काशिकाविवरणपञ्जिका/चतुर्थोऽध्यायः/प्रथमः पादः
काशिकाविवरणपञ्जिका प्रथमः पादः [[लेखकः :|]] |
द्वितीयः पादः → |
अथ चतुर्थोऽध्यायः
1. ङ्याप्प्रातिपदिकात्। (4.1.1)
`अधिकारोऽयम्' इति। स्वरितेनासञ्जितत्वात्। `आ पञ्चमाध्यायपरिसमाप्तेः' इति। अनेनाधिकारस्यावधिं दर्शयति। ततः परं नायमनुवर्त्तते; अस्वरितत्वात्। `स्वादिषु कप्पर्यन्तेषु' इति। अधिकारस्य विषमाचष्टे। `ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम्' इत्यादि। `ङी' इति विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं ङीमात्रं तदिह गृह्यते। `टाब्डाप्चापामाप्' इति। सामान्येन ग्रहणमिति प्रकृतेन सम्बन्धः। ननु च ङ्यादीनां बहुत्वाद्बहुवचनेन भवितव्यम्, तत्कथं `ङ्याप्प्रातिपदिकात्' (4.1.1) इत्येकवचनेन निर्देश इत्याह --`तेषाम्' इत्यादि। समाहारद्वन्देनेह ङ्यादीनामयं निर्देशः कृत इत्यर्थः। इतरेतरयोगे हि द्वन्द्वे स्याद्बहुवचनम्। न चायमितरेतरयोगे द्वन्द्वः,किं तर्हि ? समाहारे। तस्य चैकार्थत्वादेकवचनमेव युक्तम्। `समाहारनिर्देशः' इति वचनमितरेतरयोगनिवृत्त्यर्थम्,सामासन्तरनिवृत्त्यर्थञ्च, अन्यथा हि ङ्यापोः प्राप्तिपदिकं ङ्याप्प्रातिपदिकमित्यपि षष्ठीसमास आशङ्क्येत। ततो ङ्यन्तमाबन्तञ्च समासप्रातिपदिकं यत् ततः स्याद् राजकुमार्यादिभ्यः न तु केवलेभ्यः कुमार्यादिभ्यः। ङ्यापोस्तु विधानेनैव प्रातिपदिकं प्रकृतिः स्यात्। तस्मात् समाहार द्वन्द्वेनायं निर्देशः । तत्र तु त्रयं प्रकृतित्वेनाधिक्रियते, तेन सर्वतो भवति।
अथ कथं पुनरत्र विग्रहः ? केचिदाहुः-- `ङीश्च आप्च प्रातिपदिकञ्चेति। ननु च `अप्रत्ययः' (1.2.45) इति प्रातिपदिकसंज्ञाप्रतिषेधाद् ङीश्चेति विभक्त्युत्पत्तिर्न स्यात् ? उच्यते; नायं प्रत्ययः, अपि तु प्रत्ययानुकरणमिदम्। एवमपि `प्रकृतिवदनुकरणं भवति' (व्या.प.113) इति स्यादेव प्रतिषेधः ? नैष दोषःच अनुकरणं द्वैधम्-- अर्थस्य, शब्दमात्रस्य चेति। ज्ञापितमाचार्येणैतद् द्वेधा निर्देशात् -- `परिव्यवेभ्यः क्रियः' (1.3.18) , `विपराभ्यां जेः' (1.3.19) इतीयङादेशस्य करणाकरणाभ्याम्। अतोऽत्र शब्दमात्रमनुकृतम्, न त्वर्थसहितम्। तेनात्र `अप्रत्ययः' (1.2.45) इति नास्त्येव प्रतिषेधः। प्रकृतिवदतिदेशस्त्वर्थवत्यनुकरणे। ननु चेवमपि हल्ङ्यादिलोपेन (6.1.68) भाव्यम् ? उच्यते; ङ्यन्तात् सुलोपः, न ङीमात्रात्। व्यपदेशिवद्भावात् स्यादिति चेत् ? न; `व्यपदेशवद्भावोऽप्रातिपदिकेन' (शाक.प.65) इत्युच्यते, प्रातिपदिकञ्चदम्। तस्मात् `ङीश्च' इति। अथ प्रत्ययविधिविषयैषा परिभाषा पूर्वादिनिः' (5.2.86) `सपूर्वाच्च' (5.2.87) इत्यत्र ज्ञापितत्वात् ? न चायं प्रत्ययविधिः, कस्तर्हि ? लोपविधिरिति, अतः परिभाषा न प्रवर्त्तत इत्यस्त्येव व्यपदेशिवद्भाव इति ततः प्रवर्त्तते लोपशास्त्रम्। अतः सुलोपेन भवितव्यम्-- ङी चेति। सामान्येन परिभाषाप्रवृत्तिमाश्रित्य ङीश्चेति विग्रहः।
अन्यस्त्वाह-- `प्रयोगस्य एव कुमारी, गौरीत्यादिषु य ईकारः सोऽत्रानुकृत एव लुप्तविभक्तिकः,तेन ङी इत्येव भवति। यद्येवम्, कुतो ङकारः सामान्यग्रहणार्थ आसज्यते ? ननु चानुक्रियमाणेनार्थेनार्थवत्त्वात् पुनरपि विभक्त्युत्पत्तिः प्राप्नोति, ततश्च ङीश्चेति भवितव्यम् ? नैतदस्ति; प्राक्कालभाविनी या विभक्तिस्तां प्रत्ययलक्षणेनाश्रित्याप्रत्यय (1.2.45) इति प्रतिषेधात्। अथापि स्यात्-- `न ङिसम्बुद्ध्योः' (8.2.8) इति ज्ञापकात् प्रत्ययलक्षणेनाप्रत्यय (1.2.45) इति प्रातिपदिकसंज्ञा न प्रतिषिध्यते' इति। असदेतत्; नलोपविधिविषयमेवैतज्ज्ञापकम्। अतोऽत्र नास्त्येव प्रत्ययलक्षणेन प्रातिपदिकसंज्ञाप्रतिषेध इति स्थितमेतत्।
ननु च प्रत्ययत्वे सति `परश्च' (3.1.2) इति वचनात् परे भवन्तः स्वादयः पूर्वां प्रकृतिमाक्षिप्य भवन्ति, न ह्यन्यथा परत्वमुपपद्यते, तस्य परत्वस्य पूर्वापेक्षत्वात्, न च ङ्यादिभ्योऽन्या प्रकृतिरुपपद्यते। तत्र ङ्याप्प्रातिपदिकग्रहणमन्तरेणापि पारिशेष्यादियमेव प्रकृतिर्लभ्यते तथा हि, प्रकृत्यन्तरं धातुरिति-- तिङन्तञ्च, वाक्यञ्च। प्रत्यया अपि स्वादयः, टाबादयः अणादयश्च। तत्र धातोस्तावत् स्वादिभिर्न भवितव्यम्, ते ह्येकत्वादिष्वर्थेषु विधीयमानास्तद्वन्तं शब्दमाक्षिपन्ति। न च धातुरेकत्वादिमान्। अथाप्यविशेषणोत्पद्यन्ते, उत्पन्नानां तु नियमः क्रियते ? तथापि न ैव तेषां धातोरुत्पत्तिर्युक्ता; सामान्यविहितानां स्वादीनां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात्। टाबादयस्तर्हि धातोर्भवेयुरिति चेत् ? स्यादेतत्। असति ङ्याप्प्रातिपदिकग्रहणेऽकारान्तेभ्यो धातुभ्यो जुगुप्सादिभ्यः `अतः' (4.1.4) इति टाप् स्यात्, अपिद्भ्यो वञ्चुप्रभृतिभ्यः `उगितश्च' (4.1.6) इति ङीप् स्यात्, नकारान्तेभ्यो मन्प्रभृतिभ्यः `ऋन्नेभ्यो ङीप्' (4.1.5) इति ङीप्प्रत्ययः इति ? एतच्च नास्ति ; यतः स्त्रियां टाबादयो विधीयन्ते, क्रियावचनश्च धातुः। क्रियायाश्चासत्त्वभूतत्वाल्लिङ्गेन योगो नास्ति; तस्य द्रव्यधर्मत्वात्। एतेन तिङन्ताद्वाक्याच्च टाबादीनामुत्पत्तिः प्रतिक्षिप्ता; तयोरपि क्रियाप्रधानत्वात्। अणादीनामपि नैव धातोरुत्पत्तिरुपपद्यते। ते ह्यपत्यादिनार्थेन सम्बन्धे सति विधीयन्ते। धातुवाच्यस्यार्थस्यासत्त्वभूतत्वाद्यथा स्त्रीत्वेन योगो न सम्भवति, तथाप्यपत्यादिना ह्यर्थेन। एतेन तिङन्ताद्वाक्याच्चाणादीनामुत्पत्तिर्निरस्ता; तदर्थस्यापि क्रियाप्रधानस्यापत्यादिना सम्बन्धाभावात्। देवदत्तस्य पचति यस्तस्यापत्त्यमिति सत्यपि सम्बन्धे `तिङश्च' (5.3.56) इति ज्ञापकान्न भवति। येऽपत्यादिनार्थेन सम्बन्धे तद्धिता विधीयन्ते तेऽनन्तरोक्तया नीत्या मा भून्, ये तु स्वार्थे विधीयन्ते तैर्युक्तमेव भवितुमिति चेत् ? वार्त्तमेतत्; यथैव हि स्वादीनां सामान्यविहितानां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात् तदुत्पत्तिर्नोपपद्यते तथा स्वार्थिकानामपि सामान्यविहितानां स्वार्थिकैस्तुमुन्नादिभिर्विशेषविहितैर्बाधितत्वान्नोपपद्यत एव। तिङन्तात् तर्हि के स्युरिति चेत् ? ज्ञापकान्न भविष्यन्ति। यदयं क्वचित् तद्धितविधौ तिङ्गर्हणं करोति-- `अतिशायने तमबिष्ठनौ' (5.3.55) `तिङश्च' (5.3.56) इति, क्वचित् तद्धितविधौ तिङ्ग्रहणं करोति-- `अतिशायने तमबिष्ठनौ' (5.3.55) `तिङश्च' (5.3.56) इति, तज्ज्ञापयति-- तिङन्तात् तद्धिता न भवन्तीति। वाक्यात् तर्हि भवेयरिति चेत् ? अनभिधानान्न भविष्यन्ति। न हि `देवदत्तस्याश्वकः' इत्युक्ते वाक्यार्थगता अज्ञातादयोऽर्थाः कप्रत्ययेन द्योत्यन्ते, किं तर्हि ? अश्वशब्दगता एव।
स्वादिभिरपि नैव तिङन्ताद्भवितव्यम्, तेषां ह्येकत्वादयोऽर्थाः,ते च तिङभिरेवोक्ताः। न चोक्तर्थानां प्रयोगे युक्तः; `उक्तार्थानामप्रयोगः' (व्या.प.60) इति वचना। ननु चोक्तार्थानामपि प्रयोगो दृश्यते, यथा-- एको द्वौ बहव इति चेत् ? युक्तोऽत्र प्रयोगः वचनग्रहणात्। `प्रातिपदिक' इत्यादौ हि सूत्रे वचनग्रहणस्यैतत् तेषां भवति; तत्रास्याः परिभाषाया उपस्थानात्। तेन लिङ्गविशिष्टानामपि सर्वादीनां सर्वनामकार्यमुपपद्यते। यद्येवम्, इममेव न्यायमाश्रित्य शक्यं ङ्याब्ग्रहणमकर्त्तुम् ? नैतदस्ति; न हि प्रातिपदिकसंज्ञा लिङ्गविशिष्टस्यार्थवतः शब्दरूपस्य भवितुमर्हति; `अप्र्तयय' (1.2.45) इति प्रतिषेधात्। न च प्रातिपदिकसंज्ञाविधौ सर्वेऽर्थवन्तः संज्ञिनः स्वरूपेण शक्या दर्शयितुम्; तेषामानन्त्यात्। यद्येवम्, `णाविष्ठवत् प्रातिपदिकस्य' (वा.813) इत्यत्रापि तर्हीयं परिभाषा नोपतिष्ठते; स्वरूपाग्रहणात्, ततश्च लिङ्गवि्शिष्टेष्वष्ठवद्भावो न स्यात्। तत्र को दोषः ? कुमारीमाचष्टे कुमारीयतीत्यत्र टिलोपो न स्यात् ? नैष दोषः; बहुलमिष्ठवद्भाव इष्यते, तथा च चुरादौ पठ्यते `प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च' (चुरा.ग.सू.186) इति। तस्माद्बहुलवचनाल्लिङ्गविशिष्टस्यापीष्ठवद्भावो भविष्यति।
`किञ्च' इत्यादना प्रयोजनान्तरं समुच्चिनोति। तदिति ङ्यापोः प्रत्यवर्शः। ङ्यन्तादाबन्ताच्च तद्धितविधानं यथा स्यादित्येवमर्थं च ङ्याब्ग्रहणम्। `कालितरा' इति। कालशब्दाज्जनपदादिसूत्रेण (4.1.42) ङीप्, तदन्तात् `द्विवचनविभज्योपपदे' (5.3.57) इत्यादिना तरप्, `घरूपकल्प' (6.3.43) इत्यादिना ह्रस्वः। `हरिणितरा' इति। हरितशब्दात् `वर्णादनुदात्तात् तोपधातो नः' (4.1.39) इति ङीप्, तकारस्य नकारः, `अट्कुप्वाङ्' (8.4.2) इत्यसति ङ्याब्ग्रहणे परत्वादातिशयिकः स्यात्। अस्मिंस्तु सति ङ्यापोस्तद्धितविधाने प्रकृतित्वेनाश्रयणात् पूर्वं ङ्याब्भ्यां भवितव्यमिति तदन्तात् तद्धितविधिः सिध्यति। ननु चान्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तदिताः, तथा हि-- `समर्थानां प्रथमाद्वा' (4.1.82) इत्यधिकाराद्विभक्त्यन्ताते उत्पद्यन्ते, विभक्तयश्च कर्माद्यपेक्षाः, कर्मादयश्च बाह्यक्रियानिमित्तत्वाद्बहिरङ्गाः ततश्च निमित्तस्य बहिरङ्गत्वात् तद्धिता अपि बहिरङ्गाश्रया एव भवन्ति; लिङ्गस्य तु सम्बन्ध्यन्तरानपेक्षत्वादन्तरङ्गत्वञ्च, अतस्तन्निमित्ता अपि टाबादयोऽन्तरङ्गा भवन्ति, ततश्चान्तरङ्गत्वादेव टाबादिभिस्तावद्भवितव्यम्, पश्चात् तदन्तात् तद्धितैरित्यपार्थकं ङ्याब्ग्रहणम् ? नैतदस्ति; तदन्तात् तद्धितविमधानार्थं ङ्याब्ग्रहणमित्यत्र हि वाक्ये तद्धितग्रहणेन स्वार्थिका ये तद्धितास्त एव विवक्षिताः। इममेवार्थं सूचयितुं कालितरा, हरिणितरेति स्त्रीप्रत्ययान्तात् स्वार्थिक एव तरप्प्रत्यय उदाहृतः।
स्वार्थिकेषु च `समर्थानाम्' (4.1.82) इत्येतन्नानुवर्त्तते। तथा हि क्ष्यति वृत्तिकारः-- `स्वार्थिकप्रत्ययावधिश्चायमधिकारः `प्राग्दिशो विभक्तिः' (5.3.1) इति यावत्। स्वार्थिकेषु ह्यस्योपयोगो नास्ति' इति। एवञ्च सति विभक्त्युत्पत्तिमनपेक्ष्य प्रातिपदिकादेव स्वार्थिकैर्भवितव्यमिति कुतस्तेषां बहिरङ्गत्वम् ! नन्वेवमपि कालितरेत्याद्यनुदाहरणम्; तरप्प्रत्ययस्य बहिरङ्गत्वात्। स हि यद्यपि विभक्त्युत्पत्तिं नापेक्षते, प्रतियोगिनं तु बाह्यार्थमपेक्षत एव, स्त्रीप्रत्ययस्य तु न कश्चित् प्रतियोग्यपेक्षेति तस्यान्तरङ्गत्वम् ? नैष दोषः; उदाहरणदिगियं वृत्तिकारेण दर्शिता ।
एतानि त्वत्रोदाहरणानि दर्शयितव्यानि-- एनिका, श्येनिका, रोहिणिकेति। अत्र हि यदि पूर्वं तद्धितः स्यात् तदेतश्यतरोहितशब्देभ्योऽज्ञाताद्यर्थविवक्षायां कप्रत्यये `वर्णादनुदात्तात् तोपधात् तो नः' (4.1.39) इत्यनेन ङीब्नकारौ न स्याताम्। यदि तर्हि ङ्याबन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्, समासान्ता अपि तदन्तादेव स्युः, ततश्च बहवो गोमन्तोऽस्यां नगर्यामिति स्यात्, बहुव्रीहौ कृते `उगितश्च' (4.1.6) इति ङीप्, ततश्च `नद्यृतश्च' (5.4.153) इति कपि बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते ? नैष दोषः; न हि समासान्ताः समासादुत्पद्यन्ते। किं तर्हि ? अकृत एव समासे तदर्थादुत्तरपदात्। तथा हि `न कपि' (7.4.14) इत्यत्र वक्ष्यति वृत्तिकारः-- `गोस्त्रियोरुपसर्जनस्य' (1.2.48) इत्ययमपि ह्रस्वः कपि न भवति, समासार्थे ह्युत्तरपदे कपि कृते पश्चात् समासेन भवितव्यमिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति' इति। न च बहवो गोमन्तोऽस्यां नगर्यामित्यत्र वाक्ये समासार्थमुत्तरपदं स्त्रियां वर्त्तत इति प्राक्कपैव भवितव्यम्, पश्चात् समासेन, ततः स्त्रीप्रत्ययेन प्रत्ययानुपूर्व्या बहुगोमत्केति सिद्धं भवति।
यिद तर्ह्यकृत एव समासे तदर्थादुत्तरपदात् समासान्ता भवन्ति, तदा `नञस्तत्पुरुषात्' (5.4.71) इत्यत्र `नञढः परे वक्ष्यमाणा य ऋगादयस्तदन्तात् तत्पुरुषात् समासान्ता न भवन्ति' इत्येष वृत्तिग्रन्थो विरुध्यते, तेब्यस्तत्पुरुषसमासार्थेभ्यः समासान्ता न भवन्तीति वक्तव्यं स्यात् ? नञः प्रकृतत्वात् स एव विज्ञायते । `तत्पुरुषात्' (5.4.71) इत्यत्रापि तत्पुरुषशब्दस्तादर्थ्यात् तत्पुरुषार्थ उत्तरपदे वर्त्तते। तत्र पुनः ऋगादेः श्रुतत्वादृगादिरेव विज्ञायते, तदन्तात् तत्पुरुषादिति च व्यधिकरणे पञ्चम्यौ। ततोऽयमर्थः नञः परे य ऋगादयस्ते समीपभूता यस्य नञस्तस्मात् परं यत्तत्पुरुषार्थमृगादिपदं ततः समासान्तो न भवतीति। अथ वा-- अवयववचनोऽन्तशब्दः, समानाधिकरण एव पञ्चम्यौ; तादर्थ्यात्। ऋगाद्यन्तं तत्पुरुषार्थं युदत्तरपदं तदेव। तदन्तात् तत्पुरुषार्थादित्युक्तम्। ततश्चायमर्थः नञः परे य ऋगादयस्तदन्तात् तत्पुरुषार्थादुत्तरपदात् समासान्ता न भवन्तीति। तत् पुनस्तदन्ततत्पुरुषार्थम्। उत्तरपदं सामर्थ्यादृगाद्येव विज्ञायते। `बहुव्रीहौ संख्येये डजबहुगणात्' (5.4.73) इत्यत्र तर्हि योऽयं वृत्तिग्रन्थः-- `संख्येये योऽयं बहुव्रीहिर्वर्त्तते तस्मादबहुगणान्ताड्डच्प्रत्ययो भवति' इति, तस्य विरोधः ? नास्ति विरोधः; अत्र हि बहुव्रीह्यर्थमुत्तरपदमेव तादर्थ्याद्बहुव्रीहिरित्युक्तं भवति। तदयमर्थः-- संख्येये यद्बहुव्रीह्यर्थमुत्तरपदं वर्त्तते तस्माड्ड्च्प्रत्ययो भवतीति। अनया दिशाऽप्यन्य एवञ्जातीया विरोधाः परिहर्त्तव्याः। तदेवं स्थितमेवैतत्-- तदन्तात् तद्धितविधानार्थं ह्याब्ग्रहणमिति, विप्रतिषेधात् तद्धितविधानार्थं ङ्याब्ग्रहणमिति, विप्रतिषेधात् तद्धितवलीयस्त्वमिति।
यद्येवम्, `युनस्तिः' (4.1.77) `ऊङुतः' (4.1.66) इत्येतयोरपि त्यूङोर्ग्रहणं कस्मान्न विज्ञायते, तदन्तात् तद्धितोत्पत्तिर्यथा स्यात्-- युवतितरा, ब्रह्मबन्धूतरेति ? `नद्याः शेषस्यान्यतरस्याम्' (6.3.44) इत्यूङो विकल्पेन ह्रस्वत्वं न कर्त्तव्यम्; ह्याब्ग्रहणस्योपलक्षणार्थत्वात्। `स्त्रियाम्' (4.1.3) इति प्रकृत्य येषां विधानं तदुपलक्षणार्थमिह ङ्याब्ग्रहमम्। अतस्त्यूङोरपि ग्रहणमिह कृतमेव वेदितव्यम्।
ङ्याब्ग्रहणं यद्युपलक्षणार्थम, अन्यतरस्यैव ग्रहणं कर्त्तव्यम्, एकेनापि हि स्त्रीप्रत्यया उपलक्ष्यन्त एव ? सत्यमेतत् ; वैचित्र्यार्थं तु द्वयोर्ग्रहणम् । `यावादिभ्यः कन्' (5.4.29), `लोहितान्मणौ' (5.4.30), `वर्णे चानित्ये' (5.4.31) इत्यनेन तु विकल्पेन स्वार्थिकेन स्त्रीप्रत्ययस्य बाधनमिष्यते। तत्र यदा बाधा तदा लोहितशब्दात् कनि टापि कृते चेत्वे लोहितिकेति भवितव्यम्; यदा तु न बाधा तदा ` वर्णादनुदात्तात्तोपधात् तो नः' (4.1.39) इति ङीब्नकारयोः कनि च `केऽणः' (7.4.13) इति ह्रस्वत्वे कृते लोहिनिकेति भवितव्यम्। तस्माद्वक्तव्यमेवैतत्-- लोहिताल्लिङ्गबाधनं वेति।।
2. स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्याम्ब्यस्ङसोम्ङ्योस्सुप्। (4.1.2)
`उकारादवोऽनुबन्धाः' इत्यादि। तत्र प्रथमैकवचनस्योकार उच्चारणार्थाः। `अनहसौ' (7.1.93) इति विशेषणार्थः कस्मान्न विज्ञायते ? व्यावर्त्याभावात्। जसो जकारोऽसन्दिग्धोच्चारणार्थः, असति हि तस्मिन्नौकारस्यावादेशे कृते सन्देहः स्यात्-- कीदृशस्य प्रत्ययस्योच्चारणमिति, तत्र व्याख्यानं कर्त्तव्यमापद्यते। अथ `जसः शी' (7.1.17) इत्यत्र विशेषणार्थः कस्मान्न विज्ञायते ? `असः शी' (इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्। `औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः' इति। वृत्तौ त्वेष ग्रन्थो नास्ति; भवितव्यं त्वनेन। लेखकप्रमाददोषादिदानीमन्तर्हितः। शसः शकार औटष्टकारस्य `खरि च' (8.4.55) इति चर्त्वेनासन्दिग्धोच्चारणार्थः। शकारः सन्देहनिरासार्थः, इतरथा ह्यौडसित्युच्यमाने सन्देहः स्यात्-- किं टकारस्येदमुच्चारणम्, उत डकारस्येति ?तत्र डकारोच्चारणाट्टिलोपः स्यात्। ननु च सत्यपि शकारे भवितव्यमेव सन्देहेन-- किमिदं कृतचर्त्वस्य डकारस्योच्चरणम् ?टकारस्य वेति ? नैतदस्ति; यदि हि डकारस्य स्यात्, शकारोच्चारणमनर्थकं स्यात्। अथ `तस्माच्छसो नः पुंसि' (6.1.103) इति तत्र विशेषणार्थः `टाङसिङसामिनात्स्याः' (7.1.12) इत्यत्र । `सुपां सुलुक्' (7.1.39) इत्यादौ सुपां सुलुक् पूर्वसवर्ण आ आत् शे इत्याकारप्रश्लेषः, तत्रासति टकारे तस्यापि ग्रहणं स्यात्। `संख्याकर्मादयश्च' इत्यादि। संख्या स्वादीनामर्थे विहिता `बहुषु बहुवचनम्' (1.4.21) इत्यादिना शास्त्रान्तरेण। कर्मादयश्च `कर्मणि द्वितीया' (2.3.2) इत्येवमादिना। `तेन सहास्यैकवाक्यता' इति। कर्मणि बहुत्वे बहुवचनं शस्। कर्मणि द्वित्वैकत्वयोद्विवचने औडमौ। एवमन्यत्राप्येकवाक्यता वेदितव्या।
यदि तर्हि तेन सहास्यैकवाक्यता , तदा युक्तं `बहुषु बहुवचनम्' (1.4.21) इत्यत्र -- `यत्र च संख्या सम्भवति तत्रायमुपदेशः, अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव' इति, तद्विरुध्यते, एकवाक्यतायां हि विशिष्ट एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात् सामान्यविहितत्वं नोपपद्यते।
यदपीदं तत्रोक्तम्- `ङ्याप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वसंख्यावाच्यत्वेन विधीयते' इति, तदपि विरुध्यत एव; न ह्येकवाक्यतायां विहितस्य बहुवचनस्य पश्चाद्बहुत्वसंख्याय वाच्यत्वेन विधानं युक्तम्। तेन शास्त्रान्तेणानेन च संहत्य बहुत्वसंख्यायामेव बहुवचनविधानात् पूर्वकस्तावन्नास्ति विरोधः। एकवाक्यतायामपि हि यथा स्वादीनां सामान्येन विधानमुपपद्यते तथा `बहुषु बहुवचनम्' (1.4.21) इत्त्रैव प्रतिपादितम्। योऽपि द्वितीयो विरोध उद्भावितः सोऽपि न भवत्येव; ह्याप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितमिति `बहुषु बहुवचनम्' (1.4.21) इत्यनेन सैहकवाक्यतामापन्नेनेत्ययं तत्राभिप्रायो वेदितव्यः। तस्यानेन सूत्रेण बहुत्वसंख्या वाच्यत्वेन विधीयत इत्यत्रापि स्वादिसूत्रेण (4.1.2) `लस्य' (3.4.77) इत्यादिना च शास्त्रेण सहैकवाक्यतां प्रतिपन्नेनेत्येषोऽभिप्रायो द्रष्टव्यः। एवञ्च संहत्यैव बहुवचनं विहितम्। संहत्यैव च तस्य बहुतवसंख्या वाच्यत्वेन विधीयत इति कुतो विरोधः; ननु च `बहुवचनम्' (1.4.21) इत्येकमिदं शास्त्रम्, तस्य दि स्वादिसूत्रेणै (4.1.2)कवाक्यता, ततो `लस्य' (3.4.77) इत्यादिना शास्त्रान्तरेण सा नोपपद्यते ? अथ तेनैकवाक्यता, स्वादिसूत्रेण (4.1.2) सा नोपपद्यते ? नैव दोषः; द्वे ह्येते वचने तन्त्रोच्चारिते, तत्रैकस्य स्वादिसूत्रेणैकवाक्यता, अपरस्य `लस्य' (1.4.21) इत्यादिना शास्त्रान्तरेण।
अथ वा-- अन्यथा विरोधाभावः प्रतिपाद्यते। इह हि स्वादयोऽनेन सूत्रेण `कर्मणि द्वितीया' (2.3.2) इत्येवमादिकं शास्त्रमनपेक्ष्य वा विधीयेरन् ? तद्वापेक्ष्य तेन सहैकवाक्यतामापन्ने ते ? इति द्वौ पक्षौ। तत्राद्ये पक्षेऽविशेषेणैव स्वादयो विधीयन्त इति, तथा विहितानां तु तेषां नियमः क्रियते-- यत्र संख्या सम्भवति तत्रासौ बहुषु बहुवचनम्' (1.4.21) इत्यादिना शास्त्रान्तरेण कर्मादिसम्बन्ध्येकत्वादिसंख्यावाच्यत्वेन विधीयते, यानि तु निःसख्यान्यव्ययानि तेब्यः सामान्यविहिताः स्वादय सन्तीत्येव। द्वितीये तु पक्षे विशिष्ट एवार्थे कर्मादिसम्बन्धिनि बहुत्वादौ स्वादयो विधीयन्ते। तत्र `बहुषु बहुवचनम्' (1.4.21) इत्याद्यः पक्ष आश्रितः, इह तु द्वितीय इति नास्ति विरोधः; पक्षान्तरमाश्रित्य तथाऽभिधानात्। अथ द्वितीये पक्षे कथमव्ययेभ्यः सुबुत्पत्तिः, न ह्येकवाक्यतायां संक्याकर्माद्यर्थरहितेभ्यः स्वाद्युत्पत्तिरुपपद्यते ? नैष दोषः; ज्ञापकाद्भविष्यति। यदयं `अव्ययादाप्सुपः' (2.4.82) इत्यव्ययादुत्पन्नस्य सुपो लुकं शास्ति, तज्ज्ञापयति-- भवत्यव्ययाद्विभक्त्युत्पत्तिरिति।
`कुमारी' इति। `वयसि प्रथमे' (4.1.20) इति ङीप्। `गौरी' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्। `शार्ङ्गरवी' इति `शार्ङ्गरवाद्यञो ङीन्' (4.1.73)। `खट्वा' इति। `अजाद्यतष्टाप्' (4.1.4) इति टाप्। `बहूराजा' इति। `डाबुभाभ्यामन्यतरस्याम्' (4.1.13) इति डाप्। `कारीवगन्ध्याः' इति। करीषस्य गन्ध इव गन्धो यस्येति। `गन्धस्येदुत्पूतिसुसुरभिभ्यः' (5.4.135) , `उपमानाच्च' (5.4.137) इतीत्त्वम्। करीषगन्धेरपत्यमिति `यस्येति च' (6.4.148) इत्यकारलोपः,`तद्धितेष्वचामादेः' (7.2.117) इत्यादि वृद्धिः,`अणिञोरनार्षयोर्गुरुपोत्तमयोः' (4.1.78) इत्यादिना ष्यङादेशः, `यङश्चाप्' (4.1.74) इति चाप्।।
3. स्त्रियाम्। (4.1.3)
`ङ्यापोरनेनैव विधानात्' इति। एतेन `स्त्रियाम्' इत्यधिकृत्य प्रत्ययविधौ ह्याबन्तायाः प्रकृतेरभावमाह। एष च `प्रातिपदिकमात्रमत्र प्रकरणे सम्बध्यते' इत्यत्र हेतुः। यदि हि ङ्याबन्ता प्रकृतिरिह प्रकरणे सम्भवेत् ततो ङ्यापावपि सम्बध्येयातानाम्, सा ङ्याब्रूपा न सम्भवति, अतो न ताविह सम्बध्येते।
इह च स्त्रीत्वं प्रत्याचार्याणां दर्शनभेदः, क्वचिच्च दर्शने दोषो दृश्यते। तत्र केषाञ्चिद्दर्शनम्--
`स्तनकशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।
उभयोरन्तरं यच्च तदभावे नपुसंकम्।। इति।
`स्तनकेशवती' इति, भूम्न्यतिशायने वा मतुप्। `लोमशः' इत्यत्रापि लोमादिपामादिसूत्रेण (5.2.100) शप्रत्ययः। `उभयोरन्तरम्' इति, उभयोः स्त्रीपुंसयोः सदृशमित्यर्थः। तत्पुनः सादृश्यं लिङ्गवत्वेन। एवं तर्हि तदुभयं समुदितं यत्र तन्नपुंसकं प्राप्नोति। भवति हि समुदायरूपं समुदायिरूपेण लिङिगत्वेन सदृशमित्यत आह-- `तदभावे' इति। एतदुभयं यत्र नास्ति तत् `नपुंसकम्' इति। तेन न सम्भवत्येष दोषः। यदि तदभावे नपुंसकमित्येतदुच्यते, ततोऽव्ययानां तिङन्तानाञ्चैव नपुंसकत्वं स्यात्। तथाप्युभयोरन्तरं यदित्येतावदुच्यते, एवमपि कुक्कुटमयूर्यौ इत्येवमादीनां लिङ्गसमुदायमतां समुदायानां नपुंसकत्वं प्रसज्येत। तस्मादुभयोरन्तरं यत् तदभाव इति च द्वयमप्युक्तम्। तदेवं यन्न स्त्री न पुमान् लिङ्गवच्च वस्तु तन्नपुंसकमित्युच्यते, ततोऽव्ययानां तिङन्तानाचञ्च नपुंसकत्वं न भवतीत्युक्तं भवति। अत्र दर्शने भ्रृकुंसे च टाप् प्रसज्यते, तसय् हि स्तनकेशसम्बन्ध उपलभ्यते। भ्रृकुंसः स्त्रीवेशधारी नर्तकः, पुरुष उच्यते। खट्वादीनाञ्च स्तनकेशाभावात् स्त्रीत्वं न स्यात्, वृक्षादीनाञ्च लोमशत्वाभावात् कुंस्त्वाभावः प्राप्नोति, खरकुट्यादीनाञ्च लोमशत्वात् पुंस्त्वम्, ततश्च खरकुटीः पश्येति `तस्माच्छसो नः पुंसि' (6.1.103) इति नत्वमापद्येत।
अन्येषां तु दर्शनम्-- संस्त्यानम्, प्रसवः, स्थितिश्चेति। संस्त्यानम्-- अपचयस्वभावं स्त्रीत्वम्, तद्यत्रास्ति सोऽर्थः स्त्री। प्रसवः = उपचयात्मकः पुंस्त्वम्, तद्यत्रास्ति स पुमान्। उपचयापचयरहिता याऽवस्था तदात्मिका स्थितिर्नपुंसकत्वम्, तद्यत्रास्ति तन्नपुंसकमिति। अत्रापि दर्शने संस्त्यानादेस्त्रयस्य सर्वत्र भावादेकैकं वस्तु स्त्री, पुमान्, नपुंसकञ्च प्रसज्येत। संस्त्यानविवक्ष्यायामेव स्त्रीत्वं भवति, प्रसवविवक्षायामेव पुंस्त्वम्, स्थितिविवक्षायामेव नपुंसकत्वम्, अतोऽयमदोष इति चेत् ? अयुक्तमेतत्; तथा हि-- उपचीयते कुमारीत्यपि कुमारी स्त्री भवति, न पुमान्। अपचीयते वृक्ष इति संस्त्यानविवक्षायामपि वृक्षः पुमानेव भवति, न स्त्री। ुपचीयते कुण्डमपचीयते वेत्युपचयापचययोरन्यतरविवक्षायामपि कुण्डं नपुंसकमेव भवति, न पुमान् नापि स्त्री।
तदेवमाचार्याणां स्त्रीत्वं प्रति दर्शनभेदाद्दोषदर्शनाच्च पृच्छति-- `स्त्रियामित्युच्यते,केयं स्त्री' इत्यादि। वृत्तिकारस्तु विदिताभिप्रायो दर्शनान्तरमाश्रित्याह-- `सामान्यविशेषाः' इत्यादि। सामान्यानि विशेषाश्चेति। तथा सामान्यानि च तानि तुल्यजातीपदार्थसाधारणत्वाद्विशेषाश्च परस्परतो विजातीयेभ्यश्च विशिष्यन्ते = व्यावर्त्यन्त इति सामान्यविशेषाः। `स्त्रीत्वादयो गोत्वादय इव' इति। यथैव हि गोत्वादयः सामान्यविशेषा भिन्नेष्व पि स्वाश्रयेष्वभिन्नाकारबुद्ध्यभिधानहेतवस्तथा स्त्रीत्वादयोऽपि। यथैव हि गोत्वादयस्तुल्यजातीयेषु सर्वेषु वर्त्तन्ते, विजातीयेभ्यस्तु व्यावर्त्तन्ते, तथा स्त्रीत्वादयोऽपि। तस्मात् तद्वदेव तेऽपि सामान्यविशेषाः। ननु च सामान्यविशेषणां सर्वव्यक्त्यनुगतत्वादस्मिन्नपि दर्शने स एव सर्वत्र सर्वलिङ्गताप्रसङ्गः, तत्किमिति दर्शनान्तरमुत्सृज्येदं दर्शनमाश्रितमित्याह--`बहुहप्रकारा व्यक्तयः'इति। व्यजन्त आभिरिति व्यक्तव्यः--- सामान्यविशेषाणामाश्रयाः। बहुप्रकारा व्यक्तयो येषां सामान्यविशेषाणां ते तथोक्ताः। अनेनैतत् सूचयति-- विचित्रत्वात् सामान्यविशेषाश्रयाणां व्यञ्जकानां कश्चिदेव सामान्यविशेषः केनचिदेवाश्रयेण व्यज्यते, न सर्वः सर्वेण। प्रतिनियतविषयत्वात् पदार्थशक्तीनाम्। तत्र येनार्थेन स्त्रीत्वमेव व्यज्यते न पुंस्त्वं नापि नपुंसकत्वम्, सा स्त्र्येव भवति, न पुमान्, नापि नपुंसकम्, येन पुंस्त्वमेव व्यज्यते स पुमानेव, येन नपुंसकत्वं तन्नपुंसकमेव। यस्तु द्वयोस्त्रयाणां वा व्यञ्जकः स द्विलिङ्गस्त्रिलिङ्गो वेष्यते-- अर्धर्चः, अर्धर्चम्; पद्मः, पद्मम्; तटः, कटी,तटमिति। तेन नास्मिन् दर्शने पूर्वदोषावसरः। यस्तर्हि सामान्यविशेषस्याश्रयो व्यञ्जको न भवति स कथं तद्योगात् स्त्री भवति ? पुमान् नपुंसकञ्चेति ?अत आह--क्वचित्' इत्यादि। आशात्माकाशादिषु हि सामान्यविशेषाः स्त्रीत्वादयः क्वचिदुपदेशमात्रव्यङ्ग्या एव, न त्वाश्रयव्यङ्ग्याः, तदाश्रयाणामतीन्द्रियत्वात्। तत्र यस्मिन्नुपदेशेन स्त्रीत्वं व्यज्यते सा स्त्री भवति, यथा -- इयमाशेति। यत्र पुंस्त्वं स पुमान्, यथा--अयमात्मेति। यत्र नपुंसकत्वं तन्नपुंसकमेव, यथा--- इदमाकाशमिति। कथं स्त्रीत्वादयः क्वचिदुपदेशमात्रव्यङ्ग्या भवन्तीत्याह-- `यथा' इत्यादि। ब्राह्मणत्वक्षत्रियत्वादीनां हि तथाविध आश्रयो नास्ति यस्तान्यभिव्यञ्जयेत्; सामान्यविशेषाश्रयाणामाशात्माकाशादीनमतीन्द्रियत्वात्। तदाश्रयणामन्यत्र सादृश्यादुपदेशमात्रादेव तु ब्राह्मणत्वादीनामभिव्यक्तिर्भवति। यथा च तेषां तथा च क्वचित् स्त्रीत्वादीनाम्। किं पुनरिदं स्त्रीत्वम् ? प्रत्ययार्थः ? उत प्रातिपदिकविशेषणम् ? इत्याह-- `स्त्रीत्वञ्च' इत्यादि। यदा स्त्रीशब्दो विनाऽपि भावप्रत्ययेन स्त्रीत्वे वर्त्तते तदा स्त्रियामभिधेयायां टाबादयो भवन्तीति स्त्रीत्वं प्रत्ययार्थो भवति। यथैव हि गोशब्दो जातिपदार्थपक्षे भावप्रत्ययरहितोऽपि गोत्वे वर्त्तते तथा स्त्रीशब्दोऽपि स्त्रीत्वे। यदा तु स्त्रीत्वं विशेषणमुपादाय तद्वति द्रव्ये स्त्रीशब्दोऽपि वर्त्तते तदायं पक्षोऽपि भवति-- स्त्रियां यत् प्रातिपदिकं वर्त्तते तस्माट्टाबादय इति स्त्रीत्वं प्रकृतेर्विशेषणं भवति। `उभयथाऽपि युज्यते' इति। कथं पुनरुभयथा युज्यते, यावता स्त्रीत्वस्य प्रत्ययार्थत्वे स्त्रीत्वं प्रधानमापद्यत इति तत्र व्यतिरेकलक्षणा षष्ठी प्राप्नोति, यथा--स्त्रीत्वं देवदत्ताया इति, ततश्च कुमारी देवदत्तेति सामानाधिकरण्यं न स्यात् ? द्विवचने बहुवचने च कुमार्यौ कुमार्य इति न स्याताम्, एकत्वात् स्त्रीत्वस्य ? अनेकश्च प्रत्ययो नोपपद्यते गार्गायणी, कारीषगन्ध्या,कालितरेति;एकत्वात् स्त्रीत्वस्य, तस्य च प्रथमोत्पन्नेनैव ष्फष्यङादिनाभिहितत्वात् ? स्त्रीति च ईकारो न प्राप्नोति संस्त्याने `{स्त्री इत्येव मुद्रितदशपाद्युणादिसूत्रपाठे दृष्यते} स्त्यायतेर्ड्रट्' (पं.उ.4.165) इति ड्रट्प्रत्ययान्तेनाभिधीयते, यतो व्यतिरेकलक्षणा षष्ठी स्यात्। कस्मात् न हि सामान्यविशेषाणामाश्रयाद्भेदः स्त्रीप्रत्ययान्तेनाभिधीयते, यतो व्यतिरेकलक्षणा षष्ठी स्यात्। कस्मात् पुनर्नाभिधीयते ? शब्दशक्तिस्वाभाव्यात्। द्विवचनबहुवचने अपि चोपपद्यते; यस्मात् सामान्यविशेषाणामेकत्वेऽपुनर्नाभिधीयते ? शब्दशक्तिस्वाभाव्यात्। द्विवचनबहुवचने अपि चोपपद्येते; यस्मात् सामान्यविशेषणामेकत्वेऽप्याश्रयसंख्यास्तद्वाचिन उपाददते, शब्दशक्तिस्वाभाव्यादेव। तेनाश्रयस्यानेकत्वात् द्विवचनबहुवचने भविष्यतः। गार्ग्यायणीत्येवमादौ द्वाभ्यामेव स्त्रीप्रत्ययाभ्यां स्त्रीत्वं व्यज्यते। नैकेन ष्यङादिनेत्यनेकोऽपि प्रत्ययो युक्त एव। अथ वा-- गार्ग्यायणीत्यत्र `प्राचां ष्फ तद्धितः' 4.1.17) इति विहितस्य ष्फस्य षित्करणसामर्थ्यात् ङीष् प्रत्ययो भविष्यति। `कारीषगन्ध्या' इति। ष्यङन्तात् `यङश्चाप्' (4.1.74) इति वचनसमार्थ्यादच्चाब्भविष्यति। `कालितरा' इति। जानपदादि (4.1.42) सूत्रविहितेन ङीषा स्त्रीत्वमप्रकर्षविशिष्टमुक्तम्, न तु प्रकर्षविशिष्टम्, अतस्तस्यानभिहितत्वात् तरवन्तात् टाब्भविष्यति। स्त्रीति `स्त्रियाम्'(4.1.3) इति निर्देशाल्लिङ्गाट्टित्करणसामर्थ्याद्वा ङीब्भविष्यति। प्रकृत्यर्थविशेषणपक्षे तु प्रातिपदिकेन स्त्रीत्वविशिष्टं द्रव्यमेवोच्यते, टाबादयस्तु द्योतका इति। तत्र व्यतिरेकाभावात् षष्ठ्या अप्रसङ्गादेव द्विवचनबहुवचने अपि। अनेकत्वाद्द्रव्यस्य युक्तेऽनेकोऽपि प्रत्ययो युक्त एव। यथैव हि प्रातिपदिकेनोक्तेऽपि स्त्रीत्वे खट्वेत्यादौ टाबादयो भवन्ति, तथा गार्ग्यायणीत्यादावनेकेऽपि ष्फादयो भवन्ति। अनेनैव स्त्रीत्वस्य द्योतितत्वादिति युक्तमुक्तम्-- `उभयथापि युज्यते' इति।।
