काशिका (पदमञ्जरीव्याख्यासहिता)/अष्टमोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
काशिकावृत्तिः --- 6
अथ अष्टमाध्याये तृतीयः पादः
मतुवसो रु सम्बुद्धौ छन्दसि ।। 8.3.1 ।।
`युवोरनाकौ' इतिवन्मतुवसोरिति निर्देशोऽनुबन्धपरित्यागेन वा सकारान्तस्य वसोर्ग्रहणम्, निपातनाच्चाल्पाच्तरस्य परनिपातः । रु---इत्यविभक्तिको निर्देशः । मरुत्व इति । `झयः' इति वत्वम्' तसौ मत्वर्थे' इति भसंज्ञा । हरिवो मेदिनमिति । `छन्दसीरः' इति वत्वम्, `संयोगान्तलोपो रो रुत्वे सिद्धो वक्तव्यः' इति वचनात् `हशि च' इत्युत्वम् ।
वन इति । क्वनिब्वनिपोः सामान्येन ग्रहणम् । अनुबन्धानिर्देशादत्र तदनुबन्धकपरिभाषाया अनुपस्थानात् क्वनिपोऽपि ग्रहणम् । प्रातरित्व इति । प्रातरेतीति `अन्येभ्योऽपि दृश्यन्ते' इति क्वनिपि ह्रस्वस्य तुक् । अवशब्दस्य चेति । सर्वस्येति द्रष्टव्यम्; अनर्थकेऽलोन्त्यपरिभाषाया अभावात् । उपसंख्यानं प्रत्याचष्टे---निपातविज्ञानाद्वेति । एतदेव विवृणोति---अथ वेति । अवश्यं चैतन्निपातत्वमेव विज्ञेयमित्याह---असम्बुद्धावपि हीति ।
स्त्रियामिति । भो ब्राह्मणीति । विभक्तिनिमित्तेषु कार्येषु लिङ्गविशिष्टपरिभाषा नोपतिष्ठत इत्युक्तम्---`न वा विभक्तौ लिङ्गविशिष्टाग्रहणात्' इति, तेन भवतीशब्दस्य रुत्वौत्वे न स्याताम् । अथापि स्याताम् ? एवमीकारस्य रुत्वे अवशब्दस्य चौकारो रूपं न सिध्यति । तस्मादसम्बुद्धौ स्त्रियां च दर्शनान्निपाता एवेति विज्ञेयम् । निपातत्वं च विभक्तिस्वरप्रतिरूपकत्वेनेति । नन्वसत्यस्मिन्नुपसंख्याने भोइत्यादिकः शब्दो विभक्त्यन्तो नास्ति, यत्प्रतिरूपका एते स्युः ? तस्मात्सौत्रा एते निपाताः, `भोभगोअघोः' इत्यत्र सूत्रे निर्दिष्टाः, चादिषु वा पठितव्याः । तदेवं प्रत्याख्यातमुपसंख्यानम् ।
अन्ये त्वाहुः---`इतराभ्योऽपि दृश्यन्ते' इति भवदादियोगे विधीयमानास्तसिलादयः, ततः `भो' इत्यादावपि यथा स्युरिति वार्त्तिकारम्भ इति ।
अन्ये तु---भवदादेरपरिगणितत्वाद् निपाता भोइत्यादयो भविष्यन्तीति मन्यन्ते ।।
अत्रानुनासिकः पूर्वस्य तु वा ।। 8.3.2 ।।
पूर्वत्वमिदमापेक्षिकम्, रुत्वं च सन्निहितम् । न च तदपेक्षं पूर्वत्वं सम्भवति; रोरनुनासिकस्य च सहविधानात् । तस्माद्यस्य रुर्विधीयते तदपेक्षमेव पूर्वत्वं विज्ञायत इत्याह---यस्य स्थान इति ।
अथात्रग्रहणं किमर्थम् ? अत्र रुप्रकरणे यथा स्यात् । अधिकारादप्येतत् सिद्धम्, अधिकारे हि सति रुत्वानुनासिकयोः सह विधानान्नान्यत्र प्रसङ्गः ? अथ आह---अत्रग्रहणमिति । अवधारणमत्र द्रष्टव्यम्---रुणैव सहेति । नन्वधिकारादप्येतत्सिद्धमित्युक्तम् ? अत आह---अधिकारेति । असत्यत्रग्रहणे अनुनासिकाधिकारस्य परिमाणं न ज्ञायेत---एतावत्सु योगेष्वस्य व्यापार इति, ततश्च रुप्रकरणात्परत्राप्यस्याधिकारः सम्भाव्येतेत्यर्थः । तुशब्दः परस्मात्कार्यिणः पूर्वस्य विशेषद्योतनार्थः---परस्य नित्यं रुत्वम्, पूर्वस्य तु वानुनासिक इति ।
वावचनमनर्थकम्, ज्ञापकात्सिद्धम्, यदयमुत्तरत्र सूत्रे यस्यानुनासिको न विहितस्तस्माद्रोः पूर्वस्मात्परमनुस्वारं शास्ति; ततो ज्ञायते---विकल्पेनायं भवतीति । न हि नित्येऽस्मिन्विधौ स रोः पूर्वः सम्भवति, यस्यानुनासिको विहित ।।
आतोऽटि नित्यम् ।। 8.3.3 ।।
केचिदिति । तैत्तिरीयाः । अनुस्वारमधीयत इति । शुद्धा दाकारात्परम् । नित्यग्रहणमनर्थकम्, अरम्भसामर्थ्यादेव नित्यो विधिः सिद्धः ? अस्त्यारम्भे प्रयोजनम् नियमो यथा स्यात्---आत एवाटि, अन्येषां तु नेति । कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम् ? नित्योऽनुनासिकः ।।
अनुनासिकात् परोऽनुस्वारः ।। 8.3.4 ।।
अन्यशब्दोऽत्राध्याहर्त्तव्य इति । असत्यध्याहारे परशब्दस्य श्रुतत्वात्तदपेक्षयेवं `अनुनासिकात्' इत्येषा पञ्चमी स्यात्---परशब्दस्य दिग्वृत्तिः, अन्यार्थवृत्तिर्वा, पूर्ववृत्तिर्वा । पूर्वस्मिन्कल्पेरोः पूर्वस्मादनुनासिकादेवपरोऽनुस्वारो विज्ञायेत, न च तस्मात्पर इष्यते । इतरस्मिंस्त्वमनुनासिकादन्योऽनुस्वारो भवतीत्यर्थो भवति, तत्र चानर्थकं परग्रहणम्, न ह्यनुस्वारोऽनुनासिकापेक्षयाऽन्यत्वं व्यभिचरति । तस्मादन्यशब्दोऽध्याहार्यः । स च परशब्दापेक्षया पञ्चम्यन्तोऽध्याहार्यः । पूर्वस्येत्येतदप्यत्रानुवृत्तं पर इत्यनेन योगात्पञ्चम्यन्तं विपरिणम्यते । एवं स्थिते योऽर्थः सम्पद्यते तं दर्शयति--अनुनासिकादन्य इति । कः पुनरसौ ? इत्याह---यस्यानुनासिको न कृत इति । अनुस्वार आगमो भवतीति । टित्त्वाद्यागमलिङ्गाभावेऽपि परशभ्देनानुस्वारस्य देशविशेषसम्पादनादागमत्वम्, यथा---`न य्वाभ्यां पूर्वावैच्' इति ।।
समः सुटि ।। 8.3.5 ।।
`मोऽनुस्वारः' इत्यनुस्वारे प्राप्ते वचनम् । संस्कर्त्तेति । `सम्पर्युयेभ्यः करोतौ भूषणे' इति सुट्, समो मकारस्य रुत्वम्, तस्य विसर्जनीयः, तस्य `वा शरि' इति विकल्पे यथा नित्यं सकारो भवति तथा दर्शितम् ।
कथं पुनरस्मिन्सूत्रे सकारो निर्दिश्यते ? इत्याह---समः स्सुटीति द्विसकारको निर्देश इति । स च सुटः सकारे सन्देहाभावात्तद्व्यतिरेकेण द्विसकारकत्वम् । वस्तुतस्तु त्रयः सकाराः---एको विभक्तिसम्बन्धी, द्वितीय आदेशः, तृतीयस्तु रुसम्बन्धी । यदि तर्हि सकारे आदेशो विधीयते, अनुनासिको न प्राप्नोति; यस्मादत्रग्रहणं रुणा सह सन्नियोगप्रतिपत्त्यर्थमित्युक्तम् ? नैष दोषः; अत्र रुप्रकरणे यद्विधीयते तदुपलक्षणार्थं तत्र रुग्रहणम् । एतेन पूर्वसूत्रे रोः पूर्व इति व्याख्यातम् । तदत्र सत्वे कृते यदा पूर्वस्यानुनासिकः, तदा सत्वस्यासिद्धत्वाद्रुत्वाभावात् `अनचि च' इति द्विर्वचने `झरो झरि' इति पाक्षिके लोपे द्विसकारकः, त्रिसकारको वा प्रयोगः । यदा त्वनुस्वारः, तदाऽयोगवाहानां अट्प्रत्याहार उपदेशचोदनात्तस्य च हल्त्वात् `झरो झरि' इति वा लोपे द्विसकारकः, एकसकारको वा प्रयोगः । यदा त्वनुस्वारस्य हल्त्ववदच्त्वमपीष्यते, तदा ततः परस्य द्विर्वचनपक्षे सकारत्रयमपि भवति । तदेवं पञ्च रूपाणि भवन्ति---अनुनासिकपक्षे द्वौ सकारौ, त्रयो वा, अनुस्वारपक्षे द्वावेकस्त्रयो वा । पञ्चस्वपि पक्षेषु `शरः खयः' इति वा ककारस्य द्विर्वचने कृते दश रूपाणि भवन्ति । समो वा लोपमेके । एके आचार्याः समो विकल्पेन लोपमिच्छन्ति, अत्राप्यनुनासिकानुस्वारौ भवतः । तस्यापि रुप्रकरणे विधानात्तत्रानुनासिकपक्षे सकारस्य `अनचिच' इति द्विर्वचने पाक्षिके च लोपे एकसकारकत्वमपि कदाचिद्भवति । तत्रापि ककारस्य पक्षे द्विर्वचनमिति द्वादश रूपाणि भवन्ति ।।
पुमः खय्यम्परे ।। 8.3.6 ।।
पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्देशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कायित्वात् । अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य; खया प्रत्याहारेण साहचर्यात् । पुंश्चलीति । पचादौ चलडिति पाठान्ङीप्, पुंश्चलीति षष्ठीसमासः । पुंस्कामेति । पुमांसं कामयत इति `शीलिकामिभिक्षाचरिभ्यो णः' इति णः । तस्मादत्र सकार एवादेशो वक्तव्य इति । `कुप्वोः ःकःपौ च' इत्यत्रैतद्वक्तव्यम् ।
द्विसकारकनिर्देशपक्षे त्विति । यदा पूर्वसूत्रे `द्विसकारको निर्देशः' इति पक्षः, तदेत्यर्थः । स इत्यनुवर्तते इति ।
ननु च रुरपि प्रकृतः, सोऽपि प्राप्नीतीत्यत आह---रुत्वं त्विति । असम्बन्धे कारणमाह---सम्बन्धानुवृत्तिस्तस्यति । इतिकरणो हेतौ, यस्मादसौ स्वसम्बन्धिना यः सम्बन्धस्तमनुवर्त्तते तं न जहाति तस्मादित्यर्थः । यद्वा---सम्बध्यत इति सम्बन्धः । यस्मादिह स्वसम्बद्धमेव तदनुवर्तते तस्मादित्यर्थः । रुत्वं खल्विहानुवर्त्तमानमपि `मतुवसो रु सम्बुद्धौ' इति स्वेन सम्बन्धिना सम्बद्धमेवानुवर्त्तते, तस्य प्रयोजनम्---सम्बन्ध्यन्तरेण रोः सम्बन्धो मा मूदिति ।
पुंदासादयः षष्ठीसमासाः । पुंगव इति । `गोरतद्धितलुकि' इति टच्समासान्तः । परग्रहणे क्रियमाणे खयि परतो योऽम् तत्रेत्यपि विज्ञायेत, ततश्च पुमक्षः पुमाचारः---इत्यत्रैव स्यात्; तस्मात्परग्रहणम् ।।
नश्छव्यप्रशान् ।। 8.3.7 ।।
प्रशान्वर्जितस्येति । सूत्रे तु `अप्रशान्' इति षष्ठ्यर्थे प्रथमा । टीकतिर्गत्यर्थोऽनुदात्तेत् । त्सरुः = खङ्गग्रहणप्रदेशः, तत्र कुशलः त्सरुकः, आकर्षादिभ्यः कन् ।।
दीर्घादटि समानपादे ।। 8.3.9 ।।
एकपर्यायः समानशब्दः =समानपाद इत्युच्यते, तत्रेदं न सिध्यति---यजामहे यज्ञियान्हन्त देवान् इलामहयिति ? छान्दसत्वाद् भविष्यति ।
नॄन्पे ।। 8.3.10 ।।
नॄनिति षष्ठ्यर्थे प्रथमा । एवमुत्तरत्रापि `पे' इत्यकार उच्चारणार्थः, पकारमात्रं निमित्तम् ।।
स्वतवान्पायौ ।। 8.3.11 ।।
`तु वृद्धौ' सौत्रो धातुः, ततोऽसुन्---स्वं तवो यस्याऽसौ स्वतवान्, `दृक्स्ववः स्वतसां छन्दसि' इति नुम् ।।
कानाम्रेडिते ।। 8.3.12 ।।
`कान्कान्' इति वक्तव्ये आम्रेडितग्रहणं यत्र द्विर्वचनं तत्रैव यथा स्यात्, इह मा भूत्---कान्कान् पश्यतीति, एकोऽत्र किं शब्दः प्रश्ने, द्वितीयः क्षेपे ।
समः सुटीत्यतो वा सकारोऽनुवर्तत इति । यद्येवम्, पूर्वेष्वपि योगेषु स एव प्राप्नोति ? इत्यत आह---पूर्वेषु योगेष्विति ।
ढो ढे लोपः ।। 8.3.13 ।।
आकार उच्चारणार्थः, ढकारमात्रं निमित्तम्; तेन लेढा, लेढीत्यादावपि भवति । लीढमित्यादौ `हो ढः', `झषस्तथोर्धोऽधः', `झषस्तथोर्धोऽधऋ', ष्टुत्वम्, ततोऽनेन ढलोपः । ननु चासिद्धं ष्टुत्वं तत्कथमत्र लोपः ? तत्राह---ष्टुत्वस्येति । उच्यते चेदम्---ढे परतो ढस्य लोपो भवतीति, तत्र ष्टुत्वस्यासिद्धत्वे निर्विषयमेतत्स्यात् ।
ननु च यत्रौत्पतिको ढकारः---श्वलिड्ढौकत इत्यादौ, तत्र सावकाशः स्यादत आह---श्वलिड्ढौकत इत्यत्रेति । जश्त्वे कृत इति । एकपदाश्रयत्वादन्तरङ्गत्वात् `पूर्वत्रासिद्धम्' इति लोपस्यासिद्धत्वाद्वा पूर्वं जश्त्वम् । ननु च निर्विषयत्वाद् ढलोपो जश्त्वं बाधेत ? नेत्याह---न चेति । कुतः ? इत्याह---तस्य हीति ।
कथं पुनर्लीढादिरवकाशः, यावता यथा श्वलिड्ढौकते इत्यत्र जश्त्वे कृते कार्यिणोऽभावः, तथा लीढादावपि ष्टुत्वस्यासिद्धत्वान्निमित्तस्याभावः; अथ तत्र वचनसामर्थ्यात् ष्टुत्वस्यासिद्धत्वं बाध्यते, तदेतरत्रापि जश्त्वं बाधनीयम्, वक्तव्यो वा विशेषः ? अत आह---तत्र हीति । अयमभिप्रायः---लोपेन तावदसिद्धत्वमवश्यं बाध्यम्, तत्र लीढमित्यादावेकमेव `पूर्वत्रासिद्धम्' इत्यसिद्धत्वम्, अतस्तदेव बाध्यते; श्वलिड्ढौकत इत्यत्र तु ढलोपस्य जश्त्वापेक्षया बहिरङ्गत्वात् परत्वाच्च द्विविधमसिद्धत्वमिति न तद्वाध्यते । ततो जश्त्वे कृते न श्रुतिकृतमानन्तर्यम्, नापि शास्त्रकृतम्; जश्त्वस्यासिद्धत्वाभावादिति ढलोपस्यायमविषय इति ।।
रो रि ।। 8.3.14 ।।
किमिदं सानुबन्धकस्य रोर्ग्रहणम् ? आहोस्विद्रेफस्य ? कुतः संशयः ? तुल्यात्र संहिता---रोः रि, रः रीति । किं चातः ? यदि सानुबन्धकस्य ग्रहणम्, सिद्धमिन्दूरथः अग्नीरथः; इदं तु न सिध्यति---नीरक्तम्, दूरक्तमिति । अथ रेफस्य ग्रहणम्, सिद्धं नीरक्तं दूरक्तमिति; इदं तु न सिध्यतिअग्नीरथः, इन्दूरथ इति, `निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति ? नैष दोषः, वर्णग्रहणेषु नैषा परिभाषा प्रवर्त्तते ।
