राप्तिन्यायेन जश्त्वमेव बाध्यते, न संयोगान्तलोपः ।
दध्यत्रेत्यादि । यणादेशो हि द्विपदाश्रयत्वाद्वहिरङ्गः, संयोगान्तस्य लोपस्तु एकपदाश्रयत्वादन्तरङ्गः ।
अन्तग्रहणं शक्यमकर्तुम् । `पदस्य' इति वर्त्तते, संयोगेन हि पदे विशेष्यमाणे तदन्तविधिना `संयोगान्तस्य' इति लभ्यत एव ।।
रात्सस्य ।। 8.2.24 ।।
संयोगान्तस्य पदस्येत्यादि । संयोगान्तस्य पदस्य योऽवयवो रेफः, तस्मादुत्तरस्य सकारस्य लोपो भवति, तदेव पदं प्रत्यलोऽन्त्यस्येत्यर्थः । अक्षाः, अत्सा इति । `क्षर सञ्चलने', `त्सर छद्मगतौ' । रात्सस्यैवेति । रादेव सस्य नान्यतः, श्रेयानित्यादौ---एवं तु नियमो न भवति; उरः प्रभृतिषु पुमानिति कृतसंयोगान्तलोपस्य पाठात् । ऊर्गिति । `ऊर्ज बालप्राणनयोः', `भ्राजभास' इत्यादिना क्विप् । अत्र नियमाज्जकारस्य लोपाभावे `चोः कुः' इति कुत्वम्---गकारः, `वावसाने' इति चर्त्वम् । न्यमाडिंति । `मृजू शुद्धौ' अदादिः, तिपो हल्ङ्यादिलोपः, `मृजेर्वृद्धिः', व्रश्चादिना षत्वम्, जश्त्वचर्त्वे ।
धि च ।। 8.2.25 ।।
`इतः प्रभृति सिचः सकारस्य लोपः' इति वक्ष्यति, ततश्च सिचा प्रत्यय आक्षिप्यते, तस्य धकारेण विशेषणात्तदादिविधिर्विज्ञायते, इत्याह---धकारादौ प्रत्यय इति । भाष्यकारमते तु धकारे पर इति द्रष्टव्यम् । अलविढ्‌वमिति । लुङ्‌, च्लेः सिच्, इट्, सिचो लोपः, `विभाषेटः' इति पक्षे मूर्धन्यः । धकारो न श्रूयेतेति । ष्टुत्वे कृते अलविढ्‌वमित्येव स्यात् । विभाषाग्रहणं तु तत्र षीध्वमर्थम्, लिङर्थं च स्यात् ।
इतः प्रभृतीत्यादि । `उदः स्थास्तम्भोः पूर्वस्य' इति पूर्वसवर्णविधानमत्र ज्ञापकमाहुः । अन्यथा उत्‌+स्था इति स्थिते तकारात्परस्य सकारस्य `झलो झलि' इति लोपे सति उत्थानमित्यादेः सिद्धत्वादनर्थकं तत् स्यात् । सामान्यापेक्षं च ज्ञापकम्---अस्मिन् प्रकरणे यो लोपः स सिच इति । चकाद्धीति । हे शिरः पलितं सच्चकाद्धि, शोभस्वेत्यर्थः । `चकासृ दीप्तौ' अदादिः, लोट्, सिपो हिः, हेर्द्धिः, `झलां जश्‌ झशि' इति सकारस्य दकारः । पयो धावतीति । `हशि च' इति रोरुत्वम् । यदि सिचो लोप इष्यते, सग्धिः, बब्धाम्---`झलो झलि' इति लोपो न स्यात् ? अत आह---सग्धिर्बव्धामिति । अदेः क्तिनि `बहुलं छन्दसि' इति घस्लादेशः, `घसिभसोर्हलि च' इत्युपधालोपः, `बहुलं छन्दसि' इति सलोपः, `झषस्तथोर्धोऽधः' जश्त्वेन घकारस्य गकारः, समाना ग्धिः सग्धिरिति `पूर्वापरप्रथम' इत्यादिना कर्मधारयः, `समानस्य छन्दसि' इति सभावः । बब्धामिति । `भस भर्त्सनदीप्त्योः' जुहोत्यादिः, लोट्, तसस्ताम्, श्लौ द्विर्वचनम्, पूर्ववदुपधालोपः, सकारस्य च लोपः, तकारस्व धकारः, पकारस्य जश्त्वम्---बकारः । पयो धावतीत्येवमादावपीति । अन्यथा रुत्वस्य सिद्धत्वात् पूर्वं सलोपः स्यात् ।
भाष्यकारस्त्वाहेति । पूर्वं तु श्लोकवार्त्तिककारस्य मतं दर्शितम् । यत्नान्तरमास्थेयमिति । एकपदाश्रयत्वादन्तरङ्गं रुत्वम्, पदद्वयाश्रयत्वाद्वहरिङ्गः सलोपः; तत्र सलोपस्यासिद्धत्वात् पूर्वत्रेति निर्द्दिष्टस्य विसर्गस्याभावादसिद्धत्वाभावादुत्वमेव तावत्प्रवर्तते, अल्विधित्वाच्च स्थानिवत्वाभावादोर्लोपाभाव इति ।
धि सकार इति । स्थानिनोऽपि विषयत्वविवक्षया सकार इति सप्तमीनिर्देशः । आशाध्वमिति । `आङः शासु इच्छायाम्' अदादिरनुदात्तेत् । जश्त्वमिति । `झलां जश् झशि' इत्यनेन । सर्वमेवमिति । यदि सकारस्य जश्त्वेनाशाध्वमिति सिद्धम्, ततः सर्वमेव लक्ष्यजातं जश्त्वेनैव सिद्धं स्यात्, ततश्च सूत्रमेवेदं न कर्त्तव्यमिति । श्रुतिश्चापि न भिद्यत इति । व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणे न धार्यत इत्यर्थः । लुङश्चापीति । अयं चापरो जश्त्वे सति गुणः, `इणः षीध्वम्' इत्यत्र लुङो ग्रहणं न कर्त्तव्यं भवति; अव्योढ्‌वम्, अलोढ्‌वमित्यादौ षत्वजश्त्वष्टुत्वैरेव रूपस्य सिद्धत्वात् ।
ह्रस्वादङ्गादिति सिचो लोपेऽकृढ्‌वं कथं भवेत् ।
दोषान्तराभिधानात्तु नैतत्सुष्ठु निरूपितम् ।।
तद्दर्शयति---सेटि दुष्यतीति । एतच्च यद्यत्र सकारस्य लोपो न स्यादित्युपक्रमे एवोक्तम् । तस्माद्धि चेति कर्त्तव्यम्, मूर्धन्ये च लुङो ग्रहः । धिसकारे सिचो लोप इति त्वेतदवस्थितम् । तत्र दोषान्तरं दर्सयति---घसिभसोरिति । सग्धिर्बब्धामित्येतयोरसिद्धिप्रसङ्गात्, न सिचो लोपः शक्यो विज्ञातुमित्यर्थः । परिहरति---छान्दसो वर्णलोपो वेति । वाशब्दः पक्षं व्यावर्त्तयति, सिच एवायं लोपः, घसिभस्योस्तु छान्दसो वर्णलोप इति । क्व यथा ? इत्याह---यथेति । इष्कर्त्तारमध्वरस्येत्यस्यैकदेशानुकरणादिष्कर्तारमध्वरशब्दात्सप्तमी । तत्र बह्वचाः---इष्कर्त्तारमिति पठन्ति, तैत्तिरीयास्तु निष्कर्त्तारमिति ।।
झलो झलि ।। 8.2.26 ।।
भिदिच्छिदी स्वरितेतौ, मन्यतिहनुदात्तेत् ।
अयमपि सिच एव लोप इति । यदि वा `पदस्य' इति वर्त्तते, तत्र प्रत्यासत्तेः `झलो झलि' सस्येति निर्द्दिष्टानां त्रयाणामप्येकसम्बन्धत्वे विधिरयमिति सोमसुत् स्तोतेत्यादौ न भविष्यति । समासेऽपि न भवति---सोमसुत्स्थितिरिति । किं कारणम् ? सकारथकाराभ्यां यत्पदमारब्धं तत्प्रति तकारस्यावयवत्वाभावात् ।।
ह्रस्वादङ्गात् ।। 8.2.27 ।।
अच्योष्टेति । सलोपस्यासिद्धत्वात्पूर्वं गुणः, ततो विहितनिमित्तत्वाल्लोपाभावः । अयमपीति । अत्र `उदः स्थास्तम्भोः' इति पूर्वोक्तं ज्ञापकमेव शरणम् । द्विष्टमामिति । `ह्रस्वात्तादौ तद्धिते' इति षत्वम् ।।
इट ईटि ।। 8.2.28 ।।
अत्र सिच एव सम्भवः ।।
स्कोः संयोगाद्योरन्ते च ।। 8.2.29 ।।
गुणभूतोऽपि संयोगो झलन्ताभ्यां विशेष्यते ।
संयोगाद्योः पदस्यान्ते स्कोर्यस्मान्नास्ति सम्भवः ।।
इति मत्वाऽऽह---पदस्यान्त इति । झलि च परत इति । पदस्य यः संयोग इत्यपेक्षते । लग्न इति । `ओलस्जी व्रीडे', निष्ठा, ईदित्त्वादिट्‌प्रतिषेधः । अत्र तकारे झलि परतः सजयोर्यस्संयोगः तदादिः सकारः, `ओदितश्च' इति निष्ठानत्वम्, तस्यासिद्धत्वात् कुत्वम् । साधुलगिति । साधु लज्जत इति क्विप् । मग्न इति । `मस्जिनशोर्झलि' इति नुम्, स च जकारात्पूर्वः, `मस्जेरन्त्यात्पूर्वं नुममिच्छन्ति' इति वचनात् । तेन `अनिदिताम्' इति नलोपः, सलोपादि पूर्ववत् । तष्ट इति । `तक्षू तनूकरणे', ऊदित्तावद्विकल्पितेट्, `यस्य विभाषा' इतीट्‌प्रतिषेधः ।
झलि सङीति वक्तव्यमिति । सङीत्ययं प्रकरणशेषः । किं प्रयोजनम् ?