4. अजाद्यतष्टाप्। (4.1.4)
`अजाद्यतदन्ताच्च'इति। अकारान्तादित्यर्थः। अथ स्वरूपग्रहणं कस्मान्न विज्ञायते ? अच्छब्दान्ताच् शरद्दरदित्येवमादेरिति ? लिङ्गात्। किं लिङ्गम् ? `तदाद्याचिख्यासायाम्' (2.4.21) `यकपूर्वायाः' (7.3.46) इत्येवमादिनिर्देशात्। स्वरूपग्रहणे हि ते नोपपद्येरन्। `पकारः सामान्यग्रहणार्थः' इति। `ङ्याप्प्रातिपदिकात्' (4.1.1) इत्यत्रासति हि पकारेऽस्य ग्रहणं न स्यात्। `टकारः सामान्यग्रहणाविघातार्थः' (इति)। असति हि टकारे `एकानुबन्धकग्रहणे न द्वय्नुबन्धकस्य' (व्या.प.52) इतिटापकस्यैव ग्रहणं स्यात्, न डाप्चापोः; द्वयनुबन्धकत्वात्। `शुभंयाः कीलालपाः' इति। `अन्येभ्योथऽपि दृश्यन्ते' (3.2.75) इतिविच्। किं पुनः स्यात्, यद्यत्रापि टाप्स्यात् ? इत्याह-- `हल्ङ्याभ्यः' इत्यादि।
`जातिलक्षणे' इति। `जातेरस्त्रीविषयादयोपधात्' (4.1.63) इति। `पुंयोगलक्षणे' इति। `पुंयोगादाख्यायाम्' (4.1.48) इति। `पुष्पफलोत्तरपदलक्षणे' इति। `पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च' (4.1.64) इति। `वयोलक्षणे' इति। `वयसि प्रथमे' (4.1.20) इति। `टिल्लक्षणे' इति। `टिड्ढाणञ्' (4.1.42) इति।
`शूद्रा चामहत्वपूर्वा' इत्यादि। ननु च `आमन्महतः' (6.3.46) इत्यादिनात्त्वेनात्र भवितव्यम्, अत एवं वक्तव्यम्-- अमहापूर्वेति ? नैतदस्ति; अर्थप्रधानस्य हि तदात्त्वमुच्यते, शब्दप्रधानश्चायम्। महच्छब्दः पूर्वो यस्याः सा महत्पूर्वेति। `महत्पूर्वस्य प्रतिषेधः' इति।अहमत्पूर्वेत्यस्यार्थमाचष्टे। अत्रापि जातिरिति सम्बध्यते, जातिवचनस्य प्रतिषेधो यथा स्यात्। इह मा भूत्-- महती शूद्रा महाशूद्रेति। अत् ह्युत्तरपदं शूद्रशब्दो जातौ वर्त्तते, न समुदायो महतीशूद्रारूपः। कथं पुनर्जातिरित्युच्यमाने मह्त्पूर्वस्य प्राप्तिः,यतः प्रतिषेध उच्यत इत्याह-- `महाशूद्रशब्दो ह्याभीरजातिवचनः' इति। महाशूद्रशब्दल एव हि समुदायो जातौ वर्त्तते। अत एव महाशूद्रीति `जातेरस्त्री' (4.1.63) इत्यादिना ङीब्भवति। नन्वेवमपि नास्त्येव टापः प्राप्तिः,शूद्रशब्दाद्धि प्रत्यय उत्पद्यमानः कथं महाशूद्रात् प्राप्नोतीत्यत आह--`तत्र तदन्तविधिर्न' इत्यादि। `कथं तदन्तविधिः' इति। न कथञ्चित्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादिति (व्या.प.89) मन्यते। `अतिधीवरी ' इति। `अतिपीवरी' इति। दधातेः पिबतेश्च `आतो मनिन्ववनिष्वनिपश्च' (3.2.74) इति क्वनिप्, ईत्वं घुमास्थादिसूत्रेण (6.4.66)। धीवानमतिक्रान्ता, पीवानमतिक्रान्तेति `कुगतिप्रादयः' (2.2.18) इति समासः। अत्र तदन्तविधौ ज्ञापिते सति `वनोरच्' (4.1.7) इति ङीब्रौ न भवतः। यदि पुनस्तदन्तविधिर्न ज्ञाप्येत तदा `वनः' इति प्रत्ययग्रहणमेतत्, ततश्च प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवति' (पु.प.वृ.44) इति वचनादिहैव स्याताम्-- `धीवरी, पीवरीति; अतिधीवरी, अतिपीवरीत्यत्र तु न स्याताम्। `अतिभवती'। अतिमहती' इति। भवतुशब्दः केवल उगित् सर्वादिषु पठ्यते, महदिति गौरादौ, तत्रासत्यस्मिञ्ज्ञापके केवलाभ्यामेव भवन्महच्छब्दाभ्यामुगिद्गौरादिलक्षणौ ङीब्ङीषौ स्याताम्। अतिभवती, अतिमहतीत्यत्र तु न स्याताम्, ज्ञापके तु सति भवतः। यद्येवम्, पञ्चानामजानां समाहारः पञ्चाजीति द्विगोरपि तदन्तविधिना टाप् प्राप्नोति ? नैष दोषः; अजादिभिः स्त्रियामिति विशेषयिष्यामः,`अजाद्यतः' (4.1.4) इति हि षष्ठी,तत्रैवमभिसम्बन्धः कर्त्तव्यः-- अजादीनां या स्त्री, अजादिशब्दानां वाच्येऽर्थे यत् स्त्रीत्वं समवायसम्बन्धेन वर्त्तमानम्, तत्र टाबिति। न च पञ्चाजीत्यत्राजाशब्दस्यार्थे वाच्ये स्त्रीत्वं समवेतम्, किं तर्हि ? समाहारे वाच्ये।
`पूर्वापहाणा। अपरापहाणा। टित्' इति। ल्युडन्तत्वात्।कक
`प्राक्पुष्पा' इति। प्राञ्चन्तीति प्राञ्चि, `ऋत्विग्दधृक् (3.2.59) इत्यादिना क्विन्। प्राञ्चि पुष्पानि यस्याः सा प्राक्पुष्पा।।
5. ऋन्नेभ्यो ङीप्। (4.1.5)
`ङकारः सामान्यग्रहणार्थः' इति। असति हि तस्मिन् `ङ्याप्प्रातिपदिकात्' (4.1.1) इत्यत्र ङीति ङीग्ङीषोरेव ग्रहणं स्यात्। न ङीपः।।
6.उगितश्च। (4.1.6)
`यथाकथञ्चित्' इति। येन केनचित् प्रकारेण। यदि वर्ण उगित् सम्भवति, यदि प्रत्ययः, अथापि प्रातिपदिकम्, सर्वर्था यत्रैषामन्यतमः सम्भवति तत् `उगिच्छब्दरुपम्' इति। अनेनोगिच्छब्दरूपस्य विशेषणं न प्रातिपदिकस्येति दर्शयति। यदि प्रातिपदिकस्यैव विशेषमं स्यादिहैव स्यात्-- भवती, महतीति; अर्वतीत्यत्र तु न स्यात्, `अर्वणस्त्रसावनञः' (6.4.127) इति नकारस्य त्रादेशः कृत इति वर्ण एव तकार उगित्, न प्रातिपदिकम्; गोमतीत्यत्र च न स्यात्, अत्रापि हि मतुप्प्रत्यय एवोगित्, न प्रातिपदिकम्; तस्मादुगिच्छब्दस्यैव विशेषणं युक्तमित्यभिप्रायः। तच्चोगिच्छब्दरूपं प्रातिपदिकस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह-- `तदन्तात्' इत्यादि। यदि तर्ह्युगिच्छब्दरूपान्तात् प्रातिपदिकान्ङीब्भवत्येवं सति भवतीति न सिध्यति, न ह्यत्रोगिच्छब्दरूपान्तं प्रातिपदिकं भवति, भवच्छब्दान्तादुगितः प्रातिपदिकादन्यस्य तदन्तस्याभावात् ? नैष दोषः; व्यपदेशिवद्भावात् तदन्ताद्भविष्यति। ननु च `व्यपदेशिवद्भावोऽप्रातिपदिकेन' (शाक.प.65) इति व्यपदेशिद्भावेन नात्र भवितव्यम् ? नैतदस्ति; न ह्युगिदिति प्रातिपदिकग्रहणम्, किं तर्हि ? प्रातिपदिकाप्रातिपदिकग्रहणम्; वर्णप्रत्ययोरप्युगितोर्ग्रहणात्। `पचन्ती, यजन्ती' इति। शत्रन्तान्ङीप्।
`धातोरुगितः प्रतिषेधः' इति। प्रतिपाद्यत इति शेषः।
`अञ्चतेश्चोपसंख्यानम्' इति। अञ्चतेर्ङीप्प्रत्ययस्य प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदमुभयत्र प्रतिपादनम् --- `पादोऽन्यतरस्याम्' (4.1.8) इति सूत्रे `अन्यतरस्याम्' इति योगविभागः करिष्यते, स च `उगितश्च' (4.1.6) `वनो र च' (4.1.7) `पादोऽन्यतरस्याम्' (4.1.8) इत्येषां त्रयाणामपि योगानां शेषः। व्यवस्थितविभाषा च सा। तेन प्रातिपदिकादुगितच्छब्दरूपान्ताद्धातूगिच्चब्दान्तादञ्चतेरेव नित्यं ङीब्भवति, ततोऽन्येभ्यस्तु न भवत्येवेति।
अन्ये त्वन्यथा प्रतिपादनं कुर्वन्ति-- उखास्रत्, पर्णध्वदिति। क्रियाकारकसम्बन्धमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न भवति। स्त्रीशब्दसामानाधिकरण्यात्तु स्त्रीत्वप्रतीतिरापद्यते। न च `स्त्रीयाम्' (4.1.3) इत्यत्र स्त्रीसामानाधिकरण्यपक्षः स्थितः। प्राचीत्यादिषु तु स्त्रीत्वं विवक्षितम्, तेनेह भवतीकार इति। `उखास्रत्, पर्णध्वत्' इति। उखेन स्रंसते, पर्णानि ध्वंसत इति `अन्येभ्योऽपि दृश्यन्ते' (3.2.75) इति क्विप्, `अन्येषामपि दृश्यते' (6.3.137) इत्युखस्य दीर्घत्वम्। प्राचीति प्रपूर्वादञ्चतेः क्विन्, `अचः' (6.4.138) इत्यकारलोप), `चौ' (6.3.138) इत्युपसर्गस्य दीर्घत्वम्।।
7. वनो र च। (4.1.7)
`वनः' इति क्वनिब्वनिपोः प्रत्ययोर्ग्रहणम्। अथ `बन षण सम्भवक्तौ' (धा.पा.463,464) `वनु याचने' (धा.पा.1470) इत्याभ्यां `अन्येभ्योऽपि दृश्यन्ते' (3.2.75) इति विचि कृते यद्रूपं वन्निति निष्पद्यते तत्कस्मान्न गृह्यते यदि ताभ्यां विज् दृश्येत स तु न दृश्यते; अनभिधानात्। `शर्वरी' इति। `शॄ हंसायाम्' (धा.पा.1488), `अन्येभ्योऽपि दृश्यन्ते' (3.2.75) इति वनिप्,गुणः रपरत्वम्। `परलोकदृश्वरी' इति। दृशस्तेनैव सूत्रेण (3.2.75) क्वनिप्।
`वनोन हशः' इति। क्वचिदिति शेषः। हशः परो यो वनिप् हशन्ताद्धातोर्विहितस्तदन्तात् प्रातिपदिकात् क्वचिन्ङीब्रेफश्चान्तादेशो न भवति। `सहयुध्वा' इति। `युध सम्प्रहारे' (धा.पा.1173), `दृशेः क्वनिप्' (3.2.94), `राजनि युधिकृञः' (3.2.95), `सहे च' (3.2.96) इति क्वनिप्, `नोपधायाः' (6.4.7), `सर्वनामस्थाने' (6.4.8) इति दीर्घः, `नलोपः प्रातिपदिकान्तस्य' (8.2.7)। क्वचित्तु प्रतिषेधो न भवत्येव-- शर्वरीति, अतर् रेफाद्धशः परो वनिप्; अवावरीति, अत्रापि हशन्ताद्धातोर्वनिब्विहितः, तथापि प्रतिषेधो न भवति। `ओणृ अपनयने' (धा.पा.454), `अन्येभ्योऽपि दृश्यन्ते' (3.2.75) इति वनिप्, `विड्वनोरनुनासिकस्यात्' (6.4.41) इत्यात्त्वम्, अवादेशः। न च वनो न हश इत्येव {वक्तव्यं कर्त्तव्यम्' इति मुद्रितः पाठः। } वक्तव्यम्; यस्मात् `पादोऽन्यतरस्याम्' (4.1.8) इत्यन्तरस्यांग्रहणमस्यापि योगस्य शेषः। सा च व्यवस्थितविभाषा विज्ञायते। तेन यत्र ङीब्रेफौ नेष्येते तत्र न भविष्यतः।।
8.पादोऽन्यतरस्याम्। (4.1.8)
`पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यते' इति। अथ `पद गतौ' (धा.पा.1169) इत्यस्माण्ण्यन्तात् `अन्येभ्योऽपि दृश्यते' (3.2.178) इति क्विपि कृते यत् पादिति रूपं निष्पद्यते रूपं निष्पद्यते तस्य ग्रहणं कस्मान्न विज्ञायते ? विज्ञायते यदि पादयतेः क्विब् दृश्येत्, स तु न दृश्यते; अनभिधानात्। `द्विपात्, द्विपदी' इति। द्वौ पादादस्या इति बहुव्रीहिः। `पादस्य लोपः' (5.4.138) इत्यनुवर्त्तमाने `संख्यासुपूर्वस्य' (5.4.140) इत्यकारलोपः, `पादः पत्' (6.4.130) इति पद्भावः।।
9. टाबृचि। (4.1.9)
`ऋचीत्यभिधेयनिर्देशः' इति। विषयनिर्देशाशङ्कां निराकरोति। यदि हि विषयनिर्देशः स्यात्, तत ऋचि विषय ऋग्ग्रन्थे यः पाच्छब्दस्तदन्तात् प्रातिपदिकाट्टाब्भविष्यतीत्येषोऽर्थः स्यात्, तथा च ऋग्वेद एव स्यात्, नान्यत्र। अभिधेयनिर्देशे तु सर्वत्र भवतीति भावः।।
10. न षट्स्वस्रादिभ्यः। (4.1.10)
यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते' इति। ङीपोऽनन्तरत्वात् तस्यैवायं प्रतिषेध इत्याशङ्काया निरासार्थमिदमुक्तम्। ननु चात्र `टाबृचि' (4.1.9) इति टाबेवानन्तरः, तत् कुतो ङीपो।़नन्तरत्वम् ? अस्वरितत्वात्। अस्य टापो ङीप एवानन्तर्यं युक्तम्। ननु च षट्संज्ञाः संख्याशब्दाः, संख्याश्च भेदमात्रं द्रव्यस्य प्रत्ययायन्ति, न स्त्रीत्वम्, या तु तस्य स्त्रीत्वप्रतीतिः सा शब्दान्तरेण सामानाधिकरण्याद्भवति, न च स्त्रीसमानाधिकरणपक्षः `स्त्रियाम्' (4.1.3) इति सूत्रे स्थितः, तथा च तेभ्यः स्त्रीप्रत्ययस्य प्राप्तिरेव नास्तीत्यपार्थकः प्रतिषेधः ? नैतदस्ति; संख्या हि गुणः, `संख्या परिमाणानि पृथक्त्वं संयोगविभागौ' इति वैशेषिकाणां (1.1.6) गुणसूत्रे पाठात्। गुणवचनानां चाश्रयतो लिङ्गवचनानि भवन्ति, यथा--शुक्ला शाटी, शुक्लः कम्बलः, शुक्लं वस्त्रम्; शुक्लः शुक्लौ शुक्लाः इति। तथा सति प्रतिषेधे यथा शुक्लादिशब्देभ्यः स्त्रीप्रत्ययो भवति तथा षट्संज्ञकेभ्योऽपीति स्यात्, यथा-- पञ्च ब्राह्मण्य इति। `षड्भ्यो लुक्' (7.1.22) इति जसो लुक्। `स्वसा' इति। `अनङ सौ' (7.1.93) पूर्ववत् `नोपधायाः' (6.4.7) इति दीर्घः। तिसृचतसृशब्दावपि स्वस्रादिषु पठ्येते, तयोः किमर्थः पाठः ? यावता विभक्तौ परतः `त्रिचतुरोः स्त्रियां तिसृचतसृ' (7.2.99) इति तिसृचतसृभ्यां भवितव्यम्, तत्र यदि तावृकारान्तलक्षमं ङीपं प्रति निमित्तभावं प्रतिपद्येयातां विभक्तेरानन्तर्यं ताभ्यां विहन्येत, एतच्च `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (व्या.प.12) इत्युक्तम्। तस्मात् सन्निपातलक्षणपरिभाषयैव ङीब्न भविष्यतीति किं प्रतिषेधेन ? एवं तर्ह्येतज्ज्ञापयति-- अनित्यैषा परिभाषेति। तेन या, सेति सिद्धं भवति। अत्रापि हि विभक्तौ त्यदाद्यत्वमित्यकारष्टापो निमित्तं न स्यात्, टापि हि सति विभक्तेरानन्तर्यं विहन्यते। परिभाषायस्त्वनित्यत्वेनैव टाब्भवति।
`षट्संज्ञानाम्' इत्यादि। पञ्च ब्राह्मण्य इत्यादौ `अवन्तरस्य विधिर्भवति प्रतिषेधो वा' (व्या.प.19) इति ङीपोऽनन्तरस्य प्रतिषेधे कृते `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नकारे लुप्ते सत्याकारान्ततायामुपजातायां टाबुत्पत्तिः कस्मान्न स्यात् ?स्यादेव, निमित्तस्य सविधानात्। नलोपस्यासिद्धत्वान्न स्यादिति चेत् ? नैतदस्ति; `नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति' (8.2.2) इति परिगणितेष्वेव विधिषु नलोपस्यासिद्धत्वमुच्यते। न च टाब्विधिस्तत्र परिगण्यते, तत् कुतस्तत्र नलोपस्यासिद्धत्वम् ? टाब्विधिरपि तत्र परिगण्यत एवेति दर्शयन्नाह-- `प्रत्याहारात्' इत्यादि। चाबिति चाप्सम्बन्धिनं पकारमुपलक्षयति । तदेतदुक्तं भवति-- सुबिति। तत्र न सप्तमीबहुवचनसम्बन्धिना सुपः पकारेण प्रत्याहारो गृह्यते,किं तर्हि ? `यङश्चाप्' (4.1.74) इति चाप्सम्बन्धिना। तस्माट्टापो विधिरपि सुब्विधिरेव; टापोऽपि प्रत्याहारान्तर्भावात्। ततश्च टाब्विधावपि नलोपस्यासिद्धत्वेन भवितव्यमिति सिद्धं सर्वमिष्टम्। सिध्यत्येव। `दोषस्त्वित्त्ववे' इति। बहूनि चर्माण्यस्यां नगर्यामिति बहुव्रीहिः। `शेषाद्विभाषा' (5.4.154) इति कप्, टाप्, नलोपः। अत्रेदानीं `प्रत्ययस्थात्कात्' (7.3.44) इत्यनेनेत्त्वमिष्यते बहुचर्मिकेति यथा स्यात्, तच्च न प्राप्नोति, न ह्यत्र कात् पूर्वोऽकारः; सिद्धत्वार्थं सर्वविभक्त्यन्तः समास आश्रितः। सुपो विधिः सुब्विधिः, सुपिवा विधिः सुब्विधिरिति। यदि च टाबपि सुप् स्यात्, ततस्त्रत्रापि परत्रावस्थित इत्त्वमुच्यत इति तदपि सुब्विधिः स्यात्-- सुपि विधिरिति कृत्वा। ततस्तस्मिन्नपि कर्त्त्व्ये नलोपस्यासिद्धत्वं स्यात्, तवयुक्तश्चापा प्रत्याहारः। `तस्मान्नोभौ' इति। यस्मादेवं चापा सह प्रत्याहारे दोषस्तमादुभावपि टाब्ङीपौ न भवत इति प्रतिषिद्धौ। कथमिह हि स्त्रियामित्यर्थोऽपेक्षते ? अस्मिन्नर्थे यदुक्तं भवतीति स्त्र्यर्थे चोभौ ङीप्टापावुक्तावित्युभावपि भवतः।।
11. मनः। (4.1.11)
`वामा,पामा' इति। ददातेः पिबतेश्च `आतो मनिन्क्वनिब्वनिपश्च' (3.2.74) इति मनिन्, पूर्ववत् `नोपधायाः' (6.4.7) दीर्घः। अथ समीमा, सीमानौ, सीमानः; अतिमहिमा, अतिमहिमानौ, अतिमहिमान इत्यत्र कतं प्रतिषेधः, यावता मन इत्यर्थवतो मन एतद्ग्रहणम्। न च यथा दामा पामेत्यतर् मनः प्रत्ययार्थेनार्थवत्वं तथा सीमेत्येवमाद न केनचिदर्थेनार्थवत्त्वम्, तथा हि सीमाशब्दस्तावदव्युत्पन्नं प्रातिपदिकम्, तस्यैव चार्थवत्त्वम्, न तदवयवभूतस्य मनः; अतिमहिमेत्यत्रापि नैव मनोऽर्थवत्त्वम्, तथा हि-- `महतो भावः' इत्यर्थविवक्षायां `पृथ्वादिभ्य इमनिच्' (5.1.122) इति मह्छब्दादिमनिज्विहितः, तत्र चेमनिच एवार्थवत्त्वम्, न तदेकदेशस्य मन इत्यत आह-- `अनिनस्मन्ग्रहणानि' इत्यादि। एतद्वाक्यं पठता वाक्यकारेण अन्, इन्,अस्, मन्-- इत्येतेषां ग्रहणेऽर्थवद्ग्रहणपरिभाषा (व्या.प.1) न व्याप्रियते। तेनैषामनर्थकानामपि ग्रहणं भवति, एभिश्चानर्थकैः सार्थकैश्च तदन्तविदिर्भवतीत्युक्तं भवति, ततश्च सीमाऽतिमहिमेत्यादावपि प्रतिषेधः सिद्धो भवति।।
12. अनो बहुव्रीहिः। (4.1.12)
`अनुपधालोपो बहुव्रीहिरिहोदाहरणम्' इति। कथं पुनरेतत्लभ्यते, यावता नात्र विशेष उपात इत्याह-- `उपधालोपिनो हि' इत्यादि। यस्मात् `अन उपधालोपिनोऽन्यतरस्याम्' (4.1.28) इत्युपधालोपिनो विकल्पं वक्ष्यति, तस्मात् पारिशेष्यादनुपधालोपो बहुव्रीहिरस्यावकाश इति। तस्य चोदाहरणम्-- `सुपर्वा' इत्यादि। शोभनमस्याः पर्वं शोभनं चर्मास्या इति बहुव्रीहिः। अयञ्च `न संयोगाद्वमन्तात्' (6.4.1237) इत्यल्लोपो न भवति।
`अतिराजी' इति। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा.91) इति `कुगतिप्रादयः' (2.2.18) इति तत्पुरुषोऽयम्।।
13. डाबुभाभ्यामन्यतरस्याम्। (4.1.13)
इहान्यतरस्यांग्रहमस्य डापः मुक्ते पक्षे प्रतिषेधोऽपि यथा स्यादित्येतद्वा प्रयोजनं स्यात् ? डाप्प्रतिषेधाभ्यां मुक्ते पक्षे ङीबपि यथा स्यादित्येतद्वा ? तत्राद्यं तावदयुक्तम्;डाबपि ह्युच्यते, प्रतिषेधोऽपि, तावुभावपि वचनसामर्थ्याद्भविष्यतः। द्वितीयमप्ययुक्तम्। अन्यतरस्यांग्रहमेन ह्यनुपधालोपिनो वा बहुव्रीहेः पक्षे ङीब्विधीयते ? उपधालोपिनो वा ? तत्र प्रथमस्तावत् पक्षो नोपपद्यते, यदि ह्यत्रानुपधालोपिनःपक्षे ङीब्विधीयेत प्रतिषेधवचनमनर्थकं स्यात्; द्वितीयोऽपि नोपपद्यते, `अन उपधालोपिनोऽन्यतरस्याम्' (4.1.28) इति प्रतिपदं विकल्पेन ङीपो विधास्यमानत्वात्। न च तदन्यतरस्यांग्रहमं न करिष्याम इतीहान्यतरस्यांग्रहणं कर्त्तुं युक्तम्; तद्ध्यवश्यमेव कर्त्तव्यम्, उपधालोपिनो हि ङीपा मुक्ते डाप्प्रतिषेधौ यथा स्याताम्-- बहुराज्ञ्यौ, बहुराजानौ, बहुराजे इति। इतरथा हि डाप्प्रतिषेधौ सुपर्वादिष्वनुपधालोपिषु सावकाशौ परत्वान्ङीपा बाध्येयाताम्। तस्माद्वक्ष्यमाणमप्यन्यतरस्यांग्रहणं कर्त्तव्यमेवेति तत्सर्वं मनसि कृत्वाऽऽह-- `अन्यतरस्यांग्रहणं किमर्थम्' इति। निरर्थकमिति भावः। `बहुव्रीहौ'इत्यादि। `वनो र च' (4.1.7) इत्यनेन यत्कार्यं विधीयते तस्यापि बहुव्रीहौ विकल्पो यथा स्यादित्येवमनर्थकमन्यतरस्यांग्रहणम्। यद्यत्प्राप्तं तत्तद्विकल्पेन प्रत्युपस्थापयितव्यम्। ङीब्रेफावप्राप्तौ, `अनो बहुव्रीहेः' (4.1.12) इति प्रतिषेधात्। तस्मात् तद्विधानार्थमन्यतरस्यांग्रहणं कर्त्तव्यम्। कथमन्यतरस्यामिति ? योगविभागोऽत्र क्रियते, तत्र बहुव्रीहिग्रहणमनुवर्त्तते, `वनो र च' (4.1.7) इत्येतच्च मण्डूकप्लुतिन्यायेन। तेन वन्नन्ताद्बहुव्रीहेरन्यतरस्यां ङीब्रेफश्चान्तादेशो लभ्यत इति बहुपीवा, बहुधीवा, बहुपीवरी, बहुधीवरीत्यादि सिद्धं भवति। अन्ये त्वाहुः-- उभाभ्यांग्रहमसहितादन्यतरस्यांग्रहणाद्वन्नन्ताद्बहुव्रीहेर्ङीब्रेफौ लभ्येते। `उभाभ्याम्' (4.1.13) इतिनेयं पञ्चमी, कं तर्हि ? तृतीया, वन्नन्ते बहुव्रीहौ स्त्रीत्वमुभाभ्यां ङीब्रेफाभ्यां करणाभ्यां प्रयोक्त्रा प्रत्याययितव्यमिति। ननु च मन्नन्तात् प्रातिपदिकादन्नन्ताच्च बहुव्रीहेर्डाबुभाभ्यामित्यदुभाभ्यांग्रहणस्य प्रयोजनम् ? एवं मन्यते-- स्वरितत्वादेव `उभाभ्याम' (4.1.13) इति वचनमन्तरेणाप्युभाभ्यामेव प्रत्ययो लभ्यत एवेति।।
14. अनुपसर्जनात्। (4.1.14)
इहानुपसर्जनादिति विधिर्वानेनोत्तरत्र क्रियते-- उपसर्जनादन्यस्मादनुपसर्जनान्ङीबादयो भवन्तीति ? प्रतिषेधो वा-- उपसर्जनान्न भवतीति ? तत्र यद्याद्यः पक्ष आश्रीयेत `कुक्कुटीपादः' इति न सिध्येत्; पूर्वपदस्योपसर्जनत्वात्। उपसर्जनत्वं त्वस्य `षष्ठी' (2.2.8) इति समासशास्त्रे प्रथमानिर्देशात्। कुक्कुटीत्येतदपि न सिध्येत्; प्रधानं ह्यनुपसर्जनम्, न चात्र जातिः प्रधानम्, अप्रधानापेक्षया हि प्रधानं भवति, न चात्र किञ्चिदप्रधानमस्ति यदपेक्षया जातेः प्राधान्यं स्यात्। तस्माद्विधिपक्षोऽयं दुष्ट इति मत्वा प्रतिषेधपक्षमाश्रित्याह -- `उत्तरसूत्रेषूपसर्जनप्रतिषेधं करोति' इति। `कुरुचरी' इति। कुरुषु चरतीति `चरेष्टः' (3.2.16) इति टः। `उपपदमतिङ' (2.2.19) इति तत्पुरुषसमास इत्यस्योत्तरपदप्रधानत्वादप्रथमानिर्दिष्टत्वाच्च समासशास्त्रे चरशब्द इहोपसर्जनं न भवतीति। `बहुकुरुचरा' इति। बहवः कुरुचरा अस्यामिति। अस्यान्यपदार्थप्रधानत्वात् प्रथमानिर्दिष्टत्वाच्च शास्त्रे समासपदानामत्रावयव उपसर्जनम्। `{जातेः इति ङीष्--काशिका'} जातेर्ङीष्' इति। `जातेरस्त्रीविषयादयोपधात्' (4.1.63) इत्यनेन। `बहुकुक्कुटा' इति। बहुव्रीहिः। अत्रापि पूर्ववज्जातिशब्द उपसर्जनम्।
ननु च बहुकुरुचरेत्यत्र समुदायः स्त्रियां वर्त्तते, नावयवः न च समुदायष्टित्, किं तर्हि ? अवयवः तत्र टित उच्यमान ईकारः केन पुनः समुदायादटितः स्यात् ? बहुकुक्कुटेत्यत्रापि समुदायः स्त्रियां वर्त्तते, नावयवः। न च समुदायो जातिवचनः, किं तर्हि ; अवयवः। तत्र जातिवाचिन उच्यमानः प्रत्ययः केनाजातिवाचिनः समुदायात् स्यात्, यत्प्रतिषेधार्थमिदमुच्यत इति मन्यमान आह-- `कथम्' इत्यादि। `तदन्तविधिना' इति। परिहारः। तत्रैतत् स्यात्-- `ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते' (व्या.प.89) इति, अत आह-- `ज्ञापितञ्च' इत्यादि। `शूद्रा चामहत्पूर्वा जातिः' ग.सू.40.4.1.4) इत्यत्र महत्पूर्वेत्यनेनास्मिन् प्रकरणे तदन्तविधिरिति ज्ञापितमेतत्। `तथा च' इति। एवं सतीत्यर्थः यस्मात् पूर्वं तदन्तविधिरिह प्रकरणेऽस्तीति ज्ञापितमेतत्; अनेन च सूत्रेणोपसर्जनेन तदन्तविधिः प्रतिषिध्यते, नानुपसर्जनेन, एवञ्च सति प्रधानेन तदन्तविधिर्भवत्येव। तेन कुम्भकारी, नगरकारीति सिद्धं भवति। तत्र हि कारशब्दोऽणन्तः प्रधानम्। तदन्तात् समासात् `टिड्ढाणञ्' (4.1.15) इतीकारः स्यादेव। ननु चाणित्यत्राणिति कृद्ग्रहमम्, ततश्च `कृद्ग्रहमे गतिकारकपूर्वपदस्यापि ग्रहणम्' (व्या.प.126) इत्यनया परिभाषयैव कुम्भकारशब्दात् कारान्तादीकारः सिध्यति, ततो नेदं तदन्तविधिज्ञापनस्य प्रयोजनमित्यत आह-- `न च' इत्यादि। कथं न ? इत्याह-- `तद्धितोऽप्यणस्ति' इति। तस्याप्यत्र ग्रहणम्, अन्यथा ह्यौपगवीति न सिध्येत्। तस्मान्नेदं कृद्ग्रहणम्, किं तर्हि ? कृदकृद्ग्रहणम्। तत्र यदि तदन्तविधिर्न ज्ञाप्यते, तदाणिति प्रत्ययग्रहणम्, `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहमं भवति' (पु.प.वृ.44) इतीहैव स्यात्-- औपगवीति, इह तु न स्यात्-- कुम्भकारीति, अत्र हि धातोरण् विहितः, तदन्तश्च स्त्रियां न वर्त्तते; तावन्मात्रस्य कारशब्दस्य प्रयोगाभावात्। या वा स्त्रीयां वर्त्तते सोपपदम्, न तस्मात् प्रत्ययो विहितः। तदन्तविधौ तु ज्ञापिते कारशब्दान्तादपीकारः सिध्यति।।
15. टिड्रढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञक्वरप्ख्युनाम्। (4.1.15)
`सर्वत्र' इति। स्त्रीप्रकरणे। ननु च `पत्युर्नो यज्ञसंयोगे' (4.1.33) `इतो मनुष्यजातेः' (4.1.65) इत्यादौ नानुवर्त्तते, तस्यात इत्यस्यासम्भवाद्विशेषणं नोपपद्यत इत्याह-- `तत् सति' इत्यादि। यत्र सम्भवति तत्र विशेषणं भवति, यत्र तु न सम्भवति तत्रोत्तरार्थमेवानुवर्त्तते। इह कस्मान्न भवति-- `पचमाना' इति। स्थानिवद्भावेन शानचष्टित्त्वमस्ति, अतस्तदन्तादपि ङीपा भवितव्यमित्यभिप्रायः। `द्वयनुबन्धकत्वाल्लटः' इति। तेन `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य' (व्या.प.52) इत्येतया परिभाषया लटोऽत्र ग्रहणं नास्तीति दर्शयति, तस्य ह्यकारो द्वितीयोऽनुबन्धोऽस्ति।
`ल्युडादिषु कथम्' इति। ईकारो भवतीति शेषः। आदिशब्देन `गापोष्टक्' (3.2.8) इत्येवमादयो गृह्यन्ते। ल्युडादीनामपि द्व्यनुबन्धकत्वाट्टिद्ग्रहणेन भवितव्यम्, अतस्तदन्तेभ्यो ङीब्न स्यात्, ततश्चक करणी, सामगीत्यादि न सिध्येत्। `टित्करणसामर्थ्यात्' इति। यदि तेषामपि टिद्ग्रहणेन ग्रहणं न स्याट्टित्करणमनर्थकं स्यात्; प्रयोजनान्तरासम्भवात्। तस्मात् सत्यपि द्व्यनुबन्धकत्वे टित्करणसामर्थ्याल्ल्युडादयो गृह्यन्त इत्यदोषः। लटोऽपि तर्हि टित्करणसामर्थ्यादेव ग्रहणेन भवितव्यमित्यत आह--`इतरत्र' इति। लटि हि टित्करमस्य `टित आत्मनेपदानां टेरे' (3.4.79) इति टेरेत्वं फलम्। अतो यद्यपि ग्रहणं न भवति, तथापि नैव टित्करणस्य वैयर्थ्यं प्रसज्येत। तस्मात् टित्करणसामर्थ्याल्ल्युडादयो गृह्यन्त इत्यदोषः। लटोऽपि तर्हि टित्करणसामर्थ्यादेव ग्रहनेन भवितव्यमित्यत आह--`इतरत्र' इति। लटि हि टित्करणस्य `टित आत्मनेपदानां टेरे' (3.4.79) इति टेरेत्वं फलम्। अतो यद्यपि तस्येदं ग्रहणं न भवति, तथापि नैव टित्करणस्य वैयर्थ्यं प्रसज्येत। तस्मात् टित्करणस्य चरितार्थत्वादयुक्तं तस्येदं ग्रहणम्।
`पठिता विद्या' इति। अत्रापि कथमिति सम्बध्यते। इडागमस्य हि प्रत्ययभक्तत्वात् प्रत्ययस्य टित्त्वमस्ति, ततस्च ङीपा भवितव्यम्, तत्कथं पठितेत्येतद्रूपं भवतीति ?`आगमटित्त्वमनिमित्तम्' इति। प्रकृतत्वात् ङीप इति विज्ञायते। कथं ज्ञायतेऽयमनिमित्तमित्याह--`ट्युट्युलौ' इत्यादि। तुड् वेत्यागमटित्त्वेनैव सिद्धे ङीपि `सायंचिरं प्राह्ण' (4.3.23) इत्यादिसूत्रे `ट्युट्युलौ' इति पुनः प्रत्ययोष्टत्करणं ज्ञापकम्--- आगमटित्त्वमनिमित्त्वं ङीप इति।
