सामग्री पर जाएँ

काशिकाविवरणपञ्जिका/चतुर्थोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः काशिकाविवरणपञ्जिका
द्वितीयः पादः
[[लेखकः :|]]
तृतीयः पादः →

अथ चतुर्थोऽध्यायः
द्वितीयो पादः।
1. तेन रक्तं रागात्। (4.2.1)
रञ्जिरयमस्त्येवानुरागे -- देवे रक्तः, स्त्रियां रक्त इति; अस्ति च वर्णविशेषे -- रक्तो गौरिति, लोहित इत्यर्थः; अस्ति शुक्लस्य वर्णान्तरापादने --रक्तः पट इति, शुक्लमपनीय रक्तादिकं वर्णान्तरमापादित इत्यर्थः। इह तृतीयेऽर्थे वर्त्तमानो गृह्यते, यदाह-- `शुक्लस्य' इत्यादि। रागशब्दोऽयमस्त्येव भावसाधनः, अस्ति च करणसाधनः; तत्रेह द्वितीयो गृह्यते, यदाह-- `रज्यतेऽनेनेति रागः' इति। रागग्रहणेन चार्थस्य ग्रहणम्, न स्वरूपस्य। तेन रागविशेषवाचिनः प्रातिपदिकात् प्रत्ययो विज्ञायते, न तु रागशब्दादेवेत्यत आह-- `रागविशेषवाचिनः प्रातिपदिकात्' इति। अथ स्वरूपग्रहणं कस्मान्न भवति ? अर्थपरत्वान्निर्देशस्य। यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्यते,न यत्रार्थपरो निर्देश इति प्राक् प्रतिपादितमेव। अर्थपरत्वञ्च निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्गम्यते। यदि तर्हि शुक्लस्य वर्णान्तरापादनमित्यभिप्रायेणाह-- `कथम्' इति। `उपमानात्' इत्यादि परिहारः। यथा `गौर्वाहीकः' इत्युपमानाद्‌गोशब्दोऽर्थान्तरे वाहीके वर्त्तते,तथेहापि काषायादिशब्दो गर्दभकर्णादाविति भावः।।

2. लाक्षारोचनाशकलकर्दमाट्ठक्। (4.2.2)
`शकलकर्दमाभ्यामणपीष्यते' इति। स च `वान्यस्मिन् सपिण्डे' (4.1.165) इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणानुवृत्तेर्लभ्यते। न चैवं सत्यतिप्रसङ्गो भवति; व्यवस्थितविभाषाविज्ञानात्।।

3. नक्षत्रेण युक्तः कालः। (4.2.3)
इह कालं क्रियात्मानं केचिदिच्छिन्ति, अपरे द्रव्यात्मानमाकाशादिकल्पम्। दर्शनद्वयमपि चैतदिहाश्रयितुमयुक्तम्। पूर्वस्मिन् दर्शने समाश्रीयमाणे सूर्यादिद्रवयान्तर्सयायां वा क्रियाया नक्षत्रेण योगः स्यात् ? आत्मस्थाया वा ? पूर्वस्यास्तावन्न सम्भवति, अर्थान्तरासमवायात्। अन्यथा ह्याकाशादयोऽपि क्रियावन्तः स्यु। न ह्यर्थान्तरसमवायिन्या अपि क्रियाया द्रव्यान्तरेण योगः स्यात्। आत्मस्थायास्तु क्रियाया विद्यते नक्षत्रेण योगः, किन्तु युक्तग्रहणं विशेषणं नोपपद्यते; व्यवच्छेद्याभावात्। न हि पुष्यादिस्थायाः कालस्य पुष्यादिभिः कदाचिद्योगो युज्यते यद्व्यवच्छेदार्थं युक्तग्रहणं क्रियते। एवं तावत् `क्रिया कालः' इत्येतद्दर्सनमत्राश्रयितुमयुक्तम्। द्वितीयमप्ययुक्तमेव; यस्मात् कालविशेषावधारणहेतुरिह योगोऽभिप्रेतः। तथा हि कालविशेषावधारणार्थमेव पौषीत्यादिलोके प्रयुज्यते। स चैवंविधो योगस्तयोरेव भवतीति ययोः सन्निकर्षविप्रकर्षे स्तः, यथा-- पुष्यचन्द्रमसोः। तयोर्हि कदाचित् सन्निकर्षो भवति, तदाचिद्विप्रकर्षः। न च नक्षत्रकालयोः कदाचित् सन्निकर्षविप्रकर्षैः स्तः,तयोर्नित्यत्वादित्येतच्चेतसि कृत्वाह-- `कथं पुनः' इत्यादि। न कथञ्चिदित्यभिप्रायः। नक्षत्रनिकटवर्तिनि चन्द्रमसि वर्त्तमानः सूत्रे नक्षत्रशब्द उपात्त इत्येतत् सूचयन्नाह-- `पुष्यादिसमीपस्थे' इत्यादि। यतैव हि सामीप्यात् `गङ्गायां घोषः' इति गङ्गासमीपस्थे देशे गङ्गाशब्दो वर्त्तते, तथेहापि पुष्यदयो नक्षत्रविशेषवाचिनः शब्दाः पुष्यादिसमीपस्थे चन्द्रमसि वर्त्तन्ते। तेन तत्रैव वर्त्तमानाः प्रत्ययमुत्पादयन्ति। तेन पुख्यादिसमीपस्थचन्द्रमसा कालस्य विशेषावधारणहेतुर्योग उपपद्यते। तदवस्थस्य चन्द्रमसः कादाचित्कत्वात्। पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः; तदवस्थे चन्द्रमसि पुष्यशब्दस्य वृत्तेः। `पौषी' इति। `सूर्यतिष्यागस्त्यमस्त्यानां य उपधायाः (6.4.149) इत्यत्र `{तिष्यपुष्ययोर्नक्षत्राणि यलोपः' इति मु.पाठ।} तिष्यपुष्ययोर्नक्षत्राणि' (वा.808) इति वचनाद्यलोपः।।

4. लुबविशेषे। (4.2.4)
यद्यविशेषे लुग्भवति, इहापि प्राप्नोति-- पौषी रात्रिः,पौषमहरिति, अत्राप्यविशेषी गम्यत एव। तथा हि-- पौषीरात्रिरित्युक्ते, अद्य श्वो वेति विशेषो न गम्यत इत्यत आह-- `न चेत् नक्षत्रयुक्तस्य' इत्यादि। एवं मन्यते-- `नक्षत्रेण युक्तः कालः' (4.2.3) इत्यनुवर्त्तते, तेन तद्विशेष एव न भवतीति। `रात्र्यादिविशेषः' इति।आदिशब्देनाह, मुहूर्त्तः, लवः-- इत्येते विशेषा गृह्यन्ते। `यावान्' इत्यादि। अनन्तरोक्तमेवार्थं विस्पष्टीकरोति। कियांश्च कालो नक्षत्रेण युज्यते ? अहोरात्रः। तदेवं यावान् कालो नक्षत्रेण युक्तस्तस्याविशेषे न गम्यते, अपि तु तदेकदेशस्य रात्रेः, अह्नो वेति नायं लुपो विषयः। यद्येवम्, प्रत्ययस्यापि कथमेकदेशो विषयः ?समुदायद्वारेण तदन्तःपातिनो गृह्यन्ते। एकदेशानामपि योगात् पूर्वेण प्रत्ययोत्पत्तिः सिद्धा बवति। पुनरिहावयवस्यैकदेशो लुपो विषय इति। इह तर्हि प्राप्नोति-- पौषोऽहोरात्र इति, अत् यावान् कालो नक्षत्रेण युक्तः, तस्याविशेषो गम्यते, तथा ह्यहोरात्र इत्युक्ते न ज्ञायते-- किमतीतः, अथानागतः,अथ वर्त्तमान इति ? नैष दोषः; अविशेष इति प्रसज्यप्रतिषेधोऽयम्। तेन नक्षत्रयुक्तस्य कालस्य यत्र विशेषो रात्र्यादिस्तत्र न लुग्भवतीति ज्ञायते, न तु यत्राविशेषस्तत्र तु लुब्भवतीति।।

5. संज्ञायां श्रवणाश्वत्थाभ्याम्। (4.2.5)
`लुपि युक्तवद्भावः कस्मान्न भवति' इति। यदि स्यात्, श्रवणशब्दस्य पुंल्लिङ्गता स्यात्। `निपातनात्' इत्यादिना परिहारः। गतार्थः।।

6. द्वन्द्वाच्छः। (4.2.6)
नक्षत्रग्रहणं यत्प्रकृतं तदिहार्थात् षष्ठ्यन्तं विपरिणम्यते।तेन नक्षत्राणां यो द्वन्द्वस्तस्मात् प्रत्ययो विज्ञायत इत्याह-- `नक्षत्रद्वन्द्वात्' इति। `विशेषे चाविशेषे च' इति। अविशेषग्रहणस्य निवृत्तत्वात्। `अद्य राधानुराधीयम्' इति। ननु चाविशेषे लुपा भवितव्यम्, तत्कथं प्रत्ययस्य श्रवणमित्याह-- `लुपं परत्वाद्बाधते' इति।।

7. दृष्टं साम। (4.27)

8. कलेर्ढक्। (4.2.8)
`तीयात्' इति। द्वेस्तीयः' (5.2.54) इति तीयः। `त्रेः सम्प्रसारणञ्च' (5.2.55) इति तीयं वक्ष्यति, तदन्तात् स्वार्थ ईकग्वक्तव्यः।
`न विद्यायाः'इति। विद्याया अभिधाने तीयादीकग्न भवति।
`गोत्रादह्कवत्' इति। यथा तस्याङ्क इत्यत्रार्थे विवनक्षिते गोत्रात् प्रत्ययो भवति, `तेन दृष्टं साम' (4.2.7) इत्यत्रार्थे विवक्षिते तथैवेष्यते। `औपवेन दृष्टं साम' इति। औपगवशब्दः `तस्यापत्यम्' (4.1.92) इतिगोत्रप्रत्ययान्तः। `गोत्रचरणाद्‌वुञ् भवति' इति। यथौपगवस्यायमङ्क औपगवक इत्यौपगवशब्दाद्‌गोत्रप्रत्ययान्तादङ्के वुञ्भवति, तथा `तेन दृष्टं साम' इत्यत्रापि। ननु च `गोत्रचरणाद्‌वुञ्' (4.3.126) इत्यत्र नाङ्कार्थ उपात्तः, तत्कथमनेनाह्कवदित्युच्यमाने वुञ् बवति ? नैष दोषः; तत्राङ्कवदित्यनेन विहितस्येदमर्थो विवक्ष्यते। `तेन गोत्रप्रत्ययान्ताद्यथा `तस्येदम्' (4.3.120) इत्यत्रार्थे प्रत्यय इष्यते, तथा तेन दृष्टं साम' इतत्यत्रापीत्यर्थः। `दृष्टे सामनि' इति सङ्ग्रहः।गतार्थः।।

9. वामदेवाड्ड्यड्ड्यौ। (4.2.9)
`{उदाहरणद्वयं मूले नास्ति, एवमेव वामदेव्य् इति दृश्यते।} वामदेव्यम्, वागमदेव्यम्' इति। एकस्तित्स्वरेणान्तस्वरितः, द्वितीयः प्रत्ययस्वरेणान्तोदात्तः।
`ङित्करणं किमर्थम्‌' इति। `यस्येति च' (6.4.148) इत्येवं लोपस्य सिद्धत्वाड्‌डित्करणस्यानर्थक्यं मन्यते-- ड्यड्ड्यावित्यादि। न वामदेव्यमवामदेव्यमिति-- -- अत्र `नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः' (6.2.155) इत्यतो नञ इत्यनुवर्त्तमाने `ययतोश्चातदर्थे' (6.2.156) इत्युत्तरपदस्यान्तोदात्तत्वे विधीयमानेऽनयोर्ग्रहणं मा भूदित्येवमर्थ डित्करणम्। असति च तत्रानयोर्ग्रहणे नञ एव स्वरो भवति, स पुनरुदात्तः। `निपाता आद्युदात्ता भवन्ति' (फिट्.सू.4.80) इति वचनात्। अथ क्रियमाणे डित्करणे कस्मादनयोर्ग्रहणं न भवति ? इत्याहृ-- `निरनुबन्धग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति परिभाषया ड्यड्यड्ययोरपि निवृत्तिः क्रियते। यद्‌ग्रहणेऽपि `एकानुबन्धकरणे न द्व्यनुबन्धकस्य' (व्या.प.52) इति परिभाषया यतः। अनयोश्च परिभाषयोरस्तित्व एतदेव डित्करणं लिङ्गम्।
सङ्ग्रहश्लोके `अतदर्थे' इत्यनेन `ययतोश्चातदर्थे' (6.2.156) इत्येतत् सूत्रं लभ्यते। एतस्मिन् सूत्रे इत्यर्थः। `नञ्स्वरे'इति। नञो यः स्वरः नञ्स्वरः। शेषो गतार्थः।।

10. परिवृतो रथः। (4.2.10)
`चार्मणः'इति। `अन्' (6.4.167) इति प्रकृतिभावे टिलोपो न भवति। `न संयोगा4द्वमन्तात्' (6.4.137) इत्यल्लोपो न भवति।
अथेह कस्मान्न भवति-- छात्त्रैः परिवृतो रथ इति ? अत्राह-- `समन्ताद्वेष्टितः' इत्यादि। वृणोतिरयं वेष्टने वर्त्तते, तस्य परिणा सर्वतो भावो द्योत्यते। तस्माद्यः सर्वतो वेष्ट्यते तत्रैव त्ययेन भवितव्यम्, न तु छात्त्रैः रथः सर्वतो वेष्टितः, ततो न तत्र प्रत्ययस्य प्रसङ्गः। यस्तु छात्त्रैः परिवृतो रथ इति प्रयोगः,सपरिवृतस्याध्यारोपेणौपचारिकः।नच मुख्ये सति परिवृतत्वे गौणस्याध्यारोपितस्य ग्रहणं युक्तम्।।

11.पाण्डुकम्बलादिनिः। (4.2.11)
`पाण्डुकम्बली' इति। `सौ च' (6.4.13) इति दीर्घः।
`मत्वर्थीयेनैव सिद्धे' इति। यद्धि येन सम्न्ताद्वेष्टितं तत् तस्यास्ति। तस्मात् `अत इनिठनौ' (5.2.115) इति म्तवर्थीयेनेनिना सिद्धे यत्तद्वचनं तदणो निवृत्त्यर्थम्। यदि लभ्येत, तन्नारभ्येत। यदि ह्येतद्वचनं न स्यात्, तदा `परिवृतो रथः'(4.2.10) इत्यण्प्रसज्येत्, ततश्च पाण्डुकम्बल इति स्यात्, पाण्डुकम्बलीति चेष्यते। तस्मादण्निनृत्त्यर्थमुच्यते।।

12. द्वैपवैयाघ्रादञ्। (4.2.12)
`द्वीपिव्याघ्रयोर्विकार' इत्यादि। द्वीपिनो विकारश्चर्म, व्याघ्रस्य विकारश्चर्म-- इत्यर्थविवक्षायां `प्राणिरजताद्विभ्योऽञ्' (4.3.154) इत्यञ्प्रत्ययान्तत्वात् द्वैपवैयाघ्रशब्दयोः, ताभ्यामिह द्वीपिव्याघ्रविकारत्वाच्चर्मणि अभिधीयेते। चर्मणैव द्वीपिव्याघ्रविकारेण रथस्य परिवृतत्वं सम्भवति, न विकारमात्रेणेति चर्मणी इह द्वैपवैयाघ्रशब्दाभ्यां विवक्षिते इति गम्यते।।

13. कौमारापूर्ववचने। (4.2.13)
`अपूर्ववचने'इति। अपूर्वस्य वचन इति, अपूर्वाभिधान इत्यर्थः। कस्यापूर्ववचनमित्याह--`पाणिग्रहणस्य' इत्यादि। एतच्च सामान्योक्तावपि निपातनसामर्थ्याल्लभ्यते। यथैव हि निपातनसामर्थ्यादन्यदपि किञ्चिदलाक्षणिकं कार्यं लभ्यते,तथेदमपि। `उभयतः स्त्रियाम्' इत्यादि। यदि कौमार इति पुमानभिधीयते, एवमप्यस्यापूर्वत्वं यदा स्त्रिया एव विशेषणं भवति, न पुंसः एवमतन्निपात्यते नान्यथेत्यर्थः। `अपूर्वपतिम्' इति। नास्याः पूर्वः पतिरिति बहुव्रीहिः। पत्या सह यस्याः पाणिग्रहणं निवृत्तं साऽपूर्वपतिः। तां पतिरुपपन्नः प्राप्तवानित्यर्थः। `अपूर्वपतिः' इति। अयमपि बहुव्रीहिः।
`कौमारापूर्ववचने' इत्यादि। कौमार इत्येतन्निपात्यते, अपूर्ववचने। किं पुनरिह निपात्यत इत्याह-- `कुमार्या अण्विधीयते' इति। कुमारीशब्दादण् निपात्यत इत्यर्थः। कदेत्याह-- `अपूर्वत्वं यदा तस्याः' इति। इह हि निपातनेन पुमानभिधीयते, स्त्री वा,तत्र द्वयोरपि पक्षयोरपूर्वत्वम्। यदा तस्याः स्त्रिया विशेषणं भवति, न पुंसः, तदेतन्निपातनम्, नान्यथेत्यर्थः। `कुमार्या भवतीति वा' इति। अनेन योगः प्रत्याख्यायते। यो हि कुमारीं प्राप्तवानसौ तत्र भवति। ततस्च `तत्र भवः' (4.3.53) इति शैषिके भवार्थेऽणन्तं कौमारशब्दं व्युत्पद्येत,ततः पुंयगोलक्षणे ङीषि सति हि कुमारीत्येतत् सिद्धम्। स्वरकृतो विशेषो नास्त्येव। तथा हि अणन्तान्ङीष्यपि कृते `यस्येति च' (6.4.148) इति लोपे च `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इत्युदात्तेन ङीपा भवितव्यम्। ङीष् प्रत्ययस्वरेणाद्युदात्त एव। ननु चैवं सति कौमारस्य याऽन्यापि स्त्रीकौमारव्यपदेशस्य कारणं सापि कौमारीति प्रसज्यते ? नैष दोषः; प्रत्यासत्तेर्हि या तस् प्रत्यासन्ना सैव तस्य कौमारीति भविष्यति। का पुनस्तस्य प्रत्यासन्ना ? या कौमारे व्यपदेशस्य हेतुः। यस्यामसौ भवन् कौमार इत्युच्यते सैव, नान्या। यद्यपि व्यासादयोऽपि कुमार्या भवन्ति तथापि तेष्वण्, न भविष्यति; अनभिधानात्। एतच्चावश्यमनभिधानमाश्रयणीयमिति; इतरथा हि क्रियमाणेऽपि निपातने `तत्र भवः' (4.3.53) इत्यनेनाण् स्यादेव।।