गिरोऽभोधिर्द्विष्टरां च दृषत्स्थः काष्टशक्स्थिरः ।
क्रुञ्चा धुर्येति मा स्मैषु सत्वादीनि भवन्त्विति ।।
गिर इति---अत्र `अचि विभाषा' इति लत्वं मा भूत् । अभोधिरिति---`धि च' इति सलोपो न भवति । द्विष्टरामिति---`ह्रस्वादङ्गात्' इति न भवति । दृषत्स्थः---`झलो झलि' इति न भवति । काष्ठशक्स्थिरः---`स्कोः संयोगाद्योः' इति न भवति । क्रुञ्चा---`चोः कुः' इति कुत्वं न भवति । धुरं वहतीति धुर्येति---`हलि च' इति दीर्घत्वं न भवति । तथा च वार्त्तिकम्---`सङि लत्वलोपसंयोगादिलोपकुत्वदीर्घत्वानि' इति । सङीति प्रकृत्य लत्वादीनि वक्तव्यानीत्यर्थः । तदेवं वार्त्तिककारमतेऽपि चकाधीत्येव भवितव्यम्; सङीति वचनात् । सनः प्रमृतीति । धातुप्रत्ययानां ग्रहणमित्यर्थः । अत्र संयोगादिलोपं प्रयोजनं प्रत्याचष्टे---तदिति । तदिति वाक्योपन्यासे । शकेरिति । ककारान्तोपलक्षणमेतत्, तेन `कक लौल्ये', `कुक वृक आदाने' इत्यादेरपि क्विबन्तस्य प्रयोगो नास्त्येव । आहुरिति । भाष्यकारादयः । तत्र भाष्यं तावत् पठति---काष्ठशगेवेति । वाक्यर्थमित्यत्र स्थानिवद्भावोऽपि शक्यो वक्तुम् `तस्य दोषः संयोगादिलोप' इत्युक्तत्वात् ।।
चोः कुः ।। 8.2.30 ।।
नकारोपधो वेति । पूर्वमौत्पत्तिकं ञकारोपधत्वमाश्रित्येक्तम्, इदानीं तु नकारस्यानुस्वारपरसवर्णाभ्यामागतो ञकार इत्युच्यते । नकारलोपे हीति । तथा सन्निपातपरिभाषायाः प्रयोजनेषु पठितम्---उदुपधत्वस्य निकुचित इति । कुचितशब्दे कित्त्वसन्निपातकृतमुदुपधत्त्वम् `उदुपधाद्भावादिकर्मणोरन्यतरस्याम्' कित्त्वस्य निमित्तं न भवतीत्यर्थः । नन्वस्तु नोपधः, तथाप्यनुस्वारपरसवर्णयोः कृतयोः नकारस्य कुत्वप्रसङ्गः ? अत आह---तत्रेति । चुत्वस्य त्वत्र प्रसङ्गो नास्ति; अनुस्वारं प्रति तस्यासिद्धत्वात् ।।
हो ढः ।। 8.2.31 ।।
सोढेति । `तीषसह' इतीड्‌ विकल्पः । तुराषाडिति । `छन्दसि सहः' इति ण्विः, `अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम्; `सहेः साडः सः' इति षत्वम् । प्रष्ठवाडिति । `वहश्च' इति ण्विः ।।
दादेर्धातोर्घः ।। 8.2.32 ।।
किं तर्हि तद्विशेषणमिति । यद्यपि समानाधिकरणं न भवतीत्यस्यैतत्प्रतिपक्षभूतं न भवति, समानाधिकरणस्यापि विशेषणत्वोपपत्तेः, तथापि सामानाधिकरण्यपक्षे `धातोः' इत्येतद्विशेष्यम्; अत्र तु पक्षे विशेषणमित्यस्यैव प्रतिपक्षता । अवयवषष्ठ्यन्तमिति । अवयवसम्बन्धे या षष्ठी तदन्तमित्यर्थः । अत्र स्पष्टमेव प्रतिपक्षत्वम्---धातोरवयवो यो दादिः शब्द इति । एवं चोपक्रमेऽपि दकारादेःस धातोः---इति व्यधिकरणे षष्ठ्यौ । किं कृतं भवतीति । किमिष्टं सिद्धं भवतीत्यर्थः । अधोगित्यत्रापीति । सामानाधिकरण्ये त्वडागमेन दादित्वस्य विहितत्वान्न स्यात् । कथमिति । धातुरेवायं न धातोरवयव इति प्रश्नः । अथ वेति । अस्मिन्पक्षे उपक्रमेऽपि `दादेर्धातोः' इति यथाश्रुतमेव । धातूपदेश इति । एतच्च धातुग्रहणाल्लभ्यते ।
न ह्यधातोर्दकारादेर्हकारान्तस्य सम्भवः ।
देवानडुद्‌भ्यामित्यादौ यस्माड्‌ढत्वं प्रवर्त्तते ।।
तदेतदसमीचीनमवधानच्युतं वचः ।
यस्माद्दामलिडित्यादेरधातोरपि सम्भवः ।।
तस्माद्धातुग्रहणमावर्तनीयम् । तत्रैकमतिरिच्यमानमुपदेशकालं लक्षयति । तथा चेति । पूर्वत्र तु पक्षे व्यपदेशिवद्भावेन दामलिडित्यत्रापि प्रसङ्गः ।।
वा द्रुहमुहष्णुहष्णिहाम् ।। 8.2.33 ।।
द्रुहादय एते दिवादिष्वनेनैव क्रमेण प्रपठ्यन्ते, रधादित्वाद्विकल्पितेटः । तत्र `वा द्रुहादीनाम्' इति वक्तव्ये प्रतिपदपाठो यङ्‌लुक्यपि यथा स्यात्---दोध्रुक्, दोध्रुट्‌; अन्यथा `निर्द्दिष्टं यद्गणेन च' इति न स्यात् ।।
  नहो धः ।। 8.2.34 ।।
परीणदिति । सम्पदादित्वात्क्विप्, `नहिवृति' इति दीर्गत्वम्, `उपसर्गादसमासेऽपि' इति णत्वम् । प्रक्रियालाघवार्थं दकार एव विधातव्ये धकारविधानम् `झषस्तथोऱ्धोऽधः' इति धत्वं यथा स्यात्, नद्धमित्यत्र रदाभ्यां निष्ठानत्वं च मा भूदिति ।
आहस्थः ।। 8.2.35 ।।
अथ प्रकृतो धकार एव कस्मान्न विधीयते, तस्यापि हि चर्त्वेन आत्थेति सिद्धम्, थकारस्यापि चर्त्वेन भवितव्यम्, एवं च कृत्वा `आहनहोर्धः' इत्येक एव योगः कर्त्तव्यः ? अत आह--आदेशान्तरकरणमिति । एवमपि तकार एव कर्त्तव्यः ।
हृग्रहोरिति । हकारस्येति वचनं हरत्यर्थम् । निग्राभमिति । `उदि ग्रहः' इत्यत्र `छन्दसि निपूर्वादपीष्यते स्रुगुद्यमननिपातनयोः' इति वचनाद्वा घञ्‌ ।।
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ।। 8.2.36 ।।
अत्र शकारान्तस्य जश्त्वे प्राप्ते, इतरेषां तु कुत्वे तदपवादः षत्वं विधीयते । मूलवृट्, धानामृडिति । ग्रहिज्यादिना सम्प्रसारणम्, `स्कोः संयोगाद्योः' इति सलोपः, षकारस्य जश्त्वम्---डकारः, `वावसाने' इति पक्षे टकारः ।
झलादिराभ्यामित्यादि । पर्यवपद्यते=व्यवधीयते । राष्टिः, भ्राष्टिरिति । `गुरोश्च हलः' इत्यकारे प्राप्ते `क्तिन्नाबादिभ्यः' इति क्तिन्प्रत्ययः, `तितुत्रतथ' इत्यादिनेट्‌प्रतिषेधः ।
शब्दप्राडिति । `क्विब्वचि' इत्यादिना क्विप्, दीर्घत्वम्, सम्प्रसारणाभावश्च । छग्रहणमनर्थकम्; `च्छ्‌वोः शूड्‌' इत्यादिना छस्य शत्वे कृते शान्तानामित्येव षत्वं सिद्धम् ? अत आह---च्छ्‌वोः शूडित्यादि ।।
एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः ।। 8.2.37 ।।
`धातोः' इति यदिहानुवर्त्तते तद्व्यधिकरणमवयवषष्ठ्यन्तम् `एकाचः' इत्यस्य विशेषणम् । `झषन्तस्य' इत्येतदपि तस्यैव समानाधिकरणं विशेषणम् । एवंविशिष्टं तु `एकाचः' इत्येतदवयवषष्ठ्यन्तिविशेषणम् । तदाह---धातोरवयव इत्यादि । झलि सकार इति । एतेनानुवर्त्तमानस्य झलो विशेषणं सकार इति दर्शयति । किमथ पुनरिह झलीत्यनुवर्त्तते ? `अन्त' इत्यस्यानुवृत्तिर्यथा स्याद्, अन्यथा झलीत्यस्य निवृत्तौ तत्सम्बद्धमन्त इत्यपि निवर्त्तेत । ननु
चत्वारो भष आदेशाः स्थानिनस्तु बशस्त्रयः ।
डकारस्य तु न क्वापि सम्भवोऽस्ति कथञ्चन ।।
ततश्च वैषम्यात्संख्यातानुदेशो न प्राप्नोति ? तत्राह---चत्वारो बशः स्थानिन इत्यादि ।
शास्त्रप्रतीतिवेलायां संख्यासाम्यस्य सम्भवात् ।।
प्रवर्त्तते यथासंख्यमनुष्ठाने त्वसम्भवः ।।
इत्यर्थः । क्वचित्तु नायं ग्रन्थः पठ्यते । भोत्स्यन्त इति । बुधिरनुदात्तेत्, लृटि स्यः, तत्र व्यपदेशवद्भावेन धातुं प्रत्येकाचोऽवयवत्वम् । अभुघ्वमिति ।
`धि च' इति सिचो लोपः । गुहिदुही स्वरितेतौ ।
अजर्धा इति । गृधेर्यङ्‌लुकि द्विर्वचने धातुं प्रत्येकाचोऽवयवत्वम्, `रुग्रिकौ च लुकि' इति रुक्, जर्गृध्‌ इति स्थिते लङादि ।
गर्दभयतेरिति । गर्दभमाचष्ट इति णिच् । अश्रावी प्रत्ययोऽप्रत्ययः क्विदिः ।
असत्येकाज्ग्रहणे इत्यादि । यद्येकाज्ग्रहणं न क्रियेत, ततोऽन्यस्येहाश्रुतत्वाद् बशेव धातोरित्यनेन विशेष्येत । बशो झषन्तत्वस्यासम्भवाज्झषन्तस्येत्यनेनापि धातुरेव विशेष्येत, ततश्चायमर्थः स्यात्---झषन्तस्य धातोर्योऽवयवो वश्‌ तस्य भषिति, ततो दामलिडित्यत्रापि प्रसङ्गः । `एकाचः' इत्यस्मिंस्तु सति वृत्तिकारोपदर्शित एवार्थो भवतीति च तत्र प्रसङ्गः । अत्र हि यो झषन्त एकाच् लिडिति न तस्यावयवो ब्रश्‌ दकारः, यस्य चावयवो दामित्यस्य न स झषन्तः । क्रोत्स्यतीति । अत्र ककारस्य घकारो न भवति ।।
दधस्तथोश्च ।। 8.2.38 ।।
दधातिर्निर्दिश्यत इति । `दध धारणे' इत्यस्य ग्रहणं न भवति; शपा तयोर्व्यवायात् ।
ननु यङ्‌लुकि व्यवायो नास्ति, ततश्च तस्यैव ग्रहणप्रसङ्गः, एवं च वर्चनसामर्थ्यादिति वक्ष्यमाणं नाश्रयितव्यं भवति ? तस्माद्व्याख्यानमेवात्र शरणम् ।
वचनसामर्थ्यादिति । न हि दधातिराकारलोपेन विना झषन्तो भवति । एतच्च `पूर्वत्रासिद्धे न स्थानिवत्' इत्यनाश्रित्योक्तम् । अभ्यासजश्त्वस्य चासिद्दत्वमिति । वचनसामर्थ्यान्न भवतीत्यपेक्षते । न ह्यभ्यासस्य जश्त्वेन विना दधातेर्बश् क्वचित् सम्भवति ।
तथोरिति किमिति । `झलि' इति वर्त्तते, `झषन्तस्य' इति च; न च तकारथकाराभ्यामन्यो दधो झलस्ति, स्ध्वोस्तावदिष्टमेव । तस्मात्तथोरिति न वक्तव्यम् । एवं च कृत्वा चकारोऽपि न कर्त्तव्यः, सर्वत्र झलीत्येव सिद्धमिति प्रश्नः । आनन्तर्यादिति । ननु च स्ध्वोः पूर्वेणेव सिद्धम् ? न सिध्यति; आल्लोपस्यस्थानिवद्भावे सति अझषन्तत्वात् । ननु च पूर्वत्रासिद्धे नास्ति स्थानिवद्भावः ? एवमप्यभ्यासजश्त्वस्यासिद्धत्वान्न सिध्यति ।
यदि तु `अभ्यासजश्त्वचर्त्वमेत्वतुकोः सिद्धं वक्तव्यम्' इत्यत्र एत्वतुकोरित्यपनीयाविशेषेण सिद्धत्वमुच्येत, फलिभजिग्रहणं वा सामान्येन ज्ञापकमाश्रीयेत, न त्वेत्वविषयमेव; ततः `तथोश्च' इति शक्यमकर्त्तुम् । कथम् ? स्ध्वोः पूर्वेणैव सिद्धम्, इदं तु व्यतिरिक्ते झलि यथा स्यादित्येवमर्थं भविष्यति ।।
झलां जशोऽन्ते ।। 8.2.39 ।।