`सोपर्णेयी,वैनतेयी' इति। सुपर्णीशब्दाज्जातिलक्षमङीषन्ताद्विनताशब्दाच्च टाबन्तात् `स्त्रीभ्यो ढक्' (4.1.120) इति ढक्। आयमन्नादि (7.1.2) सूत्रेणैयादेशः। ननु च `निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति ढको ग्रहणेन न भवितव्यमित्यत आह-- `निरनुबन्धको ढशब्दः' इत्यादि। ननु चायं निरनुबन्धकोऽस्ति `शिलायाः ढः' (5.3.102) इति ? नैतदस्ति; स्वभावत एव ह्ययं नपुसंके वर्त्तते। अयं तर्ह्यस्ति स्वाभाव्यात्-- `{सभाया ढश्छन्दसि इति मुद्रितः पाठः} सभाया यः' (4.4.105) `ढश्छन्दसि' (4.4.106) इति ? अयमपि नैव स्त्रियां वर्त्तते, छन्दसि सभेयीशब्दस्य प्रयोगादर्शनात्। तस्मान्नरनुबन्धको ढशब्द स्त्रियां नास्तीति नेह निरनुबन्धकपरिभाषोपतिष्ठते; अन्यथा हि ढग्रहममनर्थकं स्यात्।
`णेऽपि' इति। अणि यत् कार्यं कृतं तण्णेऽपि क्वचिदिति क्वचिन्न भवतीत्युक्तं भवति। क्व पुनर्णेऽप्यण्कृतं कार्यं भवतीति ? ताच्छीलिके । तथा हि `कार्मस्ताच्छील्ये' (6.4.172) इत्यत्र ज्ञापितमेतत्- णेऽप्यण्कृतं कार्यं भवतीति, कथम् ? कार्मशब्दो हि ताच्छील्ये टिलोपार्थं निपात्यते। यदि न णेऽप्यण्कृतं कार्यं न स्यात् निपातनमनर्थकं स्यात्। कर्मशब्दात् कर्म शीलमस्येति `छत्त्रादिभ्यो णः' (4.4.62) इति णे कृते `नस्तद्धिते' (6.4.144) इत्येवं टिलोपस्य सिद्धत्वात्। `अन्' (6.4.167) इति प्रकृतिभावान्न सिध्यतीति चेत् ? नैतदस्ति; अणि हि प्रकृतिभाव उच्यते, तत्र `इनण्यनपत्ये' (6.4.64) इत्यतोऽणीत्यनुवर्त्तते। तदेवं `ताच्छीलिके णेऽप्यणि कृतं कार्यं भवति' इत्यस्यार्थस्य ज्ञापितत्वात् तत्रैवाण्कृतं कार्यं भवति, नान्यत्र। ` चौरी, तापसी' इति। चुरा शीलमस्यास्तपः शीलमस्या इति `छत्त्रादिभ्यो णः' (4.4.62) णेऽप्यण्कृतं भवतीति ङीप्। `दाण्डा मौष्टा' इति। दण्डः प्रहरणस्याम्, मुष्टिः प्रहरणस्यां क्रीडायामिति `तदस्यां प्रहरणम्' (4.2.57) इति क्रीडायां णः। अथाणित्यकारादारभ्य लणो णकारात् प्रत्याहारग्रहणं कस्मान्न भवति ? टिबादीनां पुनर्ग्रहणात्। प्रत्याहारग्रहणे हि तेषां ग्रहणमनर्थकं स्यात्, अणन्तादेव सिद्धत्वात्।
`औत्सी, औदपानी' इति। उत्सस्योदपानस्येयमिति `उत्सादिभ्योऽञ्' (4.1.86) इत्यञ्। अथ `शार्ङ्गरवाद्यञो ङीन्' (4.1.73) इत्यत्र पुनरञ्ग्रहणं किमर्थं क्रियते, .यावतानेनैव सिद्धम्, तदेव हि रूपं स एव हि स्वरः, तथा हि-- ङीनि सति `ञ्नित्यादिर्नित्यम्' (6.1.197) इत्याद्युदात्तं भवति,औत्सीत्यत्राप्युत्सशब्दादञन्तान्ञित्स्वरेणाद्युदात्तान्ङीपि कृते तदेवाद्युदात्तत्वं भवति ? इत्याह-- `शार्ङ्गर्वाद्यञः' इत्यादि। बिदस्यापत्यं गोत्रं स्त्रीति `अनृष्यानन्तर्य्ये बिदादिभ्योऽञ्' (4.1.104) इत्यञि कृते तस्य `गोत्रञ्च चरणैः सह' (का.वृ.4.1.63) इति जातित्वात् `जातेरस्त्रीविषयादयोपधात्' (4.1.63) इति ङीष् प्राप्नोति। तद्बाधानार्थं पुनः `शार्ङ्गरवाद्यञो ङीन्' (4.1.73) इत्यत्राञो ग्रहमं क्रियते। यद्येवम्, इहाञ्ग्रहमं न कर्त्तव्यम्, तेनैवोत्सीत्यादेरपि सिद्धत्वात् ? नैतदस्ति; जातिग्रहणं तत्र `इतो मनुष्यजातेः' (4.1.65) इत्यतोऽनुवर्त्तते `पुंयोगादाख्यायाम्' (4.1.48) इत्यादिनाञ् बैदः, तस्य भार्या बैदीति, तस्य पुंयोग ङीषेवेष्यते, तस्मात् तत्र जातिग्रहणमनुवर्त्तनीयम्। तस्मिंश्चानुवर्त्तमान औत्सीत्यत्रोत्सस्येयमित्यर्थविवक्षायामञि कृतेऽजातित्वादीकारस्तत्र न प्राप्नोति,तस्मादिहाप्यञ्ग्रहणं कर्त्तव्यमेव।
द्वयसजादीनामनुबन्धोच्चारणं प्रत्ययपरिग्रहार्थम्। प्रातिपदिकान्यपि द्व्यसजादीनि सन्ति, तत्रासत्यनुबन्धोच्चारणे तेषामपि ग्रहणं विज्ञायेत। तयशब्दोऽपि `अय वय तय {णय-धा.पा.} नय गतौ' (धा.पा.474,485,479,480) इति तयो धातोरजन्तं प्रातिपदिकं सम्भवति, अतस्तन्निवृत्त्य्रथं पकारोच्चारणम्।
`ऊरुद्वयसी' इत्यादि। ऊरुप्रमाणमस्याः, जानुप्रमाणस्या इति `प्रमाणे द्वयसज्दघ्नञ्मात्रचः' (5.2.37) इति द्वयसजादयः प्रत्ययाः।
`पञ्चतयी' इति।पञ्चावयवा अस्या इति `संख्याया अवयवे तयप्' (5.2.42)।
`आक्षिकी, शालाकिकी' इति। अक्षैर्दीव्यति शलाकाभिर्दीव्यतीति `तेन दीव्यतिखनति' (4.4.2) इत्यादिना ठक्, ठस्येकादेशः।
`लावणिकी' इति। लवणं पण्यमस्या इति `लवणाट्ठञ्' (4.4.52)। अथ किमर्थं ठक्ठञौर्भेदेनोपादानाम् ? न विशेषकरानुबन्धानुत्सृज्य `ठ'इति सामान्येनैव ग्रहणं क्रियेतेत्यत आह-- `भेदेन' इत्यादि। `ठ' इति सामान्येन ग्रहणे सति ठनादीनामपि ग्रहणं स्यात्, अतस्तन्निवृत्त्यै भेदेन ग्रहणम्। आदिशब्दो ञिठादीनां परिग्रहाय, तेन दण्डोऽस्यास्तीति `अत इनिठनौ' (5.2.115) इति ठनि कृते दण्डिकीति न भवति, काशिषु भवेति `काश्यादिभ्यष्ठाञ्ञिठौ' (4.2.116) इति ञिठे प्रत्यये कृते काशिकीति न भवति।
कञोनुबन्धग्रहणं `आतोऽनुपसर्गे कः' (3.2.3) इत्येवादीनां निवृत्त्यर्थम्। `यादृशी, तादृशी' इति। `त्यदादिषु दृशेरनालोचने कञ्च' (3.2.60) इति कञ्, `आ सर्वनाम्नः' (6.3.91) इति यत्तदोरात्त्वम्। क्वरपोऽनुबन्धोच्चारणं `स्थेशभास' (3.2.175) इत्यादिना विहितस्य वरचो निवृत्यर्थम्। यद्येवम्, एक एवानुबन्ध उच्चारणीयः, एकेनापि वरचो निवृत्तिः सिध्यत्येव ? सत्यमेतत्, तथापि मन्दबुद्धीनां सुखप्रतिपत्तयेऽनुबन्धद्वयोच्चारणम्।
`इत्वरी, नश्वरी'इति। `इण्नश्जसर्त्तिभ्य- क्वरप्' (3.2.163) ह्रस्वस्य तुक्।
ख्युनोऽनुबन्धोच्चारणं लाघवार्थम्; अनयथा हि षष्ठीबहुवचने कृते नुटि नामि दीर्घत्वे च गुरुच्चारणं स्यात्। `आढ्यङ्करणी' इति। अनाढ्य आढ्यः क्रियतेऽनयेति `आढ्यसुभग' (3.2.56) इत्यादिना ख्युन्, `अरुर्द्विषदजन्तदस्य मुम्' (6.3.67)।
नञ्स्नञीकक्' इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकारोऽनुक्तसमुच्यार्थः, तेन नञादिभ्योऽपि भविष्यतीति। `स्त्रैणी,पौस्नी' इति। स्त्रिया इयम्, पुंस इयमिति `स्त्रीपुंसाभ्यां नङस्नञौ भवनात्' (4.1.87) इति नञ्सञौ। `शाक्तीकी, याष्टीकी' इति। शक्तिः प्रहरणमस्याक्षितम्। तरुणी सुरा,तलुनी सुरेति-- अत्र सुरादौ विषये तरुणतलुनशब्दाभ्यां ङीब्वेदितव्यः, न हि सुरादीनां वयोऽस्ति,तस्य प्राणिधर्मत्वात्। अभिनत्वमात्रं सुरादीनां तरुणतलुनशब्दाभ्यां गम्यते। यदा तु वयो विवक्ष्यते तदा गौरादिपाठान्ङीषा भवितव्यम्। तत्र स्वरे विशेषः-- तरुणतलुनशब्दौ हि `{कॄवृदारिभ्य उनन्' (द.उ.5.52) `त्रो रश्च लो वा' (द.उ.5.56) इत्युननप्रत्ययान्तौ व्युत्पादितौ,अतो नित्स्वरेणाद्युदात्तौ। तत्र ङीपि सत्याद्युदात्तत्वं भवति; ङीषि तु सति प्रत्ययस्वरेणान्तोदात्तत्वम्।।
16. यञश्च। (4.1.16)
`गार्गी। वात्सी' इति। गर्गवत्सशब्दाभ्यां स्त्रियामपत्ये `गर्गादिभ्यो यञ्' (4.1.105) इति यञ्, ङीप्, `यस्येति च' (6.4.148) इत्यकारस्य लोपः, `हलस्तद्धितस्य' (6.4.150) इति यकारस्य च।
`अपत्यग्रहणं कर्त्तव्यम्' इति। अपत्यं गृह्यते येन तदपत्यग्रहमम्। व्याख्यानमेतदुक्तं भवति-- तथा व्याख्यानं कर्त्तव्यं यथा यञो विशेषणमपत्यं गृह्येत्। तत्रेदं व्याख्यानम्-- उत्तरसूत्रे विकल्पार्थं प्राचामिति वचनमनेनापि योगेन सम्बध्यते,व्यवस्थितविभाषा च सा विज्ञायते, तेनापत्येऽर्थे यो यञ् विहितस्तदन्तान्नित्यं भवति, यस्तु द्वीपशब्दाज्जातादावर्थे विहितदन्तान्न भवतीति। अथ योगविभागः किमर्थः ? न पूर्वसूत्र एव अञ्ग्रहणं क्रियेतेत्यत आह-- `योगविभाग उत्तरार्थः' इति। उत्तरसूत्रे यञन्तादेव ष्फो यथा स्यात्, टिदादिभ्यो माभूदिति।।
17. प्राचां ष्फ तद्धितः। (4.1.17)
`षकारो ङीषर्थः' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीप्यथा स्यात्। ननु च क्रियमाणेऽपि षकारे नैव ङीषा भवितव्यम्, ष्फप्रत्ययेनैव स्त्रीत्वस्याभिव्यक्तत्वादित्यत' आह-- `प्रत्ययद्वयेन' इत्यादि। न हि केवलः ष्फः स्त्रीत्वमभिव्यङ्क्तुं समर्थ इति ङीषमपेक्षते। तेन सहिताभ्यामेव ताभ्यां स्त्रीत्वं व्यज्यत इति ङीषा भवितव्यम्। `तद्धितग्रहणम्' इत्यादि। `कृत्तद्धितसमासश्च' (1.2.46) इति प्रातिपदिकसंज्ञा यथा स्यादित्येवमर्थं तद्धितग्रहणम्। प्रातिपदिकसंज्ञा तु ङीष् यथा स्यादित्येवमर्थम्। ननु च विनापि तया षित्करणसामर्थ्यादेव ङीष् भविष्यति, अन्यथा हि षित्करणमनर्थकं स्यत्, प्रयोजनन्तराभावात्; न च `त्रपूष् लज्जायाम्' (धा.पा.374) इत्यतोऽपि धातोः स्यादित्यतिप्रसङ्ग आशङ्कनीयः, धातोः षित्करणस्य `षिद्भिदादिभ्योऽङ' (3.3.104) इत्यङविधौ चरितार्थत्वात्, अत इति चाधिकारात् ? सत्यमेतत्, प्रतिपत्तिगौरवं तु स्यात्। तस्मात् सुखप्रतिपत्तये तद्धितग्रहमम्।
`सर्वत्रग्रहणम्' इत्यादि। उत्तरसूत्रे सर्वत्रग्रहणमनर्थकम्। तद्धि सर्वेषामचार्याणां मतेन यथा स्यादित्येवमर्थं क्रियते, एतच्चाप्रयोजनम्, अस्वरितत्वदेव हि प्राग्ग्रहणस्य सर्वेषां मतेन भवितव्यम्। तस्मादुत्तरसूत्रे सर्वत्रग्रहणमनर्थकम्, अतस्तदिहापकृष्यते। किमर्थमित्याह-- `बाधकबाधनार्थम्' इति। `आवट्याच्चापं वक्ष्यति' इत्यादना बाधकबाधनार्थमित्यस्यैवार्थं विस्पष्टीकरोति।अवट्याच्चापोऽवकाशः-- उदीचां मतेन आवट्येति, घवटशब्दाद् गर्गादिञन्ताच्चाप्, `प्राचां ष्फ तद्धितः' (4.1.17) इत्यस्यावकाशः-- गार्ग्यायणीति; आवट्यात् प्राचानुभयप्रसङ्गे परत्वाच्चाप् स्यात्. सर्वत्रग्रहणात् ष्फ एव भविष्यति-- आवट्यायनीति।।
18. सर्वत्र लोहितादिकतन्तेभ्यः। (4.1.18)
`स्वतन्त्रम्' इति। यो ह्यन्यस्यावयवभूतो न भवति केवलः कतशब्दस्तत् स्वतन्त्रं प्रातिपदिकम्। यस्तु कुरुकतशब्दस्यावयवः कतशब्दस्तस्य स्वान्तन्त्र्यं नास्ति; समुदायप्रतिबद्धत्वात्। कः पुनरसौ कतशब्दः स्वतन्त्रं प्रातिपदिकमित्यत आह-- `कपिशब्दात्' इत्यादि। `लौहित्यायनी' । शांसित्यायनी' इति। लोहितशंसितशब्दाभ्यां गर्गादित्वाद्यञ्। `वाभ्रव्यायणी' इति। अत्रापि बभ्रुशब्दात् `मधुबभ्रुवोर्ब्राह्मणकौशिकयोः' (4.1.106) इति यञ् `ओर्गुणः' (6.4.146), `वान्तो यि प्रत्यये' (6.1.79) इति वान्तादेशः, यञन्तेभ्यः ष्फः।
`कण्वात्तु'इत्यादि। कण्वशब्दात् पूर्वः शकलशब्द इष्यते, कतशब्दात्तूत्तरः। किमेवं सति भवतीत्याह-- `पूर्वोत्तरो'इत्यादि। एवं सति पूर्वोत्तरो गणौ तदन्तादी भवतः। तच्छब्देन शकलशब्दः प्रत्यवमृश्यते। शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोत्तरयोर्गणयोस्तौ तदन्तादी पूर्वोत्तरगणौ। लोहितादिः शकलशब्दान्तो भवति पूर्वो यथः। उत्तर गणः कण्वादिः शकलशब्दादिर्भवति। किं पुनः पूर्वोत्तरयोर्गणयोस्तदन्तादित्वे प्रयोजनमित्याह--`ष्फाणौ तत्र प्रयोजनम्' इति। पूर्वस्य गणस्यशकलान्तत्वे ष्फः प्रयोजनम्। उत्तरस्य शकलादित्वेऽण् प्रयोजनम्।
`प्रातिपदिकेष्वन्यथा पाठः'इति। कपिकत, कुरुकत, अनडुह्, कण्व, शकल -- इत्यनयाऽनुपूर्व्या प्रातिपदिकेषु पाठः। `स एवं व्यवस्थापयितव्यः' इति। कण्वात्तु शकलः पूर्वः'इत्यादिना याऽऽनुपर्वी दर्शिता तया व्यवस्थापयितव्यः। अत एतदुक्तं भवति-- कुरुकत, अनडुह्-- इत्येतावन्यस्मिन् स्थाने पठितव्यौ, शकलशब्दस्तु कतकण्वशब्दयोर्मध्ये पठितव्यः। `मन्यते' इति श्लोवार्त्तिकारः। कथं पुनरेवं पाठे सति शकलशब्दात् ष्फाणौ सिध्यत आह-- `कतन्तेभ्यः' इत्यादि। कतस्यान्तः कतन्त इति तत्पुरुषः `कतन्तेभ्यः'इति निपातनात्पररूपत्वम्। कतशब्दोऽन्ते येषां लोहितादीनां ते कतन्ता इति बहुव्रीहिः। कतन्तश्च शकलशब्दः, कतन्ताश्च लोहितादय इति कतन्तश्च कतन्ताश्चेति सरूपाणामेकशेषः। `तथा' इत्यादिना यथा कतन्तेभ्य इत्यत्र बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्य इत्यत्रापीति दर्शयति। कण्वस्यादिः कण्वादिः शकलशब्दः कण्वशब्दः आदिर्येषां गोकक्षादीनां ते कण्वादयः, कण्वादिश्च कण्वादयश्च कण्वादयः, पूर्ववदेकशेषः। `तत्पुरुषवृत्त्यासंगृहीतः'इति। `कतन्तेभ्यः' इत्यत्र `कण्वादिब्यः' (4.2.111) इत्यत्र तत्पुरुषवृत्त्या तत्पुरुषसमासेन। `मध्यापीत' इति। कतकण्वशब्दयोर्गणयोर्वा। `प्रत्ययद्वयम्' इति। ष्फप्रत्ययम्, अण्प्रत्ययञ्च। `प्रतिपद्यते' इति। प्राप्नोति। तत्पुरुषवृत्त्याहि तस्य संग्रहे सत्यस्य सूत्रस्यायमर्थो जायते-- कतन्ताच्छकलशब्दात् तथा यञन्तात् कतन्तेभ्यश्च लोहितादिभ्यो यञन्तेभ्यः स्त्रियां ष्फप्रत्ययो भवतीति। तेन ष्फप्रत्ययं प्रतिपद्यते शकलशब्दः। `शाकल्यायनी' इति। `कण्वादिभ्यो गोत्रे' (4.2.111) इत्यत्रापि तत्पुरुषवृत्त्या शकलशब्दस्य संग्रहे सत्ययमर्थो भवति। कण्वादेः शकलशब्दान्ताद्गोत्रप्रत्ययान्तात् कण्वादिभ्यो गोकक्षान्तेभ्यो गोत्रप्रत्ययान्तेभ्यः शैषिकेष्वर्थेष्वण्प्रत्ययो भवतीति। तेनाण्प्रत्ययमपि शकलशब्दः प्रतिपद्यते-- शाकल्यस्येमे छात्राः शाकला इति।।
19. कौरव्यमाण्डूकाभ्याञ्च। (4.1.19)
`कथं कौरवी'इति। कौरव्यशब्दादेवात्र हीब्विहित इति मन्यमानस्य प्रश्नः। कुरुशब्दादेवात्राणन्तान्ङीब्विहित इति दर्शयन्नाह--`तस्येदम्' इत्यादि।
`कौरव्यमाण्डूकयोः' इत्यादि। कौरव्यमाण्डूकयोरनेन सूत्रेण यत्कार्यं विधीयते तस्यासुरेरप्युपसंख्यानम् = प्रतिपादनं कर्त्तव्यम्। आसुरेरपि ष्फः प्रतिपादयितव्य इति यावत्। तत्रेदं प्रतिपादनम्-- चकारोऽत्र क्रियते,स चानुक्तसमुच्चयार्थः तेनासुरिशब्दादपि ष्फो भविष्यतीति। `आसुरायणी'इति। असुरस्यापत्यमिति `अत इञ्' (4.1.95) , तदन्तात् ष्फः। `इञश्चेत्यणि प्राप्ते' इति। तत्र `प्रस्थोत्तरपदपलद्यादिकोपदादण्' (4.2.110) नेति योगविभागः कर्त्तव्यः, तेनासुरिशब्दादपि प्रतिषिद्धे `वृद्धाच्छः' (4.2.114) इति छ एव भविष्यति-- आसुरिणा प्रोक्त आसुरीयः कल्प इति।।
20. वयसि प्रथमे। (4.1.20)
`यौवनादिः' इति। आदिशब्दो वृद्धत्वाद्युपसंग्रहार्थं इति। `श्रुत्या वर्त्तते' इति। यत् प्रातिपदिकं श्रवणमात्रेणैव प्रकरणाद्यनपेक्षं प्रथमं वयः प्रत्याययति तदत्र श्रुत्या वर्त्तते। `कुमारी' इति। ननु च नायं कुमारीशब्दः प्रथमे वयसि वर्त्तते, क्व तर्हि ? पुंयोगाभावे, तथा हि वृद्धायामपि हि प्रयुज्यते-- वृद्धा कुमारीति ? नैतदस्ति;कुमारीशब्दो हि प्रथम एव वयसि रूढः। यस्तु वृद्धायामपि तस्य प्रयोगस्तत्र कुमारीसाधर्म्यात्, न तु पुंयोगाभावात्। भवति हि ताद्धर्म्यात् ताच्छब्द्यम्, यथा --ृ- गौर्वाहीक इति।
`वयस्यचरमे' इति। अचरमे = अनन्त्ये ङीब्भवतीत्येतदर्थरूपमस्य सूत्रस्य व्याख्यानमित्यर्थः। तेत्रेदं व्याख्यानम्-- प्रथमवयोग्रहणमिहाचरमस्य वयस उपलक्षणम्, तेनान्यत्राप्यचरमे वयसि ङीब्भवतीति। किं पुनः कारणं प्रथम एव वयसि गृह्यमाणे न सिध्यति, येनैवं सूत्रार्थो व्याख्येयः ? इत्याह-- `द्वितीयवयोवचनावेतौ' इत्यादि। इह केचिच्चत्वारि वयांसीच्छन्ति --कौमार यौवन मध्यत्व वृद्धत्वानि। तथा चाहुः--
`प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम्।
तृतीये न तपस्तप्तं चतुर्थं किं करिष्यति।। इति।
अन्ये त्रीणीच्छन्ति--कौमारयौवनस्थाविराणि। तथा चाहुः--
पिता रक्षतिकौमारे भर्त्ता रक्षति यौवने,
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति।।इति।
केचिद्बाल्यमध्यत्ववृद्धत्वानीति त्रीणीच्छन्ति।तथा चाहुः--
आषोडशाद्भवेद्बालो यावत् क्षीरान्नवर्त्तकः।
मध्यमः सप्ततिर्यावत् परतो वृद्ध उच्यते।। इति।
एतेषु सर्वेषु यौवनं द्वितीयं वयो भवति। ननु प्रथमवयोवचनौ तु वधूटीचिरण्टीशब्दावित्यतो न प्राप्नोति, तस्मादचरमस्य वयस इहोपलक्षणं प्रथमं वय इति व्याख्येयमिति केचित्।
यस्तु मन्यते `केचित्तु द्वे एव वयसी इच्छन्तीति, यावत्यो बुद्धिमत्योऽवस्थास्ताः सर्वा राशीकृत्य प्रथमं वयो व्यवस्थाप्यते, यास्त्वपचयवत्योऽवस्थास्ताः सर्वा राशीकृत्य द्वितीयं वयः। तथा चोक्तम्-- `वर्द्धते यावदन्नेन तावद्वर्धितव्यं पश्चदपायेन योक्ष्यते'इति,एतदेव दर्शनमाश्रित्यैतत् सूत्रं प्रणीतम्। इति। तेन वधूटी, चिरण्टीत्यत्रापि ङीब्भवतीति तेन द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्र्यभिधीयत इत्यस्य ग्रन्थस्याविरोधाय यतितव्यम्। न ह्यस्मिन्दर्शने यौवनं द्वितीये वयस्यन्तर्भवति;यौवनावस्था वृद्धिमतीत्वात्।
अथ कथमुत्तानशयालोहितपादिकेति, यावता बाल्यमत्र गम्यते, बालैव ह्युत्तानशया लोहितपादिका भवति, तस्माद्भवितव्यमेव ङीपेत्यत आह-- `नैता वयः श्रुतयः' इति। नैते वयोवचनाः शब्दा इत्यर्थः। इह तावदुत्तानशयेति प्रातिपदिकश्रवणमात्रेण क्रियाकारकसम्बन्धमात्रं प्रतीयते-- उत्ताना शेत इत्युत्तानशया। `हरतेरनुद्यमनेऽच्' (3.2.9) इत्यतोऽज्ग्रहणेऽनुवर्त्तमाने `अधिकरणे शेतेः' (3.2.15) इत्यत्रोत्तानादिषु कर्त्तुष्वित्युपसंख्यानादच्,`स्त्रियाः पुंवत्'(6.3.34) इति पुंवद्भावः। सर्वैवोत्ताना शेते, उच्यते चेदमुत्तानशयेति;तत्र नियमो गम्यते। अन्यथा शायितुमसामर्थ्यादुत्तानैव या सेते सोत्तानशयेति गम्येति। अवगतेऽप्यस्मिन्नियमे सन्देह एव-- किमसौ बाला ? वृद्धा वा ? इति। वृद्धाऽपि हि कदाचिदन्यथा शयितुमशक्ता स्यात्, उत्तानैव च शेते। तस्माद्यदोत्तानैव शेत इति नियमप्रतीतिर्भवति, वृद्धत्वाभावश्च कुतश्चितप्रकरणादेरवसितो भवति, तदा बाल्यं गम्यते। `लोहितपादिका'इति। अत्रापि लोहितौ पादावस्या इत्यन्यपदार्थमात्रं तावत् तच्छब्दात् प्रतीयते। यदा तु प्रकरणादिना स्वभावत एवास्या रक्तौ पादौ नालक्तकरसादिनेति प्रतीतिर्भवति तदा बालेति गम्यते। इतिशब्दः प्रकारार्थः। एवम्प्रकारा नैता वयः श्रुतय इत्यर्थः। कथं बाला, वत्सेति ? अजादित्वाट्टाब्भविष्यति। ननु वचनसामर्थ्यादनेन ङीबपि प्राप्नोति ? नैतदस्ति;तस्यान्यत्र कुमारी, किशोरीत्यादौ चरितार्थत्वात्।।
21. द्विगोः। (4.1.21)
`पञ्चपूली' इति। पञ्चानां पूलानां समाहार इति। `तद्धितार्थोत्तरपदसमाहारे च' (2.1.51) इति समाहारद्विगुः। `अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाष्यते' (वा. 156) इति स्त्रीलिङ्गता।
`त्रिफला' इति। त्रयाणां फलानां समाहार इति। पूर्ववद् द्विगुः।।
22. अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि। (4.1.22)
`तद्धितलुकि सति'इति। एतेन `तद्धितलुकि' इत्येषा विषयसप्तमीति दर्शयति। परसप्तमीत्येषानोपपद्यते;लुकोऽभावरूपत्वात्, अभावे च पौर्वापर्याभावात्। `सर्वतो मानं परिमाणम्' इति। परिशब्दः सर्वतो भावे। सर्वत आरोहतः परिणाहतश्च मीयते = परिच्छद्यते येन तत्परिमाणम्- प्रस्थादिः।
`पञ्चाश्वा' इति। तद्धितार्थे द्विगुः, `तेन क्रीतम्' (5.1.37) इत्यार्हीयष्ठक्, `अध्यर्थपूर्वाद्द्विगोर्लुक्'(5.1.28) । `कालः संख्या च न परिमाणम्' इति। न हि ताभ्यामारोहतः परिणाहतश्च मीयते। ज्ञापकाच्च न तयोः परिमाणत्वमवसीयते। यदयं `परिमाणान्तस्यासंज्ञाशाणयोः' (7.3.17) इति सिद्धायामुत्तरपदवृद्धौ `संख्यायाः संवत्सरसंख्यस्य च'(7.3.15) इति संख्यासंवत्सरग्रहणं करोति, तज्ज्ञापयति--कालः संख्या च न परिमाणं भवतीति। विस्तादि च परिमाणविशेष एव ग्रहीतव्यः। अतो वृत्तिग्रन्थः-- परिमाणार्थं ग्रहणमिति । काण्डस्य वा परिमाणत्वे तूत्तरसूत्रेण नियमार्थता न विरुध्यते। यद्येवं `कालाः परिमाणिना' (2.2.5) इत्यत्र सामर्थ्यात् परिमाणवचनाः कालशब्दाः समस्यन्त इति यदुक्तं तद्विरुध्यते ? नास्ति विरोधः; उपचारेण तथान्यत्र परिमाणिवाचिना सुबन्तेनाभिधानात्। इह हि मुख्यं कालस्य परिमाणत्वे निषिध्यते। तत्र ह्यौपचारिकं कालस्य परिमाणत्वमाश्रित्य परिमाणवचनाः कालशब्दा इत्युक्तम्-- कालाः परिमाणनेति ब्रुवता। परिमाणवचनत्वं कालशब्दानामुपयुक्तं भवति,न हि तेन विना परिमाणापेक्षयोत्तरपदस्य परिमाणिव्यपदेश उपपद्यते। न च कालस्य मुख्यं परिमाणत्वमस्ति। अतः सामर्थ्यादौपचारिकं परिमाणत्वमाश्रितमिति गम्यते। उपचारस्य हेतुः परिच्छेदस्य हेतुत्वमात्रम्, परिमाणस्य साधर्म्यम्। कालो हि मासादिर्जातादिसमबन्धिनीमादित्यगतिं गमयतीति भवति परिच्छेदस्य हेतुः। अतः परिमाणसाधर्म्यादुपपद्यते, तत्र च परिमाणोपचारः। `द्विवर्षा, त्रिविर्षा' इति। द्वे वर्षे भूतेति `समधीष्टो भृतो भूतो भावी' (5.1.80) इत्यनेन विहितस्य ठकः `वर्षाल्लुक्' (5.1.88)इति लुक् पाक्षिकः। चित्तवत्त्वे तु प्रत्ययार्थस्य विवक्षिते `चित्तवति नित्यम्' (5.1.89) इति नित्यमेव लुक्। द्वे वर्षे प्रमाणमस्या इति `प्रमाणे लो द्विगोर्नित्यम्' (वा.558,559) इति नित्यमेव लुक्। `द्विशता, त्रिशता' इति। द्वाभ्यां शताभ्यां क्रीतेति `पणपादमाषसशताद्यत्' 5.1.34) इति यति प्राप्ते `शाणाद्वा' (5.1.35) इत्यत्रोपसंख्यानम्-- `शताच्चेति वक्तव्यम्'(वा. 510) इति। तेन शतसशब्दात् पक्षे `संख्याया अतिशदन्तायाः कन्' (5.1.22) इति कन्,तस्य पूर्ववल्लुक्।
`द्विविस्ता'इति। द्वौ बिस्तौ पचति। `सम्भवत्यवहरति पचति' (5.1.52) इत्यनेनार्हीयष्ठक्, तस्य पूर्ववल्लुक्। द्वावाचितौ पचति `द्व्याचिता'। `आढकाचितपात्रात्सखोऽन्यतरस्याम्' (5.1.53) इति वर्त्तमाने `द्विगोः ष्ठंश्च' (5.1.54) इति ष्ठन्, तस्य पूर्वल्लुक्। द्वाभ्यां कम्बल्याभ्यां क्रीता `द्विकम्बल्या'। `तेन क्रीतम्' (5.1.37) इति ठक्,तद्वदेव। लुक्।
`द्व्याढकी' इति। द्वावाढकौ पचति। `आढकाचितपात्रात्खोऽन्यतरस्याम्' (5.1.53) इति वर्त्तमाने `द्विगोः ष्ठंश्च' (5.1.54) इतिपक्षे ष्ठन्, तस्या लुक्। `पञ्चाश्वी' इति। पूर्ववत् समाहारे द्विगुः।
इहेमौ द्वौप्रतिषेधावुच्येते, तत्रैकः शक्यमकर्त्तुम्। कथम् ? एवं सूत्रन्यासः करिष्यते-- परिमाणान्तातद्धितलुकीति। पूर्वेणैव सिद्धे नियमार्थमेतत्-- परिमाणान्तादेव तद्धितलुकि ङीब्भवति, नान्यस्मात्। तेन द्व्याढकीत्यादावेव भवति, न पञ्चाश्वेत्यादौ;ततो विस्ताचितकम्बल्येभ्यो न तद्धितलुकीत्यनुवर्त्तते,बिस्तादिभ्यः परिमाणेभ्योऽपि तद्धितलुकि ङीब्न भवतीति ? नैवं शक्यम्; विपरीतोऽपि नियमः सम्भाव्येत--परिमाणान्तात् तद्धितलुक्येवन भवति, नान्यत्रेति। ततश्च द्वयोः कुडवयोः समाहारो द्विकुडवीत्त्र न स्यात्। तस्माद्यथान्यासमेवास्तु।।
23. काण्डान्तात्क्षेत्रे। (4.1.23)
`नियमार्थम्' इति। क्षेत्र एव यथा स्यात्, अन्यत्र मा भूदिति। अथान्तग्रहणं किमर्थम्, यावता सामर्थ्यादेव तदन्तविधिर्लभ्यत एव, यथा-- पूर्वस्मिन् सूत्रे, न हि केवलस्य काण्डशब्दस्य केनचिद्द्विगुसंज्ञा विहिता ? सत्यमेतत्, किन्त्वसत्यग्रहणे काणडमेव क्षेत्रेण विशिष्येत-- काण्डशब्द एव केवलो यः क्षेत्रे वर्त्तते इति, ततश्चेह प्रतिषेधः स्यात्-- द्वाभ्यां काण्डसंज्ञकाभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति। इह तु न स्यात्-- द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्तेः द्विकाण्डा क्षेत्र भक्तिरिति। अन्तसूत्रे तु सति काण्डशब्दस्य विशेषणं क्षेत्रं न भवति; तस्य द्विगो गुणभूतत्वात्।
24. पुरुषात्प्रमाणेऽन्यतरस्याम्। (4.1.24)
`प्रमणे यः पुरुषशब्दो वर्त्तते'इति। जातिवचनोऽपि पुरुषशब्दः, यदा प्रमाणशब्देनाभिसम्बध्यते तदा पुरुषगते प्रमाणे वर्त्तते। भवति पदान्तरसम्बन्धेन शब्दस्यार्थान्तरे वृत्तिः, यथा-- सिंहो माणवक इति। सिंहशब्दो जातिवचनोऽपि माणवकसान्निध्याच्छौर्यलक्षणं गुणमाचष्टे। `द्विपुरुषी' इति। `प्रमाणे द्वयसच्'(5.2.37) इति विहितस्य द्वयसचः `प्रमाणे लो द्विगोर्नित्यम्'(वा. 558,559) इति लुक्।
`अपरिमाणान्तत्वात् प्रतिषेध प्राप्ते'इति। `अपरिमाणविस्त' (4.1.22) इत्यादिना।
`द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा' इति। पूर्ववदार्हीयस्य ठको लुक्।
`तद्धितलुकि' इत्येव। `पञ्चपुरुषी' इति। प्रमाणार्थवृत्तानामेव समाहारान्नास्ति द्व्यङ्गविकलता।।
25. बहुव्रीहेरूधसो ङीष्। (4.1.25)
`ऊधसोऽनङिति समासान्ते कृते' इति। अकृत एव समासे बहुव्रीह्यर्थं उत्तरपदे पूर्वं समासान्तेन भवितव्यमिति प्राक् ततः समासान्त एव भवति, ततो बहुव्रीहिः ततः स्त्रीप्रत्ययः-- इत्येवैवानुपूर्वी।`अनो बहुव्रीहेः' इत्यादि। इतिशब्द आद्यर्थे। `अनो बहुव्रीहेः' (4.1.12) इत्यादिना शास्त्रान्तरेणेत्यर्थः। तत्र `अनो बहुव्रीहेः' इत्यनेन सूत्रेण प्रतिषेधे प्राप्ते `डाबुभाभ्यामन्यतरस्याम्' (4.1.13) इत्यनेन डाप्। `कुण्डोघ्नी' इति। कुण्डमिवोधोऽस्या इति बहुव्रीहिः,`अल्लोपोऽनः' (6.4.134) इत्यकारलोपः।
`प्राप्तोधाः' इति। `प्राप्तापन्ने च द्वितीयया' (2.2.4) इति तत्पुरुषः, `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः।
`अन उपधालोपिनः'इत्यादि। `अन उपधालोपिनोऽन्यतरस्याम्' (4.1.28) इत्येतेनापि विधीयमानस्य ङीपोऽयं ङीब्बाधक इष्यते। कथं पुनरिहोच्यमानस्तस्य बाधको भवति ? उत्तरसूत्रानुवृत्तेः। असत्यानुत्तरत्रानुवृत्तौ `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते' (व्या.प.10) इत्येवमयं ङीब्डाप्प्रतिषेधावेव बाधते, नोपधालोपिनो ङीषम्। ततशचोपधालोपिनः परत्वात् स एव पक्षे भवेत्। तस्मात् `अन उपधालोपिनः' (4.1.28) इत्यत्रास्यानुवृत्तिः कर्त्तव्याः। तेनोपधालोपिनोऽप्यूधसन्तान्ङीषेव भवति। `समासान्तश्च स्त्रियामेव' इति। समासान्तविधेरनित्यत्वात्। अनित्यत्वं तु पुनरूधःशब्देन सकारान्तेनासमासान्तेन विशेषणाद्विज्ञायते। यदि हि नित्यः स्यात् `बहुव्रीहेरूघ्नः' इति निर्देशः स्यात्।।
26.संख्याव्ययादेर्ङीप्। (4.1.26)
`द्व्यूघ्नी'इत्यादि। द्वे ऊधसी अस्याः। त्रीण्यूधांस्यस्याः।अबिगतमूधोऽस्याः।निर्गतमूधोऽस्या इति विग्रहः।
`आदिग्रहणं किम्' इति। एवं मन्यते-- संख्याव्ययाभ्यामित्येव वक्तव्यम्, `बहुव्रीहेरूधसः' (4.1.25) इति हि वर्त्तते,, तत्रैवमभिसम्बन्धः करिष्यते--- संख्याव्ययाभ्यामुत्तरो य ऊधःशब्दस्तदन्ताबहुव्रीहेर्ङीब्भवतीति, तथा च निष्पलमादिग्रहणम्, विनापि तेन सिद्धत्वादिति। `द्विविधोघ्नी' इत्यादि। यद्यादिग्रहणं न क्रियेत तदा `संख्याव्ययाभ्याम्' इति पञ्चमीनिर्देशात् संख्याया अनन्तरो य ऊधःशब्दस्तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति। द्विविधमूधो यस्या इति विग्रहः। अत्रादिग्रहणे सति विधशब्देन व्यवधानेऽपि भवति।।
27.दामहायनान्ताच्च। (4.1.27)
`ऊधसः' इति निवृत्तम्,प्रकृत्यन्तरोपादानात्। `संख्याग्रहणनुवर्त्तते, नाव्ययग्रहणम्' इति। संख्याग्रहणस्यैव स्वरितत्वात्। `डाप्प्रतिषेधविकल्पेषु प्राप्तेषु' इति। `डाबुभाभ्यामन्यतरस्याम्' (4.1.13) इत्यादिना डापि प्राप्ते `अनो बहुव्रीहेः' (4.1.12) इति प्रतिषेध `अन उपधालोपिनोऽन्यतरस्याम्ट (4.1.28) इति विकल्पे च। द्वे दामनी अस्या इति `द्विदाम्नी'। `द्वौ हायनावस्या इति `द्विहायनी'।
