सामग्री पर जाएँ

काशिकाविवरणपञ्जिका/चतुर्थोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः काशिकाविवरणपञ्जिका
तृतीयः पादः
[[लेखकः :|]]
चतुर्थः पादः →

अथ चतुर्थोऽध्यायः।
तृतीयः पादः।
 1.युष्मदस्मदोरन्यतरस्यां खञ्च। (4.3.1)
`तत्र वषम्याद्यथासंख्यं न भवति' इति। द्वे हि प्रकृती, प्रत्ययाश्च त्रय इति वैषम्यम्। ननु च ख़ञ्छावेवानेन विधीयेते, अण्प्रत्ययस्त्वन्यतरस्यांग्रहणेन यथाप्राप्तस्याभ्यनुज्ञाने कृते शास्त्रादेव भवति, तत्कृतो वैषम्यम् ? छोऽपि तर्हि तेनैवानेन विधीयते, तस्यापि हि चकारोऽभ्यनुज्ञापक एव। सोऽपि स्वशास्त्रादेव `वृद्धाच्छःट (4.2.114) इत्येतस्माद्भवतीति ? एवमपि वैषम्यम्। सर्वथा नास्ति यथासंख्यप्रसङ्ग।।

2. तस्मिन्नणि च युष्माकास्माकौ। (4.3.2)
`तस्मिन्निति साक्षद्विहितः खञ् निर्दिश्यते' इति। तस्मिन्नित्युक्ते प्रागेव तत्रैव प्रतीत्युत्पत्तेः। तत्र पुनः कारणं साक्षाद्विहित्वम्,आनन्तर्याच्च खञः, तस्यैव युक्तः। ननु च पूर्वसूत्रे ख़ञ्चेति चकारेण च्छोऽनुकृष्यते,वाचकदेशश्च वाच्य इति खञश्छ एवानन्तरो भवति। स्यादनन्तरो यदि चकारस्तस्य वाचकः स्यात्, न चासौ तस्य वाचकः । स हि समीपवर्तिनः पदार्थान्तरस्य सहायतामात्रमाचष्टे। खञः सहायतामाख्याय निवृत्ते चकारे सा सहायता प्रकरणाच्छेनैव विज्ञायते। तस्माच्चकारश्छस्य वाचको न भवतीति नासौ तादृशः।
तत्कृतयोस्तस्यानन्तर्य `निमित्तयोः' इत्यादि। द्वे हि निमित्ते-- खञणौ, निमित्तनावपि द्वावेवादेशौ, ततः समानत्वद्यथासंख्येनात्र भवितव्यमिति मन्यमानस् प्रश्नः। `योगविभागः इत्यादि' परिहारः।
`युष्मदीयः, अस्मदीयः' इति। यदि `तस्मिन्नणि च' इति नोच्येत तो यथा पूर्वसूत्रविहितयोः खञणोरिमावादेशौ भवतस्तथा च्छेऽपि स्याताम्। तस्मिंस्तु सति न भवतः।।

3.तवकममकावेकवचने। (4.3.3)
पूर्वेण युष्माकास्माकयोः प्राप्तयोः `प्रत्ययोत्तरपदयोश्च' (7.2.98) इति त्वमयोरेकवचनेतवकममकावादेशौ विधीयेते। `एकवचनपरयोः' इति। एकवचनं परं याभ्यां ते तथोक्ते। `निमित्तयोस्तु' इत्यादि। यथा पूर्व एव सूत्रे योगविभागान्निमित्तयोरादेशौ प्रति यथासंख्यत्वं न भवति, तथेहापि न भविष्यति। तस्य च यथासंख्याभावस्य पूर्वसूत्र एव योगविभागो हेतुः। तेन हि पूर्वत्र निमित्ते निवृत्ते यथासंख्ये कृते तस्मादिहाप्यनुवर्त्तते। ते निवृत्ते यथासंख्ये एवानुवर्त्तेते; अजहद्धर्मत्वादधिकाराणाम्। तस्मादिहापि पूर्वकयोगविभागाद्यवासंख्यभावः।
इह सर्वविधिभ्यो लुग्विधिर्वलवानित्येकवचनस्य लुकि कृते युष्मदस्मदोरेकवचनपरता न सम्भवतीति प्रत्ययलोपलक्षणेन समर्थयितव्या। तदपि प्रत्ययलोपलक्षमं प्रतिषेधलक्षणं प्रतिषेधयितुमाह-- `ननु च' इत्यादि। `वचनात्' इत्यादि परिहारः। यदि हि प्रत्ययलोपलक्षणं न स्यादिदं वचनमपार्थकं स्यादित्यभिप्रायः। ननु च यस्यैवक वचनपरता सम्भवति तस्य विशेषणार्थमेकवचनं स्यात्, कस्यैकवचनपरता सम्भवति ? निमित्तस्य खञादेः। निमित्ते त्वेकवचनपरत्वेन विशेष्यमाणे सतीहैव स्याताम्-- यौष्माकः पुत्रः, आस्माकः पुत्रः; अत्र ह्येकवचनपरत्वम्, तद्धि तस्योपपद्यते; इह च न स्याताम्-- तावकाः पुत्राः, मामकाः पुत्रा इति। न ह्यत्र निमित्तस्यैकवचनपरता सम्भवतीति ? नैतदस्ति; युष्मदस्मदी पूर्वसूत्रे विशेषे अभूताम्। तथा हि-- खञ्यणि च परतो युष्मदस्मदोरिति खञण्परता तयोः, अत एव युष्मदस्मदी विशेष्येते। तदिहापि तथाभूते एवानुवर्त्तेते; अजहद्धर्मत्वादधिकाराणामिति तयोरेवैकवचनपरत्वं विशेषणं युक्तम्। अथ वा तवकममकयोर्विधेयत्वेन प्राधान्यात् तयोरेवैतद्विशेषणं युक्तम्। तयोरेव तद्विशेषणं भवत् स्थानिद्वारकमेव भवति। यदि स्थानिनोरेकवचनपरता, एवमादेशौ स्थानिवत्त्वादेकवचनपरौ भवतः। तदनेनापि प्रकारेण युष्मदस्मदोरेकवचनविशेषणं युक्तम्। न तु कथञ्चिन्निमित्तस्य खञादेः।
`अथ वा' इत्यादि। पुर्वं पारिभाषिकमेकवचनमाश्रित्य व्याख्यातम्, इदानीं त्वर्तमाश्रित्य व्याचष्टे-- एकोऽर्थ उच्यते येन तदेकवचनम्। अत्र तु व्याख्याने `एकवचने' इति नेदं सप्तम्येकवचनम्। किं तर्हि ? प्रथमाद्विवचनान्तम्।।

4. अर्धाद्यत् । (4.3.4)

5. परावराधमोत्तरमपूर्वाच्च। (4.3.5)
`ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' (व्या.प.89) इतितदन्तविधिप्रतिषेधात् पूर्वेणाप्राप्तावयमारम्भः। तत्राधमोत्तमशब्दौ निन्दाप्रशंसावचनौ, तत्पूर्वादणि प्राप्ते सत्यमारम्भः। परावरशब्दौ यावदिक्छब्दौ तत्पूर्वादप्यण्येव। यौ तु दिक्छब्दौ तत्पूर्वादुत्तरसूत्रेण ठञि यति च। कथं पुनः `परावराधमोत्तमेभ्यः' इत्युच्यमाने परावरादिपूर्वता शक्या विज्ञातुम् ? इत्याह-- `अर्धादिति वर्त्तते' इत्यादि। इह हि पूर्वसूत्रादर्धादित्यनुवर्त्तते। तत्र परावराधमोत्तमेभ्यः परो योऽर्धशब्दः-- इत्येवं विशेषमाणेऽर्द्धशब्दसामर्थ्यादेव तस्य परावरादिपूर्वता विज्ञास्यते, तत्किं पूर्वग्रहणेन ? `तत्र' इति। परावरयोरदिक्शब्दयोः। `परेण' इति। उत्तरसूत्रेण ठञ्यतौ स्यातामिति। यदि पूर्वग्रहणं न क्रियेतेत्यभिप्रायः। `अस्मात्' इत्यादि। परावरादिपूर्वादेव यथा स्यादित्येतदेव हि पूर्वग्रहणस्य प्रयोजनम्। तेन हि पूर्वं कार्यं भवति, न परमित्येषोऽर्थः सूच्यते। तस्मात् दिक्शब्दपक्षेऽपि परावरपूर्वाद्यदेव भवति।।

6. दिक्पूर्वपदाट्ठञ्च। (4.3.6)
`पौर्वार्द्धिकम्' इति। पूर्वस्मिन्नर्थे जातः। ` तद्धितार्थ' (2.1.51) इत्यादिना समासः,ततस्तद्धितः। अथ पदग्रहणं किमर्थम्, दिक्पूर्वादित्येवोच्येत ? इत्याह-- `पदग्रहणम्' इत्यादि। असति हि पदग्रहणे स्वरूपविधिः स्यात्, ततश्च दिगर्द्धे जात इत्यत्रैव स्यात्। पदग्रहणे तु सति यन्नाम किञ्चिद्‌दिक्सम्बन्धिः पूर्वपदं तस्य ग्रहणमुपपन्नं भवति।।

7.ग्रामजनपदैकदेशादञ्ठञौ। (4.3.7)
`यतोऽपवादौ' इति। पूर्वेण प्राप्तस्य। `पौर्वार्धाः' इति।पूर्ववत्समासः। नन्वत्र पूर्वस्मिन्नर्द्धे ग्रामस्येति ग्राममपेक्षमाणस्यार्धशब्दस्यासामर्थ्यात् समासो नोपपद्यते ? नैष दोषः; प्रधानमात्रार्द्धं भवति। प्रधानस्य सापेक्षस्यापि समासः-- इत्येतत् `उपमितं व्याघ्रादिभिः सामान्यप्रयोगे' (2.1.56) इत्यत्र ज्ञापितम्।।

8. मध्यान्मः। (4.3.8)
मध्यशब्दो यो गहादिषु पृथिवीमध्यवचनः `मध्यमध्यमञ्चाण् चरणे' (ग.सू,.99) इति पठ्यते, ततस्तु तत एव विधिर्भवति। यस्त्वन्यस्तस्येह ग्रहणं वेदितव्यम्।।

9. अ साम्प्रतिके। (4.3.9)
न्याय्यं युक्तमित्यादिभिः पर्यायैः साम्प्रतिकशब्दार्थमाचष्टे--`{साम्प्रतिकम्--न्याय्यम्, युक्तम्, उचितम्, सममुच्यते--काशिका,पदमञ्जरी च} साम्प्रतिकं न्याय्यमुच्यते' (इति)। तथा हि प्रयोगो दृश्यते न बाह्यं प्राप्तमित्येवं वर्त्तितव्यमसाम्प्रतमिति। अत्र न्याय्यः प्रतिषेधः प्रतीयते। साम्प्रतमेव साम्प्रतिकम्। विनयादेराकृतिगणत्वात् `विनयादिभ्यश्च' (5.4.34) इति ठक्।।

10. द्वीपादनुसमुद्रं यञ्। (4.3.10)
`अनुसमुद्रम्' इति। समुद्रं समयाऽनुसमुद्रम्। `अनुर्यत्समया' (2.1.15) इत्यव्ययीभावः। `अणो मनुष्यवुञश्चापवादः' इति। `कच्छादिभ्यश्च' (4.2.133) इति प्राप्तस्याणः। `मनुष्यतत्स्थयोर्वुञ्' (4.2.134) इति प्राप्तस्य वुञः।।

11. कालाट्ठञ्। (4.3.11)
`कालविशेषवाचिनः' इति। अनेन कालादित्यर्थग्रहणम्, न स्वरूपस्येति। यदि हि स्वरूपगर्हणं स्यात्, सन्धिवेलादि (4.3.16) सूत्रेणाणो विधानमनर्थकं स्यात्; `प्राग्दीव्यतोऽण्' (4.1.83) इत्यनेनैव सिद्धत्वात्। इह त्वर्थग्रहणे ठञ्बाधनार्थत्वात् तस्यानर्थक्यं भवति। तस्मादर्थग्रहणमेतत्।
इह केचिच्छब्दा मुख्यया वृत्त्या काले वर्त्तन्ते-- मासोऽर्धमास इति,केचिद्गौण्या वृत्त्या-- कदम्बपुष्पसाहचर्यात् कालः कदम्बपुष्पः,व्रीहिपलालेन साहचर्यात् कालो व्रीहिपलाल इति; तेषामिहोभयेषामपि ग्रहणम्। अत एवाह-- `यथा कथञ्चित्' इति. येन केनचित्प्रकारेणेत्यर्थः। `गुणवृत्त्याऽपि' इति। अनेन यथाकथञ्चिदित्यस्यार्थं विस्पष्टीकरोति। औपचारिकी, वृत्तिः, अप्रधानभूता वृत्तिरित्यर्थः। अपिशब्दान्मुख्यायपि वृत्त्या। ननु च मुख्ये सति गौणस्य ग्रहणमयुक्तम्, गौणमुख्ययोर्मुख्ये, कार्यसम्प्रत्ययात् (व्या.प.4) ? नैष दोषः; आचार्यप्रवृत्तिर्ज्ञापयति-- गौणस्यापि कालस्य ग्रहणमिति, यदयं सन्धिवेलादिसूत्रे (4.3.16) प्रकृतेन कालग्रहणेन नक्षत्राणि विशिनष्टि। न हि मुख्यार्थः कालो नक्षत्राणां विशेषणमुपपद्यते। तेषु मुख्यस्य कालत्वस्यासम्भवात्।।

12. श्राद्धे शरदः। (4.3.12)
`ऋत्वणोऽपवादः'इति। सन्धिवेलादिसूत्रेण (4.3.16) प्राप्तस्य। `{श्राद्ध इति न कर्म गृह्यते' इत्येव मूलपाठो दृश्यते।`श्राद्ध इति कर्म गृह्यते-- पदमञ्जरी।} श्राद्धं इति न कर्म गृह्यते' इति। क्रियाविशेषः कश्चित् शास्त्रोक्तेन विधिना साध्यः श्राद्धग्रहणेन गृह्यते, न तु श्रद्धावान् पुरुषः। कुत एतत् ? तस्य प्रत्ययेनानाभिधानात्। शारदिकशब्देन ह्यभिधानशक्तिस्वाभाव्यात् कर्मण एवाभिधानम्, न पुरुषस्य।।

13. विभाषा रोगातपयोः। (4.3.13)

14. निशाप्रदोषाभ्याञ्च। (4.3.14)

15. श्वसस्तुट् च। (4.3.15)
तस्य {तस्य चेति इति मूलपाठः;पदमञ्जरीश्च।} वेति। ठञः। कुत एतत् ? तस्य विधीयमानतया प्राधान्यात्, प्रधाने च कार्यसम्प्रत्ययात्। स च तुडागम इकादेशे कृते भवतीति वेदितव्यम्। ननु सन्नियोगशिष्टत्वात् तुटस्तेनैव तावद्भवितव्यम्, पश्चादङ्गसंज्ञायामभिनिर्वृत्तायामिकादेशेन ? नैतदस्ति; उपेदशावस्थायामेव हीकादेशे कृते न भवितव्यम्, ज्ञापकात्। यदयं `वुञ्छण्कठच्' (4.2.80) इति प्रत्ययस्वरार्थमनुबन्धं चकारं करोति। प्रत्ययसंज्ञायाः सन्नियोगाद्धि प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदात्तत्वम्, किञ्चित्करणेन ? तस्माच्चित्करणाद्विज्ञायते-- सन्नियोगशिष्टेभ्योऽपि पूर्वमिकादेशो भवति। तेन ठग्ग्रहणान्यङ्गसंज्ञाभूतानीकमेव बोधयन्तीति तुडपि तस्यैव भविष्यतीति विज्ञायते। `एताभ्याम्' इत्यादि। श्वःशब्दोऽयमव्ययं कालवाची। तेन यदा ठञ्त्यपौ न भवतः,तदा `सायञ्चिरम्'(4.3.23) इत्यादिना ट्युट्युलौ अपि भवतः।।

16.सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्। (4.3.16)
`ठञोऽपवाद-ट इति। `कालाट्ठञ्' (4.3.11) इति प्राप्तस्य। अथाण्ग्रहणं किमर्थम्, यथाविहितमेवोच्येत,तेनैवमुच्यमाने न प्राप्नोतीत्याशङ्कनीयम्, यदि ठञ् स्यात् पुनर्वचनमनर्थकं स्यात्, तस्माद्वचनप्रामाण्याद्यो विहितो न स प्राप्नोति, ठञ्प्रत्ययेन बाधितत्वात् स एव भविष्यति, स वाच्य ? इत्यत आह-- `अण्ग्रहणम्' इत्यादि। सन्धिवेलादिषु पौर्णमासीशब्दो वृद्धः पठ्यते। स्वातिरिति नक्षत्रशब्दो वृद्धोऽस्ति। तत्र यद्यण्ग्रहणं न क्रियेत, ताभ्यां परत्वाट्ठञा छे बाधिते पुनर्वचनाच्छ एव स्यात्। तस्मात् तनपि बाधित्वा वृद्धादणेव यथा स्यादित्येवमर्थं पुनरण्ग्रहणम्। `तैषम्, पौषम्' इति। तिष्यपुष्पशब्दाभ्यां `नक्षत्रेण युक्तः कालः' (4.2.3) इत्यण्, तस्याणो `लुबविशेषे' (4.2.4) इति लुप्, ततोऽनेनाण्, तिष्यपुष्ययोर्नक्षत्राणि' (वा.808) इति यलोपः।
`संवत्सरात्फलपर्वणोः'इति। संवत्सरशब्दादण्भवति फले पर्वणि चाभिधेये। सांवत्सरं फलम्, सावंत्सरं पर्व वा। सांवत्सरिकमन्यत्।।

17. प्रावृष एण्यः। (4.3.17)
अथ किमर्थं प्रत्यये मूर्धन्यः पठ्यते, न `रषाभ्याम्' (8.4.1) इत्येनैव णत्वं भविष्यति ? नैवं शक्यम्, इह हि न स्यात्-- प्रावृषेणिति पदान्तत्वात्।।

18. वर्षाभ्यष्ठक्। (4.3.18)
अथ किमर्थं ठग्विधानम्,कालाट् (4.3.11) ठञैव सिद्धत्वात्,उभयत्रापि तदेव रूपमिति ? नैवम्; ठकि सति प्रत्ययस्वरेणान्तोदात्तत्वं स्यात्, ठञि तु सति `ञ्नित्यादिर्नित्यम्' (6.1.197) इत्याद्युदात्तत्वम्।।

19.छन्दसि छञ्। (4.3.19)

20.वसन्ताच्च। (4.3.20)

21. हेमन्ताच्च। (4.3.21)
`योगविभाग उत्तरार्थः' इति। `सर्वत्राण् च तर्लोपश्च' (4.3.22) इति वक्ष्यति, स हेमन्तशब्दस्यैव यथा स्यात्, वसन्तस्य मा भूत्। यदि `हेमन्तवसनताभ्याम्' इत्येकयोगः क्रियेत, ततो वसन्तस्यापि स्यात्; तस्य ह्युत्तरत्रानुवृत्तेः।।

22. सर्वत्राण् च तलोपश्च। (4.3.22)
छन्दसि पूर्वेण ठञि प्राप्ते भाषायामपि ऋत्वणि चैतदुच्यते। `सर्वत्रग्रहणम्' इत्यादिनि सर्वत्रग्रहणस्य प्रयोजनमाचष्टे। `छन्दसि भाषायाञ्च' इत्यादिना छन्दोऽधिकारनिवृत्तेः फलं दर्शयति। `ननु च' इत्यादि। अस्वरित्वादेव च्छन्दसीति नानुवर्तिष्यते, ततो नार्थश्छनदोऽधिकारनिवृत्त्यर्थेन सर्वत्रग्रहणेनेत्यभिप्रायः। `सैव' इत्यादिना यासावस्वरितत्वादननुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते। किमर्थमित्याह-- `प्रयत्नादिक्येन' इत्यादि। प्रत्यत्नाधिक्यमेतदेव शब्देनाख्यातम्। तेन हेतुना पूर्वसूत्रेऽपि सर्वत्रशब्दस्य सम्बन्धो यथा स्यादित्येवमर्थः शब्देनाख्यायते। कस्मात् पुनः पूर्वसूत्रेऽपि सर्वत्रग्रहणस्य सम्बन्ध इष्यते ? इत्याह-- `हैमन्तिकमिति हि' इत्यादि। हिशब्दो हेतौ। आचार्या हि हैमन्तिकमिति भाषायां ठञं स्मसन्ति। स चैवं भाषायामपि सिद्ध्यति, यदि पूर्वसूत्रेऽपि सर्वत्र ग्रहणस्य सम्बन्धो भवति। तत्र हि सति पूर्वसूत्रस्यायमर्थो भवति-- हेमन्ताच्च सर्वत्र च्छन्दसि भाषायामपि ठञ् भवतीति। `कः पुनरनयोरणो विशेषः'इति। न कश्चिदिति भावः। `ऋत्वणि हि' इत्यादिना विशेषं दर्शयति। `हैमन्ती' इति। `टिड्ढाणञ्' (4.1.15) इति ङीप्। `तदेवम्' इत्यादि। यत एव पूर्वसूत्रेण ठञ् भवत्यनेनाण् तलोपसहितः,तेन त्रीणि रूपाणि भवन्ति।।