पदस्यान्ते वर्त्तमानानामिति । पदावसाने वर्त्तमानानाम् । अन्तशब्दोऽवसानवचनः, न त्ववयववचनः । श्वलिडिति । अत्र हकारस्य जश्त्वे प्राप्ते तस्यासिद्धत्वात् पूर्वं ढत्वम्, ढकारस्य जश्त्वम्---डकारः ।
झषस्तथोर्धोऽघः ।। 8.2.40 ।।
दधातिं वर्जयित्वेति । अनेनाध इति धातुप्रतिषेधं दर्शयति । यदि धकारप्रतिषेधः स्यात्---धकारात्परयोर्नेति, ततः `गतिबुद्धि' इत्यादयो निर्देशा नोपपद्येरन् । अलब्धष अलब्धा इति । लुङि त-थासौ । एवमलीढ, अलीढा इति । धत्तः, धत्थ इति । धत्वे प्रतिषिद्धे धकारस्य चर्त्वम् ।
`अधः' इति शक्यमवक्तुम् । इह कस्मान्न---धत्तः, धत्थ इति ? जश्त्वे योगविभागः करिष्यते, `दधस्तथोश्च', `झलां जशः'---झलां जशो भवन्ति दधस्तथोः, ततः `अन्ते'---अन्ते च झलां जशो भवन्ति, तत्र `पूर्वत्रासिद्धम्' इति भष्भावे जश्त्वस्यासिद्धत्वाज्झषन्तत्वम् । धत्वे परस्मिन् सिद्धं जश्त्वमित्यझषन्तत्वाद्धत्वाभाव इति सिद्धमिष्टम् ।।
रदाभ्यां निष्ठातो नः पूर्वस्य च दः ।। 8.2.42 ।।
`निष्ठातः' इति समासनिर्देशः । तत्र प्रधानभूततकारः `रदाभ्याम्' इत्यनेन विशेष्यते, न गुणभूता निष्ठेत्याह--रेफदकाराभ्यामुत्तरस्येति । तेन चरितम्, मुदितमित्यत्र निष्ठाया अव्यवधानेऽपि तस्येटा व्यवहितत्वान्नत्वं न भवति । अवगूर्णमिति । `गुरी उद्यमने', `श्वीदितो निष्ठायाम्' इतीटप्रतिषेधः, पूर्वेषु `श्र्युकः किति' इति । भिन्नः, भिन्नवानिति । आदेशे `न' इत्यकार उच्चारणार्थः, तेन दकारस्य स्थाने शुद्धो नकारो भवति । कृतः कृतवानिति ।
ननु यथा `कृपो रो लः' इत्यृकारस्यापि रेफस्य लकारो भवति, तथेहापि ऋकारस्य रेफमाश्रित्य नत्वं प्राप्नोति ? अत आह---र इत्यत्रेति । युक्तं तत्र सामान्योपादानात्, इह तु न सामान्यमुपादीयते, किं तर्हि ? व्यञ्जनम् । किमात्मकम् ? अर्द्धमात्रात्मकम्, ऋकारस्तु मात्राचतुर्भागात्मकः । अस्तु वा सामान्यनिर्देशः, तथापि न दोष इत्याह---सामान्यनिर्देशे चेति । ऋकारे ह्यभितोऽज्भक्तिः, मध्ये रेफभक्तिः, ततश्च परयाऽज्यभक्त्या व्यवधानान्नास्ति नत्वप्रसङ्गः ।
चरितम्, मुदितमिति । `त' इत्यनुच्यमाने इटो निष्ठाभक्तत्वात्तस्य नत्वप्रसङ्गः । परस्य मा भूदिति । परस्यैव मा भूदित्यर्थः । असति पूर्वग्रहणे पाठक्रमे निष्ठा प्रत्यासन्नेति तद्दकारस्येव नत्वेन भाव्यम् । तेनैतदपि न चोदनीयम्---बहिरङ्गत्वाल्लाक्षणिकत्वाच्च न भविष्यतीति । किञ्च---पदस्येत्यधिकारात् पदावस्थायां नत्वविधानाद्वहिरङ्गत्वमपि नास्ति । केवलस्य वर्णस्यानुपदेशात् प्रतिपदोक्तत्वमपि नास्ति । अथापि प्रत्यासत्तिर्नापेक्ष्यते, तथापि पञ्चमीनिर्देशात् परस्यैव प्रसङ्गः । कार्तिरित्यत्र बहिर्भूततद्धितापेक्षत्वाद्वहिरङ्गा वृद्धिः । वृद्धेश्च यन्निमित्तं तदेव रेफस्यापि; `उरण्‌ रपरः' इत्यस्य वृद्धिविधिनैकवाक्यत्वात् ।।
संयोगादेरातो धातोर्यण्वतः ।। 8.2.43 ।।
प्रद्राण इति । `कृत्यचः' इति णत्वम् ।
निर्यात इति । योऽत्र दातुर्नासौ संयोगादिः, यश्च संयोगादिर्नासौ धातुः । न चात्र संयोगादित्वस्य बहिरङ्गत्वम् । कथम् ? पूर्वं धातुरुपसर्गेण युज्यते, ततश्च निष्ठोत्पत्तेः प्रागेव संयोगः सन्निहितः । प्रद्राण इत्यादावप्येतावदेव ।।
ल्वादिभ्यः ।। 8.2.44 ।।
जीन इति । `ज्या वयोहानौ', ग्रहिज्यादिना सम्प्रसारणम् । निष्टावदिति । नत्वसन्निधौ वचनात्तदेवातिदिश्यते, तेन पूनिरित्यत्र `क्लिशः क्त्वानिष्ठयोः', `पूङश्च' इतीड्विकल्पो न भवति ।
दुग्वोरिति । `दु गतौ' इत्यस्यैव दोर्ग्रहणम्, न तु `टुदु उपतापे' इत्यस्य; सानुबन्धकत्वात् । तथा माघे प्रयुक्तम्---`मृदुतया दुतया' इति । `गु पुरीषोत्सर्गे'।
पूना इति । अनेकार्थत्वाद्धातूनां पूञ्‌ विनाशार्थः ।
सिनो ग्रास इति । `षिञ्‌ बन्धने', बध्यमानः=पिण्डीक्रियमाणो ग्रासो यदा दध्यदिव्यञ्जनवशेन तत्रानुकूल्यं प्रतिपद्यते, तदा कर्मणः कर्तृत्वविवक्षायामयं प्रयोगः । सिता पाशेनेति । शुद्धे कर्मणि क्तः, समुदायप्रत्युदाहरणमेतत् । इदानीमवयवप्रत्युदाहरणं दर्शयति---ग्रासोऽपीति ।
ओदितश्च ।। 8.2.45 ।।
आपीन इति । `प्यायः पी' इति पीभावः । स्वादयः `षूङ्‌ माणिप्रसवे' इत्यादयः `ब्रीङ्‌ वृणोत्यर्थे' इत्येवमन्ता दिवादौ पठ्यन्ते ।।
क्षियो दीर्घात् ।। 8.2.46 ।।
`क्षि क्षये', `क्षि निवासगत्योः'---द्वयोरपि ग्रहणम् । क्षीणा इति । अकर्मकत्वात् कर्त्तरि क्तः, `निष्ठायामण्यदर्थे' इति दीर्घः । क्षीणस्तपस्वीति । अत्रापि `वाऽऽक्रोशदैन्ययोः' इति ।
`दीर्घात्' इति शक्यमवक्तुम्, `क्षियः' इति निर्देशादेव दीर्घस्य ग्रहणं विज्ञायते, ह्रस्वस्य हि ग्रहणे इयङादेशात्परत्वात् `घिर्ङिति' इति गुणे कृते क्षेरिति निर्देष्टव्यं स्यादित्यत आह---ह्रस्वान्तस्यापीति । यथाभूतस्य दीर्घत्वं विधेयं तथाभूतमेवानुकर्तुं युक्तम् । ह्रस्वान्तस्य च दीर्घत्वं विधेयमिति तस्यैव दीर्घविधावनुकरणम् । तत्रापि चेयङादेशो दृष्टः, तस्मादियङादेशो न दीर्घग्रहणे प्रमाणमित्यर्थः ।
यदि तर्हि ह्रस्वान्तस्यापि धात्वनुकरणस्येयङादेशो भवति `विपराभ्यां जेः' इत्यादावपि प्रसङ्गः ? इत्यत आह---विपराभ्यां जेरित्येवमादौ त्विति । अविवक्षित्वेति पाठः । तत्र हि धातावनुकार्येऽवस्थितं धातुत्वं क्रियावाचित्वलक्षणमविवक्षितत्वात्तस्य विवक्षामकृत्वा रूपसामान्यस्य---विजितम्, कूजितमित्यादिसाधारणस्य रूपस्यानुकरणम्, ततश्च विशेषनिबन्धनस्य कार्यस्य सामान्येऽभावात्प्रकृतावदृष्टत्वादनुकरणेऽप्यभाव इत्यर्थः । यदा तु विशेषोऽनुक्रियते, तदा तन्निबन्धनं कार्यमनुकरणे प्रवर्त्तते, यथात्रेयङादेशः । यद्येवम्, विभक्त्युत्पत्तिर्न प्राप्नोति, `अधातुः' इति प्रतिषेधेन प्रातिपदिकसंज्ञाया अभावात् ? नैष दोः; अधातुरिति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः । ततः किम् ? आतिदेशिकस्य कस्यचित् कार्यस्याभावात् धातोरन्यत्वात्स्वाश्रया प्रातिपदिकसंज्ञा प्रवर्त्तते । इयङादेशस्त्वातिदेशिको धातोर्विधीयमानत्वाद्भवति ।।
श्योऽस्पर्शे ।। 8.2.47 ।।
शीनमिति । `श्यैङ्‌ गतौ', `द्रवमूर्त्तिस्पर्शयोः श्यः' इति सम्प्रसारणम् ।
गुणभूतोऽपि स्पर्श इति । एतच्च व्याख्यानाल्लभ्यते, स्पर्शशब्दोऽयमस्ति गुणवचनः, `स्पृश संस्पर्शने', भावे कर्मणि वा घञ्‌---स्पर्शस्त्वगिन्द्रियग्राह्यो गुणः; अस्ति रोगवचनः, `स्पृश उपतापे', घञ्‌---स्पर्शः; तदिह विशेषानुपादानाद् द्वयोरपि ग्रहणम् ।
ततश्च रोगेऽपि प्रतिषेधात्प्रशीन इति न सिध्येत् ? अत आह--गुणे चेति । गुण एवेत्यर्थः । एवं मन्यते---यदयम् `द्रवमूर्तिस्पर्शयोः श्यः' इति स्पर्शे संप्रसारणं विधायपुनः `प्रतेश्च' इत्याह, तज्ज्ञापयति---श्यायतेर्ग्रहणे स्पर्शशब्दो रोगं न प्रत्याययतीति । यदि प्रत्याययेत् पुनर्न विदध्यात्, प्रतिपूर्वो रोग एव श्यायतिर्वर्तते ।।
अञ्चोऽनपादाने ।। 8.2.48 ।।
न चेदपादानं तत्र भवतीति । तत्राञ्चत्यर्थे विषयेऽपादानं चेन्न भवतीत्यर्थः । समकाविति । सङ्गतावित्यर्थः । `यस्य विभाषा' इतीट्‌प्रतिषेधः, `अनिदिताम्' इत्युपधालोपः ।
उदक्तमिति । उद्धतमित्यर्थः । व्यक्तमित्येतदिति । `अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' इत्यस्येदं रूपम्, नाञ्चतेः; तेन नत्वमिदं न भवतीति भावः ।।
दिवोऽविजिगीषायाम् ।। 8.2.49 ।।
आद्यून इति । `च्छवोः शूङ्‌' । आद्यूनः=औदरिकः । परिद्यूनः=क्षीणः ।
द्यूतं वर्तते इति । नन्वत्राक्षादिपतनलक्षणा क्रीडा प्रतीयते, न विजिगीषा ? अत आह---विजिगीषया हीति ।।
निर्वाणोऽवाते ।। 8.2.50 ।।
वाताधिकरण इति । वातकर्तृक इत्यर्थः । यदि `वातश्चेदभिधेयो न भवति' इत्यर्थः स्यात्, तदा निर्वातो वात इत्यत्रैव प्रतिषेधः स्याद्यत्र कर्त्तरि क्तः; यत्र तु भावे तत्र न स्यात्---निर्वातं वातेनेति ।
निर्वाणोऽग्निरिति । उपशान्त इत्यर्थः । निर्वाणो भिक्षुरिति । उपरत इत्यर्थः । वातस्तु करणमिति । यथासम्भवं करणत्वे हेतौ वा तृतीया द्रष्टव्या । यथा तु वार्त्तिकं तथा भावे प्रतिषेधो न भवति, निर्वाणं वातेनेत्येव भवति ।।
प्रस्त्योऽन्यतरस्याम् ।। 8.2.54 ।।
प्रस्तीम इति । `स्त्यः प्रपूर्वस्य' इति सम्प्रसारणम् ।।
अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः ।। 8.2.55 ।।
फुल्ल इति । `आदितश्च' इतीट्‌प्रतिषेधः, `उत्परस्यातः', `ति च' इत्युत्वम् ।
क्तवत्वन्तस्याप्येतल्लत्वमिष्यत इति । निष्ठायास्तशब्दान्तं यद्रूपं तस्य फुल्लः---इत्येतन्निपात्यत इति भावः । क्षीबादिषु तु नैतदिष्यते ।