`हायनो वयसि स्मृतः' इति। प्रकृतिरिति शेषः। कस्य प्रकृतिः ? ङीपः प्रकृतत्वात् तस्यैव। बहुव्रीह्यधिकारादत्र हायमान्तो बहुव्रीहिरिति गम्यते। एतदुक्तं भवति-- हायमान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इति। तेन यदि वयो गम्यते ततो ङीब्भवति, नान्यथा। एतच्चोत्तरसूत्रेऽन्यतरस्यांग्रहणस्योभयोर्योगयोः शेषभूतत्वाद्व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। अथ त्रिचतुर्भ्यां हायनस्याप्युपसंख्यानाद्यथा हि त्रिहायनी चतुर्हायणीत्यत्र णत्वं भवति; तथा त्रिहायना शाला, चतुर्हायना शालेत्यत्रापि कस्मान्न भवति ? इत्याह -- `णत्वमपि' इत्यादि। तदपि हि णत्वमौपसंख्यानिकमाचार्यैर्वयस्येव स्मर्यते। न च शालाया वयः सम्भवति, तस्य प्राणिधर्मत्वादिति नेह णत्वं प्रवर्तते।
अन्तग्रहणं विस्पष्टार्थम्। बहुव्रीह्यधिकारादेव हि सामर्थ्यात् तदन्तविधिर्लभ्यते; न हि केवलयोर्दामहायनशब्दयोर्बहुव्रीहिसंज्ञा केनचिद्विहिता।।
28.अन उपधालोपिनोऽन्यतरस्याम्। (4.1.28)
`उपधालोपी'इति। उपधालोपो यस्य ङीपि परतः सम्भवति स उपधालोपी।
`ननु' इत्यादि। `अनो बहुव्रीहेः' (4.1.12) इति प्रतिषेधः सिद्धः, `डाबुभाभ्याममन्यतरस्याम्' (4.1.13) इति डाप्, अनयतरस्यांग्रहणाच्च पक्षे ङीप्। यदि तर्हि `डाबुभाभ्यामन्यतरस्याम्' इत्यनेन ङीबपि विधीयते, तदा दामा पामेत्यत्रापि स्यात् ? अन्यतरस्यांग्रहणस्य व्यवस्थितविभाषात्वान्न भविष्यति। `अनुपधालोपिनः' इत्यादि। यदीदं नोच्येत, अनुपधालोपिनोऽपि ङीप् स्यात्। तस्मादुपधालोपिन एव ङीब्यथा स्यात्, अनुपधलोपिनो मा भूदित्येवमर्थमिदमुच्यते । `बहुराजा' इति। ङीप्प्रतिषेधः। `सर्वनामस्थाने च' (6.4.8) इति नोपधाया दीर्घः। `बहुराज्ञी' इति। ङीप्, `अल्लोपोऽनः' (6.4.134)। `बहुराजे' इति। डाप्, `औङ आपः' (7.1.18) इति शीभावः, `आद्गुणः' (6.1.97)। द्विवचननिर्देशो डापोऽभिव्यक्तये। एकवचने हि डाप्प्रतिषेधयोर्न कश्चिद्विशेषः; उभयत्रापि तुल्यरूपत्वात्। क्वचित् `बहुराजाः' इति बहुवचनेन निर्देशः, तस्यापि तेदव प्रयोजनम्।
`बहुमत्स्या' इति। `सूर्यातिष्यागस्त्यमस्त्यानां य उपधायाः' (6.4.149) इति लोपविधानादुपधालोपीत्येष बहुव्रीहिः। `सुपर्वा' इति। अयमुपधालोपी न भवति। `न संयोगाद्वमन्तात्' (6.4.137) इत्युपधालोपप्रतिषेधात्।।
29. नित्यं संज्ञाछन्दसोः। (4.1.29)
नित्यग्रहणं विस्पष्टार्थम्। पूर्वणैव हि विकल्पेन ङीप् सिद्धः, तदारम्भसामर्थ्यादेव ङीब्नित्यं भविष्यति, अन्यथा हीदं वचनमनर्थकं स्यात्।।
30. केवलमामाकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च। (4.1.30)
अथ मामकग्रहणं किमर्थम्, यावताऽस्मदः `तस्येदम्' (4.3.120) इत्यणि कृते `तवकममकावेकवचने' (4.3.3) इतिममकादेशेन मामक इति भवति, ततश्च `टिड्ढाणञ्' (4.1.15) इत्येव ङीप्सिद्धेः ? सत्यमेतत्; नियमार्थं तु मामकशब्दस्य ग्रहणम्; संज्ञाच्छन्दसोर्यथा स्यात्, अन्यत्र मा भूदिति।।
31. रात्रेश्चाजसौ। (4.1.31)
`अजसौ' इति । विषयसप्तमीयम्, न परसप्तमी, कुतः ? स्त्रीप्रत्ययस्यान्तरङ्गत्वाज्जसः परत्वाविरोधाद्विषयसप्तमीत्वे न दोष इत्याह-- `जस्विषयत्वात्' इत्यादि।
`अजसादिष्विति वक्तव्यम्'इति।जासादिविषयादन्यत्र रात्रिशब्दान्ङीब्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- इह लाघवार्थं `अजसि' इति वक्तव्येऽजसावित्युक्तम्, मात्राधिक्यादर्थाधिक्यसूचनार्थम्, तेनाजसादिषु ङीब्भवतीति। आदिशब्देनामादीनां ग्रहणम्।
`कथम्' इत्यादि। `रात्र्यः' इति। रात्रिशब्दस्य जसन्तस्य प्रयोगः। एवं हि `दीर्घाज्जसि च' (6.1.105) इति सवर्णदीर्घत्वे प्रतिषिद्धे यणादेश उपपद्यते, नान्यथा। यदि तु रात्रिशब्दस्यायं प्रयोगः स्यात्, ततः `जसि च'(7.3.109) इति गुणे कृतेऽयादेशे च रात्रय इति रूपं स्यात्। ईकारान्तश्च रात्रिशब्दो न सम्भवति;अजसाविति ङीप्प्रतिषेधात्। ततश्च रात्र्य इति प्रयोगो नोपपद्यत इत्यभिप्रायः। `ङीषयम्'इत्यादि। ननुच रात्रिशब्दो बह्वादिषु पठ्यते, तत्कथं बह्वादिलक्षणस्ततो ङीष्भविष्यति ? इत्यत आह--`तत्र हि' इत्यादि। `कृदिकारादक्तिनः'इति। कृत इकारः कृदिकारः,तदन्तान्ङीष् भवति।`वृदृभ्यां विन्' (द.उ. 1.23) वर्वी, दर्वी। यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति-- `स्त्रियां क्तिन्' (3.3.94) कृतिः, हृतिः। `सर्वतोऽक्तिन्नर्थादित्येके' इति। एक आचार्या सर्वतोऽक्तिन्नर्थात् कृदिकारादकृदिकाराच्च ङीष् भवतीत्याहुः, राजिः राजी। राजिशब्दोऽव्ययुत्पत्तिपक्षे कृतिकारान्तो न भवति। अक्तिन्नर्थादिति, न विद्यते क्तिन्नर्थो यस्य सोऽक्तिन्नर्थः, तस्मात् सर्वतो ङीष् भवति। यस्तु क्तिन्नर्थस्तदन्तान्न भवति-- कृतिः हृतिः। `आक्रोशे ऩञ्यनिः' (3.3.112) -- अकरणिः, अहरणिः। रात्रिशब्दश्चायं व्युत्पत्तिपक्षे कृदिकारान्तो भवति, `रा आदाने' (धा.पा.1057), `राशदिभ्यां त्रिप्' (द.उ.1.36) रात्रिः, तस्मात् पक्षे ङीष् रात्री। अव्युत्पत्तपक्षे तु कृदिकारान्तो न भवति, ततः `सर्वतोऽक्तिन्नर्थात्' (ग.सू.51) इति ङीष्।।
32. अन्तर्वत्पतिवतोर्नुक्। (4.1.32)
`स तु नकारान्तत्वादेव सिद्धः' इति। `ऋन्नेभ्यो ङीप्' 4.1.5) इत्यनेन। `निपातनसामर्थ्यात्' इत्यादि। यथैव हि निपातनसामर्थ्यादन्यत् किञ्चिदलाक्षणिकं कार्यं भवति, तथार्थविशेषेऽपि वृत्तिः। कस्मिन्पुनरर्थविशेषे वृत्तिर्भवति ? इत्यत आह-- `अन्तर्वत्पतिवत्' इत्यादि। यथाक्रममन्तर्वदित्यस्य गर्भसंयोगे वृत्तिः, पतिपदित्यस्य भर्तृसंयोगे। गर्भेण संयोगो गर्भसंयोगः, स कस्या भवति ? यस्याः कुक्षौ गर्भो व्यज्यते। भर्त्रा संयोगो भर्तुसंयोगः, स च कस्या भवति ? यस्याः पतिर्जीवति। भर्त्ता चेह योऽग्निसाक्षिपूर्वकेण पाणिग्रहणनेन सम्बन्धी स एवाभिमतः, नतु यः पृथिवीस्वामी। `{राशतिभ्यां द.उ.} इह तु न भवति इति-- अन्तरस्यां शालायां विद्यते' (इति) शालायां कुक्षिगतेन गर्भेण सम्बन्धाभावात्। `पतिमती' इति। परिरस्या अस्तीति मतुप्, `उगितश्च' (4.1.6) इति ङीप्। अत्र पतिशब्द ईश्वरे स्वमिनि वर्त्तते। तेन संयोगे च न पतिवदिति निपात्यते। येन तु संयोगो निपात्यते स चाख्यात एव।
`मतुब्निपात्यते' इति। अन्तःशब्दस्याधिकरणप्रधानत्वात् प्रथमासमर्थता नास्ति। प्रथमासमर्थाच्चास्तिसमानाधिकरणेन मतुब्विधीयते, न चास्तिनान्तशब्दस्य सामानाधिकरण्यम्, तस्मान्मतुब्न प्राप्नोतीति निपात्यते। `वत्वं न सिद्धम्' इति। `मादुपधायाश्च' (8.2.9) इत्यादिनैवाकारोपधत्वात्। `निपात्यते' इति। केनचिदप्राप्तत्वात्। ` मतुप्सिद्धः'इति। पतिरस्यास्तीति प्रथमासमर्थस्य पतिशब्दस्यास्तिना सामानाधिकरण्यात्। `गर्भिणी' इत्यनेन गर्भसंयोगं दर्शयति। `जीवपतिः'इत्यनेनापि भर्तृसंयोगम्।
`अन्तर्वत्पतिवतोः'इत्यादि। अन्तर्वत्पतिवदित्येतयोः शब्दयोर्निपातनान्मतुबवत्वे भवतः, यथाक्रमं गर्भिण्यां जीवपत्यां च स्त्रियामभिधेयायाम्। गर्भोऽस्या अस्तीति गर्भिणी। जीवतीति जीवः, पचाद्यच्; जीवः गतिर्यस्याः सा जीवपतिः।ननु च `पतिः समास एव' (1.4.8) इति घिसंज्ञोयऽयं पतिशब्दः,तत्र `अच्च घेः' (7.3.119) इत्यात्वौत्वयोः कृतयोः जीवपताविति भवितव्यम्, तदयुक्तो जीवपत्यामिति निर्देशः ? नैतदस्ति; `शेषो घ्यसखि'(1.4.7) इति, सिद्धायामेव घिसंज्ञायां `पतिः समास एव' (1.4.8) इत्यनेन शेषस्यैव पतिशब्दस्य घिसंज्ञा नियमार्थं विधीयते, न चायं शेषः; `ङिति ह्रस्वश्च' (1.4.6) इति नदीसंज्ञासम्भवात्। नदीसंज्ञायां च सत्यां `इदुद्भ्याम्' (7.3.117) इति `ङेराम् नद्याम्नीभ्यः' (7.3.116) इत्याम्, यणादेशे जीवपत्यामिति भवति। `वा च्छन्दसि नुग्विधिः' । छन्दसि विकल्पे तु नुग्विधिर्भवति। स च वक्ष्यमाणस्य विभाषाग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तेर्व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। नुक्पक्षे `ऋन्नेभ्यो ङीप्' (4.1.5) इति ङीप्। `अन्तर्वत्नी' इति। अनुक्पक्षे `उगितश्च' (4.1.6) इति ङीप्--अन्तर्वतीति भवति।।
33. पत्युर्नो यज्ञसंयोगे। (4.1.33)
`यज्ञसंयोगे' इति। यज्ञसम्बन्धे। कस्य पुनर्यज्ञेन संयोगः ? पतिशब्दवाच्यार्थस्य। अथ पतिशब्दस्यैव कस्मान्न भवति ? असम्भवात्। तयोर्हि वाच्यवाचकभावलक्षणः सम्बन्धः स्यात्, न केवलः पतिशब्दो यज्ञस्य वाचकः। कथं पुनर्यज्ञेन संयोग इत्याह-- `तत्साधनत्वात्' इति। तस्य यज्ञस्य साधनं तत्साधनम्, तद्भावो यज्ञसाधनत्वम्। तस्माद्यज्ञेन संयोगो भवति। यजमानस्य या भार्या तस्या यागं प्रति साधनभावोऽस्तीति; विना तया तदनिष्पत्तेः। न हि भार्याविरहितस्त्रैर्णिकः केवलो यज्ञेऽधिक्रियते। तस्मात् स तया करणभूतया यज्ञं निष्पादयतीत्यस्ति तस्या यज्ञेन सह क्रियाकारकलक्षणः सम्बन्धः। `तत्फलग्रहीतृत्वाद्वा' इति। यज्ञसंयोगे द्वितीयो हेतुः। अनेन तु स्वस्वामिभावलक्षमः सम्बन्धः प्रतिपाद्यते। यज्ञस्य यत्प्रधानं फलं स्वर्गाख्यं तद्यजमानस्य पत्नी परिगृह्णाति। अतो यद्यपि यज्ञं प्रति तस्याः साधनत्वं न विवक्ष्यते, तथापि तत्फलस्य ग्रहणात्, यथा यजमानस्य यज्ञेन हस स्वस्वामिभावसम्बन्धः, तथा तत्पत्न्या अपि। अथ फलग्रहीतृत्वादिति कथमत्र षष्ठीसमासः ? कथञ्च न स्यात् ? `कर्त्तरि च' (2.2.16) इति तृचा सह षष्ठीसमासप्रतिषेधात् ? नैवायं तृजन्तेन षष्ठीसमासः, किं तर्हि ? द्वितीयेति योगविभागात् तृन्नन्तेन द्वितीयासमासः। अथ वा-- याजकादिषु ग्रहीतृशब्दो द्रष्टव्यः, तेन षष्ठीसमासो भविष्यति। अथापि तत्र न पठ्यते ? एवमपि `याजकादिभिश्च' (2.2.9) इति चकारस्यानुक्तसमुचयार्थत्वाद्भविष्यति। `ऋन्नेभ्यो ङीप्' (4.1.5) इति ग्रहीतृशब्दादिह ङीप् न भवति, स्त्रीत्वस्याविवक्षितत्वात्। क्वचित् `फलगृह्णीतत्वात्' इति पाठः।तत्र फलगृहीतशब्दयोर्बहुव्रीहिः। फलशब्दस्य जातिवाचित्वान्निष्ठायाः पूर्वनिपाते प्राप्ते `जातिकालसुखादिभ्यः परवचनम्' (वा.116) इति गृहीतशब्दस्य परनिपातः।
`कथम्' इत्यादि। एं मन्यते-- `शूद्रस्यैव तावद्यज्ञेऽनधिकृत्वाद्यज्ञेन संयोगो नास्ति, किं पुनस्तद्भार्यायाः ? अतः `वृषलस्य पत्नी' इत्येष प्रयोगो नोपपद्यते' इति। `उपमानाद्भविष्यति' इति। पत्नीवद्धि पत्नी। यथैव हि यजमानस्य पत्न्यग्निसाक्षिपूर्वकेण तत्पत्युः सम्बन्धिनी तत्कार्येषु चाधिकृता तथा वृषलस्य भार्याऽपि। तस्मात् पत्नीसमाधर्म्यात् साऽपि पत्नीत्युच्यते।।
34. विभाषा सपूर्वस्य। (4.1.34)
`पतिशब्दान्तस्य'इत्यादि। एतेन पतिशब्दस्य ग्रहणम्, सपूर्वग्रहणम्, अनुपसर्जनग्रहणञ्च -- त्रयमप्येतत् प्रातिपदिकस्य विशेषणमिति दर्शयति। सहशब्दोऽयमस्त्येव तुल्ययोगे-- सशिष्यो गुरुरागत इति, गुरोः शिष्यस्य चागमनेन तुल्ययोगः प्रतीयते; अस्ति च सत्तावचनः, यथा-- सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इति, विद्यमनैरेवेत्यर्थः। तदिह सत्तावचनो गृह्यते, सपूर्वस्य विद्यमानपूर्वस्येत्वर्थः। यदि हि तुल्ययोगे वर्त्तमानो गृह्यते, ततोऽयमर्थः स्यात्---सहपूर्वेण पतिशब्दान्तस्य नकारो भवतीति। ततश्च पतिशब्दात् पूर्वस्यापि वृद्धादिशब्दस्य नकारः स्यात्। एवं हि तुल्ययोगो भवति यदि नकार उभयोरपि भवति। पूर्वशब्दोऽयमस्त्येव व्यवस्थाशब्दः, यथा--पूर्वं मथुरायाः पाटलिपुत्रमिति; अस्त्यवयववचनः, यथा-- पूर्वं कायस्येति। तदिहावयववचनो गृह्यते। सह विद्यमानः पूर्वोऽवयवो यस्य तत् सपूर्वमित्युच्यते। यदि व्यवस्थाशब्दो गृह्येत, तत्रायमर्थः स्यात्-- विद्यमानः पूर्वो यस्मात् तस्य पतिशब्दान्तस्य नकारो भवतीति। ततस्च दृढपत्नीत्यत्र न स्यात्, न हि पतिशब्दान्तादिहकश्चित् पूर्वोऽस्तीति। अथ पतिशब्दस्यैव सपूर्वत्वमनुपसर्जनत्वञ्च विशेषणं कस्मान्न विज्ञायते ? अशक्यत्वात्। स ह्यवयववचनं वा पूर्वशब्दं गृहीत्वा विशिष्येत, व्यवस्थाशब्दं वा। तत्र पूर्वस्तावदयुक्तः कल्पः अव्यभिचारात्, असम्भवाच्च। कथम् ? यदि पकारं पूर्वमभिप्रेत्य विद्यमानः पूर्वोऽवयवो यस्येति विशिष्येत, ततोऽव्यभिचारादयुक्तं विशेषणम्। न हि पकारेण यस्य पूर्वत्वं तत्पतिशब्दो व्यभिचरति। अथ शब्दान्तरम् ? तदसम्भवादयुक्तं विशेषणम्। न हि शब्दान्तरं पतिशब्दस्यावयव उपपद्यते। व्यवस्थाशब्दपक्षे तु विद्यमानः पूर्वो यस्मात् तदिति विशिष्यते। युज्यते च विशेष्यविशेषणभावः। किन्तु वाक्येऽपि नकारः प्राप्नोति---- ग्रामस्य पतिरियं ब्राह्मणीति; अस्ति ह्यत्र पतिशब्दात् पूर्वो ग्रामशब्द-। अनुपसर्जनग्रहणेनापि पतिशब्दे विशिष्यमाने बहुव्रीहौ विकल्पो न प्राप्नोति-- दृढः पतिरस्या दृढपतिः, दृढपत्नीति। न ह्यत्रानुपसर्जनं पतिशब्दः, सर्वोपसर्जनत्वाद्बहुव्रीहेरिति बहुव्रीह्यवयवानामप्युपसर्जनत्वात्। तस्मात् प्रातिपदिकस्यैव विशेषणं युक्तम्।
`पतिरियं ब्राह्मणी ग्रामस्य' इति। ननु च व्यपदेशिवद्भावादिदमपि सपूर्वमिति शक्यते व्यपदेष्टुम्। न च `व्यपदेशिवद्भावोऽप्रतिपदिकेन' (शाक्.प.65) इति व्यपदेशिवद्भावाभावः; प्रातिपदिकत्वात्। यद्येवम्, पतिशब्दान्ततापि नास्तीति, अतो द्व्यङ्गविकलता ? नैतदस्ति; सपूर्वग्रहणे हि क्रियमाणे पतिशब्दान्तस्येत्येषोऽर्थो लभ्यते। अक्रियमाणे तु तस्मिन् शब्दस्यैव शुद्धस्य नकारो विज्ञायते।।
35. नित्यं सपत्न्यादिषु। (4.1.35)
`सपत्न्यादिषु' इति। के पुनः सप्त्नत्यादयः ? ये पठ्यन्ते। तेषु प्रातिपदिकेषु येषां समानादीनि पूर्वपदानि ते सपत्न्यादयः। कुत एतत् ? समानादीनां गणे पाठात्, सपत्न्यादीनां चापाठात्। लाघवार्थं समानार्थं समानादिष्विति प्रवक्तव्ये कृते नकारदेशस्य सप्रत्ययस्य च सपत्न्यादिष्विति समुदायस्योच्चारणम्-- नियोगत एव समुदाय ईकारन्त एव यथा स्यादित्येवमर्थम्। तेन सपत्नी भार्या यस्य स सपत्नीभार्य इति `स्त्रियां पुंवत्' (6.3.34) इति पुंवद्भावो न भवति। `सपत्न्यादिषु नित्यम्' इत्यादि। समानादिषु पूर्वेष्वयवयवेषु सत्सु नित्यं पतिशब्दस्य नकारादेशो भयतीत्यर्थः। यदि पूर्वेण विकल्पे प्राप्त इदं वचनम्, एवं हि नित्यग्राहणयनर्थकम्, आरम्भसामर्थ्यादेव हि नित्यं विधिर्भविष्यतीत्यत आह-- `नित्यग्रहणं विस्पष्टार्थम्' इति।
`दासाच्छन्दसि' इति। दासशब्दात् परो यः पतिशब्दस्तदन्तस्य प्रातिपदिकस्य चछन्दसि विषये नित्यं नकारादेशो भवति। दासः पतिर्यस्याः सा दासपत्नी। भाषायां तु पूर्वेण विकल्पः-- दासपतिः, दासपत्नीति।।
36. पूतक्रतोरै च। (4.1.36)
`ऐकारश्चान्तादेशो भवति' इति। कुतः पुनरेतदवसितम्-- आदेज्ञोऽयमिति, न पुनः प्रत्ययः ? उत्तरसूत्रेऽप्यादेशत्वात्। उत्तरसूत्रे ह्ययमेवैकारोऽनुवर्त्तते, तत्र चास्यादेशत्वम्। अत इहाप्यादेशत्वमवसीयते। उत्तरसूत्रे कुतोऽस्यादेशत्वं निश्चितमिति चेत् ? उदात्तवचनात्। यदि हि प्रत्ययः, तस्याद्युदात्तत्वादुदात्तवचनमनर्थकं स्यात्; प्रत्ययस्वरेणैवोदात्तत्वस्य सिद्धत्वात्।
`त्रय एते योगाः' इति। अयं चैकः, वक्ष्यमाणौ चानन्तरौ-- द्वौ-- एते त्रयो योगाः पुंयोगप्रकणे `पुंयोगादाख्यायाम्' (4.1.48) इत्येवमादौ द्रष्टव्याः; तस्मिन्नेषां स्वरितत्वेनानुवृत्तेः। पूतः क्रतुर्येन पुकषेण स पूतक्रतुः, तस्य स्त्री पूतक्रतायी।।
37. वृषाकप्यग्निकुसितकुसीदानामुदात्तः। (4.1.37)
`वृषाकपिशब्दो मध्योदात्तः' इति। `लघावन्ते द्वयोश्च बह्वषो गुरुः' (फिट्.2.42) इति वनचात्। अस्यायमर्थः-- लघावन्ते परतो द्वयोश्च लघ्वोः परतो बह्वच्शब्दस्य यो गुरुः स उदात्तो भवतीति। `बह्वष्' इति बह्वजित्यर्थः। पाणिनेर्यश्चकारेण प्रत्याहारः सोऽन्येषामाचार्याणां मतेन षकारेण। वृषाकपिशब्दे कपिशब्दसम्बन्धिनोर्लघ्वोः परतः पूर्व आकारो गुरुतर उदात्तो भवति, शेषमनुदात्तम्। तत्र यद्युदात्तग्रहणं न क्रियेतानुदात्तस्य स्थाने य आदेशः स्थानिवद्भावेन सोऽनुदात्त एव स्यात्। तस्माद्वृषाकपि शब्द उदात्तत्वं प्रयोजयति। `अग्न्यादिषु पुनरन्तोदात्तेषु' इति। `फिषः' (फि.सू.1.1) इत्यादिनाग्न्यादीनामन्तोदात्तत्वम्। आदिशब्देन कुसितकुसीदयोर्ग्रहणम्। `फिष्' इति प्रातिपदिकस्यैव पुनरन्याचार्याकृता संज्ञा।।
38. मनोरौ वा। (4.1.38)
`वाग्रहणेन द्वावपि विकल्प्येते' इति। प्रत्येकं वाग्रहणेनाभिसम्बन्धात्। यदा चैकारौकारौ न भवतस्तदा ङीबपि न भवति ; तस्य सन्नियोगशिष्टत्वात्। `मनुशब्द आद्युदात्तः' इति। एतेनोदात्तग्रहणमनुवर्त्तयितव्यम्; अन्यथा शेषस्यानुदात्तत्वे स्थानिवद्भावेनादेशस्याप्यनुदात्तत्वं स्यादिति भावः। `मन ज्ञाने' (धा.पा.1176) `{भृमृशीतृचरित्सरितनिममस्ज्भ्य उः-- द.उ.}भृमृशीतृचरित्सरितनिधनिमिमस्ज्भ्य उः' (द.उ.1.92) इत्यनुवर्त्ताने `धान्ये नित्' (द.उ.1.94) इति च `शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमानिभ्यश्च' (द.उ.1.95) इत्युप्रत्ययः, नित्वात् `ञ्नित्यादिर्नित्यम्' (6.1.197) इत्याद्युदात्तत्वं भवति मनुशब्दस्य।।
39. वर्णादनुदात्तात्तोपधात्तो नः। (4.1.39)
`वर्णानां तणितनितान्तानाम्' (फि.सू.2.23) इत्यस्यायमर्थः-- वर्णवाचिनां तशब्दान्तानां णकारान्तानां तिशब्दान्तानां निशब्दान्तानां चादिरुदात्तो भवतीति, आदिग्रहणमुदात्तग्रहणं च प्रकृतं तत्रानुवर्त्तते।
`प्रकृता' इति। प्रकर्षेण कृतेति, `कुगतिप्रादयः' (2.2.12) इति समासः। प्रशब्दोऽयं निपातः, `निपाता आद्युदात्ताः' (फि.सू.4.80) `उपसर्गाश्चाभिवर्जम्' (फि.सू.4.81) इत्युदात्तः। समासेऽपि कृते `गितरनन्तरः' (6.2.49) इति पूर्वपदप्रकृतिस्वरेणाद्युदात्त एव भवतीति। सेषमनुदात्तम्। `घृतादित्वादन्तोदात्तः' इति। `घृतादीनाञ्च' (फि. सू.1.21.) इत्यन्तोदात्तत्वविधानात्। एतच्च फिट्सूत्रे पठ्यते। `शिति' इति `वर्णानाम्' (फि.सू.2.33) इत्यादिना शितिशब्द आद्युदात्तः।
`पिशङ्गात्' इत्यादि। पिशङ्गशब्दः `लघावन्ते' (फि.सू.2.42) इत्यादिना मध्योदात्तः, ततः `अन्यतो ङीष्' (41.36) इत्यतश्चकारोऽनुक्तसमुच्चयार्थोऽनुवर्त्तते। तेन पिशङ्गादपि ङीब्भवतीति। `वक्तव्यम्' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `मनोरौ वा' (4.1.39) इत्यतो वेत्यनुवर्तते,सा च व्यवस्थितविभाषा। तेनासितपलितशब्दाभ्यां ङीष्न भविष्यत्येवेति। `वर्णानां तणतिनितान्तानाम्' (फि.सू.2.33) इयाद्युदात्तौ असितपलितशब्दौ।
`तयोश्छन्दसि' इत्यादि। असितपलितशब्दयोस्तकारस्य क्नमेक आचार्या इच्छन्ति। स तु `व्यत्ययो बहुलम्' (3.1.85) इत्येव सिद्धः। `भाषायामपीष्यते' इति। एतेन प्रत्याचष्टे। `असिक्निकानाम्' इति। अज्ञातार्थे `प्रागिवात्कः' (5.3.70) इतिकः, `केऽणः' (7.4.13) इति ह्रस्वः।।
40. अन्यतो ङीष्। (4.1.40)
`सारङ्गी, कल्माषी' इति। `लघावन्ते' (फि.सू.2.42) इत्यादिना मध्योदात्तौ सारङ्गकल्मावशब्दौ। `शवली' इति। `शप अक्रोशे' (धा.पा.1000), `कलस्तृपश्च' (द.उ.8.107) इति `शपेर्वश्च' (द.उ.8.108) इति कलप्रत्ययः, पकारस्य बकारः, प्रत्यायाद्युदात्तत्वेन मध्योदात्तः शबलशब्दः। `खट्वा' इति। `खट काङ्क्षायाम् (धा.पा.309), `अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्' (द.उ.8.125) इति क्वन्, नित्सर्वेरणाद्युदात्तः खट्वाशब्दाः। `कृष्णा' इति। `कृष विलेखने' (धा.पा.990) `{इण्सिञ्दीङुष्यविभ्यो नक्--द.उ.) इण्सिञ्जिदीङुष्यविभ्यो नक्', `कृषेर्वर्णे' (द.उ.5.35.37) इति नक्, प्रत्ययस्वरेणान्तोदात्तः कृष्णशब्दः। `कपिला' इति। `कमु कान्तौ' (धा.पा.443) `सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्' (पं.उ.155), `कमेः पश्च' (पं.उ.1.56) इति मकारस्य पकारः, चित्स्वरेणाणान्तोदात्तः कपिलाशब्दः।।
41. षिद्गौरादिभ्यश्च। (4.1.41)
`षिद्भ्यः प्रातिपदिकेभ्यः' इति। षकार इद्येषां तानि। कथं पुनः प्रातिपदिकानि षिन्ति भवन्ति, यावता ध्वुनादेः प्रत्ययस्य षकार इत्संज्ञकः,न तु तेषाम् ? नैष दोषः; अवयवगतं हि षित्त्वं समुदायस्य विशेषणं भविष्यति, यथा-- अक्षिगतं काणत्वं पुरुषस्य --काणः पुरुष इति। यद्येवम्, धातुगतमपि षित्त्वं समुदायस्य विशेषणं प्राप्नोति, `त्रपूष् लज्जायाम्' (धा.पा.347), अङ, अपत्रपेति ? नैतदस्ति; यो ह्यनुबन्धोऽवयवे निष्प्रयोजनः स समुदायार्थो विज्ञायते। धातोस्तु विद्यत एव षित्करणस्य नान्यत् प्रयोजनमस्ति, अतः समुदयार्थमेव तद्विज्ञायते। `रजकी' इति। अत्र `रञ्जेश्च' (6.4.26) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वादनुनासिकलोपः।
गौरादिषु गौरशब्दस्य सत्यपि वर्णवाचित्वे प्रातिपदिकस्वरेणान्तोदात्तत्वात् पूर्वेण प्राप्नोतीतीह पाठः। मत्स्यादीनां यकारोपधानाम् `अयोपधात्' (4.1.63) इति जातिलक्षणस्य ङीषः प्रतिषेधे प्राप्ते। शृङ्गशब्दस्य प्राक् श्वञ्शब्दात् पुटादीनाञ्चानन्दवर्ज्जितानां स्त्रीविषयत्वात् शृङ्गशब्दस्य प्राप्ते पुटादीनां चास्त्रीविषया (4.1.63)दिति प्रतिषेधे प्राप्ते। आनन्दशब्दस्याजातिवाचित्वान्ङीष्यप्राप्ते। श्वंस्तक्षन्नित्येतयोः `ऋन्नेभ्यो ङीप्' (4.1.5) इतिङीपि प्राप्ते। अनुडुह्यनड्वाहीत्यनयोरनकारान्तत्वान्ङीप्यप्राप्ते। इकारान्तयोः सप्रत्ययोर्गणे पाठः पुंवद्भावप्रति,ेधार्थः-- अनडुहीभार्यः, अनड्वाहीभार्य इति। एतदेव वचनं ज्ञापकम्-- अनडुहः स्त्रियां विकल्पेनाम्भवतीति। तेन यदुक्तम्-- `अनडुहः {स्त्रियां वेति -- वा.पाठ.} स्त्रियाञ्चेति वक्तव्यम्' (वा.829) इति, तन्न वक्तव्यमिति भवति। `{एषणः का.वृ.}एषणं करणे' इति। एषणशब्दः करणे कारके ङीषमुत्पादयतीति। इष्यतेऽनयेत्येषणी। करण इति किम् ? इष्यतेऽस्यामित्यधिकरणे ङीपि। मेध इत्यस्याजातित्वान्ङीष्यप्राप्ते। गौतमस्य शार्ङ्रगरवादित्वान्ङीनि प्राप्ते। पक्षे च वचनात्सोऽपि भवत्येव। आयस्थूणादीनामालिपिशब्दपर्यन्तानां `अणिञोरनार्षयोः' (4.1.78) इति ष्यङि प्राप्ते। आयस्थूणशब्दः शिवाद्यणन्तः। `{भौरि,भौलिकि-गणपाठः} भौरिक्यादयः `अत इञ्' (4.1.95) इतीञन्ताः। आपिच्छिकस्य ङीषि प्राप्ते। आपिच्छिकानां राजानः, तेषामपत्यं स्त्री। `जनपदशब्दात् क्षत्रियादञ्' (4.1.168) इत्यञ्, तस्य `अतश्च' (4.1.177) इति लुकि कृते?प्रत्ययलक्षणेन ङीप्प्राप्नोति। आरटादीनां प्राक् शातनशब्दात् स्त्रीविषयत्वान्ङीष्यप्राप्ते। शातनादीनां ल्युडन्तत्वान्ङीपि प्राप्ते। अधिकरणान्ङीपि। अग्रे हायनमस्य इत्याग्रहायणी। स्वार्थिकोऽण्, णत्वं निपातनात्। अणन्तत्वान्ङीपि प्राप्ते। ईकारान्तस्य पाठः पुंवद्भावप्रतिषेधार्थः-- आग्रहायणीभार्य इति। प्रत्यवरोहणसेवनयोर्ल्युडन्तयोष्टित्वान्ङीपि। केचित्तु पुंद्भावप्रतिषेधार्थं प्रत्यवरोहिणीति पठन्ति--प्रत्यवरोहिणीभार्य इति। `सुमङ्गलात्संज्ञायाम्' (इति) । `नित्यं संज्ञाच्छन्दसोः' (4.1.29) इति वर्त्तमाने `केवलमामक' (4.1.30) इत्यादिना ङीपि प्राप्ते। पक्षे वचनात् सोऽपि भवति। संज्ञायामिति किम् ? सुमङ्गला। सुन्दरादीनां प्राक् तरुणशब्दात् स्त्रीविषयत्वात् ङीष्यप्राप्ते। तरुणतलुनशब्दयोर्वयोलक्षणे ङीपि प्राप्ते। `नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम्' (वा.338) इत्यत्र तु वयोग्रहणम्। बृहन्महच्छब्दयोरुगित्वान्ङीपि प्राप्ते। `रोहिणी नक्षणे' इति। नक्षत्र इति किमर्थम् ? रोहिता। `रेवती नक्षत्रे' इति किम् ? येषां रेवतशब्दोऽत्राकारान्त इति दर्शनं तेषां प्रत्युदाहरणं टाप्-- रेवतेति। येषां त्विदं वचनम्-- राविद्यतेऽस्या इति रेशब्दान्मतुप्, निपातनाद्वत्वमिति, तेषां प्रत्युदाहरणम् `उगितश्च' (4.1.6) इति ङीप्-- रेवतीति। स्वरे विशेषः। विकलादीनां टापि प्राप्ते। कटशब्दाच्छोण्यभिधाने ङीष्। कटी श्रोणिरित्यर्थः। श्रोणिरिति किम् ? कटा। `पिप्पल्यादयश्च' इति। एतावद्गणे पठ्यते। तांस्तु पिप्पस्यादीन् दर्शयितुं पिप्पली हरीतकीत्यादिकं वृत्तिकावचनम्।
`पृथिवी' इति। ईकारान्तनिपातनं पुंवद्भावनिवृत्त्यर्थम्-- पृथिवीभार्य इति। क्रोष्टुशब्दस्य `स्त्रियां च' (7.1.96) इतितृज्वद्भावः।
`मातरि षिच्च' इति। `पितृष्यमातुलमातामहपितामहाः' (4.2.36) इत्यत्र पितृमातृभ्यां पितरि वाच्ये डामहज्निपातयिष्यते। मातरि डामहजेव। तस्यापि षित्त्वम्। `दंष्ट्रा' इति। `{दन्श धा.पा.} दंश दशने' (धा.पा.989), `दाम्नीशस्' (3.2.182) इत्यादिनाष्ट्रन्। षिल्लक्षणस्यानित्यत्वान् ङीषष्टाब्भवति।।
42.जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनाऽयोविकारमैथुनेच्छाकेशवेशेषु। (4.1.42)
वर्त्तते यया सा वृत्तिरिति जीवनोपायो वृत्तिशब्देनेहोच्यते। जनपदे भावा वृत्तिर्जानपदी। `उत्सादिभ्योऽञ्' (4.1.86) इत्यञ्। `जनापद्यन्या' इति।`टिड्ढाणञ्' (4.1.15) इति ङीबेव भवति। `स्वरे विशेषः' इति। ङीषि सति प्रत्ययस्वरेणान्तोदात्तत्वं भवति। ङीपि तु सत्याद्युदात्तत्वम्; जानपदस्य ञित्स्वरेणाद्युदात्तत्वात्। `अमत्रम्' इति। भाजनम् = पात्रम्। `कुण्डाऽन्या' इति। क्रियाशब्दोऽयमित्याहुः।`कुडि दाहे' (धा.पा.270), `गुरोश्च हलः' (3.3.103) इत्यकारतप्रत्ययः,`अजाद्यतष्टाप्' (4.1.4) । यस्तु द्रव्यवचनः कुण्डशब्दः स नित्यं नुपंसक एव वर्त्तत इति प्रत्युदाहर्त्तुं न युक्त इति। `आवपनम्' इति। भाजनविशेष उच्यते, यत्र धान्यादि प्रक्षिप्य नीयते। `गोणाऽन्या' इति। सा पुनर्यस्या इदं यादृच्छिकं नाम। `अकृत्रिमा' इति। पुरुषव्यापारदिभिर्न निर्वृत्तेत्यर्थः। `स्थलाऽन्या' इति। या पौरुषेयी। `भाजी' इति। `भज विश्राणने' (धा.पा.1733) चुरादिणिच्। `ण्यासश्रन्थो युच्' (3.3.107) इति युच् प्राप्नोति। अस्मादेव निपातनादङ्, अङन्तान्ङीष्। `श्राणा' इति। `श्रा पाके' (धा.पा.810) इत्यस्मात् क्तः। `{संयोगादेरातो धातोर्यण्वतः'इति सूत्रम्'}संयोगादेर्धातोर्यण्वतः' (8.2.43) इतिनत्वम्, `अट्कुप्वाङनुम्व्यवायेऽपि' (8.4.2) इति णत्वम्। `नागशब्दः' इत्यादि। नागशब्दो द्विविधः-- जातिवचनः, गुणवचनश्च। ततर् स्थौल्यग्रहणादिह न जातिवचनो ङीषमुत्पादयति, न हि जातिवचनस्य स्थौल्यमभिधेयं सम्भवति; नापि गुणान्तरवचनः; न हि गुणान्तरशब्दान्नागवचनान्ङीषन्ताद्गुणान्तरं प्रतीयते, अपि तु स्थौल्यमेव। तस्माद्यदाऽसौ स्थौल्यं गुणमभिधाय द्रव्ये वर्त्तते तदा ङीषमुत्पादयति, नान्यथा। `अन्यत्र' इत्यादि। स्थौल्यादग्यत्र गुण एव दैर्ध्यादौ वर्त्तमानो नागशब्दो यदा द्रव्यं विशिनाष्टि तदा टापमुत्पादयति। `जातिवचनात्तु' इत्यादि। हस्तित्वादिजातिवचनात् `जातरेस्त्रीविषयात्' (4.1.63) इत्यादिना ङीष्भवति। `वर्णश्चेत्' इति। द्रव्ये वर्त्तमानो यदि वर्णस्तस्य प्रयृत्तिनिमित्तं भवतीत्यर्थः। `कालाऽन्या' इति। यस्या यादृटच्छिकसंज्ञा। `नीलाऽन्या' इति। आच्छादनं शाटिकादि। अनाच्छादने, न सर्वत्र। किं तर्हि ? `नीलादौषदधौ प्राणिनि च' इति। शब्दशक्तिस्वाभाव्यात्,तत्रैव नीलशब्दस्य वृत्तेः। अथ वा `मनोरौ वा' (4.1.38) इत्यतो वाग्रहणमिहानुवर्त्तते, सा च व्यवस्थितविभाषा , तेनानयोरेवार्थयोस्ततो भविष्यति, नान्यत्रेति। `संज्ञायामेव' इति। अनाच्छादन एवायं विकल्पः। एषोऽपि तत एव वाग्रहानुवृत्तेर्लभ्यते। `अयोविकारः' इति। विशिष्ट एव `फालः' इति यस्य नामधेयम्। `कुशाऽन्या' इति। तदाकृतिरेव काष्ठादिमयी। `कामुकाऽन्या' इति। सा पुनर्यस्या मैथुनादन्यद्वस्तु कामयितुं शीलम्। `मैथुनेच्छवती भण्यते' इति। मत्वर्थीयाकारान्तस्य मैथुनेच्छाशब्दस्योपादानात्। `केशवेशः'इति। एतदाख्ये विशिष्ट एव। `कवराऽन्या' इति। वर्णोऽस्या' अस्तीति मतुप्, तस्या लोपादभेदोपचाराद्वा द्रव्ये यो वर्त्तते स वेदितव्यः।।