23.सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च। (4.3.23)
`कालाट्ठञ्' (4.3.11) इति ठञि प्राप्ते सायमादिभ्यः ट्युट्युलौ विधीयेते, तयोश्च तुडागमः। ठञपवादत्वाच्च् ट्युट्युलोः। ठञैव च्छस्य बाधित्वादेताभ्यां पुनश्छस्य सम्प्रधारणैव नास्ति। तेन वृद्धादपि ट्युट्युलावेव भवतः-- प्राक्तनमिति। `तयोश्च' इत्यादि। यद्यनादिष्टयोस्तुट् स्यात् तदा युरूपौ प्रत्ययौ न भवत इत्यनादेशो न स्यात्। तस्मादादिष्टयोस्तयोः कृतादेशयोस्तुडागमः। एतच्च `घकालतनेषु काल नाम्नः' (6.3.17) इति निर्देशाल्लभ्यते. न ह्यनादिष्टयोस्तुड्‌विधानेन तनशब्द उपपद्यते। अथ प्रत्ययोष्टित्करणं किमर्थम्, न तुट एव टित्त्वेन प्रत्ययोरपि टित्त्वं विज्ञास्यत इति, यतस्तद्‌ग्रहणेन ग्रहणादागमानाम् ? नैतदस्ति; युक्तं यत् प्रत्ययधर्मा आगमे भवन्ति तस्य प्रत्ययभक्तत्वात्, नत्वागयधर्मा प्रत्यये। तस्माट्टित्कार्यार्थं प्रत्ययोरपि टित्त्वमासज्यते। `स्यतेरन्तकर्मणः' इति। `षोऽन्तकर्मणि' (धा.पा.1147) इत्यस्य । `प्राह्णे प्रगे इत्येकारान्तम्' इति। निपात्यत इति सम्बन्धः। ननु च `घकालतनेषु कालनाम्नः' (6.3.17) इति सप्तम्या अलुकैव सिद्धम्, तदपार्थकं निपातनम् ? यत्र तर्हि सप्तम्यर्थो नास्ति तदर्थं निपानम् --- ग्राह्णः सोढोऽस्य प्राह्णेतनः, प्रगः सोढोऽस्य प्रगेतन इति। अत्र हि `तदस्य सोढम्' (4.3.52) इति प्रथमासमर्थात्प्रत्ययविधानात्सप्तम्यर्थो नास्ति। तदभावत्सप्तम्यपि नास्त्येव।
`चिरपरुत्परारिभ्यस्त्नो वक्तव्यः' इति। व्याख्येय इत्यर्थः। व्याख्यानं तु `तद्धिताः' (4.1.76) इत्यत्रैव कृतम्। एवमुत्तरत्रापि वेदितव्यम्। चिरशब्दस्य सूत्रे चोपादानाट्ट्युलावपि भवतः।
`प्रगस्य च्छन्दसि गलोपश्च' इति।वक्तव्य इति सम्बन्धः। वक्तव्यशब्दस्य स एवार्थः। व्याख्यानात् त्विहापि `प्रत्नपूर्वविश्वेमात् थाल् च्छन्दसि' (5.3.111) इतिनिपातनमाश्रित्य कर्त्तव्यम्।

`अन्ताच्चेति वक्तव्यम्' (इति)। अन्तशब्दाड्‍डिमज्भवतीत्येतदर्तरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतमेव। डिमचो डित्करणं पश्चादित्यस्य टिलोपार्थम्। ननु च `अव्ययानां भमात्रे टिलोपो वक्तव्यः' (वा.842) इत्यनेनैव सिद्धम् ? न सिध्यति; अनित्यत्वात् तस्य। यथा आरातीय इत्यत्र न भवति, तथेहापि न भवतीति कस्यचिद्‌भ्रानति स्यात्, अतस्तन्निरासार्थं डित्करणम्।।

24. विभाषा पूर्वाह्णापराह्णाभ्याम्। (4.3.24)
`{पूर्वाह्णेतनम्--काशिका} पूर्वाह्णेतनः' इति। अह्नः पूर्वो भाग इति पूर्वादिसूत्रेणै (2.2.1) कदेशिसमासः। `राजहःसखिभ्यष्टच्' (5.4.91) इति टच् समासान्तः, `अह्नोऽह्न एतेभ्यः' (5.4.88) इत्यह्नादेशः,`अह्नोऽदन्तात्' (8.4.7) इति णत्वम्। यदाऽपत्यम्यन्तात् प्रत्ययस्तदा पूर्वाह्णतन इति भवितव्यमिति; सप्तम्यभावात्। सप्तम्यभावस्तु प्रथमासमर्थात् तद्धितोत्पत्तेः।।

25.तत्र जातः। (4.3.25)
`अणादयो घादयश्च' इति। एकेनादिशब्देनाणादीनामिहोत्सर्गाणां ग्रहणम्, द्वितीयेन घादीनां शेषाधिकारविहितानाम्। स्रौघ्नः,माथुरः' इति। `प्राग्दीदीव्यतोऽण्' (4.1.83) । `औत्सः, औदपानः' इति। `उत्सादिभ्योऽञ्' (4.1.86)। `राष्ट्रियः,अवारपारीणः' इति। `राष्ट्रावारपाराद्घखौ' (4.2.93)। `शाकलिकः, मालविकः' इति। `वाहीकग्रामेभ्यश्च' (4.2.117) इति ठञ्ञिठौ। `कात्त्रेयकः, औम्भेयकः' इति। `कत्त्र्यादिभ्यो ढकञ्' (4.2.95)।।

26. प्रावृषष्ठप्। (4.3.26)
`एण्यस्यापवादः' इति। `प्रावृष एण्यः' (4.3.17) इति प्राप्तस्य।।
 
27. संज्ञायां शरदो वुञ्। (4.3.27)
`समुदायेन चेत्संज्ञा गम्यते' इति। अनेन समुदायोपाधित्वं संज्ञाया दर्शयति।प्रकृतिप्रत्ययसमुदायेन चेत्संज्ञा गम्यते इत्यर्थः। यद्येवम्, शारदका दर्भा इतिदर्भशब्दस्य प्रयोगो न प्राप्नोति, प्रत्ययान्तेनाभिहितत्वात् ? नैष दोषः; यथैव हि शारदकशब्दो दर्भविशेषस्य नामधेयं तथा मुद्गविशेषस्यापि। तत्रासति दर्भशब्दप्रयोगेऽनेकार्थसाधारणत्वात् कस्य नामधेयमिति सन्देहः स्यात्--- कोऽर्थः शारदकशब्दे विवक्षित इति। तस्मादसन्देहार्थो दर्भशब्दो उपादीयते। `संज्ञाधिकारम्' इत्यादि। `केचित्' इति वचनात् केचिन्नानृवर्त्तयन्तीत्युक्तं भवति।।

28. पूर्वाह्णपराह्णार्द्रामूलप्रदोषावस्कराद्‌वुन्।
`पूर्वाह्णकः,अपराह्णकः' इति। पूर्ववदेकदेशिसमासादिकं कार्यं विधेयम्-- `विभाषा पूर्वाह्णापराह्णाभ्याम्' (4.3.24) इति, तत्र ट्युट्युल्‌विधिश्च। `आर्द्रकः, मूलकः' इति। `नक्षत्रेण युक्तः कालः' (4.2.3) इत्यागतस्यार्थः `लुबविशेषे' (4.2.4) इति लुप् ततो वुन्। `निशाप्रदोषाभ्याम्'इति। ठञ्विधेः। `ठञादय एव ' आदिशब्देन ट्युट्युलादयो गृह्यन्ते।।

29. पथः पन्थ च। (4.3.29)

30. अमावास्याया वा। 94.3.30)
`एकदेशाविकृतस्य' इत्यादि। `अमावस्यदन्यतरस्याम्' (3.1.122) इत्यत्र ण्यत्यवृद्धिरेव निपात्यते। अवृद्धिस्तु वृद्धेरेकादेशभूततया विकारो भवतीत्येकदेशविवृतममावस्याशब्दस्योपपद्यते। ये तु सन्धिवेलादिषु ह्रस्वोपधमधीयते, तेषां वृद्ध्युपधस्य ग्रहणं न प्राप्नोति, न हि विकृतिः प्रकृतिं गृह्णाति। तस्माद्दीर्घ एव पाठो युक्तः।।।

31. अ च। (4.3.31)
अथ योग विभागः किमर्थः,न `अमावास्या अ च वा' इत्येवोच्येत, चकारो वुनोऽनुकर्षार्थो भविष्यति, वावचनञ्चोभयोर्विकल्पार्थम्, तेन ताभ्यां मुक्कतेऽणपि भविष्यति ? अस्त्येतत्; किन्त्वेकयोगे सति `सिन्ध्वपकराभ्यां कन्' (4.3.32) इति कन्नेव विकल्पेन कस्यचिद्‌भ्रान्तिः स्यात्; अतस्तन्निवृत्त्यर्थं योगविभागे हि सति व्यवधानतया विकल्पस्य कन् नित्यो विज्ञायते।।

32. सिन्ध्वपकराभ्यां कन्। (4.3.32)
`अपकरशब्दादौत्सर्गिकेऽणि' इति। प्राप्ते विधानमिति सम्बन्धः।।

33. अणञौ च।(4.3.33)
यथासंख्यार्थो योगविभागः। यदि `सिन्ध्वपकराभ्याञ्च कन्नणञः' इत्येकयोगः क्रियेत,ततो वैषम्यादेकैकस्याः प्रकृतेः प्रत्ययास्त्रयः स्युः।।

34. श्रविष्ठाफल्गुन्यनुरादास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्। (4.3.34)
नक्षत्राणः श्रवणे प्राप्ते लुगुच्यते। ननु च `नक्षत्रेभ्यो बहुलम्' (4.3.37) इत्यनेनैव लुग्भविष्यति ? सत्यमेतत्; तस्यैवायं प्रपञ्चः। उत्तरावपि योगौ प्रपञ्चौ तस्यैव वेदितव्यौ।श्रविष्ठादयश्चैते ` नक्षत्रेण युक्तः कालः' (4.2.3) इत्यनेनानगतस्याणः `लुबविशेषे' (4.2.4) इति कृते लुबन्ता वेदितव्याः।` स्त्रीप्रत्ययस्यापि' `लुक् तद्धितलुकि' (1.2.49) इति लुग्भवति' इति। ये स्त्रीप्रत्ययान्तास्तेषामुपसंख्यानमिति प्रतिपादनमित्य्रथः। तच्चोपरिष्टात् करिष्यते। चित्रायाष्टापो लुकि कृते पुनष्टाप् क्रियते।
`गौरादित्वान्ङीष्' इति। रेवतीरोहिणीत्यत्र।
`फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ' इति। स्त्रियामित्यपेक्ष्यते। तयोस्तु विधानसामर्थ्यान्न लुग्भवतिष। टस्य टकारो ङीबर्थः, अनो नकार आद्युदात्तार्थः। वक्तव्यशब्दो व्याख्येये वर्त्तते। व्याख्यानं तु कृतमेव च।
`श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः' इति। अत्र स्त्रियामिति नोपपद्यते। णकारो वृद्ध्यर्थः। वक्तव्यशब्दस्य स एवार्थः। व्याख्यानमपि करिष्यते च। कृतमेव।।

35. स्थानान्तगोशालखरशालाच्च। (4.3.35)
गोशालखरशालयोर्ह्रस्वान्तयोः पाठान्नपुंसकयोर्ग्रहणं विज्ञायते। नपुंसकलिङ्गता तु `विभाषा सेनासुरा' (2.4.25) इत्यादिना। यद्यपि नपुंसकयोर्ग्रहणम्, तथापि प्रतिपदिकग्रगणे लिङ्गविशिष्टस्यापि ग्रहणं भविष्यति इति स्त्रीलिङ्गाभ्यामपि लुग्भवत्येव। उदाहरणेऽप्यौत्सर्गिस्याणौ लुक्।।

36. वत्सशालाभिजिदश्वयुक्त्शतभिषजो वा। (4.3.36)

वत्सशालशब्दो नपुंसकलिङ्गो गृह्यते। कुत एतस्?व्यप्तेर्व्यायात;नपुंसकलिङ्गस्य हि ग्रहणे लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुग्न सिध्यति; न तु स्त्रीलिङ्गस्य ग्रहणे नपुंसकात्।
`बहुलग्रहणस्यायं प्रपञ्चः' इति। वत्सशालशब्दो यद्यपि नक्षत्रवचनो न भवति, तथापि बहुलवचनात् ततोऽपि लुग्भविष्यतीत्यभिप्रायः।।

37. नक्षत्रेभ्यो बहुलम्। (4.3.37)
`रोहिणः'इत्यादौ नक्षत्राणः पक्षे लुक्। `मृगशिराः'इति। `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः।`मार्गशीर्षः'इति। `ये च तद्धिते' (6.1.61) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाच्छिरसः शीर्षभावः। अथ बहुलग्रहणं किमर्थम् ? नपूर्वसूत्रादेव वाग्रहणमनुवर्तिष्यते ? इदं प्रयोजनम्-- न क्वचिदन्यदेव यथा स्यात्, तेन फल्गुन्यषाढाभ्यां टानौ सिद्धौ भवतः। श्रविष्ठाषाढाभ्याञ्छणपीति।।

38. कृतलब्धक्रीतकुशलाः। (4.3.38)
`ननु च' इत्यादि। जन्मवद्वस्तु जातशब्दस्यार्थः, कृतस्यापि जन्मास्त्येव, तस्माद्यद्यत्र कृतं जातमपि तत्तत्र भवति। `यच्च क्रीतम्' इत्यादि। प्राप्तं लब्धमुच्यते। क्रीतं प्राप्तमपपि तद्भवत्येव, तस्मात् क्रीतं लब्धमपि भवति। `शब्दस्यार्थस्याभिन्नत्वात्' इति।स्वजन्मन्यनुभूतकर्त्तृभावो जातशब्दस्यार्थः। जातशब्दस्यैव विशेषोपलक्षितपरव्यापारो स्वजन्मनिष्पत्तौ कृतशब्दस्यार्थः। प्राप्तिसामान्यं लब्धशब्दस्यार्थः। प्राप्तिविशेषो यस्य मूलहेतुका प्राप्तिः। स क्रीतशब्दस्यार्थः। न च सामान्यविशेषयोरेकार्थता युक्ता। मा भूत्पर्यायप्रसङ्ग इति भिद्यते शब्दार्थः। `वस्तुमात्रेण' इति। क्रीतलब्धयोर्यदाधारभूतं व्सतुमात्रं तस्याभिन्नरूपत्वात्क्रीतं लब्धं भवति। मात्रग्रहणं शब्दार्थव्यवच्छेदार्थम्। अत एवाह-- `शब्दार्थस्तु भिद्यत एव' (इति)। न हि येन रूपेण क्रीतशब्देन तत्प्रत्याय्यते तेनैव लब्धशब्देन। एवं जातकृतशब्दयोर्वस्तुत्वेनाभिन्नत्वम्। शब्दार्थद्वारेण तु भिन्नार्थत्वमेव। अन्येनैव हि रूपेण जातशब्देन तद्वस्तु प्रत्याय्यते, अन्येन कृतशब्देन।।

39. प्रायभवः। (4.3.39)
`प्रायभवग्रहणमनर्थकम्' इति। वैचित्र्यादन्यस्यार्थस्याभावादनर्थमित्युच्यते। वैचित्र्येण तु सार्थकमेव। कस्मात् पुनरर्थकमिति ? `तत्र भवेन कृतार्थत्वात्' इति। यत् `प्रायभवः'इत्यस्य साध्यम्, तस्य `तत्र भवः'(4.3.53) इत्यनेनैव साधितत्वादितिभावः। यो हि राज्ये प्रायेण भवति तत्रासौ भवत्येव। ततश्च तत्र भवे तस्यान्तर्भावात् `तत्र भवः' (4.3.53) इत्यनेनैव कृतं सम्पादनम्रिति किं प्रायभवग्रहणेन ? `अनित्यभवः' इत्यादिना परस्योत्तरमाशङ्कते।स्यादेतत्-- अनित्यभवः प्रायभवो नित्यभवस्तत्र भव इति, तस्मात् तत्र भवेन प्रायभव्सयासंग्रहान्न सिध्यति ? इत्याशङ्क्याह-- `मुक्तसंशयेन तुल्यम्' इति। मुक्तस्त्यक्तः संशयो येन तत् मुक्तसंशयम्।
न्याय्यस्तत्र भवोऽयमिति यो निश्चितस्तेन तुल्यं भवति। तथा हि-- स्रघ्ने भवो देवदत्तः स्रौघ्न इत्युच्यते, न चासौ स्रुघ्ने सदा भवति, अवश्यं हि कदाचिदुदग्देसादीनपक्रामति, अथ च तत्रभवप्रत्ययो भवति। यदि च नित्यभवस्तत्र भवः ? जिह्वामूले भवो वर्णः जिह्वामूलीय इत्यत्र `तत्र भवःर' (4.3.53) इत्यधिकारे जिह्वामूलाङ्गुलेश्छः' (4.3.क62) इति च्छो न स्यात्, न हि वर्णो नित्यं जिह्वामूले भवति। तस्मात् प्रायभव कककककककककस्य तत्रभवान्तर्भवात् ततो न ण्यतिरिच्यत इत्नर्थकं प्रयभवग्रहणम्।।

40. उपजानूपकर्णोपनीवेष्ठक्। (4.3.40)
जानुनः समीपम्, कर्णस्य समीपम्, नाव्याः समीपमिति-- `अव्ययं विभक्ति' (2.1.6) इत्यादिनाऽव्ययीबावः। `{औपजानुकः-- काशिका'} उपजानुकः' इति। `इसुसुक्तन्तात् कः' (7.3.51)।।

41. सम्भूते। (4.3.41)
`अवक्लृप्तिः'इत्यादि। अवक्लृप्ति = सम्भावना। प्रमाणानतिरेकः = आधारप्रमाणादाधेयप्रमाणस्यानतिरिक्तता, यस्यां सत्यां स्रवमाधेयमाधारमनुप्रविशति। `स्रुध्ने सम्भवति' (इति)। यस्तु स्रुध्ने सम्भाव्यते, स्रुघ्नप्रमाणान्नातिरिच्यते, तदनुप्रवशात् स सेनादिकोऽर्थ एवमुच्यते।।

42. कोशाड्ढञ्। (4.3.42)

`कौशेयं वस्त्रम्' इति। ननु च वस्रं कौशेयं न सम्भवति, किन्तु कृमिः, ततश्च कृमावेव स्यात्, न वस्त्रे; अपि च विशेषानभिधानात् खड्गसम्बन्धिनोऽपि कोशात् प्रत्ययः प्रसज्येतेत्याह-- `रूढिरेषा' इत्यादि। रूढिशब्दो हि यथाकथञ्चिदुत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिदवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, स च तैलपानक्रियारहित एव क्वचित् प्राणिविशेषे वर्त्तते। सस्माद्यद्यपि न कृमौ। अथ खङ्गकोशादुत्पत्तौ को दोषः, येन ततः प्रत्ययो नेष्यते ? खङ्गस्याबिधानं प्राप्नोति। स हि तत्र सम्भवतीति चेत् ? इतरस्मादपि तर्हि कोशात् प्रत्ययोत्पत्तौ च कृमेरभिधानं प्राप्नोति, स हि तत्र सम्भवति। अथ तत्रापि रूढिवशाद्वस्त्रस्याभिधानम्, न कृमेः। इतरस्मादपि तर्हि कोशादुत्पत्तौ वस्रस्याभिधानं न खङ्गस्य ? एवं मनयते-- यद्यपि सम्भूताधिकारे कोशाड्ढञ् विधीयते, तथापि कौशेयशब्दान्न सम्भवोऽर्थ प्रतीयते, अपि तु विकारोऽर्थः; रूढिवशात्। कौशेयं वस्रमितिकोशविकारो वस्रमित्यर्थः। तथा च वार्त्तिककारेणोक्तम्-- `विकारे कोशाड्ढञ्, `{सम्भूतार्थानुपपत्तिः--वा.पाठः'} सम्भूतार्थानुपपत्तेः' (वा. 1,2(4.3.42) इति। विकारस्च कौशेयशब्दात् कृमिकोशस्य प्रतीयते, न खङ्गकोशस्य ; रूढिवशात्। तस्माद्यस्य विकारः प्रतीयते तदभिधायिन एव कोशशब्दाद्युक्कतः प्रत्ययः नेतरस्मात्।।

43. कालात्साधुपुष्प्यत्पच्यमानेषु। (4.3.43)
कालादिति स्वर्यते, प्रकृतीरुत्तरा विशेषयितुम्। न च स्वरूपग्रहणे सत्युत्तराः प्रकृतयः शक्या विशेषयितुम्; स्वरूपस्याधारणत्वात्। तस्मादर्थग्रहणमेवैतत्। तेनकालविशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्याह-- `कालविशेषवाचिब्यः' इत्यादि। `हैमनः' इति। `सर्वत्राण् च तलोपश्च' (4.3.22)। `शैशिरः' इत्यादौ सन्धिवेलादिसूत्रेण (4.3.16) ऋत्वण्।।