14. तत्रोद्धृतममत्रेभ्यः। (4.2.14)

15. स्थण्डिलाच्छयितरि व्रते। (4.2.15)
`समुदायेन च' इत्यादिना प्रकृतिप्रत्ययोपाधित्वं व्रतस्य दर्शयति। `शास्त्रितः' शब्दः `वाचि यमो व्रते' (3.2.40) इत्यत्र व्युत्पादितः।।

16. संस्कृतं भक्षाः। (4.2.16)
`संस्कृतम्' इति। अत्र सामान्यशब्दत्वात् संस्कृतशब्दस्य नपुंसकलिङ्गत्वम्। एकवचनत्वञ्च । `भक्षाः' इति। विशे शब्दत्वाद्भक्षशब्दस्य पुंल्लिङ्गत्वम्। बहुवचनत्वञ्च। भक्षशब्दोऽयं घञन्त उपात्तः। स च खरविशवाभ्यवहार्य एव रूढ इत्याह-- `खरविशद' इत्यादि। सुबोधम्।।

17. शूलोखाद्यत्। (4.2.18)

18. दध्नष्टक्। (4.2.18)
ठकं वक्ष्यति-- `संस्कृतम्' (4.4.3) इत्यनेन। `तेनैव सिद्धम्' इति।यद् दध्नि संस्कृतं तद् दध्ना हि संस्कृतं भवतीत्यभिप्रायः। `इह रदध्यधिकरणमाधारभूतम्' इति। यथा शूले संस्क्रियमाणस्य मांसस्य शूलम्। न हि शूलेन मांसस्य कश्चित् संस्कार क्रियते, अपि तु लवणादिना। आधारभावमात्रं तु मांसस्य शूलं प्रतिपद्यते। यदि तर्हि दधि केवलमाधारभूतम्, केन तत्र तर्हि संस्कारः क्रियते इत्याह-- `द्रव्यान्तरेण' इत्यादि।

19.उदश्वितोऽन्यतरस्याम्। (4.2.19)
`{ओदस्वित्यम् इति मु.पाठः} औदश्वित्कम्' इति। `इसुसुक्तान्तात् कः' (7.3.51)।।

20. क्षीरादड्ढञ्। (4.2.20)
`क्षैरेयी' इति। `टिड्ढाणञ्' (4.1.15) इति ङीप्।।

21. सास्मिन्पौर्णमासीति संज्ञायाम्। (4.2.21)
`ततश्चेद्विवक्षा भवति' इति। तत इति प्रत्ययान्तो निर्दिश्यते। एतदुक्तं भवति-- यदि प्रत्ययान्ताल्लोकेऽस्य विवक्षा भवत्येवं प्रत्ययो भवति; नान्यथेत्यर्थः। `प्रत्ययान्तेन च' इत्यादिना संज्ञायाः समुदायोपाधित्वं स्पष्टीकरोति। `एषा संज्ञा' इति। या प्रत्ययान्तेन गम्यते। `पौषी' इति। `नक्षत्रेण युक्तः कालः' (4.2.3) इत्यण्, तदन्तान्ङीप्।
`इह न भवति' इति। संज्ञाया अनवगम्यमानत्वात्। न हि दशरात्रस्य प्रत्ययान्ताः संज्ञा, नापि भृतकमासस्य। किं तत् तुल्यं फलमित्याह-- `प्रयोगानुसरणम्' इति। प्रयोगानुसरणं प्रयोगोपलक्षणमित्यर्थः। संज्ञाग्रहणे ह्येतत् क्रियते-- प्रयोगमुपलक्ष्य यत्र प्रयोगो दृश्यते मासार्धमाससंवत्सरेषु तत्र प्रत्यय उत्पादयितुव्यः, न तु भृतकमासादौ। इति करणेनाप्येतदेव क्रियते। तथा हि-- प्रत्ययान्ताद्यदि लोकस्यार्थविवक्षा भवति, एवं हि प्रत्यय उत्पादयितव्यः, नान्यथेति। एवमर्थमितिकरण उपादीयते, ततश्च लोकविवक्षा मासार्धमाससंवत्सरविषया भवति, एवं हि न भृतकमासादिविषया। तस्मात् प्रोयगानुसरणम्, उभयोरपि फलं तुल्यमेव। `संज्ञा' इत्यादि। ननु च यथा संज्ञाशब्दः प्रयोगानुसरणफलतया लोके प्रसिद्धः, तथेतिकरणोऽपि, तत्किमर्थमिह तस्य तेन तुल्यत्वमेव ज्ञायते ? इत्याह--- `न ह्ययम्' इत्यादि। तथा हि-- लोकेऽयं संज्ञाशब्दः प्रयोगानुसरणफलत्वेन यथा प्रसिद्धः, न तथेतिकरणः। तस्मादस्य तेन तुल्यता ज्ञापितेति भावः। `संज्ञार्थत्वेट इत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। संज्ञया तुल्योऽर्थो यस्य स संज्ञार्थः। समासेन गम्यमानत्वात् तुल्यशब्दो न प्रयुज्यते, यथा `रुच्यर्थानाम्' (1.4.33) इत्यत्र रुचिना समानशब्द इति भावः। संज्ञार्थस्य भावः = संज्ञार्थत्वम्। अर्थशब्दश्चायं प्रयोजनवचनः। `तदुपपन्नं भवति' इति। यत एव संज्ञाशब्देनेतिकरणस्य तुल्यार्थता ज्ञापिता तेन यत्र यत्र प्रयोगानुसारणार्थं इतिकरणः, ततस्ततश्च विवक्षा भवतीत्युच्यते-- तदुपपन्नं भवतीति; इतकरणस्य संज्ञाप्रयोजनत्वात्।
`पूर्णमासादण्' इति। पूर्णो मासो यस्यं तिथाविति तत्रार्थे बहुव्रीहिः। अस्मादेव निपतानादण्। पूर्णमासस्येयं `पौर्णमासी'। `तस्येदम्' (4.3.120) इत्यण्। तिथिविशेषस्येयं संज्ञा। व्यत्पत्तिस्तु यथाकथञ्चित् कर्त्तव्याः।।

22. आग्रहायण्यश्वत्थाट्ठक्। (4.2.22)

23. विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः। (4.2.23)

24. सास्य देवता। (4.2.24)
`तस्मिन्नभिधेये' इति। यागसम्प्रदानभूतदेवतास्वामिनीके पुरोडाशादौ। एष चाभिधेयविशेषः। सामान्योक्तावपीतीत्यस्येहानुवृत्तेर्लभ्यते। `आदियत्यम्, बार्हस्पत्यम्' इति। `दित्यदित्यादित्यपत्युत्तरपदात्' (4.1.85) इत्यादिना ण्यः। यागस्य देवतेहाभिप्रेता।
ऐन्द्रो मन्त्र इति च प्रयोगे कस्यचित् पुरोडाशादिकस्य देयस्याभावादिन्द्रस्य सम्प्रदानत्वं नास्ति। अतो नासौ देवदेति प्रत्ययेनात्र न भवितव्यमिति मन्यते। `मंन्त्रस्तुत्यम्' इति। यथा देवता पूजार्हा तथा मन्त्रस्तुत्यमपि वस्तु, ततो देवतासाधर्म्यात् तदि देवतेत्युपचरन्ति विद्वांसः। इन्द्रश्च मन्त्रस्तुत्यो भवति, तस्मादसम्प्रदानभूतमपि तं देवतेत्युचपरन्ति। दैवतोपचारं तत्र कुर्वन्तीत्यर्थः। नन्वेमपि नैवात्र प्रत्ययेन भवितव्यम्; मुख्ये सति गौणस्याश्रयणस्यायुक्तत्वात् ? नैष दोषः;यथैव हि कश्चिदेनकेनैव यत्नेन श्वेतो धावतीति तन्त्रेण वाक्यद्वयमुच्चारयति, तथेहाप्याचार्येण द्वे वाक्ये तन्त्रेणोच्चारिते। तत्रैकं मुख्यार्थम्; अपरं गौणार्थं भविष्यति।
`कथम्' इत्यादि। अग्नेर्हि न मुख्यं देवतात्वम्, नापि गौणम्। तत्र मुख्यं तावन्नास्ति;देयाभावेनासम्प्रदानभूतत्वात्। गौणमपि नास्ति; मन्त्रशब्दाभावेन मन्त्रस्तुल्यतथानुपात्तत्वात्। तस्मादत्र प्रत्ययेन न भवितव्यमिति भावः। `उपमानाद्भविष्यति' इति। देवतास्वामिनीक एवात्र प्रत्यय उपपद्यते। यस्त्वर्थान्तरे प्रत्ययान्तप्रयोगः स आग्नेय इवाग्नेय इत्युपमानाद्भविष्यति, यथा-- काषायौ गर्गभस्य कर्णाविति। ननु च सास्मिन् पौर्णमासीति सेति प्रकृतमेव। तत्किमर्थं पुनरिह समर्थविभक्तिर्निर्देश्यत इत्यत आहु-- `सेति प्रकृते' इत्यादि। यदिदं सेति प्रकृतं तत्संज्ञासम्बद्धमिति, तदनुवृत्तौ संज्ञाग्रहणस्याप्यनुवृत्तिः स्यात्। तस्मात् तन्निवृत्त्यर्थं पुनरिह समर्थविभक्तिनिर्दिश्यत इति।।

25. कस्येत्। (4.2.25)
तकारो मुखसुखार्थः, न दीर्घनिवृत्त्यर्थः। भाव्यमानेमाणा सवर्णानामग्रहणात्। सत्यपि सवर्णग्रहण आन्तरतम्याद् ह्रस्वस्य ह्रस्व एव भविष्यति न दीर्घः। ` प्रजापतेर्वाचकः' इति। अनेनासर्वनामत्वमस्य दर्शयति। इकारस्य `यस्येति च' (6.4.148) इति लोपो न भवति, विधानसामर्थ्यात्। `कायम्' इति। वृद्ध्यायादेशौ।।

26. शुक्राद्घन्। (4.2.26)

27. अपोनप्त्रपान्नप्तृभ्यां घः। (4.2.27)
अपोनपात्, अपान्नपादिति यद्येते देवतानामधेयेतत् कथमेतद्विलक्षणं प्रकृतिरूपं सूत्रे श्रूयते ? इत्याह--`तयोस्तु प्रत्ययसन्नियोगेन' इत्यादि।।

28. छ च। (4.2.28)
अथ किमर्थं योगविभागः क्रियते, न `अपोनप्तृ-- अपान्नप्तृभ्यां घच्छौ' इत्येकयोग एव क्रियते ? इत्याह-- `योगविभागः' इत्यादि। एकयोगे हि द्वे प्रकृती, प्रत्ययावपि द्वावेव, समसंख्यत्वात् संख्यातानुदेशः स्यात्, अतस्तन्निवृत्तये योगविभागः क्रियते।
`छ प्रकरणे' इत्यादि। पैङ्गाक्षीपुत्रादिभ्यश्छप्रकरणे छस्योपसंख्यानम् = प्रतिपादनं कर्त्तव्यम्। तत्रेदं प्रतिपादनम्-- चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः , तेन पैङ्गाक्षीपुत्रादिभ्यश्छो भवतीति।।

29. महेन्द्राद्घाणौ च। (4.2.29)
अथ `महेन्द्रादण् च' इत्येव कस्मान्नोक्तम् ? चकाराद्घच्छौ भविष्यतः, एवमुच्यमाने द्वेष्यमपि विज्ञायते--अनन्तरं छ एव चकारेणात्र कृष्यत इति। तस्मात् तथा मा विज्ञायीति घग्रहणम्।।

30. सोमाट्ट्यण्। (4.2.30)
`सौमी' इति। `हलस्तद्धितस्य' (6.4.150) इति यलोपः।।

31. वाय्वृतुपित्रुषसो यत्। (4.2.31)
`वायव्यम्। ऋतव्यम्' इति। `ओर्गुणः' (6.4.146),`वान्तो यि प्रत्यये' (6.1.79) इत्यवादेशः। `पित्र्यम्' इति। `रीङृतः' (7.4.27) इति रीङ्, यस्येति (6.4.49) लोपः।।

32.द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च। (4.2.32)
`अणो ण्यस्य चापवादः' इति। वास्तोष्पतिशब्दात् `दित्यदित्यादिभ्य' (4.1.85) इत्यादिना प्राप्तस्य ण्य्स्यापवादः। शेषेभ्यस्त्वौत्सर्गिकस्याणः। वास्तुनः पतिर्वास्तोष्पत्तिः। वास्तुशब्दस्य नपुंसकस्य पुंल्लिङ्गता, षष्ठ्यर्थेऽलुक् च निपातनात्। `षष्ठ्याः पतिपुत्रपृष्ठ' (8.3.53) इत्यादिना षत्वम्। `द्यावापृथिव्यौ' इति। `दिवो द्यावा' (6.3.29) इति द्यावादेशः। `शुनासीरीयम्' इति। `देवताद्वन्द्वे च' (6.3.26) इत्यानङ्। `अग्नीषोमीयम्' इति। `ईदग्नेः सोमवरुणयोः' (6.3.27) इतीत्त्वम्; `अग्नेः स्तुत्स्तोमसोमाः' (8.3.82) इति षत्वम्।।

33. अग्नेर्ढक्। (4.2.33)

34. कालेभ्यो भववत्। (4.2.34)
बहुवचनग्रहणेन स्वरूपग्रहणे निरस्ते, कालविशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्याह-- `कालविशेषवाचिभ्यः' इत्यादि। `वत्करणम्' इत्यादि। सर्वस्य सादृश्यस्य परिग्रहो यथा स्यादित्येवमर्थ वत्करणम्। `कालेभ्यो भवः' इत्युच्यमाने यदि तावत् कालग्रहणं भवप्रत्ययैः सम्बध्यते ? भवेऽर्थे कालेभ्यो विधास्यन्ते ये प्रत्ययास्ते `सास्य देवता' (4.2.24) इत्येतस्मिन्नर्थे भवन्ति, तदा च देवताप्रकृतिरविशेषिता स्यात्। एवञ्च देवतामात्रवाचिनः प्रातिपदिकादविशेषेण प्रत्ययाः प्रसज्येरन्। अथ देवताप्रकृतिभिः कालग्रहणं सम्बध्यते ? भवे ये विधास्यन्ते ते प्रत्ययाः कालेभ्यो देवताभ्यः प्रसज्येरन्। अथाप्युभयेषां सन्निधानाद्विशेष्यभेदेन वाक्यभेदाच्च प्रत्ययैः प्रकृतिभिश्च सम्बध्यते-- कालेभ्यो भवेऽर्थे विधास्यन्ते ये प्रत्ययास्ते कालेभ्यो देवताभ्यो भवन्तीति ? एवमपि यः कश्चित् कालप्रकृतिः प्रत्ययो यतः कुतश्चित् कालाद्देवतायाः स्यात्, ऋतुभ्योऽण् मुहूर्तादिभ्योऽपि स्यात्। वतौ तु सति तस्य सादृश्यविधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवार्थे विधास्यन्ते, इहापि ताभ्य ए प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न बवत्यनिष्टप्रसङ्गः। `{वासन्तम्--काशिका} वासन्तः'इति। `सन्धिवेलादि'(4.3.16) सूत्रेणाण्। `{प्रावृषेण्यम्--काशिका} प्रावृषेण्यः' इति। `प्रावृष एण्यः' (4.3.17)।।

35. महाराजप्रोष्ठपदाठ्ठञ्। (4.2.35)

36. पितृव्यमातुमातामहपितामहाः। (4.2.36)
`पितामही,मातामही' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्।।

37. तस्य समूहः। (4.2.37)
`काकम्, शौकम्, बाकम्' इति। काकशुकबकशब्दा आद्युदात्ताः।`प्राणिनां कुपूर्वाणाम्' (फि.सू.2.30) इत्यनेन। अस्यायमर्थः-- प्राणिविशेषवाचिनां शब्दानां आदिभूताः कवर्गात् तेषामुदात्तो भवतीति।।