43. शोणात्प्राचाम्। (4.1.43)
शोणशब्दोऽयं वर्णवचनः। `वर्णानां तणतिनितान्तानाम्' (फि.सू.2.33) इतिवचनादाद्युदात्तः। तत्र `अन्यतो ङीष्' (4.1.40) इति सिद्धे वचनं नियमार्थम्-- प्रचामेद यथा स्यात्, अन्येषां मा भूदिति।।
44. वोतो गुणवचनात्। (4.1.44)
`गुणमुक्तवान् गुणवचनः' इति। भूते काले ल्युटो विधानात्। स पुनर्यः प्राग् गुणमभिधाय पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वद्द्रव्यमभिधत्ते स वेदितव्यः। `पट्वी, मृद्वी' इति। अत्र पटुत्वं मृदुत्वञ्च यताक्रमं गुणमभिधाय पटुमृदुशब्दौ तद्वति द्रव्ये वर्त्तेते इति गुणवचनौ भवतः।
`शुचिः' इति। शुचिशब्दः शुचित्वे गुणे वर्त्तित्वा द्रव्ये वर्त्तत इति गुणवचनः, न तूकारान्तः। `आखुः' इति। जातिवचनोऽयम्, न गणवचनः।
`गुणवचनान्ङीबाद्युदात्तार्थम्' इति। गुणवचनान्ङीब्विधेयः, न ङीष्। स्वरे विशेषः। किमर्थम् ? आद्युदात्तार्थम् । अन्तोदात्तेषु `उदात्तयणो हल्पूर्वात्' (6.1.174) इत्युदात्तत्वमीकारस्य विधीयत इति नास्ति विशेषो ङीब्ङीषोः। आद्युदात्तेषु तु ङीबनुदात्त एवावतिष्ठते, तस्मात् तदर्थं ङीब्विधेयः। ननु च ङीष् प्रकृतः, तत् कथं ङीप् शक्यते विधातुम् ? नैष दोषः; ङीबेव ह्यत्र मण्डूकप्लुतिन्यायेनानुवर्त्तते, न ङीष्; अस्वरितत्वात्। `वस्वी' इति। `वस निवासे' (धा.पा.1942) `भृमृशीतृचरित्सरितनि{धनि-नास्ति-द.उ.} धनिमिमस्जिभ्य उः' (द.उ.1.92) इति वर्त्तमाने `धान्ये नित्' (द.उ.1.94) इति च शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिवन्धिमनिभ्यश्च' (द.उ.1.95) इत्युप्रत्ययः, निच्च, नित्त्वादाद्यदात्तत्वं भवति। गुणवचनश्चायं वसुशब्दः, वसुत्वे गुणे वर्त्तित्वा तद्वति द्रव्ये वर्त्तत इति कृत्वा। पटुशब्दोऽप्याद्युदात्तत्वान्ङीपं प्रोजयति। `अट पट गतौ' (धा.पा.296,297), हेतुमण्णिच्, `फलिपाटिनमिमनिजनां गुक् पटिनाकिधतश्च' (द.उ.1.103) इत्युप्रत्ययः, पाटेश्च पटिरादेशः, `धान्ये नित्' (द.उ.1.94) इत्यनुवृत्तेर्नत्वादाद्युदात्तत्वम्। मृदुशब्दश्च प्रत्ययस्वरेणान्तोदात्त इति, तत्र ङीपो ङीषो वा विशेषो नास्ति। `म्रद मर्दने' (धा.पा.767), `कुर्भ्रश्च' (द.उ.1.107) इत्यतः कुरित्यनुवर्त्तमाने `प्रथिम्रदिभ्रस्जां सम्प्रसारणं च' (द.उ.1.113) इति कुप्रत्ययः, सम्प्रसारणं च भवति।
`खरुसंयोगोपधप्रतिषेधः' इति। खरुशब्दात् संयोगोपधाश्च प्रतिषेधः। स तु वेत्यस्य व्यवस्थितविभाषाविज्ञानादेव लभ्यत इति वक्तव्यमिति। `उतः' इति तपरकरणं दीर्घनिवृत्त्यर्थम्, तेन पटुरित्यत्र न भवति। पटुमिच्छतीति `सुपः आत्मनः क्यच्' (3.1.8), `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः। पटू य इति स्थिते क्विप्, `अतो लोपः' (6.4.48) इत्यकारलोपः, `लोपो व्योर्वलि' (6.1.66) इति यकारस्य लोपः।
इह `उतः' इति विशेषणोपादनादेव शास्त्रीयगुणस्यापरिग्रहः सिद्धः म ह्येदेङ्गां मध्ये कश्चिदुकारान्तोऽस्ति। लोके तु क्वचिदुपसर्जनं गुण इत्यभिधीयते, यथा-- गुणभूता वयमिति, अप्रधानभूता इति गम्यते। यस्य गुणस्य हि भावात् तद्वति द्रव्यशब्दे निवेशस्तदभिधाने त्वतलावित्यत्र विशेषणमात्रं गुणशब्देनोच्यते, तथा हि, जातावपि भावप्रत्ययो भवति-- इह तु यादृशो गुण इष्यते तादृशं परिभाषितुमाह-- `सत्त्वे निवशतेऽपैति' इत्यादि। व्यवच्छेदफलकत्वात् सर्ववाक्यानां सत्तव एवेत्यवधारणं द्रष्टव्यम्। सत्त्वम् = द्रव्यम्, तत्रैव निविशते, तदेवाश्रयतीत्यर्थः। अपैति = ततः सत्त्वादपगच्छथि, यथा-- आम्रफले श्यामता पूर्वमुपैति, रक्ततायामुपजातायां ततोऽपैति। `पृथग्जातिषु दृश्यते' (इति)। पृथक् = नाना जातयो येषां ते पृथग्जातयः, अतस्तेषु पृथग्जातिषु दृश्यते। न हि गोत्वमश्वादिषु व्यक्तिषु दृश्यते। गोव्यते। गोव्यक्तौ दृष्टः शङ्खादावपि शुक्लादिर्गुणौ दृश्यते। एतेन सर्वेण जातिर्गुणो न भवतीत्युक्तं भवति। न हि जातिर्द्रव्यमेवाश्रयति। यथा हि सत्ता द्रव्यगुणकर्मसु त्रिष्वपि वर्त्तते, द्रव्यत्वं द्रव्य एव, कर्मत्वं कर्मण्येव, गुणत्वं गुण एव, नापि द्रव्यवर्तिनी जातिः सत्त्वादपैति; जन्मनः प्रभृत्या विनाशात्तस्याधारद्रव्यापरित्यागात् न जातिः पथग्जातिषु दृश्यते। न हि गोत्वमश्वादिव्यक्तिषु दृश्यते, नाप्यश्वत्वं गवादिष्विति नास्ति जातेर्गुणत्वप्रसङ्गः। कर्मणस्तु स्यात्; तदपि हि सत्त्व एव निवशिते यदा सक्रियं द्रव्यं भवति, अपैति च ततो यदा तु निष्क्रियं भवति। `पृथग्जातिषु दृश्यते' इति। घटपटादिषु दृश्यते। अतः रक्तता गुणः, स ह्यग्निसन्नियोगेन निष्पाद्यते। `अक्रियाजश्च' इति। क्रिया = व्यापारः, ततो जातः क्रियाजः, न क्रियाजोऽक्रियाजः = नित्यः, यथा-- आकाशादिषु महत्त्वादिर्गुणः। तदेवं गुणस्योत्पाद्यत्वानुत्पाद्यत्वप्रकारद्वयदर्शनेन कर्मणो गुणत्वनिवृत्तिः कृता भवति। तद्ध्युत्पाद्यमेव, नानुत्पाद्यम्। एवमपि द्रव्यस्य गुणत्वं प्राप्नोति,तस्यापि ह्येते धर्मा विद्यन्ते।तथा हि-- तदपि यदि द्रव्य एवारम्भकेऽवयवभूते निविशते, अपैति च ततः, यथा-- शरीरमवयवीति। तद्धि हस्तपादादिष्ववयवेषु समवैति; तद्विनाशे च विनाशात् ततोऽपैति। पृथग्जातिषु दृश्यते, हस्त्यादिषु दृश्यते। द्रव्यस्यापि पूर्वोक्तं प्रकारद्वयमस्त्येव। अवयविद्रव्यस्योत्पाद्यत्वादाकाशादेस्तद्वदनुत्पाद्यत्वात् ? इत्यत आह-- `सोऽसत्त्वप्रकृतिर्गुणः'इति। प्रकृतिः = स्वभावः। सत्त्वं द्रव्यं प्रकृतिर्यस्य स सत्त्वप्रकृतिः, न सत्त्वप्रकृतिरसत्त्वप्रकृतिः। यथोक्तैर्धर्मैर्युक्तो यो द्रव्यस्वभावो न भवति स गुणः। द्रव्यम् = द्रव्यस्वभावम्, अतो गुणो न भवति।।
45. बह्वादिभ्यश्च। (4.1.45)
बह्वादिषु `शक्तिः शस्त्रे' इति पठ्यते, तस्यायमर्थः-- शस्त्रेऽभिधेये शक्तिशब्दाद्वा ङीष् भवति-- शक्तिः, शक्ती। शस्त्र इति किम् ? शक्तिः,सामर्थ्यम्। अन्ये तु शक्तिशस्त्री इति शब्दद्वयं पठन्ति-- शक्तिः,शक्ती, शस्त्रिः, शस्त्री। `इतः प्राण्यङ्गात्' इति। इकारान्तात् प्राण्यङ्गवाचिनो वा ङीष् भवति-- धमनिः, धमनी। इत इति किम् ? समर्था ग्रीवा। प्राण्यह्गादिति किम् ? श्रेणिः। `कृदिकारादक्तिनः' (इति)। `सर्वतोऽक्तिन्नर्थादित्येके' (इति)। अस्यार्थः `रात्रेश्चाजसौ' (4.1.31) इत्यत्रैव व्याख्यातः। यदि सर्वतोऽक्तिन्नर्थात् ङीष् भवति, शकट्यादीनां गणेकिमर्थं इकारान्तानां पाठः ? तस्यैव प्रपञ्चार्थः। पद्धतिश्बद्सयाक्तिन्नर्थादिति प्रतिषेधे प्राप्ते पाठः। पादस्य हतिः पद्धतिः, `हिमकाषिहतिषु च' (6.3.54) इति पद्भावः। `चन्द्रभागान्नद्याम्' इति। चन्द्रभागशब्दान्नद्यामभिधेयायां वा ङीष् भवति-- चन्द्रभागी नदी। नद्यामिति किम् ? चन्द्रभागा नाम देवता। `अहन्' इति। अयं शब्दः केवलः स्त्रियां न वर्त्तते। तस्मात् समासे तदन्त उदाहार्यः। दीर्घाण्यहानि यस्यां शरदि सा दीर्घाह्नो। ङीप्प्रतिषेधावप्यस्माद्भवतः। `अनोः बहुव्रीहेः' (4.1.12) `डाबुभाभ्यामन्यतरस्याम्' (4.1.13) इत्यपि डाब्भवति; `अन उपधालोपिनोऽन्यतरस्याम्' (4.1.28) इति वा ङीप् च। तेन धातुरूप्यं भवति। यदि बहुशब्दो गुणवचनः,तत्किमर्थमस्येह ग्रहणम्,यावता पुर्वेणैव सिद्धो ङीष् ? इत्यत आह-- `तस्य' इत्यादि।।
46. नित्यं छन्दसि। (4.1.46)
अथ नित्यग्रहणं किमर्थम्, यावता पूर्वेणैव सिद्धे विकल्पे सत्यारम्भसामर्थ्यादेव नित्यं भविष्यति ? इत्यत आह-- `नित्यग्रहणमुत्तरार्थम्' इति।।
47. भुवश्च। (4.1.47)
`प्रभ्वी' इत्यादि। `भुवः संज्ञान्तरयोः' (3.2.179) इत्यतः `भुवः' इत्यनुवर्त्तमाने `विप्रंशभ्यो ड्वसंज्ञायाम्' (3.2.180) इतिप्रत्ययः, तदन्तान्ङीष्। `स्वयम्भूः' इति। भवतेः क्विबन्तस्य रूपम्। ननु च `भुवः' इति भूशब्दाद्दीर्घादियं पञ्चमी, , ततश्च दीर्घादेव प्रत्ययेन भवितव्यम्, न ह्रस्वादित्यत आह-- `ह्रस्वादेवेयं पञ्चमी ' इति। तर्हि `भुवः'इति निर्देशो नोपपद्यते, `घेर्ङिति' (7.3.111) इति गुणे कृते `भोः' इति निर्देशेन भवितव्यम् ? इत्यत आह-- `सौत्रो निर्देशः'इति। छन्दसि वर्णव्यत्यय उक्तः। तेन तस्य गुणेऽकृत उवङादेशः कृत इति दर्शयति।।
48. पुंयोगादाख्याम्। (4.1.48)
`पुंयोगात्' इति। `विभाषा गुणेऽस्त्रियाम्' (2.3.25) इति हेतौ पञ्चमी। योगः = सम्बन्धः। `आख्यायाम्' इति। पञ्चम्यर्थ एषा `व्यत्ययो बहुलम्' (3.1.85) इति सप्तमी। आख्यायतेऽनया प्रातिपदिककार्थ इति श्रुत्याऽऽख्या। `पुंस आख्यायाम्' इति। पुंसो वाचकभूतमित्यर्थः। तद्धि पुंयोगाद्धेतोः सम्प्रति स्त्रियां वर्त्तते; न पुंसि। अतीत ए काले पुंसो वाचकमासीत्, अतो भूतग्रहणम्। एतदुक्तं भवति-- यत् प्रातिपदिकं प्राक् पुंसो वाचकमभूत्, पश्चात्तु पंयोगाद्धेतोः स्त्रियां वर्त्तते तस्मान् ङीष्भवतीति। कथं पुनर्योगे गुणभावमापन्नस्य पुंस आख्याग्रहणं विशेषणं युज्यते, स्त्रियामित्यनुवृत्तेः स्त्रिया एव ? नैतदस्ति; यो हि पुंयोगात् स्त्रियां वर्त्तते सोऽवश्यं स्त्रियमचष्ट इति विसेषणमिदमदनर्थमकमेव स्यात्। पुंयोगस्य तर्हीदं विशेषणम् ? न; असम्भवात्। न सम्भवत्येव हि तत् प्रातिपदिकं यत् पुंयोगाद्धेतोः पूर्वं स्त्रियां वर्त्तते, पुंयोगस्य चाख्याभूतं भवति। गणकादयो हि ये शब्दाः पुंयोगात् स्त्रियां वर्त्तन्ते ते सर्वे एव वाचकाः प्रागभूवन्, न पुंयोगस्य। ये तु पुंयोगादयः शब्दाः पुंयोगस्य वाचकाः, ते पुंयोगात् स्त्रियां न वर्त्तन्त एव। न चेह कश्चित् तथाविधोऽन्य प्रकृतः, नापि श्रूयते, यस्याख्याग्रहणेन सम्बन्धः स्यात्। तस्माद्गुणभूतस्यापि पुंस एवानेन सम्बन्धो विज्ञायते। `गणकी' इत्यादि। गणयतीति गणक,ण्वुल्। प्रतिष्ठित इति प्रष्ठः, `आतस्चोपसर्गे' (6.1.136) इति कः। `प्रष्ठोऽग्रगामिनि' (8.3.92) इति निपातनान्मूर्धन्यः। सर्व एते पुंसो वाचकाः। पुंयोगात्तु यदोत्तरकालं स्त्रियां वर्त्तन्ते तदैतेभ्यो ङीष्। `पुंसि शब्दप्रवृत्तिनिमितस्य सम्भवात्' इति। गणनादिक्रियास्वभावं यद्गणकादिशब्दानां प्रवृत्तिनिमित्तं तस्य पुंसि सम्भवः, न स्त्रियाम्, नापि नपंसके। तस्मात् पुंसि शब्दे एते। पुंसो वाचका एते शब्दा इत्यर्थः। कथं तर्हि स्त्रियां वर्त्तन्ते ? इत्याह-- `तद्योगात्' इत्यादि। तद्योगः = तस्यायमिति सम्बन्धः, स्वस्वामिभावलक्षणः। तस्मादेते पुंशब्दा अपि स्वभावतः स्त्रियां वर्त्तन्ते। यथैव तद्योगात् स्त्रियां स्नानोद्वर्त्तनपरिषेकादीन् लभते तथा ताच्छब्द्यमपि।
`देवदत्ता' इति। अत्र देवदत्तशब्दसंज्ञकेन पुरुषेण योगाद्देवदत्तशब्दः स्त्रियां न वर्त्तते। किं तर्हि ? स्वत एव, तस्या हीयं संज्ञा कृता। `परिसृष्टा, प्रजाता' इति। प्रसूतेत्यर्थः। निर्लुठितगर्भेति यावत्। परिसृष्टप्रजातशब्दौ स्त्रियां वर्त्तमानो प्रसवनिमित्तमुपादाय प्रवर्त्तेते। परिसर्गः, प्रजनः, प्रसव इत्येकार्था एते शब्दाः। तस्य च प्रसवस्य पुंयोगो निमित्तम्, तेन विना तदभावात्। तस्मात् पुंयोगाद्धेतोः स्त्रियां वर्त्तत इति। वर्त्तत इति। न तु पुंशब्दाख्य इति ईकारो न भवतीति। `एते शब्दाः' इति। बहुवचनं येऽन्येऽप्येवंजातीयाः शब्दास्तानपेक्ष्य वेदितव्यम्; अन्यथा हि परिसृष्टप्रजातशब्दयोर्द्वित्वदेतौ शब्दाविति वक्तव्यं स्यात्।
`गोपालिकादीनां प्रतिषेधो वक्तव्यः' इति। सिद्ध्ये इति वाक्यशेषः। गोपालिकादीनां शब्दानां सिद्धये ङीब्प्रतिषेधः। स तु `वोतो गुणवचनात' (4.1.44) इत्यतो वेत्यनुवृत्तेस्तस्य व्यवस्थितविभाषात्वमाश्रित्य प्रतिपाद्यः।
`सूर्याद्देवतायां चाव्वक्तव्यः'इति। ननु च ङीष एव प्रतिषेधो वक्तव्यः, ङीषि प्रतिषिद्धे टाब्भविष्यति, टापि च सूर्येति सिध्यत्येव ? नैतदेवम्; यद्यपि हि रूपं सिद्ध्यति, स्वरतु न सिध्यति, यस्मात् सूर्यशब्दोऽयमाद्युदात्तः। तथा हि `राजसूयसूर्यः' (3.1.114) इत्यत्र क्यबन्तो निपातितः, ततः क्यपः पित्त्वादनुदात्तत्वम्। धातोस्तु सुवतेः सर्त्तेर्वा धातुस्वरेणान्तोदात्तत्वम्। तत्र टापि सत्यनुदात्तत्वं स्यात्, तु सत्यन्तोदात्तता भवति। पित्करणं तु `ङ्याप्प्रातिपदिकात्' (4.1.1) इत्यत्र सामान्यग्रहणार्थम्। `सूरी'इति। सूर्यस्य स्त्री मानुषी सूरी, ङीषेव भवति, `सूर्यतिष्यागस्त्यमस्त्यानाम्' (6.4.149) इति यलोपः।।
49. इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयनमातुलाचार्याणामानुक्। (4.1.49)
`येषाम्' इति। इन्द्राणीनाम्। `अन्येषां तु' इति। हिमादीनाम्। अथ किमर्थमानुक् क्रियते, अनुगेव नोच्येत, तेन सवर्णदीर्घत्वेन सिध्यति ? न सिध्यति; `अतो गुणे' (6.1.97) इति पररूपत्वं हि प्राप्नोति। अकारोच्चारणसामर्थ्यान्न भविष्यति, पररूपे हि नुगेव वक्तव्यः स्यात्। एवं तर्ह्यकारोच्चारणसमर्थ्याद्भविष्यति। ल्वरसन्धिरेव न भवतीत्येवमपि विज्ञायते। तस्मान्मैवं विज्ञायीत्यानुगेव वक्तव्यः। अथ वा-- इन्द्रमाचष्ट इति `तत्करोति तदाचष्टे' (वा.200,201) इति णिचि `णाविष्टवत् प्रातिपदिकस्य' (वा.813) इति टिलोपः, इन्द्रयतेः क्विप्, णिलोपः, इन्द्रः स्त्रीन्द्राणीत्यत्र दीर्घघस्याकारस्य श्रवणं यथा स्यादित्येवमर्थमानुको विधानम्। आनुकि हि सति दीर्घो न श्रूयेत। ननु च नैवात्र ङीषा भवितव्यम्, अत इत्यधिकारात् ? दीर्घोच्चारणसामर्थ्याद्भविष्यति।
`हिमारण्ययोर्महत्त्वे' इति। महत्त्वेन युक्ता हिमादयः स्त्रीलिङ्गेनाभिसम्बध्य्नते यदा, तदा स्त्रीत्वविवक्षायामनयोः प्रत्ययागमयोर्विधानमित्येतदनेनाख्यायते, न तु स्त्रीप्रत्ययस्यायमपवाद उच्यते। स्त्रीत्व एव हि प्रत्ययो भवति।
`यथाद्दोषे'इति। यवाद्दोषे गम्यमाने स्त्रियां ङीष् भवति-- दुष्टो यवो यवानी।
`यवनाल्लिप्याम्' इति। `यवनानां लिपिः' इति। `तस्येदम्' (4.3.120) इत्यप्प्रसङ्गे ङीष् विधीयते, स तु तदर्थस्य ङीषैव द्योतितत्वान्न भवति।
`आचार्यदणत्वञ्च' इति। नेदमपूर्वं वक्तव्यम्, क्षुभ्नादिष्वस्य पाठात्।
`स्वार्थ एवायं विधिः' इति। एवकारेण पुंयोगो व्यवच्छिद्यते। यदि हि पुंयोगे विधिरयं स्यात् शूद्राऽपि क्षत्रियस्य भार्या क्षत्रियाणीति स्यात्। तस्मात् स्वार्थे एवायं विधिः-- क्षत्रियैव क्षत्रियाणीति। `पुंयोगे तु ङीषैव भवितव्यम्' इति। पूर्वसूत्रेण।
`लिच्च'इति। कस्य तल्लित्वम् ? आनुकः। तथा हि-- मुद्गलानीशब्दस् द्वितीय उदात्त आम्याये पठ्यते। ङीषस्तु लित्वे तृतीय उदात्तः स्यात्।।
50. क्रीतात्करणपूर्वात्। (4.1.50)
करणं पूर्वं यस्मिन्नित्यादिना करणपूर्वग्रहणं क्रीतग्रहणञ्च उभयमप्येतत्प्रातिपदिकस्य विशेषणमिति दर्शयति। पूर्वशब्दोऽयमवयववचनः। करणमवयवो यस्मिन्नित्यर्थः। अथ क्रीतशब्दस्यैव करणपूर्वग्रहणं विशेषणं कस्मान्न विज्ञायते ? अशक्यत्वात् । क्रीतशब्दो ह्यवयववाचिनं वा पूर्वशब्दं गृहीत्वा विशेष्येत-- करणं पूर्वस्मिन्निति ? व्यवस्थाशब्दं वा-- करणं पूर्वमस्मादिति ? तत्र प्रथमः पक्षो न सम्भवति; न ह्यत्र क्रीतशब्दस्य करणवाचिशब्दान्तरमवयव उपपद्यते, द्वितीयस्तु सम्भवति, किन्तु वाक्येऽपि स्यात्-- अश्वेन क्रीतेति, अस्ति ह्यत्र क्रीतशब्दात् करणं पूर्वम्। प्रातिपदिके तु विशेष्यमाणे न भवत्येष दोषः। न ह्यश्वेन क्रीतेत्येतत् करणावयवं क्रीतशब्दान्तं प्रातिपदिकम्। किं तर्हि ? वाक्यम्। तस्मात् प्रकृतं प्रातिपदिकं सामान्यमेवावयववाचिना पूर्वशब्देन विशेष्यते। क्रीतशब्देनापि तदेव करणपूर्वं प्रातिपदिकम्। तेन तस्मिन् विशेष्यमाणे सामर्थ्यात् तदन्तविधिः प्रसज्येतेत्याह-- `क्रीतशब्दात् प्रातिपदिकात्' इति। `वस्त्रक्रीती, वसनक्रीती' इति।
अत्र `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' (व्या.प.वृ.138) इति वस्त्रवसनयोः करणयोः क्रीतशब्देन `कर्त्तकरणे कृता बहुलम्' (2.1.32) इति प्रागेव सुबुत्पत्तेः समासः।
`सुक्रीता, दुष्क्रीता' इति। गत्युपपदत्वात् प्रागेव सुबुत्पत्तेः `कुगतिप्रादयःर' (2.2.18) इति समासः। दुष्क्रीतेत्यत्र `इदुदुपधस्य चाप्रत्यय' (8.3.41) इति षत्वम्।
`टाबन्तेन समासः' इति। सुबन्तयोरेवेति वेदितव्यम्। टापि विहिते कृदन्तताया विहितत्वात्। अत्र किं टाप् क्रियताम् ? उत विभक्तिरिति ? अन्तरङ्गत्वाट्टाप्। पश्चाद्बहिरङ्गा विभक्तिरिति विभक्त्यन्तयोः समासः। अन्तरङ्गत्वं बहिरङ्गत्वं तु टाब्विभक्त्योः `ङ्याप्प्रातिपदिकात्' (4.1.1) इत्यत्र प्रतिपादितम्। कृते तर्हि टापि ङीष् कस्मान्न भवतीत्याह-- `अत इति च' इत्यादि। कथं पुनः टाबन्तेन समासः सिध्यति, यावता `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' (व्या.प.वृ.138) इति प्रागेव कृदन्ततायां समासेन भवितव्यमित्यत आह-- `गतिकारकोपपदानाम्' इत्यादि. कथं पुनर्बहुलं तदुच्यते ? इत्याह-- `कर्त्तृकरणे' इत्यादि। `कर्त्तृकरणे कृता बहुलम्' (2.1.32) इत्यनेन हि गतिकारकोपपदानां कृद्भिः समासो विधीयते। स च बहुलग्रहणात् क्वचित् कृदन्तावस्थायां प्रागेव सुबुत्पत्तेः, क्वचिदन्यथा। तेन `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः (व्या.प.वृ.138) इति बहुलं तदाचार्यैरुच्यते। ततश्च टाबन्तेनापि क्वचित्समासो लभ्यत इत्यभिप्रायः।।
51. क्तादल्पाख्यायाम्। (4.1.51)
`अभ्रविलिप्ती' इति। `लिप उपदेहे' (धा.पा.1433), अस्मात् क्तः। अल्पैरभ्रैर्विलिप्तेत्यस्यामर्थविवक्षायां पूर्ववत्प्राक्सुबुत्पत्तेः समासः। अल्पशब्दस्तु गतार्थत्वान्न प्रयुज्यते। `चन्दनानुलिप्ता' इति। बहुचन्दनानुलिप्तेत्यर्थः।।
52. बहुव्रीहेश्चान्तोदात्तात्। (4.1.52)
`शङ्खभिन्नी' इति। `रदाभ्याम्' (8.2.42) इति नत्वम्। निष्ठान्तस्य `निष्ठा' (2.2.36) इति पूर्वनिपाते प्राप्ते `जातिकालसुखादिभ्यः परवचनम्' (वा.116) इति स न भवति। शङ्खादिशब्दा हि जातिवचनाः। अत एव हि `जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः' (6.2.170) इत्यन्तोदात्तत्वं भवति। `गलकोत्कृती' इति। `कृती छेदने' (धा.पा.1435) इत्यस्मात् क्तः। `केशलूनी' इति। केशान् लुनातीति। `ल्वादिभ्यः' (8.2.44) इति नत्वं चोदयति।
`पादपतिता' इति। `कर्त्तृकरणे कृता बहुलम्' (2.1.32) इति तत्पुरुषसमासेऽन्तोदात्तत्वम्।
`अन्तोदात्ताज्जातप्रतिषेधः' इति। अन्तोदात्ताद्बहुव्रीहेर्ङीषो विधाने जातशब्दान्तात् प्रतिषेधः, स चान्तग्रहणादेव लभ्यत इति न वक्तव्यम्। इहान्तग्रहणं न कर्त्तव्यमेव, विनाऽपि तेन यथा `वर्णआदनुदात्तात्' (4.1.39) इत्यत्रानुदात्तान्तादिति विज्ञायते, तथेहाप्यन्तोदात्तन्तादिति विज्ञास्यते ? तदेवमर्थं क्रियते--- अन्तोदात्त एव यो नित्यं बहुव्रीहिस्ततो यथा स्यात्, विकल्पेन योऽन्तोदात्तस्ततो मा भूदिति। इह च दन्ताजाता, स्तनजातेत्यत्र `वा जाते' (6.2.171) इति विकल्पेनान्तोत्तत्वम्, अतोऽयं विधिर्न भविष्यति। अथ वा-- उत्तरसूत्रे वाग्रहणमुभयोरपि योगयोः शेषः, व्यवस्थितविभाषा च, तेन जातशब्दान्तान्न भविष्यति। अस्मिंस्तु व्याख्यानेऽन्तग्रहणं विस्पष्टार्थमेवेति वेदितव्यम्।
`पाणिगृहीत्यादीनामर्थविशेषे'इति। `सिद्धये' इति शेषः। पाणिगृहीतीत्यादीनां सिद्ध्यर्थं विशेष एव ङीब्भवति, न सर्वत्र। एतदपि व्यवस्थितविभाषया लभ्यते। विशेषस्तु पाणिग्रहणस्य वेदितव्यः। आग्निसाक्षिपूर्वकं भार्यार्थं यस्या पाणिग्रहणं क्रियते सा पाणिगृहीतीति भवति। `यथाकथञ्चित्' इति। यथोक्तात् प्रकारादन्येन केनापि प्रकारेणेत्यर्थः।
`अबहुनञ्' इत्यादि। बह्वादिपूर्वान्ङीष् न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तस्यैव वाग्रहणस्य व्यवस्थितविभाषात्वमाश्रित्य कर्त्तव्यम्। `जातिकालसुखादि' इत्यादि। `बहुकृते' इत्यत्र `बहोर्नञ्वदुत्तरपदभूम्नि' (6.2.175) इत्यन्तोदात्तत्वम्। `अकृता, सकृता' इत्यत्र `नञ्सुभ्याम्' (6.2.1732) इति। `मासजातः' इत्यादिषु `जातिकालसुखादिभ्योऽनाच्छादनात् क्तः' (6.2.170) इति।।
53. अस्वाङ्गपूर्वपदाद्वा। (4.1.53)
`अस्वाङ्गपूर्वपदात्' इति। न स्वाङ्गम् = अस्वाङ्गम्, तत् पूर्वपदं यस्य बहुव्रीहेः स तथोक्त-। `सारङ्गजग्धी' इति। `अद भक्षणे' (धा.पा.1011), `अदो जग्धिः' (2.4.36) इत्यादिना जग्ध्यादेशः, `झषस्तथोर्धोऽधः' (8.2.40) इति तकारस्य घत्वम्, `झरो झरि' (8.4.65) इति घलोपः। `पलाण्डभक्षिती' इति। `भक्ष अदने' (धा.पा.1557), चुरादिणिच्। `सुरापीति' इति। घुमास्थादि (6.4.66) सूत्रेणेत्वम्। सर्वत्र `जातिकालसुखादिभ्यः' (6.2.170) इत्यादिनोत्तरपदान्तोदात्तत्वम्।
`वस्त्रच्छन्ना, वसनच्छन्ना' इति। `छद अपवारणे' (धा.पा.1833) इत्यस्य चुरादिण्यन्तस्य क्तप्रत्यये `वा वान्तशान्तपूर्ण'(7.2.27) इत्यादिना च्छन्नशब्दो निपातितः। `अनाच्छादनात्' (6.2.170) इत्युत्तरपदान्तोदात्तत्वप्रतिषेधे `बहुव्रीहौ प्रकृत्या पूर्वपदम्' (6.2.1) इति प्रकृतिस्वरे कृते `अनुदात्तं पदमेकवर्जम्' (6.1.158) इति शेषस्यानुदात्तत्वादिहान्तोदात्तत्वं नास्ति। पूर्वपदे एवात्राद्युदात्ते--एकं नित्स्वरेण, अपरं लित्स्वरेण। `थस आच्छादने' (धा.पा.1023), ष्ट्रन्प्रत्ययः--वस्त्रम्। धातोर्वसनम्--ल्युट्।
`बहुलम्' इत्यादिना संज्ञायां छन्दसि बहुलं ङीष्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्र वाग्रहणस्य व्यवस्थितविभाषात्वादेव बहुलं संज्ञाच्छन्दसोर्भविष्यति। नन्व सूत्रेणैवानेनावस्य बहुव्रीहित्वाद्भविष्यति ङीष्, किमर्थं तर्हीदम् ? इत्याह-- `प्रवृद्धा च'इत्यादि। विग्रहविशेषेण तत्पुरुषं दर्शयति।
54. स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्। (4.1.54)
`चन्द्रमुखी' इति। चन्द्र इव मुखमस्या इति बहुव्रीहिः। अत्र च `प्रथमानिर्दिष्टम्' (1.2.43) इत्यादिना मुखशब्दस्योपसर्जनसंज्ञा। `अतिकेशी' इति। `कुगतिप्रादयः' (2.2.18) इति समासः। `एक विभक्ति च' (1.2.44) इति केशब्दस्योपसर्जनत्वम्।
`अङ्ग' इति। अङ्गादिभ्य उपसर्जनेभ्यो ङीष् भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम् ? संयोगोपधत्वान्ङीष् न प्राप्नोति, तदर्थमेतदर्थरूपं व्याख्येयम्। तदिदं व्याख्यानम्-- उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेनाङ्गादिभ्यः संयोगोपधेभ्यो ङीब्भवतीति।
`अद्रवम्' इति। मुखनासिकाभ्यां योऽभिनिष्क्रामति वायुः स प्राणः, प्राणोऽस्यास्तीति, प्राणी, तत्र यत्तिष्ठति तत्प्राणिस्थम्; मुखादि स्वाङ्गमुच्यते। यद्येवम्, कफोऽपि स्वाङ्गं स्यात्, ततश्च बहुकफेत्यत्र ङीष् प्रसज्येत ? इत्यत आह-- `अद्रवम्' इति। विशेषणोपादानान्न भवत्ययं प्रसङ्गः, कफस्य द्रवात्मकत्वात्। एवमपि ज्ञानं स्वाङ्गं भवेत्, प्राणिस्थत्वादद्रवत्वाच्च, ततश्च बहुज्ञानेत्यत्रापि ङीष् स्यात् ? इत्यत आह-- `मूर्तिमत्' इति। असर्वगतानि यानि द्रव्याणि तेषां परिमाणं ह्रस्वादिमद्यत् तन्मूर्त्तिः, सा यस्यास्ति तन्मूर्तिमत्। न च तद्ज्ञानेऽस्तीति;निर्गुणत्वात्। गुणानां च ज्ञानस्यात्मगुणत्वान्नास्य स्वाङ्गत्वप्रसङ्गः। येषामपि काठिन्यादिस्पर्शविशेषो मूर्त्तिः, तन्मतेनापि नैव ज्ञां मूर्तिमद्भवति, न हि ज्ञानस्य स्पर्शोऽस्ति। एवमपि शोफस्य श्वयथुसंज्ञकस्य स्वाङ्गत्वं प्राप्नोत्येव; यथोक्तविशेषणविशिष्टत्वात्। ततश्च बहुशोफेत्यत्र ङीष् प्रसज्येतेत्यत आह-- `अविकारजम्' इति। विकारः = धातुवैषम्यम्, भूतप्रक्षोम इत्यर्थः, ततो जातं विकारजम्। न विकारजम् = अविकारजम्। तदेवं विशेषमोपादानसामर्थ्यात्। शोफस्यापि स्वाङ्गत्वं न प्राप्नोति। यदि प्राणिस्थं स्वाङ्गं भवति, एवं तर्हि रथ्यादिपतितानां केशानां स्वाङ्गत्वं न स्यात्, ततश्च दीर्घकेशी रथ्येति न सिध्यतीत्यत आह-- `अतत्स्थम्' इत्यादि। तस्मिन् प्राणिनि तिष्ठतीति तत्स्थम्, न तत्स्थम् अतत्स्थम् = अणिस्थम्। एवमपि केशादि स्वाङ्गं भवति यदि तत्प्राणिनि पूर्वं दृष्टं भवति। प्रतिमावयवानां तर्हि मुखादीनां स्वाङ्गता न स्यात्, अप्राणिस्थत्वात्, ततश्च दीर्घमुखी प्रतिमेति ङीष् न स्यात्? इत्यत आह-- `तस्य चेत्ततथा' इति। तस्य प्राणिनस्तत् स्वाङ्गं यथा युतं येन प्रकारेण संस्थानविशेषेण सम्बद्धं तथा तेन प्रकारेणाप्राणिनोऽपि यदि सम्बद्धं भवत्येवमपि तस्य स्वाङ्गत्वं भवति। अथ वा-- तस्य चेदं प्राणिनस्तत् स्वाङ्गं तथा यदि युतं सम्भवति यथा प्राणिनः, एवमपि स्वाङ्गं भवति।
अन्येषां पाठः- `तेन चेतत्तथा युतम्' इति। तेन प्राणिना येन प्रकारेण संस्थानविशेषादिना सम्बद्धं तथा यद्यप्राणिनापि सम्बद्धं भवति, एवमपि स्वाङ्गं भवति। अथ वा--तेनाप्राणिना तन्मुखादि यदि तथा युतम् = सम्बद्धं भवति यथा प्राणिना, एवमपि स्वाङ्गं भवति। अथ वा तेन चेन्मुरवादीनां स्वाङ्गेन तदप्राणिस्थं द्रव्यं तथा यदि युतं भवति यथा प्राणिद्रव्यम्, एवमपि स्वाङ्गं भवतीति। सर्वथाययमर्थः-- यादृशं प्राणिनो मुखादि स्वाङ्गं तादृशमेव यद्यप्राणिनोऽपि भवति स्वाङ्गमेवमेव भवतीति।।
55. नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च। (4.1.55)