44. उप्ते च। (4.3.44)
`योगविभाग उत्तरार्थः' इति। उत्तरत्र वुञ् उप्त एव यथा स्यात्; साध्वादिषु मा भूत्।।

45. आश्वयुज्या वुञ्। (4.3.45)
`ठञोऽपवादः' इति। `कालाटठ्ञ्' (4.3.11) प्राप्तस्य। ननु च कालाट्ठञ् विहितः। न चाश्वयुजीशब्दः कालवाची, ततः कुतष्ठञ् ? इत्याशङ्क्य कालवाचित्वमाश्वयुजीशब्दस्य प्रतिपादयितुमाह--- `अश्विनीभ्यां युक्ता' इत्यादि।।

46. ग्रीष्मवसन्तादन्यतरस्याम्। (4.3.46)

47. देयमृमे। (4.3.47)

48. कलाप्यश्वत्थयवबुसाद्‌वुन्। (4.3.48)
कथं पुनः कलापादयः शब्दाः काले वर्त्तन्ते, यावता मयूरादिषु तेषां वृत्तिः प्रसिद्धेत्यत आह-- `कालाप्यादयः शब्दाः' इत्यादि। एवमेव विषयं स्पष्टीकरोति-- `यस्मिन्काले' इत्यादि। अश्वत्थशब्दोऽत्र वृक्षविशेषे रूढः। तेन सर्व एव कालः सम्बध्यत इति तद्‌द्वारेण कालविशेषो न संज्ञायते। तस्मादश्वत्थफलसहचारिणि कालेऽश्वत्थशब्दो वर्त्तत इति दर्शयितुमाह-- `यस्मान्नश्वत्थाः फलन्ति' इत्यादि। अश्वत्थशब्दो यद्यपि वृक्षे वर्त्तते, तथापि फले वर्त्तते एव।।

49. ग्रीष्मावरसाद्‌वुञ्। (4.3.49)
`अण्ठञोरपवादः' इति। ग्रीष्मशब्दादृत्वणोरपवादः। अनरसमाशब्दात् कालाट्ठञः। अवरा चासौ समा चेत्यवरसमा।।

50. संवत्सराग्रहायणीभ्यां ठञ्च। (4.3.50)
कालाट्ठञि प्राप्ते वचनम्। तेन ठञ् न वक्तव्य इति। वुञि विकल्पिते विनापि ठञ्ग्रहणेन पक्षे यथाप्राप्तं ठञेव भवतीत्यभिप्रायः। `ठञ्ग्रहणम्' इत्यादि। तत्र यद्यत्र ठञ्ग्रहणं न क्रियेत `सन्धिवेला' (4.3.16) इत्यादिषु `संवत्सरात्फलपर्वणोः' (ग.सू.104) इति पाठात् सन्धिवेलाद्यणष्ठञपवादत्वादणत्वेन काले विवक्षिते वुञा मुक्तेऽणेव स्यात्। ठञ्ग्रहणादणमपि बाधित्वा ठञेव भवति।।

51. व्याहरति मृगः। (4.3.51)
`नैशिकः,नैशः। प्रादोषिकः, प्रादोषः' इति। निशाप्रदोषाभ्यां (4.3.14)ठञ्। तेन मुक्ते पक्ष ऋत्वणेव भवति।।

52. तदस्य सोढम्। (4.3.52)
कालादिति वर्त्तते, न च कालो जीयते, तस्मान्निसासहचरितमिहाध्ययनं गौण्या वृत्त्या निशेत्येवमादिभिरभिधीयत इति विज्ञायते। अत एवाह-- `निशासहचरितमध्ययनं निशा' इति।।

53. तत्र भवः। (4.3.53)

54. दिगादिभ्यो यत्। (4.3.54)
`अणश्छस्य चापवादःर' इति। यद्दिगादिषु वृद्धं वाप्यादि ततश्छस्यापवादः, शेषेभ्यस्त्वणः प्राग्दीव्यतीयस्य।
अथ मुखजघनयोश्च किमर्थः पाठो दिगादिषु , यावता शरीरावयवात् ताभ्यामुत्तरसूत्रेणैव (4.3.55) भविष्यति ? इत्याह-- `मुखजघनयोः' इति। सेनावयववाचिनौ हि यौ मुखजघनशब्दौ तौ शरीरवयववाचिनौ न भवतः। पाणिपादाद्यवयवस्वभावं हि शरीरम्, न चैवमात्मिका सेना; किं तर्हि ? रथादिसमुदायात्मिका।
`उदकात्संज्ञायाम्' इति। उदकशब्दात् संज्ञायां गम्यमानायां यद्भवति-- उदक्या स्त्री, रजस्वलोच्यते। न चात्र प्रकृत्यर्थः प्रत्ययार्थो वा विद्यते। सा च तयोरविद्यमानता संज्ञाग्रहणेन विज्ञायते। संज्ञायामन्यत्र-- औदको मत्स्य इति, अत्राणेव भवति।।

55. शरीरावयवाच्च। (4.3.55)
`अणोऽपवादः' इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। यस्तु पादादिवृद्धस्ततः परत्वाद्यत् छं बाधते।।

56. दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्। (4.3.56)
दृतिकुक्षिभ्यां शरीरावयत्वाद्यति प्राप्ते;कुक्षिशब्दो धूमादष्वपि पठ्यते, तस्मात् `धूमादिभ्यश्च' (4.2.127) इति वुञि प्राप्ते; शेषेभ्यस्त्वणि ढञि विधीयते।
अस्तिशब्दस्तिङन्तो मा विज्ञायीत्यत आह-- `अस्तिशब्दः' इत्यादि। `विभक्तिस्वरप्रतिरूपकाश्चेति निपाता भवन्ति' इति निपातसंज्ञकं तिङन्तसदृशं प्रातिपदिकमेतत्, न तिङन्तः। एतच्च तिङन्तेन समानार्थम्, यथा-- अस्तिक्षीरा ब्राह्मणीति। भिन्नार्थश्च यथा धने वर्त्तते, यथा--- अस्तिमानिति। धनवानिति गम्यते । तदिह विशेषस्यानभिधानादुभयस्यापि ग्रहणम्।।

57. ग्रीवाभ्योऽण्‌ च। (4.3.57)
बहुवचननिर्देशाद्बहुवचनान्तात् प्रत्ययेन भवितव्यम्, अन्यथा ह्येकवचेनैव निर्देशं कुर्यादिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह-- `ग्रीवाशब्दःर' इत्यादि। अर्थविशेषाद्बहुवचननिर्देशः कुतः, न तु बहुवचनान्तादेव यथा स्यादिति दर्शयति।।

58. गम्भीराञ्ञ्यः। (4.3.58)
`बहिर्देव' इत्यादि। बहुर्देवपञ्चजनेभ्यश्च ञ्यो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- चकारोऽत्र वर्त्तते, तेन बहिरादिभ्योऽपि ञ्यो भविष्यतीति।।

59. अव्ययीभावाच्च। (4.3.59)
`किं तर्हि' इत्यादि। कथं पुनरव्ययीभावादिति सामान्येनोच्यमानः प्रत्ययः परिमुखादेरेव ? इत्यत आह-- `परिमुखादीनाञ्च' इत्यादि। चशब्दो हेतौ। न ह्यन्तत् कार्यमस्ति परिमुखादिगणपाठस्य। तत्र यद्यप्येतदपि न स्यात्, विध्यर्थमेव तस्य स्यात्, तस्मात् परिमुखादेरेव भवति, न सर्वस्मादव्ययीभावात्। यद्येवम्, परिमुखादेरित्येवं वक्तव्यमित्याह-- `तेषाम्' इत्यादि। यदि हि परिमुखादेरित्युच्यते, ततोऽसत्यव्ययीभावग्रहणे तत्पुरुषेभ्योऽपि परिमुखादिभ्यः प्रत्ययः स्यात्, तस्मिंस्तु सति न भवति-- परिगतं मुखं परिमुखमिति प्रादिसमासः, तत्र भवः परिमुखः; अणेव भवति। अपि चोत्तरार्धमव्ययीभावग्रहणमवश्यमेव कर्त्तव्यम्-- `अन्तःपूर्वपदाट्ठञ्' (4.3.60) । `ग्रामात्पर्यनुपूर्वात्' (4.3.61) इत्यव्ययीभावाद्यथा स्यात्। `पारिहनव्यम्' इति। `ओर्गुणःर' (6.4.146), `वान्तो यि प्रत्यये' (6.1.79) इत्यवादेशः। `औपकूलम्' इति। `अव्ययं विभक्ति' (2.1.6) इत्यादिनाऽव्ययीभावः। एष च परिमुखादिषु न पठ्यत इत्यणेव भवति। अत्र पिरमुखमिति कथमव्ययीभावः ? यावता अपपरिबहिरञ्चवः पञ्चम्या (2.1.12) समस्यन्ते, पञ्चमी च परिणा कर्मप्रवचनीयेन योगे भवति, कर्मप्रवचनीयसंज्ञा तु `अपपरी वर्दने' (1.4.88) इत्यनेन, न च परिमुखे वर्जनं गम्यते, किं तर्हि ? सर्वतोभावः ? एवं तर्हि `अव्ययम्' (2.1.6) इति योगविभागव्ययीभावो भविष्यति।
अन्ये तु येऽत्र परिहनुप्रभृतयोऽव्ययीभावाः, ते `अपपरिबहिरञ्चवः पञ्चम्या' (2.1.12) इत्यनेनैव भवन्ति। अत्र येष्वपि वर्जनं न गम्यते, ततस्तेष्वयि `अव्ययम्' (2.1.6) इति योगविभागेनैव। ये तूपसीरादय उपपूर्वाः, ते सामीप्ये `अव्ययम्' (2.1.6) इत्यादिना। `अनुगङ्गम्' इति। `यस्य चायामः' (2.1.16) इत्यव्ययभावः। अन्ये तु येऽनुसीरादयोऽनुपूर्वास्ते पश्चादर्थेऽव्ययमित्यादिना।।

60. अन्तः पूर्वपदाट्ठञ्। (4.3.60)
`अन्तःशब्दो विभक्त्यर्थे समस्यते' इति। `अव्ययं विभक्ति' (2.1.6) इत्यादिना। विभक्त्यर्थस्त्वधिकरणम्, अन्तःशब्दस्याधिकरणप्रधानत्वात्।
समानशब्दाट्ठञ्वक्तव्यः' इति । वक्तव्यशब्दो व्याख्येये। तत्रेदं व्याख्यानम्-- इहान्तःपूर्वादित्येवं सिद्धे यदधिकं पदग्रहणं तदधिकमिह कार्यं भवतीत्येवमर्थं क्रियते, तेन समानशब्दादपि इञ् भवतीति। एतेन शब्दान्तरादेव।
अध्यात्मादिभ्य ऊर्ध्वन्दमादूर्ध्वदेहाल्लोकोत्तरपदाच्च ठञ् भवतीति वेदितव्यम्। `आध्यात्मिकम्' इति। `आध्यात्मिकम्' इति। आत्मन्यधि अध्यात्मम्, विभक्त्यिर्थेऽव्ययीभावः। `अनुशतिकादीनाञ्च' (7.3.20) इत्युभयपदवृद्धिः। `अध्यात्मादिराकृतिगणश्चायम्' इति। यद्येवम्, `समानशब्दाट्ठञ् वक्तव्यः' (वा.454) इत्यद्यनर्थकम्, अध्यात्मादिभ्यश्चेत्यनेनैव सिद्धत्वात् ? नानर्थक्; अस्यैव प्रपञ्चार्थत्वात्। अध्यात्मादिरेव तत् प्रपञ्च्यते। ननु चाकारान्त ऊर्ध्वशब्दः, तत् कुत इह मकारान्तत्वमायातमित्ाह-- `ऊर्ध्वशब्देन' इत्यादि।
`ऐहलौकिकः, पारलौकिकः' इति। पूर्ववदुभयपदवृद्धिः।
`मुखतीयम्, पार्श्वतीयम्' इति। `अपादाने चाहीयरुहोः' (5.4.45) इति तसिः। `आद्यादिभ्य उपसंख्यानम्' (वा.634) इत्यौपसंख्यानिको वा। `अव्ययानां भमात्रे टिलोपः' (वा.842) इत्यनेन टिलोपः।
`मण्नीयौ च प्रत्ययौ वक्तव्यौ' इति। मध्यशब्दादित्यपेक्षते।
`मध्यो मध्यं दिनण् चास्मात्' इति। मध्यशब्दो मध्यम्भावमापद्यते, दिनण् चास्मात् प्रत्ययो भवति। `स्थाम्नः' इति। स्थामशब्दान्तात् प्रातिपदिकात्। अश्वस्येव स्थाम बलमस्येति बहुव्रीहिः, पृषोदरदित्वात् सकारस्य तकारः। अश्वत्थाम्नि भव इत्यण्, तस्य लुक्।
`आजिनान्ताच्च' इति। लुगिति सम्बध्यते। `वृकाजिनः' इति। अणो लुक्।
`समानस्य' इति। आनन्तर्यलक्षणा षष्ठी। समानशब्दादनन्तरष्ठञिष्यत इत्यर्थः।
`समानस्य' इति। आनन्तर्यलक्षणा षष्ठी। समानशब्दादनन्तरष्ठञिष्यत इत्यर्थः। `अध्यात्मादिषु' इति। वैषयिकेऽधिकरणे सप्तमी। अध्यात्मादिविषये ठञिष्यत इत्यर्थः। `कुग्जनस्य परस्य च' इति। चकारादीयश्च प्रत्ययः। `ऊर्ध्वन्दमाच्च देहाच्च' इति। ऊर्ध्वशब्दात् परस्मात् दमशब्दादूर्ध्वशब्दाद्देशशब्दाच्च ठगिष्यत इत्यर्थः। `ईयः कार्योऽथ मध्यस्य' इति। अथशब्दः समुच्चये। मध्यशब्दस्यानन्तर ईयः कार्य इत्यर्थः। `मण्मीयौ प्रत्ययौ तथा' इति। मध्यशब्दादित्यपेक्ष्यते। मण्मीयौ मध्यशब्दस्यान्तरौ कर्त्तव्यौ। `अजिनात्तथा' इति। अजिनान्तात् लुग्वक्तव्य इत्यर्थः।।

61. ग्रामात्पर्यनुपूर्वात्। (4.3.61)
`पारिग्रामिकम्' इति। `{ग्रामशब्दान्तादव्ययीभावात् परि--काशिका।}' ग्रामात् परि' इति। `अपरपरिबहिरञ्चवः पञ्चम्या' (2.1.12) इत्यव्ययीभावः। `आनुग्रामिकम्'इति। अत्रापि `अनुर्यत्समया' (2.1.15)।।

62. जिह्वामूलाङ्गुलेश्छठः। (4.3.62)
`यतोऽपवादः' इति।` शरीरवयवाच्च' (4.3.55) इति प्राप्तस्य।।

63. वर्गान्ताच्च। (4.3.63)

64. अशब्दे यत्खावन्यतरस्याम्। (4.3.64)
`छे प्राप्ते' इति। पूर्वसूत्रेण।।

65. कर्णललाटात्कनलङ्कारे। (4.3.65)
कर्णिकाशब्दश्चाभरणविशेषे रूढः। रूढिशब्देषु च नावश्यमपि कर्णसम्बन्धेन भवितव्यम्।।

66. तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः। (4.3.66)
`{ तस्य व्याख्याने- इति सूत्रभागः}तस्य व्याख्यानम्' इति। व्याख्यायतेऽनेनेति व्याख्यानम्, करणे ल्युट्। चकारात् `तत्र भवे च' इति। ननु च व्याख्यानं प्रत्ययार्थः, तस्य समीपे चकारः श्रूयत इति प्रत्ययार्थमात्रस्यैव समानजातीयस्य तेनानुकर्षणं न्याय्यम्, न तु समर्थविभक्तेरपि; समानजातीयस्य तु चकारः समुच्चयं करोति, यथा-- `केदाराद्यञ्च' (4.2.40) इति; प्रत्ययसमीपवर्त्तिना चकारेण प्रत्यय एव समुच्चीयते, यथा-- `ठञ् कवचिनश्च' (4.2.41) पादानात् पूर्वस्याः समर्थविभक्तेर्निवृत्तौ सत्यां भवार्थेऽपि षष्टीसामर्थ्यादेव प्रत्ययो युक्तः-- तदयुक्तमुक्तम्; तत्र भवे चेति, तस्य भवे चेति वक्तुं युक्तम् ? इत्यत आङ-- `वाक्यार्थसमीपे' इत्यादि। इहेतिरकरणेन तस्य व्याख्यान इत्येषोऽर्थः प्रत्यवमृश्यते। न तु व्याख्यानप्रत्ययार्थः। तस्मादितिकरणान्ततरमुच्चारितश्चकारस्तत्प्रत्ययवमृष्टस्य वाक्यार्थस्यैव समीपे श्रूयमाणस्तुल्यजातयीमेव वाक्यार्थं समुच्चिनोति। तेन भवार्थे सप्तमीसामर्थ्यादेव एव कृतः; अन्यथा हि `तस्य व्याख्याने च' इत्येवं ब्रूयात्। कः पुनरसौ वाक्यार्थ इत्याह-- `तत्र भवे' इति।
`न तु पाटलीपुत्रशब्दो व्याख्यातव्यनाम' इति। ननु च पाटलिपुत्रः कोशलया व्याख्यायते, नियतं तेन व्याख्यातव्येन भवितव्यम्, अन्यथा तस्य व्याख्यानी सुकोशला न स्यात्। तस्य व्याख्यानस्य पाटलिपुत्रशब्दो व्याख्यातव्यनाम भवतीति भावः ? नैतदस्ति; यदीह व्याख्यातव्यमभिप्रेतम्, न तस्यैतन्नाम भवतीति भावः। किञ्चेह व्याख्यातव्यमभिप्रेतम् ? यद्व्याख्यातव्यतया लोके प्रसिद्धतरम्। कुत एतत् ? व्याख्यातव्यनामग्रहणात्। इह हि व्याख्यातव्यनामग्रहणं व्याख्यातव्यार्थं तु न कर्त्तव्यमेव;विनापि हि तेन व्याख्याव्यनाम्न एव प्रत्ययसिद्धेः। तथा हि `तस्य ' इति तस्य प्रतियोगिव्याख्यानमुपात्तम्। तच्च व्याख्यातव्यस्यैव सम्भवति, नान्यस्य। तस्माद्यद्यत्तसय् व्याख्यातव्यं सामर्थ्यात्तदेव तस्येत्यनेन षष्ठ्यन्तेनोपादीयत इति विज्ञायते। ततश्चान्तरेणापि व्याख्याव्यनामग्रहणं व्याख्यातव्यनामाभिधायिन एव प्रत्ययो भविष्यतीति किं व्याख्यातव्यनामग्रहणेन ? तत् क्रियते व्याख्यतव्यतया लोके यः प्रसिद्धस्तदभिधायिन एव प्रत्ययो यथा स्यादित्येवमर्थम्। व्याकरणादयो ग्रन्थविशेषा लोके प्रसिद्धाः, न ते पाटलिपुत्रादयः। एवमपि नामग्रहणं न कर्त्तव्यम्, व्याख्यतव्यग्रहणसामर्थ्यादेव हि व्याख्यातव्यतया प्रसिद्धतरेभ्यः प्रत्ययो लभ्यत एव ? नैतदस्ति;व्याख्याने हि प्रत्ययार्थे व्याख्यानादेव व्याख्यातव्यवाचिनः प्रत्यये सिद्धे पुनर्व्याख्यातव्यग्रहणसामर्थ्याद व्याख्यातव्यतया ये प्रसिद्धास्तेब्यः प्रत्ययो लभ्यते, न तु तत्र भवे; तत्र सामर्थ्याभावात्। भवेऽपि चार्थे तत्र व्याख्यातया प्रसिद्धतराः, तदभिधायिभ्य एव प्रत्यय इष्यत इति; न तु यतः कुतश्चित्। तस्माद्भवाधिकारे रूढ्युपसंग्रहार्थं नामग्रहणं कर्त्तव्यम्।
अथ किमर्थं भवव्याख्यानयोर्युगपदधिकारः क्रियते ? इत्याह-- `भवव्याख्यानयोः' इत्यादि। ठञादीनपवादानत्राभिधास्यामीत्येवमर्थो युगपदनयोरधिकारः। ननु किमुच्यते-- अपवादविधानार्थं इति; प्रकृतानामणादीनां प्रत्ययानामर्थनिर्देशो यथा स्यात् ? इत्यत आह-- `कृतनिर्दशौ हि तौ' इति। कृतनिर्देशौ हि तावर्थौ। एकः `तत्र भवः' इति, अपरः `तस्येदम्' इति। तस्येदंविशेषत्वाद्व्याख्यानस्य।।