इडभाव इति । अन्यथा तलोपस्यासिद्धत्वाद्वलादित्वादिट्‌ प्रसज्येत । कृते वा इटि इच्छब्दलोप इति । निपात्यत इत्यपेक्षते । लाघेरुदोऽन्य इति । उदस्तु प्रतिषेधो न भवति; निर्देशसामर्त्यात् । कृशि प्रत्यनुपसर्ग एवेति । `यत्क्रियायुक्ताः प्रादयस्तं प्रति' इति वचनात् । क्रियान्तरयोगमेव दर्शयति---परिगतः कृश इति । कार्श्येन परिगत इत्यर्थः । यद्यपि फुल्लादयः पचाद्यचि इगुपधलक्षणे के च सिध्यन्ति, तथापि `निष्ठा च द्व्यजनात्' इत्यादिकार्यसिद्धये, क्षीबिताद्यनिष्टशब्द निवृत्तये च निपातनम्; फुल्लशब्दे तु फुल्लावनित्येतदर्थं च ।।
नुदविदोन्दत्राघाह्रीभ्योऽन्यतरस्याम् ।। 8.2.56 ।।
अत्रानन्तरस्य निपातनस्य विधातुमशक्यत्वाद्व्यवहितं विधेयमिति स्थिते `शुषः कः' इत्यादिभिरादेशान्तरैर्व्यवहितमपि नत्वमेव विधीयते । कथम् ? उत्तरसूत्रे तावत्तदेव प्रतिषिध्यते; प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । तस्मात्तदेव बुद्धौ विपरिवर्त्तमानमत्रापि विकल्प्यते । समुन्न इति । `उन्दी क्लेदने', ईदित्त्वादिट्‌प्रतिषेधः, `अनिदिताम्' इत्युपधालोपः ।
उभयत्र विभाषेयमित्याह---ह्री इत्येतस्येति ।
विद विचारण इत्यस्येति । रौधादिकस्य; उन्दिना रौधादिकेन साहचर्यात् । यद्यपि तौदादिकेन नुदिनापि साहचर्यम्, तथापि परसाहचर्यमेव व्यवस्थापकम्; `विप्रतिषेधे परम्' इत्यस्यैवमादावप्युपयोगात् ।
विचारणार्थस्य ग्रहणमित्येतदाप्तागमेन द्रढयति---एवं ह्युक्तमिति । वित्तेर्धातोर्निष्ठान्तशब्दरूपं विदित इतीष्यते, तस्य सेट्‌त्वात्; इह च `रदाभ्यां निष्ठातः' इत्यनुवृत्तेः विद्यतेः सत्तार्थस्य विदेर्विन्न इतीष्यते; तस्यानिट्‌त्वात्, इह च तस्याग्रहणात् । विन्तेरिति । तिङन्तानुकरणात् षष्ठी । भोगवित्त इति । एकार्थीभावाभावेऽपि भाष्यकरनिपातनात्सप्तमीसमासः । भोगग्रहणमुपलक्षणम् । भोग प्रत्यययोरर्थयोः विन्दतेस्तौदादिकस्य विदेर्वित्त इतीष्यते, अन्यत्र विन्न इति नत्वमेव भवति, न त्वयं विकल्प इत्यर्थः । उक्तोऽत्र हेतुः ।।
न ध्याख्यापमूर्च्छिमदाम् ।। 8.2.57 ।।
मूर्त्त इति । `आदितश्च' इतीट्‌प्रतिषेधः, `राल्लोपः' इति छस्य लोपः । मत्त इति । ईदित्त्वादिट्‌प्रतिषेधः ।।
वित्तो भोगप्रत्यययोः ।। 8.2.58 ।।
लाभार्थादिति । ज्ञानार्थादिटा भाव्यम् । सत्ताविचारणार्थयोरपि न भोगप्रत्यययोर्वृत्तिः सम्भवतीति भावः । कथं पुनर्भोगे निपात्यमानो वित्तशब्दो धने भवति ? इत्यत आह---धनं हीति । कर्मसाधनः सूत्रे भोगशब्द इत्यर्थः । एतेन `प्रत्ययः' इति व्याख्यातम् ।
विन्न इति । `विभाषा गमहनविदविशाम्' इति तौदादिकस्य क्वसौ विकल्पितेटत्वाद् `यस्य विभाषा' इति निष्ठायामिठ्‌प्रतिषेधः ।।
भित्तं शकलम् ।। 8.2.59 ।।
शकलपर्यायोऽयमिति । यथा शकलशब्दो जातिशब्दः, न क्रियाशब्दः, तथा भित्तशब्दोऽपीत्यर्थः ।
नन्वयं भिदेर्धातोः व्युत्पाद्यमानः क्रियाशब्दः, स कथं जातिशब्दस्य पर्यायो भवति ? अत आह---अत्रेति । सन्ति हि ते शब्दा येषु व्युत्पत्तिमात्रोपयोगिनी क्रिया, जातिरेव तु समुदायशक्त्या शब्दार्थः, यथा---तैलं पिबतीति तैलपायिकेति । किमर्थं पुनरेवमाश्रीयते ? इत्याह---भिदिक्रियाविवक्षायां हीति । साम्यप्रतिपादनार्थं शकलग्रहणम् । यता विदाहरणविवक्षायां भिन्नं शकलमिति भवति, तथा भिन्नं भित्तमित्येव प्रयोग इत्यर्थः । क्रियाशब्दत्वे तु भिन्नशब्देनैव क्रियाया उपात्तत्वाद्भिन्नमित्यस्यैव प्रयोगो न स्यात् । अन्ये त्वाहुः---यथा विदारणक्रियया शकलं निवर्तते, तदा तामङ्गीकरोत्येव भिन्नशब्दः, यत् शकलस्य सतो विदारणं तदा तत्प्रतिपादनाय भिन्नं भित्तमिति प्रयोग इति ।।
ऋणमाधमर्ण्ये ।। 8.2.60 ।।
ऋ इत्येतस्मादिति । `ञ सृ गतौ', `ऋ गतिप्रापणयोः' इति वा ।
एतस्मादेवेति । शौण्डादिव्यतिरेकेण सप्तमीसमास एव मृग्यः, प्रागेव सप्तम्यन्तोत्तरपद इति भावः । कालान्तरेत्यादि । ऋणग्रहणकालापेक्षया कालान्तरत्वम्, तत्र देयं कालान्तरदेयम्, तत्र यो विनिमयः=विपरिवर्त्तनं तदुपलक्षणार्थमाधमर्ण्यग्रहणम्, न तु स्वार्थप्रतिपादनार्थम् । किं पुनः कारणमेवं व्याख्यायते ? इत्याह---उत्तमर्ण इत्यपि हीति । एतच्च `धारेरुत्तमर्णः' इति निर्देशादवसितम् ।।
नसत्तनिषात्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि ।। 8.2.61 ।।
नसत्तेत्यादीनामनुकरणपदानां द्वन्द्वः । निषत्तमिति । `सदिरप्रतेः' इति षत्वम् ।
अनुन्नमिति भाषायामिति । `नुदविदोन्दत्रा' इति विकल्पो न भवति; एतन्निपातानारम्भसामर्थ्यादित्याहुः ।
प्रतूर्तमिति । यदा त्वरतेः, तदा `ज्वरत्वर' इत्यादिना ऊठ्‌ । उदा तु `तुर्वीहिंसायाम्' इत्यस्य, तदा `राल्लोपः'। उत्वमिति । रपरत्वम् `उरण्‌ रपरः' इत्यव सिद्धम्; परभाषाणामसिद्धप्रकरणेऽपि प्रवृत्तेः ।।
क्विन्प्रत्ययस्य कुः ।। 8.2.62 ।।
क्विनः कुरिति वक्तव्ये इति । न हि क्विन्प्रत्ययत्वं व्यभिचरतीति भावः । न चैवमुच्यमाने `वेरपृक्तस्य' इति लोपं बाधित्वा क्विन एव वकारस्य कुत्वं घकारः प्राप्नोतीति शङ्कनीयम्; तथा क्विन इति प्रत्यग्रहणपरिभाषया तदन्तस्य ग्रहणे सति क्विनो वकारस्य लोपे कर्त्तव्ये सति कुत्वस्यासिद्धत्वात् `राल्लोप' एव भवति, तस्मिंश्च सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यति । स्यादेतत्---क्विबादिषु सावकाशं लोपं विशेषविहितं कुत्वमपवादो वचनप्रामाण्यादिति न्यायेन बाधेतेति ? तन्न; एवं हि वर्गग्रहणमनर्थकंस्यात् । अनेकस्य स्थानिनोऽनेकादेशप्रतिपत्तये हि वर्गग्रहणम्, वकारस्यैव तु स्थानित्वे घकार एव निर्दिश्येत, `वर्गाणां तृतीयचतुर्थाः' इति शिक्षायां वकारघकारयोर्गुणसाम्यप्रतिपादनात् । तस्मात् `क्विनः कुः' इत्येव वक्तव्यम् । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिश्चोपलक्षणेऽपि भवति, यथा---चित्रगुरानीयतामिति गवामभावेऽपि चित्रगवीभिरुपलक्षितस्यानयनं भवति, तथेहाप्यसत्यपि क्विपि क्विनोपलक्षितस्य धातोः कार्यं भवतीति । अस्राग्, अद्रागिति । सृजिदृशिभ्याम् `माङि लुङ्‌', तिप्‌, च्लेः सिच्, हल्ङ्यादिलोपः, `वदव्रज' इति वृद्धिः । अत्र व्रश्चादिषत्वे प्राप्ते कुत्वम्---जस्य गः, शस्य खः, तस्यापि जश्त्वम्, `वावसाने' इति चर्त्वम्---ककारः । `पूर्वत्रासिद्धम्' इत्यसिद्धत्वं षत्वे कुत्वस्य नास्ति; प्रत्ययग्रहणसामर्थ्यात् षत्वापवादत्वात् कुत्वस्य ।
क्विबन्तस्यापीति । द्रष्टेत्यादौ तु न भवति; अपदान्तत्वात् । एवं च सतीत्यादि । तद्वदेव । दृग्भ्यामिति कुत्वमुदाहृतम् ।
प्रतिविधातव्यमिति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं वचनमेव ।।
नशेर्वा ।। 8.2.63 ।।
जीवनाशहेतुत्वादाहुतिः=जीवनगित्युच्यते, सम्पदादित्वाद्भावे क्विप् ।।
मो नो धातोः ।। 8.2.64 ।।
नलोपो न भवतीति ।। नत्वं तु लोपार्थमेव स्यादिति मन्यते ।।
ससजुषो रुः ।। 8.2.66 ।।
सजूरिति । पूर्ववद्भावे क्विप्, रुत्वे कृते `र्वोरुपधायाः' इति दीर्घत्वम्, बहुव्रीहौ सहस्य सभावः । सप्रीतिरित्यर्थः ।।
अवयाः श्वेतवाः पुरोडाश्च ।। 8.2.67 ।।
ण्विनि कृत इति । प्राप्त इत्यर्थः । श्वेतवहादीनां यत्र पदत्वं भात्रि तत्र ण्विनोऽपवादो डस् वक्तव्य इति हि तत्रार्थः, न पुनर्ण्विनन्तानां पदत्वे सति डस् वक्तव्य इति ।
ननु श्वेतवोभ्यामित्यादिसिद्ध्यर्थमवश्यं डस् वक्तव्यः, स चेदुच्यते नार्थोऽनेन, सान्तत्वात्पूर्वोणैव रुः सिद्धः, दीर्घत्वम् `अत्वसन्तस्य' इत्येव सिद्धम् ? तत्राह---सम्बुद्धौ दीर्घार्थमिति ।।
अहन् ।। 8.2.68 ।।
अहोभ्यामिति । `हशि च' इत्युत्वम् । नलोपमकृत्वेत्यादि । नलोपविधावेतद्व्याख्यातम् ।
लाक्षमिकत्वादिति । अडागमेन अहन्निति रूपलाभात् ।
ह्रस्वविधाविति । समासे च लुमता लोपाद् रादेशे प्राप्ते रुत्वमुत्वार्थमुच्यते । अहोरूपमिति । षष्ठीसमासः । गतमहो रूपं पश्येत्यसमासः । अहोरात्र इति । `अहस्सर्वैकदेश' इत्यादिनाच् समासान्तः, इकारलोपे कृतेऽप्येकदेशविकृतस्यानन्यत्वादुत्वम् । रात्रग्रहणं तु न कृतम्; गतमहो रात्रिरागतेत्यसमासेऽपि रुत्वार्थम् ।।
रोऽसुपि ।। 8.2.69 ।।
पूर्वस्यायमपवादः । `र' इत्यकार उच्चारणार्थः । अदर्ददातीति । अत्यन्तसंयोगे द्वितीया । अह्नो रुविधाविति । यथा चैतत्सूत्रेणैव सिद्धम्, तथा `न लुमताङ्गस्य' इत्यत्रोक्तम् । दीर्घाहो निदाघ इति । `असुपि' इति प्रसज्यप्रतिषेधः । पर्युदासे तु सुप्सदृशो हल्परोऽस्तीति स्यादेवात्र रेफः । प्रसज्यप्रतिषेधे तु प्रत्ययलक्षणेन प्रतिषेधे सति रुरेव भवति, ततश्च तन्निबन्धने यत्वोत्वे भवतः ।।
अम्नरूधरवरित्युभयथा छन्दसि ।। 8.2.70 ।।
नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्ययमारम्भः । अम्नस्शब्द ईषदर्थे, अम्नरस्तमित इति यथा । अवः=रक्षणम् ।
प्रचेता राजन्निति । सकारस्य रेफः, तस्य `रो रि' इति लोपः, `ढ्रलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घः ।
अहरादीनामित्यादि । उभयत्राप्यादिशब्दः प्रकारे । इदमपि छन्दसि भाषायां च ।।
