काशिका (पदमञ्जरीव्याख्यासहिता)/अष्टमोऽध्यायः/प्रथमः पादः
काशिका (पदमञ्जरीव्याख्यासहिता) प्रथमः पादः [[लेखकः :|]] |
द्वितीयः पादः → |
काशिकावृत्तिः --- 6
सर्वस्य द्वे ।। 8.1.1 ।।
`नित्यवीप्सयोः' इत्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयम्, तदाह---सवस्येति द्वे इति चेति । `सर्वस्य' इत्युक्ते यत्प्रतीयते, `द्वे' इत् चेत्युक्ते यत्प्रतीयते, एतदर्थस्वरूपमित्यर्थः । यद्यपि `स्वं रूपम्' इति वचनादुभयोरपि स्वरूपग्रहणं युक्तम्, तथापि `नाम्रेडितस्यान्त्यस्य तु वा', `नित्यमाम्रेडिते डाचि' इति द्विरुक्तेऽच्छब्दस्य सत्तामङ्गीकृत्य कार्यविधानात्तदभावः । न हि द्वयोरन्यतरस्य वा स्वरूपग्रहणे द्विरुक्तेऽच्छब्दस्य सम्भवः, तथा `तस्य परमाम्रेडितम्' इति पूर्वपराभावादनुपपन्नं स्यात् । तस्मादर्थग्रहणम् । सर्वशब्दश्चायं द्रव्यप्रकारावयवकार्त्स्न्यवृत्तिः, द्रव्यकार्त्स्न्ये यथा---सर्वस्वं ददातीति, यच्च यावच्च स्वं तत्सर्वं ददातीति गम्यते । प्रकारकार्त्स्न्ये यथा---सर्वान्नीनो भिक्षुरिति, सर्वप्रकारकमन्नं भक्षयतीति गम्यते । अवयवकार्त्स्न्ये यथा---सर्वः पटो दग्ध इतिः, सर्वावयवः पटो दग्ध इति गम्यते । इह तु पर्यादीनां विशिष्टार्थानां शब्दानामुपादानाद् द्रव्यप्रकारकार्त्स्न्ययोरसम्भवः । यत्रापि किञ्चिन्नोपादीयते `नित्यवीप्सयोः' इति, तत्रापि विशेषानुपादानादेव सर्वस्य शब्दस्य सिद्धम् । तस्मादवयवकार्त्स्न्यवृत्तिर्गृह्यते । परेः सर्वस्य द्वे भवतः, न कश्चिदवयो द्विर्वचनेन वर्ज्यत इत्यर्थः ।
अत्र `आ दशभ्यः संख्याः संख्येये वर्तन्ते' इति `द्वे' इत्यस्य संख्येयापेक्षायां शब्दानुशासनप्रस्तावाच्छब्दरूपे संख्येये `षष्ठी स्थानेयोगा' इति वचनात्सर्वस्येति स्थानषष्ठी, सर्वस्य पर्यादेः स्थाने द्वे शब्दरूपे भवत इत्यर्थः, यथा---`अस्तेर्भूः' इति, तदा `स्थाने द्विर्वचनम्' इत्ययं पक्षो भवति । शब्दसम्बन्धिनि तूच्चारणे संख्येये स्थान्यादेशभावो न सम्भवति, निवृत्तिधर्मा हि स्थानी शब्दश्चेन्निवृत्त कस्योच्चारणं स्यात् । अतोऽध्याहृतोच्चारणशब्दापेक्षया `कर्तृकर्मणोः कृति' इति सर्वस्येति कर्मणि षष्ठी, सर्वस्य पर्यादेर्द्वे उच्चारणे भवतः, सर्वः पर्यादिद्विरुच्चारणीय इत्यर्थः, तदा `द्विः प्रयोगो द्विर्वचनम्' इत्येष पक्षो भवति ।
तत्र प्रथमं पक्षंम दर्शयति---सर्वस्य स्थाने द्वे भवत इति । के द्वे इति । विशेषानुपादानाद्ये केचन द्वे प्राप्नुत इति प्रश्नः । इतरोऽप्यन्तरतमपरिभाषामाश्रित्याह---शब्दतश्चेति । बिभीतकादिवाचिनामक्षादिशब्दानां शब्दत एवान्तर्यम्, तरुपादपादीनामर्यत एव, द्वयोस्तु पचतिशब्दयोरुभयथान्तर्यम्; तत्र ते एव यथा स्यातामित्युभयग्रहणम् । ते एवोभयथान्तरतमे दर्शयति---एकस्येति ।
ननु चारिमन्पक्ष राजाराजा, वाक्वाक्, लिट्लिट्, गोधुग्गोधुक्, शब्दप्राट्शब्दप्राट्, उपानदुपानत्, गौर्गौरित्यत्र नलोप-कुत्वा-ढत्व-घत्व-षत्व-धत्व-दीर्घत्वा(वृद्धी) नामसिद्धत्वादकृतेष्वेतेषु द्विर्वचने कृते पदस्य स्थाने समुदायस्यादिष्टत्वात्तस्यैव स्थानिवद्भावेन पदत्वं नावयवयोरिति पूर्वत्र भागे नलोपादीनि न स्युः, उत्तरत्र तु समुदायपदत्वेनापि सिद्ध्यति ? ननु च नलोपादीन्यतरङ्गाणि पदत्वमात्रा पेक्षत्वाद्, द्विर्वचनं तु बहिरङ्गं वीप्साद्यर्थापेक्षत्वात्, ततश्च तेषु कृतेषु द्विर्वचनं भविष्यति ? एवमपि कृतानामपि तेषां द्विर्वचने कर्तव्येऽसिद्धत्वान्नका रादियुक्तस्य द्विर्वचनमिति पुनः पूर्वपदे निमित्तभावान्न स्युरेव, यथा औजढदित्यत्र कृतानावपि ढत्वादीनामसिद्धत्वात् हत इत्येतस्य द्विर्वचनेऽभ्यासे हकारस्यैव श्रवणं भवति ? नैष दोषः; वक्ष्यत्येतत् `पूर्वत्रासिद्धीयमद्विर्वचने' इति, ततश्च परत्वादन्तरङ्गत्वाद्वा नलोपादिषु कृतेषु तद्युक्तस्यैव द्विर्वचनं भविष्यति ।
यानि तर्हि पदकार्याणि नाकृते द्विर्वचने प्राप्नुवन्ति, तानि न स्युः; तद्यथा किङ्किमिति---`वा पदान्तस्य' इति परसवर्णविकल्पः, अपचन्नपचन्निति ङमुट्, अग्नाअग्नाविति वलोपः, छायाच्छायेति तुग्विकल्पः, वृक्षत्वक्षानिति `पदन्तस्य' इति णत्वप्रतिषेधः, अजेऽजे इति, `एङः पदान्तादति' इति पूर्वरूपत्वम् । किं चात्र `स्वरितो वानुदात्ते पदादौ' इत्येष विधिर्न स्यात्, उत्तरभागस्यापदत्वात्; तथाऽपदत्वात्तदाश्रयाणि कार्याणि प्राप्नुवन्ति, तद्यथा---अङ्गनाङ्गनेत्यतो गुणे पररूपत्वं स्यात्, पयः पय इति `सोऽपदादौ' इति सत्वप्रसङ्ग इत्येषा दिक् । अतो द्वयोरपि पृथक्पदत्वमेषितव्यम्; तदुच्यते---यदि प्रत्यस्तमितावयवभेद एक एवादशः स्याद्, `द्वे' इति द्विर्वचनमनुपपन्नं स्यात्; ततः `द्वे' इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते, तत्र स्थानिवद्भावेन समुदायस्यापि पदत्वं स्वतः, एवं चावयवयोरपीति समुदायस्यावयवयोश्च पदकार्याणि भविष्यन्ति । एवमपि विसंविसम्, मुसलंमुसलमिति `आदेशप्रत्यययोः' इति षत्वप्रसङ्गः ? नैष दोषः; नैवं विज्ञायते---आदेशस्य सकार इति, कथं तर्हि ? आदेशो यः सकार इति । अत्र च समुदायस्य समुदाय आदेशः, न सकारमात्रस्य सकारमात्रमिति न भविष्यति । इह तहि नृभिर्नृभिरिति समुदायस्य पदत्वाद्रेफनकारयोः समानपदस्थत्वाद्रषाभ्यामिति णत्वप्रसङ्गः ? एषोऽप्यदोषः; तत्र समानग्रहणं न कर्त्तव्यम्, `पदे' इत्येवास्तु, तत्रापदस्थयोर्निमित्तनिमित्तिनोरसम्भवादेकत्वविवक्षार्थमेव पदग्रहणमिति समानपदस्थत्वं सिध्यति, ततश्च समानग्रहणाद यत्र समानपदस्थत्वमेव, तत्र णत्वम् । इह तु स्थानिवद्भावादेकपदत्वम् । वस्तुतस्तु पदद्वयात्मक आदेश इति पृथक्पदस्थमिति णत्वाभावः । तदेवं निर्दोषः `स्थाने द्विर्वचन' पक्षः ।
इदानीं द्वितीयं पक्षं दर्शयति---यदा त्विति । द्विरावर्त्तत इति । उच्चार्यमाणस्य शब्दस्य यो व्यापार उच्चारणं नाम सेहावृत्तिविवक्षिता । द्विरुच्चरतीत्यर्थः । द्वे आवृत्ती भवत इति । द्वे उच्चारणक्रिये भवत इत्यर्थः । न पुनर्मुख्ये एवावृत्ती द्वे भवतः, तथा सति त्रिर्वचनप्रसङ्गात् । नन्वस्मिन्पक्षे आं पचसिपचसि देवदत्त3---इत्यत्रावृत्तिभेदनिबन्धनया द्वित्वसंख्यया स्वाश्रयस्यैकत्वस्य निवर्त्तनादेकान्तरताया अभावाद् `आम एकान्तरम्' इति निघातप्रतिषेधो न स्याद्यथा किरिणेत्यादावावृत्तिभेदनिबन्धनेनापि द्व्यच्त्वेन स्वाश्रयस्यैकाच्त्वस्य निवर्तानात् `सावेकाचः' इति विभत्तयाद्युदात्तत्वं न भवति, तद्वत् । स्थाने द्विर्वचने तु समुदायस्यापि स्थानिवद्भावेन पदत्वात्सिध्यति, तथा पौनः पुन्यमिति पुनः पुनर्भवितरि वर्तमानात्पुनःपुनशब्दाद्भावे ष्यञि यते; पुनः पुनर्भवः पौनः पुनिक इति च कालाट्ठञ्', तत्र द्विः प्रयोगे पदस्य विज्ञायमाने समुदायस्व वीप्सालक्षणेनार्थेन सत्यप्यर्थवत्त्वेऽर्थवत्समुदायानां समासग्रहणं नियमार्थमित्यप्रातिपदिकत्वात्तद्वितो न रयातः सुबन्तादुत्पत्तिपक्षेऽपि समुदायस्यासुबन्तत्वान्न स्यादेव, पक्षान्तरे तु स्थानिवद्भावादुभयमप्यस्तीति सिध्यति । यद्यप्यस्य स्थानी सुबन्तः, तथापि सुब्लुकि कृते `न ङिसम्बुद्ध्योः' इति निषेधाज्ज्ञापकात् प्रत्ययलक्षणेन `अप्रत्ययः' इति निषेधाभावात्प्रातिपदिकत्वमव्यावृत्तमिति ? अत्रैवं भाप्ये परिहार उक्तः---पचसिपचसीत्यर्थरूपयोः समानत्वात्स एव पच्शब्दः, स एव च तिङ्, ततश्च यः पूर्वस्माद्विद्दितः स परस्मादपि यश्च परस्मात्स पूर्वस्मादपि, तदादिग्रहणं च पदसंज्ञायामनुवर्त्तते, तत्र समुदायस्यावयवयोश्च तुल्येऽपि तिङन्तत्वे समुदायस्यैव पदसंज्ञा भविष्यति द्विर्वचनवत्, तद्यथा---पपाचेत्यत्र समुदायस्यावयवानां च तुल्येऽप्येकाच्त्वे समुदायस्यैव । द्विर्वचनं भवति, नावयवानाम्; तत्कस्य हेतोः ? शास्त्रहानेः, अवयवद्विर्वचने ह्यवयवान्तरे विषये समुदायविषये च शास्त्रं हीनं स्यात्, तद्वत्पदसंज्ञापि समुदायस्यैव भविष्यतीत्येकान्तरता युज्यते । पौनः पुन्यमित्यादौ तद्धितोऽप्युक्तेन न्यायेन समुदायस्य सुबन्तत्वात् प्रातिपदिकत्वाच्च सिद्ध्यतीति ।
अत्रैवं चोदयन्ति---प्रागेव द्विर्वचनात् पचसीत्यस्यामवस्थायां प्रवृत्ता पदसंज्ञा किमति पुनः कृतेऽपि द्विर्वचने प्रवर्त्तते, प्रवर्त्तमाना वा किमिति समुदायस्यैव प्रवर्त्तते, न तु प्रत्येकमवयवयोः, न ह्येवंविधो द्विर्वचनन्यायस्य विषय इति संयोगसंज्ञायामुक्तम्; निर्ग्लेयादित्यादौ त्रिष्वपि द्वयोः संयोगसंज्ञाभ्युपगमात् । किञ्च यत्र समुदायस्यैव पदत्वम्---अपचन्नपचन्नित्यादौ, तत्रावयवेषु पदकार्याभावप्रसङ्ग इति ।
अपर आह---उच्चारणक्रियैवात्र परं भिद्यते, तद्भेदात्त्वौपचारिकः पदभेदः; तत्त्वतस्त्वेकमेव पदमित्येकान्तरता युज्यते, पौनः पुन्यमित्यौ च वीप्सालक्षणेनार्थेन समुदायस्याप्यर्थवत्त्वात् प्रातिपदिकत्वम् । न च समासग्रहणान्निवृत्तिः; अतुल्यजातीयत्वात् । येपां हि भिन्नार्थानां सतां परस्परसम्बन्धमात्रमधिकं तत्समुदायस्यैव तुल्यजातीयस्य तेन निवृत्तिः । न चात्रैतदुभ्यमस्ति । न हि द्वयोः पुनः शब्दयोरर्थो भिद्यते, नापि तत्समुदाये तत्सम्बन्धोऽधिकः किं तर्हि ? वीप्सारूपोऽन्य एवेति । यद्येवम्, किरिणेत्यादौ `सावेकाचस्तृतीयादिः' इति विभक्तिस्वरः स्यात् ? तत्रापि ह्युच्चारणक्रियैव भिद्यते, तत्त्वतस्त्वेक एवेकारः । किञ्च----नित्यानां विभूनां वर्णानां तदात्मकानां च पदानां स्वरूपेण व्यवधानमव्यवधानं च न सम्भवतीत्युपलब्धिगतमेव तदाश्रयितव्यम् । तत्र च यथा पदभेदेऽप्युपलब्धिभेदः, तथा तदभेदेऽपीति कथमेकान्तरता ! यदि च पौनः---पुन्यमित्यादावुक्तेन न्यायेन समुदायस्यापि प्रातिपदिकत्वम्, हन्तैवं ग्रामोग्रामो रमणीय इत्यादावप्येवमेव प्रातिपदिकत्वे सति सुब्लुक् स्यात्, तस्मात्स्थाने द्विर्वचनमेवात्र रोचयामहे । अत एव `स्थाने द्विर्वचनम्' पूर्वं वृत्तिकारेण दर्शितम्, पश्चात्सम्भवमात्रेण `द्विः प्रयोगोऽपि' दर्शितः ।
इह सर्वस्येति वचनमलोऽन्त्यनिवृत्त्यर्थं वा स्यात्, षष्ठ्यर्थप्रसिद्धयर्थं च । तत्र स्थाने द्विर्वचनपक्षे तावच्छब्दतोऽर्थतश्चान्तरतमाभ्यां द्वाभ्यामादेशाभ्यां भाव्यम् । ये चैवं प्रकारास्ते नियोगतोऽनेकाल्स्वभावाः---इत्यन्तरेणापि सर्वग्रहणम् `अनेकाल्शित्सर्वस्य' इति सर्वस्य भविष्यति । षष्ठ्यर्थोऽपि `परेर्वर्जने' इत्यादौ यत्र षष्ठ्युच्चार्यते तत्र तावत् सिद्धः; यत्रापि षष्ठी नास्ति---`नित्यवीप्सयोः' इति, तत्रापि सामर्थ्याल्लभ्यते---नित्यवीप्सयोयः शब्दस्तस्य द्वे भवत इति । द्विः प्रयोगपक्षे त्वलोन्त्यविधिप्रसङ्ग एव नास्ति; स्थानषष्ठ्यभावात् । षष्ठ्यर्थोऽपि लभ्यत एवः, उच्चारणस्य शब्दधर्मत्वाद् । अतो नाथः सर्वग्रहणेनेत्यभिप्रायेणाह---सर्वस्येति किमिति । विस्पष्टाथमिति । य एवं प्रतिपत्तुमसमर्थः, तं प्रति सुखप्रतिपत्तये सर्वस्येत्युच्यत इत्यर्थः । अथेत्यादि । एवं मन्यते---समासतद्धितवाक्यनिवृत्त्यर्थमवश्यम् `पदस्य' इति वक्तव्यम् । समासनिवृत्त्यर्थ तावत्---सप्तपर्णोऽष्टापदम्, अत्र सप्तसंख्यानि पर्णानि वीप्स्यन्ते, न तु तद्वान्वृक्ष इति वीप्सायामेकत्वस्यानन्तर्भावात्प्रागेव विभक्तेद्विवचनप्रसङ्गः, पदाधिकारात्तु न भवति; तद्धितः---द्विपदिकां ददाति, अत्र द्वित्वसंख्यायुक्तः पदार्थो वीप्स्यत इति स्त्रीत्वैकत्वलक्षणयोर्लिङ्गसंख्ययोरनन्तर्भावात्प्राक् तद्धितोत्पत्तेः समासे कृते प्राप्तं द्विर्वचनं पदत्वाभावान्न भवति; वाक्यम्---ग्रामेग्रामे पानीयम्, अत्र वाक्यस्यापदत्वाद् द्विर्वचनं न भवति ग्रामे पानीयमिति । किञ्चोत्तरत्र पदस्येति न वक्तव्यं भवति; `पदस्य पदात्' इत्यस्यैवानुवृत्तेरिति । नैवं शक्यमिति । अस्याप्ययमभिप्रायः---`पदस्य' इत्युच्यमानेऽपि सप्तपर्णाभ्यामित्यादौ स्वादिषु पूर्वस्य पदत्वाद् द्विर्वचनप्रसङ्गः; तस्मादेवमत्र परिहारो वाच्यः---यद्वीप्सायुक्तम्, न अदः प्रयुज्यते; किं पुनस्तत् ? पर्वणिपर्वणि सप्तपर्णान्यस्येति, यच्च प्रयुज्यते न तद्वीप्सायुक्तम्---सप्तपर्णान्यस्येति पर्णशब्द इति । तद्धिते तु तद्धितेनैवोक्तत्वाद् द्विर्वचनाभावः, स हि `वीप्सायाम्' इत्युच्यते । वाक्यस्यापि द्विर्वचनं न भवति; पदद्विर्वचनेनोक्तत्वाद्वीप्सायाः । तस्मात् समासादिनिवृत्त्यर्थं तावत्पदाधिकारो न कर्तव्य इति ।