38. भिक्षादिभ्योऽण्। (4.2.38)
अथाण्ग्रहणं किमर्थम्, न भिक्षादिभ्यो यथाविहितमेवोच्येत ? इत्यत आह-- `अण्ग्रहणम्' इत्यादि। भिक्षाशब्दोऽयम् `गुरोश्च हलः'(3.3.103) इत्यकारप्रत्ययान्तत्वादन्तोदात्तः। तत्र `अनुदात्तोदेरञ्' (4.2.44) इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। ननु च यद्यत्राण् स्यात् पुनर्वचनमनर्थकं स्यात् ? नैतदस्ति; परत्वादचित्तलक्षणष्ठक् प्राप्नोति, अतस्तद्बाधनर्थं पुनर्वचनं स्यात्। अञ्प्रत्ययस्तु स्यादेव, अण्ग्रहणात् पुनरणेवेति न भवत्येष दोषः। `गार्भिणम्' इति। गर्भिणीनां समूहो `भस्याऽढे तद्धिते' (वा.731)। `सिद्धत्वात् प्रत्ययविधौ' (4.2.38) पुंवद्भावेन स्त्रीप्रत्ययनिवृत्तिः, ततोऽण्, तस्मिन् `नस्तद्धिते' (6.4.144) इति टिलोपः प्राप्तः, `इनण्यनपत्ये' (6.4.164) इति प्रकृतिभावान्न भवति। `तस्यग्रहण' इति। युवतिशब्दस्य यदि पुंवद्भावो न भवति, तदा तस्य प्रत्ययान्तत्वात् `अनुदात्तादेः' (4.2.44) इत्यञि प्राप्ते तद्बाधनार्थमिहाण्ग्रहममर्थवद्भवति। यदि पुंवद्भावः स्यात् तदा तदनर्थकं स्यात्। तथा हि --`सिद्धश्च' प्रत्ययविधौ' (वा. 4.2.38) इति वचनादनुत्पन्न एव तद्धिते बुद्धिस्थे पुंवद्भावेन भवितव्यम्। युव शब्दस्य `कनिन् यृवृषितक्षिराजिधन्विद्युप्रतिदिवः' (द.उ.6.51) इति कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वम्। तत्र यदि पुंवद्भावः स्यादुत्सर्गलक्षणेवाण् सिद्ध इतीह ग्रहणमनर्थकं स्यात्। तस्मान्ना भूदस्सयानर्थक्यमिति तस्यग्रहणसामर्थ्यादेव पुंवद्भावो न भवति, तेन यौवतमिति सिद्धं भवति।।

39. गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्‌वुञ्। (4.2.39)
`अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते' इति। यद्येवम्, गोत्रग्रहणेनैतस्य सिद्धत्वाद्राजन्यमनुष्ययोरुपादानमनर्थकम् ? नैतदस्ति; न हि तौ गोत्रप्रत्ययान्तौ, जातेः प्रत्ययार्थत्वात्। यद्येवम्, लोपस्य प्राप्तिरेव नास्ति, तत्र यदुक्तम्-- `प्रकृत्याके राजन्यमनुष्ययुवानः' (वा.814) इति यलोपो न भवतीति, तदनर्थकं स्यात् ? एतत् पुनरेकीयमतमाश्रित्योक्तम्। केचिदाचार्या राजन्यमनुष्ययोरपत्यप्रत्ययान्तत्वमिच्छन्ति, अतस्तन्मतमाश्रित्यैदुक्तमित्यदोषः, तन्मतेन तर्हि राजन्यमनुष्ययोर्ग्रहणमनर्थकं स्यात् ? ज्ञापनार्थत्वात्। तेनैतद्ज्ञाप्यते-- राजन्यमनुष्ययोर्यकारसय् किञ्चिदपत्याश्रितं कार्यं न भवतीति। किं पुनस्तत् ? आपत्यव्यपदेशम्। तेन राजन्यकम्, `मानुष्यकमिति -- अत्रापि `आपत्यस्य च तद्धितेऽनाति' (6.4.151) इति यलोपो न भवतीति। तथा सूत्रोपात्त एव राजन्यमनुष्ययोः प्रकृतिभावः `प्रकृत्याके राजन्यमनुष्ययुवानः' (वा.814) इत्यनेनाख्यायत इति वेदितव्यम्।
`वृद्धाच्चेति वक्तव्यम्' इति। वृद्धश्बदाद्‌वुञ् भवतीत्येदर्थमित्यर्थः। तत्रेदं व्याख्यानम्-- इह पुनरुत्तरसूत्राच्चकारोऽनुवर्त्तते सिंहावलोकितन्यायेन, स चानुक्तसमुच्चयार्थः, तेन वृद्धशब्दाद्‌वुञ् भवतीति। योगश्चायं यथायोगमणञोरपवादः।।

40. केदाराद्यञ्च। (4.2.40)
`गणिकायाश्च यञ्वक्तव्यः' (इति)। वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- इहाप्युत्तरसूत्राच्चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेन गणिकाशब्दादपि यञ् भवतीति, वुञ् न भवतीति, अनभिधानात्।।

41. उञ् कवचिनश्च। (4.2.41)
कवचिञ्शब्दो मत्वर्थीयेनिप्रत्ययान्तः,प्रत्ययस्वरेणान्तोदात्तः। तस्मादनुदात्तादि (4.2.44) लक्षणेऽञि प्राप्ते वचनम्।।

42. ब्राह्मणमाणववाडवाद्यन्। (4.2.42)
`पृष्टादुपसंख्यानम्' इति। पृष्ठशब्दाद्यन्प्रत्ययस्योपसंख्यानम् = व्याख्यानं कर्त्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्-- पूर्वसूत्रादिह चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेन पृष्ठशब्दादपि भविष्यतीति। `अहीनः' इति। `अह्नष्टखोरेव'(6.4.145) टिलोपः। `आह्नः' इति। `अल्लोपोऽनः' (6.4.134) इत्यकारलोपः। ननु चाचित्तलक्षणेन ठका भवितव्यम्, तत्कथमाह्न इति भवति ? इत्याह-- `खण्डिकादिषु ' इत्यादि।
`णस्वक्तव्यः' इति। सकारः `सिति च' (1.4.16) इति विशेषणार्थः। तेन पार्श्वमित्यत्र भत्वाभावात् `ओर्गुणः' (6.4.146) न भवति।।

43. ग्रामजनबन्धुसहायेभ्यस्तल्। (4.2.43)
ग्रामशब्दादचित्तलक्षणे ठकि प्राप्ते। जनशब्दो ञित्स्वरेणाद्युदात्तः; घञन्तत्वात्। तथा बन्धुशब्दोऽपि नित्स्वरेणाद्युदात्त एव। तथा हि स `धान्ये नित्' (द.उ.1.94)इति वर्त्तमाने `{शॄस्वृस्निहित्रप्यसि----द.उ.} शॄस्वस्निहितप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' (द.उ.1.95) इत्यनेन व्युत्पादित उप्रत्ययान्तः। आद्युदात्तत्वादणि प्राप्ते। सहायशब्दोऽपि `लघावन्ते बह्वषो गुरुः' (फि.सू.2.42) इति मध्योदात्तः। तत्र अनुदात्तादेरञि प्राप्ते तलो विधानम्।
`गजाच्चेति वक्तव्यम्' इति। गजशब्दात् तल् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं चेह चकारस्यानुवृत्तिमाश्रित्य कर्त्तव्यम्।।

44. अनुदात्तादेरञ्। (4.2.44)
`कापोतम्, मायूरम्' इति। कपोतमयूरशब्दौ `लघावन्ते द्वयोश्च बह्वषो गुरुः' (फि.सू.2.42) इति मध्योदात्तौ' । `तैत्तरम्' इति। तित्तिरिशब्दः कित्' (द.उ.1.48) इति कित्प्रत्ययान्तः। तरतेः {सन्वल्लुक् इति. प्रा.मु.पाठः} सन्वत्तुक् चाभ्यासस्येति प्रत्ययस्वरेणान्तोदात्तः। ननु च सन्वद्भावादाद्युदात्तः प्राप्नोति ? `उणादयो बहुलम्' (3.3.1) इति बहुलवचनात् स्वरे सन्वद्भावो न भविष्यतीत्यदोषः।।

45. खण्डिकादिभ्यश्च। 94.2.45)
`आद्युदात्तार्थमचित्तार्थञ्च वचनम्' इति। असत्येतस्मिन्नाद्युदात्तेभ्योऽण् स्यात्, अचितेब्योऽचित्तलक्षणष्ठक् प्रसज्येत। `क्षुद्रकाश्चमालवाश्चेति क्षत्तरियद्वन्द्वः' इति।क्षुद्रकस्यापत्यानि बहूनि `जनपदशब्दात् क्षत्त्रियादञ्' (4.1.168), मालवस्यापत्यानि बहूनि। `वृद्धेत्कोशलाजादाञ्ञ्यङ्' (4.1.171) । तयोः `तद्राजस्य' (2.4.62) इति बहुषु लुक्, पश्चाद्द्वन्द्वः। `ततः पूर्वेणाञि सिद्धे' इति। समासान्तोदात्तत्वे कृते द्वन्द्वसमासस्यानुदात्तादित्वात्। वचनं गोत्रवुञो बाधनार्थम्। `गोत्रोक्षोष्ट्रोरभ्र' (4.2.39) इत्यादिना गोत्रलक्षणो वुञ्‌प्राप्नोति, तद्बाधनार्थं क्षुद्रकलृमालवकस्येह गणे पाठः।
`ननु च' इत्यादि। परत्वादेवाञ् वुञं बाधिष्यत इत्यतो नार्थो वुञो बाधनार्थेनानेन वचनेनेति भावः। एतच्च गोत्रत्वमभ्युपेत्योक्तम्। इदानीं गोत्रत्वमेव न भवतीति दर्शयितुमाह-- `न च' इत्यादि। गोत्रसमुच्चयोऽयम्। न च गोत्रसमुदायो गोत्रग्रहणेन गृह्यते, यथा जनपदसमुदायो न जनपदग्रहणेन। तथा च काशयश्च कोशलाश्च काशिकोशलाः, तेषु भवाः काशिकोशलीयाः। जनपदत्वाभावात् `{जनपदवध्योश्च--मु.पाठः} जनपदतदवध्योश्च' (4.2.124) इति वुञ् न भवति, `वृद्धाश्छः' (4.2.114) एव तु भवति। स्यादेतत्-- यद्यपि गोत्रसमुदायो गोत्रं न भवति, तदवयुस्तु भवति, क्षुद्रकमालवकशब्दोऽवयवो गोत्रम्, अतस्तदन्तविधिना तदन्ताद्‌गोत्रसमुदःयादपि वुञ् प्राप्नोति ? अत आह -- `न च' इत्यादि। न हि सर्वस्तदन्तविधिर्भवतीति। तथा हि-- `येन विधिस्तदन्तस्य' (1.1.72) इत्यत्रोक्तम्--`समासप्रत्ययविधौ प्रतिषेधः', `उगिद्वर्णग्रहणवर्जम्' (वा.12,13) इति। प्रत्ययविधिश्चायम्। येषु तत्र च तदन्तविधिरिष्यते ते तत्रैव `भयाद्यादिग्रहणम्' (वा.303) इत्यादिना परिगणिताः, न चास्य तत्र परिगणनम्। ततो नास्ति तदन्तविधिः। `एवं तर्हि' इत्यादि। यदयं क्षुद्रमालवकग्रहणं करोति वुञ्बाधनर्थाम्, तज्ज्ञापयति-- वुञि पूर्वविप्रतिषेधो भवति, न परविप्रतिषेधः। `सामूहिकेषु च तदन्तविधिरस्ति' इति। किमेतस्य ज्ञापने प्रयोजनमित्याह-- `औपगवकम्, कापटवकम्' इति। एतद् वुञ्पूर्वविप्रतिषेधज्ञापनस्य प्रोजनम्। असति ह्येतस्मिञ्ज्ञापने परिविप्रतिषेधेन `अनुदात्तादेरञ्' (4.2.44) इत्यञ् स्यात्। वुञस्तु यत्राद्युदात्तत्वं सोऽवकाशः --- ग्लौचुकायनकमिति। ग्लुचुकायनशब्दो हि `प्राचामवृद्धात् फिन् बहुलम्' (4.1.160) इति फिन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः।। `वानहस्तिकम्,गोथेनुकम्' इति। तदन्तविधिज्ञापनस्य प्रयोजनम्। असत्येतस्मिञ्ज्ञापने `अचित्तहस्तिधेनोष्ठक्' (4.2.47) इति धेनुहस्तिशब्दाभ्यां विधीयमानष्ठक् न तदन्तात् स्यात्।
`{क्षुद्रकमालवात्-- काशिका, पदमञ्जरी च।} क्षुद्रकमालवकात्' इति। गणे `क्षुद्रकमालवात् सेनासंज्ञायाम्' (ग.सू.82) इति पठ्यते, तत्र यद्ययमेको योगः स्यात्, एकेन यत्नेन च ज्ञापनं नियमश्च न लभ्यते। तस्मादत्र योगविभागः कर्त्तव्यः। तत्र क्षुद्रकमालवादित्येको योगः, सेनासंज्ञायामिति द्वितीयः। तत्र पूर्वो योगो ज्ञापनार्थः, उत्तरो नियमार्थः। `पुनरस्यैव' इति। क्षुद्रकमालवादित्यस्यैव योगस्य । `क्षौद्रकमालवी' इति। `टिड्ढाणञ्' (4.1.15) इति ङीप्। `क्षौद्रकमालवकमन्यत्' इति। तदन्तविधिनात्र वुञ् भवति।
`अञ्सिद्धेः' इत्यादि। क्षुद्रकमालशब्दात् `अनुदात्तादेरञ्' (4.2.44) इत्यञ् सिद्धः। तत्कोऽर्थः किं प्रयोजनं तस्य गणपाठेन ?न किञ्चिदित्यर्थः। स्यादेतत्--यो गोत्रलक्षणो वुञ् स्यादेतस्तद्बाधनार्थः पाठः ? इत्याह-- `गोत्राद्‌वुञ् विधीयते' (इति)। न च क्षुद्रकमालवशब्दो गोत्रम्, तत्कुतस्ततो वुञ्प्राप्तिः ? `तदन्तात्' इत्यादि। यद्यपि क्षुद्रकमालवशब्दो गोत्रसमुदायो गोत्रं न भवति, तदवयवस्तु भवति, तेन तदन्तविधिना प्राप्नोत्येव। `न च सर्वतः' इति। न च तदन्तविधिः सर्वत्रैव भवति। परिगणितेष्वेव कार्येषु तदन्तविधिरिष्यते, न चेदं तत्र परिगण्यते, तत्कुतस्तदन्तविधिना वुञ्प्राप्तिः। `ज्ञापकं स्यात्' इत्यादि। इदं हि क्षुद्रकमालवग्रहणं ज्ञापनार्थं भवेत्। एतज्ज्ञापयति-- सामूहिकेषु तदन्तविधिरस्तीति। एवं कृत्वाऽषडपिशलेर्विधिरुपपन्नो भवति। विधीयतेऽनेनेति विधिः, स पुनः `धेनोरनञः' (वा.423) इति, एतद्धि तत्सूत्रम्। अस्यायमर्थः-- धेनुशब्दः समूहेऽर्थे ठकमुत्पादयति, न चेद्धेनुशब्दो नञ उत्तरो भवतीति। नञ्पूर्वपदो न भवतीति यावत्। यदि तत्र सामूहिकेषु तदन्तविधिर्न स्यात् `अनञः' इति वचनं नोपपपद्यते। असति तदन्तविधौ धेनुशब्दादुच्यमानः प्रत्ययः, कः प्रसङ्गो यदधेनुशब्दात् स्यात् ! तदेतदनञिति वचनं परमर्थवद्भवति यदि सामूहिकेषु तदन्तविधिर्भवति, नान्यथा। प्रयोजनान्तरमाह--`सेनायाम्' इत्यादि। सेनासंज्ञायामेव क्षुद्रकमालशब्दादञ् भवतीत्येष नियमो यता स्यादित्येवमर्थस्तस्य गणे पाठ इत्यर्थः। `यथा' इत्यादि। चेति समुच्चये। पूर्वविप्रतिषेधेन वुञाऽञो बाधनं यथा स्यादित्येवमर्थो गणे पाठः।
`{खण्डिका--काशिका} खण्डिक' इति। खण्डिकशब्दो मत्वर्थीयठन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। `वल { संवरणे सञ्चलने च' -- धा.पा.} संवरणे' (धा.पा.491) इत्यस्मात् `उणादयो बहुलम्' (3.3.1) इत्यवन्प्रत्यये डलयोरेकत्वस्मरणाल्लकारस्य डकारादेशे टापि वडवेति भवति। भिक्षुकशब्दोऽपि कुत्सार्थविवक्षायां कन्नन्तत्वात् पूर्वपदाद्युदात्तः। शुकोलूकयोरपि `प्राणिना कुपूर्वाणाम्' (फि.सू.1.30) इति कुपूर्वादिरुदात्त एव। श्वञ्शब्दः `कनिन् युवृषि' (द.उ.6.51) इत्यतः कनिन्ग्रहणेऽनुवर्त्तमाने `श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्तस्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्मन्मातरिश्वन्मघवन्' (द.उ.6.55) इति कनिन्प्रत्ययान्तो निपातितः,तेनसावपि पूर्ववदाद्युदात्तः। युगवरत्राशब्दयोरचितार्थः। संहतविगृहीतार्थं युगवरत्राग्रहणं वर्णयन्त-- यौगम्, वारत्रम्, योगवरत्रमिति।।