भुवश्च महाव्याहृतेः ।। 8.2.71 ।।
तिस्रो महाव्याहृतयः---पृथिव्यन्तरिक्षस्वर्गाणां वाचिकाः, इह तु मध्यमाया ग्रहणम् । भुवो विश्वेषु सवनेष्विति । तिङन्तमेतत् । भवतेः `छन्दसि लुङ्‌लङ्‌लिटः' इति वर्तमाने लङ्‌, सिप्, शपि गुणाभावश्छन्दसः, `बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः । लाक्षणिकत्वादेवास्याग्रहणे सिद्धे महाव्याहृतिग्रहणम्---अस्याः परिभाषाया अनित्यत्वज्ञापनार्थम् । तेन क्रापयतीत्यादौ पुक् सिद्धो भवति ।।
वसुस्रंसुध्वंस्वनडुहां दः ।। 8.2.72 ।।
स इति वर्तत इति । अननुवृत्तौ तु तस्य विद्वानित्यादौ नकारस्य दत्वं प्राप्नोति । न तु स्रंसुध्वंसू इति । विशेष्येते इति विपरिणामेनान्वयः । असम्भवाच्चानडुच्छब्द इति । न विशेष्यत इत्यन्वयः ।
इहेदं वसोर्दत्वं नाप्राप्ते विध्यन्तरे आरभ्यमाणं यथा विद्वद्भ्यामित्यादौ रुत्वं बाधते, तथा विद्वानित्यादौ संयोगान्तलोपमपि बाधेत ? इत्यत आह---रुत्वे नाप्राप्त इति ।
अथानड्वानित्यत्र नुमो दकारः कस्मान्न भवति ? अत आह---नुमस्त्विति । दत्वं यदि नकारस्य स्यात् नुमोऽनर्थको विधिः, हकारस्यापि दत्वेन ह्यनड्वादिति सिध्यति । यथैव तर्हि नुमो विधानसामर्थ्याद्दत्वं न भवति, तथानङ्‌वान् अत्रेत्यादौ `दीर्घादटि समानपादे' इति रुत्वमपि न प्राप्नोति ? `यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेनिमित्तमेव नासौ बाध्यते' दत्वं च प्रतिनुमो विधिरनर्थकः, रुविधेः पुनर्निमित्तमेव ।।
सिपि धातो रुर्वा ।। 8.2.74 ।।
धातुग्रहणमुत्तरार्थमिति । इह तु सिपि परतो दातोरन्यस्यासम्भवः । रुग्रहणं चेति । उत्तरार्थमित्यनुषङ्गः, इह तु दत्वे विकल्पिते सान्तत्वादे पक्षे रुः सिध्यति ।।
दश्च ।। 8.2.75 ।।
अभिनदिति । तन्मध्यपतितस्य श्नमस्तद्भक्तस्य वाटस्तद्‌ग्रहणेन ग्रहणादत्र पदस्य धातुत्वम् ।।
र्वौरुपधाया दीर्घ इकः ।। 8.2.76 ।।
धातोः, पदस्य---इत्युभयं समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह---रेफवकारान्तस्येति ।
वग्रहणमुत्तरार्थमिति । इह तु वकारान्तस्य पदस्य धातोरसम्भवः । अभ्यासेकारस्य मा भूदिति । यदि स्यात्, तस्यासिद्धत्वाद् `ह्रस्वः' इति ह्रस्वो न स्यात् ।।
उपधायां च ।। 8.2.78 ।।
`र्वोरुपधायाः' इत्यादि सर्वमनुवर्त्तते । इदमुपधाग्रहणं र्वोर्विशेषणम् । षष्ठीद्विचनस्य तु स्थाने सप्तम्येकवचनम् । प्रकृतमुपधाग्रहणमिको विशेषणम्, तच्च र्वपेक्षया पूर्वत्वं प्रतिपादयति, तेन वृत्तिकारोपदर्शितः सूत्रार्थो भवति । हूर्छितेत्यादि । `हुर्छा कौटिल्ये', `मुर्छा मोहसमुछ्राययोः', अचो रहाभ्याम्' इति द्विर्वचनस्यासिद्धत्वाद्रेफस्योपधात्वे सति पूर्ववद्दीर्घत्वम् । `चिरिजिरी हिंसार्थौ' ।
इह रिर्यतुः, विव्यतुरिति `रि गतौ', `वी गत्यादिषु', लिट्, अतुस्, द्विर्वचने `एरनेकाचः' इति यणादेशः । अत्राभ्यासेकारस्य दीर्घप्रसङ्गः, ततश्च तस्यासिद्धत्वाद् ह्रस्वो न स्यात्, तत्राह---रियेतुरित्यादि । यणादेशस्य स्थानिवद्भावादिति । न च दीर्घविधौ स्थानिवद्भावप्रतिषेधः; अलोपाजादेशत्वात् । एवमपि `पूर्वत्रासिद्धे न स्थानिवत्' इत्याशङ्क्य परिहारान्तरमाह---असिद्धत्वात्त्वेति । अङ्गाधिकारे विधानात् प्रत्ययाश्रयत्वाद्यणो बहिरङ्गत्वम्, दीर्घस्य तु तदनपेक्षत्वादन्तरङ्गत्वम् ।
इह चतुर्यितेः क्यजन्तात्तृच्‌, इट्‌, अतो लोपे कृते `क्यस्य विभाषा' इति यदाऽयं लोपो न भवति, तदा धातोरुपधाभूतो रेफो हल्परश्चेति दीर्घप्रसङ्गः ? इत्याशङ्कायामाह---चतुर्यितेत्यत्रापीति । अत्राप्यन्तरङ्गत्वबहिरङ्गत्वे पूर्ववत् । इह प्रतिपूर्वाद्दिवेः `कनिन्युवृषितक्षि' इति कनिन्प्रत्ययान्तात्तृतीयैकवचने `अल्लोपोऽनः' इत्यकारस्य लोपे प्रतिदीव्नेति दीर्घत्वमिष्यते, तन्न प्राप्नोति; वकारस्य धातुं प्रत्यनुपधात्वादित्यत आह---प्रतिदीव्नेत्यत्रेति । कथं पुनः `हलि च' इति दीर्घत्वम्, यावताल्लोपस्य स्थानिवद्भावे सति हल्परो वकारो न भवति ? इत्यत आह---दीर्घविधाविति । ननु मा भूत्स्थानिवद्भावः, विभक्त्याश्रयत्वेनाल्लोपो बहिरङ्गः, तस्यासिद्धत्वाद्धल्परो न भवति ? इत्यत आह---असिद्धं बहिरङ्गमन्तरङ्ग इत्येतत्त्विति । अनाश्रयणं त्वस्याः परिभाषया अनित्यत्वात् ।अनित्यत्वं च `नलोपः सुप्स्वर' इतियत्र तुग्विधिग्रहणेन ज्ञापितम् । इह जीर्यतेः क्रिन् रश्च वः---जिव्रिः, कृगृभ्यां किप्रत्ययः---किरिः, गिरिः, ताभ्यामोस्, यणादेशः---किर्योः, गिर्यो रत्र `हलि च' इति दीर्घत्वं प्राप्नोति ? तत्राह---उणादयोऽप्युत्पन्नानीति । उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च `अतः कृकमिकंस' इत्यत्र कमिग्रहणेनैव सिद्धे कंसग्रहणेन ज्ञापितम्---क्वचिद् व्युत्पत्तिकार्यं भवत्येव, यथा---प्रतिदीव्नेति । किर्योरित्यत्र यणो बहिरङ्गत्वमनाश्रित्ययं परिहार उक्तः ।।
न भकुर्छुराम् ।। 8.2.79 ।।
छुर्यादिति । `छुर छेदने', आशिषि लिङ्‌ ।
प्रतिदीव्नेति । योऽत्र वकारान्तो नासौ भसज्ञकः, यश्च भसंज्ञो नासौ वकारान्तः, किं तर्हि ? नकारान्तः ।।
अदसोऽसेर्दादु दो मः ।। 8.2.80 ।।
`असेः' इति सकारे इकार उच्चारणार्थः । अमूभ्यामिति । अत्र त्यदाद्यत्वे कृते `सुपि च' इति दीर्घत्वम्, तत आन्तरतम्यादाकारस्य ऊकारः । ननु च सूत्रे ह्रस्वो निर्द्दिष्टः, भाव्यमानत्वाच्च सवर्णग्रहणमपि नास्ति, तत्कथमूकारो लभ्यते ? अत आह---भाव्यमानेनापीति । एतच्च `दिव उत्' इति तपरकरणेन ज्ञापितम् । केचिदत्राप्युकारं दपरं पठन्ति---`उद्दोमः' इति, तेषामयमौत्पत्तिको दकारो मुखसुखार्थः, न पुनरस्तकारस्य जश्त्वम्, तथा हि सति सवर्णग्रहणं न स्यात् । अदपरपाठस्तु भद्रः । अदस्यतीति । ननु च `पदस्य' पति वर्त्तते, न चेदं पदम्; `नः क्ये' इति नियमात् ? एवं तर्ह्येतदेव ज्ञापयति--पदस्याप्यदस एतन्मुत्वं भवतीति---अमुम्, अमुयेति, अन्यथा यत्र स्वादौ पदं तत्रैव स्याद्---अमुष्यै, अमूभ्यामिति ।
अनोस्र इति । ओकारसकाररेफा न विद्यन्ते यस्य तस्येत्यर्थः । अदः कुलमिति । विसर्जनीयस्यासिद्धत्वाद्रेफान्तमेतत् ।
तदर्थमिति । ओकाररेफयोरपि प्रतिषेधार्थम् । अः सेर्यस्येति । कोऽर्थः ? इत्यत्राह---यत्रेति । तेन किं सिद्धं भवति ? इत्याह---तेनेति ।
कथमद्र्यादेश इति । असमिन्विषये वक्तव्यमस्तीति प्रश्नः, तदाह---अदसोऽद्रेरिति । श्लोकस्य पूर्वार्धं व्याचष्टे---यैरति । तृतीयं पादं व्याचष्टे---ये त्विति । चतुर्थ पादं व्याचष्टे--येषां त्विति । अमुमुयङिति । अदोऽञ्चतीति `ऋत्विग्‌' इत्यादिना क्विन्, `विष्वग्देवयोश्च' इत्यदसष्टेरद्र्यादेशः अदद्र्यजिति स्थिते अदः--शब्दस्याद्र्यादेशसम्बन्धिनो दकाररेफयोश्च मुत्वम्, सौ `उगिदचाम्' इति नुम्, हल्ङ्यादिसंयोगान्तलोपौ, `क्विन्प्रत्ययस्य कुः' इति कुत्वम्---नकारस्य ङकारः ।
अमुया, अमुयोरिति । अत्र यकारस्योत्वप्रसङ्गः ।।
एत ईद्वहुवचने ।। 8.2.81 ।।
अर्थनिर्दशोऽयमिति । व्याप्तेर्न्यायात् । किं पुनः कारणमेवं व्याख्यायते ? इत्यत आह---पारिभाषिके इति । तदा हि `तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परिभाषोपस्थानाद्वहुवचने परत एकारस्येत्त्वेन भवितव्यम्, न चात्र बहुवचनं परम् ।।
वाक्यस्य टेः प्लुत उदात्तः ।। 8.2.82 ।।
अधिकारोऽधिकारान्तरनिवर्त्तक इति वाक्याधिकारेण पदाधिकारस्य निवृत्तिः प्राप्नोति, ततश्च भवन्तौ---इत्यादावपदान्तस्यापि नकारस्य `नश्छव्यप्रशान्' इति रुत्वं प्रसज्येत ? इत्याशङ्क्याह---पदाधिकारोऽनुवर्तत एवेति । न हि वाक्यग्रहणेन पदाधिकारः शक्यो निवर्त्तयितुम्; यो हि वाक्यस्य टिः, स सन्नियोगतः पदस्यापि भवत्येव ।
अथ वाक्यग्रहणं किमर्थम्, यावता वाक्यस्थस्यैव पदस्य प्रयोगः, न केवलस्य ? तत्राह---वाक्यग्रहणमिति । `पदस्य टेः' इत्युच्यमाने वाक्ये यावन्ति पदानि तेषां सर्वषां टेः प्लुतः प्राप्नोति, इष्यते च वाक्यपदयोर्यष्टिस्तस्यैव यथा स्यादिति ।
टिग्रहणमित्यादि । असति टिग्रहणे प्लुतश्रुत्याऽच्परिभाषोपस्थानादचा तदन्तविधौ सति अजन्तस्यैव वाक्यस्यालोऽन्त्यस्य प्लुतः स्यात्; यथा नपुंसकह्रस्वत्वम्---ग्रामणि कुलमित्यादौ भवति, न पुनः सुवागित्यादौ; तद्वत् । टिग्रहणे तु सति तदुपादानसामर्थ्याट्टिना अज्विशेष्यते, न त्वचा टिरिति हलन्तस्यापि प्लुतः सिध्यति ।।
प्रत्यभिवादेऽशूद्रे ।। 8.2.83 ।।
प्रत्यभावादो नामेत्यादि । गुरुरित्युपलक्षणम् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवादमर्हति, अभिवाद्यमानः=आशिषं वाच्यमानो गुरुराशिषं प्रयुङ्‌क्त इति यत् स प्रत्यभइवादः, न प्रत्युक्तिमात्रम्; तत्रैव लोके प्रसिद्धत्वात् । तद्यथा---`अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः' इति । तत्रेति । आशीर्वादविषये । कीदृशे ? अशूद्रविषये । अशूद्रो विषयो यस्य स तथोक्तः, अभिवादने सति प्रत्यभिवाद इति । तं तावदुदाहरति---अभिवादय इति । नमस्कारपूर्वमाशिषं वाचयामीत्यर्थः । एवमभिवादितो गुरुः प्रत्यभिवदति---आयुष्मानिति । आयुष्मत्त्वस्य विधेयत्वात्सम्बोधनविभक्त्यभावः । एधीति । अस्तेर्लोटि सिपो हिः । भवेत्यर्थः ।