पदस्येत्यत्र विशेषणे षष्ठीति । एतच्च `पदस्य' `पदात्' इत्यत्रैव व्याख्यातम् । तेन किं सिद्धं भवति ? इत्याह---तेनेति । स्थानषष्ठ्यां तु रेफेण पदस्य विशेषणाद्रेफान्तस्य पदस्य लोपेन भवितव्यम् । अजर्घा इति । `एकाचो बशो भष्' इत्यत्रैतद् व्युत्पादितम् । अपास्पा इति । `स्पर्द्ध सङ्घर्षे', यङ्लुकि `दीर्घोऽकितः' इति दीर्घः, लङि सिपि शपो लुक्, सिपो हल्ङ्यादिलोपः; जश्त्वम्, `दश्च' इति रुत्वम् ।।
खरवसानयोर्विसर्जनीयः ।। 8.3.15 ।।
यद्यत्रापि पदस्येति विशेषणषष्ठी स्यात्, तदा चकर्ष, कर्कश इत्यादावपदान्तस्यापि रेफस्य विसर्जनीयः स्यात् । स्थानषष्ठ्यां तु रेफेण पदे विशेषिते रेफान्तस्य पदस्यालोन्त्यस्य विसर्जनीयविधानान्न कश्चिद्दोष इति मन्यमान आह---रेफान्तस्य पदस्येति । खरि परतोऽवसाने चेति । `परतः' इत्येतत्खरैव सम्बध्यते, नावसानेन; असम्भवात् । येन वर्णेन विरम्यते स एवावसानं स्यात् । विरतिः=वर्णस्यानुच्चारणम् । तत्र पदान्तस्य रेफस्य येन वर्णन विरम्यते स तावत्परो न सम्भवति । इतरत्पुनरवसानमभावरूपम्, न चाभावेन पौर्वापर्यं सम्भवति । तस्मात् `खरवसानयोः' इत्येकापि सप्तमी विषयभेदाद्धिद्यतेखरि परसप्तमी, अवसाने विषयसप्तमीति ।
अपर आह---वर्णेष्वप्युच्चरितप्रध्वंसिषु बुद्धिविरचितं पौर्वापर्यमस्ति, तत्त्वभावेनापि सम्भवति; तस्मादुभयत्रापि परसप्तमीति । उदाहरणेषु खरि विसर्जनीयस्य सत्वम्, चवर्गे श्चुत्वम्, टवर्गे ष्टुत्वम् ।
नार्पत्य इति । पत्युत्तरपदाण्ण्यः । वृद्धेर्बहिरङ्गलक्षणत्वादिति । बहिर्भूततद्धितापेक्षत्वाद् ??वृद्धेर्बहिरङ्गत्वम् । तदाश्रयस्य रेफस्येति । तदाश्रयत्वं तु तया सह विधानात् । `उरण् रपरः' इत्येतद्धि गुणवृद्धिविधिभिरेकतामापाद्य रपरत्वं विधत्ते, तेन वृद्धेर्यन्निमित्तं तदेव रेफस्यापि, ततस्तस्यापि बहिरङ्गत्वम् । विसर्जनीयस्तु खर्मात्रमाश्रित्य भवन्नन्तरङ्गः । ननु बहिरङ्गपरिभाषा `वाह ऊठ्' इत्यत्र ज्ञापितत्वात्तद्देशा, ततः किम् ? तस्यां कर्त्तव्यायां विसर्जनीयः `पूर्वत्रासिद्धम्' इत्यसिद्धः, सा कथमन्तरङ्गमपश्यन्ती बहिरङ्गस्यासिद्धत्वमापादयति ? नैष दोषः; `कार्यकालं संज्ञापरिभाषम्', ततश्च परिभाषान्तरवद् बहिरङ्गपरिभाषाया अप्यत्र प्रकरणे प्रवृत्तिरविरुद्धा ।।
रोः सुपि ।। 8.3.16 ।।
पयः स्विति । यत्र सकारद्वयं पठ्यते तत्र `वा शिर' इति विसर्जनीयस्य वा सकारः । सर्पिः ष्विति । यत्र विसर्जनीयः पठ्यते तत्र `नुम्विसर्जनीयशर्व्यवायेऽपि' इति प्रत्ययसकारस्य षत्वम् । षकारद्वयपाठे तु पूर्ववद्धिसर्जनीयस्य सत्त्वम्, परस्य पूर्ववदेव षत्वम्, पूर्वस्य ष्टुत्वम् । सप्तमीबहुवचनं गृह्यत इति । न प्रत्याहारः; `खरि' इत्यनुवृत्तेः, न हि सप्तमीबहुवचनादन्यः सुप् खरादिरस्ति । तेन पयोभ्यामित्यादौ विध्यर्थं न भवति, किं तर्हि ? नियमार्थम्, यदाहसिद्धे सत्यारम्भो नियमार्थ इति । रोरेव सुपीति । विपरीतस्तु नियमो न भवति---रोः सुप्येवेति; `हलोऽनन्तराः संयोगः' इत्यादिनिर्देशात् ।।
भोभगोअघोअपूर्वस्य योऽशि ।। 8.3.17 ।।
अश्ग्रहणमनर्थकमन्यत्राभावात्, अशोऽन्यः खर्भवति, तत्र च `पूर्वत्रासिद्धम्' इति यत्वस्यासिद्धत्वाद्विसर्जनीयेन भाव्यम्, कृते विसर्जनीये स्थानिवद्भावाद् रुग्रहणे ग्रहणात् स्यात्प्रसङ्ग इति चेत् ? न; अल्स्थानिकत्वात् । अत्र हि रोर्यो रेफस्य विसर्जनीयस्य स्थानी, न पुना रुरेव । किञ्च---यत्वस्याप्यस्य रोर्यो रेफः स एव स्थानी, न पुना रुरेव । तस्मादल्विधित्वादपि नास्ति स्थानिवद्भावः । संहिताधिकाराच्चावसाने यत्वं न भविष्यति, तस्मादश्ग्रहणमनर्थकम् ? इत्यत आह---अश्ग्रहणमुत्तरार्थमिति । एतदेव व्यनक्ति---हलि सर्वेषामिति । वृक्षवयतेरप्रत्यय इति । स पुनर्विच, न क्विप् । क्विपि हि एकदेशविकृतस्यानन्यत्वाद्वयति ग्रहणेन ग्रहणाद्वकारस्य सम्प्रसारणं स्यात् । `लोपो व्योर्वलि' इति वलोपः । स्थानिवत्त्वं च णेरत्र क्वौ लुप्तत्वान्न विद्यते । विचि तु णिलोपस्य स्थानिवद्भावाद्वलोपो नास्ति । सम्प्रसारणस्य त्वप्रसङ्ग एव । `हलि सर्वेषाम्' इत्यनेन तु लोपे कर्तव्ये `पूर्वत्रासिद्धे न स्थानिवत्' इति स्थानिवत्त्वनिषेधाद् वलोपः स्यादिति विशेष्यते । अथ ककारे परतः `लोपो व्योः' इति वलोपः कस्मान्न भवति, णिलोपस्य स्थानिवद्भावो नास्ति, पदान्तविधौ प्रतिषेधात्, वकारस्य पदान्तत्वात् ? नैष दोषः; भावसाधनस्त्वत्र विधिशब्दः, ततश्च पदान्ते विधीयमाने स्थानिवत्त्वनिषेधः । न च लोपः पदान्तः; तस्याभावरूपत्वात् ।
अथेति । यदि `हलि सर्वेषाम्' इत्यत्राश्ग्रहणस्य प्रयोजनम्, तत्रैवं वक्तव्यम्---`हशि' इति, तत्किं हल्ग्रहणं कृत्वाऽश्ग्रहणेन तद्विशेष्यत इति प्रश्नार्थः । एवकारो भिन्नक्रमः, तत्र हश्ग्रहणमेव कस्मान्न कृतमिति । उत्तरार्थमिति । यदि तत्र हश्ग्रहणँ क्रियते, `मोऽनुस्वारः' इत्यत्र पुनर्हल्ग्रहणं कर्तव्यम् । हल्मात्रे यथा स्यादिति । सर्वथोभाभ्यां ग्रहणाभ्यां न मुच्यामहे इति भावः । तथाप्यत्राश्ग्रहणानुरोधे प्रयोजनं वक्तव्यम् ? तदाह---व्योर्लघुप्रयत्नतर इति ।।
व्योर्लघुप्रयत्नतरः शाकटायनस्य ।। 8.3.18 ।।
अतिशयेन लघुप्रयत्नः=लघुप्रयत्नतरः । वर्णोच्चारणहेतुरात्मधर्मः = प्रयत्नः । उदाहरणेष्वान्तर्यतो वकारस्य वकारः, यकारस्य यकारः । किं पुनरिदं लघुप्रयत्नतरत्वम् ? इत्याह---लघुप्रयत्नतरत्वमिति । स्थानम्=ताल्वादि, जिह्वाया अग्रोपाग्रमध्यमूलानि=करणानि, प्रयत्नस्य लघुत्वे तानि शिथिलानि=लघूनि भवन्ति ।।
लोपः शाकल्यस्य ।। 8.3.19 ।।
अवर्णपूर्वयोरिति । ओकारपूर्वस्य तूत्तरसूत्रेण तूत्तरसूत्रेण नित्यं लोपो विधास्यते ।
शाकल्यग्रहणं विकल्पार्थमिति । ननु लोपोऽप्युच्यते, लघुप्रयत्नतरोऽपि, तावुभौवचनाद्भविष्यतः; तत्किं विकल्पार्थेन शाकल्यग्रहणेन ? अत आह---तेनेति ।।
ओतो गार्ग्यस्य ।। 8.3.20 ।।
आकारादुत्तरस्य यकारस्येति । वकारस्त्वस्मिन्विषये न सम्भवति । नित्यार्थोऽयमारम्भ इति । विकल्पस्य पूर्वणैव सिद्धत्वात् ।
किमर्थं तहि गार्ग्यग्रहणम् ? इत्याह---गाग्यग्रहणं पूजार्थमिति । व्योरिह प्रकरणे लघुप्रयत्नतरोऽपि विहितः, लोपोऽपि, तत्कस्यायं नित्यो लोपो बाधकः, आनन्तर्याल्लपिविकल्पस्य ? इत्याह---योऽयमिति ।
केचित्त्विति । यदस्मिन्प्रकरणे व्योः कार्यं तत्समुदायोऽपेक्ष्यते, न त्वनन्तरो लोपविकल्प इति तेषामभिप्रायः ।।
उञि च पदे ।। 8.3.21 ।।
भूतपूर्वेण ञकारेणेति । भूलोदाहरणेऽपि भूतपूर्वेणैव ञकारेणोञिति प्रतिपत्तिः; अनुबन्धस्य प्रयोगेऽसमवायात् । उत्तरार्थमिति । `ङमो ह्रस्वादछि ङमुण्नित्यम्' इत्येष विधिरजादौ पदे यथा स्यात्, इद मा भूत्---दण्डिनेति । नैतदस्ति प्रयोजनम्; `पदस्य' इति वर्त्तते । इह तर्हि परमदण्डिना, अत्र हि सुबन्तस्य समास इति पदत्वमस्ति ? नास्ति; उक्तं हि `उत्तरपदत्वे चापदादिविधौ' इति । तदेतत्पदग्रहणं तिष्ठतु तावत् । अयमपि नित्यार्थो योगः ।।
हलि सर्वेषाम् ।। 8.3.22 ।।
यकारस्य पदान्तस्येति । वकारस्तु भोभगोअघोपूर्वो न सम्भवति । अवर्णपूर्वस्तु सम्भवति--वृक्षव् करोतीति । तस्य तु लोपो न भवति, अशि हलीति विशेषणादित्युक्तम् । तस्माद्यकारस्येत्युक्तम् । ननु वृक्षव् हसतीत्यादौ सम्भवति ? न सम्भवति; अनभिधानात्, नह्येवंविधमभिधानमस्ति । तथा च `लण्' इत्यत्र भाष्यकार आह---`न पदान्ता हलोऽणः सन्ति' इति । एवं च वृक्षव् करोतीत्ययमपि प्रयोगश्चिन्त्यः ।।
मो।ञनुस्वारः ।। 8.3.23 ।।
अत्र पदस्येति स्थानषष्ठी, मकारेण पदस्य विशेषणान्नकारान्तस्य पदस्यालोन्त्यस्यानुस्वारो विज्ञायते । तदाह---मकारस्य पदान्तस्यति ।।
नश्चापदान्तस्य झलि ।। 8.3.24 ।।
आक्रंस्यत इति । क्रमेर्लृट्, `आङ उद्गमने' इत्यात्मनेपदम् ।।
मो राजि समः क्वौ ।। 8.3.25 ।।
सम्राडिति । `सत्सूद्विष' इत्यादिना क्विप्, व्रश्चादिना षत्वम् । साम्राज्यमिति । क्विबन्ताद् ब्राह्मणआदित्वात् ष्यञ् । अधिकसद्भावेऽपि क्विबन्तो राजतिस्तावदस्तीत्यत्रापि भवति, क्विबन्तावस्थायामेव वा प्रागेव ष्यञ उत्पत्तेर्मत्वम् ।
संयदिति । `गमः क्वौ' इत्यत्र गमादीनामिति वचनाल्लोपः, ह्रस्वस्य तुक् । किराडिति । `किं क्षेपे' इति समासः ।।
हे मपरे वा ।। 8.3.26 ।।
ह्मलयतीति । `ह्मल चलने', णिच्, `ज्वलह्वलह्मलनमामनुपसर्गाद्वा' इति पक्षे मित्संज्ञा, `मितां ह्रस्वः' इति ह्रस्वत्वम् ।
यवलपर इति । यवलाः परे यस्माद्वकारत्स तथोक्तः, यवलाश्चैते भवन्त आन्तरतम्यादनुनासिका भवन्ति, वावचनात्पक्षेऽनुस्वारोऽपि भवति ।
परग्रहणं शक्यमकर्त्तुम्; सप्तम्यैव तदर्थलाभात्---मकारे परतो यो हकारस्तत्रेति । विपर्ययस्तु न भवति; असम्भवात् । न हि मकारात्परो हकारः क्वचित् सम्भवति ।।
ङणोः कुक्टुक् शरि ।। 8.3.28 ।।
उदाहरणेषु `खयो द्वितीयाः शरि पौष्करसादेः' इति पक्षे ककारस्य खकारः, टकारस्य ठकारः ।
पूर्वान्तकरणमित्यादि । किं पुनः कारणंपदादौ छत्वं न सिध्यतीत्यत आह---शश्छोऽटीति । विरप्शिन्निति । महन्नामैतत्, विपूर्वाद्रपेरौणादिकः कर्मणि शिनिप्रत्ययः । यदि वा विरपणं विरप्, सोऽस्यास्तीति विरप्शः = शब्दितः, सङ्कीर्तत इत्यर्थः ।
षत्वप्रतिषेधार्थमिति । परादौ तु सकारः पदादिर्न स्यात् ।
ष्टुत्वप्रतिषेधार्थमिति । परादौ तु टकारः पदान्तो न स्यात् ।।
ङः सि धुट् ।। 8.3.29 ।।
`उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति `डः' इति पञ्चम्या सीति सप्तम्याः षष्ठी प्रकल्प्यत इति मत्वाऽऽह---डकारान्तादिति । सप्तमीनिर्देशस्तु लाघवार्थः । उदाहरणेषु धुटि कृते चर्त्वम्--तकारः, तस्य पूर्ववत्पक्षे थकारः ।
अथ किमर्थं धुट् परादिः क्रियते---न धुगेव पूर्वान्तः क्रियेत, एवं हि `शितुक्' इत्यत्र तुग्ग्रहणं न कर्त्तव्यं भवति, एष धुक् तत्रानुवर्त्तिष्यते ? अत आह---परादिकरणमिति । प्रक्रियालाघवार्थं तुडिति वक्तव्ये धुड्ग्रहणमुत्तरार्थम्---`नश्च' इति धुड्यथास्यात्, तुण्मा भऊत् । किञ्च स्यात्, भवान्त्साय इत्यत्र `नश्छव्यप्रशान्' इति रुत्वं प्रसज्येत ? नैतदस्ति; अम्पर इति तत्रानुवर्त्तते । किञ्च---तुटोऽसिद्धत्वादपि रोरप्रसङ्गः । तस्मात्तुडेव वक्तव्यः ।।
नश्च ।। 8.3.30 ।।
अत्रापि परादित्वात् कुर्वन् सीदतीत्यादौ `पदान्तस्य' इति णत्वप्रतिषेधो भवति ।
धुटश्चर्त्वस्यासिद्धत्वादिति । धुटो यच्चर्त्वं तस्यासिद्धत्वादित्यर्थः । यद्यपि धुडप्यसिद्धः, तथापि न तदुच्यते; सिद्धेऽपि तस्मिन्विना चर्त्वेन रुत्वस्याप्राप्तेः । नन्वस्तु चर्त्वमसिद्धम्, तथापि नैव रुः प्राप्नोति, अनम्परत्वात् ? सत्यम्; यस्त्वसौ धुट उकारः, तेन भूतपूर्वेणाम्परत्वमंभ्युपेत्यैतदुक्तम् । अन्ये तु ग्रन्थमिमं न पठन्ति ।।
शि तुक् ।। 8.3.31 ।।
`शि' इत्येषा सप्तम्यकृतार्था पूर्वसूत्रे कृतार्थायाः पञ्चम्याः षष्ठीं प्रकल्पयति, तदाह---नकारस्येति ।
अथ किमर्थमपूर्वः पूर्वान्तस्तुक् क्रियते, न प्रकृतः परादिर्धुडेव विधीयेत, तत्रापि चर्त्वेन सिध्यत्येव ? अत आह---पूर्वान्तकरणमिति । पूर्वान्तस्यापूर्वस्यतुकः करणमित्यर्थः । नकारस्यापदान्तत्वादिति । तुका पदान्तताया विहतत्वात् । परादौ तु `पदान्तस्य' इति प्रतिषेधाददोषः । तत्रेत्यादि । तत्र तुको यच्चुत्वं तदाश्रयात्सिद्धं भवति ।।
ङमो ह्रस्वादचि ङमुण् नित्यम् ।। 8.3.32 ।।