46. चरणेभ्यो धर्मवत्। (4.2.46)
`गोतर्चरणाद्‌वुञित्यारभ्य' इति। ननु च तत्र धर्मग्रहमं नास्ति, तत्कथं धर्मवदित्यतिदेशः प्रयुज्यते ? इत्याह-- `तत्रेदम्' इत्यादि। इदमेव धर्मवदिति वचनं लिङ्गभूतं गमयति-- `चरणाद्धर्माम्नाययोः' (वा.476) इत्येतद्वचनं शेषभूतमिति। न हि तेन विनाऽदेश उपपद्यते। `वतिः सादृश्यार्थः' इति। असति हि वतौ यदि चरणग्रहणं धर्मप्रत्ययैरभिसम्बध्यते-- चरणेभ्यो धर्मेऽभ्यो ये प्रत्यया अभिधास्यन्ते ते भवन्ति `तस्य समूह-' (4.2.37) इत्येतस्मिन्नर्थ इति, समूहप्रकृतिर्न विशेषिता स्यात्। एवञ्चेह प्रकृतिमात्राद्धर्मप्रत्ययाः प्रसज्येरन्। अथ प्रकृतिः सम्बध्यते-- धर्मे ये विधास्यन्ते प्रत्ययास्ते भवन्ति। `चरणेभ्यः समूहः' इत्येतस्मिन्नर्थे, एवमपि धर्मप्रत्ययान विशेषिताः स्युः। ततश्चाचरणेभ्योऽपि ये धर्मे विधास्यन्ते प्रत्ययास्तेऽपीह चरणेभ्य आपद्येरन्। अथाप्युभयसन्निधानादुभयं विशेष्यते, तेन वाक्यभेदं कृत्वा प्रत्ययैः प्रकृतिभिः सम्बध्यते-- चरणेभ्यो धर्मेऽथ ये प्रत्यया विधास्यन्ते ते समूहे भवन्ति चरणेभ्य इति ? एवमपि कश्चित् चरणप्रकृतिकः प्रत्ययो यतः कुतश्चिच्चरणात् समूहे स्यात्। `कौपिञ्जलहास्तिपदादण्' (4.3.132) छन्दोगादिभ्योऽपि स्यात्। वतौ तु तस्य सादृश्ये विधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यश्चरणविशेषणेन ये प्रत्ययाः विहिताः , इहापि ताभ्यः प्रकृतिस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टमापद्यते। तस्मात् सर्वसादृश्यपरिग्रहार्थं वत्करणं कर्त्तव्यम्। ` काठकम्, कालापकम्' इति। `गोत्रचरणाद्‌वुञ्' (4.3.126) । `छान्दोग्यम्, औक्थिक्यम्' इति। `छन्दोगोक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः' (4.3.129) इति ञ्यः। `आथर्वणम्' इति। `कौपिञ्जलहास्तिपदादण्' (4.3.132),`आथर्वणिकस्येकलोपश्च' (4.3.133) इत्यण्, इकलोपश्च। एते प्रत्यया यथा चरणेभ्यो धर्मे भवन्ति, तथा समूहेऽपि।।

47. अचित्तहस्तिधेनोष्ठक्। (4.2.47)
`अचित' इति। अर्थप्रधानत्वान्निर्देशस्यार्थस्येदं ग्रहणम्, न स्वरूपस्य, तेनाचित्तवाचिभ्यष्ठग्विज्ञायत इत्याह-- `अचित्तवाचिभ्यः शब्देभ्यः' इति। हस्तिधेनुशब्दयोश्च शब्दप्रधानत्वान्निर्देशस्य स्वरूपग्रहणम्। अत एव `हस्तिधेनुशब्दाभ्याम्' इति।
`{धेनोरनञ इति वक्तव्यम्-- इति वार्तिकपाठः।} अधेनोरिति वक्तव्यम्' इति। धेनुशब्दादनञ्पूर्वाट्ठग् भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- वक्ष्यमाणमिहान्यतरस्यांग्रहणमुभयोरपि योगयोः शेषो विज्ञायते, व्यवस्थिविभाषा च।तेन धेनुशब्दादनञ्पूर्वादेव भवतीति, न ऩञ्पूर्वादिति। `आधेनवम्' इति। `उत्सादिभ्योऽञ्' (4.1.86) । ननु च धेनुशब्दस्तत्र पठ्यते, तत्कथमधेनुशब्दाद्भवतीति ?तत्रापि तदन्तविधेः सम्भवात्। तत् कथं विज्ञायते ? वष्कयास इति वष्कयशब्दस्य समासे प्रतिषेधात्। वष्कयशब्दाद्धि प्रत्ययविधानम्, गोवष्कयशब्दान्न प्राप्नोति,किं समासप्रतिषेधेन ? इतः प्रतिषेधाद्विज्ञायते-- अस्ति तत्र तदन्तविधिरिति।।

48. केशाश्वाभ्यां यञ्छावन्यतरस्याम्। (4.2.48)
केशशब्दादचित्तलक्षमे ठकि प्राप्ते वचनमिदम्। अश्वशब्दादप्यणि सूत्रमिदमारभ्यते। अन्यतरस्यांग्रहमाट्‌ठगणावपि भवतः।।

49. पाशादिभ्यो यः। (4.2.49)
अचित्तलक्षणके कठि प्राप्ते वचनमिदम्।।

50. खलगोरथात्। (4.2.50)
गोशब्दादणि प्राप्ते, खलरथाब्यामचित्तलक्षणे ठकीदं वचनम्। अत्र पाशादिष्वेव खलादीनां पाठः कस्मान्न कृतः ? इत्याह-- `पाशादिष्वपाठ उत्तरार्थः' इति। उत्तरसूत्र इनित्रकट्यचः खलादिभ्य एव यथा स्युः, पाशादिभ्यो मा भूदिति।।

51. इनित्रट्यचश्च। (4.2.51)
`खलादिभ्य इनिर्वक्तव्यः' इति। वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन खलादिभ्य इनिप्रत्ययो भविष्यति। आदिशब्दश्चायं प्रकारे, खलप्रकार इत्यर्थः। किं पुनस्ते खलप्रकाराः ? येब्य इनिर्दृश्यते। यदि तर्हि खलादिभ्य इनिर्भवति, वैषम्याद्यथासंख्यं न प्राप्नोति ? वाक्यभेदाददोः। एकं वाक्यं यथासंख्यं न भवति, इह द्वे वाक्ये इति। इनित्रकट्यचः खलगोरथेभ्यो भवन्तीत्येकं वाक्यम्; चकारश्चानुक्तसमुच्चयार्थः, तः खलादिभ्य इनिर्भवतीति द्वितीयम्। द्वितीये तु वाक्ये खलशब्दस्य तत्र प्रकारोपलक्षणत्वं वेदितव्यम्, न तु प्रकृतित्वम्।।

52. विषयो देशे। (4.2.52)
`योऽसौ विषयो देशश्चेत् स भवति' इति। ननु च यो विषयः स देश एव भवति, किं तद्विशेषणेन देशे ग्रहणेन ? इत्याह-- `विषयशब्दोऽयम्' इत्यादि। `अत्यन्तशीलिते' इति। अत्यन्ताभ्यस्त इत्यर्थः।

53. राजन्यादिभ्यो वुञ्। (4.2.53)
`आकृतिगणश्चायम्' इति। अपरिसमाप्ततां राजन्यादेर्दर्शयति।आदिशब्दश्चायं प्रकारार्थः।।

54. भौरिक्याद्यैषुकार्यादिभ्यो विघल्भक्तलौ। (4.2.54)

55. सोऽस्यादिरितिच्छन्दसः प्रगाथेषु। (4.2.55)
`छन्दसः' इति। न स्वरूपग्रहणम्, नापि मन्त्रब्राह्मणयोः । कस्य तर्हि ? अक्षराणामियत्तावचनश्छन्दशब्दोऽस्ति, यस्य जगत्यादयो विशेषाः, तस्येदं ग्रहणम्। तस्यैव हि प्रगाथ इत्यादौ सम्बन्धः, नेतरस्य। तेन पङ्क्त्यादिभ्यः प्रत्ययो भवतीत्युक्तं भवति।
`{प्रगथनेन--काशिका} प्रग्रन्थेन' इति। उच्चारणविशेषणेन प्रग्रन्थात् प्रकर्षाद्गायनर्थाद्वेति। एतेन यन्निमित्तकः प्रगाथशब्दस्तां क्रियां दर्शयति। प्रगाथशब्दोऽयं यदा `अकर्त्तरि च कारके संज्ञायाम्' (3.3.19) इति कर्मणि घञन्तो व्युत्पाद्यते-- प्रग्रवयतेऽसौ प्रगाथ इति, पृषोदरादिपाठाद्ग्रन्थे रेफानुनासिकयोर्लोपश्च , तदा प्रग्रन्थनक्रियानिमित्तको भवति। यदा तु `कै गै शब्दे' (धा.पा.916,917) इत्यस्मात् `उणादयो बहुलम्' (3.3.1) इति प्रगाथस्थन्प्रत्ययान्तो व्युत्पाद्यते, तदा गायनक्रियानिमित्तो भवति।
`नुपंसके' इत्यादि। नपुंसकलिङ्गे स्वार्थ एव च्छन्दसः प्रत्ययस्योपसंख्यानम्। तत्रेदं व्याख्यानम्-- इति करणो विवक्षार्थः। तेन यत्र प्रत्ययान्ताच्छिष्टानां विवक्षा भवति तत्र प्रत्ययेन भवितव्यम्। नपुंसकलिङ्गे स्वार्थेऽपि च सा भवति, अतस्तत्रापि प्रत्ययो भवति। अवश्यं चैतदेव विज्ञेयम्। यो हि मन्यते-- `सर्वातिप्रसङ्गनिवृत्तिरितिकरणेन क्रियते' इति, तस्यासावनर्थक एव स्यात्; सर्वातिप्रसङ्गानानुपाधिभिर्निरस्तत्वात्।।

56. सङ्ग्रामे प्रयोजनयोद्धृभ्यः। (4.2.56)
अत्र `संग्रामे' इति प्रत्ययार्थ इति, सप्तम्यन्तत्वात्। `प्रयोजनयोद्धृभ्यः' इति पञ्चम्यन्तत्वात् प्रकृतिनिर्देशः, ततश्च `समर्थानां प्रथमाद्वा' (4.1.82) इत्येतद्विरुध्यते; प्रथमस्य प्रत्ययार्थत्वेन द्वितीयस्य प्रकृतित्वेनोपादीयमानत्वादित्यस्य चोद्यस्य निरासायाह-- `सोऽस्येति समर्थविभक्तिः प्रत्ययार्थश्चानुवर्त्तते' इति। एतेनैतद्दर्शयति-- `प्रयोजनयोद्धृभ्यः' इत्येतदेवमर्थं यस्मात् पूर्वसूत्रादेव स इति प्रथमं तदिहानुवर्त्तते, तद्वशेषणं तु प्रयोजनयोद्धृभ्य इति। प्रत्ययाथोऽप्यस्येति पूर्वसूत्रादनुवर्त्तते, तद्विशेषणं संग्रामः, तत्रो नास्ति विरोधः; पूर्वसूत्रे यत् प्रथमानिर्दिष्टं तत एव प्रत्ययविधानादिति।।

57. तदस्यां प्रहरणमिति क्रीडायां णः। (4.2.57)

58. घञः सास्यां क्रियेति ञः। (4.2.58)
`क्रियेति प्रकृतिविशेषणम्' इति। यत्र तद्घञन्तं क्रियावाचि चेद्भवतीति। तेन भावे यो घञ् तदन्तात् प्रत्ययो भवतीत्युक्तं भवति। ननु च भावे यो घञ् तेनैव तदन्तं क्रियावाचि ? यस्माद्धात्वर्थस्य सिद्धता नाम यो धर्मस्तत्र घञादिभिर्भवितव्यमित्युक्तं प्राक्, धर्मधर्मिणोर्भेदस्याविवितत्वात् क्रियाधर्मोऽपि क्रियाशब्दनोक्त इत्यदोषः। `इतिकरणो विवक्षार्थः'इति। ननु च पर्वसूत्रादेवेतिकरणोऽनुवरितिष्यते,तत्किं पुनरिह तस्योपादानम् ? इतिकरणस्येह प्रकरणेऽनधिकारतां दर्शयितुं पुनरुपादानम्। तेन `तद्धीते तद्वेद' (4.2.59) इत्यत्रास्येतिकरणस्याननुवृत्तौ विवक्षानियमाभावादध्येतृवेदितृमात्रे प्रत्ययः सिद्धो भवतीत्येके। वैचित्र्यार्थमितिकरणोपादानमित्यपरे। `श्यैनम्पाता' इति। `शल हुल पत्लृ गतौ' (धा.पा.843, 844,845) भावे घञ्, श्येनस्य पात इति षष्ठीसमासः। ञे विहिते `श्येनतिलस्य पाते ञे' (6.3.71) इत मुम्।
`प्राकारः' इति। करोतेः प्रपूर्वात् `अकर्त्तरि च कारके संज्ञायाम्' (3.3.19) इति कर्मणि घञ्। `उपसर्गस्य घञ्यमनुष्ये बहुलम्' (6.3.122) इति प्रशब्दस्य दीर्घः। भवतीदं घञन्तम्; न तु क्रियावाचि; प्राकारस् द्रव्यत्वात्।
`अथ'इत्यादि चोद्यम्। `क्रीडायामित्यनेन तत्सम्बद्धम्' इत्यादि परिहारः। स्यादेतत्,अनुवर्त्ततां क्रीडा, तस्याञ्चेदं प्रत्यविधानमिष्यत इत्यत आह-- `सामान्येन च' इत्यादि।।


59. तदधीते तद्वेद। (4.2.59)
`वैयाकरणः' इति। `नन य्वाभ्याम्' (7.3.3) इत्यादिना वृद्धिप्रतिषेधः,ऐजागमश्च।
`द्विस्तद्दग्रहणम्' इत्यादि। यदि `तदधीते वेद' इत्येवोच्येत प्रत्ययार्थद्वस्य द्वितीयासमर्थे समुच्चयो विज्ञायते, ततश्च यस्त्वधीते वेत्ति च तत्रैव स्यात्; यस्त्वधीते केवलं न वेत्ति, वेत्ति वा केवलं नाधीते तत्र न स्यात्। द्विस्तद्‌ग्रहणे तु वाक्यभेदादधीयाने विदुषि च प्रत्येकं प्रत्ययः सिध्यति। तदर्थं द्विस्तद्‌ग्रहणम्। नैतद्‌द्विस्तद्‌ग्रहणस्य प्रयोजनम्, यथैव हि `ते न दीव्यति खनति जयति जितम्' (4.4.2) इत्यत्र सकृत् समर्थविभक्त्युपादानेऽपि प्रत्ययार्थचतुष्टयेन तृतीयासमर्थेन समुच्चयो न विज्ञायते,तथेहापि न विज्ञास्यते। तेन यथा दीव्यतिप्रभृतिषु प्रत्ययो भवति, तथेहापि प्रत्येकमधीयाने विदुषि च भविष्यतीति ? न ब्रूमः-- इहैव द्विस्तद्‌ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति। `कुतस्तर्हि ? `क्रतूक्थादिसूत्रान्ताट्ठक्' (4.2.60), `वसन्तादिभ्यष्ठक्' (4.2.63) इत्यत्र च। किं कारणं तत्र न स्यात् ? क्रतुशब्दः कर्मनामधेयः,वसन्तादयोऽप्यृतुवचनाः, तेषामध्ययनं नोपपद्यते। तत्सहचरिते ग्रन्थे स्यात्, स च तत्र गोण इति न गृह्यते। मुख्य एवार्थे वेदने सम्भवतीति तेभ्यो विदुष्येण प्रत्ययः स्यात्, नाध्येतरि। पुनर्द्विस्तद्ग्रहणाद्गौणस्यापि ग्रहणं भवतीति प्रत्येकमध्येतृविदुषोरत्र ठक्प्रत्ययो भवति।।

60. क्रतूक्थादिसूत्रान्ताट्ठक्। 94.2.60)
क्रतुशब्दः कर्मनामधेयः, तस्याध्यनवेदने द्वे न सम्भवत इति साहचर्यात् तदर्थो ग्रन्थो गृह्यते, न तु क्रतुनामा क्रतुरस्तीति तद्विशेषा येऽग्निष्टोमादयस्तद्रथो ग्रन्थो गृह्यते, तत्र चाह-- `क्रतुविशेषवाचिभ्यः' इति। अग्निष्टोममधीत इत्यग्निष्टोमेन सहचरितं तदर्थग्रन्थमधीत इत्यर्थः।
`सूत्रान्तादकल्पादेरिष्यते' इति। किमिष्यत एव ? ततो न तत् शस्यते, लभ्यते च । कुतः ? वेत्यनुवृत्तेर्व्यवस्थितविभाषाविज्ञानात्। `किं तर्हि ? सामलक्षण औक्थिक्ये वर्त्तमाने' इति। उक्थसंज्ञकानां साम्नलक्षणं व्याख्याग्रन्थ औक्थिक्यः, `{छन्दोगौक्थिक्य' इतिमु.पाठः ।} छन्दोगौक्थिकय' (4.3.129) इत्यादिना ञ्यः। तत्रौक्थिक्ये सामलक्षणेग्रन्थे वर्त्तमान उक्थशब्दः प्रत्ययमुत्पादयति। कुत एतत् ? गौणेन सह क्रतुशब्देन निर्देशात्। औक्थिक्ये उक्थशब्दस्य वृत्तिस्तादर्थ्याद्भवति। भवति च तादर्थ्यात् ताच्छब्द्यम्, यथा-- प्रदीपार्था मल्लिका प्रदीप इति। औक्थिक्यं योऽधीते कथं तत्र भवितव्यम् ? इत्यत आङ-- `औक्थिक्यशब्दाच्च' इति। तत्रैव कारणमाह-- `अनभिधानात्' इति।
`विद्यालक्षणकल्पसूत्रान्तात्' (ग.सू.84), इत्यस्यातिप्रसक्तस्यापवादमाह-- `विद्या च'इत्यादि। विद्याशब्दोऽनङ्गक्षत्रधर्मसंसर्गत्रिपूर्व एव प्रत्ययमुत्पादयति, नाङ्गादिपूर्व इत्यर्थः। `त्रैविद्यः' इति। त्र्यवयवा विद्या, शाकपार्थिवादित्वादुत्तरपदलोपी समासः। त्रिविद्यामधीते त्रैविद्यः।
यावक्रीतमाख्यानधीते `यावक्रीतिकः'। प्रियङ्गुमधीते `प्रैयङ्गविकः'। वासवदत्तामाख्ययिकामधीते `वासवदत्तिकः'। सुमनोत्तरामधीते `सौमनोत्तरिकः।
`सर्वसादेर्द्विगोश्च लः' इति। सर्वादेः सादेर्द्विगोरुत्पन्नस्य ठको लोपो भवतीत्यर्थः। ननु च `द्विगोर्लुगनपत्ये' (4.1.88) इत्येवं सिद्धः ? सत्यमेतत्; इह तु कैश्चित् `विद्यालक्षणकल्पसूत्रान्तात्' (ग.सू.84) इत्यादिना प्रतिपदं प्रत्ययो विधीयते। तद् द्वेष्यमपि जायेत। प्रतिपदविधानान्न लुक्, ततो लुग्वचनम्।
`अनुसूर्लक्ष्यलक्षणे च' इति। अनुसूशब्दः प्रत्ययमुत्पादयति। लक्ष्यलक्षणे च शब्दरूपे प्रत्ययमुत्पादयतः। `आनुसुकः' इति। `इसुसुक्तान्तात् कः' (7.3.51) इति कः, `केऽणः' (7.4.13) इति ह्रस्वः।
`इकन बहुलं पदोत्तरपदात्' इति। पदशब्द उत्तरपदं यस्य स तथोक्तः।
`शतषष्टेः षिकन् पथः'इति। शतषष्टिशब्दाभ्यामुत्तरस्मात् पथः षिकन् प्रत्ययो भवति। षकारो ङीषर्थः, नकारः स्वरार्थः। एतत्सर्वमुक्थादिषु पाठादेव सिद्धम्। यदपीह किञ्चिन्न पठ्यते, तदपि च बहुलग्रहणेन संगृहीतम्। उक्थादिष्वपि षिकन् बहुलं पदोत्तरपदाच्चेति पठ्यते।।