`बह्वज्लक्षणे' इत्यादि। नासिकोदरयोः। `न क्रोडादिबह्वचः' (4.1.56) इति बह्वज्लक्षणे प्रतिषेधे प्राप्ते वचनम्। शेषाणाम् `असंयोगोपधात्' (4.1.54) इति संयोगोपलक्षणे। `सहनञ्विद्यमानपूर्वलक्षणनस्तु प्रतिषेधो भवत्येव' इति। नासिकोदरयोस्तावदयं योगः `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते, नोत्तरान्' (व्या.प.9) इत्यनन्तरमेव बह्वज्लक्षणं प्रतिषेधं बाधते, न सहादिलक्षणम्। ओष्ठादिष्वपि `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते' (व्या.प.10) इति पूर्वमेव संयोगोपधलक्षणम्, तेनासौ भवत्येवम-- सहनासिका, अनासिका, विद्यमाननासिकेति। `बिम्बोष्ठी' इति। बिम्बमिवोष्ठौ यस्याः सा बिम्बोष्ठी-- `ओत्वष्ठयोः समासे वा पररूपं वक्तव्यम्' (वा.687) इत्यौपसंख्यानिकं पररूपत्वम्। ये तु बिम्बौष्टीत्यौकारं पठन्ति ते `वृद्धिरेचि' (6.1.88) इति वृद्धिं कुर्वन्ति।
`पुच्छाच्चेति वक्तव्यम्' इति। पुच्छान्ताच्च प्रातिपदिकान्ङीष् भवतीत्येदर्थरूपं व्याख्येमित्यर्थः। किमर्थम् ? संयोगोपधादपि पुच्छान्ताद्यथा स्यात्। व्याख्यानं तु चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कर्त्तव्यम्। `कल्याणपुच्छी' इति। कल्याणं पुच्छमस्याः।
`कबर' इत्यादि। कबरादिभ्यो यः पुच्छशब्दस्तदन्तान्ङीष् भवतीति। एषोऽपि तत एव चकाराद्वाग्रहणस्य वा व्यवस्थितविभाषात्वल्लभ्यते। कबरं पुच्छे यस्याः सा कबरपुच्छी। एवं `मणिपुच्छी, विषपुच्छी, शरपुच्छी' इति। `सप्तमीविशेषणे बहुव्रीहौ' (2.2.35) इति पुच्छस्य पूर्वनिपातो न भवति; `सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम्' (वा. 115) इति वचनात्।
`उपमानात् पक्षात् पुच्छाच्च' इति। नित्यमिति सम्बध्यते। एतदपि पूर्वोक्तात् कारणद्वयाल्लभ्यते। `पुच्छाच्चेति वक्तव्यम्' (वा.364) इत्यनेनैव सिद्धे पुनरिह पुच्छग्रहणं प्रपञ्चार्थम्,नित्यार्थं वा। उलूकस्येव पुच्छं यस्याः सा `उलूकपुच्छी' ।।
56. न क्रोडादिबह्वचः। (4.1.56)
`कल्याणक्रीडा' इति। क्रोडाशब्दः स्त्रीलिङ्गः। `क्रोडाघाटाजिह्वाशिरोधरासङ्गकुलास्पृहामाया' इति लिङ्गकारिकायां पाठात्। कल्याणी क्रोडाऽस्या इति विग्रहः। `स्त्रियाः पुंवत्' (6.3.34) इति पुंवद्भावः। उत्तरपदस्य `गोस्त्रियोः' (1.2.48) इत्यादिना ह्रस्वः। ततः `स्वाङ्गाच्चोपसर्जनात्' (4.1.54) इत्यादिना प्राप्तस्य ङीपोऽनेन प्रतिषेधः ततष्टाप्। `महाललाटा'इति। `आमन्महत्' (6.346) इत्यादिनात्वम्।।
57. सहनञ्विद्यमानपूर्वाच्च। (4.1.57)
`सकेशा' इति। सह केशैर्वर्तत इति। `तेन सहेति तुल्योगे' (2.2.28) इति समासः। `वोपसर्जनस्य' (6.3.82) इति सहस्य सभावः। `अकेशा'इति। अविद्यमानाः केशा अस्येति, `नञोऽस्त्यर्थानां बहुव्रीहिरुत्तरपदलोपश्च' (वा.102) इति विद्यमानशब्दलोपः। अथ पूर्वग्रहणं किम्, सहनञ्विद्यमानादित्येवोच्येत, एतया हि पञ्चम्या स्वाङ्गे विशेष्यमाणे सहादिपूर्वता लभ्यत एव ? नैतदेवम्; पञ्चमी हि परत्वेन स्वाङ्गं विशेषयेत्-- सहादिभ्यः परं यत् स्वाङ्गमिति। ततश्च सहादिभ्यः परेण स्वाङ्गेनान्यस्यापि कल्याणं विद्यमानमुखमस्या इति विग्रहः। अथ वा-- विद्यमानं मुखं यस्य स विद्यमानमुखः, कल्याणो विद्यमानमुखो यस्या इति विग्रहः। पूर्वग्रहणे सति पूर्वशब्दस्यावयववाचित्वात् सहादिपूर्वत्वेन प्रातिपदिकं विशेष्यत इति सहाद्यवयवं यत् स्वाङ्गान्तं प्रातिपदिकं तस्मादिति विज्ञायमाने नात्र प्रतिषेधो भवति, न ह्येतत् सहाद्यवयवमेव। किं तर्हि ? कल्याणशब्दावयवमिति न भवत्यनिष्टप्रसङ्गः।।
58. नखमुखात्संज्ञायाम्। (4.1.58)
`सूर्पणखा' इति। `पूर्वपदात्संज्ञायामगः' (8.4.3) इति णत्वम्। अथ कथं शूर्पनखी राक्षसीति ? असंज्ञात्वात्। संज्ञायामित्युच्यते, न चेयं संज्ञा। तथा हि-- `पूर्वपदात्' (8.4.3) इत्यादिना णत्वं न भवति। यौगिकस्त्वेष तस्या व्यपदेशः; शूर्पाकारनखयोगात्-- शूर्पमिव नखो यस्याः शूर्पनखीति।।
59. दीर्घजिह्वी च च्छन्दसि। (4.1.59)
अथ किमर्थमीकारान्तनिपातनं क्रियते, न `दीर्घजिह्वा च्छन्दसि' इत्येवोच्येत, एवमुच्यमाने प्रतिषेध प्रकरणात् प्रतिषेधो विज्ञायेतेति चेत् ? न; संयोगोपधत्वेन प्राप्त्यभावात्, प्राप्तिपूर्वकत्वाच्च प्रतिषेधानाम्। तस्मात् सामर्थ्याद्विधिरेव विज्ञास्यत इत्याह-- `निपातनं नित्यार्थम्' इति। कल्पितत्वात् प्रकृतस्य ङीष इहापि विकल्पित एवासौ विज्ञायेत, निपातनात् नित्यो भवति।।
60. दिक्पूर्वपदान्ङीप्। (4.1.60)
`विधिप्रतिषेध' इत्यादि। विधिविषयः-- स्वाङ्गमुपसर्जनसंयोगोपधत्वम्, नासिकादि च प्रातिपदिकम्। प्रतिषेधविषयः- संयोगोपधञ्च प्रातिपदिकम्, `न क्रोडादिबह्वचः' (4.1.56) `सहनञ्विद्यमानपूर्वाच्च' (4.1.57) इति। एतेनैतत् सूचयति-- `स्वाङ्गाच्चोपस्र्जनासंयोगोपधात्' (4.1.54) इत्यादि विधिशास्त्रमिहानुवर्त्तते, `न क्रोडादिबह्वचः' (4.1.56) इत्यादि प्रतिषेधशास्त्रम्, तेन यत्र विषये ङीष् विहितस्तत्रैव ङीब्विधेयः। यत्र तु विषये ङीष् प्रतिषिद्धस्तत्र ङीबपि प्रतिषिध्यत इति। `यत्र ङीष् विहितः' इत्यादिना विधि विषयापेक्षयाः फलं दर्शयति। कः पुनर्ङीपो वा विशेषः, यावतोभयत्र तदेव रूपम् ? इत्याह-- `स्वरे विशेषः' इति। ङीपो हि पित्त्वादनुदात्तत्वं भवतीति, ङीषस्तु प्रत्ययस्वरेणाद्युदात्तत्वम्। `प्राङमुखी' इति। ऋत्विगादि (3.2.59) सूत्रेणाञ्चतेः क्विन्, `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः, `उगितश्च' (4.1.6) इति ङीप्--प्राची। प्राच्यां दिशि मुखमिति `दिक्शब्देभ्यः सप्तमीपञ्चमी' (5.3.27) इत्यादिनास्तातिः, `अञ्चेर्लुक्' (5.3.30) इति तस्य लुक्, `लुक् तद्धितलुकि' (1.2.49) इति स्त्रीप्रत्ययस्यापि लुक्, `तद्धितश्चासर्वविभक्तिः' (1.1.38) इत्यव्ययत्वम्, `अव्ययादाप्सुपः' (2.4.82) इति सुपो लुक्--- प्राग् मुखं यस्याः सा प्राङमुखी, `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45) इति ङकारः। `प्राङ्मुखा' इति। टाप्। ननु च ङीपा मुक्ते `स्वाङ्गाच्चोपसर्जनात्' (4.1.54) इति ङीषा भवितव्यम् ? नैतदस्ति; आचार्यप्रवृत्तिर्ज्ञापयति--यत्रोत्सर्गापवादयोर्विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्त्तत इति, यदयं `पीलाया वा' (4.1.118) इति वाग्रहणं करोति। यद्यत्राणा विकल्पितेन मुक्ते `स्त्रीभ्यो ढक्' (4.1.120) (इति) ढकारेण भवितव्यं किं वाग्रहणेन ? तस्मादस्माद्वाग्रहणादिदं ज्ञाप्यते-- यत्रोत्सर्गोऽपि विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तत इति। कथं पुनरुत्सर्गो विभाषा ? महाविभाषया। `प्राग्दीव्यतोऽण्' (4.1.83) इत्यणुत्सर्गः, `स्त्रीभ्यो ढक्' (4.1.120) इति ढगपवादः; तेन मुक्ते यद्यपि स्यादण्, किं वाग्रहणेन ? नेत्येवं ब्रूयात्, तत्रौत्सर्गिकाणो निवृत्त्यर्थम्।
`इह न भवति' इत्यादिना प्रतिषेधापेक्षायाः फलं दर्शयति। `प्राक्क्रोडा, प्राग्जघना' इति। अत्र हि `न क्रोडादिबह्वचः' (4.1.56) इत्यस्याप्यनुवृत्तेर्ङीष् न भवति। `प्राग्गुल्फा' इति। अत्राप्यसंयोगोपधा (4.1.63), `वहश्च' (3.2.64) इति ण्विः, ण्वेः सर्वापहारी लोपः, प्रत्ययलक्षणेन `अत उपधायाः' (7.2.116) इति वृद्धिः, ङीष्, `वाह ऊठ्' (6.4.132) इति संप्रासरणसंज्ञको वकारस्योठ् भवति; `वसोः सम्प्रसारणम्' (6.4.131) इत्यतः सम्प्रसारणानुवृत्तेः। ठकारः `एत्येधत्यूठसु' (6.1.89) इति विशेषणार्थः। `सम्प्रसारणाच्च' (6.1.108) इति पररूपत्वम्, `एत्येधत्यूठ्सु' (6.1.89) इति पूर्वपदाकारेण सैहकादेशो वृद्धिः।।
62. सख्यशिश्वीति भाषायाम्। (4.1.62)
`सखी' इति। सखिशब्दान्ङीप्। नास्याः शिशुरस्तीति वाक्यशेषेण बहुव्रीहिं दर्शयन्नशिशुशब्दो यो बहुव्रीहिस्तस्याशिश्वीति निपात्यते। न तु तत्पुरुषो यस्तस्येति दर्शयति। तत्पुरुषे हि न शिशुरशिशुरित्येवं भवति। `सखा' इति। `अनङ् सौ' (7.1.93) इत्यनङादेशः, `नोपधायाः' (6.4.7) `सर्वनामस्थाने च' (6.4.8) इति दीर्घः। `सख्यशिशुभ्याम्' इत्येवं वक्तव्ये यन्निपातनं क्रियते, तस्यैतत् प्रयोजनम्-- तुल्यश्रुतेः शब्दान्तरस्यापि यथा स्यात्, सह खेन या वर्त्तते सा सखीति।।
63. जातेरस्त्रीविषयादयोपधात्। (4.1.63)
जासेः प्रातिपदिकादिति सामानाधिकरण्यानुपपत्तेर्जातिवाचि यत् प्रातिपदिकं तदिहाभिधानेऽभिधेयोपचारं कृत्वा जातिशब्देनोक्तम्, अत एव वृत्तावाह-- `जातिवाचि यत् प्रातिपदिकम्' इति। `अस्त्रीविषयात्' इति। अनन्यत्राभावेऽपि विषयशब्दो वर्त्तते, अत एव वृत्तावाह-- `न चेत् स्त्रियामेव नियतम्' इति। न स्त्रियामेव यस्य भावः, किन्तु स्त्रियां चान्यत्र च तदस्त्रीविषयम्।
जातिरित्युच्यते, केयं जातिर्नामेति प्रश्नस्योत्तरमाह--`आकृतिग्रहणा' इत्यादि। आक्रियते व्यज्यतेऽनयेत्याकृतिः = संस्थानमुच्यते। तथा हि-- दुराकृतिः दुःसंस्थानमुच्यते, स्वाकृतिश्च सुसंस्थानम्। गृह्यतेऽनेनेतित ग्रहणम्, करणे ल्युट्। आकृतिर्ग्रहणं यस्याः साऽऽकृतिकग्रहणा, संस्थानव्यङ्ग्येति यावत्। ननु चाकृतिशब्दसामानाधिकरण्याद्ग्रहणशब्दस्य स्त्रियां वृत्तिरिति `टिड्ढाणञ्' (4.1.15) इति ङीपा भवितव्यम्, तदन्तेन समासे कृते `नद्यृतश्च' (5.4.153) इति कप्, ततश्चाकृतिग्रहणीकेति प्राप्नोति ? नैष दोषः; ग्रहणशब्दो हि पूर्व करणसामान्ये व्युत्पादितः, पश्चाद्विशेषेणाभिसम्बध्यते। तत्र पदान्तरसन्निधाने यस्तस्य लिङ्गविशेषसम्बन्धः, स च बहिरङ्ग इति सामान्यलिङ्गेनैवान्तरङ्गेण वाक्यं कृत्वा समासः क्रियते, यथा-- `मुखनासिकावचनोऽनुनासिकः' (1.1.8) इत्यत्र। तदनेन लक्षणेन सामान्यरूपा गोत्वादिलक्षणा जातिरित्युक्तं भवति। गोत्वादयो हि विषाणादिमत्संस्थानव्यङ्ग्यत्वादाकृतिग्रहणाः। एतेन लक्षणेन ब्राह्णत्वादयो जातिविशेषा न संगृहीताः। न हि ते संस्थानव्यङ्ग्याः; तदाश्रयस्य संस्थानस्याभिन्नत्वात्। यादृशं हि संस्थानं ब्राह्मणस्य क्षत्रियादेः संस्थानमपि तादृशमेवेत्यतो द्वितीयं लक्षणमाह-- `लिङ्गानाञ्च' इत्यादि। यापि सर्वाणि लिङ्गानि न भजति साप्यसंस्थानव्यङ्ग्यापि जातिः, यथा-- ब्राह्मणत्वादिः। सा हि स्त्रीलिङ्गं पुंलिङ्गं च भजति-- ब्राह्मणएः, ब्राह्मणीति, न तु नपुंसकलिङ्गमित्यसर्वलिङ्गभाग्भवति। ब्राह्मणत्वादिष्वप्युदेशाभिव्यङ्ग्यताऽश्रयणीया, अन्यथा देवदत्तः, देवदत्तेति लिङ्गद्वयं भजति, अत्रापि जातित्वं स्यात्. न चायं जातिशब्द इष्यते, किं तर्हि ? संज्ञाशब्दः। विध्यर्थञ्चेदम् । अतः सर्वलिङ्गभाजोऽपि पूर्वेण लक्षणेन जातित्वमस्ति, यथा--तटः,तटी, तटमिति। सर्वलिङ्गं भजत इति सर्वलिङ्गभाक्, कर्मण्युपपदे `भजो ण्विः'(3.2.62) इति ण्विः। ननु च लिङ्गापेक्षया सर्वशब्द उपपदे भजो ण्विप्रत्ययो न प्राप्नोति, उपपदाश्रयत्वा, उपपदसमासश्च असमर्थत्वात् ? नैष दोषः; यथैव हि देवदत्तस्य गुरुकुलमित्यत्रासामर्थ्येऽपि समासो भवति, गमकत्वात्; तथैवमुभयमपि भविष्यतीति।
सा च जातिः-- `सकृदाख्यातनिर्ग्राह्या' इति। सकृत् = एकवारम्, आख्याता = उपदिष्टा, निर्ग्राह्या = निश्चयेन ग्राह्या। एतेन जातिधर्मानेकत्वनित्यत्वप्रत्येकपरिसमाप्तित्वलक्षणान् दर्शयति। सकृदेवारं यस्मात् कृष्णे धवले वा गोपिण्ड आख्याता तद्विलक्षणेऽपि गोपिण्डे निर्ग्राह्या, तस्मादेव नित्या प्रत्येकं परिसमाप्ता च। यदि ह्येका न स्यात्, सकृदाख्याता गौरिति पिण्डान्तरे न गृह्येत। यदि च नित्या न भवेत्, पिण्डविनाशे तस्या अपि विनाशात् पिण्डान्तरेण न गृह्येत। यदि च प्रत्येकं सर्वात्मना परिसमाप्ता न स्यात्, तस्मिन्नपि तावत् पिण्डे सर्वात्मना न गृह्येत यत्राख्याता, किं पुनः पिण्डान्तरे ! अंशेन हि परिसमाप्तौ सत्यामंश एव परिगृह्यते, न जातिः। नजात्यंशो जातिर्भवति, अनेकत्वप्रसङ्गात्।
तृतीयं जातिलक्षममाह-- `गोत्रञ्च' इत्यादि। `अपत्यं पौत्रप्रभृति गोत्रम्' (4.1.162) इति गोत्रं पारिभाषिकम्। इह तु लौकिकमपि गोत्रमपत्यमात्रं गृह्यते। चरणमध्ययनभेदेनानेकधा। गोत्रञ्च चरणैः सह जातिर्भवति। गोत्रं नाडायनादि। यद्यपि नाडायनतादि सामान्यं गोत्रवदेव कल्प्यते, तथापि तत् संस्थानव्यङ्ग्यं न भवति। सर्वलिङ्गभावक्त्वाच्च-- नाडायनः पुमान्, नाडायनी स्त्री, नाडायनं नपुंसकमिति। अतो गोत्रस्य जातित्वप्रतिपादनसिद्धये गोत्रञ्चेत्युक्तम्। चरणशब्दस्त्वध्ययनक्रियासम्बन्धेन प्रवृत्तत्वात्। क्रियाशब्द एव जातिशब्द इत्यतस्तदर्थस्य जातित्वप्तिपादनाय चरणैः सहेत्युक्तम्।
`कुक्कुटी, शूकरी मयूरी' इति। आकृतिग्रहणाया जातेरुदाहरणम्। `ब्राह्मणी, वृषली' इति। असर्वलिङ्गभाजः। `नाडायनी, चारायणी' इति। गोत्रलक्षणायाः। नडचरशब्दयोः `नडादिभ्यः फक्' (4.1.99) इति फगपत्येऽर्थे। `कठी, बह्वृची' इति। चरणलक्षणयाः।
`मुण्डा'इति। मुण्डगुणयोगात्। मुण्डो भवत्येष इत्यस्त्रीविषयः-- मुण्डो देवदत्त इति; पुरुषेऽपि मुण्डशब्दस्य वृत्तेः। न तु जातिशब्दः,किं तर्हि ? गुणशब्दः।`मक्षिका' इति। सर्वदा स्त्रियामेव नियत्वात् स्त्रीविषयो मक्षिकाशब्दः। `क्षत्त्रिया' इति। गोत्रमिह जातिः। `क्षत्त्राद्धः' (4.1.138) इति गोत्रापत्ये घविधानादस्रवलिङ्गभाक्त्वाच्च जातित्त्वम्। `क्षत्त्रियः' इति च पुंस्यपि वृत्तेरस्त्रीविषयः क्षत्त्रियशब्दः।
योपधस्तु-- `योपधप्रतिषेधे हयगवयमुकत्स्यमनुष्याणामप्रतिषेधः' इति। कथं पुनरेष लभ्यते ? उत्तरसूत्रे चकास्यानुक्तसमुच्चयार्थत्वात्। तेन हि हयगवयादिभ्यो ङीष्विधानादयं प्रतिषेधो न प्रवर्त्तते। `मत्सी' इति। `सूर्यतिष्यागस्त्यमत्स्यानाम्' (6.4.149) इत यलोपः। `मनुषी' इति। `मनोर्जाताव़ञ्यतौ षुक् च' (4.1.161) इति यत्प्रत्ययः, षुगागमश्च। जातित्वं च पुरनेषां हयगवयादीनामाकृतिग्रहणाद्वेदितव्यम्।।
64. पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च। (4.1.64)
`ओदनपाकी' इति। ओदनस्य पाक इति षष्टीसमासः। व्युत्पत्तिमात्रार्थं त्वसौ क्रियते, न त्ववयवार्थो विद्यते। समुदाय एव ह्ययं कस्याञ्चिज्जातौ वर्त्तते। एवं `शह्कुकर्णी' इत्यदिष्वपि वेदितव्यम्।।
65. इतो मनुष्यजातेः। (4.1.65)
`अवन्ती, कुन्ती' इति। अवन्तिकुन्तिशब्दाभ्यामपत्येऽर्थे `वृद्धेत्कोशलाजादाञ्ञ्यङ्' (4.1.171) `स्त्रियामवन्तिकुन्तुकुरुभ्यश्च' (4.1.176) इति तस्य लुक्, ततो ङीष्। `दाक्षी,प्लाक्षी'इति। `अत इञ्' (4.1.95) । सर्वत्र गोत्रं हि जातिः।
`विट्, दरत्' इति। विशोऽपत्येऽर्थे `जनपदशब्दात्क्षत्त्रियादञ्' (4.1.168)। दरदो द्वयञ्मगधादिसूत्रेणाण् (4.1.170), `अतश्च' (4.1.177) इति तयोः स्त्रियां लुक्। इहापि गोत्रं जातिः। `तित्तिरिः' इति। अत्राकृतिग्रहणा जातिः। `उदमेयी' इति। `अत इञ्'(4.1.95) गोत्रमिह जातिः।
`इञ उपसंख्यानम्' इति। इञन्तान्ङीष उपसंख्यानं कर्त्तव्यमित्यर्थः। किमर्तम् ? अजात्यर्थम्। अजातिवाचिनोऽपीञन्ताद्यथा स्यात्। तत्रेदं प्रतिपादनम्-- `इतः' इति योगविभागोऽत्र क्रियते, तेनेञन्तादजातिवाचिनोऽपि भविष्यतीति। ततः `मनुष्यजातेः' इत्ययं द्वितीयो योगः पूर्वयोगस्यानित्यत्वज्ञापनार्थः।तेन मुष्यजातौ नित्यम्, अन्यत्र तु यथादर्शनम्। क्वचिदेव न सर्वत्र। `सौतङ्गमी' इत्याद्युदाहरणम्। स्यादेतत्-`अत इञ्' (4.1.95) इति गोत्रापत्य एवात्रेञ् विहितः, गोत्रञ्च जातिरेव, तत् किमुच्यते--इञ उपसंख्यानमजात्यर्थमिति ? अत आह-- `सुतह्गमादिभ्यः' इत्यादि। सुतङ्गमेन निर्वृता नगरीति `वुञ्छण्' (4.2.80) इत्यादिना सुतङ्गमादित्वादिञ्। `इतः' इत तपकरणं दीर्घनिवृत्त्यर्थम्। तेन अवन्तीशब्दादयं न भवति। अवन्तिमिच्छति, `सुप आत्मनः क्यच्' (3.1.8), `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः, अवन्ती य इत स्थिते क्विप्, `अतो लोपः' (6.4.48) इत्यकारलोपः। पूर्वं लोपग्रहणादपृक्तलोपात् प्राक् `लोपो व्योर्वलि' (6.1.66) इति यलोपः, पश्चात् `वेरपृक्तस्य' (6.1.67) इति वकारस्य। ततः अवन्ती इति स्थिते यदि तपरकरणं न क्रियेत, ततोऽस्मादपि स्यात, ततः `हल्ङ्याब्भ्यः' (6.1.68) इति सुलोपः प्रसज्येत,ततोऽवन्तीरिति न सिध्येत्।।
66. ऊङुतः। (4.1.66)
`कुरूः' इति। कुरोरपत्यं स्त्री-- कुरुनादिभ्यो ण्यः' (4.1.172), `स्त्रियामवन्ति' (4.1.176) इत्यादिना तस्य लुक्। गोत्रमिह जातिः। `ब्रह्मबन्धूः' इति। ब्रह्म बन्धरस्याः, वीरो बन्धुरस्या इति बहुव्रीहिः। ब्रह्मबन्धूवीरबन्धूशब्दौ कस्याञ्चिदेव जातौ वर्त्तेते। जातित्वं पुनरसर्वलिङ्गभाक्त्वात्। तौ हि स्त्रीलिङ्गपुंल्लिङ्गादेव, न नपुंसकलिङ्गौ। `उतः' इति तपरकरणं मुखसुखार्थम्। न तु दीर्घनिवृत्त्य्रथम्; ऊकारान्तस् मनुष्यजातिवाचिनोऽभावात्।
`ङकारः'इत्यादि। ऊङो यदि ङकारो न क्रियेत तदा `नोङ्धात्वोः' (6.1.175) इत्यस्मिन्नपि न कर्त्तव्यः स्यात् ; ङाकारानुबन्धवतोऽन्यस् कस्यचिदूकारस्याभावात्। ततश्च `नोधात्वोः' इत्युच्यमाने यवाग्वा, यवाग्वै इत्यत्रापि `उदात्तयणो हल्पूर्वात्' (6.1.174) इति तृतीयादिविभक्तेरुदात्तत्वस्य प्राप्तस्य प्रतिषेधः स्यात्। ननु चार्थवत ऊकारस्य ग्रहणात् `अर्थवद्ग्रहणे नानर्थकस्य' (व्या.प.1) इत्यनर्थकस्य न भविष्यति, यवागूशब्दो हि `सृयुवचिभ्योऽन्युजागूजक्नुचः' (द.उ.10.4) इत्यागूच्प्रत्ययान्तो व्युत्पादितः, तत्रागूच्छब्द एव प्रत्ययार्थेनार्थवान्, ऊकारस्त्वनर्थक एव ? नैतदस्ति; यस्मान्न वर्णग्रहणेष्वियं परिभाषा व्यवस्थिता, वर्णग्रहणञ्चेदम्, अतो नोपतिष्ठते। अथोपतिष्ठेत ? एवमपि `कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' (द.उ.1.164) इत्यूप्रत्ययस्य ग्रहणं स्यात्। ततश्च खर्ज्वा, खर्ज्वे-- इत्यत्र प्रतिषेधः प्रसज्येत। तस्माद्विशेषणार्थो ङकारः कर्त्तव्यः। अथ दीर्घोच्चारणं किमर्थम्, ननु उङेवोच्येत, `अकः सवर्णे दीर्घः' (6.1.101) इति दीर्घत्वेन हि दीर्धस्य ग्रहणं भवति ? इत्यत आह-- `दीर्घोच्चारणम्' इत्यादि। यदि दीर्घो नोच्चार्येत तदा `शेषाद्विभाषा' (5.4.154) इति परत्वात् पक्षे कप् स्यात्, अतस्तद्बाधनार्थं दीर्गोच्चारणम्। कथं पुनर्दीघोच्चारणेन कपो निवृत्तिः ? ब्रह्मा बन्धूरस्येति समासादनन्तरमूङ् क्रियताम् ?उत कबिति ? तत्र परत्वात् कप् स्यात्; दीर्घोच्चारणेनोकारप्रश्लेषात्। पुनर्विधानं तुल्यकालप्राप्तिकं स्वार्थिकतया समानजातीयं कब्विधिमेव निवर्तयति, न स्वादिविधिम्। स्वादयस्तूङन्ताद्भवन्त्येव; त्यूङोरपि ग्रहणात्; ज्ञापकाद्वा, `श्वशुरः श्वश्रवा' (1.2.71) इतिनिर्देशात्। तेन ब्रह्मबन्धूरिति नित्यमूकारान्त एव भवति, न तु कदाचित् कबन्तः। `अध्वर्युः' इति। अध्वरमिच्छतीति क्यच्, `क्याच्छन्दसि' (3.2.170) इत्युप्रत्ययः, `कब्यघ्वरपृतनस्यर्चि लोपः' (7.4.39) इत्यकारलोपः।
`अप्राणिजातेश्च' इत्यादि। अप्राणिजातिवाचिनश्च प्रातिपदिकादूङ् प्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `पङ्गोश्च' (4.1.68) इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेनाप्रणिजातेश्च रज्ज्वादिवर्जिताद्भविष्यति। `अलाबूः, कर्कन्धूः' इति। कः पुनरस्योङि सत्यसति वा विशेषः, यावतोभयत्र तदेव रूपं स व स्वरः; तथा हि-- अलाबूशब्द उणादिषूकारप्रत्ययान्त एव व्युत्पाद्यते, `कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' (द.उ.1.164) `{इति वर्त्तमाने णित् इति च (द.उ.1.168) नञि लम्बेर्नलोपश्च' (द.उ.1.170) इतिनञ्पूर्वात् `लबि अवस्रंसने इत्यस्मादूप्रत्ययः' इति पाठेन भवितव्यम्। इति `वर्त्तमाने णित्' इति च `नञि लम्बेर्नलोपश्च' (द.उ.1.170) इति नञ्पूर्वात् `लबि अवस्रंसने' (धा.पा.379) इत्यस्मादूप्रत्यययः, `इदितो नुम्' (7.1.58) इत्यनेन कृतनुमागरूपस्य नकारस् नलोपश्च विहितः; कर्कन्धूशब्दोऽपि `नृतिशृध्योः कूः' (द.उ.1.174) इति वर्त्तमाने `अन्दूदृन्भूजम्बूकफेलूकर्कन्धूदिधिषूः' (द.उ.1.176) इत्यूकारान्त एव व्युत्पादितः, तत्किमर्थमूङ् विधीयते ? अलाब्वा, अलाब्वै-- इत्यत्र `नोङधात्वोः' (6.1.175) इति विभक्त्याद्युदात्तत्वप्रतिषेधो यथा स्यात्। असति हि तस्मिन् यथा खलप्वौ, खलप्वः- इत्यत्र स न भवति तथेहापि न स्यात्।।
67. बाह्वन्तात्संज्ञायाम्। (4.1.67)
68. पङ्गोश्च। (4.1.68)
`श्वशुरस्योकाराकारयोर्लोपश्च' इति। अयं तु `श्वशुरः श्वश्रवा' (1.2.71) िति निपातनादेव सिद्ध इति न वक्तव्यः।।
69.ऊरूत्तरपदादौपम्ये। (4.1.69)
`वृत्तोरुः' इति। वृत्तौ {परिमण्डला ऊरू इति मुद्रितः पाठ।} परिमण्डलाबूरू यस्याः सा वृत्तोरुः। लाघवार्थमूर्वन्तादिति वक्तव्य ऊरूत्तरपदादित्युक्तम्-- यत्र केवल ऊरुब्द उत्तरपदं तत्र यथा स्यादित्येवमर्थम्; अन्यथा हि यद्यर्वन्तादित्युच्येत,तदा स्वामिन ऊरू स्वाम्यूरू, हस्तिन इव स्वम्यूरू यस्याः सा हस्तिस्वम्यूरुरित्यत्रापि स्यात्, भवति ह्येतदूर्वन्तं प्रातिपदिकम्। उत्तरपदग्रहणे तु न दोषः, न ह्येतदूरूत्तरपदं प्रातिपदिकम्, किं तर्हि ? स्वाम्यूरूत्तरपदम्।।
70. संहितशफलक्षणवामादेश्च। (4.1.70)
`संहितोरूः' इति। संहितशब्दः संश्लिष्टवचनः, संश्लिष्टोरुरित्यर्थः।
`सहितसहाभ्याञ्चेति वक्तव्यम्' इति। सहित, सह -- इत्येताभ्यां परो य उरुशब्दस्तदन्ताच्च प्रातिपदिकादूङ् भवीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- घकारोऽत्र क्रियते, स चायुक्तसमुच्चयार्थः, तेन सहितसहाभ्यामपि भविष्यति। सूत्र आदिग्रहणमूरूत्तरपदमित्यस्यानुवृत्तेर्लिङ्गम्। अन्यथा संहितादिप्रातिपदिकेभ्य एव प्रत्ययो भवतीत्येषोऽर्थो विज्ञायेत। सत्यां हि स्वरितत्वादेवानुवृत्तावेभ्यो यत्परमूरूत्तरपदं सत्यप्यस्मिन् मध्यपदे तत्रैव प्रत्ययः प्रसज्यते;संहितस्वाम्यूरुशब्दात्, न संहितोरुशब्दात्। गुणभावादूरुशब्दस्य न स्यादेवेह विशेषणम्।।
71. कद्रुकमण्डल्वोश्छन्दसि। (4.1.71)
कद्रुशब्दो वर्णविशेषवचनः, ततः `वोतो गुणवचनात्' (4.1.44) इति ङीषः प्राप्तस्य `खरुसंयोगोपधयोः' (वा.349) इति प्रतिषेधे कृते प्रातिपदिकेनानभिधाने प्राप्ते वचनम्। कमण्डलुशब्दस्याप्यप्राणिवाचित्वात् `अप्राणिजातेश्चारज्ज्वादीनाम्' (वा.369) इत्यूङ प्राप्ते छन्दसि नियमार्थम्। अथ वा-- अयं रज्ज्वादि,ततः प्रतिषेधे सति प्राप्त्यर्थं वचनम्।।
72. संज्ञायाम्। (4.1.72)
73. शार्ङ्गरवाद्यञो ङीन्। (4.1.73)
`बैदी, और्वी' इति। बिदौर्वशब्दाभ्यां `अनृष्यानन्तर्ये' (4.1.104) इत्यादिनाऽञ्, तदन्ताद्गोत्रत्वाज्जातित्वे जातिलक्षणे ङीषि प्राप्ते ङीन् विधीयते। स्वरे विशेषः।
`अणन्ता एते' इति। गोतमशब्दादपत्येऽर्थे `ऋष्यन्धकवृष्णि' (4.1.114) इत्यादिनाऽण्, शेषेभ्यस्तु तस्यापत्यम्' (4.1.92) इति। गौतमशब्दाद्गौरादिपाठात् ङीषपि भवति। `ढगन्ता एते' इति। शुभ्रादित्वात्। `कामण्डलेयः'इति। `ढे लोपोऽकद्र्वा' (6.4.147) इत्युकारलोपः। एषां `टिड्ढाणञ्' (4.1.15) इति ङीपि प्राप्ते वचनम्। `वात्स्यायन' इति। वत्सशब्दाद्गर्गादियञन्तात् `यञिञोश्च' (4.1.101) इति फक्। `मौञ्जायन' इति। मुञ्जशब्दात् `नडादिभ्यः फक्' (4.1.99) इति फक्। `जातिः' इति। गोत्रलक्षणा। लौकिकमपि हि तत्र गोत्रं गृह्यते। युवापि च लोके गोत्रमुच्यते, तथा हि वक्तारो वदन्ति-- गार्ग्यायणो गोत्रेणेति। `ढगन्ताः' इति। केकसशब्दस्य शुभ्रादित्वात् अढगन्ताञ्ञ्यङन्तादपि ताविति। कपिशिविशब्दाभ्यामपत्येऽर्थे `वृद्धेत्कोशलाजादाञ्ञ्यङ' (4.1.171) इति ञ्यङ्। `यङश्चाप्' (4.1.74) इति चापि प्राप्ते वचनम्। `एहि, पर्येहि' इति। `ईह चेष्टायाम्' (धा.पा.632) इत्यस्मादाङपूर्वात् पर्याद्याङ्पूर्वाच्च `{इन् इत्येवोणादिसूत्रम्-- वृत्तौ तु सर्वधातुभ्यः इन्प्रत्ययो भवति इति दृश्यते-द.उ.} सर्वधातुभ्यः' (द.उ.1.46) इतीन्प्रत्ययः। बह्वादिषु `कृदिकारादक्तिनः' (ग.सू.50) इति पाठान्ङीषि प्राप्ते वचनम्। `यञन्तः' इति। गर्गादित्वात्। `यञश्च' (4.1.16), `प्राचां ष्फ तद्धितः' (4.1.17) इति ङीपि ष्फे च प्राप्ते वचनम्। `{उदपानः इति मुद्रितः पाठः} औदपानः'इति। उदपानादागत इति `शुण्डिकादिभ्योऽण्' (4.3.76) इत्यण्। उत्सादिष्वयं पठ्यत इति तत्राञि कृते नास्ति विशेषः-- ङीपो वा ङीनो वा, उभयत्रापि हि `ञ्नित्यादिर्नित्यम्' (6.1.197) इत्याद्युदात्तेन भवितव्यमित्येतन्मनसि कृत्वाऽऽह-- `शुण्डिकाद्यणन्तः प्रयोजयति' इति। `जातिः' इति। अरालचण्डालयोरसर्वलिङ्गत्वादिति जातित्वम्। वतण्डस्य गौरादिलक्षणे ङीषि प्राप्ते वचनम्। प्रत्ययलक्षणेन `यञश्च' (4.1.16), `प्राचां ष्फ तद्धितः' (4.1.17) इति ङीष्फयोर्बाधनम्। वतण्डस्यापत्यं स्त्री `वतण्डाच्च' (4.1.108) इति यञ्, तस्य `लुक् स्त्रियाम्' (4.1.109) इति लुक्।
`भोगवद्गौरिमतोः संज्ञायाम्' इति। संज्ञायां गम्यमानायां भोगवद्गौरिमच्छब्दाभ्यां ङीन् भवति। मत्वन्तत्वात् `उगितश्च' (4.1.6) इति ङीपि प्राप्ते वचनम्। ननु च बोगशब्दो घञन्तः, गौरिश्बदः `अत इञ्' (4.1.95) इतीञन्तः, तेन द्वावप्येतौ ञित्स्वरेणाद्युदात्तौ। ताभ्यां मतुप्, पित्त्वादनुदात्तः। तथा च भोगवद्गौरिमद्भ्यां ङीपि ङीनि वा विहिते न कश्चिद्विशेषः, तत्किमर्थं ताभ्यां ङिन् विधीयते ? इत्यत आह-- `घादिषु नित्यं ह्रस्वार्थम्' इति। `घरूपकल्प' (6.3.43) इत्यादिषु नित्यं ह्रस्वो यथा स्यादिति ताभ्यां ङीनो विधानम्-- भोगवतितरा, गौरिमतितरेति। यदि पुनरुगिल्लक्षणो ङीप्क्रियेत,ततः `नद्याः शेषस्यान्तयतरस्याम्' (6.3.44) इत्यनुवर्त्तमाने `उगितश्च' (6.3.45) इति विकल्पेन ह्रस्वत्वं स्यात्। अथानेनापि ङीनि सति कस्मादेव `उगितश्च' (6.3.45) इत्यन्यरस्यां ह्रस्वत्वं न भवति, यावता भोगवद्गौरिमद्भ्यामुगिद्भ्यामेवायं त्सया विकल्पेन ह्रस्वत्वं भवतीति । न चानेन सूत्रेण या विहिता सा नद्युगित्संशब्दनेन विहिता भवति; उगित्त्वानाश्रयणात्। संज्ञायामिति किम् ? भोगवती, गौरिमतीति। `उगितश्च' (4.1.6) इति ङीप्। अत्र च घादिषु विकल्पनैव ह्रस्वो भवति-- भोगवतितरा , भोगवतीतरा, गौरिमतितरा, गौरीमतीतरेति।
`नृनरयोर्वद्धिश्च' इति। नृशब्दस्य `ऋन्नेभ्यो ङीप्' (4.1.5) इति ङीपि प्राप्ते वचनम्। नरशब्दस्य `अजाद्यतः' (4.1.4) इति टापि प्राप्ते जातित्वान्ङीषि वा। जातित्वं त्वाकृतिग्रहणात्। वृद्धिश्च तयोर्भवति, सा च नृशब्दस्यालोऽन्त्यपरिभाषया (1.1.52) ऋकारस्यस्थाने भवति। नरशब्दस्य `यस्येति' (6.4.148) लोपे कृते सत्यकारस्य। ननु च `अनन्त्यविकारेऽन्त्यसदेशस्य' (व्या.प.63) इति रेफस्यैव भवितव्यम् ? नैष दोषः; वृद्धेर्याऽन्तरमा प्रकृतिस्तत्र षष्ठी, यत्र षष्ठी तत्रादेश इत्यकारः स्थानी ज्ञायते।
पुत्रशब्दमत्र केचित् पठन्ति, न स केवलः स्तियां वर्त्तत इत्ययं समासन्तो गृह्यते। समासान्ते च वर्त्तमानो दुहितृशब्देन समानार्थो भवन् स्त्रीलिङ्गो भवति-- प्रद्योतपुत्त्री, शैलपुत्त्रीति। `यथोयोगम्' इति। यथासम्भवम्।।
74. यङश्चाप्। (4.1.74)