प्रत्युत क्रियमाणे पदाधिकारेऽव्याप्तिलक्षणो दोष इत्याह---इह हि न स्यादिति । प्रपचतीति । धातूपसर्गसमुदायः क्रियाविशेषवाची । अडादिव्यवस्थार्थं तु धातूपसर्गयोः पृथक् कल्पनम्, ततश्च क्रियाधर्मो नित्यता समुदायस्येति तस्यैव द्विर्वचनम् । इहेत्यादि । द्रुहेस्तृचि विहिते `वा द्रुहमुह' इति घत्वढत्वे प्राप्नुतः, द्विर्वचनं च; तत्र घत्वढत्वयोरसिद्धत्वात्पूर्वं द्विर्वचनं प्राप्नोति । अस्तु, को दोषः ? तत्राह---तत्रेति । पश्चाद्विकल्पे प्रवर्त्तमाने यदा परत्र ढत्वं तदा पूर्वत्रापि ढत्वमेवेति नियमाभावात् घत्वमपि कदाचिंत् स्यात् । एवं घत्वेऽपि द्रष्टव्यम्---परत्र घत्वं पूर्वत्र ढत्वमिति । एतच्चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवतीति न्यायमनाश्रित्योक्तं द्रष्टव्यम् । अयं च न्यायः `कृञ्चानुप्रयुज्यते लिटि' इत्यत्रैव व्याख्यातः ।
पूर्वत्रासिद्धीयमिति । `पूर्वत्रासिद्धम्' इत्यस्मिन्नधिकारे भवं नलोपादिकार्यं पूर्वत्रासिद्धीयम्, तद् द्विर्वचनादन्यत्रासिद्धं भवति । अथ वा---पूर्वस्यां सपादसप्ताध्याय्यमसिद्धं नलोपादि पूर्वत्रासिद्धम्, तत्र भवमसिद्धत्वं पूर्वत्रासिद्धीयम्; तद् द्विर्वचने कर्त्तव्ये न भवति, ततश्च घत्वे ढत्वे वा प्रवृत्ते तद्युक्तस्यैव द्विर्वचनमिति नास्ति दोषः ।
सर्वस्येत्येतदेवेत्यादि । पूर्वं `पूर्वत्रासिद्धीयमद्विर्वचने' इति वचनाश्रयेण द्रोढाद्रोढेति साधितम्, इदानीम् `सर्वस्य' इत्यनेन साधितमित्येकस्मिन्साध्ये द्वयोर्हेत्वोर्विकल्पः । कथं पुनः `सर्वस्य' इत्यनेन कृतसर्वकार्यप्रतिपत्तिः ? अर्शआद्यच्प्रत्ययान्तोऽयं सर्वशब्दः---सर्वं कार्यं यस्मिन्नस्ति तदिदं सर्वम्, तस्य द्वे भवतः । सर्वेषु कार्येषु कृतेषु द्विर्वचनमित्यर्थः ।।
तस्य परमाम्रेडितम् ।। 8.1.2 ।।
`तस्य' इत्यवयवयोगे षष्ठी, परशब्दोऽवयवचनः । `दिक्शब्दाञ्चूत्तरपद' इत्यत्र यद्यपि `दिशि दृष्टः शब्दो दिक्शब्दः'---इत्याश्रयणात्सम्प्रत्यदिक्शिब्दत्वेऽपि पञ्चमी विहिता, तथाप्यस्मादेव निर्देशादवयववाचिभिर्योगे षष्ठी भवति । एवं च पूर्वं कायस्येत्यादि सिद्धं भवति । उदाहरणे---`आम्रडितं भर्त्सने' इति प्लुतः । तस्य ग्रहणं विषयावधारणार्थम्--तस्यैतस्यानन्तरस्य द्विरुक्तस्येति, तेन पाष्ठिके द्विर्वचने इयं संज्ञा न भवति । ननु आम्रेडितशब्दो निघण्टुषु प्रसिद्धः---`आर्म्रडितं द्विस्त्रिरुक्तम्' इति ? सत्यमर्थे प्रसिद्धः; इह तु शब्दे परिभाष्यते
महासंज्ञाकरणं पूर्वाचार्यानुरोधेन ।।
अनुदात्तं च ।। 8.1.3 ।।
परमित्यनेन सामानाधिकरण्यात्तस्य चाज्झल्समुदायरूपत्वादन्यर्थोऽत्रानुदात्तशब्दः---अविद्यमानमुदात्तमनुदात्तमिति । स्वरितेऽप्युदात्तस्य भावात्तस्यापि निवृत्तिः । एवमपि न ज्ञायते---केन स्वरेणाम्रेडितं प्रयोक्तव्यमिति ? उच्यते; उदात्तस्वरितौ तावन्निषिद्धौ, न चास्वरकस्याच उच्चारणं सम्भवति, तत्र पारिशेष्यादनुदात्तत्वमेव भविष्यति । यद्वा---अनुदात्ताच्कमनुदात्तम्, आम्रेडितस्था अचोऽनुदात्ता भवन्तीत्यर्थः । भुङ्क्तभुङक्त इति । `भुजोऽनवने' इत्यात्मनेपदम्, तस्य `तास्यनुदात्तेत्' इत्यनुदात्तत्वम्, श्नमः प्रत्ययस्वरः, तस्य `श्नसोरल्लोपः' इत्यल्लोपे उदात्तनिवृत्तिस्वरेण भुङ्क्तेशब्दोऽन्तोद्रुत्तिः, द्विर्वचनेन परस्यानुदात्तत्वम् । पशुशब्दः कुप्रत्ययान्तोऽन्तोदात्तः ।।
नित्यवीप्सयोः ।। 8.1.4 ।।
नित्ये चार्थे वीप्सायां च यद्वर्त्तते इति । अनेन सप्तमीयमर्थनिर्देशार्थेति दर्शयति । प्रयोक्तृधर्मभूता वीप्सा, न च सा ग्रामादिशब्दैरभिधीयते । पचतिपचतीत्यत्रापि वस्तुतो यन्नित्यं न तत्तिङन्तेनाभिधीयते । नित्यत्वं तु द्विर्वचनद्योत्यम् । तस्मादयमत्रार्थः---नित्यत्वे द्योत्यत्वेन विषयभूते, वीप्सायां व द्योत्यत्वेन विषयभूतायामिति । एषैव च तत्र वृत्तिः, शब्दस्य यद्वत्ता तद्विषयता । यदि पुनरेषा षष्ठी स्यात्सव्रूपविधिः प्रसज्येत, ततश्च `नित्यं क्रीडाजीविकयोः', `पादशतस्य संख्यादेर्वीप्सायाम्' इत्यादिनिर्देशो नोपपद्यते । यदि तु `नित्यार्थविषयः शब्दो नित्यः' इत्युच्येत, वीप्सार्थविषयश्च वीप्सेति; तदा षष्ठ्यामप्यदोषः ? गौणत्वप्रसङ्गात्तदनाश्रितम् । नित्यशब्दोऽयं सर्वकालावस्थायिनो य आत्माकाशादयः, येषामुत्पत्तिविनाशौ प्रयोक्तृभिर्नोपलभ्येते, तेष्वपि प्रयुज्यमानो दृश्यते---नित्य आत्मा, नित्य आकाशः, नित्या द्यौरिति; आभीक्ष्ण्येऽपि---नित्यं प्रहसितः, नित्यं प्रजल्पित इति । तत्राविशेषादुभयोरपि ग्रहणादाकाशादिशब्दानामपि द्विर्वचनप्रसङ्ग इति मन्यमानः पृच्छति--केषु नित्यतेति ।
अथ वा---नित्यशब्दस्य कूटस्थलक्षण एव मुख्योऽर्थः, शब्दान्तरसन्निध्यनपेक्षणात् । आभीक्ष्ण्यं तु क्रियापदप्रयोगसमधिगम्यं गौणोऽर्थः; अविच्छेदोपलब्धिसामान्यमाश्रित्य तत्र प्रयोगात् । ततश्च `गौणमुख्ययोर्मुख्ये सम्प्रत्ययः' इति कूटस्थवाचिनामेव द्विर्वचनप्रसङ्ग इति मन्यमान आह---केषु नित्यतेति । इतरोऽपि विदिताभिप्राय आह---तिङ्क्ष्विति । अविशेषमेव मन्यमानः पृच्छति---कुत इति । आभीक्ष्ण्यमिहेति । अयमभिप्रायः---कूटस्थवचनग्रहणे तिङन्तानि न संगृहीतानिस्युः, आभीक्ष्ण्यलक्षणे तु नित्यत्वे गृह्यमाणे तल्लक्षणं द्विर्वचनं तिङन्तानाम्, वीप्सालक्षणं तु सुबन्तानामित्युभयानुग्रहो भवति । गौणोऽपि चार्थो लक्ष्यदर्शनवशादिहाश्रीयते---यथा `शीतोष्णाभ्यां कारिणि', पार्श्वेनान्विच्छतीत्यादौ । उभ्यविधेऽपि नित्यत्वे गृह्यमाणे तद्वाचिनां सुबन्तानां स्वार्थ एव द्विर्वचनं स्यात्, न चैवं लोके प्रयोगोऽस्ति---आत्मात्मेति । एवं ह्युक्ते वीप्सा प्रतीयते, न तु स्वार्थः । तस्मादाभीक्ष्ण्यस्यैव ग्रहणमिति भवत्याभीक्ष्ण्यमिह नित्यता । सा च तिङ्क्ष्वव्ययकृत्सु चेति । एतत्कुतसत्यम् ? इत्याह--आभीक्ष्ण्यं च क्रियाधर्म इति । पौनः पुन्यम्=आभीक्ष्ण्यम् । तच्च साध्यरूपायाः क्रियाया एव सम्भवति, तज्जातीयस्य तु पुनः करणं घटादिष्वपि रूम्भवति; तथापि क्रियाविषयैव पुनः क्रियत इति प्रतीतिः । तद्वचनाश्च पुनः पुनः, आभीक्ष्ण्यम्, नित्यमित्यादयः शब्दाः, यथा युगपत्पृथगित्यादयः शब्दाः क्रियाविषयाः, तद्वत् । क्रिया च तङिक्ष्वव्यवकृत्सु चाभिधीयते, पाचकादिषु तु साधनं प्रधानम् । पाकादिष्वपि तु सिद्धता प्रधानम्, न क्रिया ।
कीदृशी पुनः सा क्रिया यस्या आभीक्ष्ण्यं धर्मः ? इत्याह---यां क्रियामिति । तन्नित्यमिति । नित्यशब्दस्य नपुंसकलिङ्गत्वात्तद्वृत्ति तच्छब्दस्यापि नपुंसकत्वम्, यथा---अणौ यत्कर्म णौ चेत्स कर्तेत्यत्र पुंस्त्वम् । लुनीहिलुनीहीति । क्रियासमभिहारे लोटु । यद्यपि तिङन्तस्य दर्शितमुदाहरणं तथाप्यस्त्यत्र वक्तव्यमिति पुनरुपन्यासः, तद्दर्शयति---कत्वाणमुलोर्लोटश्चेति । `समानकर्तृकयोः' इत्यादिनार्थान्तरेऽपि क्त्वाणमुलौ विहितौ, लोडपि विध्यादावर्थान्तरे विहित इति सामान्यशब्दत्वात् द्विर्वचनापेक्षा एव पौनः पुन्यं प्रकाशयन्ति । यङ् तु तन्निरपेक्ष इति । स हि क्रियासमभिहारं न व्यभिचरति, तत्किं तस्य तद्द्योतने द्विर्वचनापेक्षया ! ननु यङन्तस्यापि कदाचिद् द्विर्वचनमिष्यते, तत्कथम् ? इत्याह---यदा त्विति । द्विविधो हि क्रियायाः समभिहारः---पौनः पुन्यम्, भृशार्थश्च । तत्र यदा द्विर्वचनं भवति, तदा भृशार्थे यङ्, तस्यैव पौनः पुन्यं द्योतयितुं द्विर्वचनम्, तस्य यङाऽद्योतितत्वादित्यर्थः । वृत्तौ च सामान्यशब्दस्यापि क्रिया समभिहारशब्दस्य भृशार्थलक्षणे क्रियासमभिहारे वृत्तिविज्ञेया । पापच्यत इति । सकला अवयवक्रियाः स्वयमेव सम्पादयन् पुनः पुनः पचतीत्यर्थः । लोडपि भवति---पापच्यस्व पापच्यस्वेत्येवायं पापच्यत इति । अथ नित्यतायां द्विर्वचनमुच्यमानं धातुमात्रस्य कस्मान्न भवति, स हि क्रियावचनः ? उच्यते; परिगृहीतसाधना क्रिया व्यवहारोपयोगिनी भवति, तदभिधानाच्च धातुमात्रस्य द्विर्वचनाभावः । पदाधिकारो वाश्रयणीयः । अनेनैवाभिप्रायेण पूर्वमुक्तम्---`अथ पदस्येत्येव कस्मान्नोच्यते' इति, अस्मिन्पक्षे सगतिकस्य द्विर्वचनं वक्तव्यमेव । एतेनैतदपि निरस्तम्---भृशार्थे सावकाशो यङ् पौनः पुन्ये परेण द्विर्वचनेन बाध्यत इति । कथमिदं निरस्तम् ? पदस्य द्विर्वचनं धातोर्यङ्, तत्रान्तरङ्गस्य न युक्तो बाध इत् व्याख्यातम् ।
नित्यं वीप्सां व्याख्यास्यन् विषयं तावत्पृच्छति---अथेति । सुप्सु वीप्सेति । सुपामेव तदभिव्यक्तौ समर्थत्वात् । एवं विषयमुक्त्वा स्वरूपं पृच्छति---का पुनरिति । यदि सामान्येन व्याप्तुमिच्छा वीप्सा, तदा चिकीर्षतीत्यादौ द्विर्वचनप्रसङ्गः; करोत्यादिक्रियाभिः कटादीनां या व्याप्तुमिच्छा तद्विचित्वात् । इतरो `योगरूढिर्वीप्साशब्दः' इत्यभिप्रायेणाह---व्याप्तिविशेषविषयेति । प्रयोक्तुरिच्छेति । अनेन नाभिधेया वीप्सा गृह्यते---वीप्सावाचिनो द्वे भवत इति, किं तर्हि ? प्रयोक्तृधर्मः, आबाधवत् । गतगत इत्युक्ते प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्त इति प्रतीयते, तेन चिकीर्षतीत्यादौ द्विर्वचनं भवतीति दर्शयति । व्याप्तिविशेषविपयेत्युक्तम्, स तु विशेषो नाद्याप्यभिहितद इति पुनः पृच्छति---का पुनरसाविति । नानावाचिनामित्यादि ।
पूर्ववृत्तिषु पठितं वीप्सालक्षणम्, तद् व्याचष्टे---नानाभूतार्थवाचिनामिति । तत्र नानावाचिनामिति वचनाज्जातिवाचिनां द्विर्वचनं न भवति---ब्राह्मणो न हन्तव्यः, सम्पन्नो व्रीहिरिति । नहि जातिशब्दा नानाभूतार्थवाचिनः; जातेरेकत्वात् । युगपद्ग्रहणात्क्रमविवक्षायां द्विर्वचनाभावः, यथा---अस्मिन्वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमेण शोभनत्वप्रतिपादने बहूनामपि शब्दानां प्रयोगो भवति, तथैकशेषोऽपि न भवति---अस्मिन्वने वृक्षाः शोभना इति; नानावाचित्वाभावात् । पृथगर्थपर्यवसायित्वं हि नानावाचित्वम्, न चैकशेषे तदस्ति । अत एव तत्र न प्रत्येकं विधेयसम्बन्धो नियमेन प्रतीयते । न `हि ब्राह्मणेभ्यः शतं देयम्' इत्युक्ते नियमेन प्रत्येकं शतं देयं भवति । ब्राह्मणाय ब्राह्मणाय शतं देयमित्युक्ते प्रत्येकं शतं दीयते, तत्करय हेतोः ? पृथगर्थपर्यवसायितया पृथग्देयस्य सम्बन्धात् । यदा च पृथगर्थपर्थवसायिता, तदा यावन्तोऽर्था अभिधित्सिताः, तावन्तः शब्दाः पृथगेकैकपर्यवसायिनः प्रसक्ताः, तेषामनेन निवृत्तिः क्रियते---वीप्सायां द्वे एव प्रयोक्तव्ये, न तु बहु प्रयोक्तव्यमिति । कथं तहि निवृत्तानामर्थः प्रतीयते, यावता प्रत्येकपर्यवसायित्वे द्वयोरेव प्रतीतिः स्यात् ? उच्यते---
एकशेषे यथान्येषामर्थः शिष्टेन गम्यते ।
तद्वदत्र विशेषेऽपि शिष्टाभ्यामितरार्थधीः ।।
यथैव हि वृक्षौ वृक्षा इत्येकशेषविषये शिष्यमाणमेव निवृत्तानामप्यर्थमाह, तथेहापि शिष्यमाणे द्वे एव विवक्षितानर्थानबिधास्यतः । न च बहुवचनप्रसङ्गः; परिगृहीतैकत्वानां बहूनामभिधानात्; अन्यथा प्रतेयकसम्बन्धस्याप्रतीतेः द्विर्वचनादुत्तरकालं सत्यामपि बहुत्वावगतावप्रातिपदिकत्वाद्वहुवचनाभावः, यथा---पश्य मृगो धावतीति सत्यपि दर्शनक्रियापेक्षे कर्मत्वे द्वितीयाभावः । एकैकमित्यत्र तु सत्यपि बहुव्रीहिवद्भावेन प्रातिपदिकत्वं परिगृहीतैकत्वस्यैकारथस्य वीप्सायोगादन्तरङ्गत्वादेकवचनं भवति, न बहुवचनम् ; बहुत्वप्रतीतेर्बहिरङ्गत्वात् । अस्यैवार्यस्य `एकैकस्य प्राचाम्' इति निर्देशो लिङ्गमित्यलमियता । तदयमत्रार्थः---नानाभूतार्थवाचिनां यान्यधिकरणानि वाच्यानि तेषां सहविवक्षितानां पृथक् संख्यायुक्तानां प्रत्येकं क्रियया गुणेन वा व्याप्तुमिच्छा वीप्सेति । क्रियागुणग्रहणं द्रव्यस्याप्युपलक्षणम् । ग्रामेग्रामे पानीयमिति । द्रव्यव्याप्तेरुदाहरणम् । पुरुषः पुरुषो निधनमुपैतीति । निधनम्=मरणम् । जातस्य हि ध्रुवो मृत्युरित्यर्थः । अपर आह---साम्नां भक्तिविशेषः=निधनम्, सर्व एव ऋत्विजो निधनमुपयन्तीत्यर्थ इति ।