61. क्रमादिभ्यो वुन्। (4.2.61)

62. अनुग्राह्मणादिनिः। (4.2.62)
`ब्राह्मणसदृसोऽयं ग्रन्थोऽनुब्राह्मणम्' इति। यथार्थऽव्ययीभावं दर्शयति। ननु योऽनुब्राह्मणमधीते तस्यानुब्राह्मणमस्तीति तत्र मत्वर्थीयेनैवेनिना सिद्धम्, तत् किमर्थमिदम् ? अण्बाधनार्थम्। यदीदं नोच्येत `तदधीते तद्वेद' (4.2.59) इत्यण् प्रसज्येत।।

63. वसन्तादिभ्यष्टक्। (4.2.63)
`{वसन्तसहचरितोऽयं ग्र्नथो वसन्तः-काशिका} वसन्तसहचरितो ग्रन्थो वसन्तः'इति। यो वसन्ते पठ्यते, नियोगेन यत्र च वसन्तो वर्ण्यते स वसन्त सहचरितो भवति। `वर्षाशरदम्' इति। वर्षाश्च शरच्च वर्षाशरदम्। `द्वन्द्वाच्चुदषहान्तात् समाहारे' (5.4.106) इति टच्। समासान्तेन निर्देशः।।

64. प्रोक्ताल्लुक्। (4.2.64)
युक्तो निर्देशो यदि प्रोक्तनामा ग्रन्थो व्याकरणादिर्भवति, न चासावस्ति; अन्यार्थेन ततः परः सम्भवतीत्येतं दोषमाकर्त्तुमाह-- `प्रोक्तसहचरितः' इत्यादि। साहचर्यात् सोऽयमित्यभेदोपचारेण प्रोक्तार्थे यो वहितः प्रत्ययः स प्रोक्तशब्देनोक्त इति दर्शयति। `पाणिनीयः' इति। `वृद्धाच्छः' (4.2.114) तदन्तात् `तदधीते तद्वेद' (4.2.59) इत्यण्। तस्य लुक् `पाणिनीयः'। आपिशलिना प्रोक्तमित्यण्, तस्य लुक्--- `आपिशलः' । कः पुनरत्र विशेषोऽर्थो लुकि सति, यावता तदेव रूपम् ? इत्याह-- `स्त्रियाम्' इत्यादि। असति लुकि `टिड्ढाणञ्' (4.1.15) इति ङीप् स्यात्, सोऽणः स्वरेणान्तोदात्तः। लुकि हि सति टाब्भवति, स्वरेण तु मध्योदात्तः। आपिशलिशब्दाल्लुकि सति स्वरे नास्ति विशेषः। सत्यपि हि लुक्यन्तोदात्तत्वेन भवितव्यम्। स्त्रियान्तु पूर्वोक्तो विशेषो वर्त्तते--- न हि लुकि सति ङीब्भवति; सत्यप्यणि तत्रैव `अनुपसर्जनात्' (4.1.14) इत्यधिकारात् प्रतिषेधात्, प्रोक्तार्थविहितस्य चाण इहोपसर्जनत्वात्।।

65. सूत्राच्च कोपधात्। (4.2.65)
कोपधादिति वचनात् स्वरूपग्रहणं न भवतीत्यतः सूत्रवाचिनो ग्रहणं विज्ञायत इत्याह-- `सूत्रवाचिनः प्रतिपादिकात्' इति। `अष्टकम्' इति। अष्टावध्यायाः परिमाणमस्य। `तदस्य परिमाणम्' (5.1.57) इत्यनुवर्त्तमाने `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (5.1.58) इति च `सख्याया अतिशदन्तायाः कन्' (5.1.22) इति कन्।
`संख्याप्रकृतेरिति वक्तव्यम्' इति। संख्या प्कृतिर्यस्य प्रत्ययस्य स संख्याप्रकृतिः। तदन्तात् कोपधादुत्पन्नस्य लुब्भवतीत्येतदर्थरूपं वक्तव्यम्, व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्-- वेति वर्त्तते, सा च व्यवस्थितविभाषा, तेन संख्याप्रकृतेरेव भविष्यति, नान्यस्मादिति।
`{चातुष्टयः-- काशिका, चतुष्टयः-पदमञ्जरी।}चातुष्टयम्' इति। चत्वारोऽवयवा अस्येति `संख्याया अवयवे तयप्' (5.2.42), `ह्रस्वात् तादौ तद्धिते' (8.3.99) इति मूर्धन्यः, षत्वं भवति। एतत् संख्याप्रकृतिप्रत्ययान्तम्, न तु कोपधम्, किं तर्हि ? योपधम्।।

66. छन्दोब्राह्मणानि च तद्विषयाणि। (4.2.66)
`प्रोक्तग्रहणमनुवर्त्तते' इति। तच्चेहार्थात् प्रथमान्तं विज्ञायते छन्दोब्राह्मणानीत्यस्य समानाधिकरणार्थम्, अत आह-- छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानीति भवन्ति' (इति)। स्वरूपग्रहणमिह न भवति। तथा हि -- प्रोक्तग्रहणमिहानुवर्त्तते, न च च्छन्दोब्राह्मणशब्दौ प्रोक्तप्रत्ययान्तौ। तस्माच्छन्दोब्राह्मणवाचिनो ये शब्दाः प्रोक्तप्रत्ययान्तास्ते गृह्यन्ते। किमर्थं पुनरिदमुच्यते ? इह प्रोक्तप्रत्ययान्तस्य बहुप्रकारता लभ्यते। तथा हि क्वचित् तदन्तस्य स्वातन्त्र्यमुपलभ्यते, यता-- पाणिनिना प्रोक्तं पाणिनीयं शास्त्रम्। प्रोक्तार्थ एव वृत्तिः स्वातन्त्र्यम्। पाणिनीय शब्दस्य चात्र प्रोक्तार्थ एव वृत्तिः। क्वचिदुपाध्यन्तयोगः, यथा--- पाणिनीयं महत् भवत्सु विहितमिति। क्वचिद्वाक्यम्-- पाणिनीयमधीत इति। क्वचिद्‌वृत्तिः। पाणिनीय इति। तदिह छन्दोब्राह्मणानामध्येतृवेदितृविषया वृत्तिर्यथा स्यात्। प्रकारान्तरं मा भूदित्येवमर्थमिदमुच्यते। `अध्येतृवेदितृ' इति। अध्येतृवेदितृप्रत्ययो विषयेषामिति बहुव्रीहिः। `{अनन्यभावो--काशिका, पदमञ्जरी च} अन्यत्रभावो विषयार्थः' इति। यथा मत्स्यानां जलं विषय इत्यत्रानन्यत्रभावे विषयशब्दो वर्त्तते, तथेहापि। एतेन यद्यपि ग्रामसमुदायादिष्वर्थेषु विषयशब्दस्य वृत्तिः, तथापीहानन्यत्रभावे वर्त्तमानः संगृह्यत इति दर्शयति। `तेन'इत्यादिना अनन्यत्रभाववृत्तिशब्दस्य फलं दर्शयति। एवं ह्यत्रन्यत्राभावो भवति यदि स्वातन्त्र्यादि न भवति। उपाध्यन्तरयोगो महत्त्वादिना विशेषेण सम्बद्धः कठ इति। `कठेन प्रोक्तम्' इति। `कलापिश्वैशभ्यायनान्तवासिभ्यश्च' (4.3.104) इति णिनिः, तस्य `कठचरकाल्लुक्' (4.3.107), ततः कठेन प्रोक्तमधीते तद्वेदेति (4.2.59) पुनरण्, तस्यापि `प्रोक्ताल्लुक्' (4.2.64) इति लुक्। `मौदाः, पैप्पलादाः' इति। `कलापिवैशम्पायनान्तेवासिभ्यश्च' (4.3.104) इति णिनिः-मोदेन प्रोक्तमिति, `कलापिनोऽण्' (4.3.108) इत्यण्, तदन्तात् `तदधीते तद्वेद' (4.2.59) इत्यण्, तस्य `प्रोक्ताल्लुक्' (4.2.64) इति लुक्। `आचार्भिनः' इति। ऋचाभेन प्रोक्तमिति `कलापिवैशम्यायनान्तेवासिभ्यश्च' (4.3.104) इति णिनिः, तदन्तात् `तदधीते तद्वेद' (4.2.59) इत्यण्। `वाजसनेयिनः' इति। वाजसनेयेन प्रोक्तमिति। `शौनकादिभ्यश्छन्दसि' (4.3.106) इति णिनिः, तदन्तात् `तदधीते तद्वेद' (4.2.59) इत्यण्, तस्य लुक्। `ताण्डिनः' इति। ताण्ड्यशब्दाद्‌गर्गादि (4.1.105) यञन्तात् प्रोक्तार्थे `पुराणप्रोक्तेषु ब्राह्मणकल्पेषु' (4.3.105) इति णिनिः, `आपत्यस्य च तद्धितेऽनाति' (6.4.151) इतियलोपः। ततः `तदधीते तद्वेद' (4.2.59) इत्यण्, तस्य लुक्। `भाल्लविनः' इति। भाल्लविशब्दादिढन्तात् प्रोक्तार्थे पूर्ववण्णिनिः,तदन्तात् तद्वेद (4.2.59) इत्यण्, तस्य लुक्। शाट्यायनिनः' इति। शाट्यशब्दाद्‌गर्गादि (4.1.105) यञन्तात् `यञिञोश्च' (4.1.101) इति फक्,ततः प्रोक्तार्थे पूर्ववण्णिनिः, तदन्तात् `तदधीते तद्वेद' (4.2.59) इत्यण्, तस्य लुक्। `ऐतरेयिणः' इति।ऐतरेयशब्दाच्लुभ्रादिढगन्तात् (4.1.123) पूर्ववण्णिनिः, ततः `तदधीते' (4.2.59) इत्यण्, तस्यु लुक्।
`ब्राह्मणविशेषप्रतिपत्त्यर्थम्' इति। ब्राह्मणविशेषः पुराणप्रोक्तत्वम्। तस्य प्रतीतिः = प्रतिपत्तिर्यथा स्यादित्येवमर्थं ब्राह्मणग्रहणम्। `याज्ञवल्क्यानि' इति। याज्ञवल्क्यशब्दाद्गर्गादि (4.1.105) यञन्तात् प्रोक्तार्थे `कण्वादिभ्यो गोत्रे' (4.2.111) इत्यण्। `सौलभनि' इति सुलभेन प्रोक्तानीति। पूर्ववत् `कलापिनोऽण्' (4.3.108) इत्यण्। अत्र स्वातन्त्र्यं भवति। न हीह पुराणप्रोक्तत्वमस्ति; इदानीन्तेन प्रोक्तत्वात्। `काश्यपिनऋः, कौशिकिनः'इति। कश्यपेन प्रोक्तः कल्पः, कौशिकेन प्रोक्कत इति। ` काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' (4.3.103), तदन्तात् `तदधीते' (4.2.59) इत्यण्, तस्य लुक्। `पारशरिणः, शैलालिनः' इति। पाराशर्येण प्रोक्तं सूत्रम्, शिलालिना प्रोक्तं सूत्रम्-- `पारशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः' (4.2.59) इत्यण्, तस्य लुक्। `कर्मन्दिनः, कृशाश्विनः' इति। कर्मन्देन प्रोक्तं सूत्रम्, कृशाश्वेन प्रोक्तं सूत्रमिति `कर्मन्दकृशाश्वादिनिः' (4.3.111) तदन्तात् `तदधीते तद्वेद' (4.2.59) इत्यण्, तस्य लुक्।
`पैङ्गी कल्पः'इति। पिङ्गेन प्रोक्तः कल्पः-- `पुराणप्रोक्त' (4.3.105) इत्यादिना णिनिः। तत्र स्वातन्त्र्यमेव भवति, न च तद्विषयता।।

67. तदस्मिन्नस्तीति देशे तन्नाम्नि। (4.3.67)
`प्रत्ययान्तनामा' इति। यदि तर्हि तन्नाम्नि देशे प्रत्ययः, इतिकरणोऽनर्थकः, तन्नामग्रहणादेवातिप्रसङ्गनिवृत्तिः ? नैतदस्ति; द्विविधं हि नाम-- सङ्केतितम्, अनुवृत्तञ्च। सङ्केतितं यदद्यापि व्यवहारपदवीं नानुपतति, तत्रानुवृत्तं यन्नाम तत्रायं योगः। अनुवृत्तञ्च व्यावहारिकम्, तत्प्रतिपत्त्यर्थमितिकरणः क्रियते, ग्रामादिविशेषपरिग्रहार्थश्च। यद्येवम्, इतिकरण एव क्रियताम्, किं तन्नाम्नीत्यनेन ? एतदपि न कर्त्तव्यम्; नामधेयता विरोधिनोऽपि बलीयसोऽपि प्रत्ययान् बाधित्वम्। कथम् ? नाप्राप्ते मतुप्ययं योग आरभ्यमाणे मतुपमवादत्वाद्बाधते। तदपवादैस्त्विनिठनादिभिः सह सम्प्रधारणायामपवादविप्रतिषेधादिनिठनादय एव स्युः। नामग्रहणे तु सति बलीयोभिरपि सम्प्रधारणायाः सम्प्रत्ययो भवति-- यो नामधेयतां गमयति स चातुर्थिक एवेति। अतः स एव भवति।।

68. तेन निर्वृतत्तम्। (4.2.68)
`चतुर्ष्वपि' इति। अनन्तरातीतेऽस्मिन् वक्ष्यमाणयोश्च योगयोः। `कर्त्तरि च'इति। लक्ष्यानुरोधेन क्वचिद्धेतौ क्वचित् कर्त्तरि च-- सहस्रेणेति हेतौ,कुशाम्बेनेति कर्त्तरि। यदा हेतौ तदा वृत्तेरकर्मकत्वान्निर्वृत्त इति कर्त्तरि निष्ठा, यदा कर्त्तरि तदाऽन्तर्भावितव्यमर्थत्वाता कर्मणि। अकर्मका अप्यन्तर्भावितण्यर्थाः सकर्मका भवन्ति।।

69. तस्य निवासः। (4.2.69)

70. अदूरभवश्च। (4.2.70)

71.ओरञ्। (4.2.71)
`यथायथम्' इति। यथास्वम्। तत्र प्रथमे प्रथमासमर्थविभक्तियुक्तात्। द्वितीये तृतीयासमर्थविभक्तियुक्तात्। तृतीयचतुर्थयोः षष्ठीसमर्थविभक्तियुक्तात्। `नद्यास्तु परत्वान्मतुबेव भवति' इति। नद्यां मतुप्' (4.2.85) इत्यनेन।।

72. मतोश्च बह्वजङ्गात्। (4.2.72)
`मालवतम्' इति। यदि बह्वजिति, न भवत्येव दोषः।।

73. बह्वचः कूपेषु। (4.2.73)

74.उदक् च विपाशः। (4.2.74)

75. सङ्कलादिभ्यश्च। (4.2.75)

76. स्त्रीषु सौवीरसाल्वप्राक्षु। (4.2.76)

77. सुवास्त्वादिभ्योऽण्। (4.2.77)
`उवर्मान्तलक्षणस्य' इत्यादि। य उवर्णान्तास्तेभ्यः `ओरञ्' (4.2.71) इति प्राप्तस्याञोऽपवादः। शेषेभ्यश्च `बह्वचः कूपेषु' (4.2.73) इत्यादिना प्राप्तस्य कूपलक्षण्स्य। अथाण्ग्रहणं किमर्थम्, सुबास्त्वादिभ्यो यताविहितमेवोच्येत। पुनर्वचनं यो विहितो न च प्राप्नोति तदर्तं विज्ञायते। अणेव च विहितो न प्राप्नोति; अपवादेन बाधित्वा ।अथ स भविष्यीत्यत आह-- `अण्ग्रहणम्' इत्यादि। असति ह्यण्ग्रहणे `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' (व्या.प.10) इति नदीमतुपा सह सम्प्रसारणायां परत्वान्नदीपमतुप् स्यात्। अणो ग्रहणादणेव भवति। तस्मान्मतुपो बाधनार्थण्ग्रहणम्।।

78. रोणी। (4.2.78)
`कोऽयं निर्देशः'इति। कुत्सितोऽयं निर्देश इत्यर्थः। कुत्सितं तु लक्षणातिक्रान्तत्वात्। तदेव लक्षणातिक्रान्तत्वं दर्शयितुमाह `यावता'इत्यादि। सर्वावस्था च केवलस्य तदन्तस्य च प्रतिपत्तिः प्रकृतत्वेन यथा स्यादित्येवमर्थमुच्यते। यदि `रोण्याः' इत्यादिनिर्देशः क्रियेत तदा `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न' (व्या.प.89) इति केवलादेव स्यात, न तदन्तात्। रोणीति शास्त्रानपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिहोच्यते, तदस्याः परिभाषाया अनपेक्षणादिह तदन्तापि प्रत्ययः सिद्धो भवति. ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, न चेदं प्रातिपदिकम्; स्त्रीप्रत्ययान्तत्वात्। अथ मतम्-- `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति' (व्या.प.29) इति प्रातिपदिकस्य तदन्तविधेः प्रतिषिध्यमानः स्त्रीप्रत्ययान्तस्यापि प्रतिषिध्यत इति,एतच्च यत्र हि प्रातिपदिकस्य स्वरूपग्रहणं तद्विषया परिभाषेति प्राग् ज्ञापितमेतत् ? एवं तर्हि तस्य ज्ञापनस्य प्रायिकत्वं दर्शयति। तेन क्वचिदस्वरूपग्रहणेऽप्येषा परिभाषा प्रवर्त्तते। तेन कुमारीमाचष्टे कुमारयतीत्यत्र `जातिष्ठवत् प्रातिपदिकस्य' (वा.813) इतीष्ठवद्भावः सिद्धो भवति।।