67. बह्वचोऽन्तोदात्ताट्ठञ्। (4.3.67)
`षात्वणत्विकम्' इति। `नातानतिकम्' इति। उभयत्र द्वन्द्वात्प्रत्ययः। `समासस्वरेणान्तोदात्ताः प्रकृतयः'इति। `समासस्य' (6.1.223) इत्यनेन बहुवचननिर्देशश्चैवंजातीयापरप्रकृत्यपेक्षया।
द्व्यचष्ठकं वक्ष्यति-- `द्व्यजृद्ब्राह्मण' (4.3.72) इत्यादिना। `सौपम्' इति। `तैङम्' इति। सुप्तिङ्शब्दौ प्रातिपदिकस्वरेणान्तोदात्तौ। `गतिस्वरेणाद्युदात्तः'इति। `गतिरनन्तरः' (6.2.49) इत्यनेन। अन्तग्रहणं विस्पष्टार्थम्; सर्वोदात्तस्य प्रातिपदिकस्यासम्भवात्। सामर्थ्यादेव तदन्तविधिर्भविष्यतीति, यथा-- `वर्णादनुदात्तात्तोपधात् तो नः' (4.1.39) इति। अपि चोदात्त इति वर्णग्रहणं सर्व तदन्तविधिं प्रयोजयतीति युक्त एव तदन्तविधिः।।

68. क्रतुयज्ञेभ्यश्च। (4.3.68)
`अनन्तोदात्तार्थ आरम्भः' इति। यद्येवम्, राजसूयिकम्, वाजपेयिकमित्येतदेवोपदाहरणद्वयं युक्तम्। राजसूयवाजपेयशब्दयोः कृदन्तोत्तरपदयोः प्रकृतिस्वरेण मध्योदात्तत्वादुत्तरपदं चाद्युदात्तमत्र। एकं व्याबन्तत्वात् कृत्स्वरेण, अपरं `यतोऽनाचः' (6.1.213) इति। समासे च कृते `गतिरकारकोपपदात् कृत्' (6.2.139) इति प्रकृतिभावेनाद्युदात्तमेवनावतिष्ठते; `{आग्निष्टोमिकः, नावयज्ञिकः--काशिका} आग्निष्टोमिकं नावयज्ञिकम्' इति। एतदुदादहरणद्वयमयुक्तम्, अग्निष्टोमनवयज्ञशब्दाभ्यां प्रत्ययस्वरेणान्तोदात्ताभ्यामनेनाप्राप्तेः ? न हि पूर्वेणानेन वा ठञि विशेषः। क्रतुसाहचर्यादत्रोदाहृतम्। शब्दः साहचर्याद्वर्त्तत इति विज्ञायते।।

39. अध्यायेष्वेवर्षेः। (4.3.69)

70. पौरोडाशपुरोडाशात् ष्ठन्। (4.3.70)
पुरोडाशस्येदमित्यन्तोदात्तः। तस्माद्बह्वचोऽन्तोदात्ताट्ठञि (4.3.67) प्राप्ते। पुरोडाशस्तु `लघावन्ते द्वयोश्च बह्वषो गुरुः' (फि.सू.2.42) इति मध्यादात्तः। अस्मादणि प्राप्ते ष्ठन् विधीयते। वकारो ङीषर्थः, नकार आद्युदात्तार्थः। तेषां संस्कारो मन्त्रः पौरोडाश इति। `पुरोडाशसहचरितःर' इति। सामर्थ्यात् साहचर्याद्वा पुरोडाशा येन मन्त्रण संस्क्रियन्ते पुरोडाशशब्दो वर्त्तते, न पुरोडाशेषु। कृत एतत् ? व्याख्यातव्यनामग्रहणानुवृत्तेः। न हि पुरोडाशा व्याख्यातव्यतया प्रसिद्धतराः।।

71. छन्दसो यदणौ। (4.3.71)

72. द्व्यजृद्‌ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक्। (4.3.72)
`अणोरपवादः' इति। आदिशब्देन ठञः। तत्र य ऋकारान्ता उद्गातृप्रभृतयो बह्वचोऽन्तोदात्तस्तेभ्यष्ठञोऽपवादः। ब्राह्मणप्रथमाध्वरेभ्योऽपि ठञ एव। तेऽपि बर्वचः प्रातिपदिकस्वरेणान्तोदात्ताः। नामाख्यातशब्दादपि समस्तात् तस्यैव। सोऽपि बह्वच्, समासस्वरेणान्तोदात्तश्च। परिशिष्टेभ्योऽणः। `पांशुकम्, पाञ्चहोतृकम्' इति। `इसुसुक्तान्तात् कः' (7.3.51) । पञ्चहोतृचतुर्होतृशब्दाविगन्ते `द्विगौ' (6.2.29) इतिपूर्वपदप्रकृतिस्वरेणाद्युदात्तौ। पूर्वपदं हि `न्रः संख्यायाः' (फि.सू.2.28) इत्युदात्तम्। पुरश्चरणशब्दोल्युडन्तः कृदुत्तरपदप्रकृतिस्वरेण (6.2.139) मध्योदात्तः। आख्यातशब्दः `गतिरनन्तरः' (6.2.49) इत्याद्युदात्तः।
`सङ्गातविगुहीतार्थम्' इति। तच्चैकशेषसमासाश्रयणाल्लभ्यत इति वेदितव्यम्।।

73. अणृगयनादिभ्यः। (4.3.73)
`ठञोरपवादःर' इति। आदिशब्देन ठकश्छस्य च। तत्र ये बह्वचोऽन्तोदात्तस्तेभ्यष्ठञः। विद्यान्यायशिक्षाशब्देभ्यो द्व्यज्लक्षमस्य ठकः। व्याकरणशब्दाद्‌वृद्धाच्छस्य। अण्ग्रहणं किमर्थम् ? न ऋययनादिभ्यो ता विहितमेवोच्येत, न चैवं सत्यपवादाः ष्ठनादयः स्युरिति सम्भाव्यते; अपवादविधानस्य हि वैयर्थ्यं स्यात्। तस्माद्वचनप्रामाण्यद्यो विहितो न च प्राप्नोत्यन्येन बाधितत्वात् स एव भविष्यति, स चाणेव ? इत्यत आह-- `अण्ग्रहणम्' इत्यादि। तत्र यद्यण्ग्रहणं न क्रियेत्, तदा यदत्र वृद्धमन्तोदात्तं ठञा बाधिते पुर्वचनाच्छ एव भविष्यति। तस्माच्छस्य बाधकसय् बाधनार्थमण्ग्रहणम्। तेन वास्तुविद्य इति सिद्धं भवति। वास्तुविद्याशब्दो वृद्धः,समासस्वेरमआन्तोदात्तश्च।
`ऋगयन' इत्यादि। ऋगयनमिति। ऋगयनशब्दो भावसाधन ऋचामयनम्,यद्यपि भावे ल्युट्, तथाप्यभदोपचारात् तद्वति ग्रन्थे व्याख्यातव्ये वर्त्तते, स च `अनो भावकर्मवचनः' (6.2.150) इत्यन्तोदात्तः। यैस्तु करणे ल्युटं कृत्वाऋगयनशब्दो व्युत्पाद्यते, तेषां स कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तो न गणे पाठं प्रयोजयति ततः `प्राग्दीव्यतोऽण्' (4.1.83) इत्येव सिद्धः। पदव्याख्यानशब्दः `मन्क्तिन्व्याक्यानशयनासनस्थानयाजकादिक्रीताः' (6.2.151) इत्यन्तोदात्तः। `{नास्ति-- काशिकायां पदमञ्जर्यां च।} मान' इति। मनोर्धातोर्यदा घञ् तदा `थाथषञ्क्ताजवित्रकाणाम्' (6.2.144) इत्यन्तोदात्तः। अथ मिनातेर्ल्युट्,तदा `अनो भावकर्मवचने' (6.2.150) इत्यन्तोदात्तः। `छन्दोभावः' इति। `गतिकारकोपपदात्' कृत्' (6.2.139) इति कृत्स्वरेणान्तोदात्तः। भाषाशब्द `गुरोश्च हलः' (3.3.103)इत्यकारप्रत्ययान्तो व्युत्पादितः। `छन्दोविचिति' इति। `मन्क्तिन्' (6.2.151) इत्यादिनान्तोदात्तः। पुनरुक्तशब्दः `थाथघन्क्ता जवित्रकाणाम्' (6.2.144) इत्यन्तोदात्तः। `{ नास्ति--काशिकायाम्' } निरुक्तः' `संज्ञायामनाचितादीनाम्' (6.2.146) इत्यन्तोदात्तः, व्याकरणशब्दो ल्युडन्तो मध्योदात्तः। निगमशब्दः `गोचरसञ्चर' (3.3.119) इत्यादिसूत्रे घप्रत्ययान्तो निपातितः प्रत्यस्वरेणान्तोदात्तः। वास्तुविद्याशब्दोऽङ्गविद्या {क्षत्त्रविद्या--काशिका पदमञ्जरी च।} क्षत्त्रियविद्येत्येते च समासस्वरेणान्तोदात्ताः। उत्पात्, `{उत्पाद --काशिका' } उदपाद--इत्येतौ थाथादि (6.2.144) सूत्रेणान्तोदात्तौ। संवत्सर इति। `अशेः सर' (द.उ.8.50) इत्यनुवृत्तौ `वसेः संपूर्वाच्चित्' (द.उ.8.51,52) इत्येवं व्युत्पादतित्वात् संवत्सरशब्दोऽन्तोदात्तः। मृह्यतेर्धातोः क्तः, क्ते ऊरागमः, तेन `मुहूर्त' इत्यन्तोदात्तः। `निमित्त' शब्दोऽपि प्रातिपदिकस्वरेण। `उपनिषत्' इति। उपनिपूर्वात् सदेः क्विप्। कृत्स्वरेणान्तोदात्तः।।

74. तत आगतः। (4.3.74)
अथ `स्रुघ्नादगच्छन् वृक्षमूलादागतः' इति. अत्र वृक्षमूलशब्दात् प्रत्ययः कस्मान्न भवति ? इत्याह-- `मुख्यम्' इत्यादि। मुख्यं प्रधानं विवक्षितम्, तदिह परिगृह्यते; न तु नान्तरीयकप्रधानम्, न हि मुख्ये सतीतरस्याप्रधानस्य ग्रहणं युक्तम्; मुक्ये कार्यसम्प्रत्ययात्।।

75. ठगायस्थानेभ्यः। (4.3.75)

76. शुण्डिकादिभ्योऽण्। (4.3.76)
`आयस्थानठकोऽपवादः' इति। बाहुल्यादेवमुक्तम्; यस्मात् कृकणशब्दोऽत्र पठ्यते। तत्र हि `कृकणपर्णाद्भारद्वाजे' (4.2.145) इति प्राप्तस्य च्छस्यापवादः। तीर्थशब्दश्चेह धूमादिषु पठ्यते, ततः `धूमादिभ्यश्च' (4.2.127) इति प्राप्तस्य वुञोऽपवादः। अथाण्ग्रहणं किमर्थम्, न शुण्डिकादिभ्यो यथाविहितमेवोच्येत, न चैवं पठ्यमानेऽपवाद एव स्यादित्याशङ्कनीयम्; अपवादविधाने हि वचनवैयर्थ्यं स्यात्, तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति ? इत्यत आह-- `अण्ग्रहणम्' इत्यादि। `उदपान' शब्दोऽत्र पठ्यत आयस्थानवचनम्, उत्सादिष्वसौ पठ्यते; तत्रासत्यग्रहण आयस्थानठकं बाधित्वा `उत्सादिभ्योऽञ्' (4.1.86) इत्यञेव स्यात्। तस्मात् तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। तेनोदपान इत्यत्राण्सिद्धो भवति।।

77. विद्यायोनसम्बन्धेभ्यो वुञ्। (4.3.77)

78. ऋतष्ठञ्। (4.3.78)
`तपरकरणं मुखसुखार्थम्' इति। अथ दीर्घनिवृत्त्यर्थं कस्मान्न भवति ? असम्भवात्। न हि विद्यायोनिसम्बन्धिषु किञ्चिद्ऋकारान्तं प्रातिपदिकमस्ति यन्निवृत्त्यर्थस्तकारः स्यात्।।

79. पितुर्यच्च। (4.3.79)
`पित्र्यम्' इति। `रीङ ऋतः' (7.4.27) इत रीङ, यस्यति (6.4.148) लोपः।।

80. गोत्रादङ्कवत्। (4.3.80)
यदि गोत्रादङ्कवत्प्रत्ययविधिर्भवतीत्युच्यतेऽण एवातिदेशः प्राप्नोति, न वुञः। यस्मादण्विधावेवाङ्गग्रहणमस्ति। `सङ्घाङ्कलक्षण' (4.3.127) इत्यादौ सूत्रेण वुञ्विधौ `गोत्रचरणाद्‌वुञ्' (4.3.126) इत्यत्र ? इत्याह-- `अङ्कग्रहणेन्' इत्यादि। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकग्रहणमुपधातसामान्यस्योपलक्षणम्, एवमिहाप्यङ्कग्रहणं `तस्येदम्' (4.3.120) इत्यस्य। तेनायं सूत्रार्थो भवति-- यथा `तस्येदम्' (4.3.120) इत्यत्र प्रत्ययो भवति, तथा `तत आगतः' (4.3.74)इत्यत्रापि। तेन वुञोऽप्यतिदेश उपपद्यते। नन्वेवमप्यणोऽतिदेशो न प्राप्नोति, न हि तद्विधौ गोत्रग्रहणमस्ति ? पूर्वसूत्राद्‌गोत्रग्रहणमनुवर्त्तत इत्यदोषः। `सङ्घाङ्कलक्षण' (4.3.127) ेइत्यादिना येन सूत्रेणाण् विहितस्तद्दर्शयति।।

81. हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः। (4.3.81)
`समादगतम्' इति। समाद्धेतोरागतमस्यार्थः। केन पुनरिह पञ्चमी ? असमादेव ज्ञापकात्। यदयं पञ्चम्यन्तात् प्रत्ययमाह ततो ज्ञायते-- हेतौ पञ्चमी भवति।।

82. मयट् च। (4.3.82)
`योगविभागो यथासंख्यानिरासार्थः' इति। ननु चान्यतरस्यांग्रहणेनौत्सर्गिकेऽभ्यनुज्ञायमाने वैषम्याद्यथासंख्यस्य प्राप्तेरेव नास्ति ? सत्यमेतत्; यस्तु रूप्यमयटोरपूर्वत्वाद्विधीयमानपेक्षया यथासंख्यत्वं मन्येत,तं प्रति योगविभागः क्रियते।।

83. प्रभवति। (4.3.83)
`{प्रथमतः--काशिका'} प्रथम उपलभ्यत इत्यर्थः' इति। प्रथम इत्यनेन प्रशब्दस्यार्थमाचष्टे। `उपलभ्यते' इत्यनेनापि भवतेः। अनेकार्थत्वाद्धातूनां भवतिरिहोपलब्धौ भवतिरिहोपलब्धौ वर्त्तते। `हिमवतः प्रभवति' इति। `भुवः प्रभवः' (1.4.31) इति हिमवतोऽपादानसंज्ञा।।

84. विदूराञ्ञ्यः। (4.3.84)
`तत्र तु संस्क्रियते' इति। तुशब्दोऽवधारणे। संस्क्रियते एव च तत्र विदूरे नगरे, न ततः प्रभवति।
`वालवायो विदूरञ्च' इति। वालवायशब्द एव प्रत्ययमुत्पादयति, न विदूरशब्दः। प्रभवतिशब्दस्य प्रथमत उपलभ्यत इत्यर्थः। प्रभवति च वालवाये पर्वते। तस्माद्यतः प्रभवति तद्वाची वालवायशब्दः प्रकृतित्वेनाक्षिप्यते। यथा विश्रवणरवणा इत्यादेशावेव शिवादिषु पठ्येते। अपत्याधिकारात्तु येन तयोरपत्यापत्यवत्ससम्बन्धः स एव प्रकृतित्वेनाक्षिप्यते विश्रवस्शब्दः। विश्रवसोऽपत्यं वैश्रवणः, रावणः।
अथ वा प्रकृत्यन्तरमेव विदूरशब्दो वालवाये वर्त्तते। विदूरात् भवति वालवायात् पर्वतात् प्रभवतीत्यर्थः। एवं स्थिते यो ब्रूयात्-- नैव तत्र वालवाये प्रसिद्धो विदूरशब्द इति,तं प्रत्याह-- `जित्वरीवदूपाचरेत्' इति। यथा वणिज एव वासाणसी नगरीं `जित्वरी' इत्युच्चारयन्ति मङ्गलार्थम्, न लोकाः, एवं वैयाकरणा एव वालवायं विदूरमित्युच्चारयन्ति। नियतदेशपुरुषविषया अपि रूढयो भवन्तीत्येतज्जित्वरीवदित्यनेन कथयति।।

85. तद्गच्छति पथदूतयोः। (4.3.85)
पथो निष्क्रियत्वाद्गमेः कर्त्तत्वं नोपपद्यत इत्याह-- `तत्स्थेषु' इत्यादि। पुरुषवृत्तिर्गमनं पथ्युपचर्यत इति दर्शयति। `अथ वा' इत्यादि। प्राप्तावत्र गमिर्वर्त्तते । अस्ति च प्रत्यक्षगम्यैव स्रुघ्नादीनां पथोऽस्यैवानन्तर्यलक्षणा प्राप्तिः।।

86. अभिनिष्क्रमति द्वारम्। (4.3.86)
कथं पुनः करणत्वेन प्रसिद्धं द्वारं स्वातन्त्रेणैव विवक्ष्यते ?इत्याह-- `यथा' इत्यादि। यथा च्छेदनक्रियायामसिः करणत्वेन प्रसिद्धौऽपि स्वातन्त्र्येण विवक्ष्यते।ननु चेतनावतोऽभिनिष्क्रमणं भवति, चेतनावता प्रयुक्तस्य वा-- देवदत्तोऽभिनिष्क्रामतीति, न च द्वारं चेतनावता प्रयुक्तम्, तस्मान्नोपपद्यते तस्याभिनिष्क्रमणम् ? नैष दोषः; अचेतनेष्वप्यभिनिष्क्रामतीति व्यवहारो दृश्यते, तद्यथा अनेन गुहामुखेन वायुरभिनिष्क्रामतीति। निष्क्रीयत्वात् तर्हि नोपपद्यते ? तत्स्थेषु निष्क्रामत्सु द्वारमभिनिष्क्रमतीत्युपचर्यत इत्यदोषः।।

87. अधिकृत्य कृते ग्रन्थे। (4.3.87)
ननु `कृते' इति कर्मणि निष्ठा, ततश्च तयाऽभिहितत्वात् कर्मणो द्वितीया न प्राप्नोति ? इत्याह-- `अधिकृत्येत्येतपेक्षया द्वितीया' इति। ल्यबन्तेन या क्रियाऽभिधीयते तदपेक्षया द्वितीया, न च तस्या यत्कर्म तत्केनचिदभिहितम्। निष्ठया हि ग्रन्थात्मकमेव कर्माभिहितम्, न तु ल्यबन्तक्रियाया यत्कर्म सुभद्रादिकं तदपि। गिरिमित्त्रमधिकृत्य कृतो `गैरिमित्त्रः'। ययातिमधिकृत्य `यायातः' ।
`लुप्' इत्यादि। आख्यायिकायै इति तादर्थ्ये चतुर्थी। आख्यायिकार्थमाख्यायिकामभिधातुं प्रत्ययस्य लुग्भवतीत्यर्थः।।

88. शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः। (4.3.88)
`यमसभम्' इति। `सभाराजा' (2.4.23) इत्यादिना नुपंसकलिङ्गता।
यदीन्द्रजननादावेव शिशुक्रन्दादयो द्रष्टव्याः,तत्किमर्थं पृथग्ग्रहणम् ? इत्यत आह-- `प्रपञ्चार्थम्' इत्यादि। `एवञ्च सति' इत्यादि। चशब्दो हेतौ। यस्मादिन्द्रजननादेराकृतिगणस्य तदन्तर्भूतानामेव शिशुक्रन्दादीनां प्रपञ्चार्थं ग्रहणम्; तस्मादेवमर्थऽस्मिन् स्थिते देवासुरादीनां प्रतिषेधो न वक्तव्यः, प्राप्त्यभावात्। येभ्य एव च्छप्रत्ययोऽयं दृश्यते, त एवेन्द्रजननादयः, न च देवासुरादिभ्यो दृश्यते।।

89. सोऽस्ये निवासः। (4.3.89)

90. अभिजनश्च। (4.3.90)
`तत्सम्बन्धाद्देशोऽप्यभिजन उच्यते' इति। यथा यष्टीः प्रवेदशयेति यष्टिसम्बन्धाद्यष्टिशब्दः पुरुषे वर्त्तते, तथाऽभिजनशब्दो देशे वर्त्तते। कः पुनरसौ योऽभिजनसम्बन्धादभिजन उच्यते ? इत्यत आह-- `यस्मिन्' इत्यादि। `इह देशवाचिनः' इत्यादि। कथं पुनर्मुख्येऽभिजने गौणात् प्रत्ययो भवति ? इत्याह-- `निवासप्रत्यासत्तेः' इति। निवासो (4.3.89)ऽनुकृष्यते तेनाभिजनो विशेष्यते निवासो योऽभिजन इति। तस्माद्देशवाचिन एव प्रत्ययो भवति, न बन्धुभ्यः ; तेषामनिवसत्वात्।
निवासाभिजनयोः को विशेषः ? नास्त्येव कश्चिद्विशेषः, अभिजनस्य निवासभूतत्वादिति मन्यते। `यत्र' इत्यादि। विशेषं दर्शयति।
`योगविभाग उत्तरार्थः' इति। उत्तरेषु योगेष्वभिजनप्रत्यया यथा स्युः, निवासे मा भूवन्निति।।