यत्तिङन्तमित्यादि । अत्र विप्रतिषेधो हेतुः, द्विर्वचनस्यावकाशो यत्र नित्यता विवक्षिता, न प्रकर्षः---पचतिपचतीति, प्रकर्षप्रत्ययस्यावकाशो यत्र प्रकर्ष एव विवक्ष्यते, न नित्यिता---पचतितरामिति; उभयविवक्षायामुभयप्रसंगे परत्वाद् द्विर्वचनम्, ततः पुनः प्रसङ्गविज्ञानात्प्रकर्षप्रत्ययः । यद्वा---प्रतियोग्यपेक्षः प्रकर्षो बहिरङ्गः, पौनःपुन्यमन्तरङ्गमिति पूर्वं द्विर्वचनम् ।
इह त्वित्यादि । इष्टिरेवेयम् । यद्वा---प्रकर्षयुक्ता एवाढ्यादय आनयनक्रियायामुपयुज्यन्त इति लघुप्रकर्षा एव वीप्स्यन्ते । किञ्च---कृतद्विर्वचनात्तरपि सत्याढ्यातरमिति भवितव्यम्, तथा च प्रकर्षार्थो गम्येत, न वीप्सेति पूर्वं प्रकर्षयोगः ।।
परेर्वर्जने ।। 8.1.5 ।।
परिपरि त्रिगर्तेभ्य इति । `अपपरी वर्जने' इति कर्मप्रवचनीय संज्ञा, `पञ्चम्यपाङ्परिभिः' इति पञ्चमी । परिषिञ्चतीति । परिः सर्वतो भावे, `उपसार्गात्सुनोति' इत्यादिना षत्वम् ।
परेर्वर्जन इत्यादि । `परेर्वर्जने' इत्यत्रा `असम से' इति वक्तव्यम्, `वा' इति च वक्तव्यम्, तेनासमास एव भवति, तत्रापि विसप्लेन ।
अन्यत्र तु नैव भवति, तदाह---समासे त्विति । तेनौवोक्तत्वादिति । ननु वाक्ये तावद्वर्जनं परेरेव द्योत्यम्, समासेऽपि परिः सन्निहितः, तत्किं समासस्य वर्जने शक्तिः कल्प्यते ? तत्राहुः---`जहत्स्वार्था वृत्तिः' इति पक्षे समास एव वर्ज्यमानोपसर्जने वर्जने वर्त्तते, अवयवौ त्वनर्थकाविति । यदा तु `अजहत्स्वार्था वृत्तिः' इति पक्षः, तदा वाक्ये केवले वर्जने परिर्वर्तत इति तत्रैव द्विर्वचनं भवति । समासे तु वर्ज्यमानार्थास्कन्दानान्न द्व्यर्थः परिः केवले वर्जने वर्त्तत इति द्विर्वचनाभावः ।।
प्रसमुपोदः पादपूरणे ।। 8.1.6 ।।
प्रादीनां समाहारद्वन्द्वः, `द्वन्द्वाच्चुदषहान्तात्समाहारे' इति समासान्तस्तु न भवति; समासान्तविधेरनित्यात्वात् । उदित्यं जातवेदसमिति क्वचिदुदाहृतम्, तदयुक्तम्; न ह्यत्र द्वितीय उच्छब्दः, किं तर्हि ? उशब्दः ।
उपर्यध्यधसः सामीप्ये ।। 8.1.7 ।।
उपर्यादीनां योऽर्थस्तस्य सामीप्यद्योतनाय द्विर्वचनम् । सामीप्यम्=प्रत्यासत्तिः, तच्च देशकृतं कालकृतं वा । उपर्युपरिदुः खमिति । कालकृतस्योदाहरणम् । दुः खस्य सामीप्येनोपरिष्टादित्यर्थः । `उभसर्वतसोः' इत्युपसंख्यानेन द्वितीया । उपर्युपरि ग्रामिति । ग्रामस्य सामीप्येनोपरिष्टाद्देश इत्यर्थः । अध्यधि ग्राममिति । अधिरुपरिभावे, यथा---`समिधं स्रुचं चाध्यधि गार्हपत्यं हृत्वा' इति । अधोऽधो ग्राममिति । ग्रामस्य सामीप्येनाधस्ताद् देश इत्यर्थः । यथा `नवानधोऽधो बृहतः पयोधरान्' इति ।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ।
अधोऽधो दर्शने कस्य महिमा नोपजायते ।।
इति तु वीप्सायां द्विर्वचनम् ।
उपरि चन्द्रमा इति । अत्र भूगतमपेक्ष्योपरिभावस्य सामीप्यं नास्ति । उपरि शिरस इत्यादि । न हि वस्तुसत्तैव शब्दत्युत्पत्तेः प्रधानं कारणम्, किं तर्हि ? विवक्षा, सा चेह नास्ति । शिरस उपरिष्टाद् घटं धारयति नाधस्तादिति ह्यत्र विवक्षितम् । सामीप्यं तु वस्तुतः सम्भवति ।।
वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु ।। 8.1.8 ।।
एकार्थः पदसमूहो वाक्यमिति । यथाह भगवाञ्चैमिनिः---अर्थैकत्वादेकं वाक्यं साकांक्षं चेद्विभागे स्यात्' इति । क्वचित्तु `एकतिङ्पदसमूहो वाक्यम्' इति पठ्यते, एका तिङ्विभक्तिर्यत्र स एकतिङ् । क्वचित्तु न किञ्चिदपि वाक्यलक्षणं पठ्यते । असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद्वाक्यं भवतीति । यद्यपि वाक्यादेरिति समासे गुणीभूतं वाक्यम्, तथाप्यसूयादीनां तेनैव सम्बन्धः---असूयादिषु यद्वाक्यं तदादेरिति, न तु प्रधानेन वाक्यादिनाऽऽमन्त्रितेन । प्रयोक्तृधर्मा ह्यसूयादयो नाभिधेयधर्माः, ते च वाक्येनैव द्योत्यन्ते, नामन्त्रितेन । उदाहरणेषु सम्मतावनुकम्पायां कन्, इतरत्र कुत्सिते कः । रिक्तम्= शून्यम्, क्षुद्रमित्यर्थः । शक्तियष्टिशब्दाभ्यां तद्वत्योः स्त्रियोर्वर्तमानाभ्यां कुत्सिते कः । एवं हि कुत्सनम्, सम्बोधनं च समीचीनं भवति । भर्त्सने त्वित्यादि । यद्यपि `भत्सेने पर्यायेण' इति वचनात्पूर्वस्यापि तत्र विधीयमानं भर्त्सनकुत्सनयोरपि सिद्ध्यति; कारणत्वेन तत्रापि कोपासूययोर्भावात्, तेतश्च नार्थः कुत्सनभत्सेनग्रहणेन ? नैतदस्ति;
गुरवो हि हितैषित्वादकुप्यन्तोऽपि भर्त्सनम् ।
कुर्वते भर्त्स्यमानास्तु कुपितान्प्रतियन्ति तान् ।।
विनाप्यसूयया कुत्सां कुर्वन्तीति पृथक्तयोः ।
निर्देशः सूत्रकारेण विहितः सूक्ष्मदर्शिना ।।
सामृतैः पाणिभिर्घ्नन्ति गुरवो न विषोक्षितैः ।
लालनाश्रयिणो दोषास्ताडनाश्रयिणो गुणाः ।।
अभिप्राये दुष्टे लालनेऽपि दोषा भवन्ति, विपर्यये तु ताडनेऽपि गुणा इत्यर्थः ।।
एवं बहुव्रीहिवत् ।। 8.1.9 ।।
अत्र यदि केवलो बहुव्रीहिवद्भावोऽनिर्दिष्टविषयोऽनेन विधीयते, ततश्चेहापि प्राप्नोति---एक इति, ततश्च सुब्लुक्, स्यात् । अस्तु, बहुव्रीहिवद्भावादपरः सुः प्रभविष्यति ? नैव चात्र सुब्लुक् प्राप्नोति, एक इत्यस्य प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् । `कृत्तिद्धितसमासाश्च' इत्यत्र च समासग्रहणं नियमार्थम्, न विध्यर्थमिति तेनापि नास्ति प्रातिपदिकत्वम् । इह तर्ह्येकेति पुंवद्भावः प्राप्नोति ? स्यादेवतन्---`द्वे' इत्यधिकाराद् द्विर्वचनसन्नियोगेन विधीयमानो बहुव्रीहिवद्भावस्तदभावादिह न भवतीति । अथ तदपि द्विर्वचनं तेन विधीयमानमत्र कस्मान्न भवति ? तस्माद्वक्तव्योऽस्य विषयः । अत आह---एकमित्येतच्छब्दरूपं द्विरुक्तमिति । सत्यम्; `द्वे' इत्यनुवर्त्तते, न च तेन द्विर्वचनं विधीयते, किं तर्हि ? अन्येन विहितनूद्य तत्र बहुव्रीहिवद्भावो विधीयते । क्व चान्येन द्विर्वचनं विहितम् ? वीप्सायाम् । यदि पुनर्वीप्साग्रहणमनुवर्त्य तत्र बहुव्रीहिवद्भावो विधीयेत ? नैवं शक्यम्; बहुव्रीहिवद्भावेन द्विर्वचनं बाध्यते । अथ यदि वीप्सायां द्वे इत्येवमुभयमनुवर्त्य द्विर्वचनं बहुव्रीहिवद्भावः---इत्युभयमनेन विधीयते, न दोषो भवति । वृत्तिकारस्तु किमनया वीप्साग्रहणानुवृत्त्येति `द्वे' इत्येवान्ववीवृतत् ।
सुब्लोपपुंवद्भावाविति । यद्यप्येतौ बहुव्रीहाविति नोच्येते, तथापि तत्र दृष्टावित्येतयोरतिदेशः । क्वचित्तु वृत्तावेवायमर्थः पठ्यते । एकैकमिति । एकमित्यस्य द्विर्वचने द्वयोरपि सुपोर्लुकि सति पुनर्बहुव्रीहिवद्भावादेव सुप् । एकैकयेति । टाबन्तात्तृतीया, तदन्तस्य द्विर्वचनम्, सुब्लुकि पुंवद्भावेन पूर्वभागे टापो निवृत्तिः । कः पुनरत्र टापो निवृत्तौ सत्यामसत्यां वा विशेषः । ? अवग्रहेऽस्ति विशेषः---ऐकैकयेत्येक---एकयेति भवति । उत्तरत्र च गतगतेत्यादौ पुंवद्भावस्य प्रयोजनम् ।
ननु यदि यच्च यावच्च बहुव्रीहौ दृष्टं कार्य तस्य सर्वस्यातिदेशः; सर्वनामसंज्ञाप्रतिषेधः, स्वरः, समासान्त इत्येते विधयः प्राप्नुवन्ति ? अत आह---सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ता इति । न बहुव्रीहाविति प्रतिषेधो न भवतीति । तत्र हि `विभाषा दिक्समासे बहुव्रीहौ' इत्यतः `बहुव्रीहौ' इत्यनुवर्त्तमाने पुनर्वहुव्रीहिग्रहणम्---बहुव्रीहिरेव यो बहुव्रीहिस्तत्र यथा स्याद्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति । तेन संज्ञाप्रतिषेधस्तावत्समासाधिकारे बहुव्रीहौ विज्ञायते । नन, सुसु इति । `आबाधे च' इति द्विर्वचनम् । नन करोति, सुसु जागर्तीत्यादिवाक्यैकदेश उदाहृतः । नञ्सुभ्यामित्यन्तोदात्तत्वं न भवतीति । तत्र हि `वनं समासे' इत्यतः सिंहावलोकितन्यायेन `समासे' इति सम्बध्यते, `बहुव्रीहाविदमेतत्तद्भ्यः' इत्यतः `बहुव्रीहौ' इति च । तत्र बहुव्रीहेः समासत्वाव्यभिचारे पुनः समास इति विशेषणं समासाधिकारविहितबहुव्रीहिपरिग्रहार्थण् । अथात्र `नञ्सुभ्याम्' इत्यन्तोदात्तत्वे सति कः स्वरो भवति ? अत्र हि चत्वारः स्वराः प्राप्नुवन्ति---समासान्तोदात्तत्वं च । तत्र `नञ्सुभ्याम्' इत्ययं स्वरो न भवतीत्युक्तम् । आम्रेडितानुदात्तत्वमपि न भवति, किं कारणम् ? कार्यातिदेशे तावदिदमेव कार्याणां विधायकमिति परत्वादाम्रेडितानुदात्तत्वं बहुव्रीहिस्वरेण बाध्यते । शास्त्रातिदेशेऽपि विरुद्धस्य स्वाश्रयस्यातिदेशेन निवर्त्तनान्नैवाम्रेडितानुदात्तत्वं भवति, `बहुव्रीहौ प्रकृत्या' इत्यत्र च न समासग्रहणमनुवर्त्तते, तेन बहुव्रीहिवद्भावात्पूर्वपदप्रकृतिस्वरो भवन् समासान्तोदात्तत्वं बाधते । ऋगृगिति । `आबाधे च' इति द्विर्वचनम् । ऋक्पूरिति समासान्तो न भवतीति । तत्र हि `समासाच्च तद्विषयात्' इत्यतः `समासात्' इत्यनुवर्त्तमाने पुनः समासग्रहणं समासाधिकारे विहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तो न भवतीति । एवमेते संज्ञाप्रतिषेधादयः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते ।
वार्त्तिककारस्तु सर्वमेवैतद्वाचनिकं मन्यते, यदाह---`सर्वनामस्वरसमासान्तेषु दोषः' इति । अथ ननेत्यत्र बहुव्रीहिवद्भावान्नलोपः कस्मान्न भवति ? उच्यते; `उत्तरपदे' इति वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमित्तभावो बाध्यते, यथा---मद्रह्रदो भद्रह्रद इत्यत्र रेफस्य `अचो रहाभ्यां द्वे' इति द्विर्वचनप्रसङ्गे उक्तम्---`नेमौ रहौ कार्यिणौ, किं तहि ? निमित्तमिमौ द्विर्वचनस्य' इति । अयं तु परिहारः पूर्वत्रापि यथासम्भवं द्रष्टव्यः ।।
आबाधे च ।। 8.1.10 ।।
आबाधनमाबाध इति । भावे घञ् । प्रयोक्तृधर्मो नाभिधेयधर्मइति । अभिधेयधर्मत्वे हि बाधितपीडितादिशब्दानामेव द्विर्वचनं स्यात्, न गतादिशब्दानाम्, प्रयोक्तृधर्मत्वे हि तेषामपि भवतीति व्याप्तिर्भवति । तत्र वर्त्तमानस्येति । द्विर्वचने सत्याबाधस्य गम्यमानत्वाद् गतादिशब्दानां तत्र वृत्तिः, न तु तदभिधानात् । प्रियस्य चिरगमनादिनेति । प्रयोक्तृधर्मत्वमाबाधस्य दर्शयति । आदिशब्देन नाशादेर्ग्रहणम् ।।
कर्मधारयवदुत्तरेषु ।। 8.1.11 ।।
कोपधाया अपि कर्मधारयवद्भावात् पुंवद्भावो भवतीति । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावो विधीयते इति भावः । समासान्तोदात्तत्वमनेन विधीयत इति । कार्यातिदेशपक्षे इदमुक्तम् । शास्त्रातिदेशे तु यद्यप्याम्रेडितानुदात्तत्वमेव परम्, तथापि न तद्भवति; विरुद्धस्य स्वाश्रयस्याति देशेन निवर्त्तनात् ।।
प्रकारे गुणवचनस्य ।। 8.1.12 ।।
प्रकारो भेदः सादृश्यं चेति । उभ्यत्रापि प्रकारशब्दस्य दृष्टत्वात् । भेदे तावत्---बहुभिः प्रकारैर्भुङ्क्ते, बहुभिर्भेदैः, विशेषैरिति गम्यते; सादृश्ये---ब्राह्मणप्रकारोऽयं माणवकः, ब्राह्मणसदृश इति गम्यते । तदिहेति । तदिति वाक्योपन्यासे । अव्ययं वा सप्तम्यर्थवृत्ति, तत्रेत्यर्तः । सादृश्यं प्रकारो गृह्यत इति । द्विरुक्तात् तस्यैव प्रतीतेः । अत्र चाभिदानस्वाभाव्यं हेतुः । प्रकारे वर्तमानस्येति । द्विर्वचनप्रवृत्तिद्वारेण तद्द्योतनात्तत्र वृत्तिः । अपरिपूर्णगुण इत्यर्थ इति । कथमेतत् ? इत्याह---परिपूर्णगुणेनेति । यस्य पूर्णं पाटवम्, यः पटुकार्याणि करोति, तेन यदा न्यूनपाटवमुपमीयते, तदा पुटुपटुरिति प्रयोगो भवति, तेनार्थादपरिपूर्णगुण इत्यर्थो भवति ।
जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यत इति । तद्विधौ द्विविधस्यापि प्रकारस्य ग्रहणं मन्यते । जयादित्यस्तु तत्राह---`सामान्यस्य भेदको विशेषः प्रकारः' इति । इष्टिश्चेयम्, अन्यथा ब्राह्मणजातीय इत्यादावगुणवचने, पटुजातीय इत्यादौ गुणवचनेऽपि सादृश्यादन्यत्र भेदे चरितार्थस्य जातीयरो गुणवचनेषु सादृश्ये बाधः स्यात् ।
पटुर्देवदत्त इति । परिपूर्णगुण एवात्र पटुशब्दो वर्त्तते, नतत्सादृश्यान्न्यूनगुणे ।
अग्निर्माणवक इति । अग्निशब्दो वह्नौ वृत्तः सोऽयमतिसादृश्यनिमित्तादभेदोपचारान्माणवके वर्त्तत इति द्रव्ये पूर्ववृत्तः सम्प्रत्यपि द्रव्यवचन इति गुणवचनो न भवति । एवं गौर्वाहीक इत्यत्र गोशब्दः सास्नादिमति वर्तित्वा वाहीके वर्तमानः । नन्वग्निशब्दोऽग्निगततैक्ष्ण्यं माणवके प्रतिपादयितुं प्रयुज्यत इति गुणवचन एव, तथा गोशब्दोऽपि सास्नादिमद्गतजाड्यप्रतिपादनाय वाहीके प्रयुज्यत इति गुणवचन एव ? इत्यत आह---यद्यप्यत्राग्निशब्द इति । अग्निशब्दो माणवके प्रयुज्यमानो यादृशमग्नेस्तैक्ष्ण्यं परश्वादिभ्यो व्यावृत्तं तदेव प्रतिपादयति, न तैक्ष्ण्यमात्रमिति, गोशब्दोऽपि यादृशं गवां जाड्यं मनुष्येभ्यो व्यावृत्तं तदेव प्रतिपादयति, आश्रयविशेषसम्बन्धाद्धि तैक्ष्ण्यजाड्यादिकं भिद्यते, तदेतदाह---मुख्यार्थसम्बन्धादवधृतभेदं तैक्ष्णजाड्यादिकमिति । शब्दान्तरसन्निधीमन्तरेण शब्दश्रवणमात्राद् योऽर्थः प्रतीयते स मुख्यः । विपरीतो गौण । अवधृतभेदम्---निश्चितभेदम् । आदिशब्देन पैङ्गल्यभारवहनादेर्ग्रहणम् । अर्थान्तरे, गौणे माणवके वाहीके च । सर्वदा गुणवचनो न भवतीति न द्विरुच्यत इति । `प्रकारे वर्त्तमानस्य' इत्येव गुणवचनत्वे सिद्धे पुनर्गुणवचनग्रहणात् सर्वदा गुणवचनस्येत्याश्रीयते । न चायं सर्वदा गुमवचनः; प्राक् प्रकाराद् द्रव्यवचनत्वात् ।
अत्र केचित्---`गुणमुक्तवान् गुणवचनः' इति गुणोपसर्जनद्रव्यवचनस्य द्विर्वचनमिच्छन्ति । अन्ये तु गुणवचनस्य गुणिवचनस्य च अविशेषेणेच्छन्ति---शुक्लशुक्लं रूपम्, शुक्लशुक्लः पट इति । `नवंनवं प्रीतिरहो करोति' इत्यत्र वीप्सायां द्विर्वचनम्, अनेन तु द्विर्वचने सुब्लोपप्रसङ्गः, यथा---नवनवावनवायुभिरादेधे' इति । मूलेमूले इति । एकस्य वस्तुनो वेणुदलादेरेकमेव मुख्यमग्रं मूलं च, इतरेषां तु भागानामापेक्षिको मूलाग्रव्यपदेशः । स्थौल्यसौक्ष्म्ये अपि नैकरूपे, किं तर्हि ? यथामूलमुपचीयते स्थौल्म्, यथाग्रं च सौक्ष्म्यमिति वीप्साया अत्रासम्भवः । इह `मूलेमूले पथि विटपिनाम्' इति वीप्सायामेव द्विर्वचनम् ।
स्वार्थ इति । अर्थान्तराभावप्रदर्शनार्थमिदमुक्तम् । अस्मार्त्कार्षाणादिति । अनेकमाषसमुदायः=कार्षापणम् । तत्र न सर्वे माषा दानक्रियया व्याप्यन्ते, किं तर्हि ? द्वावेवेति वीप्साया अभावः । ननु यथा द्वावेव माषौ निर्ज्ञातौ दानक्रियया व्याप्येते, तदा माषंमाषं देहि---इति वीप्सायां द्विर्वचनं भवति; एवमनेकमाषसमुदायादपि कार्षापणाद् द्वयोरेवास्ति दानक्रियाव्याप्तिः ? मैवम्, तत्र हि सन्निहितस्यार्थस्य न कस्यचिद् वर्जनमस्ति; इह तु वर्जनमस्ति, यतो माषंमाषमसौ दत्वा शेषं पृच्छति---किमनेन क्रियतामिति । तदिदमुक्तम्---अत्र हीति । माषं देहि द्वौ माषौ देहि त्रीन्माषानिति । अनेन यथेच्छं देहीति विवक्षया अवधारणाभावं दर्शयति । चापल इति प्रयोक्तृधर्मोऽयम्, तस्मिन् द्योत्ये सुबन्तस्य तिङन्तस्य च सर्वस्य वाक्यगतस्य पदस्य द्विर्वचनं नावश्यमिति नेदं शास्त्रीयं द्विर्वचनम्, किं तर्हि ? परप्रत्यायनायानेकस्य स्वतन्त्रपदस्य प्रयोग इत्यर्थः । एवं च कृत्वा आम्रेडितानुदात्तत्वाभावाद्यथाप्राप्तः स्वरो भवति ।
क्रियासमभिहार इति । लोडन्तस्येवेदं द्विर्वचनम्, न यङन्तस्य; लोटः समुच्चयेऽपि विधानात् क्रियासमभिहाराभिव्यक्तौ केवलस्य सामर्थ्याभावात् । यङ् तु क्रियासमभिहारविषय एवेति तद्द्योतने स्वयं सामर्थ्यान्नापेक्षते द्विर्वचनम् ।
आभीक्ष्ण्य इति । पूर्वेण वाक्येन क्रियासमभिहारसंशब्दनेन यो विहितस्तदन्तस्यैव द्विर्वचनमिति शङ्कमानं प्रत्यस्य वाक्यस्योपन्यासः । नित्य इत्येव सिद्धमिति तत्रोक्तमिति । `नित्यवीप्सयोः' इत्यत्र हि `क्त्वाणमुलोर्लोटश्च द्विर्वचनसापेक्षाणामेव पौनः पुन्यप्रकाशने शक्तिः' इत्युक्तम् । अन्ये त्वाहुः---`पुनः पुनः क्रियाया उत्पादनमाभीक्ष्ण्यम् । तथा हि---भुक्त्वाभुक्त्वा व्रजतीत्युक्ते सत्यपि क्रियाया विच्छेदे पुनः पुनर्भुङ्क्ते पुनः पुनर्व्रजतीति क्रियावृत्तिः प्रतीयते, नित्यता तु क्रियाया अविच्छेदः, यता जीवतिजीवतीत्युक्ते जीवत्येवायमिति प्रतीयते, न त्वसौ जीवित्वा म्रियते मृत्वा च जीवतीति, जीवनमेव त्वविच्छिन्नं प्रतीयते । तस्मादाभीक्ष्ण्यं नित्यमिति भिन्नावेतावर्थौ' इति ।
अपर आह---भुक्त्वा व्रजतीत्यादौ क्त्वाणमुलन्तस्य तिङन्तस्य च द्विर्वचने प्राप्ते आभीक्ष्ण्यसंशब्दनेन यो विहितस्तदन्तस्य यथा स्यात्, तिङन्तस्य मा भूदिति नियमार्थमिदमिति ।
डाचीति । विषयसप्तमीयम्, तेनानुत्पन्न एव डाच्यकृतटिलोपस्य पटदित्यादेर्द्विर्वचनम्, ततः `अव्यक्तानुकारणात्' इति डाचि टिलोपः, `नित्यमाम्रेडिते `डाचि इति पररूपत्वम् । अपर आह---इदमेवाच्छब्दस्य पररूपविधानं लिङ्गम्---`डाचि' इति परसप्तम्यामपि टिलोपात्पूर्वं द्विर्वचनं भवतीत्यस्यार्थस्येति, तदसत; पतदित्यादौ टिलोपादुत्तरकालमप्यच्छब्दस्य सम्भवात् । द्वितीया करोतीति । `कृञो द्वितीया' इत्यादिना डाच् । तत्तर्हि डाचि द्विर्वचनं वक्तव्यम् ? न वक्तव्यम्; आचार्यप्रवृत्तिर्ज्ञापयति---`डाच्यव्यक्तानुकरणस्य द्विर्चनं भवतीति, यदयम् `नित्यमाम्रेडिते डाचि' इति पररूपत्वं शास्ति ।
पूर्वप्रथमयोरिति । पूर्व, प्रथम---इत्येतयोर्द्विर्वचनं भवति, क्व ? अर्थातिशयविवक्षायाम् । अनयोर्योऽर्थस्तस्यातिशये विवक्षिते । आतिशायिकोऽपि दृश्यत इति । द्विर्वचनेन बाधे प्राप्ते वचनम् । अतिशयशब्दोऽनुशतिकादिषु द्रष्टव्यः । केचित्तु अर्थबेदादातिशायिकस्याबाध्यत्वमाहुः । तथा हि---`पूर्वतरं भुङ्क्ते' इत्युक्ते किमात्मसाध्यक्रियान्तरापेक्षं भोजनस्य पूर्वत्वम् ? अथ भोक्त्रान्तरसाध्यभोजनक्रियापेक्षम् ? इति सन्देहो भवति । एवं पूर्वतरं पुष्प्यतीत्युक्तेऽयमर्थो गम्यते । न तावदेष किसलयितो यावदेष पुष्प्यतीति । पूर्वंपूर्वं । पुष्प्यतीत्यस्मात्त्वन्येभ्यः पुष्पितृभ्योऽतिशयेन पूर्व पुष्प्यतीत्यर्थः प्रतीयते ।
डतरडतमयोरिति । डतरडतमान्तस्य द्वे भवतः, समेनाढ्यत्वादिना धर्मेण सम्प्रधारणायां विषये । स्त्रीनिगदे भाव इति । भावः=भूतिः, सम्पत्=आढ्यता, निगद्यत इति निगदः, `नौ गद' इत्यादिना कर्मण्यप् । स्त्रीशब्देन स्त्रीलिङ्गः शब्दोऽबिधीयते, स्त्रिया निगदः, कर्त्तरि षष्ठ्याः समासः । स्त्रीलिङ्गशब्दाभिधेयायां भूतौ वर्त्तमानस्येत्यर्थः । कतराकतरा अनयोराढ्यतेति । किं साधनसम्पत्कृता ? उत भाग्यकृता ? इति प्रश्नार्थः ।
कर्मव्यतिहार इति । क्रियाव्यतिहारे इत्यर्थः । तत्र द्विर्वचनं नित्यम्, समासवद्भावस्तु बहुलम् । तत्रान्योऽन्यशब्दे समासवद्भावाभावात्सुब्लुक्, समासान्तोदात्तत्वं च न भवति, आम्रेडितानुदात्तत्वं भवति । इतरेतरशब्दे तु नित्यः समासवद्भाव इति सुब्लुक्समासस्वरौ भवतः । अन्योऽन्यमिति . द्वितीयैकवचनान्तस्य द्विर्वचनम् । अन्योऽन्यस्येति । षष्ठ्येकवचनान्तस्य । अन्योऽन्यसम्बन्धिनः पुत्रादीनित्यर्थः । स्त्रीनपुंसकयोरिति । उत्तरपदस्थाया विभक्तेराम्भावः; अन्यथाऽनेकालत्वात्स सर्वस्योत्तरपदस्य स्यात् । तत्र `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पूर्वोत्तरपदयोर्द्वयोरपि पुंवद्भावे कृते पक्षे आम्विधिः । अन्याशब्दस्य तु द्विर्वचने समासवद्भावाभावाद्वहुलवचनात्स्त्रियां टापो निवृत्तिः । नपुंसके च `अद्डुतरादिभ्यः' इत्यस्य निवृत्तिः । वार्त्तिकेषु `कर्मधारयवत्' इति न सम्बध्यत इति सुब्लुगादि न भवति ।।
अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ।। 8.1.13 ।।
प्रियप्रियेणेति तृतीयैकवचनान्तस्य द्विर्वचने कर्मधारयवद्भावात् सुब्लुकि पुनस्तदेव वचनम् । अत्यन्तदयितमपि वस्त्वनायासेन ददातीत्यर्थः ।।
यथास्वे यथायथम् ।। 8.1.14 ।।
`यथास्वे' इति `यथाऽसादृश्ये' इति वीप्सायमव्ययीभावः । स्वशब्द आत्मवचनः, आत्मीयवचनो वेति दर्शयति । यो य आत्मेति । ज्ञातिधनवचनस्य तु ग्रहणं न भवति; द्विर्वचनस्य तत्रासमर्थत्वात् ।।
द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ।। 8.1.15 ।।
पूपवदस्येति । द्वि औ द्वि स्थिते कर्मधारयवद्भावात्सुब्लुकि कृते पूर्वपदावयवभूतस्येकारस्याम्भावः, उत्तरपदावयवस्य चात्वं निपात्यते, चकारान्नपुंसकत्वम्, क्वचिदेकवद्भावश्च निपात्यते, समासान्तोदात्तत्वं तु कर्मधारयवद्भावाद् भवति । तत्र रहस्यं द्वन्द्वशब्दवाच्यमिति । द्वाभ्यां निर्वृत्ते रहस्ये योगरूढिरेपेत्यर्थः । द्वन्द्वं मन्त्रयन्त इति । द्वौ द्वौ भूत्वा मन्त्रयन्त इत्यर्थः । एवं हि तद्रहस्यं भवति । आचतुरमिति । आङभिविधौ । चतुर्णां पूरणे चतुः शब्दो द्रष्टव्यः, आचतुर्थादित्यर्थः । द्वन्द्वं मिथुनीयन्तीति । मिथुनशब्देन मैथुं तत्कर्म लक्ष्यते, तदिच्छतीति क्यच्, प्रायेण मिथुनायन्त इति क्यङन्तं पठ्यते, तत्रोपमानार्थो मृग्यः । माता पुत्रेणेत्यादिना मर्यादावचने व्यनक्ति । तत्पुत्रेणापीति । एतावदेव पशूनामायुः । द्वन्द्वं व्युत्क्रान्ता इति । द्वौ पक्षौ भूत्वा पृथगवस्थिता इत्यर्थः । स्वार्थे द्विर्वचनमेकवद्भावश्चेति । द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति = सादयति, न्यञ्चि=न्यग्भूतानि, अवाग्बिलानि । द्वन्द्वं स्फ्यश्च कपालानि चेति द्वेद्वे इत्यर्थः । अत्र वीप्सायां द्विर्वचनम्, अम्भावादि, एकवद्भावश्च । द्वावभिव्यक्तौ साहचर्येणेत्यर्थ इति । अत्र स्वार्थे द्विर्वचनमेकवद्भावादिकं सर्वं निपात्यते ।
द्वन्द्वं युद्धमिति । अत्रापि वीप्सायां द्विर्वचनम् । द्वन्द्वानि सहन्त इति । शीतमुष्णं चेत्येकं द्वन्द्वम्, सुखदुः खे चापरम्, क्षुत्तृष्णे चापरम् । अत्रापि स्वार्थे द्विर्वचनमेकवद्भावादि, तत्रैकशेषवशाद्वहुत्वम् । चार्थे द्वन्द्व इति । द्वे चार्थनिर्द्दिष्टे पदे समस्ते द्वन्द्वः । अत्रापि स्वार्थे द्विर्वचनादि, पुंस्त्वं च ।।
पदस्य ।। 8.1.16 ।।
प्रागपदान्ताधिकारादिति । `अपदान्तस्य मूर्द्धन्यः' इत्यत्र तु प्रकरणे विरोध्युपादानान्नादिक्रियते । पचन्तौ, यजन्ताविति । संयोगान्तस्थेऽपि लोपो न भवति । एवं राजानावित्यत्र नलोपो न भवति, प्रशामावित्यादौ `मो नो धातोः' इति नत्वं न भवति । अनन्तरेषु योगष्वामन्त्रितादेः सुबन्तस्य तिङन्तस्य च पदस्यैव कार्यविधानात्तेषामुल्लङ्घनम् । न च समर्थपरिभाषोपस्थानंम तेषु प्रयोजनम्, अनन्तरेणाप्येतं वस्तुतः पदकार्यत्वादेव सिद्धेः । किञ्च---`समानवाक्ये निघातयुष्मपदस्मादादेशाः' इति वक्ष्यते । कुत्वादीनि त्ववयवस्य भत्वेऽपि समुदायस्य पदत्वाश्रयेणेष्यन्त एव---वक्तरि, दोग्धरीति । तस्मान्न भसंज्ञकव्यावृत्तिरपि प्रयोजनम् ।