ङमः, ङमुट्---इत्युभयत्रापि प्रत्याहारग्रहणम् । उडिति प्रत्येकं ङकारादिभिः सम्बध्यते । संज्ञायां हि कृतमागमलिङ्गं संज्ञिनां भवति । ह्रस्वादित्येतन्ङमो विशेषणम्, सोऽपि ङम् पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवति । पदस्येति प्रकृतं यद्यपि षष्ठ्यन्तम्, तथापि `हमः' इत्यनेन सम्बन्धात् पञ्चम्यन्तं विपरिणम्यते । `उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति `ङमः' इति पञ्चम्या `अचि' इति सप्तम्याः षष्ठी प्रकल्प्यते । सप्तमीनिर्देशस्तु लाघवार्थः, उत्तरार्थश्च । तदेतत्सर्वं मनसि कृत्वाह---ह्रस्वात्पर इति । संख्यातानुदेशश्च देवतितव्यः; आगमानामम्, आगमिनां च समत्वात् ।
परमदण्डिनेत्यादौ सुबन्तयोः समासः, तत्र समासार्थायां विभक्तौ लुप्तायामपि प्रत्ययलक्षणेन दण्डिन्नित्यस्य पदत्वमस्तीति ङमुट् प्राप्नोतीत्याशङ्क्याह---इहेति । समासे य उत्तरो भागस्तस्य पदत्वे कर्त्तव्ये प्रत्ययलक्षणं न भवति, अपदादिविधौ=पदादिविधिं वर्जयित्वा । `सात्पदाद्योः' इत्यत्र पदादिविधौ प्रत्ययलक्षणं भवत्येवेत्यर्थः । एतद्वार्त्तिककारमतेनोक्तम् ।
सूत्रकारमतेनाप्याह---अथ वेति ।।
मय उञो वो वा ।। 8.3.33 ।।
`इको यणचि' इत्यनेनैव सिद्धत्वान्नार्थोऽनेन ?---इत्याशङ्क्याह---प्रगृह्यत्वादिति । प्रगृह्यत्वं च `निपात एकाजनाङ्' इति । एवमपि `इको यणचि' इत्यस्यानन्तरम् `मय उञो वा' इति वक्तव्यम्, एवं हि वग्रहण न कर्त्तव्यं भवति ? तत्राह---तस्यासिद्धत्वादिति । यदा त्वितिपर उञ् भवति मयश्च परः, तदा `उञः' इति प्रकगृह्यसंज्ञाया विकल्पः, ऊँआदेशश्च; तत्र यदा प्रगृह्यसंज्ञा न भवति तदानेन वत्वं च प्राप्नोति यणादेशश्च, तत्रास्य वत्वस्यासिद्धत्वाद्यणादेशे सत्यनुस्वारोऽपि भवति---किंविति । प्रगृह्यसंज्ञआपक्षे त्वनेन वा वत्वम्---किव्विति, किमु इति । ऊँआदेशस्यापि स्थानिवद्भावादनेन पक्षे वकारो भवति, स चान्तरतमत्वादनुनासिकः, तच्चतुर्थं रूपम् । ऊँआदेशस्यैव वत्वाभावपक्षे श्रवणम्, तत्पञ्चमं रूपम् ।।
विसर्जनीयस्य सः ।। 8.3.34 ।।
इह खरवसानयोर्द्वयोरपि रेफस्य विसर्जनीय उक्तः, तत्रेह निमित्तविशेषानुपादानात्खरि वावसानेऽपि सत्वं प्राप्नोति--वृक्षः, प्लक्ष इति ? सहितायामिति वर्तते, न चावसाने संहितास्ति; परस्याभावात् । मा भूत्परः, पूर्वेण या संहिता तदाश्रयं सत्वं प्राप्नोति, `इको यणचि' इत्यादौ तु कार्यिनिमित्तयोर्द्वयोरप्युपात्तत्वात्तयोरेव परस्परं संहिताश्रीयत इति दधि+अत्रेति पूर्वपराभ्यामिगचोः संहितायां सत्यामपि कार्यं न भवति; परस्परमसंहितत्वात् । स्यादेतत् । सामान्यविहिता संहितासंज्ञा, विशेषविहितावसानसंज्ञा; कार्ययोरेकवर्णविषयत्वात्कार्यार्थत्वाच्च संज्ञानां संज्ञयोरप्येकविषयत्वाद्वाध्यभादकभावः । यद्वा---`सन्निकर्षः संहिता' इतीयता सिद्धे परग्रहणमतिशयप्रतिपत्त्यर्थम्---प्रकृष्टो यः सन्निकर्षः । कश्च प्रकृष्टः ? यः पूर्वपराभ्यामुभाभ्यामपि । तदभावादवसानस्य संहितासंज्ञाया अभावः । यद्येवम्, अणो।ञप्रगृहस्यानुनासिके दोषः, तत्र हि `वावसाने' इति वर्त्तते; संहिताधिकारश्चोत्तरार्थोऽवश्यमनुवर्त्यः---`तोलि' इति परसवर्णोऽसंहितायां मा भूत्---अग्निचित् लुनातीति, ततश्च संहितावसानोभयाश्रयोऽनुनासिको दधि इत्यादौ न स्यादिति संहितावसानसंज्ञयोः समावेश एषितव्यः, ततश्चावसानेऽपि सत्वप्रसङ्गः ? अत आह---खरीत्यनुवर्त्तत इति । तदनुवृत्तिश्च मण्डूकप्लुतिन्यायेन, सम्बन्धानुवृत्त्या वा वेदितव्या; अन्यथा हि पूर्वत्रापि खरि कार्य विज्ञायेत ।
किं पुनरत्र प्रमाणं खरीत्यनुवर्त्तते इति ? उत्तरत्र शर्पर इति वचनम्, स हि बहुव्रीहिः, तस्यान्यपदार्थापेक्षाया यो विसर्जनीयात्परः सम्भवति स एवान्यपदार्थः, स च खरेवः, अवसानस्य शर्परत्वासम्भवात् । यद्वा---यदि खरवसानयोर्द्वयोरपि सत्वं स्यात् विसर्जनीयविधानमनर्थकं स्यात्; `खरवसानयोस्सः' इत्येव वाच्यं स्यात् । एवं हि `विसर्जनीयस्य' इति न वक्तव्यं भवति । अवश्यम् `शर्परे विसर्जनीयः' इत्यस्य स्थानिनिर्देशार्थं विसर्जनीयस्येति वक्तव्यम् ? न वक्तव्यम्; पुरस्तादपकर्षेणाप्येतत्सिद्धम्, एवं वक्ष्यामि---`रो रि खरवसानयोः सः, रोः सुपि शर्परे विसर्जनीयः' इति, शर्पर इत्यत्र `र' इति वर्त्तते, न तु `रोः' इति, तेन सुगीः त्सरुकः, पुरुषः त्सरुकः इत्यादौ सर्वत्र भवति । अथ `भोभघोअघो' इत्यादिसूत्रं कुत्र करिष्यसि ? `शर्परे विसर्जनीयः' इत्यस्यानन्तरम् । यद्येवम्, स्वरत्र, स्वर्नयतीत्यादावपि यत्वप्रसङ्ग इति पुना रुग्रहणं कर्तव्यम् ? एवं तर्हि `रोः सुपि' इत्यस्यानन्तरम् `भोभगो' इत्यादि रुस्थानिकादेशविधानार्थं पठित्वा `शर्परे विसर्जनीयः' इत्यादिकं पठिष्यते । एवमपि पुनारग्रहणं कर्त्तव्यम्; रुणा विच्छिन्नत्वात् ? एवमपि यथान्यासे सति त्रीणि ग्रहणानि---द्वे विसर्जनीयग्रहणे, तृतीयं सग्रहणम्; अन्यथान्यासे तु द्वे सग्रहणे रुग्रहणं च । तदेवं लघीयसा न्यासेन सिद्धे विसर्जनीयविधानसामर्थ्यान्न सर्वत्र सत्वं भविष्यति ।
एवमपि कुत एतत्---खरि भवति, न पुनरवखान इति ? ज्ञापकात्, यदयं शर्परे खरि विसर्जनीयं विधत्ते, तज्ज्ञापवति---खरि तावदस्ति सत्वमिति । विपर्यये हि पुरषः त्सरुक इत्यादौ सत्वाभावादस्त्येव विसर्जनीय इति तद्विधानमनर्थकं स्यात् । नैतदस्ति ज्ञापकम्; अस्त्येतस्य ववने प्रयोजनम्, किम् ? वासः क्षौमम्, अद्भिः प्सातमित्यादौ जिह्वामूलयोपध्मानीवौ मा भूतामिति ? नैतदस्ति; यद्येतावत्प्रयोजनं स्यात् `कुत्वोः ःकःपौ वा शरि' इत्येव ब्रूयात् । तदेवं विधानसामर्थ्यात्खर्येवायं विधिः । अनेन चैवाभिप्रायेण `खरीत्यनुवर्त्तते' इत्युक्तम् ।।
शपरे विसर्जनीयः ।। 8.3.35 ।।
शर्परो यस्मादिति बहुव्रीहिः, परग्रहणेऽक्रियमाणे शरएव केवलस्य निमित्तता विज्ञायेत, न खरीत्यनुवृत्तेः, `वा शरि' इत्यभिधानाच्च । विपर्ययस्तर्हि विज्ञायेत---खर्परे शरीति, नित्यः स्फोटः, पुरुषः स्थातेति । तस्मात्परग्रहणम् ।
अथ किमर्थण्, `विसर्जनीयः' इत्युच्यते, न `न' इत्येवोच्येत, सत्वे हि प्रतिषिद्धे विसर्जनीयः स्वेनैव रूपेणावस्थास्यते ? अथ आह---विसर्जनीयस्येति । सत्यम्; पुरुषः त्सरुक इत्यादौ सत्वनिषेधेनापि सिद्धम्, यत्र तु कुपू शर्परौ---वासः क्षौमम्, अद्धिः प्सातमिति, तस्य विसर्जनीयस्य यो विकारो जिह्वामूलीयादिः स एव स्यात् । विसर्जनीयग्रहणे तु सति विसर्जनीय एव भवति । जिह्वामूलीयोपध्मानीयावपि न भवत इति । केवलं सकार एवेत्यपि शब्दार्थः ।।
वा शरि ।। 8.3.36 ।।
वृक्षा स्थातार इति । लोपाभावपक्षे विसर्जनीयः, सत्वं वा ।।
कुप्वोः ःकःपौ च ।। 8.3.37 ।।
विसर्जनीयश्चेति । अनेन चकारो विसर्जनीयानुकर्षणार्थ इति दर्शयति । अथ वाग्रहणमेवानुवर्त्य जिह्वामूलीयोपध्मानीयौ कस्मान्न विल्प्येते, एवं हि चकारो न कर्त्तव्यो भवति ? नैवं शक्यम्; एवं ह्याभ्यामुक्ते `विसर्जनीयस्य सः' इति सत्वमेव स्यात् । तस्माच्चकारेणैवानुकृष्य विसर्जनीयो विधातव्यः, वाग्रहणं च नानुवर्त्यम् । तदनुवृत्तौ हि त्रिभिरपि मुख्ये पक्षे सत्वं प्रसज्येत ।
सूत्रे ककारपकारसहितयोर्जिह्वामूलीयोपध्मानीययोरुच्चारणात्तथाभूतावेव विसर्जनीयस्यादेशाविति शङ्कमानं प्रत्याह---कपावुच्चारणार्थाविति । ताभ्यां विना तयोरुच्चारयितुमशक्यत्वादिति भावः । कीदृशौ तर्ह्यादेशौ ? इत्याह---जिह्वामूलीयेति । इह विसर्जनीयस्य स्थाने आदेशत्रयं विधीयते, ततश्च शर्परयोरेव कुप्वोः प्राप्नोति---वासः क्षौमम्, अद्भिः प्सातमिति, अत्र हि `शर्परे विसर्जनीयः' इति विसर्जनीयोऽस्ति, न च तस्य वैयर्थ्यम्; यत्र कुपुभ्यामन्यः शर्परः खरस्तिपुरुषः त्सरुक इत्यादौ, तत्र सावकाशत्वात् । अशर्परयोस्तु कुप्वोर्न स्यात्, न हि तस्य विसर्जनीयोऽस्ति, `विसर्जनीयस्य सः' इति सत्वेन निर्वर्तितत्वात् । किं पुनः कारणं सत्वमेव तावद्भवति ? तत्र कर्त्तव्ये तस्य विधेरसिद्धत्वात् । तस्मादत्र सकारः स्थानी निर्देष्टव्यः---यः `विसर्जनीयस्य सः' इति सः, तस्य स्थाने कुप्वोरादेशत्रयं भवतीति ।
एवं हि शर्परयोः कुप्वोः सकारापवादो विसर्जनीयो विधीयेत इति सकाराभावादादेशाप्रसङ्गः, केवलयोस्त्वादेशप्रसङ्गः, तस्मात्सस्येति वक्तव्यम्, यदाह वार्त्तिककारः---`सकारस्य कुप्वोर्विसर्जनीय---जिह्वामूलीयोपध्मानीयाः, विसर्जनीयादेशे हि शर्परयोरेवादेशप्रसङ्गः' इति ? अत्र परिहारामाह---विसर्जनीयस्य स इत्येतस्मिन्निति । अयमभिप्रायः---`विसर्जनीयस्य सः' इति सकारस्य स्थानी विसर्जनीय उपात्तः, स च द्विविधः सम्भवति---शर्परलक्षणः, खरवसानलक्षणश्च । तत्र शर्परलक्षणस्यासिद्धत्वादितरः सकारस्य स्थानी, स एव चेहानुवर्तते; ततश्च नाप्राप्ते सत्वे इदमारभ्यते; सर्वस्य विषयस्य तेन व्याप्तत्वात् । `शर्परे विसर्जनीयः' इत्येतत्तु शर्परयोः कुप्वोः प्राप्तम्, केवलयोस्त्वप्राप्तमिति न तं प्रत्यस्य बाधकलक्षणयोग इति । स्यादेतत्, मा भूदपवादत्वम्, परत्वात्तु शर्परयोरपि कुप्वोरयमेव विधिः प्राप्नोति ? तत्राह---पूर्व्रत्रासिद्धे इति ।
परिहारान्तरमाह---केचित्त्विति । `कुप्वोः' इत्येको योगः, अत्र `शर्परे विसर्जनीयः' इति वर्तते, शर्परयोः कुप्वोः विसर्जनीय एव भवति, न ःकःपाविति । किञ्च---पूर्वंसूत्रे `नेति वक्तव्ये विसर्जनीयविधानं तद्विकारनिवृत्त्यर्थम्' इत्युक्तम् । तेन शपरयोः कुप्वोरस्य विधेरप्रसङ्ग एव ।।
सोऽपवादादौ ।। 8.3.38 ।।
`अपदादौ' इति कुप्वोरेतद्विशेषणम्, व्यत्ययेन त्वेकवचनम् । पूर्वस्यायमपवादः । पाशकल्पककाम्येष्विति । सम्भवप्रदर्शनमेतत्, न परिगणनम्; अन्यस्यासम्भवात् । प्रातः कल्पमिति । अधिकरणशक्तिप्रधानस्यापि प्रातः---शब्दस्य वृत्तिविषये शक्तिमद्वाचित्वादीषदसमाप्त्या योगः, यथा---दोषाभूतमहः, दिवाभूता रात्रिरित्यत्राभूततद्भावयोगः ।
रोः काम्ये नियमार्थमिति । एतदेव विवृणोति---रोरेवेति । गीः काम्यतीति । उत्तरसूत्रेण षत्वं न भवति । यदि पुनस्तत्रैवेदमुच्यते ? नैवं शक्यम् ; षत्वमात्रप्रतिषेधेऽप्यनेन सत्वं प्राप्नोति । उपघ्मानीयस्य चेति । अस्यैव विवरणम्---कवर्गेपरत इति । उब्जिरयमित्यादि । यथा पुनरयं दकारोपध एषितव्यः, तथा `हयरट्' इत्यत्रोक्तम् ।।
इणः षः ।। 8.3.39 ।।
पूर्वेण सत्वे प्राप्ते तदपवादः षत्वं विधीयते । अत्र केचिदाहुः---``योऽयम् `सोऽपदादौ' इति सकारः, स एवोत्तरत्र सर्वत्र कुप्वोः प्रकरणे विधीयते, अनेन तु तस्यैव सकारस्येण उत्तरस्य षत्वं विधीयते, न विसर्जनीयस्य, `अपदादौ' इति चात्र न सम्बध्यते" इति । स तर्हि सकारः स्थानी निर्देष्टव्यः ? नेत्याह; प्रकृतोऽनुवर्त्तते---`सोऽपदादौ' इति, तस्य `इणः' इति पञ्चम्या षष्ठी प्रकल्प्यते ।
एवमपि वक्ष्यमाणैर्योगैर्विहितस्य सकारस्य षत्वं न प्रापनोति, अस्मिन्कर्त्तव्ये तेषामसिद्वात्वात् ? नैष दोषः; अचार्यप्रवृत्तिर्ज्ञापयति---न योगे योगोऽसिद्धः, किं तर्हि ? प्रकरणे प्रकरणमसिद्धमिति; यदयम् `उपसर्गादसमासेऽपि' इत्यत्र `असमासेऽपि' ग्रहणं करोति । कथं कृत्वा ज्ञापकम् ? अन्तरेणाप्यसमासेपिग्रहणं विशेषानुपादानात्समासासमासयोर्णत्वं भविष्यति, न च समासे `पूर्वपदात्संज्ञायामगः' इति नियमाण्णत्वस्य निवृत्तिः, नियमे कर्त्तव्ये `उपसर्गात्' इत्यस्य णत्वस्यासिद्धत्वात् । पश्यति त्वाचार्यः---प्रकरणे प्रकरणमसिद्धमिति, ततः `असमासेपि' ग्रहणं करोति, तदा हि सह नियमेन सर्वमेव णत्वप्रकरणमेकमिति नियमे कर्तव्ये उपसर्गादिति णत्वस्य सिद्धत्वान्नियमेन व्यावृत्तिः स्यादिति कर्त्तव्यं समासेऽपिग्रहणम् । तदेवं सकारस्य षत्वं विधीयते, न विसर्जनीयस्य; उत्तरत्र च सत्वमेवानुवर्त्तते, न षत्वमिति ।