79. कोपधाच्च। (4.2.79)

80. वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः। (4.2.80)
`औत्सिर्गिकोऽपि तत्रेष्यते' इति। यद्येवम्, तस्य श्रवणं प्राप्नोतीत्यत आह-- `तस्य च' इत्यादि। `तथा चोक्तम्' इत्यादि। तदेव द्रढयति-- औत्सर्गिक इत्येव। शिरीषाणामदूरभवो शिरीषाः, तस्य वनं शिरीषवनमिति भाष्यकारवचनाल्लभ्यते। विशेषविहितानांहि लुपा न भवितव्यम्। अत औत्सर्गिकस्य लुब्भवतीति विज्ञायते।।

81. जनपदे लुप्। (4.2.81)

82. वरणादिभ्यश्च। (4.2.82)

83. शर्कराया वा। (4.2.83)
`पाठसामर्थ्यात्'इत्यादि। यदि नित्यो लुप् स्यात्, गणयोरस्य पाठोऽनर्थकः स्यात्। तस्मात् पाठसमार्थ्यादेव पक्षे श्रवणं भविष्यतीत्यत आह। `एवं तर्हि' इत्यादिना वाग्हणस्य ज्ञापकं दर्शयति। `शर्करा' इति। औत्सर्गिकस्य लुप्। `शार्करम्' इति। त्स्यैव पक्षे श्रवणम्। `शर्करकम्' इति। कुमुदादित्वाट्ठच्। `शार्करकम्' इति। वराहादित्वात् कक्। शार्करिकम्, शर्करीयम्' इति। उत्तरसूत्रेण ठक्छौ।।
  
84. ठक्छौ च। (4.2.84)

85. नद्यां मतुप्। (4.2.85)
`उदुम्बरावती'इति। `मतौ बह्वजोऽनजिरादीनाम्' (6.3.119) इति दीर्घः।।

86. मध्वादिभ्यश्च। (4.2.86)

87. कुमुदनडवेतसेभ्यो ड्मतुप्। (4.2.87)
कुमुदशब्दाट्ठच्ठकोः प्राप्तयोः। नडशब्दादपि `ऩडशादाड्डवलच्' (4.2.88) इति `नडादीनां कुक्च' 4.2.91) इति। अस्मिंश्च विधौ प्राप्ते वेतसशब्दादपि मतुब् विधीयते। `महिषाच्च' इत्यादि। `महिषशब्दान्मतुब् विधीयते' इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- पूर्वसूत्राच्चकारोऽनुवर्त्तते, स चानुक्तसमच्चयार्थः। तेन महिषशब्दादपि भविष्यतीति।।

88. नडशादाड्ड्वलच्। (4.2.88)

89. शिखाया वलच्। (4.2.89)

90. उत्करादिभ्यश्छः। (4.2.90)

91. नडादीनां कुक् च। (4.2.91)
`क्रुञ्चाया ह्रस्वत्वञ्च' इति। क्रुञ्चाशब्दस्य कुग्भवति ह्रस्वत्वञ्च-- `क्रौञ्चकीयम्' इति। `तिक्षन्नलोपश्च' इति। तक्षन्नित्यस्य कुगागमो भवति, नलोपश्च-- `तक्षकीयम्' इति।

92. शेषे। (4.2.92)
`उपयुक्तादन्यः शेषः' इत्येतद्ग्रहणकवाक्यम्। तदेव `अपत्यादिभ्यः'इत्यादिना विवृणोति।अपत्यादयो हि चातुरर्थ्यपर्यन्ताः प्रत्ययविधौ विनियुक्ताः, तस्मात् तेभ्यो योऽन्यो जातादिरर्थः,स शेषः। ननु च निवृत्ता अपत्यादयः, तेभ्यश्चान्तरेषु जातादिषि येषु घादयस्ततोऽपत्यादिषु नैव ते प्राप्नुवन्तीति तत्किं तन्निवृत्त्यर्थेन शेषाधिकारेण ? इत्य आह-- `तस्येदम्' इत्यादि। जातादिष्वर्थेषु तस्येदमित्येषोऽर्थः पठ्यते। तच्चापत्यादीनां सामान्यम्। सामान्ये च विधीयमानस्तद्विशेषेऽपि विधीयते। तदुपलक्षणत्वात् सामान्यस्य। अतस्तस्येदं विशेषत्वाज्जाताद्यन्तःपातिष्वपत्यादिषु घादयः प्राप्नुवन्ति। तस्मात् तेषु मा भूवन्निति शेषाधिकारः क्रियते।
`किञ्च' इत्यादिना प्रयोजनान्तरं दर्शयति। असति हि शेषाधिकारे घादीनां प्रथमार्थेनैव सम्बन्धमनुभवतां तत्रैव कृतार्थता विज्ञायेत। तत्र द्वितीयादिष्वर्थेषु प्राग्दीव्यतीया एवाणादयः स्युः, न तु घादयः। शेषशब्दस्तूपयुक्तादन्यतया जातादीनर्थानेकीकृत्य शक्नोत्यभिधातुम्-- `सर्वत्र घादयः सिध्यन्तीति। अतः साकल्यार्थं वा शेषवचनम्। `लक्षमं चाधिकारश्च, इति। इह लक्षणस्य विधायकत्वाल्लक्ष्यतेऽनेनेति लक्षणमिति कृत्वा; उत्तरत्राधिकारः स्वरितत्वात्। तत्र यदाऽस्य लक्षणम्,चाक्षुषादयः सिध्यन्ति। यदा स्वधिकारता, तदा सर्वेषु जातादिष्वर्थेषु घादयो भवन्ति। यदि तर्हि शेष इतिलक्षणमपीदमनेनैव यथा ग्रहणादिष्वर्थेषु प्रत्ययो भवति, तथा जातादिष्वपि भविष्यतीति जाताद्यनुक्रमणमनर्थकम् ? न; अपवादविधानार्थत्वात्। यानि त्वनपवादार्थानि जातनिवृत्तलब्धक्रीतकुशलाः--इत्येवमादीनि तानि शेषग्रहणस्यैव प्रपञ्चो वेदितव्यः।।

93. राष्ट्रावारपाराद्घखौ। (4.2.93)
राष्ट्रशब्दात् `वृद्धाच्छः'(4.2.114) इति च्छे प्राप्ते।अवारपारशब्दादणि घखौ विधीयेते। अवारस्य पारमवारपारमिति षष्ठीसमासः। राजदन्तादिषु दर्शनात् पारावारमित्यपि पक्षे भवति। विगृहीताद्विपरीताच्च लभ्यते। वक्तव्यमेवैतत्। अथ वा-- एकशेषो विज्ञास्यते, तत्रैकः समुदायार्एथः, अपरोऽवयवार्थो भविष्यति। विपरीतस्यापि `एकार्थानां विरूपाणाम्' (1.2.64.वा.23) इत्येकशेषो न विरुध्यते, था-- वक्रदण्डश्च कुटिलदण्डश्च कुटिलदण्डाविति, यथा च यङ्लुकाविति । ननु च तस्यैवं प्रकृतयो भवन्ति, पञ्च राष्ट्रादिशब्दाः,प्रत्ययौ तु द्वौ-- इति वैषम्यात् संख्यातानुदेशो न सिध्यति ? नैष दोषः;निर्देशापेक्षं हि यथासंख्यत्वम्। निर्देशश्च द्वयोरेव तदपेक्षया प्रकृते यथासंख्यत्वम्। एवं पञ्चाद्यभेद उपजायते, न स यथासंख्यं बाधते। यथा वुञादीनाञ्च गणापेक्षया यथासंख्यं प्रवृत्ते तु यथासंख्येन प्रत्ययोत्पत्तिवेलायां गणेषु यद्यपि प्रातिपदिकरूपाण्यसमसंख्यानि भवन्ति, तथात्रापि यथासंख्यं न हीयते। कुतः पुनरवगतम्-- एकशेषोऽयमिति ? व्याख्यानात्।
`प्रकृतिविशेषोपादानमात्रेण' इति। मात्रशब्दो जाताद्यर्थविभक्तिनिर्देशस्य च व्यवच्छेदाय।।

94. ग्रामाद्यखञौ। (4.2.94)
वृद्धलक्षणे छे प्राप्ते वचनम्।।

95. कत्त्र्यादिभ्यो ढकञ्। (4.2.95)
कत्त्र्यादिषु यद्‌वृद्धं पठ्यते ततश्छे प्राप्ते शेषेभ्यस्त्वणीति योगोऽयमारभ्यते। कत्त्रिशब्दश्च तत्पुरुषः-- कुत्सितास्त्रयः, `कोः कत्' (6.3.101) इतियोगविभागात् कद्भावः। अत एव निपातनाद्बहुव्रीहिर्वा-- कुत्सितास्त्रयो यस्याः कत्त्रिः। `कुड्याया यलोपश्च' इति। कुडज्ञाशब्दाड् ढञ् भवति यलोपश्च --कौडेयकः।
ये तु `कुल्याया यलोपश्च' इति पठन्ति तेषां कौलेयकः।।

96. कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु। (4.2.96)
`अणोऽपवादो योगः।।

97.नद्यादिभ्यो ढक्। (4.2.97)
यान्यत्रावृद्धानि तेभ्योऽणि प्राप्तेष वृद्धेभ्यस्तु वाराणसीत्येवमादिभ्यश्छे प्राप्तेऽपवादः। केषाञ्चित् `रोपधेतोः प्राचाम'(4.2.123) इति वुञि प्राप्ते ढगारभ्यते। `पौरेयम्' इति । पुरि भवम्। वने भवं `वानेयम्' । `गैरेयम्' इति। गिरौ भवम्। `तदुभयमपि दर्सनं प्रमाणभूतम् इति। उभयथाऽप्याचार्येण शिष्याणां प्रतिपादित्वात्।
गणे नदीत्येतत् स्वरूपेण ग्रहणम्, न संज्ञाग्रहणार्थम्। संज्ञाग्रहणे हि मह्यदीनां पाठोऽनर्थकः स्यात्।

98. दक्षिणापश्चात्पुरसस्त्यक्। (4.2.98)
पश्चात्पुरसोरव्ययत्वात् साहचर्याद्दक्षिणाशब्दोऽपि `दक्षिणादाच्' (5.3.36) इत्यजन्तमध्ययमेव गृह्यते। एवं च `अव्ययात्त्यप्' (4.2.104) इत्यत्र परिगणनात् त्यपः प्राप्तिर्नास्तीत्यणोऽपवादोऽयं योगः।।

99.कापिश्याः ष्फक्। (4.2.99)
वृद्धा (4.2.114)दिति छे प्राप्ते कापिशीशब्दात् ष्फग्विधीयते।
`बाह्लो' इत्यादि। बाह्लीत्यादिभ्यः ष्फग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- उत्तरसूत्रादिह चकारः सिंहावलोकितन्यायेनानुवर्त्तते, तस्यानुक्तसमुच्चयार्थत्वात् बाह्ल्यादिभ्योऽपि ष्फग्भवतीति।।

100. रङ्कोरमनुष्ये च। (4.2.100)
`ओर्देशे ठञ्' (4.2.119) इति ठञि `जनपदतदवध्योश्च' (4.2.124) इति जनपदलक्षणे वुञि `कोपधादण्' (4.2.132) इत्यणि प्राप्ते वचनम्।
`{कच्छादिपाठादमनुष्येऽणापि--काशिका,पदमञ्जरी च।} कच्छादिपाठादणिप सिद्धः' इति। `कच्छादिभ्यश्च' (4.2.133) इत्यत्र `कोपधादण्' (4.2.132) इत्यण् ग्रहणानुवृत्तेः। `नञिवयुक्तन्यायेन'इति। नञ्युक्ते चेवयुक्ते च तत्सदृशसम्प्रत्ययो भवति। इह च मनुष्यशब्दो नञ्युक्तः, तस्मान्नेह मनुष्यन्नेह मनुष्यप्रतिषेध्यः क्रियते। अपि च मनुष्यसदृशे प्राणिन्येव प्रवृत्तिः, तेन मनुष्यसदृशे प्राणिनि ष्फगणौ भवतः। अप्राणिनि तु कच्छादिपाठादणेव भवति, न ष्पक्-- `राङ्कवः कम्बलः'इति। `विशेष विहितेन' इत्यादि। यदीहाप्यण्न क्रियेत,तदा`{कच्छादिभ्यश्च इत्येव सूत्रम्।} कच्छादिभ्योऽण्' (4.2.133) इत्यणो राङ्कवः कम्बल इत्यत्र सावकाशत्वात् प्राणिनि विशेषविहितेन ष्फका तस्य बाधनं स्यात्। तस्मादेष दोषो मा भूदित्यणपि क्रियते।।

101. द्युप्रागपागुदक्प्रतीचो यत्। (4.2.101)
अणि प्राप्ते यद् विधीयते। प्रागित्यादयः शब्दा अञ्चतेः `ऋत्विक्'(3.2.59) इत्यादिना क्विनि कृते सत्यात्मानं लभन्ते। ते च द्विविधाः-- अव्ययसंज्ञका,अनव्ययसंज्ञकाश्च। यदा त्वस्तातिप्रत्ययान्ता भवन्ति तदा `तद्धितश्चासर्वविभक्तिः' (1.1.38) इत्यव्ययसंज्ञाविधानादव्ययसंज्ञकाः,अन्यदा त्वनव्ययसंज्ञकाः। तेषामिह विशेषस्यानुपादानादुभयेषामपि ग्रहणम्। `प्राच्यम्, `{अवाच्यम्--इतिकाशिकापाठः,पदमञ्जरीपाठश्च। }अपाच्यम्' इति। `अचः' (6.4.138) इत्यकारलोपः, `चौ' (6.3.138) इति दीर्घः। `उदीच्यम्' इति।`उद ईत्' (6.4.139) इतीकारः। `प्राक्तनम्' इति। प्राक्शब्दात् `दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिक्' (5.3.27) इत्यादिनाऽस्तातिः, तस्य `अञ्चेर्लुक्' (5.3.30) इति लुक्, ततोऽनेन यति प्राप्ते `सायञ्चिरम्' (4.3.23) इत्यादिना ट्युट्युलौ भवतः। यतस्तु -- यश्च कालवाची सोऽवकाशः।।

102. कन्थायाष्ठक्। (4.2.102)
अणपवादोऽयं योगः।।

103. वर्णौ वुक्। (4.2.103)
`वर्णुः' इति। नदोऽभिधीयते। स्रोतसि च कन्था न सम्भवीति सामीपिकमधिकरणं विज्ञायते, अत आह-- `तत्समीपो देशो वर्णुः' इति। वर्णुशब्दात् `अदूरभवश्च' (4.2.70) इत्यत्रार्थे `सुवास्त्वादिभ्योऽण्' (4.2.77) इत्यण्, तस्य `जनपदे लुप्' (4.2.81) इति लुपि कृते वर्णुरिति भवति। ननु च प्रतिपदविधानात् प्रत्ययस्य लुब्न भवति ? नैवम्; सुवास्त्वादिपाठो हि जनपदादान्यस्मिन् प्रत्ययार्थे कृतार्थः--`वार्णवो ग्रामो नगरमिति, न तु जनपदे। तत्र तु परत्वाल्लोपेन भवितव्यम्। `तद्धिषयार्थ'इति। विषयग्रहणेन वर्णादिति सप्तम्या विषयसप्तमीत्वं दर्शयति। स वर्णुदेशो विषयो यस्य तद्विषयार्थः। सा पुनः कन्थैव।।

104.अव्ययात्त्यप्। (4.2.104)
  `अमेह' इत्यादि। परिगणनम्। एतच्चोत्तरसूत्रस्थस्यान्यतरस्यांग्रहणस्यभोर्योगयोः विज्ञायते व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। अमाशब्दः समीवाची, स्वरादिपाठादव्ययत्वम्। इहेत्यादीनां `तद्धितश्चासर्वविभक्तिः'(1.1.38) इति। अमा भवोऽमात्यः।
`औपरिष्टः' इति। उपरिष्टाद्भवतीत्यणि कृते `अव्ययानां भमात्रे टिलोपो वक्तव्यः' (वा.842) इति टिलोपः।परतो भवः `पारस्तः'। परतः शब्दः `विभाषा परावराभ्याम्' (5.3.29) इत्यसुजन्तः। `आरातीयः' इति। अत्र टिलोपो न भवति; `बहिषष्टिलोपश्च' (वा.378) इत्यत्रानित्यत्वस्य ज्ञापितत्वात्।
`त्यब्नेर्ध्रुवे' इति। निशब्दाध्रुवे वाच्ये त्यब्भवति। नियते सर्वकाले भवो नित्यः।
`निसो गते' इति। निःशब्दाद्गते वाच्ये त्यब्भवति। `निष्ट्यः' इति। `ह्रस्वात्तादौ तद्धिते' (8.3.99) इति मूर्धन्यः। एवमादविष्ट्य इत्यत्रापि भवति।।

105. ऐषमोह्यःश्वसोऽन्तरस्याम्। (4.2.105)
ऐषमःप्रभृ-तीनि कालवाचीनि प्रातिपदिकान्यव्ययानि। `सायञ्चिरम्' (4.3.23) इत्यादिना परत्वाट्ट्युट्युलोः प्राप्तयोरिदं वचनम्। `शोवस्तिकम्' इति। `द्वारादीनाञ्च' (7.3.4) इत्यैजागमः।।