91. आयुधजीविभ्यश्छः पर्वते। (4.3.91)
`आयुधजीविभ्यः' इति। तादभ्य चतुर्थीति पञ्चमीं निराकरोति। यदि ह्येषां पञ्चमी स्यात्, आयुधजीविभ्य एव पर्वतेऽभिधेये छो भवतीत्येष सूत्रार्थः स्यात्, न चेष्यते; तस्मात् एवैषा चतुर्थी, न पञ्चमीति। `साङ्काश्यकाः' इति। `धन्वयोपधाद्‌वञ्' (4.2.121)।।

92. शण्डिकादिभ्यो ञ्यः। (4.3.92)
`अणादेरपवादः' इति। आदिशब्देन छादेः। अत्र ये शण्डिकादीन् पर्वातनाचक्षते तेषां मतेन पूर्वसूत्रेण प्राप्तस्य छस्यापवादः। ये तु जनपदशब्दाः, तेषां `अवृद्धादपि बहुवचनविषयात्' (4.2.125) इति प्राप्तस्य वुञः। शण्डिकशब्दात् `कोपधादण्' (4.2.132) इति प्राप्तस्याणः।।

93. सिन्धुतक्षसिलादिभ्योऽणञौ। (4.3.93)
`प्रभृतयः' इति। प्रभृतिशब्देन मधु, वसन्त, कम्बोज, साल्व,कश्मीर-- इत्येते गृह्यन्ते। {गन्धार इति मु.पाठः गन्धारि इति प्राचीनमुद्रित पाठः।}किष्किन्धा, `{नास्ति गण पाठे}सारदि, `{उरस काशिका}उरस्, दरत्--- इत्येतेषाम् `अवृद्धादपि' (4.2.125) इत्यादिना वुञि प्राप्ते वचनम्। तक्षशिलादिष्वपि कौमेदुर, काण्‍डवारण, ग्रामणी-- इत्येतेषां `वृद्धाच्छः' (4.2.114) इति छे प्राप्ते। शेषाणां `प्राग्दीव्यतोऽण्' (4.1.83) इत्यणि।।

94. तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः। (4.3.94)

95. भक्तिः। (4.3.95)
`भज्यते सेव्यत इति भक्तिः' इति। `भज सेवायाम्' (धा.पा.998) इत्येतस्मात् कर्मसाधनः क्तिन्।।

96. अचित्ताददेशकालाट्ठक्। (4.3.96)
ननु च देशकालयोरचित्तयोः प्रतिषेधान्नञिवयुक्तन्यायेन (व्या.प.65) प्रकृतिचेतनैव विज्ञास्यते, तत्किमचित्तग्रहणेन ? नैतदस्ति; विना हि तेनादेशकालादिति न ज्ञायते-- किमयं प्रकृतिनिर्देशः, उत देशकालयोः प्रतिषेध इति ? तत्रानिष्टमपि विज्ञायते-- अदेशशब्दात् , कालशब्दाच्चेति। अचित्तग्रहणे तु सति तेनातिप्रसङ्गे सत्यदेशकालादिति प्रतिषेधो विज्ञायते। अस्मादेव च प्रतिषेधादचित्तादिति स्वरूपग्रहणं न भवति। स्वरूपग्रहणे हि देशकालाभ्यां प्रसङ्गो प्रतिषेधं न कुर्यात्।।

97. महाराजट्ठञ्। (4.3.97)
ननु च पूर्वसूत्रादेव ठगनुवर्तिष्यते, तेनापि हि महांराजिक इति सिध्यत्येव, तत्कथं ठञ् प्रत्ययान्तरं क्रियते ? इत्याह-- `प्रत्यययान्तरकरणम्' इत्यादि। ञित्स्वरेणाद्युदात्तत्वं यथा स्यादिति प्रत्ययान्तरकरणम्। ठकि हि सति तद्धितस्य `कितः' (6.1.165) इत्यन्तोदात्तत्वं स्यात्।।

98. वासुदेवार्जुनाभ्यां वुन्। (4.3.98)
वासुदेवशब्दाद्‌वृद्धाच्छस्यापवादः। अर्जुनशब्दादौत्सर्गिकस्याणः। ननु चार्जुनशब्द क्षत्त्रियाख्यः,तस्मादुत्तरसूत्रेण प्राप्तस्य वुञोऽपवादो युक्तः ? एवं मन्यते-- बहुलग्रहणं तत्र क्रियते, तेनार्जुनशब्दाद्‌नुञ्प्रत्ययस्य प्राप्तिरेव नास्ति, तस्मादस्मादणेव स्यात्, अतस्तदपवादो न्याय्यः।
`ननु च' इत्यादि चोद्यम्। स्यादेतत्--- वुञ्वुनोर्विशेषोऽस्ति, अतो वासुदेवशब्दाद्‌वुन् विधीयते ? इत्याह-- `न चात्र' इत्यादि। वासुदेवशब्दस्य च वुञि वुनि वा सति नास्ति कश्चिद्विशेष इति । तथा ह्युभयत्र तदेवरूपम्, स एव स्वरः। योऽपि वुञि सति पुंवद्भावप्रतिषेधः `वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' (6.3.39) इति,स वुन्यपि लभ्यत एव `न कोपधायाः' (6.3.37) इति। `संज्ञेषः' इत्यादिना, यदुक्तम्-- `ननु च वासुदेवशब्दाद्‌गोत्रक्षत्रियाख्येभ्यः' (4.3.99) इति वुञस्त्येव' इति, तन्निराकरोति। गोत्रक्षत्त्रियाख्येभ्यो वुञ् विधीयते। न च वासुदेवशब्दो गोत्राख्यं प्रातिपदिकम्, नापि क्षत्त्रियाख्यम्, तत्कुतो इत्यनेन `अल्पाच्तरम्' (2.2.34) इत्यनेन वार्जुशब्दस्य पूर्वनिपातमकुर्वतैतद्विज्ञापितम्--अभ्यर्हितं पूर्वं निपतति। तेन मातापितरौ, श्रद्धमेधे, दीक्षातपसी-- इत्यत्र शास्त्रादेवाभ्यार्हितस्य पूर्वनिपातः सिद्धो भवति। अभ्यर्हितत्वं तु वासुदेवशब्दस्य देवताविशेषत्वात्।।

99. गोत्रक्षत्त्रियाख्येभ्यो बहुलं वुञ्। (4.3.99)
`ग्लौचुकायनकः। म्लौचुकायनकः' इति। ग्लुचुकम्लुचुकशब्दाभ्यां `प्राचावृद्धात् फिन्' (4.1.160)तदन्ताद्‌वुञ्। आख्याग्रहणं किमर्थम् ? न गोत्रक्षत्त्रियेभ्य इत्येवोच्येत ? इत्यत आह-- `आख्याग्रहणम्' इत्यादि। यद्याख्याग्रहणं न क्रियेत, ततो येऽपि यथाकथञ्चित् क्षत्त्रिये वर्तन्ते तेभ्योऽपि स्यात्, नेष्यते; तस्मात् प्रसिद्धक्षत्त्रियपिरग्रहार्थमाख्याग्रहणं क्रियते। तेनह न भवति-- विद्वान् क्षत्त्रियो भक्तिरस्येति। न विद्वच्छब्दः क्षत्त्रियशब्द इति प्रसिद्धः। क्षत्त्रियशब्दस्य तु सामानाधिकरण्यात् क्षत्त्रिये वृत्तिर्गम्यते। `पाणिनीयः' इति। पाणिनोऽपत्यमित्यण्; `गाथिविदथ' (6.4.165) इत्यादिना प्रकृतिभावः, पाणिनो भक्तिरस्येति `वृद्धाच्छः' (4.2.114) `पाणिनीयः'। पौरवो भक्तिरस्येति `पौरवीयः' ।।

100. जनपदिनां जनषदवत्सर्वं जनपदेन समानशब्दानां बहुवचने। (4.3.100)
`{नास्ति--काशिका}एकशब्दाः' इति। एतेन समानशब्दोऽयमेकवाचीति दर्शयति। `प्रत्ययः प्रकृतिश्च' इति। सर्वशब्देन योऽर्थ उपात्तस्तमाचष्टे। `तद्वत् अङ्गा क्षत्त्रिया भक्तिरस्य' इति। अङ्गादिभ्यः क्षत्त्रियेभ्यो बहुष्वपत्येषु `द्व्यञ्मगध' (4.1.170) इत्यादिना विहितस्याणः `तद्राजस्य' (2.4.62) इत्यादिना लुक् क्रियते। बहुवचनेऽङ्गदयो जनपदिनो जनपदेन समानशब्दा भवन्ति। अत्र जनपदवृत्तिभ्योऽङ्गादिभ्यो यथा `सोऽस्य भक्तिः' (4.3.95) इत्येतस्मिन् विषये `जनपदतदवध्योश्च' (4.2.124) इति वुञ् भवति, तथा जनपदवृत्तिभ्योऽपि --`पञ्चाला ब्राह्मणाः'इति। यदा पञ्चालनिवासिषु साहचर्यात् पञ्चालादिशब्दो वर्त्तते, तदा भवन्ति ब्राह्मणा जनपदेन बहुवचने समानशब्दाः, न तु ते जनपदिनः। तेनातिदेशाभावादणेव भवति-- `पाञ्चालः'।
`सर्वग्रहणम्' इत्यादि। यदि सर्वग्रहणं न क्रियते, तदा प्रत्ययस्य विधीयमानतया प्राधान्यात् प्रधाने कार्यसम्प्रत्ययात् तस्यैवातिदेशः स्यात्, न प्रकृतेः। तस्माद्यथा प्रकृतेरप्यतिदेशो भवति तदर्थं सर्वग्रहणं क्रियते। `स च' इत्यादि। स च प्रकृत्यतिदेशः सर्वगर्हणं द्व्येकयोरेव प्रयोजयति, न बहुषु। जनपदशब्दो नात्र वृद्धः, तस्मादवृद्धो जनपदशब्दो दृश्यते। बहुवचने तु `तद्राजस्य बहुषु तेनैवास्त्रियाम्' (2.4.62) इति लुकि कृते विनाप्यतिदेशेनावृद्धः, अत एव भवतीति तत्र प्रकृत्यतिदेशोऽनर्थकः। ततो नेतदर्थं सर्वग्रहणं कर्तव्यम्। `वृद्धिनिमित्तेषु' इत्यादि। वृद्धिनिमित्तेषु वुञादिष्वादिष्टायामवृद्धायां प्रकृतौ पुनर्वृद्धिभावात्। `प्रकृतिनिर्ह्रासेकृते' इति सर्वग्रहणात्प्रकृत्यदेशेन निर्हासः। निर्ह्रासोऽल्पतयाऽपक्षय इत्यर्थः। `माद्रः' इति। एताञ्च प्रकृतिमपेक्ष्य मद्र इत्येषा प्रकृतिरल्पा भवति। `वार्ज्यःर' इत्येताञ्च वृजिरिति। ननु वतेः सर्वसादृशस्यार्थत्वनाद्वतिनिर्देशेनैव प्रकृतेरतिदेशो भविष्यतीति, तत्किं सर्वग्रहणेन ? नैतदस्ति; यतैव तत्र सर्वसादृश्यार्थे वतौ न प्रत्यार्थो देवतार्थेऽतिदिश्यते, तथेहापि जनपदरूपं जनपदिनि नातिदिश्यते। कस्मात् पुनस्तत्र प्रत्ययार्थो नातिदिश्यते ? वतिना तयोर्भेदस्य प्रतिपादितत्वात्। वतिर्हि सादृश्ये रिधीयते, सादृस्यं च भेदाश्रयम्; यदि भवार्थस्यापि देवतार्थतया विपरिणामः स्यात्, तदा वतिरेव न स्यात्। तस्मादन्यस्य कार्यस्य सादृस्यं वतिराचष्टे, प्रत्ययार्थयोस्तु भेदम्, इहापि च जनपदजनपदिनोर्भेदमाचष्ट इति। असति सर्वग्रहणे जनपदरूपं जनपदरूपं जनपदिनि न लभ्यते। तस्मात् सर्वग्रहणं क्रियते।
`बहुलग्रहणम्' इत्यादि। समानशब्दताया विषयप्रदर्शनं लक्षणम्। तदर्थं बहुवचनग्रहणम्। `अन्यथा हि' इत्यादि। बहुवचनग्रहणं न क्रियेतेत्यर्थः। `तत्रैव' इति। बहुवचने। बहुवचन एव तद्राजप्रत्ययस्य लुकि कृते समानशब्दता भवति, यतश्च तत्रैवातिदेशः स्यात्। `एकवचनद्विवचनयोर्न स्यात्' इति। तत्र समानशब्दतया अभावात्। `बहुवचने तु' इत्ादि। बहुवचनग्रहणे तु सति बहुवचने ये जनपदेन समानशब्दास्तेषां यत्र वा तत्र वातिदेशे विज्ञायमाने द्व्येकयोरप्यसौ सिद्धो भवति।।

101. तेन प्रोक्तम्। (4.3.101)
`प्रकर्षेणोक्तम्' इति। प्रकर्षः = अतिशयः,तेन व्याख्यातं तदध्यापितं वा `प्रोक्तम्' इत्युच्यते। `न तु कृतम्' इति। न तु कृतमुत्पादितं प्रोषतमित्युच्यते। कस्मादित्याह-- `कृते ग्रन्थे' (4.3.116) इति गतार्थत्वात्। कथं माथुरीत्यण्, यावता वृ्धाच्छेनैव भवितव्यम् ? नैष दोषः; `कलापिनोऽण्' (4.3.108) इत्यत्राण्ग्रहणस्यान्येभ्यो भवतीत्येतत् प्रयोजनं वक्ष्यति, तेन माथुरशब्दादप्यण्भवति। `पाणिनीयम्' इति। पाणिशब्दात् `वृद्धाच्छः' (4.2.114) इति च्छः। `आपिशलम्,कालकृत्स्नम्' इति। आपिशलिकाशकृत्स्निशब्दाभ्यां `इञश्च' (4.2.112) इत्यण्।।

102. तित्तिरिवरतन्तुखण्डिकोखाच्छणः। (4.3.102)
`तैत्तिरीयाः' इति। छण्प्रत्ययः, तेभ्यः `तदधीते' (4.2.59) इत्यण्, तस्य `प्रोक्ताल्लुक्' (4.2.64) इति लुक्। `छन्दोब्राह्मणानि च तद्विषयाणि' (4.2.66 इति तद्विषयता।
`छन्दसि' इत्यादि। कथं पुनश्चछन्दसि लभ्यते ? न हि च्छन्दोग्रहणमस्तीत्याह-- `शौनकादिभ्यः' इत्यादि।।

103. काश्यपकौशिकाभ्यामृषिभ्यां णिनिः। (4.3.103)
`णकार उत्तरत्र वृद्ध्यर्थः' इति। उत्तरेषु योगेषु वृद्धिर्यथा स्यात्। इह हि णकारस्य प्रयोजनं नास्ति, तस्य हि वृद्धिरेव प्रयोजनम्। काश्यपकौशिकशब्दौ वृद्धिमन्तौ। `तस्यापि च' इत्यादि। ननु च च्छन्दोब्राह्मणादीनां तद्विषयता युक्ता, तत्कथं कल्पस्यापि सा भवति ? इत्याह-- `शौनकादिभ्यः' इत्यादि। स्यादेतत्-- यद्यपीदं न सिद्ध्यत्येव। न हि शौनकादिभ्यश्छन्दसि' (4.3.106) इत्यत्रानुवर्त्तते, तथापि छन्दोब्राह्मणादीनां तद्विषयतोच्यमाना कल्पस्य न सिध्यत्येव। नहि शौनकादिसूत्रा (4.3.106) नुवृत्तौ सत्यामस्य योगसय् कल्पश्छन्दोभावं ब्राह्मणभावमापद्यत इत्याह-- `छन्दोऽधिकारविहितानञ्च' इत्यादि। कथं पुनरिष्यमाणाऽपि छन्दोऽधिकारविहितानां स्वर्यते। तेन `शौनकादिभ्यश्छन्दसि' (4.3.106) इतीदम्प्रकृतयो विहिताः प्रोक्तप्रत्ययाः, तेषां सर्वेषामेव कल्पादावपि तद्विषयता भवति। अथ गुणकल्पनया कल्पादीनामपि छन्दस्त्वं विवक्ष्यते। ननुच `छन्दोब्राह्मणानि च' (4.2.66) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् तेनैव प्रागेव कल्पादेस्तद्विषयता प्रतिपादिता, तत्किमर्थं पुनरनेन प्रकारेण प्रतिपाद्यते। तत्र वा कल्पादेस्तद्विषयताप्रतिपादनार्थश्चकारः कर्त्तव्यः, अयं वा प्रकार आश्रयितव्य इति विकल्पप्रदर्शनार्थम्।
`इदानीन्तनेन' इत्यादि। इदानीन्तनो यः काश्यपः स काश्यपगोत्रप्रभवत्वात् काश्यप इत्युच्यते, तथेदानीन्तनो यः कौशिकः स कौशिकगोत्रप्रभवत्वात् कौशिक इत्युच्यते; तत्र यदि ऋषिग्रहणं ऋषिशब्दादेव, तथा हि प्रवराध्याये ये पठ्यन्ते त ऋषय इति, इमावपि तत्र पठ्येते एव ? नैष दोषः; विशेषणोपादानसामर्थ्यादयमृषिशब्दः क्रियाशब्दो विज्ञायते-- ऋषिर्दर्शनादिति। तेन यावनन्यपुरुषसाधारणेनौपदेशिकेन दर्शनेन तद्व्नतौ काश्यपकौशिकशब्दौ तत इदं प्रत्ययविधानम्; न चेदानीन्तनौ काश्यपकौशिकशब्दावेवंविधौ, ताभ्यां छ एव भवति।।

104.कलापिवैशम्पायनान्तेवासिभ्यश्च। (4.3.104)
अभिधानेऽभियोपचारात् कलापिवैशम्पायनान्तेवास्यभिधायिनः शब्दा इह कलापिवैशम्पायनान्तेवासिशब्देन निर्दिष्टाः। अत एवाह-- `कलाप्यन्तेवासिनाम्' इति।
ननु च ये व्यवहिताः शिष्यशिष्याः, ते कलापिवैशम्पायनान्तेवासिन एव भवन्ति, तदयुक्तमुक्तम्-- कलाप्यन्तेवासिनश्चत्वारः,वैशम्पायनान्तेवासिनो नव ? इत्याह-- `प्रत्यक्षकारिणःर' इत्यादि। करोतिरत्राध्ययने वर्त्तते। यैः साक्षादधीतं ते प्रत्यक्षकारिणः। इहान्तेवासिनो गृह्यन्ते चैतावन्त एवेति। किमत्रायुक्तम् ? कुत इह साक्षात्कारिणो गृह्यन्ते, न हि व्यवहिता इत्यत्र हेतुं पृच्छति। `कलापिखाण्डायनग्रहणात्' इति। हेतुनिर्देशः। `{तथा हि--काशिका}तथा च' इत्यादि। अस्यैव विवरणम्। वैशम्पायनसय् कलाप्यन्तेवासी, तस्य येऽन्तेवासिनस्ते वैशम्पायनान्तेवासिनो भवन्त्येव। यदि तत्र ये व्यवहितास्तेऽप्यन्तेवासिनो गृह्येरन् कलापिग्रहणमनर्थकं स्यात्, `वैशम्पायनान्तेवासिभ्यः' इत्येवं ब्रूयात्। तथा वैशम्पायनान्तेवासी खाण्डायनः;तत्र यदि व्यवहिता अपिगृह्येरन्, ततो वैशम्पायनान्तेवासित्वादनेनैव सूत्रेण सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फल एव स्यात्। तस्मादिहापि कलापिग्रहणं शौनकादिषु खाण्डायनशब्दस्य पाठ एतदुभयमपि साक्षात्कारिग्रहणस्य लिङ्गं ज्ञापकम्। `हारिद्रविणः' इत्यादि। हरिद्रुप्रभृतिभ्यः प्रोक्तार्थे णिनिः,तदन्तात् `तदधीते तद्वेद' (4.2.59) इत्यण्, तस्य `प्रोक्ताल्लुक्'
`उलपेन चतुर्थेन' इति। सहार्थे तृतीया। `कालापकम्' इति। कलापिन इदं कालापकम्, `गोत्रचरणाद् वुञ्' (4.3.126)। ननु च `धर्माम्नाययोर्वुञ्' (वा.476), न चेमे शिव्या धर्माम्नायाः,तत्कथं वुञ् ? एवं तर्ह्युपमानाद्भविष्यतीति। कालापकमिव धर्मवच्छिष्या उच्यन्ते। यथा धर्मः कलापिसम्बन्धी, तथा शिष्या इत्युच्यत उपमानार्थः। `आलम्बिर्नाम प्राचां देशः, तत्रोत्पन्नः `चरकः'। एवं `पलङ्गकमलावुभौ' । प्राचामेवत्रयः। एते प्राच्याः वैशम्पायनशिष्याः `ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयोऽपेर' चरकाः। मध्यदेशे भवा मध्यमीयाः। गहादिषु `मध्यमध्यमञ्चाण् चरणे' (ग.सू.99) इति पठ्यते. तस्यायमर्थः-- मध्यशब्दो मध्यमभावमापद्यते, छप्रत्ययश्च ततो भवति, चरणे तु प्रत्ययार्थेऽण् च भवतीति। तत्र यदा ऋचाभादीनां चरणत्वं न विवक्ष्यते,तदा छे कृते मध्यमीया इति भवति। चरणविवक्षायां त्वणि कृते माध्यमा इति भवति। उदक्षु भवा उदीच्याः, `द्युप्रागपाग्' (4.2.101) इत्यादिना यत्। उदीच्येषु मध्ये श्यामायनिश्चरकः।कठकलापिनावप्युदीच्येषु चरकौ, अपरस्याप्युक्तम्-- `कलापिनोऽण्' (4.3.108) इति। ननु च वैशम्पायनान्तेवासिनां कठेनैव चरक इत्येषाख्या, तत्कथं चरक इत्युच्यत ? इत्याह-- `चरक इति वैशम्पायनस्य' इत्यादि। यद्यपि तेषां चरक इत्याख्यानं न भवति, तद्गुरोस्तु वैशम्पायनस्य भवति, तत्सम्बन्धेन तच्छिष्या अपि तथोच्यन्ते।।