अयमपि पक्षो निर्दोष एव, किन्तु षष्ठीप्रकल्पनं ज्ञापकाश्रयणं चेति प्रतिपत्तिगौरवप्रसङ्गाद् वृत्तिकारेण नाश्रितः । कस्तर्हि तस्य पक्षः ? उत्तरत्र द्वयमप्यनुवर्त्तते---सकारः, षकारश्चेति । यद्येवम्, सर्वत्र द्वयमपि प्राप्नोति---अथ सकारो वानुवर्तते `इदुदुपधस्य च' इत्यादौ यत्रेणः परो विसर्जनीयस्तत्रापि सकार एव प्राप्नोति; अथ षकार एवानुवर्त्तते `नमस्पुरसोर्गत्योः' इत्यादौ यत्रानिणः परो निसर्जनीयस्तत्रापि षकार एव प्राप्नोति ? नैष दोषः; `इणः षः' इति समुदायस्य स्वरितत्वं प्रतिज्ञायते । यदाह---इणः ष इति वर्त्तत इति । ततः षत्वं तावदनिण्विषये न भविष्यति । एवमपि षत्वविषये सत्वमपि प्राप्नोति ? न; षकारेण तस्य बाधनात्, चकाराकरणाच्च । यदि परमनुवृत्तिसामर्थ्यात्तत्प्रसङ्गः ? तदपि न; उत्तरार्थमप्यनुवृत्तिसम्भवात् । तदिदमुक्तम्---य इणः परे विसर्जनीयस्तस्य षकार आदेशो भवत्यन्यस्य तु सकार इति । किमर्थं पुनरिदमारभ्यते, यावता सत्वमेवात्र प्रकरणे विधीयताम्, तस्य त्वादेशसकारत्वात् `इण्कोः' इति षत्वं भविष्यति ? सिध्यति; `अपदान्तस्य' इति तत्र वर्त्तते, पदान्तार्थोऽयमारभः ।।
नसस्पुरसोर्गत्योः ।। 8.3.40 ।।
अतः प्रभृति `अपदादौ' इति निवृत्तम् । नमः शब्दस्य तु `पुरोऽव्ययम्' इति ।
पुरः पश्येति । `पॄ पालनपूरणयोः', `भ्राजभास' इत्यादिना क्विप्, तदन्ताच्छस् । अस्य तदन्ततां दर्शयितुम्--पूः पुरावित्यनयोरुपन्यासः ।।
इदुदुपधस्य चाप्रत्ययस्य ।। 8.3.41 ।।
इदुतावुपधे यस्य स इदुदुपधः समुदायः, तस्य यो विसर्जनीय इति वैयधिकरण्येन सम्बन्धः । अप्रत्ययस्येत्येतदपि व्यधिकरणमेव । निर्दुर्बहिराविश्चतुष्प्रादुरिति । अन्येषां सम्भवतां प्रतिषेधस्य वक्ष्यमाणत्वान्नेदं परिगणनम्, किं तर्हि ? सम्भवप्रदर्शनम् । चतुष्कपालमिति । तद्धितार्थे द्विगुः, `संस्कृतं भक्षाः' इत्यणः `द्विगोर्लुगनपत्ये' इति लुक् । चतुष्कण्टकमिति । बहुव्रीहिः ।
मातुः करोतीत्यादि । चोद्यम्---अत्र हि मातृ+अस् इति स्थिते `ऋत उत्' इत्युकारो भवन् `यो ह्युभयोः स्थाने' इति न्यायेन रपरो भवति, ततश्च `रात्सस्य' इति प्रत्ययसकारस्य लोपे कृते रेफस्य विसर्जनीयो भवति । परिहरति---करकादिष्विति । एकादेशनिमित्तादिति । कर्मधारयः, एकादेशरूपनिमित्तादित्यर्थः, एकादेशशास्त्रं वा निमित्तं यस्योकारस्य तस्मादित्यर्थः ।
पुम्मुहुसोरिति । अव्युत्पन्नावेताविति प्रतिषेध उच्यते । तत्र पुंसः प्रतिषेधेन नार्थः । षत्वं कस्मान्न भवति ? विसर्जनीयाभावात्, उक्तं हि `सम्पुंकानां सत्वम्' इति, तत्र सत्वस्यासिद्धत्वाभावाद्विसर्जनीयाभावः । तच्चावश्यं सत्वं वक्तव्यम्, रुविधौ विसर्जनीयस्य षत्यपतिषेधेऽपि `कुप्वोः ःकःपौ च' इत्येव विधिः प्राप्नोति---मुहुः कामो यस्याः सा मुहुः कामा, तत्र `कुप्वोः ःकःपौ च इत्येष एव विधिर्भवति । क्वचित्तु मुहुस्कामेति सत्वं पठ्यते सोऽपपाठः, न ह्यत्र सत्वसम्भवः; सूत्रवार्त्तिकयोरनिबद्धत्वात् । नैष्कुल्यमिति । ब्राह्मणआदित्वात् ष्यञ् । नि3ष्कुलं दु3ष्कुलमिति । `गुरोरनृतः' इत्यादिना प्लुतः । बहिरङ्गलक्षणयोरिति । बहिर्भूततद्धितापेक्षत्वाद्वद्विर्बहिरङ्गा, प्लुतोऽपि दूराद्धूतादिकमर्थं वाक्यं चापेक्षत इति बहिरङ्गः ।।
तिरसोऽन्यतरस्याम् ।। 8.3.42 ।।
`तिरोऽन्तर्धौ' इति तिरः शब्दस्य गतिसंज्ञा ।
तिरः कृत्वेति । अत्रान्तर्धेरविवक्षितत्वादगतित्वम् ।।
द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ।। 8.3.43 ।।
उभयत्रविभाषेयम्, `चतुर्' इत्यस्याप्रत्ययविसर्जनीयत्वाद् `इदुदुपधस्य च' इति प्राप्ते, इतरयोरप्राप्ते । `इसुसोः सामर्थ्ये' इत्यनेन त्वत्र सिद्धिर्न शङ्कनीया; इसः प्रत्ययस्य तत्र ग्रहणात् ।
कृत्वोर्थ इति किमिति । सुजन्ताः कृत्वोऽर्थं न व्यभिचरन्तीति प्रश्नः । चतुः---शब्दस्य सुजन्तत्वे प्रमाणं नास्तीत्युत्तरम् । यदि तु साहचर्यं व्यस्थापकम्, तदा तदर्थमपि कृत्वोऽर्थग्रहणं न कर्त्तव्यम्, क्रियते च ? तज्ज्ञापकार्थम्, एतज्ज्ञापयति---न सर्वत्र साहचर्यं व्यवस्थापकमिति । किं सिद्धं भवति ? `दीधीवेवीटाम्' इत्यत्र धातुसाहचर्येणाप्यागमस्येटो ग्रहणं भवति ।
द्विस्त्रिश्चतुरिति किम् ? पञ्चकृत्वः करोतीत्यत्र सत्वं मा भूत् । नैतदस्ति प्रयोजनमित्याह--इदुदुपधस्येत्यस्यानुवृत्तौ सत्यामित्यादि । कृत्वोऽर्थो विषयो यस्यतत्तथोक्तम् । कृत्वोर्थे यत्पदं वर्तते तस्य यो विसर्जनीयः---इत्येवं विशेष्यमाणं इत्यर्थः । यदि तु कृत्वोऽर्थग्रहणेन विसर्जनीयो विशेष्येत, तदा चतुरो न स्यात् । एतच्च श्लोकेषु व्यक्तीकरिष्यति ।
एवं श्लोकवार्त्तिककारमतेन द्विस्त्रिश्चतुर्ग्रहणं प्रत्याख्यातम् । तानेव श्लोकानुदाहरति---कृत्वसुजर्थे इति । कस्माद्धेतोः कृत्वसुजर्थे षत्वं व्रवीति, कृत्वोऽर्थग्रहणस्य किं प्रयोजनमित्यर्थः । अत्र च वक्ष्यमाणोऽभिप्रायः । प्रयोजनमाह---चतुष्कपाल इति । चोदयिता स्वाभिप्रायं प्रकाशयति---ननु सिद्धमिति । नन्वित्यभ्युपगमे । भवत्वनेन चतुष्कपालेऽपि विभाषा, तथापि नित्यं षत्वं सिद्धम् । कथम् ? अनेन मुक्ते `इदुदुपधस्य च' इति षत्वं भविष्यति ।
परिहरति---सिद्धे ह्ययमिति । सिद्धे प्राप्त इत्यर्थः । कथं प्राप्तिः ? इत्याह---लुप्ते इति । चतुरस् इति स्थिते `रात्सस्य' इति सुचो लोपः, रेफस्य विसर्जनीयः । सोऽयमप्रत्ययविसर्जनीयो भवति, यदि सुचो रुत्वं पूर्वस्य `रोरि' इति लोपः, रोर्विसर्जनीयो भवति, किन्तु `ढ्रलोपे' इति दीर्घः प्राप्नोति, रुत्वस्यासिद्धत्वात्, पूर्वमेव च लोपेन भवितव्यम्, एवं च कृत्वोऽर्थग्रहणं कर्तव्यमित्युक्तम् ।
इदानीं तदाश्रयणेन द्विस्त्रश्चतुर्ग्रहणं प्रत्याचष्टे---एवं सतीति । किं कार्यमिति । न किञ्चिदित्यर्थः । कथम् ? इत्याह---अन्यो हीति ।
इतरोऽसति द्विरादिग्रहणे दोषं दर्शयति---अक्रियमाण इति । विसर्जनीयो विशेष्येतेति । तस्य कार्यित्वेन प्राधान्यादिति भावः । सम्भावने लिङ् । विशेष्यतां विसर्जनीयः, को दोषः ? इत्यत आह---चतुर इति । तथेति । अनन्तरोक्ते विशेषणप्रकारे चतुरो न सिध्यतीति । कस्मात् ? इत्याह---रेफस्येति ।
क्रियमाणे तु द्विरादिग्रहणे नायं दोषः, इत्याह---तस्मिस्त्विति । इतरयोर्विशेषाभावाच्चतुरो विशेषणं युक्तमित्युक्तम् । प्रत्याख्यानवाद्याह---प्रकृतं पदमिति । यदुक्तम्---`कार्यित्वेन प्रधानभूतो विसर्जनीयः' इति, तन्न; सोऽपि प्रकृतस्य पदस्य षत्वमिति, स त्वर्थाद् `अलोऽन्त्यस्य' इति विसर्जनीयस्य भवतीत्येतावत् पदमेव तु कार्यि, तदिदमुक्तम्---तदन्तमिति । तस्यापीति । अपिशब्दोऽवधारणे, तस्यैवेत्यर्थः ।
एवं श्लोकवार्त्तिककारेण प्रत्यख्याते द्विरादिग्रहणे वृत्तिकारः स्थापयितुमाहएवमिति । पूर्वेणेति । `इदुदुपधस्य च' इत्यनेन । नित्यं षत्वं स्यादिति । अस्य तु द्विस्त्रिः शब्दाववकाशौ । न च परत्वादयमेव विधिः सिद्ध्यतीत्याह---पूर्वत्रासिद्ध इति ।
श्लोकवार्त्तिककारस्य त्वयमभिप्रायः---प्रकरणे प्रकरणमसिद्धम्, न योगे योगः, तेनास्यासिद्धत्वं भवतीति । अथ वा---`इदुदुपधस्य कृत्वोऽर्थवृत्तेर्नाप्राप्ते नित्ये षत्वस्यारम्भादपवादत्वमित्यपवादत्वादेव, वचनप्रामाण्यादितिवा सिद्धत्वमिति ।
अथ `सुचः' इत्येव कस्मान्नोक्तम्, किमनेन महता प्रबन्धेन ? एवमुच्यमाने सुचि विसर्जनीयो विशेष्येत---सुचो यो विसर्जनीय इति, ततश्च चतुरो न स्यात् । एवं तर्हि सुजन्तस्येति वक्तव्यम्---सुजन्तस्य यो विसर्जनीय इति ? एवमपि `पदस्य' इत्यनुवृत्तेर्यत्र सुजन्तं पदं तत्रैव स्यात्---द्विष्करोतीति, इह तु न स्यात्---परमद्विष्करोतीति । यत्पदं तन्न सुजन्तम्, तस्मात्सुचोऽविहितत्वात् । यच्च सुजन्तं द्विरिति न तत्पदम्;`उत्तरपदत्वे चापदादिविधौ' इति पदसंज्ञायाः प्रतिषेधात् ।
इसुसोः सामर्थ्ये ।। 8.3.44 ।।
तिष्ठत्वित्यादि । अत्रसपरिरित्यस्य तिष्ठत्वित्यनेन सम्बन्धः, `पिब' इत्यस्य तूदकमित्यनेनेति परस्परलसम्बन्धाभावादसामर्थ्यम् । सामर्थ्यमिह व्यपेक्षेति । अवधारणमत्र द्रष्टव्यम्--व्यपेक्षैवेति । प्रयोजनमुत्तरत्र वक्ष्यते । न पुनरेकार्थीभाव इति । अत्राप्यवधारणं द्रष्टव्यम्---एकार्थीभाव एव गृह्यत इति यत्तन्न व्यपेक्षैवेत्यर्थः । ननु च सामर्थ्यशब्दः सामान्यशब्दः, न च सामान्यशब्दः प्रकरणादिकमन्तरेण विशेषेऽवतिष्ठते, तत्कथं व्यपेक्षैव सामर्थ्यं गृह्यते, न पुनरेकार्थीभाव इत्युच्यते, उभयं तु कस्मान्न गृह्यते ? अत आह---उभयं वेति । नेत्येव; उभयमपि गृह्यत इति यत्तदपि नैवेत्यर्थः । अयं भावः---पदविधित्वादेव समर्थपरिभाषोपस्थानात् सामर्थ्ये लब्धे पुनः सामर्थ्यग्रहणादिष्टस्य व्यपेक्षालक्षणस्यैव सामर्थ्यस्य परिग्रहः; नेतरस्य, नाप्युभयोरिति ।।
नित्यं समासेऽनुत्तरपदस्थस्य ।। 8.3.45 ।।
परसमर्पिष्कुण्डिकेति । ननु च `अर्चिशुचिहुसृपिच्छदिच्छादिभ्य इसिः', `जनेरुसिः', `अतिपयजितनिधनिवपिभ्यो नित्' इत्येवं सर्पिः, यजुरित्यादय इसुसन्ता व्युत्पाद्यन्ते, ततश्च प्रत्ययग्रहणपरिभाषया सर्पिरादीनामेवेसुसन्तत्वम्, न परमसर्पिरादीनाम्, तत्कथमत्र प्रसङ्गः; अवश्यं चोणादीनामपि व्युत्पत्तिपक्ष एवाश्रयणीयः; अव्युत्पत्तिपक्षे ह्याश्रीयमाणे सर्पिषा, यजुषेत्यादौ षत्वं न सिद्ध्यति, अप्रत्ययसकारत्वात्; तस्मादनर्थकमनुत्तरपदग्रहणम् ? अत आह---एतदेवेत्यादि । ज्ञापनस्य प्रयोजनमाह--तेनेति । अथ पूर्वसूत्रेण समासेऽपि विकल्पः कस्मान्न भवति ? इत्यत आह--व्यपेक्षा चेति । केचित्तु ```नित्यं समासे' इत्येको योगः, `अनुतरपदस्थस्य' इति द्वितीय इति योगविभागेन समासे सर्वा षत्वप्राप्तिरुत्तरपदस्थस्य प्रतिषिध्यते" इति वदन्तः पूर्वत्र द्विविधेऽपि सामर्थ्ये समाश्रिते न दोष इत्याहुः ।।
अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।। 8.3.46 ।।
कृ, कमीति धातुग्रहणम् । इतरेषां स्वरूपग्रहणम् । अयस्कार इति । `कर्मण्यण्' । अयस्काम इति । `शीलिकामि' इत्यादिना णप्रत्ययः, अयस्कंसादयः षष्ठीसमासाः । कंसग्रहणमनर्थकम्, कमिग्रहणेनैव सिद्धत्वात्, कंसशब्दो हि `वॄतॄवदिहनिकमिभ्यः सः' इति कमेरेव व्युत्पाद्यते ? ज्ञापनार्थं तु, एतत् ज्ञापयति---उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीति । अयस्कुम्भीति । कुम्भशब्दाज्जातिलक्षणो ङीष् । अयस्पात्रीति । पात्रशब्दः ष्ट्रन्प्रत्ययान्तः, षित्त्वान्ङीष् । अयस्कुशेति । नात्रायोविकारो विवक्षितः, तेन `जानपद' इति सूत्रेण ङीष् न भवति । अयस्कर्णीति । अय इव कर्णी यस्याः सा अयस्कर्णी, `नासिकोदर' इत्यादिना ङीष् । शुनस्कर्ण इत्ययं त्विति । सूत्रे त्वीकारान्तस्य कर्णीशब्दस्य निर्देशादत्राप्रसङ्गः ।
भाः करणमिति । षष्ठीसमासः । भास्कर इत्ययं त्विति । `दिवाविभा' इत्यादिना टप्रत्ययः । जयादित्यस्तु तस्मिन्सूत्रेऽवोचद्---`भास्करान्तेति प्रत्ययसन्नियोगेन सत्वं निपात्यते' इति । श्वः कारः, पुनः काम इति । धञन्तेन मयूरव्यंसकादित्वात् समासः ।।
अधः शिरसी पदे ।। 8.3.47 ।।
इत्येतयोरिति । सूत्रे तु षष्ठीस्थाने प्रथमा । पद इति स्वरूपस्य ग्रहणम् न सुप्तिङन्तस्य; तस्य समासाधिकारादेव सिद्धत्वात् । तदाहपदशब्दे परत इति ।
मयूरव्यंसकादित्वात्सामास इति । अधस्पदमित्यत्र तु षष्ठीसमासः ।।
कस्कादिषु च ।। 8.3.48 ।।