पकारोऽत्र `ङ्याप्प्रातिपदिकात्' (4.1.1) इत्यत्र सामान्यग्रहणार्थः,चकारस्तदविघातार्थः, एवमुभयोरन्यत्र चरितार्थयोः `अनुदात्तौ सुप्पितौ' (3.1.4) इत्येतद्बाधित्वा परत्वात् `चितः' (6.1.163) इत्यन्तोदात्तत्वं चापो भवति। `ञ्यङः ष्यङश्च सामान्यग्रहणमेतत्' इति। विशेषकरानुबन्धानुत्सृज्य यत्सामान्यं यङमात्रं तस्येदं ग्रहणम्। कथं पुनः सामान्यग्रहणं युज्यते; यावता ञ्यङ एव तत्र ग्रहणं युक्तम्, तथा हि-- सोऽपत्ये विधीयमानः स्त्रीत्वं वक्तुमसमर्थ इति स्त्रीप्रत्ययमपेक्षते, न तु ष्यङ, तस्य स्त्रियामेव विधानात् ? नैतदस्ति; यदि हि सामान्यग्रहणं न स्यात् ष्यङो ङित्करणमनर्थकं स्यात्। तस्य ह्यत्र सूत्रे सामान्यग्रहणेव प्रयोजनम्, नान्यत किञ्चित्। तस्मात् ङित्करणसामर्थ्यात् ष्यङोऽपि ग्रहणं भवति। `आम्बष्ठ्या' इत्यादि। आम्बष्ठसौवीरकोसलशब्देभ्योऽपत्येऽर्थे `वृद्धेत्कोसलाजादाञ्ञ्यङ्' (4.1.171) इति ञ्यङ्, तदन्ताच्चाप्। `कारीषगन्ध्या' इति। एतत् स्वादिसूत्रे (4.1.2) व्युत्पादितम्। `वाराह्या' इति। वराहशब्दात् `अत इञ्' (4.1.95) । `बालाक्या' इति। बलाकाशब्दाद्बाह्वादिलक्षम इञ्। उभयत्र `अणिञोरनार्षयोः' (4.1.78) इत्यादिना ष्यङादेशः, तदन्ताच्चाप्।
`शार्कराक्ष्या' इत्यादि। शर्कराक्षपूतिमाषगोरक्षशब्देभ्यो गर्गादियञन्तेभ्यश्चाप्।।
75. आवट्याच्च। (4.1.75)
`ङीपि प्राप्ते' इति। `यञश्च' (4.1.16) इत्यनेन।।
76. तद्धिताः। (4.1.76)
`युवतिः' इति। तद्धितसंज्ञायां सत्यां `कृत्तद्धित' (1.2.46) इत्यादिना प्रातिपदिकसंज्ञा भवति। अथ `तद्धिताः' इति न सम्भवति बहुवचननिर्देशः, यथैव हि `प्रत्ययः' (3.1.1) इत्येकवचननिर्देशेऽपि वक्ष्यमाणानां बहूनामपि सन्नादीनां सर्वेषां सा संज्ञा भविष्यति, तथाऽत्राप्येकवचनेनैव निर्देशः कर्त्तव्यः ? इत्यत आह-- `बहुवचनम्' इत्यादि। एकवचन एव कर्त्तव्ये यद्बहुवचनं क्रियते तस्यैतत्प्रयोजनम्--अनुक्ता ये तद्धिता लक्षणवाक्यैरनभिहितास्तेषामपि परिग्रहो यथा स्यात्। ततः `पृथिव्या ञाञौ' (वा.376) इत्यादि न कर्त्तव्यं भवति। बहुवचननेनैवानुक्ततद्धितपरिग्रहार्थेन तेषां सिद्धत्वे महत्याः संज्ञायाः करण एतत् प्रयोजनम्, अन्वर्थसंज्ञा यथा विज्ञायेत-- तेभ्यो हितास्तद्धिताः। तदित्यनेन लौकिका वैदिकाश्च शब्दाः प्रत्यवमृश्यन्ते; तेषां व्युत्पाद्यत्वेन प्रकृतत्वात् तेन तत्रैव भवन्त्यणादयो यत्र च भवन्तस्तेषामुपकारिणो भवन्ति, नान्यत्रेति। तेनाभिधानलक्षणत्वं तद्धितानामुपपन्नं भवति। अथ तद्धिताधिकारः स्त्रीप्रत्ययानामादित एव कस्मान्न क्रियते ? किमेव सति भवति ? तद्धितानामुपपन्नं तद्धितानन्तत्वात् प्रातिपदिकमिति `ङ्याप्प्रातिपदिकात्' (4.1.1) इत्यत्र ङ्याब्ग्रहमं न कर्त्तव्यं भवति, `प्राचां ष्फ तद्धितः' (4.1.17) इत्यत्र च तद्धितग्रहणम्, `यस्येति च' (6.4.148) इतीकारग्रहणञ्च;तद्धित इत्येवं सिद्धत्वात् ? अशक्यमेवं कर्त्तुम्; एवं हि क्रियमाणे तत्र ङ्याब्ग्रहणस्य यत् पूर्वं प्रयोजनमुक्तं तन्न स्यात्; ङीब्ङीष्ङीनाञ्च ङकारस्येत्संज्ञा `अतद्धिते' (1.3.8) इति प्रतिषेधात्। इह च पट्वीति `ओर्गुणः' (6.4.146) इति गुणः स्यात्। तस्माद्यथान्यासमेवास्तु।।
77. यूनस्तिः। (4.1.77)
`ङीपोऽपवादः' इति। नकारान्तत्वात् `ऋन्नेभ्यो ङीप्' (4.1.5) इति प्राप्तस्य । अथेदन्तात् `इतो मनुष्यजातेः' (4.1.65) इति ङीष् कस्मान्न भवति ? अमनुष्यजातित्वात्। न हि युवतिशब्दो मनुष्यजातिवचनः, किं तर्हि ? वयोवचनः। तथा हि यौवनावस्थायामेव स वर्त्तते, न बाल्यवृद्धत्वावस्थायाम्। न चैवंविधा जातिशब्दाः,ते हि सर्वावस्थासु व्युक्तिषु जातिनिबन्धना वर्त्तन्ते, गोशब्दादिवत्।।
78. अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे। (4.1.78)
इह `अणिञोः' इति प्रत्ययमात्रं वा गृह्यते ? तदन्तो वा समुदायः ? तत्र यद्याद्यः पक्ष आश्रीयेत, `गुरूपोत्तमयोः' इति विशेषणं नोपपद्येत। न ह्यणिञोर्गुरूपोत्तमत्वं सम्भवति, कस्य तर्हि ? तदन्तस्य समुदायस्य। तस्माद्द्वितीयः पक्ष आश्रयितुं युक्त इति मत्वाऽऽह-- `गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोः' इति। यदि तर्हि समुदायस्याणन्तस्येञन्तस्य चेदं ग्रहणम्, `अनार्षयोः' इति विशेषणं न प्रकल्प्येत; समुदायस्य ऋषादेव विधानात्। अणिञोस्तु प्रकल्प्यत एतद्विशेषणम्; तयोर्ऋषादन्यतर् च विधानात्। `गोत्रे' इत्यपि विशेषणमणिञोरेव युक्तम्, न समुदायस्य; तथा हि `अपत्यं पौत्रप्रभृति गौत्रम्' (4.1.162) इति परिभाषिकं गोत्रमिह गृह्यते,तत्र चाणिञावेव विहितौ, न समुदायः ? नैष दोषः; समुदायस्यैते विशेषणे न सम्भवत इति सामर्थ्यादेकदेशयोरणिञोर्विज्ञायेते। अत एव वृत्तावाह-- `गोत्रे यावणिञौ विहितावनार्षौ' इति। इहायं ष्यङादेशो वा स्यात् ? प्रत्ययो वा ? ननु च षष्ठीनिर्देशादादेशेनैवानेन भवितव्यमिति असन्दिग्धमेतत्, तदयुक्ता द्वितीयपक्षाशङ्का ? नैतदस्ति; प्रत्ययविधावपि षष्ठीनिर्देशो दृश्यते, यथा-- `गापोष्ठक्' (3.2.8) `व्रीहिशाल्योर्ढक्' (5.2.2) इति,तस्मात् प्रत्ययपक्षशङ्कापि युक्तैव। तत्र यदि प्रत्ययः स्यात्, औदमेधेय इति न सिध्येत्। उदमेघस्यापत्यं स्त्री-- `अत इञ्' (4.1.95), तदन्तादनेन ष्यङ्, इकारस्व यस्येति (6.4.148) लोप), `यङ्श्चाप्' (4.1.74), औदमेध्या, तस्या अपत्यमिति `स्त्रीभ्यो ढक्' (4.1.120) , एयादेशः। तस्मिन् `आपत्यस्य च तद्धितेऽनाति' (6.4.151) इति यलोप इष्यते, स न प्राप्नोति; अनापत्ययकारत्वात्। ननु च `हलस्तद्धितस्य' (6.4.150) इति चेत् ? न; ईतीत्यत्रानुवर्त्तते। आदेशपक्षे त्वणिञोरपत्यत्वात् तदादेशस्यापि ष्यङः स्थानिवद्भावेनापत्यत्वमिति सिध्यति यलोपः। तस्मादादेशपक्ष एव साधुरित्यभिप्रायेणाह---`ष्यङादेशो भवति' इति। ननु चादेशपक्षेऽप्यौडुलोम्येति न सिध्यति, लोमशब्दो बाह्वादिषु पठ्यते। तस् केवलस्यापत्येन संयोगो नास्तीति तदन्तः समुदायो गृह्यते, तत उडुलोम्नोऽपत्यं स्त्री--बाह्वादित्वादिञि कृते तस्य च ष्यङादेशः। तत्र `नस्तद्धिते' (6.4.144) इति टिलोप इष्यते, स च न प्राप्नोति;`ये चाभावकर्मणोः' (6.4.168) इति प्रकृतिभावात्। प्रत्ययपक्षे त्विञो व्यवहितत्वात् ष्यङः प्रकृतिभावो नास्तीति भयति टिलोपः। नन `यस्येति च' (6.4.148) इति लोपे कृते नास्ति व्यवधानम्। `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति लोपस्य (6.4.148) इति लोपे कृते नास्ति व्यवधानम्। `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति लोपस्य स्थानिवद्भावादस्त्येव। आदेशपक्षेऽप्यदोषः; आनुपूर्व्या सिद्धत्वात्। न ह्यत्राकृते लोपे गुरुपोत्तमत्वं सम्भवति। तत्र प्रागेव ष्यङ इञि तस्यैव टिलोपः, ततो गुरुपोत्तमता। ततः ष्यङित्यानुपूर्व्या सिद्धत्वम्। अयं तर्ह्यादेशपक्ष दोषः-- अनेकाल्त्वात् सर्वादेशः प्राप्नोति, `ङिच्च' (1.1.53) इत्यन्तस्य प्राप्नोतीति चेत् ? नैतदस्ति; अपवादप्रतिषेधाद्धि सर्वादेशः प्राप्नोतीति। `ङिच्च' (1.1.53) इत्यन्तादेशः क्रियताम्, आहोस्विदनेकाल्त्वात् सर्वादेशः, तत्र परत्वात् सर्वादेशः प्राप्नोति, यथा-- `तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्' (7.1.35) ? इत्यत आह-- `निर्दिश्यमानस्य' इत्यादि। यथा पाच्छब्दस्य पदित्ययमादेशो विज्ञायते न पाच्छब्दान्तस्य समुदायस्य, तथाऽयमपि निर्दिश्यमानयोरणिञोरेव विज्ञायते। तत् क्व तर्हि सर्वादेशेन भवितव्यम् ? यत्र समुदायात् षष्ठ्युच्चारिता, यथा--तुह्योरिति। `ङकारः सामान्यग्रहणार्थः' इति। असति हि तत्र `यङश्चाप्' (4.1.74) इत्यत्र `वृद्धेत्कोसलाजादाञ्ञ्यङ्' (4.1.171) इत्यस्यैव ग्रहणं स्यात्, न ष्यङः। `षकारस्तदविघातार्थः' इति। तत्र ह्यसत्येकानुबन्धकग्रहणे न द्वयनुबन्धकस्य (व्या.प.52) त्यस्यैव ग्रहणं स्यात्, न ञ्यङः।
उत्तमशब्दोऽयमस्त्येव व्युत्पन्नं तमबन्तं प्रातिपदिकम्, अस्त्यव्युत्पन्नम्। तत्र यदि व्युत्पन्नस्येदं ग्रहणं स्याद्वाराह्येति न सिध्येत्; यस्माद्व्युतप्त्तिमानुत्तमशब्दश्चतुष्प्रभृतिष्ववतिष्ठते। यथा ह्युच्छब्दादुद्गताभिधायिनस्तमप्प्रत्ययोऽतिशायने विधीयते। अनुद्गतञ्चापेक्ष्योद्गतो भवति। त्रिषु च द्वावुद्गतौ,एकोऽनुद्गतः,न च द्वयोरयं चोद्गत इत्ययमनयोरतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते; तरपा विशेषविहितेन बाधितत्वात्। चतुर्षु तु त्रय उद्गताः, एकोऽनुद्गतः, ततर् त्रीनुद्गतानपेक्ष्यायञ्चोद्गतः। अयं चैषामतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते, तस्माच्चतुर्ष्वेव प्राप्नोति; तत्र चोत्तमशब्दस्य स्वरूपसिद्धेः, ततश्च वाराह्येति न सिध्येत्। न ह्यत्र चत्वारः सन्तीत्येतदालोच्याव्युत्पन्नोऽयमिहोत्तमशब्दो गृह्यत इति दर्शयन्ननाह-- `उत्तमशब्दः स्वभावात्' इत्यादि। अध्युत्पन्न एव ह्युत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमाह, न व्युत्पन्नः। स हि चतुष्प्रभृतीनामन्त्यमाह, तस्मात् `उत्तमशब्दः स्वभावात्' इत्यादिना ग्रन्थेनाव्युत्पन्नस्योत्तमशब्दस्येह ग्रहणमिति दर्शितं भवति। तदेवमव्युत्पन्नस्य ग्रहणे वाराहीत्येतदपि सिद्धं भवति।
`टिड्ढाणञिति ङीबेव भवति' इति। प्रमादपाठोऽयम्। यथैव हि बैदीति जातित्वादञन्तात् `शार्ङ्गरवाद्यञो ङीन्' (4.1.73) इति ङीन् भवति, तथेहापि ङीनैव भवितव्यम्। जातित्वं तु गोत्रत्वात्। तस्मात् `शार्ङ्गरवाद्यञो ङीन् इति ङीनेव भवति' इत्ययमेवात्र पाठो द्रष्टव्यः।
`वासिष्ठी, वैश्वामित्री' इति। `ऋष्यन्ध' (4.1.114) इत्यादिनिऽण्। `औपगवी, कापटवी' इति। उपगुकपटुशब्दाभ्यामौत्सर्गिकोऽण्, `ओर्गुणः' (6.4.146)।
`आहिच्छत्री। वैश्वामित्री' इति। `तत्र जातः' (4.3.25) इत्यण्।।
79. गोत्रावयवात्। (4.1.79)
गोत्रञ्च तदवयवञ्चेति गोत्रावयवः। इह त्वभिधानेऽभिधेयोपचारं कृत्वा तदभिधायिप्रातिपदिकं गोत्रावयव शब्देनोक्तम्। ननु चैवं विग्रहे विशेषणत्वादवयवशब्दस्य नीलोत्पल इव नीलशब्दस्य पूर्वनिपातः स्यात्। राजदन्तादेराकृतिगणत्वाद्विशेषणस्य परनिपातो भविष्यति। गोत्रं पुनरिह लौकिकं गृह्यते, न पारिभाषिकम्। लोके च प्रधानभूत आदिपुरुषः स्वप्रभवस्यापत्यसन्तानस्य संज्ञाकारी गोत्रमुच्यते। तथा हि भरतो नाम कश्चिदाद्यः प्रधानः पुरुषोऽभूत्, तेन सर्व एव तत्पूर्वकाः पुत्त्रपौत्त्रादयो भरता इति व्यपदिश्यन्ते। अवयवशब्दोऽयमस्त्येवैकदेशे, तत्सम्बन्धादवयवीति समुदाय उच्यते। अस्ति च पृथग्भावे--अवयुतिः = अवयवः, पृथग्भूत इत्यर्थः। यद्यपि यौतिर्मिश्रणे पठ्यते, तथाप्यनेकार्थत्वाद्धादूनामवपूर्वः पृतघ्भावमाचष्टे। अस्त्यप्रधाने, यथा-- कुलावयवोऽयम्, सङ्घावयवोऽयमिति। कुलसय् सङ्घस्य चाप्रधानभूतोऽयमिति गम्यते। तत्र यदेयकदेशवाची गृह्यते तदुपादानमनर्थकं स्यात्, गोत्रादित्येव वक्तव्यम्। गोत्रादवयवोऽपि हि गोत्रं भवति, यथा-- क्षीरावयवः क्षीरमिति। अथापि पृथग्भावे गोत्रादन्यत्र वर्त्तमानो गृह्यते, एवमपि पुणिकादिभ्यो विहितयोरणिञो विहितौ; अनिष्टञ्चैतत्; तस्यैकदेशवाचिनि पृथग्भाववाचिनि वाक्यशब्दे दोष इत्यत्राप्रधानवाच्येव गृह्यते। `गोत्रावयवाः' इति। पुणिकादिश्रुतीनामेतद्विशेषणम्। अप्रधानगोत्राभिधायिन्य इत्यर्थः। `गोत्रभमताः' इति। गोत्रमित्येवमभिमता गोत्राभिवायिन्य इत्येवं लोके प्रसिद्धाः। न पुनर्गोत्राध्याये पठिता इत्यर्थः। अत एव तासामप्रधान्यम्; गोत्राध्यायेऽपठितत्वात्। `कुलाख्याः' इति। कुलम् = गोत्रम्, आख्यायत आभिरित्याख्याः, गोत्रेणेत्येवमादि। `ततः' इति। यथोक्तविशेषणविशिष्टाभ्यः पुणिकादिश्रुतिभ्यः। यदि तर्हि ततो गोत्रविहितयोरणिञोः ष्यङ् भवत्येवं सत्यपार्थकोऽयं योगः, पूर्वेणैव सिद्धत्वात् ? इत्यत आह-- `अगुरुपोत्तमर्थ आरम्भः'इति। `पौणिक्या' इत्यादि। पुणिकभुणिकमुखरशब्देभ्यः `अत इञ्' (4.1.95) इतीञन्तस्य ष्यङश्चाप्।।
80. क्रोड्यादिभ्यश्च। (4.1.80)
`क्रौजीत्येवमादिभ्यश्च स्त्रियां ष्यङ्प्रत्ययो भवति' इति। ननु चाचेशपक्षः पूर्वमाश्रितः, तत् किमर्थमिह प्रत्ययपक्ष आश्रीयते ? तदाश्रयणेऽप्यत्र दोषो नास्तीति प्रदर्शनार्थः। `अगुरूपोत्तमार्थ आरम्भः' इत्यादि। येऽत्रान्ता इञन्ताश्च पठ्यन्ते तान् त्ययमगुरूपोत्तमार्थ आरम्भः। ये त्वन्ये, तान् प्रत्ययमणिञर्थः। तत्राद्याः क्रौड्यादयः प्राक् चौपयतशब्दादिञन्ताः।चौपयतप्रभृतयस्त्वणन्ताः प्राक् सौधातकिशब्दात्। सौधातकिशब्दस्तु `सुधातोरकङ् च' (4.1.97) इतीञन्तः। `सूत युवत्याम्' इति। सूतशब्दाद्युवत्यां प्राप्तयौवनायां ष्यङ् भवति-- सूत्या, अन्यत्र टाबेव--सूता। `भोज क्षत्त्रिये' इति। भोजशब्दात् क्षत्त्रियजातौ वाच्यायां ष्यङ भवति। जातिलक्षणस्य ङीषोऽपवादः--भोज्या, अन्यत्र टाबेव भवति-- भोजा। तत- परे प्राग्गौकक्ष्यशब्दादिञन्ताः। स पुनर्गर्गादियञन्तः।।
81. दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्। (4.1.81)
`गोत्रे पूर्वेण नित्यः' इत्यादि। यदा पौत्रप्रभृतावपत्य इञ् विधीयते तदा पूर्वेण `अणिञोः' (4.1.78) इत्यादिना नित्ये प्राप्ते विकल्प्यते। यदा त्वनन्तरापत्ये तदाऽप्राप्त एव पक्षे विधीयते।।
82. समर्थानां प्रथमाद्वा। (4.1.82)
`स्वार्थिकप्रत्ययवधिश्चायमधिकारः'इति। स्वार्थे प्रकृत्यर्थे भवाः स्वार्थिकाः , अध्यात्मादित्वाट्(वा.456) ठञ्। स्वार्थिकाः प्रत्यया अवधिर्मर्यादा यस्य स तथोक्तः। `प्राग्दिशो विभक्तिरिति यावत्' इति। अनेन यतः परेण स्वार्थिकाः प्रत्यया अवधिभूताः प्रवर्त्तन्ते तत्सूत्रं दर्शयन् `प्राग्दिशो विभक्तिः' (5.3.1) इत्येतत्सूत्रात् प्रागयमधिकार इच्याचष्टे। किं पुनः कारणं स्वार्थिकेष्वयमप्यधिकारो न प्रवर्त्तते ? इत्याह-- `स्वार्थिकेषु' इत्यादि। `समर्थानाम्' इति। सम्बद्धार्थानमामित्येषोऽर्थः। सम्बद्धार्थता च द्विष्ठत्वात् प्रतियोगिनि सति भवति, स्वार्थिकानाञ्च प्रकृत्यर्थादर्थान्तरं न सम्भवति यत्प्रत्ययायनाय शब्दान्तरं प्रयुज्येत,यदपेक्षया च समर्थता स्यात्। तस्मात् समर्थतावा अभावात् स्वार्थिकेषु समर्थानामित्येतत् तावन्नोपयुज्यते। अत एव प्रतियोगिनोऽभावात् प्रथमादित्येतदपि नोपयुज्यत एव। यदि हि प्रतियोगिशब्दान्तरं स्यात्, तत आशङ्का स्यात्-- किं प्रथमात् प्रत्ययः ? उत द्वितीयादिति ? ततश्च तन्निवृत्तये प्रथमादिति वचनमनुवर्त्तमानमर्थवत् स्यात्। असति तु द्विीतीये प्रतियोगिनि तदनुवृत्तिर्नोपयुज्यते। `विकल्पोऽपि तत्रानवस्थितः'इति। अनियत इत्यर्थः। यतः केचित् स्वार्थिका नित्यमेव भवन्ति। तथा च `अषडक्षाशितङ्ग्वलंकर्मालम्' (5.4.7) इत्यादौ सूत्रे भाष्यकारः परिगणनं करिष्यति-- `के पुनर्नित्याः प्रत्ययाः ? तमबादयः प्राक् कात्, ञ्यादयः प्राग्वुनः, आमादयः प्राङमयटः, बृहत्या जात्यन्तात् समासान्ताश्च' इति। तत्र `अतिशायने तमबिष्ठनौ' (5.3.55) इति तमप्प्रभृतयो ये प्रत्ययाः `प्रागिवात् कः' (5.3.70) इत्येतस्मात् प्राक् ते नित्याः। तथा `पूगाञ्ञ्योऽग्रामणीपूर्वात्' (5.2.112) इत्यतो ञ्यप्रत्ययात् प्रभृति `पादशतस्य संख्यादेर्वीप्सायां वुन्म लोपश्च' (5.4.1) इत्यतो वुनः प्राग्ये ते नित्याः। तथा `किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे' (5.4.11) इत्यत आम्प्रभृति प्राक् तत्प्रकृतवचने मयटो ये प्रत्ययास्ते नित्याः। तथा `बृहत्या आच्छादने' (5.4.6) इति यो विहितः कप्रत्ययः`जात्यन्ताच्छोबन्धुनि' (5.4.9) इति च यश्चप्रत्ययो ये समासान्ता डजादयस्ते सर्वे नित्याः। तस्माद्विकल्पः स्वार्थिकेष्वनवस्थितः। ततश्च वाग्रहणमपि तत्रानवस्थितमेव क्वचिदनुवर्त्तते, क्वचिन्नेत्युक्तं भवति।
इह प्रथमादिति विशेषणं प्रयोगवाक्यस्य ? लक्षमवाक्यस्य वा ? यदि प्रथमः ,ततो लौकिके वाक्ये पदानां प्रयोगे नियमो नास्तीति; पात्रमाहर, आहर पात्रमिति प्रयोगात्। ततश्च यदापत्यमुपगोरिति प्रयुज्यते तदापत्यशब्दात् प्रथमासामर्थ्यात् प्रत्ययः स्यात्। ननु च तस्येतनेन सूत्रोपात्तेनानुकरणपदेन षष्ठ्यन्तेन प्रथमेनालौकिकवाक्यसमवायि पश्चान्निर्दिष्टमपि पदमनुकृतम्, तत् प्रथमत्वात् प्रथमव्यपदेशमासादयति। तेन यदाप्यपत्यमुपगोरिति लौकिकं वाक्यं प्रयुज्यते, तदोपगुशब्दादेव यथोक्तेनैव प्रकारेण लब्धप्रथमव्यपदेशात् प्रत्ययो भविष्यति; नापत्यशब्दात्। तदाद्येऽपि पक्षे समाश्रीयमाणे न दोष इति चेत् ? वार्त्तमेतत्; न हि मुख्ये प्रथमे सम्भवपिसति गौणस्य ग्रहणं युक्तम्। अतः सत्यप्युपगुशब्दस्य गौणेन प्रथमत्वे मुख्यात् प्रथमादपत्यशब्दादेव प्रत्ययः स्यात्, नोपगुशब्दात्। प्रतिपत्तिगौरवञ्च। द्वितीये तु पक्ष एव दोषो नावतरति; लक्षमवाक्येषु पदानां प्रयोगस्य नियत्वात्। अतस्तमाश्रित्याह-- `लक्षणवाक्यानि' इत्यादि। समर्थानां मध्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धारित इति, यथा-- कृष्णा गवां सम्पन्नक्षीरतमेति, गवां मध्ये कृष्णा गौः सम्पन्नक्षीरतमात्वेन। यदि तर्हि समर्थानां प्रथमात् प्रत्ययो भवति, एवं सति `तस्यापत्यम्' (4.1.92) इत्यत्र तस्येत्येतत्सर्वनाम। सामान्यवाचि प्रथमं निर्दिष्टमिति सामान्यवाचिन एव प्रत्ययः स्यात्, न विशेषवाचिनः; प्रातिपदिकादुपग्वित्यादेः, न हि तल्लक्षमवाक्ये प्रथमं निर्दिष्टम् ? इत्यत आह--`तस्य' इत्यादि। `विशेषलक्षणार्थम्' इति। विशेषोपलक्षणार्थमित्यर्थः। यदि हि तस्येत्येद्विशेषोपलक्षणार्थं न स्यात् तदा समर्थता तस्य न स्यात्। न हि तस्येत्येतत् प्रकरणाद्यनपेक्षं विशेषेष्वतिष्ठछते। न च विशेषेष्वनवस्थितेनानेनापत्यस्य कश्चिदुपकारः कृतो भवति; सम्बन्धिसामान्यस्य सम्बन्धिशब्दत्वात्, अपत्यशब्देनैव गमितत्वात्। ततश्चोपाकारभावात् समर्थता न स्यात्। उच्यतेचेदम्-- तस्येति। तस्मात् सामर्थ्याद्विशेषोपलक्षणार्थत्वं तस्येत्यस्य। तेन ये विशेषा उपलक्षिताः = प्रतिपदितान्ते सम्बन्ध्यन्तरव्यवच्छेदेन विशिष्टं सम्बन्धिनं प्रतिपादयन्त उपकारिणो भवन्तीत्युपपद्यते तैः सह सामर्थ्यम्। तस्मात् तस्येतत् सामान्यं विशेषोपलक्षणार्थं द्रष्टव्यम्। तेन तस्य यत् प्राथम्यं तद्विशेषाणामुपगुशब्दादीनां विज्ञायते। ततश्च तत एव प्रत्ययो भवति, न च सामान्यवाचिनः।
`कम्बल उपगोरपत्यं देवदत्तस्य' इति। अत्रोपगुशब्दः कम्बलेन सह सम्बद्धः, नापत्येन। अपत्यशब्दस्यापि देवदत्तशब्देन, नोपगुशब्देन। तस्मादपत्यशब्देन, सहोपगुशब्दस्य सम्बन्धो नास्तीति न ततः प्रत्ययो भवति।
`वाक्यमपि हि यथा स्यात्' इति। असति हि वाग्रहणे वाक्येनापत्यस्याभिधाने प्राप्तेतस्मिन्नर्थे विधीयमानः प्रत्ययस्तन्निवर्त्तयेत् । ननु च समानेऽर्थे शास्त्रान्वितोऽशास्त्रान्वितस्य निवर्त्तको भवति, यथा-- `गमेर्डोः' (द.उ.2.11) इत्यनेन शास्त्रान्वितो गोशब्दोऽशास्त्रान्वितस्य गावीशब्दस् समानार्थस्यैव, न तु भिन्नार्थस्य डित्थादेः। न च वृत्तिवाक्ययोः समानोऽर्थः, वृत्तौ ह्येकार्थीभावः सामर्थ्यम्, वाक्ये तु व्यपेक्षा ? नैतदेवम्; सत्यपि ह्येतस्मिन्नर्थभेदे प्रधानार्थो न भिद्यते, तथा हि-- उपगोरपत्यमानयेत्युक्ते य एवार्थोऽपत्यात्यवत्सम्बन्धविशिष्टः स आनीयते। औपगवमानयेत्युक्ते स एव। प्रधानापेक्षयैव च समानार्थः शास्त्रन्वितोऽशास्त्रान्वितं निवर्त्तयति, अन्यथा हि गोशब्दोऽपि गावीशब्दं न निवर्त्तयेत्। अस्ति हि तयोरप्यर्थभेदः, तथा हि-- गोशब्दो गोत्वमाचष्टे, गावीशब्दस्तु तथा, अशास्त्रियत्वञ्च। तस्मादसति वाग्रहणे यथा गोशब्दः सत्यप्यप्रधानार्थभेदे प्रधानार्थस्य समानर्थाद्गावीशब्दं निवर्त्तयति, तथा तद्धितोऽपि शास्त्रान्वितोऽशास्त्रन्वितं वाक्यं निवर्त्तयेत्। तस्माद्वाक्यमपि यथा स्यादिति वाग्रहणं क्रियते। `यद्येवम्' इत्यादि। यदि वाग्रहणेन तद्धितस्य भावाभावौ कुर्वता वाक्यस्य भावः क्रियते, एवं सति यदा वाक्यं नास्ति तदा तद्धितेनैव भवितव्यम्। समासवृत्तिरुपग्वपत्यमित्येषः तद्धितवृत्त्या बाध्येत। `नैष दोषः' इत्यादि। गतार्थम्।।
83. प्राग्दीव्यतोऽण्। (4.1.83)
`प्राग्दीव्यत्' इत्ययुक्तोऽयं निर्देशः , यावता `दीव्यति' (4.4.2) इति वक्ष्यति, न तु दीव्यदिति, तत्र दीव्यतीशब्दस्यावधित्वेनोपादाने दीव्यतेरिति निर्देशेन भवितव्यम् ? इत्यत आह-- `तदेकदेशः'इत्यादि। समस्तस्य दीव्यतिशब्दस्यावधित्वेनोपादानाे सति न युज्येतायं निर्देशः, न तु समस्तस्योपादानम्, अपि तु तदेकदेशस्य दीपव्यच्छब्दस्येत्यदोषः। अथ किमर्थं दीव्यद्ग्रहणं प्राग्ग्रहणञ्चत, नणित्येवाधिकारः क्रियताम् ? नैवं शक्यम्;एवं हि क्रियमाणे `स्त्रीभ्यो ढक्' (4.1.120) इत्येवमादिनाऽधिकारान्तरेण विच्छिननस्याणः `तेन रक्तं रागात्' (4.2.1) इत्येवमादिषु पुनर्ग्रहणं कर्त्तव्यं जायेत। अवधिनाधिकारपरिमाण आख्याते तदवधिकेष्वर्थेषु सर्वेष्वयमभ्यनुज्ञायत इतिपुनरण्ग्रहणं कर्त्तव्यं न भवति। तस्मादधिकारपरिमाणज्ञापनार्थं दीव्यद्ग्रहणं तावत्कर्त्तव्यम्। प्राग्ग्रहणमपि कर्त्तव्यमेव तस्यैवावधित्वद्योतनार्थम्। असति हि तस्मिन् `दीव्यतोऽण्' इत्युच्यमाने प्रकृतिरणो दीव्यच्छब्दो विज्ञायेत। `त्रिष्वपि दर्शनेषु' इत्यादि। कथं पुनरियमपवादविषयपरिहारेणाणः प्रवृत्तिर्लभ्यते, यावताधिकारे तस्मिन् सति प्रतियोगमुपस्थानादपवादविषयेऽप्यण् प्राप्नोति-- `अत इञ् अण् च' इति, अन्यथा हि तस्य तत्रोपादानमनर्थकं स्यात् ? परिभाषापक्षेऽपि प्राग्दीव्यतोऽर्थेष्वणित्यविशेषेण परिभाषिते सामान्येन परिभाषा प्रवर्त्तमाना केनापवादविषयं परिहरेत् ? विधावपि प्राग्दीव्यतो याः प्रकृतयस्ताः सर्वा इहैकध्यमुपनीयाण् विधीयमानः सर्वतः प्रवर्त्तेत, अन्यथा सर्वतो विधानमनर्थकं स्यात् ? एवं मन्यते-- ज्ञापकादपवादविषये न भविष्यतीति, यदयं क्वचिद्वाग्रहणमन्यतरस्यांग्रहणञ्च करोति-- `पीलाया वा' (4.1.118), `उदश्वितोऽन्यतरस्याम् (4.2.19) इति,तज्ज्ञापयति-- नापवादविषयेऽण् भवतीति। विधौ तु भूयान् परीहारः। न हि प्राग्दीव्यतो याः प्रकृतयस्ताभ्योऽण् विधीयते, किं तर्हि ? प्राग्दीव्यतो येऽर्थास्तेषु। तत्र समानार्थे प्रकृतिविशेषादुत्पाद्यमान इञणं बाधिष्यत इति। अथ किमर्थमियानवधिरुपादीयते, न प्राक् ठक इत्येवोच्येत, `प्राग्वहतेष्ठक्' (4.4.1) इत्येतस्माट्ठकः प्रागित्यर्थः ? नैवं शक्यम्; `दध्नष्ठक्' (4.2.18) इत्येवमादिरपि ठगवधित्वेन विज्ञायते। `प्राक् कंसीयात्' इत्येवं तर्हि वक्तव्यम्-- `कंसीयपरशब्दयोर्यञञौ लुक् च' (4.3.168) इति,तत्र यः कंसीयशब्दस्ततः प्रागित्यर्थः ? एवमप्यशक्यं वक्तुम्; `द्विगोर्लुगनपत्ये' (4.1.88) इत्येतयापि कंसीयादुत्पद्येत, ततश्च द्वयोः कंसीययोर्विकारो द्विकंस इत्यत्र लुङ्न स्यात्। तस्माद्यथान्यासमेवास्तु।।
84.अश्वपत्यादिभ्यश्च। (4.1.84)
85. दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः। (4.1.85)
`पत्त्युत्तरपदाच्च' इति। एतेनोत्तरपदशब्दः पतिशब्देनैव सम्बध्यते, नान्यैर्दित्यादिभिरिति दर्शयति। एतच्च प्रत्यासत्तेर्व्याख्यानाद्वा लभ्यते।
`यमाच्चेति वक्तव्यम्' इत। यमशब्दाच्च ण्यप्रत्ययो भवीत्येतदर्थरूपं व्याख्येयम्। तत्रेयं व्याख्या-- इह लाघवार्थं पत्यन्तादिति वक्तव्ये पत्युत्तरपदादित वचनमधिकविधानार्थम् । ग्रन्थाधिक्यादर्थाविषयं भवतीति। तेन यमशब्दादपि ण्यो भविष्यतीति। अथ वा-- पूर्वसत्राच्चकारोऽनुवर्त्तते,तस्मादनुक्तसमुच्चतयार्थत्वाद्भविष्यतीति। `वाङमतिपितृमताम्' इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु तदेव ग्रन्थाधिक्यादर्थाधिक्यमाश्रित्य चकारस्यानुक्तसमुच्चयार्थस्यानुवृत्तेर्वा कर्त्तव्यम्। याम्यमित्यादिषु यथायोगं प्राग्दीव्यतीयेपत्यादावर्थे ण्यप्रत्ययः।
`पृथिव्या ञाञौ' इति। एते ञादयः-- `तद्धिताः' (4.1.76) इति बहुवचनेनानुक्ततद्धितपरिग्रहार्थेन सिद्ध्यन्तीति न वक्तव्याः। तत्र पृथिवीशब्दाद्यदा ञस्तदा टाप्-- पार्थिवा, यदा त्वञ् तदा `टिड्ढाणञ्' (4.1.15) इति ङीप्--पार्थिवी। `बहिषष्टिलोपश्च' इत्यादि। ननु च `अव्ययानां भमात्रे टिलोपः सायंप्रातिकाद्यर्थः' (वा.802) इत्येनैव टिलोपसिद्धिः, तत्किमर्थं पुनरुच्यते ? इत्यत आह-- `टिलोपपवचनम्' इत्यादि। `आरातीयः' इति। अनित्यत्वाज्ञापनस्य प्रयोजनम्। आराद्भवतीति `वृद्धाच्छः' (4.2.114)।
`स्थाम्नोऽकारः'(इति)। स्थामन्शब्दस्य केवलस्यापत्यार्थे प्रयोगो नास्तीति तदन्तस्याकारप्रत्ययो विज्ञेयः। अश्वस्येव स्थामास्येत्यश्वत्वामा, पृषोदादित्वात् सकारस्य तकारः। अश्वत्थाम्नोऽपत्यमश्वत्थामः, `नस्तद्धिते' (6.4.144) इति टिलोपः।
`लोम्नोऽपत्ये' इति। लोमशब्दो बाह्वादिषु पठ्यते, तस्य केवलस्यापत्येन सम्बन्धो नास्तीति तदन्तविदिर्विज्ञायते। अत्रापत्यविवक्षायां बहुष्विञि प्राप्ते तदपवाद एवाकारो विधीयेते। उडुलोम्नोऽपत्यानि बहून्युडुलोमाः।
`सर्वत्र' इति। अपत्ये च अन्यत्र च।अथ वा-- प्राग्दीव्यतीये चान्यत्र चार्थेऽजादिप्रत्ययप्रसङ्गं इति। अजादेः प्रत्ययस्य प्रसङ्गः = प्राप्तिः। तत्र गोशब्दात् सर्वत्र यद् भवति। यद्येवम्, `उगवादिभ्यो यत्' (5.1.2) इत्यत्र गोग्रहणं किमर्थम् ? अस्यैव प्रपञ्चार्थम्। `गव्यम्' इति। गोरपत्यम्, गवा चरतीति वा। अणष्ठको वाऽजादेर्यत्रार्थे प्रसङ्गस्तत्र यद्भवति, नान्यत्र। `गोरूप्यम्, गोमयम्' इति। `हेतुमनु,्येभ्योऽन्यतरस्यां रूप्यः' (4.3.81), `मयट् च' (4.3.82)।
`ण्यादयः' इत्यादि। लक्षमशब्दो निमित्तवचनः,चिह्नवचनो वा। अर्थविशेषो लक्षणं यस्य सोऽर्थविशेषलक्षणोऽणपवादः। तस्मात् पूर्वविप्रतिषेधेन ण्यादयो भवन्ति। न चेदं वक्तव्यम्; परशब्दस्येष्टवाचित्वात् तेनैव सिद्धत्वात्। आदिशब्देन `उत्सादिभ्योऽञ्' (4.1.86) इत्येवमादयः प्रत्यया गृह्यन्ते। तत्र ण्यस्यावकाशः भवति-- दैत्यः, वानस्पत्यमिति। ण्यश्चायं सर्वेष्वपत्यादिष्वर्थेषु विधीयत इति सामान्यप्रत्ययो भवतीति, अतो नार्थविशेषलक्षणः। अर्थविशेषलक्षमस्याणपवादस्यावकाशः-- दुलेरपत्यमिति `इतश्चानिञःट (4.1.122) इति ढक्-- दौलेयः, ढगयमपत्य एवार्थवेशेषे विधीयत इत्यर्थविशेषलक्षणो भवति। इहोभयं प्राप्नोति-- दितेरपत्यं दैत्यः, वनस्पतीनां समूहो वानस्पत्यमिति वा, ण्यप्रत्ययो भवति पूर्वविप्रतिषेधेन। अर्थविशेषलक्षणादिति किम् ? योऽणपवादोऽर्थसामान्येनार्थविशेषे विहितः स परत्वाण्ण्यादीन् बाधित्वा भवत्येव। उष्ट्रपतिर्नाम पत्त्रम्। तस्योष्ट्रपतेरिदमिति तस्येदं विवक्षायाम् `पत्त्राध्वर्युपरिषदश्च' (4.3.133) इत्यञ्-- औष्ट्रपत्यम्, तस्येदंलक्षणो ह्ययमञणोऽपवादः, न योऽर्थविशेषलक्षणस्तस्य। अर्थविशेषा ह्यपत्यादयोऽर्थाः। तस्येदमर्थस्तु सामान्यम्, नार्थविशेषः।