`षष्ठी स्थानेयोगा' इति वचनात् `पदस्य' इति स्थानषष्ठी, ततश्च `उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' इत्यस्यायमर्थो भवति---उदात्तस्वरितयोर्योयण् ततः परो योऽनुदात्तस्तदन्तस्य पदस्य स्वरितत्वमलोऽन्त्यस्य भवतीति । ततश्चात्रैव स्यात्---कुमार्याविति; कुमार्य इत्यत्र न स्यात्, सकारो ह्यत्र पदस्यान्तः, हल्स्वरप्राप्तौ च व्यञ्जनमविद्यमानवद्भवति । एवम् `एकादेश उदात्तेनोदात्तः' इत्यत्रापि अयमर्थो भवति---उदात्तानुदात्तयोर्य एकदेशस्तदन्तस्य पदस्यालोन्त्यस्यादेशो भवतीति । तदश्चेहैव स्यात्---वृक्षाविति; वृक्षानित्यत्र न स्यात्, नकारो ह्यत्र पदस्यान्त्यः ? ---इत्याशङ्क्याह---वक्ष्यमाणवाक्यापेक्षयेति । अमयभिप्रायः---अधिकारोऽयं परार्थः, परिभाषापि परार्था, ततश्च `गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्' इति न्यायेन नात्र स्थानेयोगपरिभाषोपतिष्ठते । यत्र त्वस्या अधिकारो वक्ष्यमाणेषु वाक्येषु तेत्वेवोपस्थानम्, तत्र विशेषणविशेष्यभावे कामचाराद्यणेकादेशस्वरयोः `पदस्य' इत्यनुवृत्तं कार्यिविशेषणार्थम्, न तु कार्यप्रतिपत्त्यर्थम् । तेन पदावयवयोरनुदात्तैकादेशयोः स्वरविधानादनन्त्ययोरपि भवति । संयोगान्तलोपादौ तु संयोगादिना पदस्य विशेषणात् स्थानषष्ठी, तस्माद्वक्ष्यमाणानि वाक्यान्यपेक्ष्य पर्यालोच्य पदस्येति षष्ठ्या अर्थो व्यवस्थाप्यः, न त्वेतत्सूत्रपर्यालोचनयेति । व्यवस्थामेव दर्शयति---क्वचिदिति । यद्येषा स्थानषष्ठ्येव स्यात् `नलोपः प्रातिपदिकान्तस्य' इत्यत्रान्तग्रहणमनर्थकं स्यात् । तद्धि पदान्तस्य यथा स्यात्, पदावयवस्य मा भूदित्येवमर्थम् । स्थानषष्ठ्यां तु `अलोन्त्यस्य' इत्यस्य सिद्धत्वादन्तग्रहणमनर्थकं स्यात् । तस्मादन्तग्रहणात् क्वचिद्विशेषणषष्ठ्यपि विज्ञायते ।।
पदात् ।। 8.1.17 ।।
प्राक् कुत्सने च सुप्यगोत्रादावित्येतस्मादिति । यदि त्वत्र पदादित्येतदनुवर्तेत, यत्पचति पूतीत्यत्रैव तिङन्तस्य निघातः स्यात्, न तु पचति पूतीत्यत्र ।।
अनुदात्तं सर्वमपादादौ ।। 8.1.18 ।।
यत्ते नियतमित्यादि । अत्र मृत्यो इत्यस्य पादादौ निघाताभावः, यदङ्गदाशुषे त्वमित्येकः पादः, अग्ने इत्यपरः, अग्ने भद्रं करिष्यतीत्यादीनि चोदाहरणानि ।
रुद्रो विश्वेश्वर इत्यादि । अत्र युष्माकम्, असमाकमित्यनयोरादेशाभावः ।
ऋक्पादः श्लोकपादश्च गृह्यते इति । विशेषानुपादानात् । अथ सर्वग्रहणं किमर्थम्, यावता `अननुदात्त पदमेकवर्जम्' इति वचनादेकस्मिन्पदे एक एवोदात्तः स्वरितो वा सम्भवति । ये तु द्व्युदात्ताः---`उभे वनस्पत्यादिषु युगपत्' इति, न येषामत्र प्रकरणे क्वचिदनुदात्तत्त्वं विधीयते । यदा तु तेषामामन्त्रितत्वम्, तदा द्व्युदात्तत्वमेव । इदं तर्हि प्रयोजनम्---अनादेरप्युदात्तस्यानुदीत्तत्वं यथा स्यात्, अन्यथा पदीदित्यधिकाराद् `आदेः परस्य' इत्यादेरेव स्यात्, ततश्च `तिङ्ङतिङः' इति इहैव स्यात्---देवदत्तः पचतीति, अत्र हि शप्तिपावनुदात्तौ, धातोः स्वरः; इह तु न स्यात्---देवदत्तः करोतीति, विकरणस्वरेण मध्योदात्तमेतत् पदम् । सर्वग्रहणे तु सति पदस्य सर्वोऽवयवोऽनुदात्तो भवतीत्यर्थः संपद्यते, लुटि प्रतिषेधात्सिद्धम्, यदयं `न लुट्' इति प्रतिषेधं शास्ति, तज्झापयति---`नात्रादेः परस्येत्येतद्व्याप्रियते' इति । न हि लुडन्तं किञ्चिदाद्युदात्तमस्ति । एवमपि ज्ञापकेनापवादे आदिविधावपनीते अलोऽन्त्यस्यैव स्वाद्---उभो कुरुत इत्यादौ ? अत्र असार्वधातुकस्य प्रत्यस्वरेणान्तोदात्तत्वं विकरणस्य तु निघातः, न तु विकरणस्वरः सतिशिष्टोऽपि सार्वधातुकस्वरं बाधते, तासेः लसार्वधातुकानुदात्तत्वविधानेन ज्ञापनात् । एवं तहि लृटि प्रतिषेधात्सिद्धम्, यदयं `गत्यर्थलोटा लृण्न चेत्' इति लृडन्तस्य प्रतिषेधं शास्ति, तज्ज्ञापयति---नात्र `अलोऽन्त्यस्य' इत्येतद्व्याप्रियत इति, न हि लृडन्तं किञ्चिदन्तोदात्तमस्ति, अदुपदेशात्परं लसार्वधातुकं निहन्यते ? नैतदस्ति; ज्ञापकमिडर्थमेतत् स्यात् भोक्ष्य इति । एतद्धषेकादेशस्वरेणान्तोदात्तम् ।
एवं तर्ह्युक्तमेतत्---पदस्येति क्वचिद्विशेषणषष्ठ्यपि भवति न स्थानषष्ठ्येवेति, ततः किम् ? अनुदात्तविधौ विशेषणषष्ठ्याश्रयिष्यते, तत्सामानाधिकरण्यात्तिङिति षष्ठ्यर्थे प्रथमा, तिङन्तस्य पदस्यावयवोऽजनुदात्तो भवतीत्यर्थः, तत्र स्थानषष्ठ्यभावाद् `अलोऽन्त्यस्य' इति न प्रवर्त्तते, तस्मान्नार्थः सर्वग्रहणेन ? इत्यत आह---सर्वग्रहणमित्यादि । असति सर्वग्रहणे यत्र विधेयान्तरं नास्त्यामन्त्रितस्येत्यादौ, तत्रैवानुदात्तत्वं विधीयेत । तत्र ह्येतद्विधानार्थमामन्त्रिताद्यनूद्यते, विधेयान्तरसद्भावे तु न तस्यानुदात्तत्वं विधीयेत; वाक्यभेदप्रसङ्गात् । तथा हिसिद्धस्य वस्तुनो धर्मान्तरं शक्यते विधातुं नासिद्धस्य, न ह्यसति कुड्ये चित्रकर्म; ततश्च वांनावादय एकेन वाक्येन विधेयाः, अपरेण च तेषामनुदात्तत्वमिति वाक्यभेदः । विशिष्टविधानेऽप्यनेकार्थविधानाद्विधिगौरवलक्षणो वाक्यभेदः स्यादेव । सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते । सति तु सर्वग्रहणे तन्सामर्थ्याद्वाक्यभेदः सह्यते ? इत्याह---तेनेति ।
प्रयोजनान्तरमाह---युष्मदस्मदादेशाश्च सवस्य सुबन्तस्य यथा स्युरिति । अन्यथा केवलयोर्युष्मदस्मदोरेव स्युः, षष्ठ्येकवचने ङसोऽसि `ङसिङसोश्च' इति पूर्वैकादेशे यद्यपि दोषाभावः; तथापि वचनान्तरे दोषप्रसङ्गः । सर्वग्रहणेन तु सति युष्मदस्मद्भ्यां तदवयवकं पदं लक्ष्यत इति सर्वस्य पदस्य वांनावादयो भवन्तीति । ननु न पदस्येति वर्तते, विभक्त्यन्तं च पदम्, तत्रान्तरेणापि सर्वग्रहणं विभक्त्यन्तस्य भविष्यति ? इत्यत आह---यत्रापीति । भवेदेवं यत्र विभक्त्यन्तं पदम्, यत्र तु विभक्तौ पदं तत्र युष्मदस्मदोरेव प्रसङ्ग इत्यर्थः । ग्रामोवां दीयत इति । चतुर्थोद्विवचने, `स्वादिषु' इति पूर्वं पदं भवति ।।
आमन्त्रितस्य च ।। 8.1.19 ।।
सर्वमनुदात्तं भवतीति । आमन्त्रितसम्बन्धिनः सर्वेऽचोऽनुदात्ता भवन्तीत्यर्थः । एतच्चानुवृत्तस्य सर्वशब्दस्यान्वयमात्रं प्रदर्शितम्, न त्वत्रास्योपयोगः कश्चित् ।
समानवाक्य इत्यादि । अर्थैकत्वादिकं लौकिकं वाक्यलक्षणम्, इह तु पारिभाषिकं वाक्यम् । आख्यातं साव्ययकारकविशेषणं वाक्यमिति, आख्यातमित्येकत्वं विवक्षितम्, निमित्तनिमित्तिनोः समान एकस्मिन्वाक्य आधारभूते सति निघातादयो भवन्तीति वक्तव्यम्, किमर्थमित्याह---इहेति । `भवतीह विष्णुमित्रः, देवदत्तागच्छ' इति वाक्यद्वयमेतत्; तिङन्तद्वययोगात् । तत्र देवदत्तेत्यस्यामन्त्रितस्य निघातो न भवति । ननु च पदविधिरयम्, ततश्चासामर्थ्यादेवात्र न भविष्यति, अस्त्यत्र सामर्थ्यं विष्णुमित्रमन्विष्यान्यत्र गच्छन्तं देवदत्तं प्रतीदमुच्यते, ततश्च विष्णुमित्रस्येह भवनं देवदत्तागमनस्य निमित्तत्वेनोच्यत इतियस्ति व्यपेक्षा । क्वचिदेतदुदाहरणं न पठ्यते । अयं दण्ड इति । अस्तीति गम्यमानत्वादेतावदेकं वाक्यम् । अत्राप्यनेनेति सर्वनाम्ना परमृष्टस्य दण्डस्य करणत्वादस्ति सामर्थ्यमिति तिङन्तस्य निघातप्रसङ्गः । ओदनं पचेति । त्वत्कर्तृकत्वेन त्वत्स्वामिको मत्स्वामिकश्चौदनो भविष्यतीत्येवं पाकस्य युष्म दस्मदर्थस्य च व्यपेक्षाऽस्तीत्यादेशप्रसङ्गः, एवमतिप्रसङ्गपरिहारः प्रयोजनमित्युक्तम् । इदानीमव्याप्रिपरिहारोऽपि प्रयोजनमित्याह---इह चेति ।
किं पुनः कारणमेषूदाहरणेषु निघातादयो न स्युरित्यत आह---आमन्त्रितान्तमित्यादि । इह स्थिता मातेत्यन्वयः, न त्विह देवदत्तेति; नद्याः कूलमित्यन्वयः, न नद्यास्तिष्ठतीति; शालीनामोदनमित्यन्वयः, न शालीनां ते इति, ततश्चासामर्थ्यान्न स्युरित्यर्थः ।।
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नवौ ।। 8.1.20 ।।
द्विवचनान्तयोरेवेति । तेन वचनान्तरेणोदाहृतमिति भावः ।
स्थग्रहणमनर्थकम्, षष्ठ्यादिष्वादेशविधानादेव तात्स्थ्यंसिद्धेः ? इत्यत आह---स्थग्रहणमिति । श्रूयमाणविभक्तिकयोरेवादेशा यथा स्युः, लुप्तविभक्तिकयोर्मा भूवन्नित्यर्थः । श्रूयमाणायां हि विभक्तौ तत्स्थत्वं भवति, न पुनर्लुप्तायाम् । पत्ययलक्षणेनापि कार्यं शास्त्रं वाऽतिदिश्यते, न तात्स्थ्यम् । यदि वा तिष्ठतिरवमविहानावपि दृष्टः, यथा---समये तिष्ठ सुग्रीवेति, समयं मा विहासीरित्यर्थः । तेनायमर्थः---षष्ठीचतुर्थीद्वितीया अजहतोर्युष्मदस्मदोरादेशा भवन्तीति । इति युष्मत्पुत्र इति । इतिशब्दात्पदात्परयोः षष्ठ्यन्तयोर्युष्मदस्मदोः प्रत्ययलक्षणेन वान्नावौ न भवतः ।।
न चवाहाहैवयुक्ते ।। 8.1.24 ।।
चः समुच्चये, वा विकल्पे, ह अहेत्यद्भुते, ह खेदे च, एवोऽवधारणे । एभिर्युक्त इति । एभिर्योगे सतीत्यर्थः । यद्वा---एभिर्युक्ते युष्मदस्मदारर्थ इत्यर्थः । युक्तग्रहणमनर्थकम्, तृतीयानिर्द्देशत एव सिद्धम्, यथा `तुल्यार्थैरतुलोपमाभ्याम्' इत्यत्र ? इत्यत आह---युक्तग्रहणमिति । यदा युष्मदस्मदर्थगतान्समुच्चयादींश्चादयो द्योतयन्ति, तदा तैस्तयोः साक्षाद्योगः; तत्रैवायं प्रतिषेधो यथा स्यात्, युक्तयुक्ते मा भूदित्येवमर्थ युक्तग्रहणमित्यर्थः । एतदेव युक्तग्रहणं लिङ्गम्---अत्र प्रकरणे युक्तयुक्तस्यापि ग्रहणमिति, तेनोत्तरः प्रतिषेधो युक्तयुक्तेषु भवति ।।
पश्यार्थैश्चानालोचने ।। 8.1.25 ।।
दर्शनम् = पश्यः । अस्मादेव निपातनाद् भावे शप्रत्ययः, पाघ्रादिसूत्रेण पश्यादेशः, पश्योऽर्थो तेषां ते पश्यार्थाः, तदाह---पश्यार्था दर्शनार्था इति । यदि तु `पाघ्राध्माधेट्दृशः शः' इति कर्त्तरि शप्रत्ययः स्यात्, ततो द्रष्ट्रर्थैरित्यर्थः स्यात्, तथा चालोचनपर्युदासोऽनर्थकः स्यात्, न ह्यालोचनार्था द्रष्ट्रर्था भवन्ति । दर्शनं ज्ञानमिति । यद्यपि दृशिश्चक्षुर्विज्ञाने प्रसिद्धः, तथापि तस्य पर्युदासात् ज्ञानमात्रे दृशिरिह वर्तत इत्यर्थः । ग्रामः = जनसमुदायः । समीक्ष्य मनसा निरूप्येत्यर्थः ।।
सपूर्वायाः प्रथमाया विभाषा ।। 8.1.26 ।।
विद्यमानपूर्वादिति । `तेन सहेति तुल्ययोगे' इत्यत्र `तुल्ययोगे' इत्यपाधेः प्रायिकत्वाद्विद्यमानवचनस्यापि सहशब्दस्य समासः, `वोपसर्जनस्य' इति सभावः ।
युष्मदस्मदोर्विभाषाऽनन्वादेश इति । येयं युष्मदस्मदोर्विभाषा साऽनन्वादेशे भवति, अन्वादेशे तु नित्यमादेशविधिरित्यर्थः ।
अपर आहेति । पूर्वस्यैव वाक्यस्य व्याख्यानान्तरम् । पूर्व विभाषाऽनुवादेन `विषयो नियम्यते' इत्युक्तम्, इदानीं तु `विशिष्टे विषये विकल्प एव विधीयते' इत्युच्यते । न केवलं सूत्रोक्तविषये ये प्राप्तास्त एव विकल्प्यन्ते, अपि तु सर्वे सर्वविषया इत्यर्थः ।
न तर्हीति । वक्तव्येनैव सिद्धत्वादिति भावः । अन्वादेशार्थमिति । ननु पूर्वम् `अन्वादेशे सूत्रं न व्याप्रियते, इत्युक्तम्, इदानीं तु `तत्राव व्याप्रियते' इत्युच्यते, तत्कोऽत्र निर्णयः ? इत्याह---तदयमिति । तदिति तत्रेत्यर्थे । वाक्योपन्यासे वा । पूर्वा व्याख्यया बाध्यत इत्यर्थः ।।
तिङो गोत्रादीनि कुत्सनाऽऽभीक्ष्ण्ययोः ।। 8.1.27 ।।
पचति गोत्रमिति । पचिर्व्यक्तीभावे, यथा---लोकपक्तिरिति, भोजनाद्यर्थं गोत्रं ख्यापयतीत्यर्थः, एवं हि कुत्सा भवति । पचतिपचति गोत्रमिति । विवाहादिविषये पुनः पुनर्गोत्रं ख्यापयतीत्यर्थः । तत्र कुत्साया अभावादाभीक्ष्ण्यग्रहणम् । `नित्यवीप्सयोः' इति द्विर्वचनम् । ब्रुवशब्दः कुत्सितवचनः, अत एवास्याभीक्ष्ण्ये पृथगुदाहरणं प्रदर्शितम् । पचति प्रवचनमित्यादावात्मप्रशंसया कुत्सा । प्रवचनम्=अध्यापनम् ।
`वा नाम' इति गणसूत्रं व्याचष्टे---नामेत्येतदिति । पचति पापमिति । पापमिति क्रियाविशेषणम् । खनति गोत्रं समेत्य कूपमिति । गोत्रं कुलं समुदितं भूत्वा कूपं खनतीत्यर्थः ।
किमिदं कुत्सनाऽऽभीक्ष्ण्यग्रहणं गोत्रादीनां पाठविशेषणम्---एतयोरर्थयोर्गोत्रादीनि भवन्ति, तानि च तिङः पराण्यनुदात्तानि भवन्तीति ? आहोस्विदनुदात्तविशेषणम्---तिङः पराणि गोत्रादीनि अनुदात्तानि भवन्त्येतयोरर्थयोरिति ? अस्मिन्विवादे निर्णयमाह---कुत्सनाभीक्ष्ण्यग्रहणं चेति । पठ्यत इति पाठः, सन्निवेशविशेषः । तस्य विशेषणं वेदितव्यम् । अयं चार्थो योगविभागाल्लभ्यते, `तिङो गोत्रादीनि' इत्येको योगोऽनुदात्तविधानार्थः, `कुत्सनाभीक्ष्ण्ययोः' इति द्वितीयो योगः, गोत्रादीनीत्येव, परिभाषेयम् । इह शास्त्रे गोत्रादीनि कुत्सनाभीक्ष्ण्यविषयाण्येव ग्राह्याणीति, तेन किं सिद्धंभवति ? इत्यत आह---तेनेति । अन्यत्रापीति । `चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः', `कुत्सने च गोत्रादौ' इत्यत्र ।।
तिङ्ङतिङः ।। 8.1.28 ।।
भवति पचतीति । पचतीत्येतद्भवति, पाकक्रिया भवतीत्यर्थः । तत्र साध्यसाधनभावेन द्वयोः क्रिययोरन्वयादस्ति सामर्थ्यम् । यथोक्तम्---पच्यादिक्रिया भवतिक्रियायाः कर्त्र्यो भवन्तीति । तत्र पाकस्य स्वसाधनानि प्रति साध्यस्यापि भवनं प्रति सिद्धत्वम् । यथाह भर्तृहरिः---