105. पुराणप्रोक्तेषु ब्राह्मणकल्पेषु। (4.3.105)
`भाल्लविनः'इति। भाल्लवः, शाट्यायनः,ऐतरेय-- इत्येतेभ्यः प्रोक्तार्थे णिनिः। तदन्तात् `तदधीते' (4.2.59) इत्युत्पन्नस्य `पोक्ताल्लुक्' (4.2.64) `छन्दोब्राहमणानि' (4.2.66) इत्यादिना तद्विषयता। `पैङ्गी' इति। `आरुणपराजी' इति। पिङ्गारुणपराजशब्दाभ्यां णिनिः।
`याज्ञवल्कानि' इति। `आश्मरथः' इति। याज्ञवल्क्यश्वरव्यशब्दाभ्यां गर्गादियञन्ताभ्यां `कण्वादिभ्यो गोत्रे' (4.2.59) इत्युत्पन्नस्य, `आपत्यस्य' (6.4.151) इत्यादिना यलोपः। ननु याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव ब्राह्मणानि, ब्राह्मणान्तरैः पुराणप्रोक्तेस्तुल्यत्वात् ? इत्याह-- `याज्ञवल्क्य' इत्यादि। आख्यानेषु ह्येषा वार्त्ता -- याज्ञवल्क्यादयोऽपरकालाः प्रवक्तारोऽन्येभ्यः प्रवक्तृभ्यः। तथा च वस्तुत्वमनपेक्ष्य व्यवहरति सूत्रकार इत्यदोषः। `तद्विषयता कस्मान्न भवति' (इति)। `छन्दोब्राह्मणानि' (4.2.66) इत्यादिनेति भावः। `प्रतिपदम्' इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) हि प्रतिपदं विशेषणम्। ब्राह्मणमुच्चार्य ब्राह्मणेषु यः प्रत्ययो विहितस्तस्य तद्विषयता विधीयते। तस्मात् तद्विषयतास्य न भवति। कल्पेषु तर्हि कस्मान्न भवति; यथा-- काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिन इत्यत्र ? `न चायम्' इत्यादि। छन्दोऽधिकारे ये योगस्तद्विहितस्य प्रत्ययस्य तद्विषयता भवति, न चायं योगश्छन्दोऽधिकारमनुवर्त्तते;तेनैतद्विहितस्य प्रत्ययस्याध्येतृवेदितृविषयता कल्पेषु न भवति-- पैङ्गी कल्पः, आरुणपराजी कल्द इति।
पुराण इति कोऽयं शब्दः, यावता `सांयचिरम्' (4.3.23) इत्यादिना ट्युट्युलोः सन्नियोगेन तुटि कृते पुरातनमिति भवितव्यम् ? इत्यत आह-- `पुराण इति निपातनात् तुडभावः (इति)। यद्येवम्, न भवति पुरातनम् ? इत्याह-- `{न वा काशिका}न च' इत्यादि. ननु `बाधकान्यपि निपातनानि' (वी.प.वृ.109) इत्यतो भवितव्यमेव वाचकेनेति ? अवाचकान्यपि (नी.प.वृ.110)। अबाधकान्यपि भवन्ति, एतच्च `शदेरगतौ तः' (7.3.42) इत्यत्र प्रतिपादितम्।।

106. शौनकादिभ्यश्छन्दसि। (4.3.106)
`छाणोरपवादः' इति। ये वृद्धास्तेभ्यश्छस्यापवादः, शेषेभ्यस्त्वणः। `शौनकिनः। वाजसनेयिनः' इति। शौनकेन प्रोक्तं वाजसनेयेन प्रोक्तमिति णिनिः। तदन्तात् (4.2.59) इत्यण्, तस्य `प्रोक्ताल्लुक्' (4.2.64), पूर्ववत् तद्विषयता।
`केवलाद्धि' इत्यादि। तत् संहतार्थमित्यत्रायं हेतुः। यस्मात् केवलात् कठाल्लकं वक्ष्यति, तस्मात् कठशाठ इति यदत्र पठ्यते तत्संहतार्थम्।।

107. कठचरकाल्लुक्। (4.3.107)
`कठाः, चरकाः' इति। प्रोक्तप्रत्ययस्य लुकि कृते यो ह्यध्येतर्यण् भवति तस्यापि प्रोक्ताल्लुक् (4.2.64)। पूर्ववत् तद्विषयता।।

108. कलापिनोऽण्। (4.3.108)
`कालापाः'इति। पूर्ववत् प्रोक्तप्रत्ययान्तादध्येतर्युत्पन्नस्याणो लुक्, तद्विषयता च।
`अथ' इत्यादि। ननु चासत्यण्ग्रहणे यथा प्राप्ते विधीयमाने णिनेरेवापवादः स्यात् ? नैतदस्ति; एवं हि वचनमनर्थकं स्यात्। तस्माद्यो विहितो न च प्राप्नोत्यनेन कबाधितत्वात् स एव भविष्यति, स चाणेव। `एवमादि' इति। आदिशब्देन मौदाः,पैप्पलादाः, शाकलाः, जाजलाः-- इत्येतेषां ग्रहणम्। असत, त्वच्ग्रहणे सर्वमेव न सिध्येत्; `वृद्धाच्छः' (4.2.114) इति छेनाण औत्सर्गिकस्य बाधितत्वात्।।

109.छगलिनो ढिनुक्। (4.3.109)
`छागलेयिनः' इति। इहापि पूर्ववदेवाध्येतर्युत्पन्नस्याणो लुक् च तद्विषयता । एवमुत्तरयोर्योगयोर्वेदितव्यः।।

110. पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः। (4.3.110)
`यथासंख्यम्' इत्यादि। पाराशर्याद्भिक्षुसूत्रे प्रत्ययः शिलालिनो नटसूत्रे। `तद्विषयता चात्रेष्यते' इति। कथं पुनरिष्यमाणापि सा लभ्यते ? इत्याह-- `तदर्थम्' ित्यादि। ननु चानुवर्त्तमानच्छन्दोहणेनैव तद्विषयता प्राप्नोति ? न; भिक्षुवनटसूत्िरयोरच्छन्दसत्वादित्याह-- `गुणकल्पनया च' इत्यादि। छन्दसस्तूपचारनिमित्तं यो धर्मः स इह गुणोऽभिप्रेतः, तद्धेतुका कल्पना। यथा छन्दो यदर्थमधीयते तथा सूत्रमपि तद्धेतुं सम्पादयति। भिक्षुनटयोरित्येवमादिकया गुणकल्पनया भिक्षुनटसूत्रयोश्छन्दस्त्वमौपचारिकम्। `पाराशरिणः' इति। पाराशर्यशबिदो गर्गादिषु वञन्तः, `आपत्यस्य च तद्धितेऽनाति' (6.4.151) इति यलोपः। `शैलालिनः' इति। `नस्तद्धिते' (6.4.144) इति टिलोपः।
`पाराशरम्' इति। `कण्वादिभ्यो गोत्रे' (4.2.111) इत्यण्। `शैलालम्' इति। औत्सर्गिकोऽण्, `नान्तस्य टिलोपे सबह्रह्मचारिपीठ' (वा.798) इत्यादिना टिलोपः।।

111. कर्मन्दकृशाश्वादिनिः। (4.3.111)

112. तेनैकदिक्। (4.3.112)
`तेन'इति। `तुल्यार्थैरतुलोपमाभ्याम्' (2.3.72) इति तृतीया। `सौदामनी' इति। `अन्' (6.4.167) इति प्रकृतिभावाट्टिलोपाद्यभावः।
ननु च तेनेति प्रकृतमेव,तत्किमर्थं पुनरिह तृतीया समर्थविभक्तिरुपादीयते ? इत्याह-- `तेनेति प्रकृते' इत्यादि। पूर्वत्र हि तेनेति छन्दोऽधिकारसम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्माच्छन्दोऽधिकारनिवृत्तयेपुनरिह तृतीया समर्थविभक्तिरुपादीयते। किमर्थः पुनश्छन्दोऽधिकारः पूर्वत्र क्रियते ? इत्याह-- `पूर्वत्र' इत्यादि। पूर्वेषु योगेषु च्छन्दोऽधिकारात् तद्विषयता साध्यते। तस्मात् तत्र च्छन्दोऽधिकारः कर्त्तव्यः। तस्मिंस्तु क्रियमाणे तन्निवृत्त्यर्थं इह च यत्न आस्थेयः छन्दस्येव प्रत्ययः स्यात्।।

113. तसिश्च। (4.3.113)

114. उरसो यच्च। (4.3.114)

115. उपज्ञाते। (4.3.115)
`अकालकम्' इति। कालपरिभाषारहितमित्यर्थः।।

116. कृते ग्रन्थे। (4.3.116)
कः पुनः कृतोपज्ञयोर्विशेषः, येनोपज्ञायत इति प्रकृते सति कृतग्रहणं क्रियते ? इत्याह्-- `उत्पादितम्' इत्यादि।।

117. संज्ञायाम्। (4.3.117)

118. कुलालादिभ्यो वुञ्। (4.3.118)

119. क्षुद्राभ्रमरवटरपादपादञ्। (4.3.119)
`स्वरे विशेषः' इति। अणि हि प्रत्ययस्वरेणान्तोदात्तत्वं स्यात्। अञि तु सति ञित्स्वरेणाद्युदात्तत्वं भवति।।

120. तस्येदम्। (4.3.120)
`तस्य' इति। पुंल्लिङ्गेनायं निर्देशः, पुंस्येव स्यात्, न द्विवचनबहुवचनान्तात्; प्रत्यक्षवाचिनश्च स्यात्; नापि विशेषवाचिनः; तच्छब्दस्य परोक्षवस्तुमात्रवाचित्वात्। प्रत्ययार्थोऽपीदमित्येकवचनेन नपुंसकलिङ्गेन निर्दिष्ट इत्येकस्मिन्नर्थे स्यात्-- नपुंसक एव,नान्यत्र; परोक्षे न स्यात्; इदमः प्रत्यक्षवाचित्वात् ? इत्येतत्‌ सर्वमाशङ्क्याह--`प्रकृतिप्रत्ययार्थयोः' इत्यादि। प्रकृतौ षष्ठ्यर्थमात्रं विवक्षितम्। प्रत्ययार्थेऽपि षष्ठ्यर्थसम्बन्धिमात्रम्, येन विना षष्ठ्यर्थो न सम्पद्यते। `यदपरम्' इत्यादिना मात्रशब्देन यद्व्यवच्छिन्नं तद्दर्शयति। आदिशब्देन सामान्यभिधायित्वं गृह्यते। अस्य तु सर्वत्र विवक्षाकारणम् `तस्यापत्यम्' (4.1.92) इत्यत्रैवक्तम्। अथेह कस्मान्न भवति-- देवदत्तस्यानन्तरम्, देवदत्तस्य समीपत्यादि ? `अनन्तरादिषु' इत्यादि। `अनभिधानात्' इति। प्रत्ययान्तेनानन्तरादीनामप्रत्यायनमित्‌यर्थः।
`संवहेस्तुः'इति। वहेस्त्रन्तादित्यर्थः। `सांवाहित्रम्' इति। सम्पूर्वाद्वहेस्तुरिट् च, यणादेशः। `सिद्ध एवात्राण्' इति। `प्राग्दीव्यतोऽण्' (4.1.83) इत्यनेन। यद्येवं किमर्थमुपसंख्यानम् ? इत्याह-- `इडर्थम्' इत्यादि। उपसंख्याने ह्यसतीडागमो न स्यात्, `एकाच उपदेशेऽनुदात्तात्' (7.2.10) इतीट्प्रतिषेधात्।
`अग्नीघः' इत्यादि। अग्नीघ इत्येतस्माच्छरणे गृहे वाच्ये रण् वक्तव्यः, भसंज्ञा च वक्तव्या, भसंज्ञायाञ्च सत्यां पदसंज्ञाभावाज्जशत्वं न भवति।
`समिधाम्' इत्यादि। आधीयन्ते येन मन्त्रविशेषेण समिधस्तस्मिन् सनिधामाधानविशेषे समिच्छब्दात् वण्यण् प्रत्ययो वक्तव्यः = व्याख्येयः। व्याख्यानं तु --`हविर्निवाससामिधेनीषु' (3.1.129) इत्येतन्निर्देशमाश्रित्य वक्तव्यम्। `सामिधेनी' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्, `हलस्तद्धितस्य' (6.4.150) इति यलोपः।।

121. रथाद्यत्। (4.3.121)
`नान्यत्र' इति। सन्नाहादौ।।

122. पत्त्रपूर्वादञ्। (4.3.122)

123. पत्त्राध्वर्युपरिषदश्च। (4.3.123)
`पत्राद्वाह्ये' (वा.474) इत्यवधारणमत्र द्रष्टव्यम्-- पत्त्राद्वाह्य एवेति। अन्यत्र कस्मान्न भवत ? अनभिधानात्। अथ किमर्थं न पूर्वेण सहैकयोग एव क्रियते-- `पत्त्रपूर्वपत्राध्वर्युपरिषदोऽञ्' इति ? नैवं शक्यम्; एवं हि पूर्वपत्त्रपूर्वात् प्रातिपदिकादन्यतोऽपि प्रसज्येत। योगविभागे पूर्वस्मिन् योगे रथादित्यनुवृत्ते रथ एव पत्त्रपूर्वग्रहणेन विशेष्यत इति न भवत्यतिप्रसङ्गः। एकयोगे तु रथाद्यनुवृत्तौ सत्यां यथा पत्त्रपूर्वतया रथो विशेष्यते, तथा पत्त्रादिभिरपि रथ एव निशेष्यते इत्यनिष्टं स्यात्। तस्माद्योगविभाग एव न्याय्यः।।

124. हलसीराट्ठक्। (4.3.124)

125. द्वन्द्वाद्‌वुन् वैरमैथुनिकयोः। (4.3.125)
`बाभ्रण्यशालङ्कायनिका' इति। वुन्नन्तः स्वभावादेव स्त्रियां वर्त्तत इति टाप् , `प्रत्ययस्थात्' (7.3.44) इत्यादिनेत्त्वम्।।

126. गोत्रचरणाद्‌वुञ्। (4.3.126)
वुनि प्रकृते वुञ्विधानं वृद्ध्यर्थम्। तच्चावृद्धा एव गोत्रचरणशब्दाः प्रयोजयन्ति, न वृद्धाः। तेषु हि वुञि वुनि वा सति न कश्चिद्विशेषः। `ग्लौचुकायनकः' इति। `प्राचामवृद्धात् फिन् बहुलम्' (4.1.160) इति फिन्, तदन्ताद्‌वुञ्।
`चरणात्' इत्यादि। चरणाद्धर्माम्नाययोरेवेष्यते, नान्यत्र; अनभिधानादिति।।

127. सङ्घाङ्कलक्षणेष्वञ्यञिञामण्। (4.3.127)
तेन वैषम्याद्यथासंख्यं न भवति। असति तु घोषग्रहणे, अञादयस्त्रयः सङ्घादयोऽपि तत्र इति समानाद्यथासंख्यं स्यात् ? घोषे च प्रत्ययो न स्यात्। `बैदः' इति। `अनृष' (4.1.104) इत्यादिनाञ्; तदन्तादण्। अङ्कलक्षमयोः को विशेष इति? नास्त्येव कश्चिद्विशेषः। पर्यायत्वादङ्कलक्षमयोरिति मन्यते। `लक्षणम्' इत्यादिना विशेषं दर्शयति। लक्षणं चिह्नं लक्ष्यस्यैव स्वम्, नान्यस्य; यथा विद्या बिदानाम्। बिदानामेव हि लक्षणानां सम्बन्धिनाम् नान्यस्य कस्यचित्। अङ्कस्तु गवादिस्थो न गवादीनां सम्भवति। किं तर्हि ? ततोऽन्येषाम्, गवादिस्वामिनाम्। अथ किमर्थं गित्करणं प्रत्ययस्य, यावताञन्ताद्यञन्ताः प्रकृतयो वृद्धा एव ? अत आह-- `णित्करणम्' इत्यादि। बैदी विद्येत्यत्र ङीब् यथा स्यात्। इह च बैदीविद्य इत्यत्र `वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' (6.3.39) इति पुंवद्भावप्रतिषेधो यथा स्यात्। एवमर्थं णित्करणम्,न वृद्ध्यर्थम्।।

128. शाकलाद्वा। (4.3.128)
`वुञोऽपवादः' इति। चरणलक्षमस्य शाकलशब्दस्य चरणलक्षणत्वात्। `शाकलाः' इति। शाकल्यशब्दाद्गर्गादियञन्तात् `कण्वादिभ्यो गोत्रे' (4.2.111) इति प्रोक्तार्थेऽ ण्। `आपत्यस्य च तद्धितेनाति' (6.4.151) इति यलोपः। शाकल इति स्थिते `तदधीते तद्वेद' (4.2.59) इत्यण्, तस्य प्रोक्ताल्लुक् (4.2.64)--शाकलाः, तेषां सङ्घः शाकलः, शाकलक इति वा।।

129. छन्दोगौक्थिकयाज्ञिकबह्‌वृचनटाञ्ञ्यः। (4.3.129)
`वुञणोरपवादः' इति। छन्दोगादिभ्यश्चरणलणस्य वुञोऽपवादः। नटादौत्सर्गिकस्याणः।।

130. न दण्डमाणवान्तेवासिषु। (4.3.130)
`दण्डप्रधाना माणवा दण्डमाणवाः' इति। मद्यमपदलोपिसमासं दर्शयति। स पुनर्मयूख्यंसकादित्वाद्वेतिव्यः। मयूरव्यंसकादेराकृतिगणत्वात्। `वुञ्प्रत्ययो न भवति' इति। एतेन वुञोऽयं प्रतिषेध इति दर्शयति। कथं पुनर्ज्ञायते वुञोऽयं प्रतिषेध ? इत्याह-- `गोत्रग्रहणम्' इत्यादि। इह हि गोत्रग्रहणमनुवर्त्तते `गोत्रचरणाद्‌वुञ्' (4.3.126) इत्यतः, तेनायमर्थो भवति-- `तस्येदम्' (4.3.120) इत्येतस्मिन्नर्थे यः प्रत्ययो गोत्रात् प्राप्नोति स दण्डमाणवान्तेवासिषु न भवतीति, गोत्रे वुञेव प्राप्नोतीति, अतस्तस्यैवायं प्रतिषेधो विधीयते। गौकक्ष्यशब्दाद्गर्गादियञन्तात् `कण्वादिभ्यो गोत्रे' (4.2.111) इत्यण्, पूर्ववद्यलोपः। `दाक्षाः' इति। दाक्षिप्लाक्षिमाहकिब्यः `इञश्च' (4.2.112) इत्यण् ।।

131. रैवतिकादिभ्यश्छः। (4.3.131)
`पूर्वेण' इति। `गोत्रचरणाद्‌वुञ्' (4.3.126) इत्यनेन। `रैवतिकीयम्' इति। रेवत्या अपत्यमिति रैवतिकः, ततश्छः। `स्वापिशीयम्' इति। स्वापिशिशब्दादिञन्ताच्छः। अथ च्छग्रहणं किमर्थम्, नानन्तरसूत्राद्विप्रतिषेधोऽनुवर्तिष्यते, तत्र रेवतिकादिभ्यो वुञि प्रतिषिद्धे वृद्धत्वादेषां छ एव भविष्यति ? भवेत् सिद्धं यत्र च्छस्यापवादो नास्ति-- रैवतिकीय इति, ये त्वत्रेञन्ताः पठ्यन्ते--स्वापिशि, औदमेधि, औचदवापि-- इत्येवादयः तेभ्यः यावता गहादिरसौ, गहादित्वाच्छ एव भविष्यति ? न सिध्यति; गहादिपाठस्यान्यस्तद्धितार्थोऽवकाशः, इदमर्थे तु परत्वाद्‌वुञेव स्यात्। तस्मादिदमर्थे तु स्यादिति युक्तस्तस्येह पाठः।।