`आयुष्मान्भव सौम्येति विप्रो वाच्योऽभिवादने' इति मानवे भवेत्यर्थग्रहणम्, तेन पर्यायैरपि प्रत्यभावादो भवति । ननु च तत्र `अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः' इत्युक्तम्, सकस्मादिह न विधीयते ? उच्यते; यदर्थाभिधान उपयुज्यते तदेव व्याकरणे वक्तव्यम्; अकारस्तु केवलमदृष्टार्थः प्रयुज्यते, न त्वस्य कश्चिदर्थोऽस्ति ।
अन्ये तु मानवमन्यथा व्याचक्षते---अस्याभिवादयितुर्नाम्नोऽन्ते=अवसाने योऽकारः स प्लुतो वाच्यः, अकार इत्युपलक्षणम्, पूर्वाक्षरश्च प्लुतो वाच्यः, हलन्तविषयमेतत्, अक्षर इत्यचमाह, हलन्तेष्वन्त्यात्पूर्वोऽच प्लुतो वाच्य इति, उभाभ्यामिति ताभ्यां टेः प्लुत इत्युक्तं भवति ।
वयं तु ब्रूमः---पृथगेवाकारः प्रयोक्तव्य इति, कुतः ? अक्षरार्थस्त्वयम् । किञ्च भरतशास्त्रे प्रसङ्गेन प्रत्यभिवादप्रकारे वर्ण्यमाने पृथगकारप्रयोगो दर्शितः । तस्मादयमत्र प्रत्यभिवादनप्रयोगः---आयुष्मान् भव सौम्य देवदत्त 3 अ, अग्निचि3त् अ इति । एजन्तेषु तु `एचोऽप्रगृह्यस्य' इत्यस्मिन्विधौ सत्यकारे परतः, `तयोर्य्वावचि संहितायाम्' इति यणपि भवति पिनाकपाण3य, हर3य, शम्भ3व, विष्ण3व---इति । प्रत्यभिवादे शर्मवर्मशब्दयोः प्रयोगं नेच्छन्ति । `शर्मान्तं ब्राह्मणस्य स्याद्वर्मान्तं क्षत्रियस्य तु'---इत्यनेन नाम्न्यनन्तर्भूतयोरेव तयोः प्रयोग उक्तः, न तु नाम्न्यन्तर्भावः ।
तुषजक इति । कुत्सिते कः, `शूद्रस्य तु जुगुप्सितम्' इति वचनात् एवंविधं शूद्रनाम।
स्त्रियामपीति । अस्त्रीशूद्रयोरिति वक्तव्यमित्यर्थः । केचिदाहुः---न स्त्र्यभिवादयते, पादोपसंग्रहणाद्येव तु करोतीति; अन्ये त्वाहु---अभिवादयते, न तु स्वं नाम गोत्रं वा गृह्णातीति; द्वयोरपि पक्षयोः स्त्रीप्रतिषेधो न विधेयः । ये तु स्त्रीणामपि नामगोत्राभ्यामभिवाद---प्रत्यभिवादाविच्छन्ति तन्मतेनायं प्रतिषेधः ।
असूयतीत्यसूयकः=अविनीतः । तस्मिंस्त्वित्यादिनाऽसूयके प्रतिषेधं प्रत्याचष्टे । यावदसावसूयकत्वेन ज्ञातो न भवति तावत्प्लुतं करोत्येव, यदा त्वसूयकोऽयं मामुपहसितुकाम इति जानाति, तदा नैवाऽऽशीर्वादरूपं प्रत्यभिवादं प्रयुङ्‌क्ते, प्रत्युत शापमेव ददातीति भाष्ये दर्शितमित्याह---तथा ह्युक्तमिति । गुरुणा स्थालिशब्दं संज्ञां मत्वा प्लुते प्रयुक्ते, असूयक आह---नैषा मम संज्ञेति, किन्तु दण्डिन्यायो मया विवक्षितः---स्थालमस्यास्तीति स्थालीति; तदपि तत्त्वं मन्वानो गुरुः पुनरपि प्लुतरहितं प्रत्यभिवादनं कृतवान्---आयुष्मानेधि स्थालिन्निति । पुनरसूयक आह---न दण्डिन्यायो मया विवक्षितः संज्ञैवैषा ममेति; ततोऽसूयकत्वं निर्ज्ञाय कुपितः सन् गुरुराह---असूयकस्त्वमित्यादि । भिद्यस्वेति । कर्मकर्त्तरि यक् । स्थालिन्निति पाठः, न तु स्थालीवदिति ।
अभिवादवाक्ये यत् सङ्कीर्तितमिति । येन वाक्येनाभिवाद्यते तदभिवादनवाक्यम् । नाम = संज्ञा । गोत्रम् = अपत्यप्रत्ययान्तः शब्दः । वाक्यस्य टेः प्लुतविधानादेवमुक्तम् । तत्र प्लुतिरिष्यत इति । इष्टिरेवेयमिति केचित् । अन्ये त्वाहुः---अभिवादनं तावन्नामगोत्राभ्यामिति । समाचारप्राप्तम् । प्लुतोऽप्ययं प्रधाने कार्यसम्प्रत्ययात्तस्यैव वाक्यान्ते वर्त्तमानस्य भवति, पदस्य च प्राधान्यमर्थद्वारकम् । प्रधानमर्थोऽभिवादयिता, तदनुग्रहार्थत्वात्प्रत्यभिवादस्य । कुशलित्वादिकं तु तस्यैव संस्कारकम् । एवम्---एधीत्याख्यातवाच्या साध्यरूपतया प्रधानभूतापि क्रिया संस्कारकत्वेन विवक्षितत्वादप्रधानमेव । तस्मात् प्रधानभूत्सायभिवादयितुर्यदुपस्थापकं पदं तस्य प्लुतः । तच्च नामगोत्रं चेति ।
भोराजन्यविशां वेति । भो इति स्वरूपग्रहणम्, इतरयोस्तु तन्नाम्ना ग्रहणम् । तत्र भोः शब्दस्यासंज्ञागोत्रशब्दत्वादप्राप्ते विभाषा, इतरत्र प्राप्ते; संज्ञाशब्दत्वात् ।।
दूराद्धूते च ।। 8.2.84 ।।
दूरादिति `दूरान्तिकार्थेभ्यो द्वितीया च' इति पञ्चमी, हूतम्=ह्वानम्, भावे निष्ठा । दूरादित्युच्यते, दूरं चानवस्थितम्, तदेव हि कञ्चित्प्रत्यतिदूरं कञ्चित्प्रत्यन्तिकं भवति । एवं हि कश्चित्कञ्चिदाह--य एष पार्श्वतः करकस्तमानयेति; स आह---उत्थाय गृहाण, दूरे न शक्नोमि गन्तुमिति; अपर आह---दूरं मथुरायाः पाटलिपुत्रमिति, स आह---न दूरमन्तिकमिति, तदेवं दूरस्यानवस्थितत्वान्न ज्ञायते---कस्यामवस्थायां प्लुत्या भवितव्यमिति ? अत आह---दूरमित्यादि । ह्वानम् = हूतम्, तदपेक्षया यद्दूरं तदिहाश्रीयते; दूराद्धूतमित्यन्वयात् । इतिकारणो हेतौ, न तु देशमपेक्ष्य देशान्तरं दूरं भवति । किमिदं हूतापेक्षं दूरम् ? इत्यत आह---यत्रेति । यत्र हूते, प्राकृतात्स्वभावसिद्धत् । एवंविधे हूते देशद्वारकहूतापेक्षमपि दूरत्वमस्तीति भावः ।
हूतग्रहणं चेति । येन पर आगमने नियुज्यते तद्धूतम्, तच्च नान्तरेण सम्बोधनं सम्बवति, सम्बोधितो हि पुरुष आगमने पानादौ वा नियुज्यते, अतो नान्तरीयकत्वाद्धूतेन सम्बोधनमात्रं लक्ष्यते । उपलक्षणे प्रयोजनमाह---तेनेति ।
इहायं प्लुतो दूरात्सम्बोधने विधीयते, एकश्रुतिरपि तत्रैव---`एकश्रुति दूरात्सम्बुद्धौ' इति, एकस्मिंश्च विषये प्राप्तानां बाधविकल्पसमुच्चयानामन्यतमेन भवितव्यम्, तदिह को भवति ? इत्याह---अस्याश्चेति । बाधस्तावद्विषयभेदे सति भवति, यथा काणोः; तत्र हि कस्य विशेषो विषयः, अणस्तु धातुसामान्यम्; इह तु नैवं विषयभेदोऽस्ति । विकल्पोऽपि सहप्राप्तयोर्भवति, यथा तव्यदादीनाम् । इह चैकश्रुतौ कर्तव्यायां प्लुतस्यासिद्धत्वात्सहप्रप्तिर्नास्ति, तस्मात्पारिशेष्यात्समावेश एव भवति । एकस्मिन्वाक्ये द्वयोरपि युगपत्प्रवृत्तिरित्येतावता चात्र समावेशवाचोयुक्तिः, तत्त्वतस्तु वाक्यस्य टेः प्लुत उदाहृतः, परिशिष्टस्यैकश्रुत्यमिति बाध एव ।।
हैहेप्रयोगे हैहयोः ।। 8.2.85 ।।
पूर्वेण हूयमानार्थस्य वाक्यान्तस्य पदस्य टेः प्लुतविधानादतदर्थयोर्हैहयोर्न प्राप्नोतीति वचनम् । हैहयोरेवेति । एवकारः पौनर्वचनिकः---हैहयोः प्रयोगे तयोरेव हैहयोरिति । अन्ये तु---हैहयोरेव भवति, न न हूयमानार्थस्य वाक्यस्य टेरिति वर्णयन्ति । तदेतत्कथं लभ्यते ? अपकृष्य विधानात् । हूयमानार्थस्य प्लुते प्राप्ते अतदर्थयोरेव तयोविधीयमानः प्लुतस्तं बाधते;सत्यपि सम्भवे बाधनं भवतीति न्यायात् । न चास्यासिद्धत्वाम्; अपवादो वचनप्रामाण्यादित्युक्तत्वात् । है3 इति । `प्लुतावैच इदुतौ' इति वचनादिकारभागः प्लुतः । हे3 इति । `एचोऽप्रगृह्यस्य' इत्यनेन प्लुतविकारो न भवति; दूराद्धूतत्वात् ।
हैहयोरिति किमर्थम् ? हैहयोः प्लुतो यथा स्यात्, अन्यथाऽऽरम्भसामर्थ्यादनन्त्यस्य हूयमानवाचिन एव स्यात्---देवदत्त है इत्यादौ । एवं तर्हि हैहयोरित्येवास्तु, किं `हैहेप्रयोगे' इत्यनेन, न ह्यप्रयुज्यमानयोः प्लुतविधिः सम्भवति ? उच्यते; `प्रयोगे' इति तावद्वक्तव्यम्, प्रयोगमात्र यथा स्यात् । किं सिद्धं भवति ? अनर्थकयोरपि ग्रहणं सिद्धं भवति । क्व च तावनर्थकौ ? यत्र सम्बोधनवचनं प्राक् प्रयुज्यते, तत्र तेनैवाभिमुख्यस्य द्योतितत्वान्न हैहयोर्द्योत्यमस्तीत्यानर्थक्यम् । यत्र तु हैहयोः प्राक् प्रयोगः, तत्रानयोराभिमुख्यं द्योत्यमित्यर्थवत्त्वम् । एवमपि प्रयोगे हैहयोरित्येवास्तु, हैहयोः प्लुतो भवति प्रयोगे, कस्य ? हैहयोरेवेति श्रुतत्वात्, तस्मात्पुनर्हैहेग्रहणस्य प्रयोजनं वक्तव्यम् ? तदाह---पुनरिति ।
यदि तु प्रयोगग्रहणादेवानर्थकयोरिवानन्त्ययोरपि भविष्यतीत्युच्यते; शक्यं पुनर्हैहेग्रहणमकर्तुम् ।।
गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ।। 8.2.86 ।।
अनन्त्यस्यापि टेरिति । अनेनापिशब्देन प्रकृतष्टिः समुच्चीयत इति दर्शयति । यदि तु गुरोः सन्निधानात् स एवान्त्यः समुच्चीयेत---गुरोरनन्त्यस्यान्त्यस्यापीति, ततो तेन यत्रान्त्यो गुरुस्तत्रैव पर्यायः स्यात् । लघौ त्वन्त्ये पूर्वेण तस्य स्याद्, अनेन चानन्त्यस्य गुरोरिति द्वयोः प्लुतयोर्युगपच्छ्रवणं प्राप्नोति । `अनुदात्तं पदमेकवर्जम्' इति वचनान्नास्ति यौगपद्यसम्भवः । असिद्धः प्लुतः, तस्यासिद्धत्वान्नियमो न न प्राप्नोति ? नैतदस्ति; `कार्यकालं संज्ञापरिभाषम्', यत्र कार्य तत्रोपतिष्ठते---वाक्यस्यटेः प्लुत उदात्तः, गुरोरनृतः प्लुत उदात्तः; उपस्थितमिदं भवति---`अनुदात्तं पदमेकवर्जम्' इति, तस्मान्नास्ति यौगपद्यसम्भवः । यस्तह्येनुदात्तः प्लुतः, तस्यास्य च समावेशः प्राप्नोति अभिपूजते दूराद्धते प्लुतो भवन्ननुदात्तं प्रश्नान्ताभिपूजितयोरिति टेरनुदात्तो भवति---शोभनः खल्वसि देवदत्त इति, तत्र तेन गुरोरुदात्तः प्लुतः स्यात्, तस्माट्टिरेव समुच्चेतव्यः । तत्र ह्येकैकस्येति वचनात् यथाऽनन्त्यस्य पर्योयोऽयं भवति, तथाऽन्त्यस्य टेरपीति नास्ति यौगपद्यप्रसङ्गः ।