`तत्र यं प्रति साध्यत्वमसिद्धं तं प्रति क्रिया ।
सिद्धा तु यस्मिन्साध्यत्वं न तमेव पुनः प्रति' ।। इति ।
अस्त्येतत् ? किम् ! तर्हि अतिङ्ग्रहणमनर्थकम्; समानवाक्याधिकारात्, `समानवाक्ये' इति वर्त्तते, न चैकस्मिन्वाक्ये तिङन्तद्वयमस्ति, तदुक्तं पुरस्तात् । सूत्रकारेण तु समानवाक्याधिकारो न कृत इत्यतिङ्ग्रहणमकारि ।।
न लुट् ।। 8.1.29 ।।
श्वः कर्त्तेत्यादि । अथात्र निघाते प्रतिषिद्धेकः स्वरः श्रूयते ? इत्याह---तासेः परस्येति ।।
नीपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् ।। 8.1.30 ।।
यद्यदार्थे च हेतौ च विचारे यदिचेच्चणः ।
हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ।।
कच्चित्प्रश्ने नेन्निषेधे प्रशंसायां कुवित्स्मृतम् ।
यत्राधारे निपातत्वं यदादीनां विशेषणम् ।।
समासे गुणभूतानामपि गत्यन्तरं न हि ।
नैव वाऽथं समासः सुबव्ययत्वेन लुप्यते ।।
तत्र बह्वृचाः---`नेच्चेद्' इति निपातसमाहारमधीयते---नेदेवमायुनजन्नत्र देवाः । अन्यश्चेन्नाभिगच्छतीति चेदर्थे वर्त्तत इति । य एव समुच्चयादिषु दृष्टश्चशब्दः स एव चेदर्थे वर्त्तते, तदर्थवर्त्तिनस्तु चिह्नं णकारः । तथा च चादयोऽनुदात्ता इत्ययं चेदर्थोऽप्यनुदातः, इन्द्रश्च मृडयाति नः; नतः पश्चादघं नशत्, इन्द्रश्चेदस्मान्मृडयेत्, सुखयेदित्यर्थः । त्वं च सोम नो वशो जीवातुं न मरामहे---हे सोम त्वं चेदस्मान् जीवातुं जीवितुं वशः उश्याः कामयेथा इत्यर्थः ।
समुच्चयादिषु यश्चशब्द इति । एष्वर्थेषु न भवतीत्यर्थः । उदाहरणेषु करोतिशब्दो विकरणस्वरेण मध्योदात्तः । भुङ्क्त इति । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । अधीत इति । `अहन्विङोः' इति लसार्वधातुकानुदात्तत्वप्रतिषेधादन्तोदात्तः । इणः शतरि रूपमिति । `इणो यण्' इति यणादेशः । ननु प्रतिपदोक्तत्वाद्यद्यादिभिः साहचर्याच्च निपातस्यैव ग्रहणं भविष्यति ? एवं तर्ह्येतज्ज्ञापयति---अत्र प्रकरणे नेदमुभयं व्यवस्थापकमिति । तेन `यावद्यथाभ्याम्' इत्यत्र `यत्तदेतेतेभ्यः परिमाणे वतुप्' इति व्युत्पादितस्य लाक्षणिकस्यानिपातस्यापि यावच्छब्दस्य ग्रहणं भवति---तावदुषो राधो अस्मभ्यम्, रास्व यावत्स्तोतृभ्यो अरदो गृणाना इति; यावतोऽश्वान् प्रतिगृह्णीयादिति च ।
यत्र क्व चेति । अत्र यत्रेत्यस्य उत्तरमित्यनेन साक्षात्सम्बन्धः । दधस इति । `तध धारणे' अनुदात्तेत् । इह---
हन्ताऽहं पृथिवीमिमां निदधानीह वेह वा ।
हन्तो नु किमास से प्रथमं नो रथं कृधि ।। इति छान्दसत्वान्निघातः ।।
नह प्रत्यारम्भे ।। 8.1.31 ।।
नहेति निपातसमाहारः प्रतिषेधे वर्त्तते । प्रत्यारम्भः=पुनरारम्भः । तस्य विषयमाह---चोदितस्येति । भुङ्क्ष्व, अधीष्वेत्येवं चोदितस्य कर्तष्यतयोपन्यस्तस्य भोजनादेरवधीरणेऽवज्ञाते सति तस्यावधीरयितुरुपालिप्सया=उपालब्धुमिच्छया तस्यैव भोजनादेः प्रतिषेधेन सम्बन्धः प्रत्यारम्भः, पुनरुपन्यासः क्रियते इति यावत् ।।
अङ्गाप्रातिलोम्य ।। 8.1.33 ।।
प्रातिलोम्यम्=प्रतिकूलकारित्वम्, ततोऽन्यदभिमतकारित्वमप्रातिलोम्यम् । एवं चानुलोम्य इति वक्तव्यम् । अङ्गशब्द उदाहरणेऽनुज्ञायाम् । प्रत्युदाहरणे त्वमर्षे ।।
हि च ।। 8.1.34 ।।
हिशब्दोऽवधारणे हेतौ वा, स च प्रत्युदाहरणे त्वमर्षे ।।
छन्दस्यनेकमपि साकाङ्क्षम् ।। 8.1.35 ।।
अत्र हेतुहेतुमद्भावस्य द्योतको हिरित्यनेकमपि तिङन्तं हियुक्तं भवति । तत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते क्वचिदनेकस्य क्वचिदेकस्य यथा स्यादिति वनचम् । तदाह---कदाचिदिति । तत्र छन्दसि दृष्टानुविधानाद्यथाप्रयोगं व्यवस्था । अनृतं हीति । पाप्मा = मद उच्यते । यस्मादसौ मत्तोऽनृतं वदति तस्मादनृतवदनदोषेण युज्यत इत्यर्थः ।
उदजयदित्याद्युदात्तमिति । अत्राजयदित्याद्युदात्तमित्यर्थः । अजनिष्ट गर्भमिति अन्तर्भावितण्यर्थत्वाज्जनेरत्र सकर्मकत्वम् ।।
यावद्यथाभ्याम् ।। 8.1.36 ।।
यावत्साकल्ये, अध्यवसाये वा, यथा योग्यतादिषु । `यावद्यथाभ्याम्' इति तृतीयेति दर्शयितुं परभूतयोरपि प्रयोग उदाहृतः । तेनैतदपि न चोदनीयम्---`यद्वृत्तान्नित्यम्' इत्येव यथाशब्दे यावच्छब्दे च वतुबन्तै सिद्धः प्रतिषेध इति ।।
पूजायां नानान्तरम् ।। 8.1.37 ।।
द्वौ प्रतिषेधौ प्रकृतमर्थं गमयत इत्याह---कि तर्ह्यनुदात्तमिति । यावद्देवदत्त इति । ननु चोत्तरत्र नियमो विज्ञास्यते---व्यवाये यदि भवति उपसर्गेणैवेति ? एवं तर्ह्युत्तरत्रास्य प्रयोजनम्---उपसर्गव्यपेतस्य यावद्यथाशब्दयोश्च मध्ये शब्दान्तरं मा भूत् । अथ तु `व्यवाये यदि भवति उपसर्गेणैव' इत्यस्मादेव नियमात्तत्राप्रसङ्गः ? ततोऽनन्तरग्रहणं शक्यमकर्त्तुम् ।।
उपसर्गव्यपेतं च ।। 8.1.38 ।।
व्यवायः = व्यवधानम् । अनन्तरमित्येवेति । तच्चानन्तर्यं सोपसर्गस्य, न तिङन्तमात्रस्य ।।
तुपश्यपश्यताहैः पूजायाम् ।। 8.1.39 ।।
तुप्रभृतीनि पूजाविषयाणि । माणवकस्तु भुङ्क्त इति । आश्चर्ये तुशब्द इति भोजनस्य पूजा गम्यते, एवमन्यत्रापि---पश्य मृगो धावतीति । तत्त्वकथनमेतत् ।
ननु `पूजायां नानन्तरम्' इत्यतः पूजायामित्यनुवर्त्तत एवं, तत्किं पूजायामित्यनेन ? तत्राह---पूजायामिति वर्तमान इति । तद्धीति । ततश्च तदनुवृत्ताविहापि `न लुट्' इत्यादिके विषये प्रतिषेधस्य प्रिषेधः स्यात्, मा भूदेवम्; निघातस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं पूजाग्रहणमित्यर्थः । किञ्च---अनन्तरमित्येवं तदभूत्, इह त्वविशेषेणेष्यते ।।
अहो च ।। 8.1.40 ।।
पृथग्योगकरणमुत्तरार्थमिति । उत्तरो योगोऽहोयोग एव यथा स्यात्, तुप्रभृतिभिर्योगे मा भूत् ।।
शेषे विभाषा ।। 8.1.41 ।।
अशूयावचनमेतदिति । अनाश्वर्यभूतमेव वस्त्वसूयन्नाश्चर्यवत्प्रतिपादयतीत्यर्थः ।
शेषवचनं किम्, यावता योगविभागसामर्थ्यादेव पूर्वप्रकृतेषु किञ्चिन्नानुवर्त्तत इति ज्ञातम्, तत्र चानुकृष्टत्वात् `पूजायाम्' इत्येतन्निवर्तिष्यते ? अत आह---पूजायामित्यस्येति ।।
पुरा च परीप्सायाम् ।। 8.1.42 ।।
पुराशब्दोऽत्र भविष्यदासत्ति द्योतयतीति । भविष्यतो विद्योतनादेरध्ययनान्तरायभूतस्याचिरकालभावित्वं द्योतयति, तेनात्र त्वरा गम्यते इति भावः । विद्योतनादावध्ययनं धर्मशास्त्रे प्रतिषिद्धम्, अतस्तदुपन्यासेन त्वरितमधीष्वेति गम्यते इत्यर्थः । उदाहरणे `यावत्पुरानिपातयोः' इति भविष्यदर्थे लट्, प्रत्युदाहरणे `लट् स्मे' इति । अत्र भूतकालविप्रकर्षमिति । भूतस्याध्ययनस्य चिरकालप्रवृत्तत्वं द्योतयति । तेन नात्र त्वरा गम्यत इति भावः ।।
नन्वित्यनुज्ञैषणायाम् ।। 8.1.43 ।।
किंचित्कर्तु स्वयमेवोद्युक्तस्यैवं क्रियतामित्येवं रूपोऽभ्युपगमः = अनुज्ञा । सूत्रार्थमुदाहरणेन दर्शयति---करणं प्रतीति । उपलक्षणमेतत्, करणगमने प्रतीत्यर्थः । उदाहरणे `वर्त्तमाने लट्' । प्रत्युदाहरणे तु भूते `ननौ पृष्टप्रतिवचने' इत्येनेन ।`अङ्गाप्रतिलोम्ये' इत्यादिवत् सिद्धे इतिकरण एकनिपातोऽयमिति दर्शनार्थः; अन्यथा द्वयोरपि निपातयोर्ग्रहणं सम्भाव्येत ।।
किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषइद्धम् ।। 8.1.44 ।।
अप्रतिषिद्धमिति । अप्रतिषिद्धार्थमित्यर्थः ।
पूर्वं किंयुक्तमिति । तत्समीपे किमः श्रूयमाणत्वात् । उत्तरं तु न किंयुक्तमिति । विपर्ययात् ।
अपरे इत्यादि । न समीपे श्रूयमाणत्वं किंशब्देन सम्बन्धे हेतुः, किन्तु संशयविषयत्वम् । तच्च द्वितीयस्याप्यस्ति, अतस्तस्यापि तेन योग इत्युभयत्र प्रतिषेध इत्यर्थः । ये त्वाहुः---पूर्वं किंयुक्तमिति, ते मन्यन्ते---अस्तु द्वयोः संशयविषयत्वम्, किंशब्देन तु समीपे श्रुतक्रियाविषय एव प्रश्नो द्योत्यते, क्रियान्तरविषयस्तु प्रश्न आहोस्विदित्यनेन, क्रियाप्रश्न इति चोच्यते, तस्मात्तस्यैव निघातप्रतिषेध इति ।।
लोपे विभाषा ।। 8.1.45 ।।
प्रकृतत्वात्किम एव लोपो विज्ञायत इत्याह---किमो लोप इति ।
क्व चास्येति । शास्त्रे क्वचिदपि किमो लोपस्याविहितत्वात् प्रश्नः । न शास्त्रीयस्यैवादर्शनस्य लोपसंज्ञा, किं तर्हि ? अदर्शनमात्रस्येत्युत्तरम् । यत्रेति । न च प्रयुज्यत इति । अर्थप्रकरणादिना गम्यमानत्वात् । उदाहरणे आहोस्विच्छब्दः पक्षान्तरप्रश्ने, स च नान्तरेण पूर्वप्रश्नमित्यर्थात् पूर्वत्र किमर्थो गम्यते, तदाह---विनैव किमेति ।
प्राप्तविभाषेयमिति । कथं पुनः प्राप्तिः, यावता किंशब्देन योगेन पूर्वो योगः ? तत्राह---किमर्थेनेति । पूर्ववत्प्रत्युदाहरणानीति । तान्येव किंशब्दरहितानीत्यर्थः ।।
एहिमन्ये प्रहासे लृट् ।। 8.1.46 ।।
एहिमन्य इत्यनेनेति । समुदायाभिप्रायमेकवचनम्, अन्यथा आख्याते द्वे आङ् चापर इति बहुवचनप्रसङ्गः । उदाहरणे `प्रहासे च मन्योपपदे' इत्यादिना पुरुषव्यत्ययः ।
सुष्ठु च मन्यसे इति । भूतमर्थं दर्शयन् प्रहासाभावमाह, अत एव पुरुषव्यत्ययोऽपि न कृतः ।
गत्यर्थलोटा लृडित्येव सिद्ध इति । आङ्पूर्वादिणो लोट्, सिपो हिः । अन्यत्र मा भूदिति । क्वान्यत्र मा भूत् ? वृत्तिकारेण यत्प्रत्युदाहृतम्--एहि मन्यस इत्यादि तत्र ।
कथं पुनरेहिमन्ये इत्यनेन योगनियमः क्रियमाण एहि मन्यस इत्यनेन योगनिवृत्तिं करोति ? इत्याह---उत्तमोपादानमतन्त्रमिति । अतन्त्रत्वे कारणमाह---प्रहास एव हीति । तन्त्रत्वे नियमस्य व्यावर्त्यं न सम्भवेदित्यर्थः । भाष्ये तु प्रत्युदाहरणेऽप्युत्तम एव प्रयुक्तः, तत्रायमर्थः---एहि रथेन त्वं यास्यसीत्येवमहं मन्य इति ।।
जात्वपूर्वम् ।। 8.1.47 ।।
जात्वित्येतदपूर्वमिति । अथ तिङन्तविशेषणमपूर्वत्वं कस्मान्न भवति, युक्तं चैतत्, विशषणेन सम्बन्धुं योग्ये सति निमित्तिनि निमित्तस्याप्रधानस्य न हि युक्तं विशेषणम् ? उच्यते; यदयम् `आहो उताहो चानन्तरम्' इत्यत्रानन्तरग्रहणं करोति, ततो ज्ञायते---निमित्तस्येदं विशेषणमिति; अन्यथा तत्रापि `अपूर्वम्' इत्यनुवृत्तेरेव केवलतिङन्तस्यानन्तय लभ्यत इति किं तेन ! ननु च शेषप्रक्लृप्त्यर्थं तत्स्यात्---`शेषे विभाषा', कश्च शेषः ? सान्तरः शेष इति ? अन्तरेणाप्यनन्तरग्रहणं प्रक्लृप्तः शेषः । कथम् ? अपूर्वमिति प्रकृतम्, सपूर्वः शेष इति ।।
किवृत्तं च चिदुत्तरम् ।। 8.1.48 ।।
वृत्तिमित्यधिकरणे क्तः, किमो वृत्तं किंवृत्तमिति, `अधिकरणवाचिनश्च' इति कर्त्तरि षष्ठी, `अधिकरणवाचिना च' इति समासप्रतिषेधे प्राप्तेऽस्मादेव निपातनात्समासः । यदि यत्र किंशब्दो वर्तते तत्सर्वं गृह्येत---किमीयः, कैमायनिः, किंतरामित्यादेर्ग्रहणप्रसङ्ग इति मत्वा परिसञ्चष्टे---किंवृत्तग्रहणेनेति । चिदुत्तरमित्येतत्किंवृत्तस्य विशेषणम्, न तिङन्तस्य; पूर्वोक्तात् सामान्यापेक्षया ज्ञापकात् ।।
आहो उताहो चानन्तरम् ।। 8.1.49 ।।
अपूविमित्येवेति । अत एवोताहोग्रहणम्, उतशब्दपूर्वत्वादाहोशब्दस्य ।।
शेष विभाषा ।। 8.1.50 ।।
कश्च शेष इति । बहूनां प्रकृतत्वात्प्रश्नः । यदन्यदन्तरादिति । प्रतिषेधस्य निमित्तभूतमाहो--उताहीग्रहणं तावदवश्यमनुवर्त्यम्, उताहोग्रहणाच्चापूर्वमित्यप्यनुवर्तते; तत्र पारिशेष्यादनन्तरापेक्ष एव शेष इति भावः ।।
गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् ।। 8.1.51 ।।
गमिना समानार्था गत्यर्था इति । अर्थप्रदर्शनमेतत्, गतिरर्थो येषामिति तु विग्रहः, गत्यर्थलोटा युक्तमिति योगः, पुनरर्थद्वारको निमित्तनिमित्तिभावः, लोडन्तवाच्यं हि निमित्तं लृडन्तवाच्यस्य । न चेत्कारकं सर्वंमन्यद्भवतीति । सर्वं चेत्कारकमन्यत्, तदा निघातप्रतिषेधो न भवतीति भावः । अत्र---
लोडन्ते च लृडन्ते च यावत्किञ्चन कारकम् ।
कृह्येत यदा तत्सर्वं वाच्यावाच्यविवेकतः ।।
तदेहापि तर्हि प्राप्नोति---
`वह ब्राह्मण शालींस्त्वं पितैतांस्तव भोक्ष्यते' इति ?