`कुप्वोः ःकःपौ च' इत्यस्यापवादः । यथायोगमिति । इणः परस्य षत्वम्, अन्यस्य सत्वमित्येष यथायोगार्थः । कस्क इति । स्वन्तस्य किमो वीप्सायां द्विर्वचनम् । कौतस्कुत इति । कुतः शब्दस्य पूर्ववद् द्विर्वचनम्, तस्मात् `तत आगतः' इत्यण्, `अव्ययानां भमात्रे टिलोपः' । भ्रातुष्पुत्र इति । `ऋतो विद्यायोनिसम्बन्धेभ्यः' इत्यलुक् । शुनस्कर्ण इति । `षष्ठ्या आक्रोशे' इत्यलुक् । पारायणेन दीव्यन्ति व्यवहरन्तीति पारायणिकाः । पारायणं द्विविधम्---धातुपारायणम्, नामपारायणमिति ।
भाष्ये वृत्तावित्यादिनाऽनन्तरोक्तमर्थं निराकरोति । अविहितलक्षण इत्यादिनाऽऽकृतिगणोऽयमिति दर्शयति । विसर्जनीयस्थानिकयोः सकारषकारयोः उपचार इति संज्ञा ।।
छन्दसि वाऽप्राम्रेडितयोः ।। 8.3.49 ।।
अयस्पात्रमिति । असमासोऽयम् । समासे हि`अतः कृकमि' इत्यादिना नित्यं सत्वं प्राप्नोति; अस्य विकल्पस्यासिद्धत्वात्, असमासे चास्य विकल्पस्य चरितार्थत्वात् । यदि वा `प्रकरणे प्रकरणमसिद्धम्' इति पक्षे समासेऽप्युदाहरणम्, किन्त्वनेन मुक्ते तेन नित्यं प्राप्नोति, तस्मादसमास एवायम् । समासे तु यदि विकल्पो दृश्यते, स छान्दसत्वेनोपपाद्यः । विश्वतस्पात्रमिति । अत्राव्ययत्वाद् `अतः कृकमि' इत्यस्याप्रसङ्गः । उरुणस्कार इति । अस्मदो नसादेशः, `नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । कारशब्दो घञन्तः, अत्रासमासत्वादप्रसङ्गः ।
अग्निः प्रविद्वानिति । अत्र षत्वप्रसङ्गः, उभ्यक्रमे तु सकार आदेश इत्युपलक्षणम् । परुषः परुष इति । वीप्सायां द्विर्वचनम् । अङ्गमङ्गं परुष्यरु, चतुष्यष्पा विशस्ते---इत्यादयस्तु कस्कादिषु द्रष्टव्याः । हरिकेशः पुरस्तादित्यादेरत्रोपयोगं न पश्यामः । कथमत्रैव सूत्रे वाग्रहणात् सत्वषत्वयोर्भावाभावौ प्रतिपादितौ ? किमत्र ? `सर्वे विधयश्छन्दसि विकल्प्यन्ते' इत्यनेन ।।
कः करत्करतिकृधिकृतेतेष्वनदितेः ।। 8.3.50 ।।
करिति । कृञो लुङ्, `मन्त्रे घस' इत्यादिना च्लेर्लुक्, तिपो हलङ्यादिलोपः, `बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः । करदिति । कृञ एव लुङ्, `कृमृदृहिभ्यश्छन्दसि' इति च्लेरङ् । करतीति । लट्, व्यत्ययेन शप् । कृधीति । कृञो लोट्, सेर्हिः, `बहुलं छन्दसि' इति शपो लुक्, `श्रुश्रृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । कृतमिति । कृञ एव क्तः । सकार आदेश इति । षत्वस्याप्युपलक्षणमेतत् । विश्वतस्करिति । अव्यत्वादसमासत्वाच्च `अतः कृकमि' इत्यस्याप्रसङ्गः । इतरेषु त्वसमासत्वादप्रसङ्गः । शन्न करत्, यथा नः श्रेयसः करदित्यादौ छान्दसत्वात्सत्वाभावः । तथा कृधीत्यत्र सकार-घकार-कशब्देषु परतस्तैत्तिरीयके सत्वं न भवति---तन्म आमनसः कृधि स्वाहा, उरुक्षयाय नः कृधि घृतमन्यासै, शं च नः कृधि क्रत्वे ।।
पञ्चम्याः परावध्यर्थे ।। 8.3.51 ।।
अध्यर्थ इति । परेरिदं विशेषणम् । हिमवतस्परि, हिमवत उपरीत्यर्थः । व्यत्ययेन षष्ठ्याः स्थाने पञ्चम्याः प्रयोगः ।
पर्योज उद्भतमिति । अत्र परिः सर्वतोभावे वर्त्तते ।।
पातौ च बहुलम् ।। 8.3.52 ।।
क्वचित् पठ्यते---पाताविति धातुनिर्देश इति । अन्ये तूदाहरणपर्यालोचनया लोडन्तानुकरणं मन्यते ।।
षष्ठ्याः पतिपुत्रपृष्ठपरापदपयस्पोषेषु । वाचस्पतिरिति । `तत्पुरुषे कृति बहुलम्' इत्यलुक् ।।
अपदान्तस्य मूर्धन्यः ।। 8.3.55 ।।
मूर्धन्यग्रहणमनर्थकम्, `ष' इत्येव सिद्धम् ? अत आह---ष इत्येव सिद्धे इति । `ष' इत्युच्यमाने `इणः षीध्वम्' इत्यत्रापि षत्वं प्रसज्येत, ढत्वं चेष्यते । अथात्रैव मूर्धन्यग्रहणं क्रियते, उत्तरेषु योगेषु पुनः षग्रहणं कर्त्तव्यम् । मूर्धन्यग्रहणे तु क्रेयमाणे न दोषो भवति ।।
सहेः साडः सः ।। 8.3.56 ।।
साड्रूपस्येति । साडिति रूपं प्राप्तस्येत्यर्थः । जलाषाडिति । `भजो ण्विः', `छन्दसि सहः', उपधावृद्धिः, ढत्वम्, जश्त्वचर्त्वे, `अन्येषामपि दृश्यते' इत्युपपदस्य दीर्घः, सकारस्यान्तरतमो मूर्धन्यः षकारः ।
सहेरिति किमिति । अन्यत्र साडशब्दस्यासम्भवं मन्यमानस्य प्रश्नः । सह डेनेति । अडः = वृश्चिरकलाङ्गलम्, तस्यापत्यं साडिरिति । साड इत्यत्र तु साड्शब्दस्यानर्थकत्वादप्रसङ्गं मत्वा तद्धितान्तः प्रत्युदाहृतः, तत्र हि यस्येतिलोपे कृते साडशब्दोऽर्थवान् भवति । न च यस्येतिलोपस्य स्थानिवत्त्वम्; `पूर्वत्रासिद्धे न स्थानिवत' इति वचनात् । एवमपि `षत्वतुकोरसिद्धः' इत्यकादेशस्यासिद्धत्वात् साड्शब्दस्याभावः । तस्मात्सह डेन वर्त्तत इति सड इति पाठः । यस्य नाम्नि डशब्दो वर्त्तते स सडः, यथा---मृड इति, तस्यापत्यं साडिः । नन्वत्रापि बहिर्भूततद्धितापेक्षत्वाद्वहिरङ्गा वृद्धिः, क्व तर्हि स्यात् ? जलाषाडिति । नन्वत्रापि बहिर्भूत-णव्यपेक्षया बहिरङ्गैव वृद्धिः ? अथ तत्र वचनाद्भवति, इहापि प्राप्नोति---तुरासाहमिति ? तुरासाहं पुरोधायेत्यादौ तु ण्विरेव दुर्लभः, प्रागेव षत्वम् ।
आकारस्य मा भूदिति । `अन्त्यस्य मा भूत्' इति तु नोक्तम्; डकारस्य डकारवचने प्रयोजनाभावात् । अथाप्यनन्तरतममूर्धन्यार्थं वचनं स्याद् ? एवमप्यपदान्तस्येत्यन्त्यस्य न भविष्यति । नन्वेवमपि `अलोऽन्त्यस्य' इत्यस्मिन्बाधिते सर्वादेशो मूर्धन्यः प्राप्नोति, तत्किमुच्यते---आकारस्य मा भूदिति ? उच्यते; `अनन्त्यविकारेऽन्त्यसदेशस्य' इत्याकरस्य मूर्धन्यः प्राप्नोति ।।
इण्कोः ।। 8.3.57 ।।
`इण्' इति परेण णकारेण प्रत्याहरः, `कु' इति कवर्गस्य ग्रहणम्, तयोः समाहारद्वन्द्वे एकवचनम् । नुमागमस्तु सत्यपि नपुंसकत्वे न कृतः, `अनित्यमागमशास्त्रम्' इति कृत्वा । वाक्ष्विति । `चोः कुः' इति कुत्वे कृते कवर्गात्परः सकारः । वर्गग्रहणम् `शासिवसिघसीनां च' इत्यत्र घकारस्यापि ग्रहणार्थम्---जक्षतुरिति; अन्यथा चर्त्वस्यासिद्धत्वान्न स्यात् । अथ वचनसामर्थ्यात् चर्त्वस्य सिद्धत्वमाश्रीयेत; चिन्त्यं वर्गग्रहणस्य प्रयोजनम् । दास्यतीति । ननु च `नाज्झलौ' इत्यत्रागृहीतसवर्णानामचां ग्रहणम्---इत्यसकृदुक्तम्, ततश्च यथा कुमारी शेते---इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, ततश्च यथा कुमारी शेते---इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, तथा आकारहकारयोरपि, ततः किम् ? हकारेणेणाकारस्य ग्रहणात् षत्वप्रसङ्गः ? नैष दोषः; हकारो विवृतः, आकारो विवृततरः । एवं हि पठन्ति---विवृतकरणाः स्वराः, तेभ्य एओ विवृततरौ, ताभ्यामैऔ, ताभ्यामप्याकारः संवृतोकार इति । एवं च कृत्वा---`इष्टकासु', `वयस्यासु'---इत्यादयो निर्देशा उपपद्यन्ते । असाविति । `अदस औ सुलोपश्च', `तदोः सः सौ' इत्यादेशसकारोऽयम्, न त्विण्कोः परः ।।
नुम्विसर्जनीयशर्व्यवायेऽपि ।। 8.3.58 ।।
`इण्कोः' इति पञ्चमीनिर्देशात् व्यवाये षत्वं न प्राप्नोतीत्ययमारम्भः । नुम्ग्रहणमनुस्वारोपलक्षणम्; नुमा व्यवायासम्भवात्, `नश्चापदान्तस्य झलि' इत्यनुस्वारस्य विधानात् । अनुस्वारग्रहणमेव तु न कृतम्, नुम्स्थानिकेनैवानुस्वारेण व्यवधाने यथा स्यात्, इह मा भूत्---पुंस्विति; पुम्स्शब्दात्सुपि `सयोगान्तस्य लोपः', मकारस्यानुस्वारः । सर्पीषीति । `नपुंसकस्य झलयः' इति नुम्, `सान्तमहतः संयोगस्य' इति दीर्घः । सर्पिः स्विति । `वा शरि' इति पक्षे विसर्जनीयः । सर्पिष्ष्विति । पक्षे सत्वम्, तेनैंव व्यवाये षत्वम्, सकारस्य ष्टुत्वम् ।
सकारग्रहणे कर्त्तव्ये शरिति प्रत्याहारग्रहणं चिन्त्यप्रयोजनम् ।
इह यथा वृषलैर्न प्रवेष्टव्यमिति वृषलनिवृत्तिपरायां चोदनायां प्रत्येकं संहतानां च प्रवेशो न भवति, तथा नुमादीनां षत्वाप्रतिबन्धहेतुत्वपरायां चोदनायां प्रत्येकं समुदायेन च व्यवाये षत्वं प्राप्नोतीति तत्र सर्वव्यवायस्य क्वचिदसम्भवात्, क्वचित्प्रत्येकम्, क्वचिद् द्वाभ्यां व्यवाये षत्वप्रसङ्गः ? इत्यत आह---नुमादिभिः प्रत्येकं व्यवाय इति । एवं मन्यते---व्यवायशब्दः प्रत्येकमभिसम्बध्यतेनुम्व्यवाये, विसर्जनीयव्यवाये, शर्व्यवाय इति । यथादर्शितमुपक्रमे, तत्र `इण्कोः' इति पञ्चमीनिर्देशेनानन्तर्ये षत्वप्रतिपादनादनेन च वाक्यत्रयेणैकैकव्यवाये षत्वाभ्यनुज्ञानात् `येन नाव्यवधानम्' इति न्यायेन अधिकव्यवाये षत्वाभाव इति । निंस्स इति । `णिसि चुम्बने', अदादिरनुदात्तेत् । निस्स्वेति । लोट्, `सवाभ्यां वामौ' ।।
आदेशप्रत्यययोः ।। 8.3.58 ।।
किमवयवयोगैषा षष्ठी---आदेशस्य यः सकारः, प्रत्ययस्य च यः सकार इति ? आहोस्वित्समानाधिकरणे---आदेशो यः सकारः, प्रत्ययो यः सकार इति ? तत्राद्ये पक्षे `सः' इत्यस्यानुवृत्तस्येह वचनविपरिणामो न कर्त्तव्यो भवति, कार्येण त्वादेशप्रत्यययोः साक्षात् श्रुतयोरसम्बन्धः; सकारविशेषणत्वात् । द्वितीये त्वादेशप्रत्यययोः सकारयोरिति द्विवचनं विपरिणम्यम् । कार्येण तु साक्षाच्छ्रुतयोः सम्बन्ध इति वचनदोषसाम्यान्न युक्तितः पक्षविशेषनिर्णयः । तत्रावयवषष्ठी चेद् द्विर्वचने दोषः---विसंबिसम्, मुसलंमुसलम् । तत्रावयवषष्ठी चेद् द्विर्वचने दोषः---विसंबिसम्, मुसलंमुसलम् । आष्टमिके हि द्विर्वचने स्थाने द्विर्वचनपक्षोऽपि स्थापितः, ततश्च `नित्यवीप्सयोः' इत्येकस्य विसमित्येतस्य स्थाने बिसंबिसमित्येतस्मिन्नादेशे कृते तस्यावयव सकारः इति षत्वप्रसङ्गः । अथ द्वितीयः पक्षः ? करिष्यति, हरिष्यतीत्यत्र न प्रापनोति; समुदायो ह्यत्र प्रत्ययः, न सकारमात्रम् । क्व तर्हि स्यात् ? यत्र सकारमात्रं प्रत्ययः---इन्द्रो मा वक्षत्, स देवान्यक्षत् ; वचियजिभ्यां लेट्, तिप्, `इतश्च लोपः' इत्यादिनेकारलोपः, `लेटोऽडाटौ' इत्यट्, `सिब्बहुलं लेटि' इति सिप्, वचेः कुत्वम्, यजेः षत्वकत्वे । अथापरौ द्वौ पक्षौ---आदेशस्य यः सकारः, प्रत्ययो यः सकार इति; विपर्ययो वा---आदेशो यः सकारः, प्रत्ययस्य यः सकार इति ? तत्राद्ये पक्षे तावेव दोषौ यौ पूर्वयोः पक्षयोः बिसबिसमित्यादौ प्रसङ्गः, करिष्यतीत्यादौ चाप्रसङ्ग इति । तस्मादन्त्यः पक्ष आश्रीयते, तदाह---आदेशप्रत्यययोरिति षष्ठी भेदेन सम्बध्यत इत्यादि ।
अत्र च ज्ञापकं यदयमुत्तरसूत्रे घसिग्रहणं करोति, तज्ज्ञापयति---आदेशे समानाधिकरणा षष्ठी, न व्यधिकरणेति; अन्यथा घसेरादेशत्वादेव तस्य सकारस्यानेनैव षत्वसिद्धेरनर्थकं तत्स्यात् । यच्च `सात्पदाद्योः' इति सातिप्रतिषेधं शास्ति, तज्ज्ञापयति---प्रत्ययेऽवयवषष्ठी, न समानाधिकरणेति; अन्यथा सातिसकारस्याप्रत्ययत्वात् षत्वस्य प्राप्त्यभावादनर्थकं तत्स्यात् । ननु चादेशस्येति षत्वापेक्षया स्थानषष्ठी, प्रत्ययस्येति सकारापेक्षयावयवषष्ठीति सहविवक्षाभावाद् द्वन्द्वनुपपत्तिः ? नैष दोषः; पूर्वोक्तात् ज्ञापकद्वयात् सहविवक्षाया अभावेऽपि द्वन्द्वो भविष्यति ।
यदि प्रत्ययावयवस्य षत्वमुच्यते, इन्द्रो मा वक्षत्, स देवान्यक्षदित्यत्र षत्वं न प्राप्नोति, प्रत्यय एवात्र सकारो न तु प्रत्ययस्यावयवः ? अत आह---इन्द्रो मा वक्षदित्यादि । इह `अशेः सरन्'---अक्षरमित्यत्र षत्वं भवति, तस्यैव तु `कृधूमादिभ्यः कित्' इति विहितस्य षत्वं न भवति, कृसरम्, धूसरम् । तथा `वृतॄवदि' इत्यादिना विहितस्य कक्षमित्यत्र भवति, वर्समित्यत्र न भवति; बहुलवचनात् प्रत्ययसंज्ञाया अभावात् ।।
शासिवसिघसीसां च ।। 8.3.60 ।।
अन्विशिषदिति । `सर्तिशास्ति' इत्यादिना च्लेरङ्, `शास इदङ्हलोः' इतीत्वम् । उषित इति । यजादित्वात् सम्प्रसारणम्, `वसतिक्षुधौरिट्' । जक्षतुः, जक्षुरिति । `लिट्यन्यतरस्याम्' इत्यदेर्घस्लादेशः, `गमहन' इत्युपधालोपः । अक्षन्निति । अदेर्लुड् `लुङ्सनोर्घस्लृ', `मन्त्रे घस' `इत्यादिना च्लेर्लुक् ।