एकैकग्रहणं पर्यायार्थमिति । अन्यथाऽनन्तरोक्तेन प्रकारेणोदात्तानुदात्तयोः प्लुतयोः समावेशः स्यात् ।
क्वचित्पठ्यते---प्रत्यभिवाद इत्येवमादिना यः प्लुतो विहितस्तस्यैवायं स्थानिविशेष उच्यत इति । तस्यार्थः---नेदं स्वतन्त्रं प्लुतविधानम्, किं तर्हि ? प्रत्यभिवादे दूराद्‌धूते च यः प्लुतो विहितः स गुरोरनन्त्यस्यापि भवति, अन्त्यस्यापि टेः पर्यायेणेति । तेन प्रत्यभिवाद्यमानार्थस्य हूयमानार्थस्य च शब्दस्येदं प्लुतविधानम्, न यत्र तत्र स्थितस्य गुरोरिति द्रष्टव्यम् ।
प्राचांग्रहणं विकल्पार्थमिति । तेन पक्षे न कस्यचिदपि प्लुतो भवति । तदनेनेत्यादि । तदिति वाक्योपन्यासे । `अग्नीत्प्रेषणे परस्य च' इत्यत्र भाष्यकारेण यदेतदुच्यते---`सर्व एव प्लुतः' इत्यादि, तदुपपन्नं भवतीत्यर्थः । ननु यत्र प्राचांग्रहणमस्ति स प्लुतो विकल्पताम्, सर्वस्य तु कथं विकल्पः ? एवं तर्हि प्राचांग्रहणं सर्वत्रैव प्लुतविधौ सम्बन्धनीयम्, शास्त्रत्यगः साहसम् ! तेन शास्त्रमत्यजताप्यभियुक्तस्मरणात्सर्व एव प्लुतो विभाषा विधेय इत्यर्थः ।।
ओमभ्यादाने ।। 8.2.87 ।।
प्लुतश्रुत्याऽच्परिभाषोपस्थानादच एव प्लुतः, मकारस्त्वर्द्धमात्र इति समुदायोऽर्धचतुर्थमात्रः सम्पद्यते ।।
ये यज्ञकर्मणि ।। 8.2.88 ।।
ये यजामह इत्यत्रैवायं प्लुत इष्यते इति । पित्र्यायां ये स्वधेत्यत्रापि भवति; एतत्स्थानापन्नत्वात्तस्य ।।
प्रणवष्टेः ।। 8.2.89 ।।
क एष प्रणवो नामेति । इह शास्त्रेऽपरिभाषितत्वात्प्रश्नः । पादस्येति । शास्त्रान्तरप्रसिद्ध आश्रीयते, देवतावत्, अक्षरमच्, अन्त्यमचं गृहीत्वेत्यर्थः । तदाद्यक्षरशेषस्येति । अक्षरं च शेषश्च हल् अक्षरशेषम्, तदन्त्यमक्षरमादिर्यस्य तत्तदादि, तदादि च तदक्षरशेषं त तदाद्यक्षरशेषं तस्य टेरिति । त्रिमात्रमिति । केचिन्मकारेण सह त्रिमात्रमिच्छन्ति, अन्ये भागमेव । तत्र ओंकारविधिः सामिधेन्यादिषु प्रसिद्धः--स्वरादिमृगन्तमोकारं त्रिमात्रं मकारान्तं कृत्वोत्तरस्य अर्धे अवस्येदिति; ओंकाराविधिस्तु निनर्दे स्वरादिरन्त ओङ्कारश्चतुर्न्निनर्द इति । आथर्वणिकास्तु सर्वत्र चानयोविकल्पमिच्छन्ति, तेषामेव चेदं सूत्रं पठितम् । जिन्वतो3मिति । `जिविः प्रीणानार्थः', लट्, तिप् ।
टेरिति वर्त्तमान इत्यादि । असति टिग्रहणे `अलोऽन्त्यस्य' इति वचनाट्टेर्योऽन्त्याल् तस्योकारः स्यात् । व्यभिचाराभावाद्धि प्रणवः प्लुतत्वेन विशेष्यते । संज्ञया विधाने चाच्परिभाषा प्रवर्त्तते, न वस्तुतस्त्रिमात्रविधाने । तस्माद्धल एव प्राप्नोति । अथाच्परिभाषोपस्थानार्थमेव प्लुतत्वेन प्रणवो विशेष्येत ? तथापि टेर्योऽच् तस्यैव स्यात्, न तु सर्वस्य टेः । ओंकारस्त्वझल्समुदायत्वात् प्लुतो न भवतीति सर्वस्य टेः सिध्यति; `वाक्यस्य टेः' इत्यधिकारात् ? सत्यम्; टिस्था निकस्यैव त्वोङ्कारस्य प्रणवसंज्ञत्वात् कथमन्त्यस्याचो वा प्रसङ्ग इति चिन्त्यम् ।।
याज्यान्तः ।। 8.2.90 ।।
याज्याकाण्ड इति । याज्यानुवाक्याकाण्‍डमिति समाख्याने प्रकरणे । तेषामिति । मन्त्राणाम् । तासामिति पाठे तासां याज्यानामन्तः । प्लवत इति । त्रिमात्रतया वर्धत इत्यर्थः । अग्नये3 इति । चतुर्थ्येकवचनान्तस्याग्नयेशब्दस्य `एचोऽप्रगृह्यस्य' इति प्लुतविकारः । इहेदमन्तग्रहणं टेरित्यस्य निवर्त्तकं वा स्याद्, विशेषणं वा; पूर्वस्मिन् कल्पे प्लुतश्रुत्याच्परिभाषोपस्थानादचान्ते विशेषेतेऽजन्ताया एव याज्यायाः प्लुतः स्यात् । पक्षान्तरे त्वन्तग्रहणमनर्थकम्; टेरन्तत्वाव्यभिचारादित्यभिप्रायेणाह---अन्तग्रहणं किमिति । इतरोऽपि विदिताभिप्राय आह---याज्या नामेति ।।
ब्रूहिप्रेष्यश्रौषड्‌वौषडावहानामादेः ।। 8.2.91 ।।
पित्र्यायामनुस्वधेति सम्प्रेष्येत्यत्रापि अनुस्व3धेति प्लुतो भवति; ब्रूहिस्थानापन्नत्वात्स्वधाशब्दस्य । तथा अस्तु स्वधेति प्रत्याश्रवणमित्यत्रापि भवति; अस्तु स्वधेति श्रौषट्‌स्थानापन्नत्वात् । तथा च वषडित्येके समामनन्ति, वौषडित्येके, वाषडित्येके, वौक्षडित्येके, वाक्षडित्यके, वक्षाडित्येके इति षड्विधस्यापि वषट्‌कारस्य प्लुतो भवति; वषटकारोपलक्षणत्वाद्वौषट्‌शब्दस्य ।
आवह देवान् यजमानायेत्येवमादिष्विति । आदिशब्देन--आवह जातवेदः, सुयजा यजेत्यादेग्रेहणम् ।।
अग्नीत्प्रेषणे परस्य च ।। 8.2.92 ।।
अत्रैवायं प्लुत इष्यत इति । ओस्वधेत्याश्रवणमित्यत्र तु तत्स्थानापन्नात्वाद्भवति । आ3स्वधेति । तथा चाश्वलायनः--`नित्याः प्लुतयः' इति । उद्धर3 उद्धरेति । चापले द्विर्वचनम् ।।
विभाषा पृष्टप्रतिवचने हेः ।। 8.2.93 ।।
प्रतिवचनशब्दोऽयं विरुद्धेऽपि शब्दे वर्त्तते, प्रतिशब्दस्य विरोधे प्रसिद्धेः---प्रतिमल्लः, प्रतिकुञ्जर इति; वचनं वचनं प्रतीति प्रतिवचनमिति वीप्सायामव्ययीभावेऽप्यस्ति; समाधानेऽप्यस्ति---अनेनाभिहितस्य मया प्रतिवचनं विहितमिति; पृष्टप्रतिवचनेऽपि वर्तते; तत्रासति पृष्टग्रहणे विवक्षितं प्रतिवचनं न गम्येत । उदाहणे हिशब्दोऽवधारणे ।।
निगृह्यानुयोगे च ।। 8.2.94 ।।
निगृह्येति । ल्यबन्तमेतत् । स्वमतादिति । स्वपक्षात् । प्रच्यावनम्=अपनयः । तस्यैवेति । यस्मादसौ प्रच्यावितस्तस्यैव स्वपक्षस्याविष्करणम्=शब्देन प्रकाशनम्--एवं किल त्व निरुपपत्तिकमात्थेति । सूत्रार्थमुदाहरणे दर्शयन्नेवोदाहरति---अनित्यः शब्द इति केनचित्प्रतिज्ञातमिति । तमेवं वादिनमुपालिप्सुरुपालब्धुकामो निगृह्य स्वमतात्प्रच्याव्य साभ्यसूयं सामर्षमनुयुङ्‌क्ते आविष्कृतस्वमतकरोति । क्वचित्त्वयं ग्रन्थो न पठ्यते, अन्ते तु पठ्यते । अद्यामावास्या इत्येवंवादी प्रच्याव्य स्वमतादेवमनुयुज्यत इति ।।
आम्रेडितं भर्त्सने ।। 8.2.95 ।।
उदाहरणेषु `वाक्यादेरामन्त्रितस्य' इत्यादिना द्विर्वचनम् । `वाक्यस्य टेः' इत्यधिकारेऽप्यत्रानन्त्यस्य भवति; वाक्यादेरेव पदस्य भर्त्सने द्विर्वचनविधानात् ।
तदर्थमिति । पर्यायेण पूर्वोत्तरयोर्भागयोः प्लुतो यथा स्यादित्येवमर्थम् । द्विरुक्तोपलक्षणार्थमिति । द्विरुक्तसमुदाये भागद्वयोपलक्षणार्थमित्यर्थः । एतच्चाम्रेडितमात्रस्य भर्त्सने वृत्त्यसम्भवाल्लभ्यते, पर्यायस्य तु `एकैकस्य' इत्यनुवृत्तेर्लाभः ।।
अङ्गयुक्तं तिङाकाङ्‌क्षम् ।। 8.2.96 ।।
आकाङ्‌क्षतीत्याकाङ्‌क्षम्, पचाद्यच् । इदानीं ज्ञास्यसि जाल्मेत्येष द्वयोरप्युदाहरणयोः शेषः । कूजनफलं व्याहारफलं वास्मिन्नेव क्षणे ज्ञास्यसीत्यर्थः । अङ्गशब्दोऽमर्षे, प्रत्युदाहरणे त्वनुनये ।
अङ्ग देवदत्तेत्येतावदेकं वाक्यम् । एतच्व वाक्यं मिथ्या वदसीत्येतदपेक्षते ।।
विचार्यमाणानाम् ।। 8.2.97 ।।
कोटिद्वयस्य विज्ञानं विचार इति कथ्यते ।
विचार्यमाणस्तज्ज्ञानविषयीभूत उच्यते ।।
 इह तु विचार्यमाणार्थविषयत्वाद्वाक्यानि विचार्यमाणानि । गृह3इ इति । गृहेशब्दस्य पूर्ववत् प्लुतविकारः । अनुप्रहरेदिति । अनुप्रहारः = शायनम्, व्यत्ययेन कर्मणि कर्तृप्रत्ययः, शाययेतेत्यर्थः । अथ वानुप्रहरेदित्यत्र यूपं यजमान इत्यस्याध्याहारः, किं यूपं यजमानः शाययेदिति विचारार्थः ।।
पूर्वं तु भाषायाम् ।। 8.2.98 ।।
पूर्वेणैव सिद्धे नियमार्थमेतत्, तुशब्दस्त्विष्टतोऽवधारणार्थः, यर्थेवं विज्ञायेत--पूर्वमेव भाषायामिति, मैवं विज्ञायि---पूर्वं भाषायामेवेति । पूर्वर्त्वं च प्रयोगापेक्षम् । उदाहरणे नुशब्दो वितर्के । लोष्टः = मृत्पिण्डः ।।
प्रतिश्रवणे च ।। 8.2.99 ।।
प्रतिश्रवणमभ्युपगम इति । अङ्गीकारः । प्रतिज्ञानमिति । प्राथितस्य देयत्वेन संवादः । अत्रोभयत्रापि गतिसमासः, अर्थद्वयेऽपि प्रतिपूर्वः श्रृणोतिः प्रसिद्धः । श्रवणाभिमुख्यं चेति । अत्र `लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । उदाहरणानि तु व्युत्क्रमेण दत्तानि । किमात्थ3 इति । किं ब्रूषेइत्येतत्पृच्छति । अत्र च श्रवणाभिमुख्यं गम्यते । हन्त ते ददामि3 इति । अत्र प्रार्थितस्य संवादो गम्यते । देवदत्त भोरित्यामन्त्रितम् । स यदर्थमामन्त्रितस्तच्छ्रवणार्थं किमात्थ इति । गां मे देहि भोः, नित्यः शब्दो भवितुमर्हति, तस्मिन् तृतीये तूदाहरणे स्वाभ्युपगमो गम्यते ।।
अनुदात्तं प्रश्नान्ताभिपूजितयोः ।। 8.2.100 ।।