यत्र हि सर्वं भिद्यते, तत्रैव न भवितव्यम्, यथा वृत्तावुपन्यस्तयोः प्रत्युदाहरणयोः ।
न चात्र भिद्यते सर्वमभेदाच्छालिकर्मणः ।
अथायमर्थः स्यात्---सर्वस्मिन्कारकेऽनन्यस्मिन्नघातप्रतिषेधः, न तु क्वचिदपि भिन्न इति तदेहापि न स्यात्---आगच्छ देवदत्त ग्राममोदनं भोक्ष्यस इति, भिद्यते ह्यत्र कर्म, तस्माद्व्याख्येयमेतत् ? तत्राह---यत्रैवेति । एवकारेण वाच्यव्यतिरिक्तस्य निरासः, न तु सर्वस्यानन्यत्वं विवक्षितम्, तत्स्पष्टीकृतम् । कर्तृकर्मणी एवेति । एतच्च प्रत्यासत्तेर्लभ्यते, प्रत्यासन्नं हि तत्तस्य, यत्तेनैवाभिधीयते । उदाहरणेषु प्रथमतृतीययोः सर्वमनन्यत् । द्रक्ष्यसीत्यस्य तु निघातप्रसङ्गश्चिन्त्यः; नानावाक्यत्वात्, द्वितीयचतुर्थयोर्वाच्यमात्रं वहेर्गुणभूतगमनाभिप्रायं गत्यर्थत्वम्, प्रापणार्थस्त्वयम् । तथा च---
`नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च' ।
इति भेदेन गणनं कृतम् । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कथमिहाभिन्नं कारकम् ? शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वाददोषः ।
आगच्छेरिति । लिङयं न लेट् । पश्यतीति । लडयं न लृट्, प्रत्युदाहरणयोः सर्वमन्यत् । कारकशब्देनापि सूत्रे कारकव्यक्तिरेवाश्रीयते, तेन कर्तृकर्मत्वाभेदेऽपि व्यक्तिभेदात् कारकभेदः---त्वं चाहं च द्रक्ष्याव इति । अक्रियमाणे सर्वग्रहणे यत्र वाच्यं न भिद्यते तत्रैव भवितव्यम्, इह च भिद्यते वाच्यम्---एकत्रैकम्, अपरत्र द्वयमिति निघातप्रतिषेधो न स्यात् । क्रियमाणे तु सर्वग्रहणे यथा सिध्यति, तथा दर्शयति---लृडन्तवाच्ये हीति ।।
लोट् च ।। 8.1.52 ।।
शाधीति । शार्सेर्लोट्, सिप्, सिपो हिः, `शा हौ' इति शादेशः, तस्यासिद्धत्वात् झल्लक्षणं धित्वम् । प्रशाधीति प्रायेण पाठः, स न युक्तः; सोपसर्गत्वेनोत्तरसूत्रविषयत्वात् ।
पृथग्योगकरणमुत्तरार्थमिति । उत्तरो विकल्पो लोट एव यथा स्यात्, लृटो मा भूदिति ।।
हन्त च ।। 8.1.54 ।।
हन्त प्रभुञ्जावहै इति । भुजेर्लोट्, `भुजोऽनवने' इत्यात्मनेपदम्, वहिः, टेरेत्वम्, `आडुत्तमस्य पिच्च', `एत ऐ', अनुदात्तेत्वाल्लसार्वधातुकमनुदात्तत्वम्, विकरणस्वरः ।
आम एकान्तरमामन्त्रितमनन्तिके ।। 8.1.55 ।।
अन्तरयतीत्यन्तरम् = व्यवधायकम् । एकमन्तरं यस्य तदेकान्तरम्, उदाहरणे निघाते प्रतिषिद्धे षाष्ठिकमाद्युदात्तत्वम्, `दूराद्धूते च' इति प्लुतः; भवच्छब्दस्य `विभाषा भवद्भगवदघवताम्' इति रुत्वम्, अवशब्दस्य च ओकारः, `भोभगो' इत्यादिना यत्वम्, तस्य `हलि सर्वेषाम्' इति लोपः ।
ननु च `आमन्त्रितं पूर्वमविद्यमानवत्' इति भोः शब्दस्याविद्यमानत्वादेकान्तरता नोपपद्यते ? अत आह---भो इत्येतदिति ।
तदुभयमप्यनेन क्रियत इति । कथं पुनरप्रकृताया असंशब्दितायाश्चैकश्रुतेः प्रतिषेधः शक्यो विज्ञातुम् ? उच्यते; नञत्र विपक्षवचनः, अधर्मानृतादिवत्, अन्तिकविरुद्धमनन्तिकम्, दूरमित्यर्थः, तत्र चैकश्रुतिरुच्यते, ततश्च पचसि देवदत्तेत्यादावन्तिके सावकाशमामन्त्रितनिघातं बाधित्वा एकश्रुतिः प्राप्नोति, सा तावत्प्रतिषिद्ध्यते, ततोऽपवादे प्रतिषिद्ध उत्सर्गभूतो निघातः प्राप्नोति, सोऽपि प्रतिषिध्यते, एकश्रुतिमात्रप्रतिषेधे हि तत्रैवायं ब्रूयात्---नाम एकान्तरमिति । एवं हि `आमन्त्रितमनन्तिके' इति च न वक्तव्यं भवति, सोऽयमेवं सिद्धे यन्निघातप्रकरणे इदं ब्रवीति तेन विजानीमः---निघातोऽपि प्रतिषिध्यत इति । केवलस्य निघातस्येकश्रुत्या बाधितस्य प्रतिषेधोऽनर्थक इति सामर्थ्यादुभयोः प्रतिषेधः ।
ननु चैकश्रुतिरपि देवदत्ता3 आगच्छेत्यादौ सावकाशा कथमां भो देवदत्त इत्यादौ निघातस्य बाधिका, प्रत्युत परत्वादेकश्रुतेर्निघात एव बाधक इति तस्यैवात्र प्रसङ्ग इति प्रतिषेधोऽपि तस्यैव न्याय्यः, तस्य च प्रतिषेधे एकश्रुतिः स्यादेव ? अत्राहुः---पदद्वयमात्रनिबन्धनत्वादन्तरङ्गो निघातः पूर्वं प्रवर्त्तते, ततो दूरात्सम्बोधनमधिकं निमित्तमपेक्षमाणैकश्रुतिरिति सैवानन्तरं प्राप्नोति, तां तावद्वाधते पूर्वोक्तेन न्यायेन निघातमपीति सुष्ठूक्तम्---तदुभयमनेन क्रियत इति ।
यथैव तर्हि एकश्रुतिर्बाध्यते, तथैव प्लुतोदात्तोऽपि बाध्येत ? अत आह---प्लुतोदात्तः पुनरिति । अपरेषामिति । ते मन्यन्ते---सादृश्येऽत्र नञ्, न विपेक्षे; अन्यथा दूर इत्येव ब्रूयादिति प्राप्तिरेव नास्ति, अदूरत्वात् । कथं तर्हि प्लुत उदाह्रियते ? अत आह---प्लुतोऽपीति ।।
यद्धितुपरं छन्दसि ।। 8.1.56 ।।
जाये स्वो रोहावैहीति । रुहेर्लोट्, वस्, शप्, `आडुत्तमस्य पिच्च', `लोटो लङ्वत्' इति लङ्वद्भावात् `नित्यं ङितः' इति सलोपः, आह्पूर्वादिणो लोट्, सिपो हिः, एहीत्यनेन परभूतेन युक्तस्य रोहावेत्यस्य `लोट् च ' इति प्राप्तो निघातप्रतिषेधो नियमेन निवर्त्यते, तेन स्वशब्दाश्रयो निघातो भवति । ननु `परमपि छन्दसि' इति वचनात् स्वः शब्दस्य पूर्वाङ्गवद्भावज्जायेस्वरित्यामन्त्रितम्, ततश्च `आमन्त्रित पूर्वमविद्यमानवत्' इत्यविद्यमानत्वान्निघातो न प्राप्नोति, प्रतिषिध्यतेऽत्राङ्गवद्भावः---अव्ययानां प्रतिषेध इति ? नैवम्; अत्राङ्गवद्भावः प्राप्नोति, उक्तं हि तत्र---`षष्ठ्यामन्त्रितकारकवचनम्' `तन्निमित्तग्रहणं च' इति । न हि स्वः शब्दः षष्ठ्यन्त आमन्त्रितकारकं तन्निमित्तं वा स्वरे वाङ्गवद्भावो नाविद्यमानवत्वम् । स्वः शब्दस्य `रो रि' इति लोपो न भवति, उत्वं च भवति; छान्दसत्वात् । अथेदानीं रोहावेत्यनेन युक्तस्य एहीत्यस्य `लोट् च' इति निघातप्रतिषेधः कस्मान्न भवति, न रुहिर्गत्यर्थः, `गत्यर्थाकर्मक' इत्यत्र पृथग्ग्रहणात् ? यदि न गत्यर्थः, आरोहन्ति हस्तिनं मनुष्याः आरोहयति हस्ती मनुष्यान्, `गतिबुद्धिप्रत्यवसानार्थ' इति कर्मसंज्ञा न प्राप्नोति । तस्मादुपरिगमनरूपव्यापारो रुहेरर्थः । `गत्यर्थाकर्मक' इत्यत्र च रुहिग्रहणं प्रपञ्चार्थम् । एहीत्यस्य तु निघातप्रतिषेधो न भवति; `विभाषित सोपसर्गमनुत्तमम्' इति वचनात् ।।
चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ।। 8.1.57 ।।
इहापीति । न केवलं तिङो गोत्रादीनीत्यत्रैवेत्यपिशब्दार्थः । तत्र हेतुस्तत्रैव प्रतिपादितः । शुक्लीकरोति चनेति । अगतेरिति प्रतिषेधाभावादत्र निघातप्रतिषेधो भवत्येव । यत्काष्ठमिति । शुक्लीशब्दस्य निघातो न भवति ।।
चादिषु च ।। 8.1.58 ।।
त इह गृह्यन्त इति । प्रत्यासत्तेः । `चादयोऽसत्वे' इत्यत्र येषां ग्रहणं ते विप्रकृष्टः । `समुच्चयो विकल्पश्चानेकस्य धर्मः' इत्युत्तरसूत्रे वक्ष्यति, अतः खादति चेत्यस्योपन्यासः । न त्वस्य निघातप्रसङ्गः; नानावाक्यत्वात् । खादति हेत्यादेस्तु प्रक्रमाभेदायोपन्यासः ।
परंतु निहन्यत एवेति । प्रशब्दात्समानवाक्यगतात् पदात्परत्वात् ।।
चवायोगे प्रथमा ।। 8.1.59 ।।
अगतेरिति । पूवसूत्र इत्यादि । अत एव पूर्वसूत्रे प्रत्युदाहरणावसर उक्तम्---प्रथमस्यात्र तिङन्तस्य चवायोगे प्रथमेति निघातः प्रतिषिध्यत एवेति । प्रथमेति स्त्रीलिङ्गस्य निर्वाहमाह---प्रथमा तिङ्विभक्तिरिति ।
प्रथमाग्रहणव्यावर्त्यस्य द्वितीयादेः सम्भवमाह---चवायोगो हीति ।।
हेति क्षियायाम् ।। 8.1.60 ।।
आचारभेदः = आचारोल्लङ्घनम् । उदाहरणे---उपाध्याये पदातौ गच्छति शिष्यस्य रथेन गमनं प्रतिषिद्धम्---इत्याचारभेदः ।।
अहेति विनियोगे च ।। 8.1.61 ।।
नानाप्रयोजन इति । अनेक प्रयोजनो नियोगः = प्रेषणम् । प्लुतश्चेति । स पुनः क्षियायां क्षियाहेतुकः, विनियोगे प्रैषहेतुकः ।।
चाहलोप एवेत्यवधारणम् ।। 8.1.62 ।।
उदाहरणे चलोपं दर्शयति---ग्रामं चेति । एवमहलोपेऽपि द्रष्टव्यम् । तत्र प्रथमे ग्राम कर्मकस्यारण्यकर्मकस्य च देवदत्त एव कर्तेति समानकर्तृकत्वम्, द्वितीये तु विपर्ययान्नानाकर्तृकता द्रष्टव्या । अनवक्लृप्तिः = असम्भवनम् । यो हि देवदत्तस्य भोजनं क्वचिदपि न सम्भावयति, स एवं प्रयुङ्क्ते---क्वेव भोक्ष्यस इति । `एवे चानियोगे' इति पररूपत्वम् । क्वचित्तु वृत्तावेवैतत् पठ्यते ।।
चादिलापे विभाषा ।। 8.1.63 ।।
पूर्वो योग एवशब्दप्रयोगे नित्यार्थः ।।
वैवावेति च छन्दसि ।। 8.1.64 ।।
वै स्फुटार्थे, क्षमायां च । वाव प्रसिद्धौ, स्फुटार्थे च ।
एकान्याभ्यां समर्थाभ्याम् ।। 8.1.65 ।।
समौ तुल्यावर्थौ ययोस्तौ समर्थौ, शकन्ध्वादिषु दर्शनात्पररूपत्वम् । निपातनाद्वाऽन्तलोपः । परस्परं समानार्थता न; तिङन्तेन असम्भवात् । तिङन्तेन सङ्गताभ्यामित्ययं त्वर्थो न भवति, `चवायोगे प्रथमा' इत्यतो योगग्रहणानुवृत्तेरेवास्यार्थस्य सिद्धत्वात् । जिन्वतीति । जिविः प्रीणानार्थः, इदित्त्वान्नुम्, लट्तिप्शपः । चाकशीतीति । काशिना समानार्थः कशिः प्रकृत्यन्तरमस्तीत्युक्तम्, तस्यैतद्यङ्लुकि रूपम् ।
एकशब्दस्य व्यवस्थार्थं चेति । अतस्तस्यैव प्रत्युदाहरणं दर्शितम्, नान्यशब्दस्येति भावः । व्यभिचारित्वात्तस्येति । एकशब्दो ह्यन्याथ व्यभिचरतीति । नानार्थो ह्ययमिति हि `एको गोत्रे' इत्यत्र दसितम् । तत्रासति समर्थग्रहणेऽन्यशब्देन भिन्नार्थस्यापि ग्रहणप्रसङ्गः । न च साहचर्यमत्र प्रकरणे व्यवस्थापकमिति `निपातैर्यद्यदिहन्त' इत्यत्रावोचाम ।।
यद्वृत्तान्नित्यम् ।। 8.1.66 ।।
`किंवृत्तं च चिदुत्तरम्' इत्यत्र किंवृत्तशब्दस्य दर्शिता व्युत्पत्तिरिहानुगन्तव्या । एतन्नाश्रीयत इति । तदाश्रयणे हि यद्र्यङ्, यदीयम्, यादायनिरित्यादिभ्यः परस्य न स्यात् । जुहुम इति । प्रत्ययस्वरेणान्तोदात्तमेतत्, `अभ्यस्तानामादिः', `भीह्रीभृहुमद' इति चोभयत्रापि अचीति वर्त्तते । यद्र्यङिति । यदञ्चति, क्विन्, `विष्वग्देवयोश्च' इति टेरद्र्यादेशः ।
कथं पुनः पञ्चमीनिर्द्देशे सति यत्कामास्ते, यद्र्यङ् वायुरित्यादौ व्यवधाने भवति ? अत आह---पञ्चमीनिर्देशेऽप्यत्रेति । एतच्चोत्तरसूत्रे ज्ञापयिष्यते । याथाकाम्ये वेति । याथाकाम्यम् = यथेच्छप्रवृत्तिः, देशकालानपेक्षा, तत्र गम्यमाने वा निघातप्रतिषेधः, यत्र क्वचन यजते ।।
पूजानात् पूजितमनुदात्तं काष्ठादिभ्यः ।। 8.1.67 ।।
`काष्ठादिभ्यः' इति वार्त्तिके दृष्टं सूत्रावयवत्वेन पठितत्वात्तदनुरोधेन पूजनादित्येकवचनं बहुवचनस्थान इति व्याचष्टे---पूजनेभ्यः काष्ठादिभ्य इति । उत्तरपदमिति । उत्तरसूत्रे तिङ्ग्रहणादस्य च सूत्रस्य समासविषयत्वात्सुबन्तमिति द्रष्टव्यम् । काष्ठादयश्चैतेऽद्भुतपर्यायाः पूजनवचना भवन्ति, तत्र येषां वृत्तिविषय एवाद्भुतपर्यायत्वममातापुत्रादीनां तेप्वन्यपदेन विग्रहः । काष्ठाध्यापक इति क्रियाविशेषणम् । काष्ठशब्दो द्वितीयान्तः समस्यते । कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणेपु न भवति, धात्वर्थं प्रति यत्कर्म तत्रैव षष्ठीः, कर्तृपदेन साहचर्यात् । यो हि धात्वर्थं प्रति कर्त्ता तत्र षष्ठी, तत्साहचर्यात् कर्मापि तादृशमेव गृह्यते । विशेषणं तु धात्वर्थेन समानाधिकरणत्वान्न तं प्रति कर्म । सर्वथा क्रियाविशेषणान्न षष्ठी भवति, अत एव मलोप इति वक्ष्यते । षष्ठ्यां सत्यां मकाराभावादनुपपन्नमेततस्यात् । कथं पुनः कर्तृप्रधाने कृदन्ते गुणभूतायाः क्रियाया विशेषणेन सम्बन्धः, साधनसम्बन्धवदुपपद्यते; तद्यथा---ग्रामं गत इत्यादौ गुणभूताया अपि क्रियायाः साधनेन योगः, तथा विशेषणेनापि नानुपपन्नः । काष्ठाभिरूपक इति । आभिरूप्यं काष्ठेन विशेष्यत इति नपुंसकप्रथमान्तस्य समासः । एवं सर्वत्र प्रवृत्तिनिमित्तमात्रेण काष्ठादीनामन्वयाद् द्रव्यवाचिभिः सामानाधिकरण्याभावात् मयूरव्यंसकादित्वमाश्रितम् ।
समासे चेत्यादि । चकारोऽवधारणे, यदि समासे एवैतदिष्यते, कथं वार्त्तिककारेणोक्तम्---पूजितस्यानुदात्तत्वे काष्ठादिग्रहणं मलोपश्चेति; न हि समासे तेषामन्त्यो मकारः सम्भवति, विभक्तेर्लुप्तत्वात् ? इत्यत आह---मलोपश्चेत्यनेनापीति । कथं पुरथं विषयोऽनेनाख्यायते ? अत आह---यत्रेति । समासे हि विभक्तेरभावान्मकारो न श्रूयते अयमेव लोप इति । किं पुनः कारणमेवं काशकुशावलम्बनेन वात्तिकं व्याख्यायते ? अत आह---असमासे हीति । अन्ये त्वाहुः---यदि समास एवैतदभिमतमभविष्यत् `समासे' इत्येवावक्ष्यत्; मलोपवचनात्तु वाक्यविषयमेवैतत् । दारुणमध्यापक इत्यादिकं तु रूपं यदीष्यते विकल्पेन मलोपो वक्तव्य इति ।
पूजनादित्येव पूजितपरिग्रहे सिद्ध इति । पूजनस्य पूजतापेक्षत्वादिति भावः । अनन्तरपूजितप्रतिपत्त्यर्थमिति । `पूजनात्पूजितम्' इति सूत्रे सामान्यगतमानन्तर्य विशेषाणां विज्ञायत इति भावः । कथं पुनः पञ्चमीनिर्देशे व्यवहितस्य प्रसङ्गः ? इत्याह---एतदेवेति । ज्ञापनस्य प्रयोजनमाह---तथा चेति ।
अनुदात्त इति वर्तमान इत्यादि । प्रकृतं ह्यनुदात्तग्रहणम् `न लुट्' इत्यादिना प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ प्रतिषेधोऽप्यनुवर्तेत । तत्र यद्यप्यस्य योगस्य समासविषयत्वात्तादृशो विषयो न सम्भवति, यत्रामन्त्रितादौ निघातः प्रतिषिध्यते; तथापि `कुत्सने च सुपि' इत्यादौ उत्तरत्र प्रतिषेध एव स्यात् । तस्मात्तन्निवृत्त्यर्थं पुनरनुदात्तग्रहणम् ।।