106.तीररूप्योत्तरपदादञ्ञौ। (4.2.106)
अथ तीररूप्योत्तरादित्येवं कस्मान्नोक्तम्, एवं हि लघु सूत्रं भवतीति ? अत आह-- `तीररूप्यान्तात्' इत्यादि। यदीह तीररूप्यान्तादित्युज्येत, बहुच्पूर्वादपि स्यात्-- बहुतीरे जात इति, भवति ह्येतत् तीरान्तम्। उत्तरपदग्रहणे ह्येषोऽतिप्रसङ्गो न भवति, न ह्येतत्, तीरोत्तरपदम्, यस्मात् समासे सत्येतद्भवति। पूर्वपदमुत्तरपदमिति न्यायेन नायं समासः।।

107. दिक्पूर्वपदादसंज्ञायां ञः। (4.2.107)
`पौर्वशालः'इति। पूर्वस्यां शालायां भवः पौर्वशालः। `तद्धितार्थः' (2.1.51) इत्यादिना तद्धितार्थे समासः, ततः प्रत्ययः।
अथ पदग्रहणं किमर्थम् ? `न दिक्पूर्वात्' इत्येवोच्येत ? इत्यत आह-- `पदग्रहणम्' इत्यादि। असति हि पदग्रहण स्वरूपग्रहणं स्यात्। तथा च दिग्गजः, दिग्नागः, दिग्दाहः-- इत्येवमादिः प्रकृतिर्विज्ञायते। पदग्रहणे तु सति दिग्विशेषो गृह्यते,कथम् ? पदग्रहणसामर्थ्याद्व्याधिकरणे बहुव्रीहिर्विज्ञायते-- दिशः पूर्वपदं यस्य । दिश इति च वाचकापेक्षया षष्ठी विज्ञायते। तेनेह तदभिधायी पूर्वादिदिक्शब्दो गृह्यते।

108. मद्रेभ्योऽञ्। (4.2.108)
`पौर्वमद्रः' इति। पूर्ववत् तद्धितार्थे (2.1.51) समासः, ततोऽणि प्राप्ते,`अवृद्धादपि बहुवचनविषयात्' (4.2.125) इतिच वृञि, `मद्रवृज्योः कन्' (4.2.131) इति कन्यञ् विधीयते।।

109. उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तौ। (4.2.109)
`शैवपुरम्, माहानगरम्' इति। शिवपुरमहानगरशब्दौ समासस्वरेणान्तोदात्तौ।
`माथुरम्' इति। मथुराशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। मध्यदेशग्रामस्तु, तेनाणेव भवति। `ध्वाजम्' इति। ध्वजीशब्दः पिप्पल्यादित्वान्ङीषन्तः।गौरादिषु हि प्पिल्यादयः पठ्यन्ते,तेनासौ प्रत्ययस्वरेणान्तोदात्तः। उदीच्यग्रामस्य बह्वजन्तो भवति। `धानशब्द उदात्तः' इति। `गतिकारकोपपदात्' (6.2.139) इति धानशब्दस्य ल्युडन्तस्य प्रकृतिभावात्।।

110. प्रस्थोत्तरपदलद्यादिकोपधादण्। (4.2.110)
`उदीच्यग्रामलक्षणस्याञोऽपवादः' इति। प्रस्थोत्तरपदादीनामुदीच्यग्रानत्वात्। `माद्रीप्रस्थः, माहकीप्रस्थः' इति। अत्र प्रकृतिः समासस्वरेणान्तोदात्ता। अथोत्तरपदग्रहणं किमर्थम्, न प्रस्थान्तादित्येवोच्येत ? नैवं शक्यम्; तदिहापि प्रसज्येत--उत्तमकर्णीप्रस्थः। तत्राप्युत्तरपदग्रहणान्न भवति। न ह्यत्र प्रस्थशब्द उत्तरपदम्, किं तर्हि ? कर्णीप्रस्थशब्दः। `ततष्ठञ्ञिठयोरपवादः'इति `वाहीकग्रामेभ्यश्च' (4.2.117) इति प्राप्तयोः। अथ वाहीकशब्दः किमर्तमिह पठ्यते, यावता कोपधत्वादेवाण् सिद्धः ? अत्राह-- `वाहीकशब्दः' इत्यादि। यदि वाहीकशब्द इह न पठ्यते, परत्वात् `वृद्धाच्छः' (4.2.114) इति च्छः स्यात्। कोपधस्य तु निलीक इत्यत्रावृद्धमवकाशः। तस्मात्परमपि च्छं बाधित्वाऽण् यथा स्यादिति कोपधोऽपि वाहीकशब्दः पठ्यते।
अथाण्ग्रहणं किमर्थम्, न यावता यथाविहितमेवोच्येत ?न; पुनर्विधानादणेव भवतीति विज्ञायते। अपवादस्य विधाने पुनर्विधानमनर्थकमित्याह--`अजग्रहमम्' इत्यादि। यदत्र वृद्धं वाहीकग्रामः,तस्मात् `प्राग्दीव्यतोऽण्' (4.1.83) इत्यतोऽणि प्राप्ते ` वृद्धाच्छः' (4.2.114) प्राप्नोति, तस्मिन् `वाहीकग्रहामेभ्यश्च' (4.2.117) इति ठञ्ञिठौ, तौ परत्वात् बाधित्वा यद्यत्राण्ग्रहणं न क्रियेत तदा पुनर्विधानाच्छ एव स्यात्। अण्ग्रहणादेव भवति-- गोष्ठ्यां भवं `गौषठ्यम्' इति। तस्मात् बाधकमपि बाधित्वाऽणेव यथा स्यादित्येवमर्थमण्ग्रहणम्। कोपधग्रहणमिहाजनपदार्थम्। जनपदतदवधि'(4.2.124) `कोपधादण्' (4.2.132) इत्यनेन सिद्धः। यकृल्लोमशब्दः पलद्यादिषु पठ्यते, तस्य नलोप निपात्यते,अन्यथा `अन्' (6.4.167) इति प्रकृतिभावे सति यकृल्लोम्नि भवः याकृल्लोम इति न सिध्येत्।।

111. कण्वादिभ्यो गोत्रे। (4.2.111)
`गोत्रग्रहणमिह न प्रत्ययार्थम्' इति। शेषाधिकारात्। यदि हि प्रत्ययार्थः स्यात्, शेषाधिकारो वाच्येत। `{न च--काशिका पदमञ्जरी च} न प्रकृतिविशेषणम्'(इति)। असम्भवात्। न हि कण्वादीनां परमप्रकृतिरूपाणामेव गोत्रार्थत्वं सम्भवति। तर्हि गोत्रग्रहणं सम्बध्येतेत्येवमर्थं पृच्छति। `एवम्' इत्यादिना प्रत्ययविधिविशेषणं गोत्रग्रहणमिति दर्शयित्वा तेन गोत्रप्रत्ययान्तेभ्यः कण्वादिभ्योऽण् भवतीति दर्शयति। `छस्यापवादः' इति। गोत्रप्रत्ययान्तानां कण्वादीनां वृद्धत्वात्। `काण्वाः, गौकक्षाः'इति। कण्वगोकक्षशब्दाभ्यां गोत्रापत्ये गर्गादि (4.1.105) इत्वाद्यञ्, तदन्तादण्, `आपत्यस्य' (6.4.151) इत्यादिना यलोपः। `काण्वः' इति। `सास्य देवता' (4.2.24) इत्यण्।।

112. इञश्च। (4.2.112)
दाक्ष्यादिभ्यः `अत इञ्' (4.1.95) इतीञन्तेभ्योऽण्। `सौतङ्गमीयम्' इति. सुतङ्गमेन निर्वृत्तमिति `वुञ्छण्' (4.2.80) इत्यादिना सुतङ्गमशब्दाच्चातुरर्थिक इञ्।।

113.न द्व्यचः प्राच्यभरतेषु। (4.2.113)
`पैङ्गीयाः, प्रौष्ठीयाः'इति। प्राच्यगोत्रोदाहरणम्। `काशीयाः,पाशीयाः'इति। भरतगोत्रोदाहरणम्। `कथम्' इत्यादि चोद्यम्। `नैतदस्ति' इति परिहारः। उभयञ्चैतत्,तदुदाहरणम्। उभयञ्चैतदनुगतार्थम्। ननु च भरताः प्राच्या एव,ततः प्राच्यग्रहणेनैव तेषां ग्रहणं भविष्यति, तत्किमर्थं तेषांस्वशब्देनोपादानम् ? इत्यत आह-- `ज्ञापकादन्यत्र' इत्यादि। क्वान्यत्र ? `बह्वच इञः प्राच्यभरतेषु' (2.4.66) इत्यत्र।।

114. वृद्धाच्छः। (4.2.114)
`अव्ययतीर'इत्यादि। तत्राव्ययविधिं बाधते-- आराद्भव आरातीयः। तीरोत्तर एव विधिः,तं च वायसतीरे भवो वायसतीरीयः। रूपोत्तरपदात्तु छं बाधित्वा `धन्ययोपधाद्‌वुञ्' (4.2.121) इति योपधलक्षणो वुञ् भवति--- मणिरूप्ये भवो माणिरूप्यक इति। उदीच्यग्रामविदिं बाधते-- वाडवाक्षे भवो वाडवाक्षीयः, साडलपुरे भवः साडलपुरीयः। कोपधलक्षमम्--औदके भव औदकीयः, चौल्लुके भवः चौल्लुकीयः। तेषां तु विधीनामवृद्धोऽवकाशः।।

115. भवतष्ठक्छसौ। (4.2.115)
`सकारः पदसंज्ञार्थः' इति। `सिति च' (1.4.16) इति पदसंज्ञा यथा स्यात्। तस्याञ्च सत्यां भवदीयमतित्यत्र `झलां जशोऽन्ते' (8.2.39) इति जश्त्वं भवति। `भावत्कः' इति। `इशुसुक्तान्तात् कः'(7.3.51)। `अवृद्धात्तु भवतः' इति। शत्रन्तादिति।।

116.काश्यादिभ्यष्ठञ्ञिठौ। (4.2.16)
काशिचेदिशब्दाभ्यां जनपदलक्षणे (4.2.124) वुञि प्राप्ते साजातेः `इञश्च' (4.2.112) इत्यणि, संवाहादिभ्यो वृद्धच्छे (4.2.114) , हस्तिकर्षूशब्दात् `ओर्देशे ठञ्' (4.2.119) इति ठञि, परिशिष्टेभ्यः `प्राग्दीव्यतोऽण्' (4.1.83) इत्यणीदमारभ्यते। कथं पुनर्ञकार एव विपर्यस्तदेशेऽनुबन्धे क्रियमाणे विशेष इत्यत आह-- `स्त्रीप्रत्यये विशेषः' इति। अन्ते हि ञकारेऽनुबन्धे सति `टिड्ढाणञ्'(4.1.15) इतिङीब्भवति। आदौ हि सति टाबेव भवति।
`वृद्धादित्यनुवर्त्तते' इति। यद्येवम्, अत्र ये वृद्धाः पठ्यन्ते तेभ्यः प्त्यये न प्राप्नोति ? इत्याह-- `येत्ववृद्धाः'इत्यादि।
यदि तर्ह्यवृद्धेभ्योऽपि वचनप्रामाण्यात्प्रत्ययो भवति, वृद्धादित्यस्यानुवृत्तिरपार्थिकेत्यत आह-- `देवदत्तशब्दः' इत्यादि। देवदत्तशब्दस्य प्राग्देश एव हि वर्त्तमानेऽस्य वृद्धसंज्ञा, न वाहीकग्रामे। तत्र यदि वृद्धादिति नानुवर्त्तते, वाहीकग्रामवाचिनोऽपि ततष्ठञ्ञिठौ स्याताम्। तस्मात् तन्निवृत्त्यर्थं वृद्धाधिकारोऽर्थवान् भवतीति भावः। `कथम्' इत्यादिना वृद्धसंज्ञायां देवदत्तीया इति भाष्यकारस्योपन्यासे तदुदाहरणं विघटय्य `तत्रैवं वर्णयन्ति' इत्यादिना समर्थयते।
`आपदादिपूर्वपदात्कालात्' इति। आपच्छब्द आदिर्येषां तान्यापदादीनि। तानि पूरर्वपदं यस्य तदापदादिपूर्वपदम्। ततः कालाट्ठञ्ञिठौ भवतः।आदिशब्देनोर्ध्वादयः शब्दा गृह्यन्ते।।

117. वाहीकग्रामेभ्यश्च। (4.2.117)

118. विभाषोशीनरेषु। (4.2.118)

119.और्देशे ठञ्। (4.2.119)
`नैषादकर्षुकः। शावरजम्बुकः' इति। निषादकर्षूवरजम्बूशब्दाभ्यां ठञ्, `इसुसुक्तान्तात् कः' (7.3.51), `केऽणः' (7.4.13) इति ह्रस्वः। ननु च ठञ् प्रकृत एव, स एवेहानुकृष्यते, तत्किं ठञ्ग्रहणेन ? इत्यत आह-- `ठञ्ञिठयोः' इति। यथैव हि ठञ् प्रकृतः, एवं ञिठोऽपि। तत्र द्वयोरपि प्रकरणे ठञ् चानुवर्तिष्यते, नेतर इत्येतन्न लभ्यते। तस्मात् ञिठस्य निवृत्तये पुनष्ठञ्ग्रहणं कृतम्। ननु चास्वरितत्वादेव ञिठो नानुवर्तिष्यते ? सत्यमेतत्; तदेवास्वरितत्वं ज्ञापयितुं ञिठस्य ठञ्ग्रहणं कृतम्। तच्चास्वरितत्वमाख्यायते मन्दबुद्धीनामनुग्रहाय।।

120. वृद्धात्प्राचाम्। (4.2.120)
`आढकजम्बुकः' इति। पूर्ववत् कादेशो ह्रस्वत्वञ्च।।

121. घन्वयोपधाद्‌वुञ्। (4.2.121)
धन्वनोऽर्थस्य ग्रहणम्, न स्वरूपस्य; वृद्धाधिकारात्। न हि धन्वशब्दो वृद्धः। पारेधन्वनि जातः पारेधन्वकः, `नस्तद्धिते' (6.4.144) इति टिलोपः। ऐरावते जात ऐरावततकः।।

122. प्रस्थपुरवहान्ताच्च। (4.2.122)
`वृद्धादित्येव' इति। यदि तर्हि वृद्धादित्यनुवर्त्तते वृद्धाधिकारादेव स्वरूपग्रहणाभावात् कथं तदन्तविधिर्भवति, नहि प्रस्थादेः केवलस्य वृद्धत्वं सम्भवति, किं तर्हि ? तदन्तस्य, तत्किमन्तग्रहणेन ? मैवम्; सत्यपि वृद्धाधिकारे यथा धन्वेति वृद्धग्रहणं हि देशस्य विशेषणं तथेहापि स्यात्, तन्निवृत्त्यर्थमन्तग्रहणं कृतम्।।

123. रोपधेतोः प्राचाम्। (4.2.123)
`ईकारान्ताच्च' इति।कतं पुनर्ज्ञायते---दीर्घस्येदं ग्रहणम्, न ह्रस्वस्येति ? सामर्थ्यात् । प्राग्ग्रहणं हि देशस्य विशेषणम्। वृद्धादिति वर्त्तते, न च वृद्धमिकारान्तं प्राग्देशवाच्यस्ति, तस्माद्दीर्घस्येदं ग्रहणमिति विज्ञायते। एकचक्राशब्दस्य तु `एङ् प्राचाम्' (1.1.75) इति वृद्धसंज्ञा।
अथ तपरकरणं किमर्थम्, नेह किञ्चित्तस्य व्यावर्त्त्यमस्तीत्यत आह-- `तपरकरणं विस्पष्टार्थम्ट (इति)। असति हि तस्मिन् रोपध इति स्थिते गुणे कृते विभक्तौ च रोपधयोरिति निर्देशः स्यात्। तत्रैव सन्देहः स्यात्--किं रोपधस्येदं ग्रहणम् ? उत रोपधस्येकारान्तस्येति ? तपरकरणे तु सति सन्देहो न भवति। ईरोपधादिति नोक्तम्, वैचित्र्यार्थम्।।

124. जनपदतदवध्योश्च। (4.2.124)
`तदवधेरपि' इत्यादि। `जनपदतदवध्योश्च' इत्यत्र तच्छब्देन सन्निहितत्वाज्जनपद एवपरामृश्यते। न चायं षष्ठीसमासः। षष्टीसमासे ह्यजनपदोऽपि योऽवधिस्ततोऽपि वुञ् प्रसज्येत। छ एव तस्येष्यते-- मौञ्जी नाम वाहीकानामवधिर्ग्रामः, तत्र भवो मौञ्जीय इति। तस्मात् समानाधिकरण एवायं समासः-- सएव जनपदोऽवधिर्मर्यादा तदवधिरिति। तेन जनपदावधिरेव एव गृह्यन्ते, न ग्रामः।
`किमर्थं तर्हि तदवधिग्रहणम्' इति। यदि तदवधिरपि जनपद एव गृह्यते,निरर्थकं तर्हि तस्य ग्रहणम्, `जनपदाच्च' इत्येतावदेव वक्तव्यमित्यभिप्रायः। `बाधकबाधनार्थम्' इति। गर्त्तोत्तरपदाद्वक्ष्यमाणश्छ एव परत्वाद्विशेषविहितत्वाच्च बाधकः, तस्य बाधनार्थं तदवधिग्रहणम्।तेनहि त्रिगर्त्तेषु भवस्त्रैगर्त्तक इत्यत्रोत्तरसूत्रेण गर्तत्तोत्तरपदाच्छं बाधित्वा वुञेव भवति।।