तत्र युक्तं शासिवस्योरनादेशार्थं वचनमिति, घसेस्त्वयुक्तमादेशत्वात् ? इत्यत आह---घसिर्यद्यप्यादेश इति । आदेश इति । आदेशो यः सकारस्तत्र स्थितमिति भावः । यस्त्वनादेशो घसिस्तस्येह ग्रहणं न भवति; विरलप्रयोगत्वात् ।।
स्तौतिण्योरेव षण्यभ्यासात् ।। 8.3.61 ।।
षत्वभूत् इति । षत्वं प्राप्ते, कृतषत्व इत्यर्थः । आदेशसकारस्येति । प्रत्ययसकारस्त्वसम्भवान्न सम्बध्यते । सुष्वापयिषतीति । `द्युतिस्वाप्योः' इत्यभ्यासस्य सम्प्रसारणम् । सिसिक्षतीति । `सिचि क्षरणे' । सुसूषत इति । `षूङ् प्राणिप्रसवे' । परस्मैपदपाठे तु `षू प्रेरणे'---इत्यस्य रूपम् ।
यदि सिद्धे सत्यारम्भो नियमार्थः, एवकारस्तहि किमर्थः ? तत्राह---एवकारकरणमिति । अथ विपरीतेऽवधारणे को दोषः ? इत्यत आह---स्तौतिण्योः षण्येवेति । इह च स्यादेवेति । षण्येवेत्यनेन ह्यवधारणेन प्रत्ययान्तरे स्तौतिण्योः षत्वं व्यवच्छिन्नम्, न तु धात्वन्तरस्य षणि, ततश्चाभिहितदोषद्वयप्रसङ्गः ।
सिषेचेति । षणीत्यनुच्यमाने प्रत्ययमात्रे नियमः स्याद्---अभ्यासात्परस्य यदि षत्वं भवति स्तौतिण्योरेवेति, ततश्च सिषेचेत्यादौ न स्यात् ।
को विनतेऽनुरोध इति । विनतमिति पत्वणत्वयोः प्रातिशाख्येषु प्रसिद्धिः---एकवर्णमनोकारं विनते सुस्मेति, नः पर इति यथा । अनुरुध्यते आनुकूल्येन प्राप्यत इत्यनुरोधः=प्रयोजनम् । कृतषत्वस्य निर्देशे किं प्रयोजनमित्यर्थः । सुषुप्सतीति । `रुदविद' इत्यादिना सनः कित्त्वम्, `वचिस्वपि' इत्यादिना सम्प्रसारणम् । सनीत्युच्यमाने सन्मात्रे नियमः स्यात्, ततश्च यथा---षत्वभूते सनिधात्वन्तरस्य षत्वं न भवति, एवमिहाषत्वभूतेऽपि न स्यात् ।
कः सानुबन्धेऽनुरोध इति । नकारानुबन्धवतो ग्रहणे किं प्रयोजनमित्यर्थः । णत्वस्य तु प्रयोजनं न पृच्छति; तस्य लक्षणप्राप्तत्वात् । सुषुपिष इन्द्रमिति । स्वपेर्लिट्, छान्दसत्वाद् `व्यत्ययो बहुलम्' इति थास्, `थासः सेः', `असंयोगाल्लिट् कित्' इति लिटः कित्त्वात् पूर्ववत्सम्प्रसारणम्, द्विर्वचनम्, क्रादिनियमादिट्, इन्द्रशब्दे परतो यादेशः, `लोपः शाकल्यस्य' इति यलोपः । अत्र नियमाभावादभ्यासात् परस्य षत्वं भवत्येव, `ष' इत्युच्यमाने तु यावान् कश्चित् षशब्दस्तत्र सर्वत्र नियमः स्यात्, तस्मात्सानुबन्धकग्रहणम् ।
अभ्यासादिति किमिति । अभ्यासाद् या प्राप्तिस्तस्या नियमो यथा स्यादुपसर्गाद् या प्राप्तिस्तस्या नियमो मा भूत्; अभिषिषिक्षतीत्येतत्तावदप्रयोजनम्, कथम् ? असिद्धमुपसर्गात्पत्वम्, तस्यासिद्धत्वान्नियमो न भविष्यति । स्यादेतत्---यथा `अत एकहल्मध्ये' इत्यत्र लिटा आदेशो विशेष्यते, तथेह सनाभ्यासः, सनि योऽभ्यासस्तस्मात् स्तौतिण्योरेवेति, तेन यङि योऽभ्यासस्तस्मात्षणि धात्वन्तरस्यापि षत्वं भवति, स्वपेर्यङ्, स्वपिस्यमिव्येञां यङि' इति सम्प्रसारणम्, सोषुप्यतेः सन्, इट्, `अतो लोपः', `यस्य हलः', सोषुपिषते---तदेतद्भवति प्रयोजनमिति ? तन्न; अन्तरङ्गमत्र षत्वम्, बहिरङ्गो नियमः; तस्मादनर्थकमभ्यासग्रहणमिति प्रश्नः । परिहरति---प्रतिषिषतीति । इणो बोधनार्थत्वाद् गम्यादेशाभावोऽजादेरिति सशब्दस्य द्विर्वचनम्, `सन्यतः' इतीत्वम् । तत्राभ्यासाश्रये प्रत्ययस्य षत्वे कृतेऽस्य नियमस्याभावाद् धात्वाश्रयं षत्वमभ्यासस्य प्रवर्त्तते । ननु षणीति परसप्तमी, ततश्च षणि परे स्तौतिण्योरेवेति षत्वनियमः क्रियमाणस्तुल्यजातीयस्य षण्वस्य सिसिक्षतीत्यादेः षत्वं निवर्तयति । प्रतीषिषतीत्यत्र तु सनि एव द्विर्वचनमिति षण्परत्वाभावादयं नियमो न प्रवतिष्यते । `सन्यतः' इतीत्वमपि तर्हि न प्रापनोति, समुदायस्य सन्रूपत्वात्तस्य च सन्परत्वाभावात् । तस्मात्सन्प्रदेशेषु सत्सप्तमी विज्ञेया, ततश्च यथेत्त्वं प्रवर्त्तते तथा षत्वनियमोऽपि स्यादित्यभ्यासग्रहणम् ।।
स स्विदिस्वदिसहीनां च ।। 8.3.62 ।।
`स' इत्यविभक्तिको निर्देशः । ण्यन्तानामिति । षत्वप्राप्तौ सत्वमुच्यते, षत्वप्राप्तिश्च ण्यन्तानामिति सामर्थ्यलभ्यमेतत्, किमर्थं पुनः सकारस्य सकार उच्यते ? अत आह---सकारस्येति ।
नेति प्रतिषेध एव वक्तव्ये सकारवचनं लाघवे विशेषाभावात् ।।
प्राक्सितादड्व्यवायेऽपि ।। 8.3.63 ।।
`इण्कोः' इति पञ्चमीनिर्देशाद्व्यवाये न प्राप्नोतीति वचनम् । अडित्यागमस्य ग्रहणम्, न प्रत्याहारस्य । एतच्च `हयवरट्' इत्यत्रोपपादितम् । प्राक् सितसंशब्दनादिति । `परिनिविभ्यः सेवसित' इत्यतः । अपिग्रहणं किम् ? अव्यवधानेऽपि यथा स्यात्, अन्यथा विशेषवचनाद्व्यवाय एव स्यात् । अभ्यषुणोदिति । `षुञ् अभिषेवे', लङ्, `स्वादिभ्यः श्नुः', अडागमः, पागेव यणादेशात् षत्वम्; कृते वा यणि यकारमेवेणमाश्रित्य षत्वम् ।।
स्थादिष्वभ्यासेन चाभ्यासस्य ।। 8.3.64 ।।
द्वे एते वाक्ये---स्थादिष्वभ्यासेन व्यवाये त्वं भवति; अभ्यासस्य च षत्वं भवति तेष्वेव स्थादिष्विति । तत्राद्यं विध्यर्थम्, द्वितीयं नियमार्थम् । अषोपदेशार्थमिति । षोपदेशे तु परितिष्ठासतीत्यादौ सामान्यलक्षणेनैव सिद्धम् । अभिषिषेणयिषतीति । सेनयाऽभियातुमिच्छतीति विगृह्य `सत्यापपाश' इत्यादिना णिच्, टिलोपः, ततः सन्, द्विर्वचनम्, ह्रस्वः, एच `इग्घ्रस्वादेशे' अव्युत्पन्नः सेनाशब्दः । यद्वा सहेनेन वत्तत इति सेना, `सहस्य सः संज्ञायाम्' इति सादेशः । यदा तु सिनोतेर्नप्रत्यये सेनेति व्युत्पाद्यते, तदास्त्येवा भिः षोषदेशत्वमेति । अभितष्ठाविति । आदेशसकारस्याप्यस्य षत्वं न सिद्ध्यति; इणअकोरभावात् । अभिषिषिक्षतीति । यद्यप्ययमादेशसकार इणश्च परः, तथाप्यभ्यासमपेक्ष षत्वं न सिद्ध्यति; स्तौतिण्योरेव षणीति नियमात् । अतः षणि यत्प्रतिषिद्धं षत्वं नियमेन व्यावर्तितं तदप्युपसर्गमाश्रित्य भवति ।
अथाभ्यासस्येति किमर्थम्, यावताभ्यासेनेत्यत्र क्रियापेक्षायां प्रकरणाद्व्यवाय इति सम्बध्यते, तच्चापिशब्दसन्निहितमेव प्रकृतमिति अव्यवायेऽपि षत्वं भविष्यति पूर्वसूत्रवत्, नार्थः `अभ्यासस्य' इत्यनेन ? अत आह---अभ्यासस्येति वचनं नियमार्थमिति । नियमस्य स्वरूपं दर्शयति---स्थादिष्वेवेति । विपरीतस्तु नियमो न भवति---स्थादिष्वभ्यासस्यैवेति । यदि स्यात्, अभ्यासेन व्यवाये षत्वविधानमनुपपन्नं स्यात् । अभिसुसूषतीति । `षू प्रेरणे', सन्, `सनि ग्रहगुहोश्च' इतीड्निषेधः । अत्र धातुसकारस्य स्तौतिण्योरेवेति नियमादषत्वम् । अभ्याससकारस्य त्वस्मान्नियमात् षत्वाभावः ।।
उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयस्धसिचसन्जस्वन्जाम् ।। 8.3.65 ।।
`षुञ्, अभिषवे' स्वादिः, `षु प्रेरणे' तुदादिः, `षो अन्तकर्मणि' द्विवादिः, `ओतः श्यनि' इति लोपः, `ष्टुञ् स्तुतौ' अदादिः, `उतो वृद्धिर्लुकि हलि', ष्टुभस्तम्भे', अनुदात्तेत् । एतेषां श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः---`अभिसोषवातीत्यादि । `ष्ठा गतिनिवृत्तौ' । सेनयतिर्ण्यन्त । शपा निर्देशेन नार्थः; यङोऽसम्भवात् । `षिध गत्याम्', षिधू शास्त्रे माङ्गल्ये च' भौवादिकौ; तत्र `सेधतेर्गतौ' इति प्रतिषेधादन्यत्र षत्वम् । शपा निर्देशो यङ्लुग्निवृत्त्यर्थः, दैवादिकनिवृत्त्यर्थश्च `षिधू संराद्वौ' इति । `षिच क्षरणे' तुदादिर्मुचादिः, `षन्ज सङ्गे', `ष्वन्जपरिष्वङ्गे', अनुदात्तेत्, `दशंसञ्जस्वञ्जां शपि' इति नलोपः, सिवादीनां यङ्लुक्यपि भवति, अभिषेषिचीतीत्यादि । एतेषामड्व्यवाये, अभ्यासव्यवाये च यथासम्भवं षत्वम् । `इण्कोः' इति वर्त्तते, तत्र कवर्गस्यासम्भवादिण इति सम्बध्यते, तत्र यदीणा उपसर्गो विशेष्येत---इणन्तादुपसर्गादिति, इह न स्यात्---निष्षुणोति, दुष्षुणोतीति । तस्मादुपसर्गेणेण्विशेषणीयः---उपसर्गस्येण इति । ननूपसर्गादिति पञ्चमी, तत्कथमिण्विशेष्यते ? न ब्रूमो वैयधिकरण्येन विशेष्यत इति, किं तर्हि ? तात्स्थात्ताच्छब्द्यम्---उपसर्गादिणः, उपसर्गस्थादिण इति । तत्र शर्व्यवायस्याश्रितत्वान्निसोऽपि परस्य षत्वं भवति, तदिदमुक्तम्---उपसर्गस्थान्निमित्तादिति ।
दधि सिञ्चतीति । `सात्पदाद्योः' इति प्रतिषेध एवात्र भवति, तदपवादो ह्यम् ।
निः सेचक इति । निरयमुपसर्ग एव, तत्कथमिदं प्रत्युदाहरणम् ? अत आह---तायं सिचेरुपसर्ग इति । यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञे भवतः । अभिसावकीयतीति । सावकशब्दात् ण्वुलन्तात्क्यच्, तस्याभिना योगः । सुनोतिना योगे तु भवत्येव, अभिषावकमिच्छति अभिषावकीयतीति । ण्यन्तेऽपि तर्हि णिजर्थेन प्रैषादिनोपसर्गस्य योगो न प्रकृत्यर्थेनेति षत्वाप्रसङ्गः ? अत आह---अभिषावयतीत्यत्रेति । अभिषवविषया प्रयुक्तिः, न तु प्रयुक्तेरभिना योग इत्यर्थः । यदा तु प्रयुक्तेरभिना योगः, तदा नैव षत्वं भवति; किन्तु प्रकृत्यर्थेनासंसृष्टस्य प्रयुक्तिमात्रस्याभिना योगः कीदृश इति चिन्त्यम् ।
सदिरप्रतेः ।। 8.3.66 ।।
`सदिः' इति षष्ठ्यर्थे प्रथमा । निषसादेति । सदिस्वञ्ज्योः परस्य लिटीति प्रतिषेधादभ्यासात् परस्य न भवति ।।
स्तन्भेः ।। 8.3.67 ।।
स्तन्भिः सौत्रो धातुः । अभिष्टभ्नातीति । `स्तुन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च' इति श्नाप्रत्ययः, `अनिदिताम्' इति नलोपः ।
अप्रतेरित्येतदिह नानुवर्त्तत इति । यद्यनुवर्त्तेत, पूर्वसूत्र एव स्तम्भिग्रहणं कुर्यात्किं योगविभागेन ? अस्ति प्रयोजनम्, किम् ? `अवाच्चालम्बनाविदूर्ययोः' इति वक्ष्यति, तत्स्तम्भेर्यथा स्यात्, सदेर्मा भूत् ? नैतदस्ति; एकस्मिन्नपि योगे यस्यालम्बनाविदूर्ये स्तः, स एवानुवर्तिष्यते, स्तम्भेरेव च ते सम्भवतः ।।
अवाच्चालम्बनाविदूर्ययोः ।। 8.3.68 ।।
आलम्बनम्=आश्रयणम् । विदूरम्=विप्रकृष्टम्, तदन्यदविदूरम्, तस्य भाव आविदूर्यम्, अत ेव निपातनात् नञ्पूर्वादपि तत्पुरुषाद्भावप्रत्ययः । अवष्टभ्येति । यष्ट्यादिकमवलम्ब्येत्यर्थः । अवष्टब्धेति । आसन्नेत्यर्थः । अवस्तब्ध इति । अभ्यादित इत्यर्थः ।।
वेश्च स्वनो भोजने ।। 8.3.69 ।।
उदाहरणेषु स्वार्थपरित्यागेन भोजनमात्रे स्वनिर्वर्तत इति शङ्कामपनयति---अभ्यवहारक्रियाविशेष इति । तमेव विशेषं दर्शयति---यत्रेति । विष्वणतीति । सशब्दं भुङ्क्त इत्यर्थः ।।
परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ।। 8.3.70 ।।
सेवतिर्भूवादिष्वनुदात्तेत् । सित इति । `षिञ् बन्धने' क्तान्तः । सय इति । स एवैरजन्तः, `षिवु तन्तुसन्ताने' दिवादिः, `षह मर्षणे' अनुदात्तेत् ।
सुडिति । `सुट् कात्पूर्वः' इत्यस्य ग्रहणम् । स्तुस्वञ्जी उक्तार्थौ, तयोः `उपसर्गात्सुनोति' इत्यादिनैव सिद्धे पर्यादिपूर्वयोरुत्तरसूत्रेणाड्व्यवाये विकल्पार्थं वचनम् ।।
सिवादीनां वाऽड्व्यवायेऽपि ।। 8.3.71 ।।
सिवादयः प्रत्यासत्तेः पूर्वसूत्रे सन्निविष्टा गृह्यन्ते । अभ्यत्रविभाषेयम्, स्तुस्वञ्ज्योः `प्राक् सिताद्' इति प्राप्ते, इतरेषामप्राप्ते ।।
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ।। 8.3.72 ।।
`स्यन्दू प्रस्रवणे' अनुदात्तेत् ।
अनुस्यन्देते मत्स्योदके इति । मत्स्यश्चोदक च मत्स्योदके । `जातिरप्राणिनाम्' इत्यनेन यत्र सर्वाण्यवयवपदान्यप्राणिवाचीति, तत्रैकवद्भावः; इह तु मत्स्यशब्दस्य प्राणिवाचित्वादेकवद्भावाभावः । अत्राप्राणिष्विति प्रसज्यप्रतिषेधः, तेन प्राण्यप्राणिसमुदायेऽपि प्राण्यस्तीति प्रतिषेधो भवति । अन्ये तु पर्युदासं मन्यमाना भवितव्यमेवात्र षत्वेनेत्याहुः ।
इह पर्यादिग्रहणं शक्यमकर्तुम्, एवं वक्ष्यामि---`अन्वभिभ्यां च' इति, चकारात् परिनिविभ्यश्चेति ।।