सगतिरपि तिङ् ।। 8.1.68 ।।
यत्काष्ठं पचतीति । येऽपि `मलोपश्च' इत्यनेन वाक्येन मलोपमाहुः तेऽपि तिङन्ते परतो नैव लोपमिच्छन्ति । सगतिग्रहणाद्रतिरपि निहन्यत इति । कथम् ? तुल्ययोगेऽत्र सहशब्दः, यत्र तुल्ययोगे सहशब्दस्तत्र द्वयोरपि कार्ययोगो भवति, तद्यथा---सपुत्रो भोज्यतामित्युक्ते पुत्रोऽपि भोज्यते अपिग्रहणं यत्र गतिर्न प्रयुज्यते तत्र केवलस्यापि तिङन्तस्य यथा स्यात्, गतिप्रयोगे तु द्वयोः सहैव भवति, तिङ्ग्रहणात्पूर्वो योगः सुबन्तविषय एव विज्ञायते ।।
कुत्सने च सुप्यगोत्रादौ ।। 8.1.69 ।।
पचति क्लिश्नातीति । कथमत्र समानवाक्यत्वं सामर्थ्यं चेति चिन्त्यम् ।
कर्तुः कुत्सने मा भूत्, पचति पूतीति । कर्तृत्वमत्र कुत्स्यते---अस्येदमयुक्तमिति । क्रिया तु शोभनैव, तत्र कर्तृत्वस्य विशेषणं पूतित्वं न कर्त्रा समानाधिकरणमिति दारुणमभिरूपकमित्यादिवन्नपुंसकत्वम् । एवं द्विबह्वोरप्येकवचनमेव भवति---पचतः पूति, पचन्ति पूतीति । प्रायेण पूतिरिति पुंल्लिङ्गं पठ्यते । ननु क्रियाप्रधानेऽस्मिन्नाख्याते साधनं कथं विशेषणेन सम्बन्धमप्रधानं पठ्येत ? उच्यते;
एकार्थीभावमापन्नं वृत्तौ यदुपसर्जनम् ।
विशेषणेन सम्बन्धस्तस्य नैवोपपद्यते ।।
न हि भवति---ऋद्धस्य राजपुरुष इति । यस्य तु नैकार्थीभावस्तदप्रधानमपि विशेषणेन संयुज्यते, यथा---ऋद्धस्य राज्ञः पुरुष इति । एवं साधनं क्रियां प्रति गुणभूतमप्येकार्थीभावाद्विशेषणेन युज्यते, तथा साधनप्रधानेषु कृदन्तेषु क्रिया गुणभूताऽपि विशेषणेन युज्यते---दारुणमध्यायक इति । यथैव तहि साधनस्य विशेषणेन योगः, एवं क्रियान्तरेणापि प्राप्नोति---पचति पठति, पचति दृश्यति, पाचकः पठति, पाचकः पश्यतीतिवत् ? किं कुर्मः, न तावदेवं दृश्यते ! तदेतदेवं प्रतिपत्तव्यम्---
भार्या स्त्र्यन्तरसम्बन्धं पत्युर्न सहते यथा ।
स्नानादिकं तु संस्कारं स्वार्थमेवानुमन्यते ।।
तथा क्रियापि---
विशेषणेन सम्बन्धं कर्त्तुः स्वस्यानुमन्यते ।
स्वानुरक्तं तु कर्त्तारं न क्रियान्तरगामिनम् ।। इति ।
पूतिश्चेति । तिबन्तः पूतिशब्द आद्युदात्तः । वसेस्तिबिति । तिब् बाहुलकात्पूञोऽपि भवति, बाहुलकादेव गुणाभावः । तस्य निघातनिमित्तस्यान्तोदात्तत्वं यथा स्यादिति चित्त्वमुपसङ्ख्यायते । विभाषितमिति । बह्वथ तिङन्तं विभाषा निहन्यते, यदा निहन्यते तदा पूतिरन्तोदात्तः ।
क्रियाकुत्सने इत्यादि यदुक्तम्, तत्र प्रमाणत्वेन भाष्यपठितामार्यां पठति---सुपि कुत्सन इति । मलोप इष्टोऽतिङि चोक्तार्थमिति । भाष्ये तावदयमर्थः । मलोपश्चेति वार्त्तिककारेणोक्ते मलोपस्तिङि नेष्टः---दारुणं पचतीति । इत्येवं मलोपश्चेति वाक्यमुक्तार्थमाचार्यैरिति । वृत्तौ तु श्लोकान्तर्गतत्वादयं पादः पठितो न त्वत्रास्योपयोगः कश्चित्; `समासे चैतदनुदात्तत्वमिष्यते' इत्युक्तत्वात् ।।
गतिर्गतौ ।। 8.1.70 ।।
अभ्युद्धरतीति । सर्वोपसर्गसाधारणी हरणक्रिया प्रतीयते, तामुद्विशिनष्टि उद्धरतीति । उदैवोर्ध्वता विशिष्टाऽवगम्यत तामभिर्विशिनष्टि अभ्यद्धरतीति । तत्र---
अन्योऽन्यापेक्षया नास्ति गतित्वं यद्यपि द्वयोः ।
क्रियां प्रति गतित्वात्तु निहतोऽभिर्गतिर्गतौ ।।
समुदानयतीति । अत्र समुदोर्द्वयोरपि निघातः । अभिसम्पर्याहरतीति । अत्र त्रयाणाम् ।।
गताविति किमिति । क्रियां प्रति गतिर्भवति, क्रिया च धातुवाच्या । धातुश्च द्विविधः---सगतिः, अगतिश्च । प्रत्यया अपि धातोर्द्वये भवन्ति---कृतः, तिङश्च । तत्र कृदन्ते सगतावगतौ च कृत्स्वरथाथादिस्वरेषु कृतेषु शेषनिघातेन गतिर्निहन्यत एव । तिङन्तेऽपि केवले उदात्तवति तावदुत्तरसूत्रेण भवत्येव निघातः, अनुदात्तेत्तु नियमाश्रयणान्न भविष्यति, तिङन्ते यदि भवति उदात्तवत्येव भवति, ततश्च सगतिरेव तिङवशिष्यते इति प्रश्नः । आमन्द्रैरिति । ननु च क्रियायोगे गतिभवति, न चात्राङः क्रियायोगोऽस्ति, मन्द्रशब्दस्याक्रियावाचित्वात् ? अत आह---याहीत्येतत्प्रतीति । `ते प्राग्धातोः' इति प्रयोगनियमः, न संज्ञानियमः, ततश्च व्यवहितप्रयोगेऽपि गतित्वमस्त्येवेति भावः । ननु यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति, ततश्च याहीत्येतत्प्रति गतित्वेन मन्द्रं प्रत्यगतित्वादप्रसङ्गः, इहापि तर्हि न प्राप्नोति---अभ्युद्धरतीति, उदं प्रत्यगतित्वात् ? मा भूदुदं प्रति गतिः, समुदायं तु प्रति गतिर्भवति, उदा विशिष्टा हि क्रिया अभिना विशेष्यते । आ मन्द्रैरित्यत्रापि मन्द्रादिकरणकमिन्द्रकर्तृकं यानमाङा विशेष्यत इति समुदायं क्रियाविशेषवाचिनं प्रत्याङो गतित्वान्निघातः प्राप्नोति ? न प्राप्नोति ; पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन, आयाने हि मन्द्रादेः साधनत्वं मन्द्रैर्हरिभिरायाहीति, न तु याने; ततश्च न समुदायं प्रत्याङो गतित्वमिति नास्त्येवात्र प्रसङ्गः । तत्राह---तस्येति । न हि परनिमित्तानुपादाने `यत्क्रियायुक्ताः प्रादयस्तं प्रति' इति गम्यते, ततश्च वस्तुतो गतित्वाश्रयो निघातः स्यादिति मन्यते ।
यदि पुनः `पदस्य' इत्यधिकारात्समर्थपरिभाषोपस्थानाद्येन गतेः सामर्थ्यं तं प्रति गतेरिति विज्ञायते, तदा शक्यं गतावित्यवक्तुम्, यदाह---`गतेरनुदात्तत्वे गतिग्रहणानरर्थक्यम्, तिङ्यवधारणाच्छन्दोऽर्थमिति चेन्नागतित्वात्' इति ।।
तिङि चोदात्तवति ।। 8.1.71 ।।
उदाहरणे `नीपातैर्यद्यदि' इति निघातप्रतिषेधात्तिङन्तमुदात्तवत् । तिङ्ग्रहणं किमर्थम् ? तिङन्ते यथा स्यात्, मन्द्रशब्दे मा भूत्---आ मन्द्रैरिन्द्र हरिभिर्याहि । मन्द्रशब्दो रक्प्रत्ययान्तोऽन्तोदात्तः ।
ननु च `यत्क्रियायुक्ताः' इति वचनाद्गतिशब्दः पित्रादिशब्दवत् सम्बन्धिशब्दत्वात् स्वसम्बन्धिनमाक्षिपतीति क्रियावाचिन्येवोदात्तवपि भविष्यति कृदन्ते चातिप्रसङ्गाभावः पूर्वसूत्रे एवोक्तः, तस्मान्नार्थस्तिङग्रहणेन ? इत्याशङ्क्याह---तिङ्ग्रहणमिति । परिमाणम्=इयत्ता । परिमाणार्थत्वमेव स्पष्टयति---अन्यथा हीति । अक्रियमाणे तिङ्ग्रहणे धातुरेव क्रियावाचित्वाद् गतिसंज्ञानिमित्तमिति तत्रैवोदात्तवति निघातः स्यात्, न तु प्रत्यये । तिङ्ग्रहणात्तु प्रकृतिभागं प्रति गतेः प्रत्ययोदात्तत्वेनाप्युदात्तवति तिङन्तमात्रे भवति । धातुमेव प्रति गतिसंज्ञेति । यस्य क्रिया यत्क्रियेति षष्ठीसमासः, अन्वयव्यतिरेकाभ्यां यस्य वाच्या क्रिया तं प्रतीत्यर्थः । धातोरेव चासौ वाच्येति तमेव प्रति गतित्वम् ।
आमन्ते तर्हि न प्राप्नोतीति । ननु चाक्रियमाणेऽपि तिङ्ग्रहणे नैवामन्ते प्राप्नोति, यदा हि तिङन्तेऽपि प्रत्ययोदात्तत्वेनोदात्तवति न स्यादिति स्थितम्, तदा का वार्ता आमन्ते ! तत्किमुच्यते---आमन्ते तर्हीति ? एवं तर्ह्ययमत्रार्थः---यदि तिङ्ग्रहणाद्यत्नात्प्रकरोतीत्यादौ भवति, तर्हि तस्यामन्तेऽभावान्न प्राप्नोति; तस्माद्या क्रिया यत्क्रिया---इति कर्मधारय आश्रयणीयः । एवं हि क्रियालक्षणमर्थं प्रति गतित्वम्, तत्रार्थे कार्यस्यासम्भवात्तद्वाचिनि कार्यं विज्ञायमानं क्रियाप्रधाने सर्वत्र सिध्यतीति । अनन्तरोक्तं चोद्यं पक्षविशेषे व्यवस्थापयितुमाह---अत्र केचिदिति । अत्र पक्षे गतिकारकोपपदानामित्यस्यायमर्थः---गत्यादीनामविशेषेण समासो भवति, कृद्धिस्तु प्राक् सुबुत्पत्तेरिति । अव्ययपूवपदप्रकृतिस्वरत्वे इति । `गतिकारकोपपदात्' इत्यत्र प्रपचतिदेश्याद्यर्थं कृद्ग्रहणं स्थितम्, न प्रत्याख्यातमिति पूर्वपदप्रकृतिस्वरस्यैवात्र प्रसङ्ग इति मन्यते । अक्रियमाणेऽपि तिङ्ग्रहहण इति । यथा वा क्रियमाणे तिङ्ग्रहणे उदात्तत्त्वे सति निघातः सिध्यति, तथाऽनन्तरमेवोक्तम् ।
अथ तरबन्तस्येति । यथायं पक्षः सम्भवति, यश्चात्र पक्षे दोषः---तत्सर्वम् `गतिकारकोपपात्कृत्' इत्यत्रैवोक्तम् ।
येषां त्वित्यादि । कुगत्यादीनां कृदन्तेनैव, तत्रापि प्राक् सुबुत्पत्तेरित्यर्थः । तदर्थं यत्नः कर्त्तव्य इति । तत्रायं यत्नः---तिङग्रहणं न करिष्यते; या क्रिया, यत्क्रियेति वाऽऽश्रयिष्यत इति ।
आमन्त्रितं पूर्वमविद्यमानवत् ।। 8.1.72 ।।
किमदमविद्यमानवत् ? इत्याह---तस्मिन्सतीत्यादि । तत्र तस्मिन्सति यत्कार्यं तन्न भवतीत्यत्रोदाहरणमाह---आमन्त्रिततिडनिघातेति । असति च यत्कार्यं तद्भवतीत्यत्रोदाहरणमाह---पूजायामित्यादि । आमन्त्रिताद्युदात्तत्वे कर्त्तव्ये इति । असति पूर्वग्रहणे `आमन्त्रितमविद्यमानवत्' त्युच्यमाने स्वस्याद्युदात्तत्वेऽपि षाष्ठिके कर्तव्येऽविद्यमानवत् स्यात्, क इदानीं तस्यावकाशः ? यत्राविद्यमानवद्भावः प्रतिषिध्यते, विकल्प्यते वा; तथा `अपादादौ' वित्यधिकारात्पादादिरप्यवकाशः---उषो नो अधषु हवा व्युच्छनन्, नस्भावो ह्यत्राविद्यमानवद्भावादेव भवति; इन्द्र त्वा वृषभं वयम्, त्वादेशो भवति । एवं तु इन्द्र पिब तुल्यं सुतो मदाय, इन्द्र पिब वृषभूतस्य वृष्णः, अग्ने याहि शस्त्रिभिः, वायो याहि शिवादिव---इत्यादौ तिङ्निघातः प्राप्नोति ? कर्त्तव्योऽत्र यत्नः, उक्तं हि पुरस्तात्---`आपादपरिसमाप्तेरपादादावित्यधिकारः' इति ।
यदि `आमन्त्रितं पूर्वमविद्यमानवत्' देवदत्त पचसीत्यत्र पचसीत्येतदपेक्षवा देवदत्तशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवत्त्वे सति आमन्त्रिताद्युदात्तत्वं न स्यादित्यत आह---पूर्वत्वं चेति । पूर्वशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रति पूर्वत्वं तत्कार्यं प्रत्येवाविद्यमानवत्त्वम्, न स्वकार्यं प्रति; तेन नायं दोष इत्यर्थः । कार्यशब्देनैतद्दर्शयति---अविद्यमानवत् कार्यमत्रातिदिश्यते । तत्र पूर्वशब्दस्य सम्बन्धिशब्दत्वेन परस्य कार्ये कर्त्तव्य इत्येतावदाश्रीयते, न तु परं प्रत्यविद्यमानवत्; पूर्वं तु प्रति विद्यमानवदित्यर्थ इति स्यात् । इमं मे गङ्गे यमुने सरस्वतीत्यत्र गङ्गेशब्दस्य यमुनेशब्दं प्रत्येवाविद्यमानवत्त्वं न मेशब्दं प्रतीति व्यवधानाद् यमुनेशब्दस्य निघातं प्रति मेशब्दो निमित्तं न स्यात् । यथोपदर्शिते त्वर्थे, परस्य कार्ये कर्त्तव्ये इत्येतावत्तत्कार्यं स्वनिमित्तमन्यनिमित्तं वेति विशेषाभावाद् मेशब्दापेक्षेऽपि निघाते गङ्गेशब्दस्याविद्यमानवत्त्वं सिध्यति । तदेतत् स्वनिमित्तेऽन्यनिमित्ते चेत्यत्र सूचितम् ।
तदेवमुक्तं दर्शयति---इहेत्यादि । गङ्गेशब्दोऽविद्यमानवत्त्वात्स्वयं निमित्तं न भवतीत्वेतावत्, न तु मेशब्दस्य निमित्तभावं प्रतिबध्नातीत्यर्थः । परं प्रत्यविद्यमानवद्भवतीत्याश्रीयमाणे हि तथा स्यात् ।
ननु वत्करणमन्तरेणापि `गोतो णित्' इत्यादावतिदेशो दृश्यते, तत्किमत्र वत्करणेन ? नन्वसति वत्करणे `पूर्वमामन्त्रितमविद्यमानम्' इत्युच्यमाने पूर्वस्यामन्त्रतस्य निवृत्तिः स्यात् ? नैष दोषः; अर्थप्रत्ययनाय शब्दप्रयोगादनिवृत्तेऽर्थे शब्दनिवृत्त्यभावात् । अथापि परप्रयोगो भवतु, पूर्वप्रयोगो मा भूदित्यर्थः कल्पेत ? तथापि राजदन्तादिषु परमामन्त्रितं वेति वक्तव्यं स्यात् । परमेवामन्त्रितं भवति, न पूर्वमित्यर्थः । तदेवमन्तरेणापि वतिमतिदेशः सिद्धः ? इदं तर्हि प्रयोजनम्---स्वाश्रयमपि यथा स्यात्---आं बो देवदत्त `आम एकान्तरमामन्त्रितमनन्तिके' इत्येकान्तरता यथा स्यात् । एकवचनान्तं ह्युत्तरसूत्रस्य विषयः, बहुवचनान्ते तु `विभाषितं विशेषवचने बहुवचनम्' इति पक्षे निघातप्रसङ्गः । यद्यप्यतिदेशिककार्याविरुद्धं स्वाश्रयमतिदेशेप्यवसत्यपि वत्करणे भवति, इह तु वत्करणाद्यत्नाद्विरुद्धमपि क्वचित्प्राप्यते । अविद्यमानवत्त्वविरोधिनी ह्येकान्तरता । व्याख्यानाच्चातिप्रसङ्गो नोद्भावनीयः ।।
नामन्त्रिते समानाधिकरणे सामान्यवचनम् ।। 8.1.73 ।।
द्वौ नञौ प्रकृतमर्थं सूचयत इत्याह---कि तर्हि विद्यमानवदेवेति । माणवक जटिलकाध्यापकेति । अत्र जटिलशब्दो माणवकशब्दापेक्षया विशेषवचनः, अध्यापकशब्दापेक्षया तु सामान्यवचन इति द्वयोरप्यविद्यमानवत्त्वं न भवति । पूर्वस्येत्यादिना प्रतिषेधस्य फलं दर्शयति । देवदत्तयज्ञदत्तेति । `सामान्यवचनं विशेषवचनापेक्षम्' इति वक्ष्यत्युत्तरसूत्रे, ततश्च यथा यज्ञदत्तशब्दः समानाधिकरणो न भवति, एवं पूर्वामन्त्रितार्थगतविशेषाकारवचनोऽपि न भवतीति देवदत्तशब्दोऽपि सामान्यवचनो न भवति, तस्माद् द्व्यङ्गविकलत्वाच्चिन्त्यमेत् । एवं ह्युक्तमिति । तैत्तिरीयके ब्राह्मणे सहस्रतमीं प्रकृत्य इडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुते---एतानि ते अघ्निये नामानीति । वृत्तौ त्वन्यथा पाठः शाखान्तरे द्रष्टव्यः ।।
विभाषितं विशेषवचने ।। 8.1.74 ।।
बहुवचनमिति वार्त्तिके दर्शनात् प्रक्षिप्तम् । शरणत्वेन प्राप्तिः शरणम्, तत्र साधवः शरण्याः । शरणशब्दो हि शरण्येऽपि दृश्यते---शरणं भवन्तमतिकास्त्रणकमिति । शर्मण्या इति पाठे शर्मणि साधवः शर्मण्याः ।
सामान्ववचनाधिकारादेवेति । सामान्यस्य विशेषापेक्षत्वाद्यं प्रति सामान्यमित्येतद्भवति, तस्मिन्विशेषवचन एव भविष्यति ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यामष्टमस्याध्यायस्य प्रथमः पादः
*********************---------------------