125. अवृद्धादपि बहुवचनविषयात्। (4.2.125)
`अण्छयोरपवादः' इति। अवृद्धादणोऽपवादः, वृद्धाच्छस्य। अथ विषयग्रहणं किमर्थम्, विनापि तेन विशेषो लभ्यत एव। कथम् ? इह जनपदतदवधिशब्दाभ्यां समानाधिकरणत्वाद्वहुवचनशब्दो न पारिभाषिको विज्ञायते,किं तर्हि ? अन्वर्थः-- बहूनामर्थानां वचनो यो जनपदस्तदवधिश्चेति। यश्च बहूनामर्थानां वचनः सोऽर्थान् बहून् ब्रूवन् सामर्थ्यादेव बहुवचनविषयो भवति ? इत्याह-- `विषयग्रहणम्' इत्यादि। अनन्यत्रभावः कथं नाम लभ्यत इत्येवमर्थं विषयग्रहणम्। अनन्यत्रभावः किमर्थमिष्यत इत्याह-- जनपदैकदेशः क्रियते। वर्त्तनी च वर्त्तनी च वर्त्तनी च वर्त्तन्यः,तद्बहूनां वाचको भवति। ततश्च यदि विषयग्हणं न क्रियते ततो वर्त्तनीषु भव इति वुञ् स्यात्। विषयग्रहणे तु सति न भवति, अनन्यत्रभावो विषयः। तेनैवं विज्ञायते-- बहुवचनं न यो व्यभचरति। यश्चैकशेषः स बहूवचनं व्यभिचरति, तस्यहि विवक्षाभावे बहुत्वात्। द्वयोरपि च कदाचिद्‌वृत्तेः।
`अपिग्रहणम्' इति। अपिग्रहणं हि वृद्धादपि यथा स्यादित्येवमर्थं क्रियते। वृद्धात्पूर्वेणैव सिद्धः प्रत्ययः, तत् किमपिग्रहणेन ? `तक्रकौण्डिन्यायेन' इति। यथा `ब्राह्मणेभ्यो दधि दीयता तक्रं कौण्‍डिन्याय' इति सामान्येन वृत्तस्य दधिदानस्य विशेषे वर्त्तमानेन तक्रदानेन बाधा क्रियते, तथेहापि बहुवचनविषये च सामान्येन प्रवृत्तस्य पूर्वयोगस्य बहुवचनविषये वर्त्तमानेनानेन योगेन बाधा विज्ञायते। तस्माद्‌वृद्धादपि यथा स्यादित्यपि शब्देन समुच्चीयते।।

126. कच्छाग्निवक्त्रगर्त्तोत्तरपदात्। (4.2.126)
कच्छशब्दार्थमुत्तरपदग्रहणात्, स हि केवलोऽपि देश वर्त्तते। इतरेषां तु केवलानं देशे वृत्त्यसम्भवात् सामर्थ्यादेव तदन्तविधिर्लभ्यत इतीतरान् प्रत्युत्तरपदग्रहणमनर्थकम्। `कच्छाग्निवक्त्रगर्त्तान्तात्' इति नोक्तम्, बहुच्पूर्वान्मा भूत्। यदा हि कच्छदेशेन देशान्तरन्तरस्य गुणसाम्ये सतीषदसमाप्तः कच्छदेश इति कच्छशब्दाद्बहुच् क्रियते तदा बहुकच्छशब्दो देशवचन इति। अन्तग्रहणे तु सति ततोऽपि प्रत्ययः स्यात्, उत्तरपदग्रहणान्न भवति। `दारुकच्छः'इति। कच्छशब्दस्योत्तरपदस्य वृद्धस्योदाहरणम्। `पैप्पलीकच्छकः' इत्यवृद्धस्योदाहरणम्, एवमन्याद्युत्तरपदानामपि। एकवृद्धस्योदाहरणम्। अपरं वृद्धस्य वेदितव्यम्।।

127. धूमादिभ्यश्च। (4.2.127)
`अणादेरपवादः'इति। आदिशब्देन कच्छादीनां ग्रहणम्। तत्र देशवचना अवृद्धा येधूमादयस्तेभ्योऽणोऽपवादः। ये तु वृद्धास्तेभ्यश्छस्। य उदीच्यग्रामास्तेभ्योऽणः। ये बाहीकग्रामास्तेभ्यष्ठञ्ञिठयोः। `तस्य योपधत्वादेव वुञि सिद्धे' इति। `धन्वयोपधाद्‌वुञ्' (4.2.121) इत्यनेन। `जनपदलक्षणे वुञि सिद्धे' इति। `अवृद्धादपि' (4.2.125) इत्यादिना। `कूलात् सौवीरेषु' इति। कुलशब्दाद्‌वृञ् भवति सौवीरेषु। कौलको भवति सौवीरश्चेत, कौलोऽन्यत्।।

128. नगरात्कुत्सनप्रावीण्ययोः। (4.2.128)
`नागरा ब्राह्मणाः' इति। अण्। ननु च `नगर,माहिष्मती' (4.2.95) इति नगरशब्दः कत्त्र्यादिषु पठ्यते, ततो ढकञा भवितव्यम्, तत्कथं नागरा इति प्रत्युदाह्रियत इत्याह-- `कत्त्र्यादिषु' इति। द्विविधो नगरशब्दः-- जातिवचनः, संज्ञावचनश्च। तयोः कत्त्र्यादिषु माहिष्मतीशब्देन साहचर्यात् संज्ञाशब्दः पठ्यते। तत्र जातिशब्दान्नागरा इति प्रत्युदाहृतम्। संज्ञाशब्दे तु नागरेयक इति प्रत्युदाहर्त्तव्यम्।।

129. अरण्यान्मनुष्ये। (4.2.129)
`औपसंख्यानिकस्य णस्यापवादः' इति। `अरण्याण्यः' (वा.437) इत्युपसंख्यानात्प्राप्तस्य । `पथ्यध्यायन्याय' इत्यादि। एषु पथ्यादिषु वुञ्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `धूमादिभ्यश्च' (4.2.127) इत्यतश्चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः,तेन पथ्यादिषु वुञ्भवति।
`वागोमयेषु' इति। गोमयेषु वाच्येषु वा वुञ्भवतीति। स तु तस्यैव चकारस्यानुक्तसमुच्चयार्थस्यानुवृत्तेर्वक्ष्यमाणस्य विभाषाग्रहणस्योभयोः शेषभूतत्वाल्लभ्यते। यदि तर्हि वक्ष्यमाणं विभाषाग्रहणमुभयोर्योगयोः शेषभूतं पथ्यादिष्वपि विकल्पेन विधिः स्यात् ? नैष दोषः; व्यवस्थितविभाषा हि सा, तेन गोमयाद्विकल्पेन विधिर्भवति, पथ्यादिषु नित्यमिति।।

130. विभाषा कुरुयुगन्धाराभ्याम्। (4.2.130)
`सैषा युगन्थरार्था विभाषा' इति।न कुरुशब्दार्था। तत्र कच्छादिपाठाद्विनापि विभाषाग्रहणेनाणा भवितव्यम् । ननु युगन्धरशब्दादप्यणि `अवृद्धादपि बहुवचनविषयात्' (4.2.125) इति नित्यएव वुञि प्राप्ते वचननित्यार्थं भविष्यति, नित्ये हि वुञि पुनरारम्भोऽनर्थक- स्यात्, तस्माद्युगन्धरार्थाऽपि विभाषा न प्रसज्येत ? नैतत् पुनरारम्भो विपर्ययेणापि शक्यते समर्थयितुम्। जनपदलक्षणो (4.2.124) यो वुञ् स विभाषा,अयं तु नित्य इति।अस्मात्तु युगन्धरार्थं विभाषाग्रहणं कर्त्तव्यम्। मनुष्यतत्स्थयोस्तु कुरुशब्दान्नित्य एव वुढ्भवति, कच्छादिषु पाठसामर्थ्यात्। अन्यथानयैव विभाषया वुञणोः सिद्धत्वात् कच्चादिपाठोऽर्थकः स्यात्; अनवकाशत्वात्।।

131. मद्रवृज्योः कन्। (4.2.131)
`जनपदवुञोऽपवादः'इति। `अवृद्धादपि' (4.2.125) इत्यादिप्राप्तस्य। मद्रवृज्योः कन्निति ञ्यन्तस्य परनिपातः `द्वन्द्वे घि' (2.2.32) इत्यस्य विधेरनित्यत्वज्ञापनार्थम्। तेन धूमाग्नी इत्येवमादि सिद्धं भवति।।

132.कोपधादण्। (4.2.132)
`जनपदवुञोऽपवादः' इति। पूर्वत्प्रप्तस्य। किं पुनर्देशादन्यत्र वर्त्तमानो नेष्यते, यो देशे वर्त्तते ? इत्याह-- `अन्यत्रेत्यादि पूर्वेण' इति।`प्रस्थोत्तरपदात्' (4.2.110) इति सूत्रेण।
अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमेवोच्येत, यथाविहितमुच्यमानेऽणपवादो वुञ् स्यादिति चेत् ? न; वुञ्विधाने हि वचनमनर्थकं स्यात्,तेन विना वुञः सिद्धत्वात्। तस्माद्वचनसामर्थ्याद्विहितोऽणेव प्राप्नोति। अन्येन बाधित्वा अत एवाण् अतएवाण् भविष्यतीति। स हि `प्राग्दीव्यतोऽण्' (4.1.83) इति विहितो बाधितश्च वुञैवेत्यत आह-- `अण्ग्रहणम्' इत्यादि। `इक्ष्वाकुषु जातः'इति। इक्ष्वाकुशब्दादोर्देशे ठञ् (4.2.119) प्राप्तः, तस्मिन् जनपदवुञा बाधिते यदीहाज्ग्रहणं न क्रियते तदा पुनर्वचनाद्‌वुञेव भवति, अण्ग्रहणादणेव भवति। `ऐक्ष्वाकः' इति। `दाण्डिनायनहास्तिनायन' (6.4.174) इत्यादाविक्ष्वाकुशब्दस्योकारस्य लोपो निपातितः।।

133.कच्छादिभ्यश्च। (4.2.133)
`वुञादेरपवादः' इति। आदिशब्देन ठञः। तत्र ये जनपदबहुवचनविषयास्तेभ्यो वुञः प्राप्तस्यापवादः। सिन्धुवर्णुशब्दाभ्यामोर्देशे ठञः (4.2.119)। `कच्छशब्दो न बहुवचनविषयः' इति। तेन `अवृद्धादपि' (4.2.125) इत्यादिना बाधकस्य वुञोऽप्राप्तावेव सामान्येनाण्सिद्ध एवेति दर्शयति। यद्येवम्, किमर्थं तस्य पाठः ? इत्याह-- `तस्य' इत्यादि। उत्तरसूत्रेण वुञ् मनुष्यतस्त्थयोर्यथा स्यादित्यवमर्थः कच्छस्येह पाठः, न त्वनर्थकः। `कोपधादेवाण् सिद्धः'इति। पूर्वसूत्रेणेति। `इहग्रहणमुत्तरार्थम्' इति। उत्तरसूत्र वुञ् यथा स्यात्।।

134. मनुष्यतत्स्थयोर्वुञ्। (4.2.134)

135. अपदातौ साल्वात्। (4.2.135)
`साल्वः' इति। कच्छादिपाठादण्।।

136. गोयवाग्वोश्च। (4.2.126)

137. गर्त्तोतत्रपदाच्छः। (4.2.137)
अवृद्धार्थ वचनम्। वृद्धात्तु `वृद्धाच्छः' (4.2.114) इत्यनेनैव सिद्धमिति। सति तु वृद्धावपि परत्वादनेनैव भवितव्यम्। `अनोऽपवादः' इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। `वाहीकग्रामलक्षणञ्च' इत्यादि। यद्‌गर्त्तोत्तरपदं वाहीकवाचि ततो वाहीकग्रामलक्षणौ ठञ्ञिठौ बाधित्तवात् परत्वाच्छ एव भवति, तस्य गर्त्तोत्तरपदमवकाश इति। अथोत्तरपदग्रहणं किमर्थम्, न गर्त्तान्तादित्येवोच्येत ? इत्याह-- `उत्तरपदग्रहणम्' इत्यादि। यदि गर्त्तान्तादित्युच्येत तदा बहुगर्त्त इत्येतस्मादपि बहुच्पूर्वात् स्यात्, भवति ह्येतद्‌गर्त्तान्तम्। उत्तरपदग्रहणे तु सति न भवति, न ह्येतद्‌गर्त्तोत्तरपदम्। समासे हि सत्येतद्भवति-- पूर्वपदमुत्तरपदमिति।।

138. गहादिभ्यश्च। 94.2.138)
`अणादेरपवादः' इति। आदिशब्देन वुञः। तत्र कामप्रस्थशब्दात् `प्रस्थपुरवहान्ताच्च' (4.2.122) इति प्राप्तस्य वृञोऽपवादः, शेषेभ्यस्त्वौत्सर्गिकस्याणः। `सम्भवापेक्षं विशेषणम्'इति। सम्भवमपेक्षत इति सम्बवापेक्षम्। येषां देशे चादेशे च वृत्तिः सम्भवति गहादीनां तेषामेवेदं विशेषममिति। एतदुभयमपि विशेषणमेवार्थार्यैः स्मर्यते। `पृथिवीमध्यस्य' इत्यादिना तद्विशेषं दर्शयति। `चरणसम्बन्धेन' इत्यादि। चरणेनार्थेन सम्बन्धश्चरणसम्बन्धः; तेन करणेन वाण् भवति। किंविशिष्टः ? निवासलक्षमः। निवासो लक्षणं यस्य स तथोक्तः। कथं निवासलश्रणः ? यः पृथिवीमध्ये निवासभूते वर्त्तमानात् मध्यशब्दाद्भवति, स हि निवासेन लक्ष्यते। तदेतदुक्तं भवति--पृथिवीमध्यनिवासोऽस्य चरणस्येति। यदायमर्थो विज्ञायते तदाण्भवति, नान्यत्रेति। तेन यदा पृथिवीमध्याद्‌गतं चरणमिति चरणमिति विवक्ष्यते तदा च्छ एव भवति--मध्यमीय इति। कथं पुनः सामान्योक्तावेव विशेषो लभ्यत इति ? सामान्यभिधानेऽपि विशेषोपस्थानदर्शनात्। घृतक्षरणवच्च स ह्यविशेषेणोपदिष्टो घृतादिष्वेवावतिष्ठते। तस्मात् सामान्योक्तावपि पृथिवीमध्य एव वर्त्तमाने मध्यशब्दो मध्यमभावमापद्यते। चरणे च प्रत्ययार्थे निवासलक्षण एवाण् भवति,न हि सर्वेषु जातादिष्वर्थेषु।
`मुखपार्श्वतसोर्लोपः' इति। मुखपार्श्वशब्दयोस्तसस्तयोः प्रत्ययसन्नियोगेन लोपो भवति। स च अलोऽन्त्यस्य (1.1.52) इति वचनादन्त्यस्य । लोपवचनं `अव्ययानां भमात्रे टिलोपः' (वा.842) इत्यस्यानित्यत्वज्ञापनार्थम्, तेनारातीय इत्यत्र न भवति। `मुखतीयम्, पार्श्वतीयम्' (इति)। `अपादाने चाहीयरुहोः' (5.4.45) इति मुखपार्श्वशब्दाभ्यां तसिः। `आद्यादिभ्य उपसंख्यानम्' (वा.634) इत्यौपसंख्यानिके सकारस्य लोपे कृतेऽकारस्यापि `यस्येति च' (6.4.148) इति लोपः।
`देवस्य चेति वक्तव्यम्' इति। देवशब्दस्य कुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `{जनपपदयोः कुक्क इति सं. परिषत्काशिकापाठः'}कुग्जनस्य परस्य' (वा.ग.सू.101) इत्यत्र चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेन देवदशब्दादपि भविष्यति।।

139. प्राचां कटादेः। (4.2.139)

140. राज्ञः क च। (4.2.140)

141. वृद्धादकेकान्तखोपधात्। (4.2.141)
`कोपधलक्षणस्य च' इत्यादि। अकेकान्तात् `कोपधादण्' (4.2.132) इत्यणि प्राप्तेऽणोऽपवादः। कोपधादपि वाहीकग्रामलक्षणस्य ठ़ञो ञिठस्य च। `रोपधेतोः प्राचाम्' इति। `अकेकान्तग्रहणे कोपधग्रहणम्' इति। इह सूत्रेऽकेकान्तग्रहणमपनीय कोपधग्रहणं कर्त्तव्यम्। कोपधादित्येवं वक्तव्यमित्यर्थः।।

142. कन्थापलदनगरग्रामह्वदोत्तरपदात्। (4.2.142)
`वाहीकग्रामलक्षणस्य' इति। ठञ्ञिठयोश्च। अन्तग्रहणेनैव सिद्ध सत्त्युत्तरपदग्रहणं वैचित्र्यार्थम्।।

143. पर्वताच्च। (4.2.143)

144. विभाषाऽमनुष्ये। (4.2.144)
`पार्वतीयानि फलानि' इति। ननु चामनुष्यशब्दो रक्षःपिशाचादिष्वेव रूढः तथा हि `सभा, राजाऽमनुष्यपूर्वा' (2.4.23) इत्यत्र `इह कस्मान् भवति--काष्ठसभेति, तत्रेदमुक्तम्--`अमनुष्यशब्दो रूढिरूपेण रक्षः पिशाचादिष्वेव वर्त्तते' इति, तत्कथं `अमनुष्ये' इत्युच्यमाने फलादिष्वभिधेयेषु भवति ?नैष द्वोषः;द्वौ ह्यमनुष्यशब्दौ -- रूढः, व्युत्पन्नश्च। तत्र `सभा राजाऽमनुष्यपूर्वा' (2.4.23) इत्यत्र रूढिशब्दस्य ग्रहणम्, इह त्वितरस्य मनुष्यादन्य वर्त्तमानस्य।।

145. कृकणपर्णाद्भारद्वाजे। (4.2.145)
`भारद्वाजशब्दोऽपि देशवचन एव,न गोत्रशब्दः'इति। देश एव भारद्वाजे कृकणपर्णशब्दवृत्तेः सम्भवात्।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
चतुर्थाध्याये द्वितीयः पादः।
*********************************