परेश्च ।। 8.3.74 ।।
पृथग्योगकरणसामर्थ्यादिति । अन्यथा `विपरिभ्यां स्कन्देरनिष्ठायाम्' इत्येव ब्रूयात् ।।
वेः स्कभ्नातेर्नित्यम् ।। 8.3.77 ।।
स्कम्भिः सौत्रो धातुः ।।
इणः षीध्वंलुङ्लिटां धोऽङ्गात् ।। 8.3.78 ।। इणन्तादङ्गादुत्तरेषामित्यादिना इणन्तमङ्गं षीध्वमादीनां विषेणम्, तेऽपि धकारस्येति दर्शयति । धकारस्य त्विणन्तमङ्गं विशेषणं न भवति---इणन्तादङ्गादुत्तरस्य धस्य स चेत् षीत्वमादीनामिति । तथा हि सति योषिढ्वमित्यादौ वचनसामर्थ्यात्षीशब्देन व्यवाय आश्रयणीयः स्यात् । अच्योढ्वमिति । `धि च' इति सलोपः ।
इण्ग्रहणं कवर्गनिवृत्त्यर्थमिति । प्रकृतं हीण्ग्रहणं कवर्गेण सम्बद्धमिति तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात् । पक्षीध्वमिति । `चो कुः' इति कुत्वे कृते ढत्वप्रसङ्गः । यक्षीध्वमिति । व्रश्चादिना षत्वे कृते `षढोः कः सि' इति कत्वम् ।
स्तुध्वे इति । टेरेत्वम् । अस्तुध्वमिति । लङ् । परिवेविषीध्वमिति । `विष्लृ व्याप्तौ' जुहोत्यादिः स्वरितेत्, `णिजां त्रयाणां गुणः श्लौ' इत्यभ्यासस्य गुणः, `लिङः सलोपोऽनन्त्यस्य' इति सीयुटः सकारलोपः । अत्र धातुषकारस्य, ईध्वशब्दस्य च यः समुदायस्तदात्मकः षीध्वंशब्दोऽस्ति, न त्वसावङ्गादुत्तरः । षकारान्तं ह्यत्राङ्गम्, न तु वेवीत्येतावत् ।
चोदयति---अर्थवद्ग्रहणादपीति । परिहरति---एतत्त्विति । एतदर्थवतो ग्रहणमत्र नाश्रितम् । किं कारणम् ? न किञ्चित्, नाश्रितमित्येव ।।
विभाषेटः ।। 8.3.79 ।।
अत्रेण्ग्रहणमिटो विशेषणम्, सोऽपि षीध्वमादीनाम्, तेऽपि धकारस्येति दर्शयन्नाह---इणः परस्मादिट इत्यादि । तत्र षीध्वमो लिटश्च श्रुतिकृतमानन्तर्यम्, शास्त्रकृतं तु न सम्भवति, इटस्तद्भक्तत्वात्तद्ग्रहणेन ग्रहणात् । अत एवानयोः प्राप्तविभाषेयम् ।
तथैव लुङ्यप्यलविढ्वमादौ धि चेति लुप्ते सति सिच्सकारे ।
इणन्तमङ्गं ध्वमि जातमातः पूर्वस्य नित्यस्य विधेः प्रसङ्गः ।।
एवं च धातावनिणन्त इष्टमैधिढ्वमित्यादिषु नित्यढत्वम् ।
यदि त्विणन्ताद्विहितस्य ढत्वं तथा न ते ढत्वमधिढ्वमि स्यात् ।।
तथा---लिहिदोग्धिनहां ढत्वघत्वधत्वेषु सत्स्वपि ।
इणन्ताद्विहितः षीध्वमिति ढत्वं प्रसज्यते ।।
तथेणो लुङि गादेशे विहिते ध्वमि कर्मणि ।
अगाध्वं यूयमेतेनेत्यत्र ढत्वं प्रसज्यते ।।
एवं `ब्रूवो वचिः' वक्षीध्वमिति ।
इष्यते सर्वमेवैतदिति चेन्नाप्तवागिह ।
तस्मात्पाप्तविभाषैव सर्वत्रेयमिति स्थितम् ।।
तथा च तैत्तिरीयके `तान् रुद्रा अब्रुवन्प्रयूयमजनिढ्वम्' इति ढत्वं प्रयुक्तम् । लविषीढ्वम्, लविषीध्वमिति । अन्ये त्विटो विभाषाया वक्ष्यमाणत्वाद् गोबलीवर्दन्यायेन तद्व्यतिरिक्तमिणन्तमङ्गमिह गृह्यत इति वदन्त एधिध्वमित्यादौ ढत्वं नेच्छन्ति, तेषामप्यधिढ्वमित्यत्र भवत्येव, नत्सीध्वमित्यादौ च न भवति ।
आसिषीध्वमिति । `आस उपवेशने' । कथं भवितव्यमिति । किमत्रानेन विकत्पेन भवितव्यम्, उत नेति प्रश्नार्थः । उपदिदीयध्व इति । `दीङ् क्षये', लिट्, ध्वमि क्रादिनियमादिट्, दीङो युडचि क्ङिति' इति युट् । युटा व्यवहितमिति । समुदायभक्ते हि युट् तमेव न व्यवदध्यात्, इटं तु व्यवदधात्येव । न भवितव्यं ढत्वेनेति । अनेन विकल्पेनेति भावः । पूर्वेण तु नित्यं प्राप्नोत्येव । अपरेषामिति । अस्मिन्पक्षे विकल्प एव भवति ।।
समासेऽङ्गलेः सङ्गः ।। 8.3.80 ।।
सङ्ग इति षष्ठ्याः स्थाने प्रथमा । एवमुत्तरेष्वपि योगेषु । सञ्जनं सङ्गः, भावे घञ्, अङ्गलीषु सङ्गो यस्याः साऽङ्गुलिषङ्गा ।
अङ्गलेः सङ्ग इति । अत्र `शर्व्यवाये' इत्यधिकारात्प्रसङ्गः । अन्ये तु `अङ्गुले सङ्गः' इति सम्बुध्यन्तमुदाहरन्ति ।।
भीरोः स्थानम् ।। 8.3.81 ।।
भीरो स्थानमिति । पूर्ववत्सम्बुद्ध्यन्तम्, षष्ठ्यन्तं वा ।
`समासेऽङ्गलिभीरुभ्यां सङ्गस्थाने' इत्युच्यमाने भ्यामित्यधिकं प्राप्नोति, तस्माद्योगविभागः ।।
अग्नेः स्तुत्स्तोमसोमाः ।। 8.3.82 ।।
अग्निष्टुदिति । सम्पदादित्वादधिकरणे क्विप्, यत्राग्निः स्तूयते सोऽग्निष्टुत्=क्रतुविशेषः, तत्रेदं भवति---अपि वा सर्वेषु देवताशब्देष्वग्निमेवाभिसन्नमेदिति । अग्निष्टोम इति । सोमयागस्य सप्तं संस्थाः; तत्राद्या संस्थोच्यते ।
अग्नेर्दीर्घादिति । देवताद्वन्द्वे षत्वमित्यर्थः; तत्रैव दीर्घस्य विधानात् ।
अग्निसोमौ माणवकाविति । अत्र माणवके संज्ञात्वेन विनियुक्तावग्निसोमषत्वाभावः । अग्निसोमौ तिष्ठत इति । आश्वलायनस्तु तत्रापि दीर्घषत्वे प्रायुङ्क्त---अग्नीषोमौ प्रणेष्यामीति ।।
ज्योतिरायुषः स्तोमः ।। 8.3.83 ।।
ज्योतिष्टोम इति । अत्र `शर्व्यवाये' इत्यधिकारात् षत्वम् । एवमायुष्टोमेऽपि ।।
मातुः पितुर्भ्यामन्यतरस्याम् ।। 8.3.85 ।।
एकदेशविकृतस्यानन्यत्वाद्, `विसर्जनीयशर्व्यवाये' इत्यधिकाराच्च पूर्वेण नित्ये प्राप्ते विकल्पः । मातुः ष्वसेति । `विभाषा स्वसृपत्योः' इति षष्ठ्या अलुक् ।
रेफान्तयोरिदं ग्रहणमिति । तच्चोत्तरपदे स्पष्टं पूर्वपदमपि तत्साहचर्याद्रेफान्तमेव । यद्येवम्, रेफस्य विसर्जनीये कृते तस्य `वा शरि' इति पक्षे सत्वे कृतेऽरेफान्तत्वान्न प्राप्नोति ? अत आह---एकदेशविकृतस्यानन्यत्वादिति । यदि तु सकारान्तयोर्ग्रहणं क्रियेत, विसर्जनीयान्तयोर्न स्यात् । विसर्जनीयान्तयोस्तु ग्रहणे भ्यामि परतो निर्देशो दुर्घटः स्यात् ।।
अभिनिसस्तनः शब्दसंज्ञायाम् ।। 8.3.86 ।।
अभिनिस् इत्येतस्मादिति । एतेन समुदायो निमित्तं न प्रत्येकमिति दर्शयति । अभिनिष्टानो विसर्जनीय इति । तथा चापस्तम्बः---`द्व्यक्षरं चतुरक्षरं वा नाम पूर्वमाख्यातोत्तरं दीर्घाभिनिष्ठान्तं घोषवदाद्यन्तरन्तरस्थम्' इति । द्व्यक्षरं चतुरक्षरं वा नाम कर्त्तव्यम्, कीदृशम् ? नामपूर्वम्, नाम प्रातिपदिकमक्रियावाचि तत्पूर्वपदम्, आख्यातोत्तरं क्रियावाच्युत्तरपदं दीर्घात्परो योऽभिनिष्टानो विसर्जनीयस्तदन्तं दीर्घान्तं विसर्जनीयान्तं चेत्यन्ये । गोषवान्वर्ण आदिर्यस्य तद्धोषवदादि, अन्तरन्तस्थं यरलवानामन्यतमं मध्ये यस्य तत्तथोक्तमेवंभूतं नाम कर्त्तव्यम् । द्रविणोदा वरिवोदा इत्याद्युदाहरणम् ।।
उपसर्गप्रादुर्भ्यामस्तिर्यच्यरः ।। 8.3.87 ।।
य् च अच्च यचौ, तौ परौ यस्मात्स यच्परः । यचोरिति सप्तमीनिर्देशेनैव सिद्धे परग्रहणं चिन्त्यप्रयोजनम् । अभिषन्तीति । अदादित्वाच्छपो लुक्, `श्नसोरल्लोपः' ।
अनुसृतमिति । कथं पुनरत्र प्रसङ्गः, यावता सकारस्य प्रकृतत्वात्तमेव प्रत्युपसर्गत्वमाश्रयिष्यते; न चात्र सकारं प्रत्युपसर्गत्वमस्ति, तावन्मात्रस्याक्रियावचनत्वात्, तत्किमस्तिग्रहणेन; न च प्रादुः शब्दार्थमस्तिग्रहणं कृतम्, तस्य कृभ्वस्तिविषयत्वेन नियतत्वात्, तदेतदाशङ्कते तावत् । तथापीति । अनुसुशब्दः शुभ्रादिः, चतुष्पाद्वचन इत्यन्ये, ततो ठक्ठञोरन्यतरः, `ढे लोपोऽकद्र्वा' इत्युकारलोपे सकारमात्रस्य क्रियावाचित्वात् षत्वप्रसङ्गः ।।
सुविनिर्दुर्भ्यः सुपिसूतिसमाः ।। 8.3.88 ।।
सुपीत्यागन्तुक इकारः, न पुनरिका निर्देशः । तत्र `वचिस्वपि' इति लक्षणप्राप्तेन सन्प्रसारणेन धातोरेवायं निर्देशः स्यात्, ततश्च यत्रास्यैतद्रूपं तत्र षत्वमित्ययमर्थो न लभ्यते । तस्मादागन्तुकेनेकारेण प्रयोगस्थस्य कृतसम्प्रसारणस्य रूपस्येदमनुकरणम् । तदाह---सुपीति स्वपिः कृतसम्प्रसारणो गृह्यते इति । एतच्च `सुपि' इति निर्देशादेव लभ्यते, अन्यथा `वचिस्वपि' इतिवन्निर्दिशेत् ।
सूतीति स्वरूपग्रहणमिति । सूतेः क्तिन्नन्तस्य ग्रहणमित्यर्थः । समेत्यपि स्वरूपग्रहणमेव, न `षम ष्टम वैक्लव्ये' इति धातोर्ग्रहणम्; इक्शितपोरन्यतरस्याभावात् ।
अथ किमथ स्वपेः सुपि भूतस्य षत्वमुच्यते ? सुपेः षत्वं स्वपेर्मा भूत्, सुपेः षत्वमुच्यते, स्वपेर्मा भूदिति---विस्वप्नः, विस्वप्नमिति । विसुष्वापेति । अथ क्रियमाणेऽपि विकृतग्रहणे विसुष्वापेति केन न हेतुना केन विसुष्वापेत्यत्राभ्यासस्य षत्वं न भवति, `लिट्यभ्यासस्योभयेषाम्' इति सम्प्रसारणे कृते सुपिरूपस्य भावात् प्रागेव हलादिशेषात्, कृते वा तस्मिन्नेकदेशविकृतस्यानन्यत्वादस्ति प्रसङ्गः । हलादिशेषान्न सुपिः । द्विर्वचने कृते परत्वाद्धलादिः शेषेण यकारे निवृत्ते वकारस्य सम्प्रसारणम्, ततश्च सुपिरूपस्य कदाचिदप्यभावात् षत्वाभावः । इष्टं पूर्वं प्रसारणम् । उक्तं तत्रोभयेषां ग्रहणस्य प्रयोजनम्---परमपि हलादिशेषं बाधित्वा उभयेषां सम्प्रसारणमेव यथा स्यादिति, तेन सम्प्रसारणमेव पूर्वमिष्टम्, विशेषतश्चात्रेष्टम्, अन्यथा षकारवद्वकारोऽपि निवर्त्तेत । न ह्यत्र हेतुरस्ति---षकारो निवर्त्तते वकारोऽवतिष्ठत इति । एवं तर्हि स्थादिष्वेवाभ्यासस्येत्येतस्मादेव नियमादत्र षत्वं न भविष्यति ? स्थादीनां नियमो नात्र । किं कारणम् ? प्राविसतादुत्तरः सुपि । `प्राक्सितात्' इति तत्र वर्त्तते, तेन प्राक्सिता ये धातवस्तेषां मध्ये स्थादिष्वेवाभ्यासस्य षत्वमिति नियमेन सुनोतिसुवतिस्यतिस्तोभतय एव निवर्त्यन्ते, सुपिस्त्वयं ततोऽवधेरुत्तरः । एवं तहि `अर्थवद्ग्रहणे नानर्थकस्य' इत्येषमेतस्य न भविष्यति, स्थाने हि द्विर्वचनेन समुदायोऽर्थवान्, अवयवौ त्वनर्थकौ, द्विष्प्रयोगेऽर्थप्रत्यायनस्यानावर्त्तनाद् द्वाभ्यामर्थः प्रत्याय्यत इत्येकस्यानर्थक्यमेव ? तदेतदाह---अनर्थके विषुषुपुः । यद्यनर्थकस्य ग्रहणं न भवति, विषुषुपुरिति न सिद्ध्यति ? नैषः दोषः; षुषिभूतो द्विरुच्यते । अयमभिप्रायः---पूर्वं धातुरुपसर्गेण युज्यते, तत्र द्विर्वचनात् परत्वात्सम्प्रसारणम्, परत्वादेव षत्वम्, कृतषत्वस्यैव तस्य द्विर्वचनमिति ।
ननु षत्वस्यासिद्धत्वात्पूर्वं द्विर्वचनमेव प्राप्नोति ? अत आह---पूर्वत्रासिद्धीयमद्विर्वचन इति ।।
निनदीभ्यां स्नातेः कौशले ।। 8.3.89 ।।
निष्णातः कटकरणे इति । तत्र कुशल इत्यर्थः । नदीष्ण इति । नदीस्नाने कुशल इत्यर्थः । कवयस्तु कुशलमात्रे प्रयुञ्जते । नदीस्नात इति । `सप्तमी' इति योगविभागात् समासः ।।
सूत्रं प्रतिष्णातम् ।। 8.3.90 ।।
`सूत्रं प्रतेः' इति वक्तव्ये निपातनाश्रयणं प्रत्ययान्तरे मा भूत् ।।
कापिष्ठलो गोत्रे ।। 8.3.91 ।।
गोत्रमिह प्रवराध्यायपठितं गृह्यते, तत्र च स्वसन्तानस्य व्यपदेशहेतुराद्यः पुरुषो गोत्रमित्युच्यते । पारिभाषिकग्रहणे तु कापिष्ठलिरित्यत्रैव स्याद्यत्र गोत्राभिधायी प्रत्ययः । यदि तु गोत्रं न षत्वस्य विषयेण निर्द्दिष्टम्, किं तर्हि ? दर्शनस्य गोत्रे यो दृष्टः कपिष्ठलशब्दः स साधुर्भवति, क्व ? यत्र तत्रेत्याश्रीयते, पारिभाषिकेऽपि गोत्रे न दोषः ।।
प्रष्ठोऽग्रगामिनि ।। 8.3.92 ।।
प्रस्थे हिमवत इति । `घञर्थे कविधानम्' इत्यधिकारणे कः ।।
वृक्षासनयोर्विष्टरः ।। 8.3.93 ।।
विस्तीर्यत इति विष्टरः, `प्रथमे वावशब्दे' इति घञि प्राप्ते । अस्मादेव निपातनादप् । रुढिशब्दत्वाद्वा पचाद्यचि व्युत्पाद्यः । उलपेन कृता टीका औलपी, सा वाक्यस्य विस्तरः, अशब्द इति प्रतिषेधादप् ।।
छन्दोनाम्नि च ।। 8.3.94 ।।
विष्टार इति निपात्यत इति । ननु च विष्टर इति प्रकृतम्, तत्कथं विष्टार इति निपात्यते ? अत आह---विपूर्वादिति ।
यदि त्विह छन्दोनाम्नि विष्टार इत्यात्वं क्रियेत, घञ्विधौ `छन्दोनाम्नि च' इति शक्यमकर्त्तुम्, इह वा `विष्टार' इत्युच्येत, तत्र वा `छन्दोनाम्नि' इति, को न्वत्र विशेषः, अपर आह---घञ्विवौ वाविति नानुवर्त्तते; तेन प्रस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीति ।।
गवियुधिभ्यां स्थिरः ।। 8.3.95 ।।