132. कौपिञ्जलहास्तिपदादण्। (4.3.132)
`गोत्राधिकारात्' इति। `गोब्रवुञोऽपवादः' इत्यत्रायं हेतुः। अत्र हि गोत्रग्रहणेऽधिक्रियमाणे कौपिञ्जलहास्तिपदशब्दाभ्यां गोत्रवाचकाभ्यामण् विधीयते, स च नाप्राप्ते गोत्रवुञीति, तेन तस्यैवापदवादो विज्ञायते। `कौपिञ्जलः' इति। कुपिञ्जलस्यापत्यमित्येतस्मादेव निपातनादण्, तदन्तात् कौपिञ्जलस्येदमिति पुनरण्। `हास्तिपदः' इति। हस्तिन इव पादावस्येति हस्तिपादस्यापत्यमित्यस्मादेव निपातनादण्, पादस्य पद्भावः, हास्तिपदस्येदमिति पुनरनेनाण्।
अथाण्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत ? ननु चैवमुच्यमाने `वृद्धाच्छः' (4.2.114) स्यात् ? नैतदस्ति; यद्येताभ्यां छोऽभीष्टः स्यात्, रैवतिकादिष्वेतौ पठ्येयाताम्। रैवतिकादिभ्यस्तु पृथगुपादानाद्विज्ञायते--नैताभ्यां छो भवतीति। वुञ् तर्हि स्यात् ? नैतदस्ति; आरम्भो ह्येवमनर्थकः स्यात्, गोत्रादित्येवं वुञः सिद्धत्वात्। नानर्थकः, यत्रासौ प्रतिषिध्यते तत्रारम्भस्य सार्थकत्वात्। क्व चासौ प्रतिषिध्यते ? `न दण्डमाणवान्तवेवासिषु' (4.3.130) तस्मादण्ग्रहणं कर्त्तव्यम्।
णित्करणं कौपिञ्जली क्रियेति ङीष्यथा स्यात्। इह च कौपिञ्जली क्रियाऽस्य कौपिञ्जलीक्रिय इति `वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' (6.3.39) इति पुंवद्भावप्रतिषेधो यथा स्यात्।।

133. आथर्वणिकस्येकलोपश्च। (4.3.133)
`चरणवुञोऽपवादः' इति। आथर्वणिकस्य चरणवाचित्वात्। `आथर्वणः' इति। अथर्वणा प्रोक्तमित्यण् `अन्' (6.4.167) इति प्रकृतिभावः। आथर्वण इति स्थितेऽव्येतरि `तदधीते तद्वेद' (4.2.54) इत्यनुवर्त्तमाने `वसन्तादिभ्यष्ठक्' (4.2.63) आथर्वणिकः।
अत एव निपातनात् `पोक्ताल्लुक्' (4.2.64) इति लुग्न भवति। `चरणाद्धर्माम्नाययोः' (वा.476) इति पूर्वोक्तमिष्टं स्मारयति।।

134. तस्य विकारः। (4.3.134)
`प्रकृतेरवस्थान्तरम्' इति। प्रकृतेः कारणस्यावस्थान्तरम् = अनयथात्वम्। `अप्राणी' इति। प्राणिनः `प्राणिरजतादिभ्यः' (4.3.154) अञं वक्ष्यति। `आद्युदात्तम्' इति। `अनुदात्तादेश्च' (4.3.140) इत्यञं वक्ष्यति। `अवृद्धम्' इति। वृद्धान्मयटं वक्ष्यति--`नित्यं वृद्धशरादिभ्यः' (4.3.144) इति, यस्य च नान्यत् प्रतिपदं विधानमिति-- गोपयसोर्यत्' (4.3.160) इत्येवमादि। ननु च `अन्' (6.4.167) इति प्रकृतिभावेन भवितव्यम्, तत्कथमाश्म इति भवति ? इत्याह-- `अश्मनो विकार इति टिलोपः' इति। टिलोपार्थमश्वमनो विकार इत्येतदुपसंख्यानं कृतम्। `नित्सरेव्आद्युदात्ता एते' इति। अश्मादयः शब्दाः। तत्राश्मभस्मशब्दौ मनिन्प्रत्ययान्तत्वान्नत्स्वरेणाद्युदात्तौ। मृत्तिकाशब्दोऽपि तिकन्प्रत्ययान्तत्वात् -- `मृदस्तिकन्' (5.4.39) इति।
अथ तस्येति वचनं किमर्थम्, यावता तस्यग्रहणं प्रकृतमेव ? इत्याह-- `{तस्यप्रकरणम्-- प्राचीन मुद्रित वा} तस्य प्रकरणम्' इत्यादि। तद्धि प्रकृतं तस्येति वचनं शैषिकैर्घादिभिः {सम्बद्ध--मु.पाठः} सम्बद्धम्। अतस्तदनुवृत्तौ तेऽप्यनुवर्त्तेरन्। अस्मिंस्तु तस्यग्रहणे क्रियमाणे पूर्वकं तस्येति वचनं निवर्त्तते। तस्मात् प्रकृतेऽपि तस्येति वचने शैषिक निवृत्त्यर्थं पुनस्तस्येत्युच्यत इति। ननु च प्रधानं घादयः, विधीयमानत्वात्; तस्येति तु वचनप्रधानम्, तदर्थत्वात्; तत्रायुक्ता गुणे निवर्त्तमाने प्रधानस्य निवृत्तिः प्रसज्येत, यथैव हि प्रकृतं तस्येति वचनं घादिभिः सम्बद्धं तथा अणादिभिरपि ? नैष दोषः, उभयेषां हि निवृत्ती निष्पलः सूत्रस्यारम्भः स्यात्। विधेयस्य कस्यचिदभावात्, तस्मान्न भवत्युभयेषां निवृत्तिः। ननु चारम्भसामर्थ्यादुभयेषामन्यतमेषां निवृत्तिरित्येतावद्विज्ञायते। तत्किं घादयो निवर्त्तन्ते ? उताणादयः ? सन्देह एव। सन्देहमात्रमेतत्, सर्वसन्देहेष्विदमुपतिष्ठते-- `व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्' (व्या.प.75) इति। घादयो निवर्त्तन्त इत्येवं व्याख्यास्यामः, स्वरितत्वादणादीनामनुवृत्तिर्भविष्यति। ननु चास्वरित्वाद्धादीनामनुवृत्तिः, सैव तु तस्येति वचनेनाख्यायते शैषिकनिवृत्त्यर्थम्। `विकारावयवयोः' इत्यादिना विशेषं दर्शयति। केन पुनविकारावयवयोर्घादयः प्राप्नुवन्ति ? `तस्येदम्' (4.3.120) इत्यनेनच तस्येदंविशेषत्वात् तयोः। `हालः,सैरः' इति। यदि शैषिका अनुवर्त्तेरंस्ततो हलसीरशब्दाभ्यां `हलसीराट्ठक्' (4.3.124) इति ठक् स्यात्। तन्निवृत्तौ त्वणेव भवति।।

135. अवयवे च प्राण्योषधिवृक्षेभ्यः। (4.3.135)
`मौर्वं काण्डम्' इति। मूर्वाशब्दादवयवे प्रत्ययः। `मौर्व भस्म' इति। विकारे।
`इत उत्तरम्' इत्यादिना वक्ष्यमाणानां प्रत्ययानां विषयविभागं दर्शयति। `कथम्' इति। केन प्रकारेणायं विभागो लभ्यते। प्रत्यक्षमर्थं पृच्छति-- `द्वयमपि'इत्यादि। यतो हेतोरेष विषयविभागो लभ्यते तद्दर्शयति। ततर् फलपाकान्ता ओषधः,पुष्पवन्तः फलवन्तश्च वृक्षाः, तद्विशेषा वनस्पतयः फलवन्त एव। तत्र वनस्पतिग्रहणेन वृक्षविशेषास्ततोऽन्येन गृह्यन्ते। वृक्षग्रहणे तु वनस्पतेरपि ग्रहणं विज्ञेयम्। `विकारावयवयोः' इत्यादि। युगपदधिकारे ह्यणादीन् वक्ष्यामीत्येवमर्थो युगपदधिकारः। अणादीनामर्थनिर्देशार्थोऽपि कस्मान्न भवति ? इत्याह-- `कृतनिर्देशो हि तौ' इति। कृतनिर्देशो हि तावर्थौ `तस्येदम्' (4.3.120) इत्यनेनैव;तस्येदं विशेषत्वात् तयोः।।

136. बिल्वादिभ्योऽण्। (4.3.136)
`अञ्मयटोरपवादः' इति। यदत्रानुदात्तादि तस्मात् `अनुदात्तादेश्च' (4.3.140) इति प्राप्तस्याञोऽपवादः। यद्‌वृद्धं ततः `नित्यं वृद्धशरादिभ्यः' (4.3.144) इति मयटः। तत्र बिल्वशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्ते `बिल्वतिष्ययोर्वान्तस्वरितत्वम्' (फि.सू.1.23) इति स्वरितत्वं भवति, उदात्तो वा। `व्रीहिमुद्ग' शब्दौ घृतादित्वादन्तोदात्तौ। `मसूरगोधूम' शब्दौ `लघावन्ते द्वयोश्च बह्वषो गुरुः' (फि.सू.2.42) इति मध्योदात्तौ। एवं `गवेधुका' शब्दोऽपि। इषेः क्सुः, `इक्षुः' । प्रत्ययस्वरेणान्तोदात्तः। `वेणुः' शब्दोऽपि `विभाषा वेण्विन्धानयोः' (6.1.215) इतिपक्षेऽन्तोदात्त एव। `कर्पासीपाटली' शब्दौ `जातेरस्त्रीविषयादयोपधात्' (4.9.63) इति ङीषन्तौ। ङीष्प्रत्ययान्तत्वान्ङीष्प्त्ययस्वरेणान्तोदात्तौ। `कर्कन्धू' शब्दः `अन्दूदृग्भूजम्बूकफेलूकर्कन्धूदिधिषूः' (द.उ.1.176) इति निपातनान्मध्योदात्तः। `कुटीर' शब्दः `लघावन्ते' (फि.सू.2.42) इत्यादिना मध्योदात्तः। सर्व एते `अनुदात्तं पदमेकवर्जम्' (6.1.158) इत्यनुदात्तादयः। तेनाञ्बाधनार्थं ग्रहणमिति। अथाण्ग्रहणं किमर्थम्, न बिल्वादिभ्यो यथाविहितमेवोच्येत ? नैवं शक्यम्; पाटलीशब्दो ह्यत्र वृद्धः पठ्यते, तस्मादञो बाधके मयटि प्राप्ते पुनर्वचनादञेव स्यात्। अण्ग्रहणात् त्वणेव भवति। तस्मादण्ग्रहणं क्रियते।।

137. कोपधाच्च। 94.3.137)
`यथायोगम्' इति। प्राण्योषधिवृक्षेभ्यो विकारावयवयोः, अन्येभ्यस्तु विकारमात्र इत्येषो यतायोगार्थः। `अञोऽपवादः' इति। `ओऱञ्' (4.3.139), `अनुदात्तादेः' (4.3.140) इत्येताभ्यां प्राप्तस्य। `तित्तिडीकमाण्डूक दर्दुरूकमधूक'शब्दाः `लघावन्ते' (फि.सू.2.42) इत्यादिना मध्योदात्ताः,तेनानुदात्तादयो भवन्ति।।

138. त्रपुजतुनोः षुक्। (4.3.138)
`ओरञोऽपवादः' इति। अनुदात्तत्वात्। `अप्राण्यादि' इति। आदिशब्देनौषधित्वमवृक्षत्वं च गृह्यते।।

139. ओरञ्। (4.3.139)
`अनुदात्तादेरन्यदिहोदाहरणम्' इति। अनुदात्तादेरुत्तरसूत्रेणैव सिद्धत्वात्। `दैवदारवम्, भाद्रदारवम्' इति। देवदारुभद्रदारुशब्दौ `पीतद्रवर्थानाम्' (फि.सू.2.37) इत्याद्युदात्तौ। तस्यायमर्थः--पीतद्रुः अर्थो येषां ते पीतद्रवर्थाः, तेषां पीतद्रवर्थवचनानामादिरुदायो भवति।।

140. अनुदात्तादेश्च। 94.3.140)
`दाधित्थम्' इत्यादि। दध्नि तिष्ठतीति, कपौ तिष्ठतीति --सुपि स्थः' (3.2.4) इति कः,`अतो लोपः' (6.4.48) इत्यकारलोपः, पृषोदरादित्वात् सकारस्य तकारः,उपपदसमासः, समासस्वरेणान्तोदात्तौ। तेन दधित्थकपित्थशब्दावनुदात्तादी भवतः।।

141. पलाशादिभ्यो वा। (4.3.141)
`उभयत्रविभाषेयम्' इति। प्राप्ते चाप्राप्ते च। तामेवोभयत्रविभाषां स्पष्टीकर्त्तुमाह-- `पलाशखदिर' इत्यादि। पलाशशब्दो धृतादित्वादन्तोदात्तः,खदिरशब्दोऽपि तित्स्वरेण। `इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिसिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्' (द.उ.8.26) इत्यनुवर्त्तमाने `अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराःर' (द.उ.8.27) इति किरच्प्रत्ययान्तो निपातितः। शिंशपाशब्दः `पान्तानां गुर्वादीनाम्' (फिट्.3.55) इति मध्योदात्तः। तस्यायमर्थः-- पाशब्दान्तानां गुर्वादीनां द्वितीयमुदात्तं भवतीति। अथख `द्वितीयं प्रागीषात्' (फि.सू.3.50) इत्यत्रानुवर्त्तते, `स्पदि किञ्चिच्चलने' (धा.पा.14) अस्मात् `अनुदात्तादेश्च हलादेः' (3.2.149) इति युच्-- स्पन्दनः, चित्स्वरेणान्तोदात्तः। `कृशृगृटिपटि{शौटिभ्यः--द.उ.}शटिभ्य ईरन्' (द.उ.8.72) करीर शब्दो नित्स्वरेणाद्युदात्तः। `कॄशृगृकटिपटि{शौटिभ्यः द.उ.}शटिभ्य ईरन्' (द.उ.8.72) करीर शब्दो नित्स्वरेणाद्युदात्तः। `कृहृभ्यामीषन्' (द.उ.9.9), `शृपृभ्यां {कित् --द.उ.}किच्च' (द.उ.9.10) इति शिरीषशब्दोऽपि नित्स्वरेणाद्युदात्तः। विकङ्गतपूलासयवासाश्च `ग्रामादीनां च' (फि.सू. 2.38) इत्याद्युदात्ताः।।

142. शम्याष्ट्लञ्। (4.3.142)
`अञोऽपवादः' इति। शमीशब्दसय् गौरादित्वान्ङीषन्तस्य प्रत्ययस्वरेणान्तोदात्तस्यानुदात्तादित्वात्। टकारो ङीबर्थः।।

143. मयड्‌वैतयोर्भाषायामभक्ष्याच्छादनयोः। (4.3.143)
`एतयोः' इति। `किमनेन'इत्यादि चोद्यम्। `ये विशेषप्रत्ययाः' इत्यादि परिहारः। आदिशब्देन `उष्ट्राद्‌वुञ्' (4.3.157) इत्येवमादयो गृह्यन्ते। यदि ह्येतयोरिति नोच्येत, ततो य इति उत्तरे विशेषाः प्रत्ययाः अञादयः तैः सह सम्प्रसारणायां परत्वात् त एव स्युः। `एतयोः' इत्युच्यमाने तु विशेषप्रत्ययेष्वपि पक्षे भवन्ति, तेन कपोतमयमित्यादि सिद्धं भवति। अथ क्रियमाणे `एतयोः'इत्येतस्मिन्, कथमवादविषये मयड्‌ भवति ? एतयोरित्यस्य द्वितीयविधानार्थत्वान्मयट्प्रत्ययो विकारावयवयोर्भवति। एकम्-- विधानमेतयोरिति, मयड्‌भवतीति-- द्वितीयम्। तत्र यद्येतदद्वितीयं विधानं तदा प्रापणार्थम्। तेन यत्रापि विशेषप्रत्ययैर्बाधितो विज्ञायते। तस्माद्वाग्रहणं कर्त्तव्यम्।।

144. नित्यं वृद्धशरादिभ्यः। (4.3.14)
प्राग्दीव्यतीयाणो ह्यपवादो मयडारभ्यते, अणं तु कोपधलक्षणम्, अञमुवर्णान्तलक्षणमनुदात्तादिलक्षणं च परत्वाद्बाधते। `आरम्भसामर्थ्यादेव नित्यं भविष्यति' इति। यदि ह्यनित्यः स्यात्, अस्य सूत्रस्यारम्भोऽनर्थकः स्यात्; पाक्षिकस्य मयटः पूर्वेणैव सिद्धत्वात्। `तदनेन क्रियते' इति। यत् तदेकेषामाचार्याणामिष्टम्। तदनेन नित्यग्रहणेन सफलं क्रियत इत्यर्थः। कथं योगविभागः क्रियते ? तद्यथा द्वारं द्वारमिति शब्दाधिक्यादर्थाधिक्यं भवतीति नित्यग्रहणेनायमर्थः सूच्यते। यद्येवम्, नित्यग्रहणादेव मृच्छशब्दस्यापि नित्योऽयं मयट् सिद्धः, तदपार्थकोऽस्य शरादिषु पाठः ? नानर्थकः; नित्यग्रहणस्यैवोदाहरणप्रदर्शनार्थत्वात्।।

145. गोश्च पुरीषे। (4.3.145)
`गव्यम्' इति। गोरिदमित्यर्थविवक्षायां `सर्वत्र गोरजादिप्रसङ्गे यत्' (वा.383) इति यत्, `वान्तो यि प्रत्यये' (6.1.79) इत्यवादेशः। `पुरीषं न विकारो नाप्यवयवः'इति। प्रकृतत्वाद्गोरिति गम्यते। ततर् विकारस्तावन्न भवति ; प्रकृतेरवस्थान्तरं पुरीषम्; {गोधर्मानन्वयादोदनवस्तूपकास्य --प्रा.मु.पाठः} गोधर्मानन्वयात्। वस्तूपकारस्य समुदायस्यैकदेशो ह्यारम्भकोऽवयवो भवति, यथा--हस्तादि शरीरस्य; न चैवं गोः पुरीषम्। क्व तर्हीदं विधानमित्याह--`तस्येदं विषये' इति। गवा भावितत्वात् पुरी स्य, तत् तस्याः कार्यमिति तस्येदनर्थो भवति। तस्मात् तत्रैवेदं मयटो विधानम्। विकारावयवयोस्तर्हि केन भवितव्यम् ? इत्याह-- `विकारावयवोस्तु' इत्यादि।।

146. पिष्टाच्च। (4.3.146)
`अणोऽपवादः' इति। पिष्टशब्दोऽयं `निष्ठा च द्व्यजनात्' (6.1.205) इत्याद्युदात्तः, तेन तस्मादौत्सर्गिकः प्राप्नोति, ततस्तस्यायमपवादः।।

147. संज्ञायां कन्। (4.3.147)
`मयटोऽपवादःरट इति। पूर्वसूत्रेण प्राप्तस्य। ननु च संज्ञायां कनं वक्ष्यत्येव, तदपार्थकं तद्विधानम् ? नैतदस्ति; स ह्यल्पादिष्वर्थेषु, अयं तु विकारे। तदिदं सार्थकम्; अर्थभेदात्।।

148. व्रीहेः पुरोडाशे। (4.3.148)

149. असंज्ञायां तिलयवाभ्याम्। (4.3.149)
`तिलयवशब्दावाद्युदात्तौ' इति। तस्मादण्प्राप्नोति, अतस्तस्यायमपवादः। आद्युदात्तत्वं तु तयोः `तृणधान्यानां {गर्मुत्-- द.उ. ग्रो मुट् च' पं.उ.}द्व्यषाम्' (फिट्.2.27) इत्यनेनैव भवितव्यम्। अस्यायमर्थः-- तृणधान्यानां द्व्यचामादिरुदात्तो भवतीति।
`यावकःर' इति। विकारेऽण्। तदन्तात्तु `यावादिभ्यः कन्' (5.4.29) इति कन्।।

150. द्व्यचश्छन्दसि। (4.3.150)

151. नोत्वद्वर्ध्रबिल्वात्। (4.3.151)
`मौञ्जम्' इति। मुञ्जाशब्दस्य पूर्वपदाद्युदात्तत्वेन तस्मादौत्सर्गिक एवाण्। `गार्मुत्म्' इति। `मुग्रोरुतिःट (पं.उ.1.96), `{गर्मुत्-- द.उ. ग्रो मुट् च' (पं.उ.} गोर्मुट् च' (पं.उ.1.97) इति प्रत्ययस्वरेण गर्मुच्छब्दोऽन्तोदात्तः। तस्मात् `अनुदात्तादेश्च' (4.3.140) इत्यञ्। `ब्रार्ध्री'इति । `वृधिवपभ्यां रन्' (द.उ.8.45) ब्रर्ध्रशब्दो नित्स्वरेणाद्युदात्तः, तस्मात् `प्राग्दीव्यतोऽण्' (4.1.83), `टिड्ढाणञ्' (4.1.15) इति ङीप्। `बैल्वम्' इति। `बिल्वादिभ्योषऽण्' (4.3.136)।
अथ मतुषा निर्देशः किमर्थः ? न नोद्वर्ध्रबिल्वादित्येवोच्येतेत्यत आह-- `मतुब्निर्देशः'इति।`नोत्वद्वर्ध्रबिल्वात्' (4.3.151) इत्युच्यमान उदिति वर्णग्रहणं स्यात्। अत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतीति तस्मात्तन्निषेधाय मतुब्निर्देशः। कः पुनस्तदन्तविधौ सति दोषः स्यादित्यत आह-- `इहै व' इत्यादि। एवकारेण मुञ्जादिभ्यो न स्यादिति दर्शयति। `वैष्णवी' इति। बिल्वादित्वादण्।।