प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः । क्वचित्पठ्यते---नानेन प्लुतो विधीयते, किन्तु दूराद्धतादिषु विहितस्य `अनन्त्यस्यापि प्रश्नाख्यानयोः' इति स्वरितप्लुतस्यानुदात्तत्वं गुणमात्रं विधीयत इति । तत्रैषा वचनव्यक्तिः---प्रश्नान्ते अभिपूजिते च यः प्लुतः सोऽनुदात्तो भवतीति । तत्राभिपूजिते `दूराद्धूते च' इति प्लुत इति । इतरत्र तु `अनन्त्यस्यापि प्रश्नाख्यानयोः' इति । अगमः पूर्वान् ग्रामानित्येषां स्वरितः प्लुतः । अग्निभूते, पटो---इत्यन्यतरेण वाक्यपरिसमाप्तिर्भवति । तत्र यदा येन वाक्यपरिसमाप्तिस्तदा तस्यानेनानुदात्तः प्लुतः, स च पूर्वभागस्य; उत्तरभागस्य तूदात्ताविदुतौ भवतः ।।
चिदिति चोपमार्थे प्रयुज्यमाने ।। 8.2.101 ।।
इतिकरणः किमर्थः ? अक्रियमाणे तस्मिन् उपमानार्थे कस्मिंश्चिच्छब्दे प्रयुज्यमाने चिच्छब्दः प्लुत इति विज्ञायेत । इतिकरणे तु सति `प्रयुज्यमाने' इत्येतच्चिच्छब्दस्य विशेषणम्, प्लुतस्तु `वाक्यस्य टेः' इत्यधिकारात्तस्यैव भवति ।
कथञ्चिदिति । अत्र कष्टे चिच्छब्दः । अग्निर्माणवको भायादिति । अग्निरिव माणवको दीप्येतेत्यर्थः । अत्रोपमार्थस्य गम्यमानत्वादस्ति चिच्छिब्दस्य प्रतीतिः, प्रयोगस्तु नास्ति । यद्यप्यन्येपामप्युपमानार्थानामिवादीनामस्ति प्रतीतिः, तथापि चिच्छब्दस्यापि तावदस्तीति स्यादेव प्लुतः । चकारोऽस्य प्लुतस्य समुच्चयार्थः । समुच्चयश्च भेदाधिष्ठान इति प्लुतान्तरमेवेदमाख्यातं भवति; अन्यथा पूर्वसूत्रवत् पूर्वेत्वेव प्लुतनिमित्तेष्वनुदात्तत्वगुणमात्रं विधीयत इति विज्ञायेत । एतदेव च ज्ञापकम्---पूर्वसूत्रे गुणमात्रं विधीयत इति ।
उपरिस्विदासीदिति च ।। 8.2.102 ।।
अत्रापि `विचार्यमाणानाम्' इति विहितस्य प्लुतस्य गुणमात्रं विधीयते ।।
स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु ।। 8.2.103 ।।
वावचनं कर्त्तव्यमिति । `सर्व एव प्लुतः' इति वचनमन्यदीयमिति वार्त्तिककारेण तावदिदं पठितं वृत्तिकारोऽपि तदेवापठत् ।।
क्षियशीः प्रैषेषु तिङाकाक्षम् ।। 8.2.104 ।।
क्षिया = आचाराभेदः, आचारोल्लङ्घनम् । इष्टाशंसनम्=आशीः । शब्देन व्यापारणम् = प्रैषः । क्वचिद् वृत्तावप्ययं ग्रन्थः पठ्यते ।
दीर्ग ते आयुरस्तु, अग्नीन्विहरेति । क्षियायां तु न प्रत्युदाहृतम्; नित्यसाकाङ्‌क्षत्वात् । न हि `स्वयं ह रथेन याति' इत्येतावत्युक्ते आचारभेदो गम्यते, किं तर्हि ? `उपाध्यायं पदातिं गमयति' इत्युक्ते ।
इह `उपरिस्विदासीदिति च' इत्यस्यानन्तरम् `अङ्गयुक्तं तिङाकाङ्‌क्षम्' इति वक्तव्यम्, ततः `क्षियाशीः प्रैषेषु स्वरितः' इति, ततः `आम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु' इति, एवं हि तिङाकाङ्‌क्षग्रहणं द्विर्न कर्त्तव्यं भवति ? तथा तु न कृतमित्येव ।।
अनन्त्यस्यापि प्रश्नाख्यानयोः ।। 8.2.105 ।।
सर्वेषामेव पदानामिति । नन्वन्त्यस्यानुदात्तम्, `प्रश्नान्ताभिपूजितयोः' इत्यनुदात्तप्लुतेन भवितव्यम्, तत्कथमेष स्वरितः प्लुतो भवति ? अत आह---अनन्त्यस्येति । यद्यप्यत्र विकल्पो न श्रुतः, तथाप्यनेनापिशब्देनान्त्यस्याप्ययं स्वरितः प्लुतो भवति, ततश्चानुदात्तप्लुतः पाक्षिकः सम्पद्यते इति भावः । ननु चापिशब्द आख्यानेऽन्त्यसमुच्चयेन चरितार्थः, ततः किम् ? प्रश्नेऽन्त्यस्यानुदात्तस्य नित्यं प्लुतः प्राप्नोति, तत्र विकल्पाभावान्नैष दोषः । प्रश्नेऽप्यपिशब्दस्य तात्पर्यं गम्यते; सहनिर्दिष्टत्वात्, ततश्च प्रश्नान्ते स्वरितानुदात्तयोः प्लुतयोर्विकल्पो भविष्यति ।।
प्लुतावैच इदुतौ ।। 8.2.106 ।।
लक्षणान्तरेणैवैचोः प्लुतप्रसङ्गे तदवयवयोरिदुतोः प्लुतार्थं वचनम् । वचनसामर्थ्याद्वर्णैकदेशयोरपीदुद्‌ग्रहणेन ग्रहणम् । ऐचः प्लुतप्रस,ङ्गे इति । केचिदाहुः--`सूत्रे प्लुताविति प्लुतिशब्दात्सप्तमी, ऐचः प्लुतौ प्राप्तायामिति तदनेन दर्शितम्' इति, तदयुक्तम्; `प्लुतौ' इति हि क्रियानिमित्तोऽयं व्यपदेशः---इति प्रथमाद्विवचनान्तत्वेन व्याख्यास्यमानत्वात् । तस्मात् प्रकरणप्राप्तये तदुक्तम् । उदाहरणे दूराद्धूते `गुरोरनृतः' इत्येव प्लुतः । यदि ऐकारौकारयोरवयवयोरिदुतोः प्लुतः क्रियते, समुदायस्य चतुर्मात्रताऽर्धचतुर्थमात्रता वा प्राप्नोति, कथम् ? इमावैचौ समाहारवर्णौ; मात्राऽवर्णस्य, मात्रेवर्णोवर्णयोः अपरे त्वाहुः---अर्धमात्राऽवर्णस्य, अध्यर्धमात्रेवर्णोवर्णयोरिति । तत्र पूर्वस्मिन्कल्पे इदुतोरनेन प्लुते कृते तयोस्तिस्रो मात्रआः, अवर्णस्य चैका मात्रेति समुदायश्चतुर्मात्रः प्राप्नोति, पक्षान्तरे त्वर्द्धचतुर्थमात्रः प्राप्नोत्यत आह---अत्रेति ।
ननु च त्रिमात्रस्याचः प्लुतसंज्ञा कृता, तत्कथं द्विमात्राविदुतावनेन शक्येते कर्तुम् ? अत आह---प्लुताविति हीति । अनेन प्लुताविति कर्त्तरि निष्ठा, न संज्ञाशब्द इति दर्शयति । वृद्धिं गच्छत इत्यर्थ इति । अनेकार्थत्वाद्धातूनां प्लवतिर्वधनेऽपि वर्त्तते । नन्वेवमपि न ज्ञायते---किमयती सा वृद्धिरिति ? अत आह---तावती चेति । एवं मन्यते---प्रकृतमपि प्लुतग्रहणमत्र सम्बध्यते, ततश्चायमर्थो भवति---ऐचोऽवयवाविदुतौ तथा वर्धेते यथा ऐचौ प्लुतौ सम्पद्यते इति । तस्मादनभिमताया वृद्धेरप्रसङ्ग इति ।
अर्धतृतीयमात्राविति । अर्धूरूपा तृतीयमात्रा योस्तौ तथोक्तौ । इष्यते चतुर्मात्रः प्लुत इति । चतुर्मात्रतया वृद्धिरिष्यत इत्यर्थः । अस्मिन्पक्षे चतुर्मात्रस्याच्त्वमपि भवति । तेन प्रत्यङ्‌ङैतिकायन इति ङमुड् भवति; ग्लौ त्रातेति `अनचि च' इति तकारद्विर्वचनं भवति ।।
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ ।। 8.2.107 ।।
विषयपरिगणनं कर्तव्यमिति । एवद्विवृणोति---प्रश्नान्तेति । यथाविषयमिति । प्रश्नान्तेऽनुदात्तः स्वरितो वा, शेष तूदात्तः । इदुतौ पुनरुदात्तावेवेति । अनुवृत्तस्य उदात्तग्रहणस्याभिसम्बन्धात् ।
विष्णुभूते इति । कथं पुनरिदं परिगणनस्योदाहरणम्, यावता सूत्रे तु `अदूराद्धूते' इत्युच्यते ? अत आह---परिगणनं चेति । अन्यार्थेऽवश्यकर्त्तव्ये परिगणने तेनैव सिद्धत्वाद् `अदूराद्धूते' इति न वक्तव्यम्, ततश्चेदमपि परिगणनस्य प्रत्युदाहरणमुपपद्यत इति । गौरिति । `असर्वनामस्थाने' इति प्रतिषेधात् सौ परतः पूर्वं पदं न भवति । अथ यदा सावपि पदं भवतीति पक्षः, तदा कस्मान्न भवति ? उक्तमेतद् `वाक्यपदयोरन्त्यस्य' इति, विसर्जनीयशब्दश्चात्र वाक्यान्तः । नन्वेवं पदान्तग्रहणमित्यत्र पदशब्देन वाक्यमुच्यतेऽन्वर्थग्रहणात्---पद्यते प्रतीयतेऽनेन हेतुनार्थ इति ? एतच्च `याज्यान्तः' इत्यतोऽन्तग्रहणानुवृत्त्या लभ्यते । अग्निभूता3इति । अग्निभूतिशब्दस्य सम्बुद्धौ रूपम् ।
आमन्त्रित इति । अप्राप्त एव प्लुते वचनम् ।। ।।
तयोर्य्वावचि संहितायाम् ।। 8.2.108 ।।
किमर्थमिदमुच्यते, न `इको यणचि' इत्येव सिद्धम् ? अत आह---इदुतोरसिद्धत्वादिति । ननु सिद्धः । प्लुतस्स्वरसन्धिषु, कथं ज्ञायते ? `प्लुतप्रगृह्या अचि' इति प्लुतस्य प्रकृतिभावविधानात् । यस्य हि विकारः प्राप्तः, तस्य प्रकृतिभावो विधेयः; प्लुतस्य चासिद्धत्वे न तस्य स्वरसन्ध्याख्यो विकारः प्राप्नोति । अस्तु प्लुतः सिद्धः, किमायातमिदुतोः ? उच्यते, प्लुतप्रकरणे यत्काय तत्स्वरसन्धिषु सिद्धमिति सामान्येन ज्ञापकमाश्रयिष्यते, ततश्चेदुतोरपि सिद्धत्वात्सिद्ध एव यणादेशः, अत आह---अथापि कथञ्चिदिति । सामान्यपेक्षं ज्ञापकमित्यस्यार्थस्य दुर्ज्ञातत्वात् कथञ्चिदित्याह; यदीदं नोच्येत, अग्ना3इ इन्द्रम्, पटा3उ उदकमित्यत्र षाष्ठिकं यणादेशं बाधित्वा सवर्णदीर्घत्वं स्यात्, अगना3याशेत्यादौ च `इकोऽसवर्णे शाकल्यस्य' इति प्रकृतिभावः स्यात्, अतस्तद्वाधनार्थमिदं वक्तव्यमेव । ननु च तन्निवृत्तये यत्नान्तरस्ति, किं पुनस्तत् ? `इको यणचि' इत्यत्रोक्तम्---`इकः प्लुतपूर्वस्य यणादेशो वक्तव्यम्', य इक्‌ प्लुतपूर्वः न च प्लुतविकारः, भो3यिन्द्रं गायतीति भोः शब्दस्य छान्दसः प्लुतः, ततः परस्येकारस्य निपातत्वात्प्रकृतिभावे प्राप्ते तं बाधित्वा यणादेशः, तदेवं तस्यावश्यकर्त्तव्यत्वात्तेनैव यण्‌ सिद्धः ? अत आह---अथापीति । यण्स्वरनिवृत्त्यर्थमिति । यणआश्रयः स्वरो यण्स्वरः, एतदेव विवृणोति---यणादेशस्येति ।
उक्तमेवार्थं श्लोकाभ्यां संगृह्णाति---किन्त्विति । इको यणादेशेन किं न सिद्धं रूपम्, यतोऽयमाचार्यः इदुतोर्य्वौ विदधाति, तौ चेदुतौ स्वरसन्धिषु सिद्धौ । ममेति सूत्रकारेणैकीभूतस्य वचनम् । एवं चोदिते परिहरति---शाकलदीर्घविधौ तु निवर्त्याविति । शाकल्यस्येदं शाकलम्, `कण्वादिभ्यो गोत्रे' इत्यण् । पुनश्चोदयति---इक्‌ च परेति । वार्त्तिककारोऽपि इकः प्लुतपूर्वस्य यणं विदधाति, स च प्रकृतिभावस्येव शाकलदीर्घविध्योरप्यपवादः, ततश्च तेनैव यणा एतयोरपीदुतोः शावलदीर्घौ न भविष्यतः, नार्थ एतेन ? परिहरति---यण्स्वरेति । यण्स्वरबाधनमेव हेतुः सूत्रारम्भस्येति ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यामष्टमाध्यायस्य द्वितीयश्चरणः


********************---------------------