गविष्ठिरः, युधिष्ठिर इति । `संज्ञायाम्' इति सप्तमीसमासः । गोशब्दादहलन्तादपीति । यद्यप्यवादेशे कृते सम्प्रति हलन्तो भवति, तथापि उत्पत्तिवेलायामहलन्तत्वान्निपातनमाश्रितम् ।।
विकुशमिपरिभ्यः स्थलम् ।। 8.3.96 ।।
वि, कु, परि---इत्येतेषाम् `कुगतिप्रादयः' इति समासः, शमीशशब्दस्य तु षष्ठीसमासः, `ङ्यापोः संज्ञाछन्दसोर्बहुलम्' इति ह्रस्वत्वम् । सूत्रे ह्रस्वोच्चारणे ह्रस्वपक्ष एव षत्वं यथा स्यात् । तेन प्रयोगे बहुलवचनाद्यदा ह्रस्वत्वं न भवति, तदा षत्वमपि न भवति ।।
अम्बाम्बगोभूमिसव्यापद्वित्रिकुसेकुशङ्ववङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ।। 8.3.97 ।।
स्थशब्दसकारस्येति । एतेन `स्थ' इति सूत्रे स्वरूपग्रहणं प्रथमान्तमिति दर्शयति । यदि तु `आतो धातोः' इति तिष्ठतेराकारलोपं कृत्वा षष्ठ्या निर्देशः स्यात्, तदा गोस्थानम्, भूमिस्थानमित्यादावपि षत्वं स्यादिति भावः । अम्बे तिष्ठत्यम्बष्ठः, `सुपि स्थः' इति कप्रत्ययः, `ङ्यापोः' इति ह्रस्वत्वम् । आम्बष्ठ इति । संज्ञेयं जनपदविशेषस्य । गोष्ठ इति । `घञर्थे कविधानम्' इत्यधिकरणे कप्रत्ययः । भूमिष्ठादौ `सुपि स्थः' । सव्येष्ठ इति । `हलदन्तात्सप्तम्याः' इत्यलुक् ।
यदि `स्थः' इति स्वरूपग्रहणम्, स्थास्थिन्स्थणां न प्राप्नोतीतिदमाह---स्थास्थिन्निति । स्थाशब्दः क्विबन्तः । सव्येष्ठा इति । `ईत्वे वकारप्रतिषेधः' इति वचनात् प्रत्ययलक्षणेनेत्वं न भवति । `गमेरिनिः' इति वर्त्तमाने `परमे स्थः किच्च' इति किदिनिप्रत्ययः, परमेष्ठीशब्द इप्रत्ययान्तः बाहुलकादाकारलोपः । सव्ये तिष्ठति सव्येष्ठा सारथिः ।।
सुषामादिषु च ।। 8.3.98 ।।
क्वचित् `सात्पदाद्योः' इति प्रतिषेधे प्राप्ते क्वचिच्चादित एवाप्राप्ते षत्वे सुषामादिषु मूर्धन्यो विधीयते । दुष्षामेति । `विसर्जनीयशर्व्यवायेऽपि' इत्यधिकारादत्र षत्वम् । सुशब्दस्येत्यादि । अत्रैवमभिसम्बन्धः---सुदुस्शब्दयोस्तु क्रियाविशेषविषयत्वादनुपसर्गत्वे सति---निषेधः, दुः षेध इति पाठोऽयमिति । तत्र सुशब्दस्य `सुः पूजायाम्' इति कर्मप्रवचनीयसंज्ञा, सा चोपसर्गसंज्ञाया बाधिका; आकडाराधिकारात् । निर्दुरोरप्युपसर्गत्वाभावः, क्रियान्तरविषयत्वात् । गमिक्रयाविषयौ हि तौ---निर्गतः सेधो निः षेधः, दुर्गतः सेधो दुष्षेध इति । तेन `उपसर्गात्सुनोति' इत्यादिना नैतेषु षत्वप्राप्तिः । एवं तावत् `षिधू हिंसासंराद्ध्योः' इत्यस्य घञि सेध इति रूपमित्याश्रित्योक्तम् । यदा तु `षिध गत्याम्' इत्यस्य घञन्तस्य रूपम् ? तदाप्याह---सेघतेर्गताविति प्रतिषेधबाधनार्थं चेति । सुषन्धिरित्यादौ `उपसर्गे घोः किः', समः षत्वम् । उणादिष्वेताविति । `पॄभिदिव्यधिधृषिभ्य' कुः' इति वर्तमाने `अपदुः सुपु स्थः' इति कुप्रत्ययः ।
गौरिषक्थ इति । `बहुव्रीहौ सक्थ्यक्ष्णोः' इति षच् । प्रतिष्णकेति । प्रतिपूर्वात्स्नातेः `आतश्चोपसर्गे' इत्यङ्, तदन्ताट्टाप्, ततोऽज्ञातादिषु कः `केऽणः' इति ह्रस्वत्वम्, `प्रत्ययस्थात्' इतीत्वम् । नौषेचनमिति । सिचेर्ल्युट् । दुन्दुभिषेवणमिति । सेवतेः, सीव्यतेर्वा ल्युट् ।
एतसंज्ञायामगादिति गणसूत्रम् । तद्व्याचष्टे---एकारपरस्येति । हरयः सेना अस्य हरिषेणः । परितः सेनास्य परिषेणः । पृथ्वी सेना यस्येति । `स्त्रियाः पुंवत्' इति पूर्वपदस्य पुंवद्भावः ।
नक्षत्राद्वेति । पूर्वेण नित्ये प्राप्ते विकल्पः । चकारोऽनुक्तसमुच्चयार्थः, आकृतिगणतामस्य सूचयति, तदाह---अविहितलक्षण इति ।।
ह्रस्वात्तादौ तद्धिते ।। 8.3.99 ।।
`अपदान्तस्य' इत्यधिकारादप्राप्तं षत्वं विधीयते, तरबादय एव तावत्तद्धिताः सम्भवन्तीत्याह---तरप्तमबिति । सर्पिष्टरमिति । सर्पिर्जातेः प्रकर्षाभावेऽपि सहचारिणो गुणस्य गन्धादेः प्रकर्षे प्रत्ययः । चतुष्टय इति । `जसः शी' । सर्पिष्ट इति । प्रतिप्रयोगे पञ्चम्यास्तसिः । आविष्ट्य इति । अव्ययात्त्यप्' इत्यत्राविः शब्दात् `छन्दसि' इति वचनात्त्यप् ।
सर्पिः सादिति । `विभाषा सातिः कार्त्स्न्ये' । ननु च `सात्पदाद्योः' इति प्रतिषेधादेवात्र षत्वं न भविष्यति ? इत्यत आह---प्रत्ययसकारस्येति ।
भिन्द्युस्तराम्, छन्द्युस्तरामिति । भिदिछिदिभ्यां लिङ्, झेर्जुसि यासुट्, `तिङश्च' इति तरप्, `किमेत्तिङव्ययघात्' इति आमुप्रत्ययः ।
आदिग्रहणं शक्यमकर्तुम्, `ति' इत्येव `यस्मिन्विधिस्तदादावल्ग्रहणे', पुंसः प्रतिषेधः, पुंस्त्वम्, पुंस्ता ।।
निसस्तपतावनासेवने ।। 8.3.100 ।।
निस्तप्तं रक्षः, निस्तप्ता अरातय इत्यत्रेति । एवमपि कस्याञ्चिच्छाखायां पाठमुपलभ्य परिहार उच्यते । तैत्तिरीयकास्तु षत्वमेव पठन्ति ।।
युष्मत्तत्ततक्षुः ष्वन्तः पादम् ।। 8.3.101 ।।
ततक्षुः ष्विति सकारान्तानुकरणात्परस्य सुष्सकारस्य `नुम्विसर्जनीयशर्व्यवायेऽपि' इति षत्वम् । तकारादिष्विति । एतद्युष्मद एव विशेषणम्; इतरयोरव्यभिचारात् । त्वं त्वा इत्यादि । एतेषामेव सम्भव इत्यर्थः ।
अग्निस्तत्पुनराहेति । अग्निरित्ययं पूर्वस्य पादस्यान्तः---यन्म आत्मनो मिन्दाभूदग्निरिति; तेनायं पादान्ते सकारः, न पादमध्ये ।।
स्तुतस्तोमयोश्छन्दसि ।। 8.3.103 ।।
पूर्वपदादित्येव सिद्ध इति । पूर्वपदमिति सामान्येन तत्राश्रीयते, न तु समासावयव एवेति वाक्येऽपि तेनैव सिद्धं षत्वमिति भावः । ततश्च स्तुतस्तोमग्रहणं प्रपञ्चार्थम् । छन्दोग्रहणं तूत्तरार्थं कर्त्तव्यमेव ।।
पूर्वपदात् ।। 8.3.104 ।।
असमासेऽपीति । एतच्च सवनादिषु `सवनेसवने' इत्यादीनां पाठादेवावसीयते ।।
सुञः ।। 8.3.105 ।।
अभीषुण इति । `इकः सुञिः' इति दीर्घत्वम्, `नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । क्वचित्तु वृत्तावेवैतत्पठ्यते ।।
सनोतेरनः ।। 8.3.106 ।।
गोषा इति । `जनसनखनक्रमगमो विट्', `विड्वनोरनुनासिकस्यात्' । क्वचित्त्विदमपि वृत्तावेवास्ति ।
गोसनिमिति । `छन्दसि वनसनरक्षिमथाम्' इतीन्प्रत्यः । सिसानयिषतीति । यद्यप्यण्यन्तः सूत्र उपात्तः, तथाप्यण्यन्तस्य प्रतिषेधवचने प्रयोजनं नास्तीति कृत्वा ण्यर्थो विज्ञास्यते । इह तु सिसनीयतीति स्तौतिण्योरेव षणीत्येतस्मान्नियमादप्रसङ्गः षत्वस्य । सिसनीरिति । क्विप्यतो लोपः, ततः सुः, हल्ङ्यादिलोपः, सनः सकारस्य षत्वं प्राप्नोति रुत्वं च, तत्र षत्वस्यासिद्धत्वाद्रुत्वम्, `र्वोरुपधाया दीर्घः' इति दीर्घत्वम् । अत्र सन् षत्वभूतो न भवतीति स्तौतिण्योरेवेत्यस्य नियमस्यायमविषय इति षत्वं प्रसक्तम्, अस्मान्नियमान्न भवति । एतस्मिंश्च प्रयोजने सति सामर्थ्याभावाद् ण्यन्तस्य नियमाभावात् सिषाणयिवतीति षत्वं भवत्येव ।।
सहेः पृतनर्ताभ्यां च ।। 8.3.107 ।।
योगविभागमिति । तत्र द्वितीयो योगः पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थः । संहितायामेवेति । उभयत्रापि संहिताधिकारादयं विशेषो लभ्यते, `नहिवृतिवृष' इत्यादिना दीर्घत्वम् ।
न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ।। 8.3.108 ।।
विस्रंसिकाया इति । `रोगाख्यायाम्' इति ण्वुल् । विस्रब्धमिति । `सृम्भु विश्वासे' क्तः, `यस्य विभाषा' इतीट्प्रतिषेधः, `अनिदिताम्' इति नलोपः । विसृप इति । `सृपितृदोः कसुन्' ।
सवनेसवन इत्यादौ वीप्सायां द्विर्वचनम् । किंस इत्यत्र `अयोगवाहानामट्सुणत्वं शर्षु जश्भावषत्वे' इति वचनाच्छर्व्यवाये इति षत्वप्रसङ्गः । यथा तु शषूपदेशो न कर्तव्यस्तथा `हयवरट्' इत्यत्रोक्तम् ।
अश्वसनिग्रहणमनर्थकमनिणन्तत्वात् ? अत आह---अश्वसनिग्रहणमिति । ज्ञापनस्य प्रयोजनमाह---जलाषाहमिति ।।
सात्पदाद्योः ।। 8.3.109 ।।
आदिग्रहणं शक्यमकर्तुम्, पदादिति पञ्चमीनिर्द्देशः कर्त्तव्यः---पदात्परस्य सकारस्य नेति । इहापि तर्हि न प्राप्नोति--अग्निषु, वायुषु, त्वक्षु ? सातिप्रतिषेधो ज्ञापयति---स्वादौ यत्पदं न तस्मात्प्रतिषेध इति । तत्रायमप्यर्थः---दधिसिक्, मधुसिगित्यादौ प्रतिषेधः सिद्धो भवति, न ह्ययं सकारः पदादिः । गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति वचनात् पदात्परस्तु भवति, तत्रापि पूर्वपदस्य सुबन्तत्वात् । बहुचस्तु प्रतिषेधः । बहुवस्तु परस्य प्रतिषेधो वक्तव्यः---बहुसेक्ता, न ह्यत्र पदात्परः सकारः ।।
सिचो यङि ।। 8.3.110 ।।
परिसेसिच्यत इति । अत्राभ्याससकारस्य `उपसर्गात्सुनोति' इत्यादिना प्राप्तिः, धातुसकारस्य त्वादेशसकारत्वात् `स्थादिष्वभ्यासेन च' इत्येतस्माच्च । ननु चोपसर्गात्प्रतिषेधविषये षत्वमारभ्यते, तद्यथैव पदादिप्रतिषेधं बाधते, एवं `सिचो यङि' इत्येतमपि बाधेत ? अत आह---उपसर्गाद्या प्राप्तिरिति । येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्ते च पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वमारभ्यते, `सिचो यङि' इत्येतस्मिंस्तु प्राप्ते चाप्राप्ते च । अथ वा---`पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते न परान्' इति । अनेनैतदपि निरस्तम्---`स्थादिष्वभ्यासेन च' इत्यनेन यथाभिषिषिक्षतीत्यत्र स्तौतिण्योरेवेति नियमं बाधित्वा षत्वं भवति, तथैनमपि प्रतिषेधं बाधित्वा धातुसकारस्य प्रसङ्ग इति ।।
सेधतेर्गतौ ।। 8.3.111 ।।
`उपसर्गात्' इति प्राप्तिः प्रतिषिध्यते ।।
प्रतिस्तब्धनिस्तब्धौ च ।। 8.3.112 ।।
`स्तन्भेः' इति प्राप्तिः प्रति षिध्यते ।।
सोढः ।। 8.3.113 ।।
सोड्भूतो गृह्यते इति । निष्ठान्तस्य प्रथमया निर्देशशङ्कामपाकरोति । परिसोञेति । `परिनिविभ्यः' इति प्राप्ते प्रतिषेधः ।।
स्तम्भुसिवुसहां चङि ।। 8.3.114 ।।
अत्राद्यस्य `स्तम्भेः' इति प्राप्तिः, इतरयोस्तु `परिनिविभ्यः सेवसित' इति । अभ्यतस्तम्भदिति । `प्राक्सितादड्व्यवायेऽपि' इति `स्थादिष्वभ्यासेन च' इति प्राप्तिः । पर्यसीषिवदिति । अत्रापि `सिवादीनां वाड्व्यवायेऽपि' इति प्राप्तिः ।।
उपसर्गादिति वक्तव्यमिति । किमर्थम् ? इत्याह---उपसर्गाद्या प्राप्तिरिति ।।
सुनोतेः स्यसनोः ।। 8.3.115 ।।
अत्रेत्यादि । इतिकरणो हेतौ, यस्मात् स्तौतिण्योरेवेति नियमादभ्यासादप्राप्तिः, रथादिष्वेवाभ्यासस्येति नियमादुपसर्गादप्यप्राप्तिः, तस्मादभिसुसूरित्युदाहरन्ति । अथ वा कथं षत्वप्रसङ्गः ? अत आह---अत्र हीति । यथा चात्र सन्ष--------------------इत्यत्रोक्तम् । अभ्यासात्प्राप्तिमिति । अभ्यासग्रहणमुपसर्गात्प्राप्तेरसम्भवादभ्यासेन व्यवहितान्न धातुसकारस्य प्रसङ्गः, नाप्यभ्याससकारस्य, स्थादिनियमेन व्यावतितत्वात् । एवं चात्राभिग्रहणमतन्त्रम्, सुसूरित्येवोदाहर्तव्यम् ।।
सदिस्वन्ज्योः परस्य लिटि ।। 8.3.116 ।।
लिटि द्विर्वचने कृते द्वौ सकारौ भवतः, तत्र सदेः `स्थादिष्वभ्यासेन च' इति वचनात् `सदिरप्रतेः' इति षत्वप्रसङ्गः, स्वञ्चेरपि `उपसर्गात्सुनोति' इत्यादिना । परिषस्वज इति । कथं पुनरत्र नलोपः, यावता संयोगान्तत्वान्नात्र लिटः कित्त्वमस्ति ? अत आह---स्वञ्जेरिति । एतच्च `इन्धिभवतिभ्यां च' इत्यत्र व्याख्यातम्, स्वञ्जिग्रहणञ्च वार्त्तिके दर्शनात्सूत्रे प्रक्षिप्तम्, यथाह---`सदो लिटि प्रतिषेधे स्वञ्चेरुपसंख्यानम्' इति ।।
निव्यभिभ्योऽड्व्यवाये वा छन्दसि ।। 8.3.117 ।।
प्रकरणे प्राप्तस्य सत्वमात्रस्य प्रतिषेधः । न्यष्टौदिति । `उतो वृद्धिर्लुकि हलि' इति वृद्धिः, अभ्यस्थाद्विषोः पृतना अरातीरित्यप्युदाहरणम् ।।
इति श्रीहरदत्तमिश्रविरिचितायां पदमञ्जर्यामष्टमस्याध्यायस्य तृतीयः पादः
*******************-----------------