152. तालादिभ्योऽण्। (4.3.152)
`मयडादीनामपवादः' इति। आदिशब्देनाञः।प्रकृतिभेदात् तयोर्बहुत्वस्य विवक्षित्वाद् द्वयोरपि बहुवचनम्। तत्र तालश्यामाकशब्दाभ्यां वृद्धलक्षणसय् मयटोऽपवादः। बर्हिणो विकारोऽवयवो वेति `प्राणिरजतादिभ्योऽञ्' (4.3.154) इत्यनेन बार्हिणशब्दोऽपि विकारावयवप्रत्यान्तः, तेन तस्मादञ् `ञितश्च तत्प्रत्ययात्' (4.3.155) इति प्राप्तस्याञोऽपवादः। शेषेभ्यस्त्विन्द्रालिशादिभ्योऽनुदात्तादिलक्षणस्याञः। लिशिदृशिभ्यामिन्द्र उपपदे `कप्रकरणे मूलविभुजादिब्य उपसंख्यानम्' (वा.232) इति कप्रत्ययः। `अन्येषामपि दृश्यते' (6.3.137) इति दीर्घत्वम्। `गतिकारकोपपदात् कृत्' (6.2.139) इति कृत्स्वरेणान्तोदात्तौ `इन्द्रालिशेन्द्रादृश' शब्दो। `इन्द्रा घु' शब्दः समासस्वरेणान्तोदात्तः। `चप सान्त्वने' (धा.पा.399) `पचाद्यच्' चपशब्दोऽन्तोदात्तः। पीयूक्षाशब्दः `लघावन्ते' (फि.सू.2.42) इत्यादिना मध्यादात्तः। यद्यप्यस्य टापि कृते `लघावन्ते' (फि.सू.2.42) नास्ति, प्राक्तु टापो विद्यत एव, तस्यामेवावस्थायां मध्योदात्तत्वं भवति।
`तालाद्धनुषि' इति पठ्यते। तालशब्दादण् प्रत्ययो भवति धनुष्यभिधेय इति। तालं धनुः, तालमयमन्यत्। अथाण्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत ? नैवं शक्यम्; बार्हिशब्दाद्‌वृदिद्धिलक्षणो मयट् `ञितश्च तत्प्रत्ययात्' (4.3.155) इत्यणा बाधितः। तत्रारम्भसामर्थ्यादन्मयडेव स्यात्। `श्यामाक'-शब्दः `लघावन्ते' (फि.सू.2.42) इत्यादिना मध्योदात्तः। तस्मात् `अनुदात्तादेरञ्' (4.2.44)। परत्वाद्‌वृद्धलक्षणेन मय़टा बाधित इतिपुनरारम्भसामर्थ्यादञेव स्यात्। अण्ग्रहमादणेव भवति।।

153. जातरूपेभ्यः परिमाणे। (4.3.153)
`बहुवचननिर्देशात्' इत्यादि। यदि स्वरूपग्रहणमभीष्टं स्यात् तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यादिति भावः। `मयडादीनाम्' इति। आदि शब्दोनाञो ग्रहणम्। बहुवचनं तु पूर्ववत्। तत्र ये वृद्धा हाटकजातरूपप्रभृतयः, तेभ्यो मयटोऽपवादः। ये तु तपनीयप्रभृतयोऽनुदात्तादयस्तेभ्योऽञः। `तापनीयम्' इति। तपनीयशब्दः `लघावन्ते' (फि.सू.2.42) इत्यादिना मध्योदात्तः।।

154. प्राणिरजतादिभ्योऽञ्। (4.3.154)
`अणादीनामपवादः' इति। आदिशब्देन मयट् परिगृह्यते। बहुवचनं तु पूर्ववत्। तत्र ये प्राणिशब्दा आद्युदात्तास्तेभ्योऽणपवाद इति। ये तु वृद्धास्तेभ्यो मयट् परिगृह्यते। रजतादिष्वपि यदाद्युदात्तं तस्मादणोऽपवादः। यत्पुनरनुवात्तादि तस्मान्मयटः। ततो हि `अनुदात्तादेश्च' (4.3.144) इत्यनेनैवाञि सिद्धे पुनर्वचनमञेव यथा स्यात्, `मयड्वैतयोः' (4.3.143) इत्यादिना मयड् मा भूदित्येवमर्थम्। तत्र `रजतं' घृतादिपाठादन्तोदात्तम्। `सीस, लोह' इति। `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इत्याद्युदात्तम्। अस्यायमर्थः-- नपुंसकविषयस्य शब्दस्यानिसन्तस्यादिरुदात्तो भवतीति। नबिति नपुंसकस्य संज्ञा। अन्त्यात् पूर्वमित्यनुवर्त्तमाने `शिशृमानोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च' (फि.सू.3.64) इत्युदुम्बरेऽन्त्यात् पूर्वमक्षरमुदात्तम्। नीलदारुरोहितबिभीतक-- इत्येतेषां `लघावन्ते' (फि.सू.242) इत्यादिना मध्यादात्तत्वम्। पीतदारुशब्दमपि केचित् पठन्ति। स `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इत्याद्युदात्तः। `तरतेर्ड्रिः' (पं.उ.5.66) इति ड्रिप्रत्ययान्तत्वात् त्रिशब्दस्य प्रत्ययस्वरेणाद्युदात्तत्वम्। त्रयः कण्टका अस्येति बहुव्रीहिः। `बहुव्रीहौ प्रकृत्या पूर्वपदम्' (6.2.1) इति त्रिकण्टकशब्द आद्युदात्तः। `{कण्वं प्रा.मु.पाठः} कण्टं करोतीति कर्मण्यण्। `{कण्वकार प्रा.मु.पाठः} कण्टकारशब्दः कृत्स्वरेणान्तोदात्तः।।

155. ञितश्च तत्प्रत्ययात्। (4.3.155)
`मयटोऽपवादः' इति। वृद्धलक्षमस्य सर्वस्य ञित्प्रत्ययान्तस्य वृद्धत्वात्।`एते प्रत्यया गृह्यन्ते' इति। ननु चैकानुबन्धपरिभाषया ष्ट्लञो ग्रहणं न प्राप्नोति ? नैष दोषः; `ञितश्च' इति हि चकारस्तत्समुच्चयार्थः। तेन तस्यापि ग्रहणं भविष्यति। ओरञो (4.3.139) ग्रहणेन `अनुदात्तदेश्च' (4.3.140) `पलाशादिभ्यो वा' (4.3.141) इत्येतत्सूत्रग्रहणं वेदितव्यम्; अभिन्नत्वात्। य एवं `ओरञ्' (4.3.139) इत्यनेनाञ्विहितः स एवास्मिन् सूत्रद्वयेऽनुवर्त्तते। `दैवदारवस्य विकारोऽवयवो वा' इत्यादिना यथायोगमेषां प्रत्ययानामुदाहरणादीनि दर्शयति। `कांस्यम् पारशवम्' इति। कंसाय हितमिति `प्राक् क्रीताच्छ-' (5.1.1) कंसीयः। परशवे हितमित्युगवादित्वा (5.1.2) द्यत्। परशव्यस्य विकारोऽवयवो वेति `कंसीयपरशव्ययोर्यञञौ लुक् च' (4.3.168) इति यथासंख्यं यञञौ भवतः, छयतोश्च लुक्-- कांस्यम्, पारशवः; तयोर्विकारोऽवयवो वेत्येनेनाञ्। `बैल्वमयम्' इति। बिल्वशब्दो `बिल्वादिब्योऽम्' (4.3.136) इत्यणन्तः। ततो वृद्धलक्षमे मयडेव भवति। `वैदमयम्' इति। `अनृष' (4.1.104) इत्यादिनाञ्-- वैदः। भवत्ययमञ्प्रत्ययो ञित्, न तु विकारावयवलक्षमः,तेन मयडेव भवति।।

156. क्रीतत्परिमाणात्। (4.3.156)
`अणादीनामपवादः' इति। आदिशब्देनाञादीनां ग्रहणम्। `संख्यापि परिमाणग्रहणेन गृह्यते' इति। कथं पुनरेतल्लभ्यते, यावता परिमाणशब्दः प्रस्थादिषु रूढः, न संख्यायाम् ? नैष दोषः; यथैव हि प्रस्थादिपरिच्छेदहेतुस्तथा संख्यापि। अत उपमानात् संख्यायामपि परिमाणशब्दो वर्तिष्यते परिमाणमिव परिमाणमिति। नन्वेवं मुख्ये सति गौणग्रहणमयुक्तम् ? अयमत्र दोषः -- इह हि तन्त्रेण द्वौ परिमाणशब्दावुच्चारितौ, तत्र द्वितीयं पदमुदात्तम्, तेन संख्यापि गृह्यते। `नैष्किकम्' इति। प्राग्वतेष्ठञ्' (5.1.18)। `शत्यः, शतिकः' इति। `शताच्च ठन्यतावशते' (5.1.21)। `सहस्रम्' इति। `शतमानविंशतिकसहस्रवतनादण्' (5.1.27)।
`अध्यर्धपूर्व' (5.1.28) इत्यादिना सादृशष्यार्थे वतौ सति यदिष्टं सम्पद्यते तद्दर्शयति। आदिशब्देन प्रकृत्यादिपरिग्रहः। `द्विसहस्रम्' इति। द्वयोः सहस्रयोर्विकार इति तद्धितार्थे द्विगुः। `प्राग्वतेः संख्यापूर्वपदात् तदन्तविधिरलुकि' (5.1.20 वा.) इति तदन्तविधिरभ्यनुज्ञानाद्यथा क्रीतार्थे `शतमानविंशतिसहस्रवसनात्' (5.1.29) इति पक्षे लुग्भवति, ततेहापि। `द्विसाहस्रम्' इति। `संख्यायाः संवत्सरपूर्वस्य' (7.3.15) इत्युत्तरपदवृद्धिः। `दविनिष्कः' इति। यथा क्रीतार्थे निष्कशब्दात् प्राग्वतेष्ठञ् (5.1.18) भवति तस्य `द्वित्रिपूर्वान्निष्कात्' (5.1.30) इति पक्षे लुक्, तथेहापि। `द्विनैष्किकम्' इति। `परिमाणान्तस्यासंज्ञान्नाणयोः' (7.3.17) इत्युत्तरपदवृद्धिर्भवति।।

157. उष्ट्राद्‌वुञ्। (4.3.157)

158. उमोर्णयोर्वा। (4.3.158)
उमाशब्दस्तृणधान्यमित्याह (फि.सू.2.27) नाद्युदात्तः, ऊर्णाशब्दोऽपि प्रातिपदिकस्वरेणान्तोदात्तः, ताभ्यां यथासंख्यमण़ञोः प्राप्तयोर्विभाषा वुञारभ्यते।।

159. एण्या ढञ्। (4.3.159)
`पुंसस्त्वञेद भवति' इति। यदिह पुंसो ढञ् स्यात् पुंल्लिङ्गेनैव निर्देशं कुर्यादिति। पुंल्लिङ्ग न हि निर्देशे प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येणीशब्दादपि प्रत्ययो लभ्यत एव। तस्मात् स्त्रीलिङ्गनिर्देशादेव पुंसोऽञ् भवति, न ढञ्।।

160. गोपयसोर्यत्। (4.3.160)
`मयड्विषये तु विधीयते' इति। अजादिप्रसङ्ग इति वचनात्। मयटोऽनजादित्वात् तद्विषये न प्राप्नोतीत्यतस्तत्र गोशब्दाद्विधीयते। पयःशब्दस्तु पिबतेरित्यसुन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः, तस्मात् प्राग्दीव्यतोऽण्' (4.1.83) इत्यण् प्राप्नोति। अतस्तदपवादोऽयं यद्विधीयते।।

161.द्रोश्च। (4.3.161)

162. माने वयः। (4.3.162)

163. कले लुक्। (4.3.164)
`तद्विषये' इति। विकारावयवविषये। `आमलकम्' इति। `नित्यं वृद्धशरादिभ्य-' (4.3.144) इति मयट्, तस्य लुक्। स्त्रीप्रत्ययस्य लुक् पूर्ववत्। ननु च फलं वृक्षस्य न विकारः नाप्यवयवः। विकारो द्वेधा भवति-- यो वा प्रकृतं निगृह्णाति--खदिरं भस्मेति; यो वा प्रकृतिव्यपदेशं करोति-- खादिरो यूप इति। न च फलं वृक्षमपगृह्णाति, नापि फलेन युक्तस्य व्यपदेशान्तरं जनयति, अथ च तस्य दिकारस्तथा फलमपि। स्यादेतत्। पल्लवितावस्थां वृक्षस्यापगृह्णन् पल्लव उपजायते, अतो युक्ता तस्य तद्विकारावयवतेति; फलमपि तस्य फलितावस्थां वृक्षस्यापगृह्णन् फलमुपजायते, तस्यापि युक्त एव तद्विकारभावः। यदप्युक्तम्-- नावयवोऽनारम्भकत्वादिति, तदप्ययुक्तम्; फलं ह्युपजायमानं शाख्याद्यवयवसहायमन्यमेव विशिष्टं वृक्षावयवमारभते। तद्यथा पल्लवो विशिष्टं समुदायान्तरमारभमाणोऽवयवो भवति तथा फलमपीति वेदितव्यम्।।

164. प्लक्षादिभ्योऽण्। (4.3.164)
`अञोऽपवादः' इति। तत्रेक्षुकर्कन्धूशब्दाभ्यामुवर्णान्तलक्षमस्याञोऽपवादः, शेषेभ्यस्त्वनुदात्तादिलक्षणस्य। सर्वे हि तेऽन्तोदात्तत्वादनुदात्तायः। तत्र प्लक्षन्यग्रोधाश्वत्थशब्दाः प्रातिपदिकस्वरेणान्तोदात्ताः। इङ्गुवीबृहतीशब्दौ तु गौरादिङीषन्तत्वात् प्रत्ययस्वरेणान्तोदात्तौ। `विधानसामर्थ्यात्' इत्यादि। यद्यणो लुक् स्याद्वचनमर्थकं स्यात्। न ह्यणो वाञो वा लुकि कृते कश्चिद्विशेषोऽस्ति। `नैयग्रोधम्' इति। `न्यग्रोधस्य च केवलस्य' (7.3.5) इत्यैवागमः।।

165. जम्ब्वा वा। (4.3.165)
`अञस्तु भवत्येव' इति। तस्य लुकि सति विधानमनर्थकं भवति; अश्रूयमाणत्वात्। `जम्बूनि' इति। लुकि कृतेऽभिधेयलिङ्गं नपुंसकं भवति। `ह्रस्वो नुपंसके प्रातिपदिकस्य' (1.2.47) इति, `जश्शसोः शिः' (7.120),नुम्, `नोपधायाः'(6.4.7) इति दीर्घः।।

166. लुप् च। (4.3.166)
कः पुनर्लुपि सति विशेषो यतो लुकि प्रकृते स विधीयते ? इत्याह--- `युक्तवद्भावो विशेषः' इति। लुपि सति युक्तवद्भावो भवति `लुपि युक्तवद्व्‌यक्तिवचने' (1.2.51) इति, लुपि सत्येव विशेष इति। `जम्बूः फलम्' इति। अत्र युक्तवद्भावेन प्रकृतिगतमेव लिङ्गं भवति, तेन नपुंसकलिङ्गं न प्रवर्त्तते।
`लुप्प्रकरणे' इत्यादि। फलपाकेन शुष्यन्तीति फलपाकशुषः। `अन्येभ्योऽपि दृश्यते' (3.3130) इति क्विप्। `व्रीहयः, मुद्गाः' इति। बिल्वादिभ्योऽणो (4.3.136) लुप्। `यवाः, माषाः'इति। अत औत्सर्गिकस्याणः। एते `तृणधान्यानाम्' (फि.सू.2.27) इत्यादिनाद्युदात्ताः।
`पुष्पमूलेषु बहुलम्' इति। पुष्पमूलेषु चाभिधेयेषु बहुलं लुब्भवति। मल्लिका,वनमल्लिका, जातिः, विदारी, अंशुमती, बृहती--अत्रानुदात्तादिलक्षणस्याञो लुप्। मल्लिकानवमल्लिकाशब्दौ `लघावन्ते द्वयोश्च बह्वषो गुरुः' (फि.सू.2.42) इति मध्योदात्तौ। जातिशब्दश्च `क्विच्क्तौ च संज्ञायाम्' (3.3.174) इति क्तिच्प्रत्ययान्तत्वादन्तोदात्तः। बदरीबृहतीशब्दावपि गौरादिङीषन्तत्वादन्तोदात्तावेव। अंशुमतीशब्दः `उगितश्च' (4.1.6) इति ङीबन्तः। अंशुशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वान्मध्योदात्तः। `पाटलानि' इति। बिल्वादित्वादण्। `शाल्वानि मूलानि' इति। शाल्वानीत्यनुदात्तादिलक्षमोऽढ। शाल्वशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। शाल्व इति =शाक इति यस्य प्रसिद्धिः। `क्वचिदन्यदपि' इति। लुपोऽन्यत्रापि क्वचित् कार्यं भवति। तत्पुर्लुक्लुपोरभावश्च। `कदम्बकम्' इत्यादावनुदात्तलक्षणस्याञो लुक्। कदम्बादयः शब्दा `लघावन्ते' (फि.सू.2.42) इत्यादिना मध्योदात्ताः। `बल्वानि' इति। अत्रोभयाभावः। `बिल्वादिभ्योऽण्' (4.3.136) । एतत्तु सर्व हरीतक्यादिपाठादेव सिद्धमिति नापूर्व वक्तव्यम्। यतो हरीतक्यादिषु `येषाञ्च फलपाक निमित्तः शोषः; पुष्पमूलेषु बहुलम्' (4.3.167) इति पठ्यन्ते।।

167. हरीतक्यादिभ्यश्च। (4.3.167)
हरीतक्यादिषु कण्टकारिका,गर्गारिका, शेफालिका-- इत्येते `संज्ञायां कन्' (5.3.75) इति कन्नन्तत्वान्नित्स्वरेणाद्युदात्ताः। तेनैव तेभ्य औत्सर्गिकस्याणो लुप्। शेषेभ्यस्त्वनुदात्तादिलक्षणस्याञः, सर्वे तेऽन्तोदात्तत्वादनुदात्तादयः। तत्र काला, द्राक्षा, ध्राक्षा-- इत्येतेभ्यः प्राग्ये पठ्यन्ते ते ङीषन्तत्वादन्तोदात्ताः तत्र श्वेतपाकी, अर्जुनपाकी-- इत्येतौ `पाककर्णपर्ण' (4.1.64) इत्यादिना ङीषन्तौ। शेषेभ्यस्तु गौरादित्वात् `गौरादिभ्यश्च' (4.1.41)। कालाद्राक्षाध्राक्षाशब्देभ्यः प्रातिपदिकस्वरेणान्तोदात्तेभ्यष्टाप्, सवर्णदीर्घत्वम्, `एकादेश उदात्तेनोदात्तः' (8.2.5) इत्युदात्तत्वम्। अतः कालादयोऽप्यन्तोदात्ताः।।

168. कंसीयपरशव्ययोर्यञञौ लुक्च। (4.3.168)
`कंसीयः'इति। उणादौ कंसशब्दः सप्रत्ययान्तो व्युत्पादितः। पशुशब्दोऽपि `पृथिविव्या {धृषिहृषभ्यः--द.उ.} धृषिभ्यः कुःरक' (द.उ.1.108) इत्यनुवर्त्तमाने `आङ्परयोः खनिशृभ्यां {डिच्च--द.उ., तिच्च इति प्रा.मु.न्यासपाठः} णिच्च' (द.उ.1.118) इति कुप्रत्ययान्तः। तदनयोरपि धातुप्रत्यययोर्लुक्कस्मान्न भवति ? इत्याह-- `प्रातिपदिकाधिकारात्' इत्यादि। प्रातिपदिकादिति वर्त्तते, तेन प्रातिपदिकेभ्यो यो विहितस्तस्य लुग्भवति। ने चेमौ प्रातिपदिकाद्विहितौ, किं तर्हि ? धातोः, अतोऽनयोर्लुग्न प्रवर्त्तते। `अनुदात्तत्वादेव' इति। परशव्यशब्दो हि `तित्स्वरितम्' (6.1.185) इत्यन्तस्वरितः। `तेनानुदात्तादिः' इति। `ईतीति तत्र वर्त्तते' इति। `यस्यते च' (6.4.148) इत्यतः।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
चतुर्थाध्याये तृतीयः पादः
------------------