`कथं वैतेयः'इति। यदि ण्यादयोऽर्थविशेषलक्षणादणपवादात् पूर्वविप्रतिषेधन भवन्ति, दैतेय इति न सिध्यति। अत्रापि हि ण्यप्रत्ययेनैव भवितव्यमिति भावः। `दितिशब्दात्' इत्यादि। दितिशब्दोऽयं `दो अवखण्डने' (धा.पा.1148) इत्यस्मात् `क्तिच्क्तौ' (3.3.174) इति क्तिच्, `द्यतिस्यति' (7.4.40) इत्यादिनेत्त्वमित्येवं यदा व्युत्पाद्यते तदा `कृदिकारादक्तिनः' (ग.सू.50) इति ङीष्। अथाव्युत्पन्नं प्रातिपदिकं तदा `सर्वतोऽक्तिन्नर्थादित्येके' (ग.सू.51) इति। ननु `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति' (व्या.प.29) इति दितिशब्दो गृह्यमाणो दितीशब्दमपि ग्राहयति, ततश्च यथा दितिशब्दाण्ण्यप्रत्ययः पूर्वविप्रतिषेधेन भवति, तथा दितीशब्दादपि तेन भवितव्यमित्यत आह--`लिङ्गविशिष्टपरिभाषाऽनित्या' इति। अनित्यत्वं पुनरस्याः `अच्प्रकरणे शक्तिलाङ्गलांकुशयष्टितोमरघटघटीधनुःषु ग्रहेरुपपसंख्यानम्' (वा.235) इति घटशब्दोच्चोरणाद्वेदितव्यम्।।
86. उत्सादिभ्योऽञ्। (4.1.86)
`तदपवादानाञ्च' इति। इञादीनाम्। `वष्कयाऽसे' इति गणे पठ्यते। तस्यायमर्थः- वष्कयशब्दादञ् भवति, असे असमासे इत्यर्थः। पूर्वाचार्यैः समासस्य `स' इत्येषा संज्ञा कृता। वष्कयस्यापत्यं वाष्कयः। अस इति किम् ? `गौवष्कयिः'। `अत इञ्' (4.1.95) इतीञेव भवति। `उदस्थानाद्देशे' इति। उदस्थानशब्दाद्देशे वाच्येऽञ् भवति। उदस्थाने भवो देश औदस्थानः। देश इति किम् ? उदस्थानो नाम कश्चित्पुरुषः, तस्यापत्यमौदस्थानिः। `पृषदंशे' इति। पृषच्छब्दादंशेऽभिधेयऽञ् भवति। पृषदोंऽशः पार्षदः। अंश इति किम् ? पार्षदोऽन्यः। अणेव भवति। कुरुशब्दोऽत्र पठ्यते, तस्यापत्यविवक्षायां कौरव इति न सिध्यति,यस्मात् `कुर्वादिभ्यो ण्यः' (4.1.151) `कुरुनादिभ्यो ण्यः' (4.1.172) इतिच ण्यप्रत्ययः प्राप्नोति। अञ्प्रत्ययो हि सामान्यविहितः, ण्यप्रत्ययस्तु विशेषविहितः। सामान्यविहितश्च विशेषविहितेन बाध्यते ? नैष दोषः; अयं योगस्तयोर्योगयोरनुवर्तिष्यते; तत्राप्यपत्येऽर्थे कुरुशब्दोऽनवकाश इत्यञपि ततो भविष्यति। अपत्यार्थस्य `तस्येदम्' (4.3.120) इत्यर्थविवक्षायां वा कौरव इति भविष्यति।
`ग्रीष्मादच्छन्दसीति वक्तव्यम्' (इति)। ग्रीष्मशब्दादच्छन्दस्यभिदेयेऽञ् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थमित्याह-- `इह मा भूत्' इत्यादि। छन्दसि त्रिष्टुवादौ वाच्ये सन्धिवेलादिसूत्रेण (4.3.16) ऋत्वणेव यथा स्यात्, अञ्मा भूदित्येवमर्थम्। तेन ग्रैष्मी त्रिष्टुवित्यञ् न भवति। तत्रेदं व्याख्यानम्-- वेति वर्त्तते, सा च व्यवस्थितविभाषा। तेन ग्रीष्मशब्दाच्छन्दसि वाच्येऽञ् न भवतीति। `वृत्तं गृह्यते' इति। यस्य त्रिष्टुज्जगतीत्यादयो विशेषास्तदिह वृत्तम्; अतश्छन्दो गृह्यते, न वेदः।।
87. स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्। (4.1.87)
`अत्र तावत् स्त्रीशब्दस्य स्वरूपग्रहणम्, न टाबादिस्त्रीप्रत्ययन्तस्य शब्दस्य। ततो हि `स्त्रीभ्यो ढक्' (4.1.120) इति ढकं वक्षति, तत्साहचर्यात् पुंशब्दोऽपि तद्धर्मैव विज्ञायते। तस्यापि स्वरूपग्रहणेव। `पौस्नम्' इति। `संयोगानतस्य लोपः' (8.2.23) इति लोपः।
यदि प्राग्भवनसंशब्दनात् स्त्रीपुंसाभ्यां ऩञ्सनञौ भवतः, वत्यर्थेऽपि तौ स्याताम्, ततश्च स्त्रीवत्, पुंवदिति न सिध्येदित्याह- `स्त्रियाः पुंवत्' इत्यादि। यदयम् `स्त्रियां पुंवत्' (6.3.34) इति निर्देशं करोति ततो ज्ञायते-- वत्यर्थे नञ्स्नञौ न भवतः। ननु चैतस्मान्निर्देशात् स्नञ्प्रत्ययो वत्यर्थे न भवतीति शक्यं विज्ञातुम्, न तु नञ्प्रत्ययो न भवतीति, ततश्च स्त्रीवदिति न सिध्यति ? इत्यत आह-- `योगापेक्षञ्च' इत्यादि। `पुंवत्' इति निर्देशादयं योगो वत्यर्थे न प्रवर्त्तते-- इत्यवमर्थमिदं योगापेक्षं ज्ञापकम्, न तु स्नञ्प्रत्ययापेक्षम्। तेन स्त्रीवदित्येतदपि सिध्यति।।
88. द्विगोर्लुगनपत्ये। (4.1.88)
`प्राग्दीव्यतः' इति। तस्य स्वरितत्वात्। `न भवनात्'इति। विपर्ययात्। द्विगोरिति पञ्चमी चेयं स्यात् ? षष्ठी वा ? तत्र यदि पञ्चमी, तदायमर्थः स्यात्-- द्विगोः परस्यानप्रत्यप्रत्ययस्य प्राग्दीयव्यतीयस्य लुग्भवतीति। ततश्च यथा द्विगुसंज्ञानिमित्तस्य लुग्भवति-- पञ्चकपालेषु संस्कृतः पुरोडाशः पञ्चकपाल इति, तथा यो द्विरगोर्निमित्तं न भवति तस्यापि स्यात्-- पञ्चकपालस्य पुरोडाशस्येदं खण्डम्। `तस्येदम्' (4.3.120) इत्यण्-- पाञ्चकपालमिति। तमिमं पञ्चमीपक्षे दोषं दृष्ट्वा, षष्टीपक्षमाश्रित्याह-- द्विगोरिति षष्ठी' इति। `द्विगोर्यः सम्बन्धी' इति। यस्य तद्धितस्यार्थे `तद्धितार्थोत्तरपदसमाहारे च' (2.1.51) इति समाहारद्विगुर्विधीयते स द्विगोः सम्बन्धीति; अर्थद्वारेण तदर्थस्य द्विगुसम्बन्धित्वात्। सोऽपि तद्द्वारेण द्विगुसम्बन्धी। `निमित्तत्वेन'इति। अनेन निमित्तनैमित्तिकभावेन यः सम्बन्धो तस्य लुग्भवति, न तु पौर्वापर्यभावेन यस्तस्येति दर्शयति। एतच्च निमित्तनैमित्तिकभावस्यान्तरङ्गत्वाल्लभ्यते। स हि द्विगोराद्यस्तद्धितेन सम्बन्धः; तस्मात् स गृह्यते। पौर्वापर्यभावस्तूत्तरकालमपि भवतीति बहिरङ्गो भवति, अतो न तस्य ग्रहणम्। `पञ्चकपालः' इति। पञ्चसु कपालेषु संस्कृत इति `तद्धितार्थ' (2.1.51) इति समासः, `संख्यापूर्वो द्विगुः' (2.1.52) इति द्विगुसंज्ञा, `संस्कृतम्' (4.4.3) इत्यण्, तस्य लुक्। `द्विवेदः'इति। द्वौ वेदावधीत इति पूर्ववत्समासः, `तदधीते तद्वेद' (4.1.59) इत्यण्।
`द्वैदेववत्तिः' इति। द्वयोर्देवदत्तयोरपत्यमिति `अत इञ्' (4.1.95)। `पञ्चकपालस्येदमिति पाञ्चकपालम्' इति। अत्र संस्कृतार्थे यः प्रथमः प्रत्यय उत्पन्नः स एव द्विगोर्निमित्तम्, न तु य उत्तरकालं तस्येदमित्यर्थविवक्षायाम्। न हि तस्यार्थे विषयभूते द्विगुर्विहितः, किं तर्हि ? संस्कृतार्थे यो विहितस्तस्य। तेनाद्विगुनिमित्तत्वात् `तस्येदम्' (4.3.1120) इति यो विहितस्तस्येह लुग्न भवति। `अथ वा' इत्यादि। पूर्वं हि द्विगोर्यस्तद्धितो निमित्तं तस्य लुग्विहितः, इदानीं द्विगोरेव विधीयत इत्यस्ति विशेषः। कथं पुनर्द्विगोरेव लुग्भवति ? इत्यत आह-- `द्विगोरिति स्थानषष्ठी' इति।
`ननु च' इत्यादिनानन्तरोकक्तव्याख्यानं विघटयति। `प्रत्ययस्य लुक्श्लुलुपः' (1.1.61) इतिलुगादिकाः प्रत्ययादर्शनस्यैताः संज्ञा विहिताः, ततो लुगुच्यमानोऽनेन न शक्तो द्विगोरेव लुकं विधातुमित्याभिप्रायः। `सत्यमेतत्' इति। यदनन्तरमुक्तम्। यद्येवम्, कथं लुक्संज्ञाया द्विगोर्लुग्लभ्यते ? इत्यत आह-- `उपाचारेण तु' इत्यादि। अतथाभूते वस्तुनि योऽध्यारोपिततथाभावो ज्ञानविशेषः स उपचारः। लक्ष्यतेऽनयेति लक्षणा, सापुनरिहोपचार एव `एतेन ह्यद्विगुरूपस्तद्धितो द्विगुरूपतया लक्ष्यते। यथा मञ्चाः क्रोशन्तीत्यत्राम़ञ्चरूपा अपि पुरुषा मञ्चरूपतया लक्ष्यन्ते, तथेहाप्यद्विगुरूपस्तद्धितो द्विगुरूपतया। उपचारस्य तु निबन्धनं द्विगुनिमित्तभूतत्वम्, यदाह--- ` द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः' इति। भवति हि कारणे कार्योपचारः, यथा-- आयुर्घृतमिति। `द्विगुनिमित्तकोऽपि तर्हि' इत्यादि। द्विगुर्निमित्तं यस्य स तथोक्तः। यो धर्म उपचारस्य निबन्धनं स इह गुणशब्देन विवक्षितः। गुणनिमित्ता कल्पना = गुणनिमित्तकल्पना, सा पुनरुपचारात्मिकैव वेदितव्या। यद्युपचारेण द्विगोर्निमित्तं प्रत्ययोऽपि द्विगुरुच्यते, द्विगुर्यस्य निमित्तं सोऽपि गौण्या कल्पनया कस्माद्द्विगुरिति नोच्यते ? कार्येऽपि हि कारणशब्द उपचारात् प्रयुज्यमानो विद्यत एव, यथा-- पुरातनं सर्वमिदं शुभाशुभं कर्म भुज्यत इति। `पाञ्चकपालम्' इति। पञ्चकपालस्य पुरोडाशस्येदं खण्डमित्यण्, स च द्विगोरुत्पन्नत्वाद्द्विगुनिमित्तक इत्यभिप्रायः। न तस्य द्विगुत्वं निमित्तमिति निष्पन्नत्वाद्द्वगोस्तद्धितस्योत्पद्यमानस्य न द्विगुत्वं निमित्तं, किं तर्हि ? प्रातिपदिकम्। तथा हि-- नासौ द्विगुरित्येवं विधीयते, किं तर्हि ? प्रातिपदिकादित्येवम्। तस्मात् सन्निहिताऽपि द्विगुता न प्रत्ययस्य निमित्तमिति, न च प्रत्ययो द्विगुरित्युपचारेण व्यपदेष्टुं शक्यत इति। `इतरस्तु' इति। तद्धितप्रत्ययः, यस् मूलोदाहरणे लुग्दर्शितः। `द्विगुत्वस्यैव निमित्तम्' इति। एवकारेण प्रातिपदिकस्य व्यवच्छेदः क्रियते-- द्विगुत्वस्यैव निमित्तम्, न तु प्रातिपदिकत्वस्य; यतस्तदर्थे द्विगुसमासो विधीयते,न तु प्रातिपदिकत्वमित्यस्ति विशेषः। ततश्च द्विगोर्यो निमित्तं तत्रैव द्विगुत्वव्यपदेश उपाचाराद्भवति। न तु निष्पन्नाद्द्विगोर्य उत्पद्यते तत्रापि।
`यद्येवम्'इत्यादि। यदि द्विगोर्यो निमित्तं तद्धितः सोऽत्र निमित्तत्वादुपाचारेण द्विगुरुच्यते तस्य लोपो भथवि। एवं सतीह कथं लोपः-- पञ्चकपाल्यां संस्कृतः पञ्चकपाल इति ? अत्र हि प़ञ्चानां कपालानां समाहार इति समाहारे द्विगौ निष्पन्ने ततस्तूत्तरकालं तद्धितो विधीयमानो न द्विगोर्निमित्तं भवति। `नैवात्र' इत्यादि परिहारः। कस्मान्नोत्पद्यत इत्याह-- `त्रैशब्द्यं हि' इत्यादि। त्रय एव शब्दाः = त्रैशब्द्यम्। चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्। इहास्माभिस्त्रैशब्द्यं साध्यम्। पञ्चकपालीशब्दस्तद्धितोत्पत्तिमन्तरेणापि सिद्धतीति न तस्मात् तद्धित उत्पद्यते। `पञ्चसु कपालेषु संस्कृतः' इत्यादिना त्रैशब्द्यं दर्शयति। `द्वयोः शब्दयोः' इत्यादि। यश्च समाहारे पञ्चकपालीशब्दः, यश्च तद्धितार्थविषये समासे पञ्चकपालशब्दस्तौ द्वावपि समानार्थौ,तयोरेकेन पूर्वेण विग्रह एवेति तस्मान्न तद्धितोत्पत्तिर्विज्ञेया। `अपरस्मादुत्पत्तिः' इति। पञ्चकपालशब्दात्। अव्यविकन्यायेन। यथाऽवेर्मांसमाविकमित्यविशब्देन विग्रहः,अविशब्दस्तु प्रत्ययमुत्पादयति तद्वदिहापि।
`अथेह कस्मान्न भवति' इत्यादि। रूप्यमयटावपि हि द्विगोर्निमित्तभूतौ, अतस्तयोरपि लुका भवितव्यमिति भावः। `वेत्यनुवर्त्तते' इति `समर्थानां प्रथमाद्वा'(4.1.82) इत्यतः। नन्वेवमपि सर्वत्र विकल्पेन लुक् प्राप्नोतीत्यत आह-- `सा च' इत्यादि। च शब्दो हेतौ। यस्मात् सा व्यवस्थितविभाषा विज्ञायते, तेन पञ्चकपाल इत्यादौ नित्यं लुग्भवति। पञ्चगर्गरूप्यमित्यादौ न भवत्येव।।
89. गोत्रेऽलुगचि। (4.1.89)
`अचि' इति। यद्येषा परसप्तमी स्याच्छविधावितरेतराश्रयता प्रसज्येत। कथम् ? गर्गस्यापत्यानि बहुनि `गर्गादिभ्यो यञ्' (4.1.105), तस्य यदि लुक् स्याच्छो न स्यात्। लुप्तेऽपि तस्मिन् `प्रत्ययलोपे प्रत्ययलक्षणम्' (1.1.62) इति चेत् ? `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलोपप्रतिषेधाद्वृद्ध्यभावेन वृद्धसंज्ञा न स्यात्, ततश्च वृद्धलक्षणच्छो न स्यात्। तस्माद्वृद्धत्वं प्रातिपदिकस्य वाञ्छतोऽलुक् पूर्व स्यात्। स चालुक छे परतो यदि भवति ततश्चालुग्विनिमित्तश्छः, तन्निमित्तश्चालुगितिव्यक्तमितरेतराश्रयत्वम्। तदिमं परसप्तम्यां दोषं दृष्ट्वा विषयसप्तमीयमिति दर्शयन्नाह--`अजादौ प्राग्दीव्यतीये विषयभूते' इति। विषयभूते = अनुत्पन्न एव बुद्धिस्थ इत्यर्थः। `गार्गीयाः' इति। गर्गस्यापत्यानि बहूनि। गर्गादित्वाद्यञ् (4.1.105) । तस्य गर्गाणाञ्छात्रा इत्यर्थविवक्षायामजादावनुत्पन्ने बुद्ध्यभिमुखीकृते विषयभूते `यञिञोश्च' (4.1.101) इतियो लुक् प्राप्नोति तस्यानेन प्रतिषेधः क्रियते, ततश्चादिवृद्धौ कृतायां तन्निबन्धनायां च वृद्धसंज्ञायाम् `वृद्धाच्छः' (4.1.114) इति च्छः, ईयादेशः, `यस्येति च' (6.4.148) इत्यकारलोपः, `आपत्यस्य च तद्धितेऽनाति' (6.4.151) इत यकारस्य। `वास्तीयाः' इति। पूर्वेण तुल्यम्। `आत्रेयीयाः' इति। अत्त्रेरपत्यानि बहूनि। `इतश्चानिञः' (4.1.122) इति ढक्, तस्य `अत्त्रिभृगुकुत्स' (2.4.65) इत्यादिना लुकि प्राप्तेऽत्रीणां छात्रा इति च्छे विषयभूते तस्य प्रतिषेधः। `खारपायणीयाः' इति। खरपस्यापत्यानि बहूनि। `नडादिभ्यः फक्' (4.1.99), `यस्कादिभ्यो गोत्रे' (2.4.63)इति तस्य प्राप्तस्य लुकः खरपाणां छात्रा इति च्छे विषयभूते प्रतिषेधः।
`कौबलम्, वादरम्' इति। कुबलीवदरीशब्दौ गौरादिङीषन्तौ प्रत्ययस्वरेणान्तोदात्तौ, तयोः शेषमनुदात्तम्। तेन कुबल्या विकारः फलम्, वदर्या विकारः फलमित्यर्थविवक्षायाम्। `अनुदात्तादेरञ्' (4.2.44) तस्य `फले लुक्' (4.3.163) इति तयोर्लुग् यः प्राप्नोति तस्य कुबलस्येदं वदरस्येदमित्यर्थविवक्षायामजादौ छे विषयभूते प्रतिषेधो न भवति; गोत्रग्रहणात्। गोत्रे यः प्रत्ययो वाचकत्वेन वर्त्तते तस्य लुकः प्रतिषेधेन भवितव्यम्। न चायमञ् गोत्रे वाचकत्वेन वर्त्तते, अपि तु विकारे, तेन तस्य लुग्भवत्येव। तस्मिन् सति `लुक्तद्धितलुकि' (1.2.49) इति स्त्रीप्रत्ययस्यापि लुक्। अञि लुप्ते वृद्ध्यभावाद्वृद्धत्वं नास्तीत्यणेव भवति, न तु च्छः। `गर्गरूप्यम्, गर्गमयम्' इति। पूर्ववद्रूपमयटौ। यद्यत्रालुक् स्याद्गार्ग्यरूप्यं गार्ग्यमयमिति स्यात्। `गार्गीयम्' इति। `तस्मै हितम्' (5.1.5) इति `प्राक्क्रीताच्छः' (5.1.1) इति च्छः, स च प्राग्दीव्यतीयो न भवति; दीव्यतः परेण विधानात्। `गोत्रस्य' इति। गोत्रप्रत्ययस्य । `बहुषु लोपिनः' इति। बहुष्वर्थेषूत्पन्नस्य यस्य लोपो विधीयते स बहुषु लोपी। `बहुवचनान्तस्य प्रवृत्तौ' इति। प्रवृत्तिः = अर्थान्तरसंक्रान्तिः। एतदुक्तं भवति-- बहुवचनान्तस्यार्थान्तरसंक्रान्ताविति। सा चार्थान्तरसंक्रान्ताविति। सा चार्थान्तरसंक्रान्तिस्तदन्ताद्यदा यूनि प्रत्यय उत्पद्यते तदा भवतीति वेदितव्यम्; तदा गोत्रान्तस्य यूनि प्रवृत्तेः। `द्वयेकयोः' इति। यदा गोत्रप्रत्ययान्तादेकस्मिन्नर्थे यूनि द्वयोर्वा यूनोः उत्पद्यते तदाऽर्थान्तरसंक्रान्तौ सत्यामलुग्भवति। बिदस्यापत्यानिबहुनि। `अनुष्यानन्तर्ये बिदादिभ्योऽञ' (4.1.104) इत्यञ्, स च `यञञोश्च' (2.4.64) इति बहुषु लुग्विधानाद्बहुषु लोपी भवति, तदन्ताद्युवविवक्षायामेकस्मिन् यूनि द्वयोर्वा `अत इञ्' (4.195), तस्य ण्यक्षत्त्रियादिसूत्रेण (2.458) लुकि कृते गोत्रप्रत्ययान्तस्य तस्यार्थान्तरसंक्रान्तौ सत्यां गोत्रप्रत्ययस्याञ इहापि बहुषूत्पन्नस्य लग्न भवति। कथं पुनर्न भवति, यावताऽलुको विषयाभावात् प्राग्दीव्यतीयोऽजातिरिञ् प्रत्यय उपनीतः ? प्रत्ययलक्षणम्' (व्या.प.96) इति च परिभाषा। यथा गवे हितं गोहितमिति चतुर्थीसमासे सुब्लुकि कृते प्रत्ययलक्षणेन चतुर्थीविभक्तिमाश्रित्य गोशब्दस्य `एचोऽयवायावः' इत्यवादेशो न भवति; वर्णाश्रयत्वात्। वर्णाश्रयत्वं तु तस्याचि विधानात्। यथा च `वर्णाश्रये नास्ति प्रत्ययलक्षणम्ट (व्या.प.96) इति परिभाषा, तथा बैदः, बैदौ-- इत्यत्राप्यलुका वर्णाश्रयतया न भवितव्यम् ? नैतदस्ति, न ह्यलुगत्र वर्णाश्रयः, किं तर्हि ? तद्धिताश्रयः। अचीत्येतत् त्विह सूत्रे विशेषणत्वेनोक्तम्। अत एव वृत्तावुक्तम्-- अजादौ प्राग्दीव्यतीये प्रत्यय इति। तस्मात् तस्याः परिभाषाया इहोवस्थानेऽसति `गोत्रेऽलुगचि' इति भवतीति, अनेनैवात्रालुक् सिद्धः। स च बहुषु युवसु मा भूदिति द्वयेकयोरेवेत्युपसंख्यानम्। तत्र बिदा इत्येव भवति।
`एकवचनद्विवचनान्तस्य' इत्यादि। एकवचनान्ततस्य गोत्रप्रत्ययस्य द्विवचनान्तस्य च बहुष्वर्थेषु युवसंज्ञकेषु प्रवृत्तौ संक्रान्तौ सत्यां लुग्वक्तव्यः। तत्र बैदस्येत्येकवचनान्तं गोत्रम्, बैदयोरिति द्विवचनान्तम्। अत्र च पूर्ववदञ्, तयोर्युवापत्यबहुत्वविवक्षायाम् `अत इञ्' (4.1.95) । तस्य ण्यक्षत्त्रियादिसूत्रेण (2.4.58) लुकि कृतेऽञोऽपि गोत्रप्रत्ययस्य लुगिष्यते। स च न प्राप्नोति, तस्मादुपसंख्यायते। किं पुनः कारणं न प्राप्नोति ? इत्याह-- `न ह्यत्र' इत्यादि। `यञञोश्च' (2.4.64) इति अनेन हि बहुषूत्पन्नोर्लुग्विधीयते, न चाञ् हुहषूत्पन्न,किं तर्हि ? एकस्मिन् द्वयोश्च, तस्मान्न प्राप्नोतीति। तदेवं सर्वथा बहुषु बिदा इत्येवं भवितव्यमिति स्थितम्।।
90. यूनि लुक्। (4.1.90)
`यूनि' इति। `व्यत्ययो बहुलम्' (3.1.85) इति षष्ठ्यर्थे सप्तमी। अत एव वृत्तावाह--`युवप्रत्ययस्य' इति। अजादौ प्रत्यये विवक्षिते बुद्धिस्य इत्यादिनाऽचीति विषयसप्तमीत्वं दर्शयति। यद्येषां परसप्तमी स्यात्, यत्रापि च्छप्रत्ययो नेष्यते तत्रापि स्यात्। युवप्रत्ययान्तस्य बुद्धत्वादित्यभिप्रायः।
`फाण्टाहृतरूप्यम्, फाण्टाहृतमयम्' इति। यद्यत्र लुक् स्यात्, फाण्टाहृतरूप्यं फाण्टाहृतमयमिति न स्यात्। `भागवित्तिकीयम्' इति। प्राक्क्रीतीयच्छः (5.1.1) पू्ववत्।।
91. फक्फिञोरन्यतरस्याम्। (4.1.91)
`गार्गीयाः, वात्सीयाः' इति। पूर्वपदकारयकारलोपः। `वा' (4.1.82) इति वर्त्तमानेऽन्यतरस्यां ग्रहणं `पूर्वसूत्रे नित्यो विधिः' इति ज्ञापनार्थम्।।
92. तस्यापत्यम्। (4.1.92)
`पूर्वैरुत्तरैश्च प्रत्ययैरभिसंबध्यते' इति। तत्र पूर्वैस्तावदणादिभिः सम्बध्यते; असंयुक्तविधानात्। अस्य यदि पूर्वैरभिसम्बन्धो न भवेत् `तस्यापत्यमत इञ्' इत्येकयोगमेव कुर्यात्। यतस्तु `अत इञ्' (4.1.95) इत्यनेन `तस्यापत्यम्' (4.1.92) इत्येतदसंयुक्तं करोति, ततोऽसंयुक्तविधानात्पूर्वार्थमेतद्विज्ञायत इत्येवं तावत्पूर्वैरभिसम्बध्यते। उत्तरैरप्यभिसम्बध्यते; तेष्वस्य स्वरितत्वात्। `तस्य' इति। पुंल्लिङ्गेन निर्देशः क्रियते, एकवचनेन च। तेन पुंल्लिङ्गादेवोत्पत्तिः स्यात्, एकवचनान्ताच्च। स्त्रीलिङ्गान्नपुंसकाच्च न स्यात्-- देवदत्ताया अपत्यम्, कुलस्यापत्यमेवमादौ न स्यात्। द्विवचनबहुवचनान्ताच्च-- द्वयोर्मात्रोरपत्यम्, तिसृणां मातृणामपत्येवमादौ न स्यात्। अथ नपुंसकलिङ्गेनायं निर्देशः ? स्त्रीलिङ्गात् पुंल्लिङ्गाच्च न स्यात्। अपत्यमित्येकवचनेऽत्र निर्देशः क्रियते, तेनैकस्मिन्नेवापत्ये स्यात्, न द्वयोर्नापि बहुषु-- उपगोरपत्ये औपगवौ; उपगोरपत्यान्यौपगवा इति। एतस्मिन् पूर्वपक्ष इदमाह-- `प्रकृत्यर्तविशिष्टः' इत्यादि। `गृह्यते' इति वक्ष्यमाणेन सम्बन्धः। प्रकृत्यर्थ उपगवादिशब्दानामर्थः,तेन विशिष्टः षष्ठ्यर्थोऽपत्यापत्यवत्सम्बन्धः। ननु च तस्यात्र तच्छब्दस्य सामान्यवाचिनो ग्रहणम्, तस्य कृत उपगवादिरर्थविशेषः, येन षष्ठ्यर्थो विशिष्यते ? तस्येत्यस्य विशेषोपलक्षणत्वाददोषाः। विशेषोपलक्षणत्वं चास्य प्रागेव प्रतिपादितम्। तस्माद्विशेष एवोपग्वादिः प्रकृत्यर्थः। `अपत्यमात्रञ्च' इति । मात्रशब्दोऽधिकस्य लिङ्गादेर्व्यवच्छेदाय।
`लिङ्गवचनादिकम्' इति। आदिशब्देन कालस्य ग्रहणम्। वर्त्तमानेन हि कालेनायं निर्देशः क्रियते। यथोक्तम्-- `यत्रापि साक्षादन्यक्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते' इति। तत्र वर्त्तमानकालविवक्षायां कालान्तरे न स्यात्। किं पुनः कारणं लिङ्गवचनादि न विवक्ष्यते ? तस्याप्रधान्यात्। अवश्यं हि येन केनचिल्लिङ्गादिना निर्देशः कर्त्तव्य इति, नान्तरीयकत्वात्। तस्येहोपादानम्, यथा-- धान्यार्थिनः पलालादेरप्रधानस्यापि।
`तस्येदम्' इत्यादि। `तस्येदम्' (4.3.120) इत्येतत्सूत्रमपत्यार्थेऽपि वर्त्तते। यो ह्युपगोरपत्यमुपगोरसावयमिति शक्यते व्यपदेष्टुम्। तस्येदमित्यस्य विशेषा ह्येते-- अपत्यम्, समूहः, निवासः, विकार इति। ततश्च `तस्येदम्' (4.3.120) इत्यनेनैवापत्यार्थेऽप्यण् सिद्धः, तत् किमर्थं तस्यापत्यमित्येतत् सूत्रं कृतम् ? `बाधनार्थम् कृतं भवेत्' इति। `तस्येदम्' (4.3.120) इत्यनेन विधीयमानस्याणो यो बाधकः `वृद्धाच्छः' (4.2.114) इति च्छः प्राप्नोति, तद्बाधनार्थमिदं कृतम्। एतत्सूत्रविहितेनाणा छप्रत्ययस्य बाधनं यथा स्यात्। कथं पुनरशैषिकः शैषिकं बाधते ? अपत्यादिभ्यश्चतुरर्थीपर्यन्तेभ्योऽन्योषडर्थः शैषिकाणां विषयः। अयं चापत्याच्छविषये नास्त्येव। तदसन्नयं कथं छप्रत्ययं बाधिष्यत इत्यत आह-- `उत्सर्गः शेष एवासौ' इति। असत्यस्मिन् योग इत्यभिप्रायः। असावित्यनेन प्रकृतत्वात् तस्यापत्यमित्येषोऽर्थः प्रत्यवमृश्यते। उत्सर्ग उत्पन्नेनाप्यणा स एवार्थ उत्सर्गसाहचर्यादुच्यते। उत्सर्गसाहचर्यन्तु तस्य तत्रोत्सर्गस्याणादेर्विधानात्। इहापि क्रियमाणे `तस्यापत्यम्' (4.1.92) इत्येतस्मिन् योगे `तस्येदम्' (4.3.120) इत्येतस्मिन्ननुप्रवेशाद्यथान्यस्तद्विशेषः शेषो भवति तथाऽपत्यार्थोऽपि। अस्ति तस्याप्युपयुक्तापेक्षमन्यत्वम्, `चतुरर्थीपर्यन्तेष्वनन्तर्भावात्। ततश्च शेषत्वादपत्यार्थे च्छप्रत्ययः प्राप्नोति। अस्मिंस्तु योगे `तस्येदम्' (4.3.120) इत्यत्र शेषे नानुप्रविशति; उपयुक्तत्वात्। ततश्चाशेषत्वादपत्ये छप्रत्ययस्य छप्रत्ययस्य प्राप्तिर्नास्त्येव। सैवाप्राप्तिर्बाधनशब्देनोक्ता। अथ बाधनार्थस्यास्य किं प्रयोजनमित्याह-- `वृद्धान्यस्य प्रयोजनम्' इति। वृद्धानि प्रातिपदिकान्यस्य योगस्य प्रयोजनम्। भानोरपत्यं भानवः, श्यामगोरपत्यं श्यामगव इत्यत्राण् सिद्धो भवति। असति त्वस्मिन् योकेऽपत्यार्थः पूर्वोक्तरीत्या शेषः स्यात्। ततश्च तत्र वृद्धेभ्यचः `वृद्धाच्छः' (4.2.114) प्रसज्येत।।
93. एको गोत्रे। (4.1.93)
`कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः'(व्या.प.6) इति परिभाषिकस्यैव गोत्रस्य ग्रहणम्। अपत्याधिकारे गोत्रग्रहणाच्च। अपत्यमात्रं हि लौकिकं गोत्रम्, तस्य यदीह ग्रहणमभिमतं स्यादेक इत्येवं ब्रूयात्, लौकिकस्य गोत्रापत्याधिकारादेव लब्धत्वात्। तस्माद्गोत्रग्रहणाच्च पारिभाषिकस्य ग्रहणमत्याह--`अपत्यं पौत्रप्रभृति गोत्रम्' इति। `भेदेन' इत्यादि। भेदेन = विभागेन, अपत्यमपत्यं प्रति = प्रत्ययत्यम्। यावन्त्यपत्यानि सम्भवन्ति तेभ्योऽपि सर्वेभ्यः प्रत्ययानामुत्पत्तेः प्रसङ्गे प्राप्तौ सत्यामित्यर्थः। सर्वेषामपत्येन योगेन गर्गगार्गिगार्ग्यगार्ग्यायणानामन्यतमस्य यदपत्यं तत्सर्वेषामपत्यं भवतीति परमप्रकृतेरनन्तरगोत्रमुवलक्षणाः प्रत्ययाः प्राप्नुवन्ति। गर्गस्य यदपत्यं तत्सर्वेषां गार्गिगार्ग्यगार्ग्यायणानामपि सम्बन्धि भवति। तथा ह्यत्र यद्यपि गर्गस्यापत्यमिति गर्गशब्देन विग्रहः क्रियते, तथापि नायंनियमो लभ्यते-- गर्गशब्दादेवोत्पत्तिरिति, अपि तु कामचारः। ततश्च यदा गर्गशब्दादुत्पत्तिर्भवति तदा गर्गादित्वाद्यञ् (4.1.105) , यदा गार्गिशब्दात् तदा `यञिञोश्च' (4.1.101) इति फक्, यदापि गार्ग्यशब्दात् तदापि स एव फक्, यदा गार्ग्यायमशब्दात् तदा `अत इञ्' (4.1.95) । एवं प्रत्यपत्यं विभागेन प्रत्ययानामुत्पत्तौ प्रसक्तायामनेन नियमः क्रियते-- `एक एव प्रत्ययो भवति' इति। एतेन प्रत्ययनियम इति दर्शयति। प्रत्ययनियमस्त्वेकस्त्वेकशब्दस्य प्रत्ययशब्दसामानाधिकरण्याल्लभ्यते। एकशब्दश्चास्मिन्नियमे संख्यावचनो वेदितव्यः यथा--एकः,द्वौ, बहव इति। एवकारेण द्वयादिव्यवच्छेदः क्रियते-- एक एव प्रत्ययो भवति,न द्वौ, नापि बहव इति। स चैकः प्रत्ययो भवन्नेकग्रहणात् परमप्रकृतेरेव भवतीति सामर्थ्यादुक्तं भवतीति। यदि हि गार्गिशब्दादुत्पद्येत्, द्वौ स्याताम्-- इञ्फकौ, नैकः ? अथ गार्ग्यशब्दादेवमपि द्वावेव-- यञ्फकौ ? अथ गार्ग्यायणशब्दात्, त्रयः स्युः-- यञ्फगिञः। तस्मान्मूलप्रकृतेरेवोत्पत्तावेकः प्रत्ययः सिध्यतीत्येकग्रहणं कुर्वता सामर्थ्यान्मूलप्रकृतेरेव गोत्रप्रत्ययस्योत्पत्तिरुक्ता भवति। ननु चोत्पादयितैवापत्येन सम्बध्यते, एवं हि लोके दृश्यते-- पितामहस्योत्सङ्गे दारकमासीनं दृष्ट्वा कश्चित् पृच्छति-- कस्यायमिति ? स आह-- देवदत्तस्येति, तेनोत्पादयितारं व्यपदिशति, नात्मानम् ? ततः सर्वेषामपत्येन योगाभावात् प्रत्यपत्यं भेदेन प्रत्ययोत्पत्तिप्रसङ्गो नास्त्येवेति निवर्त्त्याभावादिदं नियमार्थं नारब्धमित्यत आह-- `सर्वेऽपत्येन युज्यन्ते' इति।
अत्रैवोपपत्तिमाह-- `अपतनादपत्यम्' इति। यन्निमित्तं हि यसय् पापेष्वपतनं तदपतनात् तस्यापत्यं भवति। तस्माद्यो व्यवहितेन जनितः सोऽपि परमप्रकृतिवाच्यस्यार्थस्यापत्यं भवति,तस्यापि येनापतनात्। परमप्रकृतिग्रहणञ्चोपलक्षणं वेदितव्यम्। इतरप्रकृतिवाच्यस्यापि ह्यर्थस्याव्यवहितजनितोऽपत्यं भवत्येव। यत्पुनरुक्तम्-- कस्यायमित्युक्ते उत्पादयितारं व्यपदिशति, नात्मानमिति, न तेनोत्पादयितुरेवापत्येन योगः, शक्यते प्रतिपादयितुम्। यस्मान्न तत्र यस्य तेनापतनं स जिज्ञासितः स्यात्, किं तर्हि ? य उत्पादयितारं व्यपदिशति नात्मानम्। यदि यस्य तु तेनापतनं स जिज्ञासितः स्यात्, तदाऽऽत्मानमपि व्यपदिशेदेव। यदि च सर्वेऽपत्येन न युज्येरन्, `अपत्यं पौत्रप्रभृति गोत्रम्' (4.1.162) इति योऽयमपत्यपौत्रप्रभृतिशब्दयोः सामानाधिकरण्येन निर्देशः, स नोपपद्यते; यदपेक्षया पौत्रादिव्यपदेशमासादयन्ति पुमांसस्तं प्रति तेषामनपत्यत्वात्। तस्मादतोऽपि निर्देशात्-- सर्वेऽपत्येन युज्यन्त इति विज्ञायते। `तत्पुत्त्रोऽपि गार्ग्यः' इति। अपिशब्दात् तत्पौत्रादिरपि। किं पुनः कारणं तत्पुत्त्रोऽपि गार्ग्य इत्याह-- `सर्वस्मिन्' इत्यादि। यदपि गार्ग्यायण इत्यत्रैकेन व्यवहितेन जनितं गोत्रापत्यं यस्मात् तत्रापि गर्गशब्दाद्यञेव भवति, तस्मात् तत्पुत्त्रोऽपि गार्ग्यो भवति। गर्गशब्दादित्यनेन परमप्रकृतेर्भवतीति दर्शयति। एतच्चैकग्रहणाल्लभ्यत इत्युक्तम्।
`अथ वा' इत्यादिना प्रकृतिनियमं दर्शयति प्रकृतिनियमस्त्वेकशब्दस्य प्रकृतिसामानाधिकरण्याल्लभ्यते। एकशब्दोऽत्र प्राथम्यनियमे वर्त्तत इति वेदितव्यम्, यथा-- वर्गाणां प्रथमद्वितीयाः संवृतकण्ठाः श्वासानुप्रदाना अघोषा एकेऽल्पप्राणा इतरे सर्वे महाप्राणा इति। अत्र हि प्रथमेऽल्पप्राणा इति गम्यते। एकशब्दस्येदं विवरणम्-- `प्रथमा प्रकृतिः' इति। का च प्रथमा ? या परमप्रकृतिरप्रत्ययान्ता `गर्ग नड' इत्येवमादिका। `प्रकृतिर्नियम्यते' इति। प्रथमैव प्रकृतिः प्रत्ययमुत्पादयति, नाप्रथमा-- गार्गिगार्ग्यगार्ग्यायणप्रभृतिशब्दाः प्रत्ययान्ताः। गर्गस्यापत्यं गार्ग्यः, तत्पुत्त्रोऽपि गार्ग्यः। नडस्यापत्यं नाडायनः, तत्पुत्त्रोऽपि नाडायनः। सर्वत्र व्यवहितजनितेऽपि गोत्रापत्ये प्रथमा प्रकृतिः प्रत्ययमुत्पादयति।।
94. गोत्राद्यून्यस्त्रियाम्। (4.1.94)
`अयमपि नियमः' इति। न केवलं पूर्वः--- इत्यपिशब्देन दर्शयति। सर्वेषां ह्यपत्येन योगे परमप्रकृत्यनन्तरयुवभ्योऽपि युवापत्यविवक्षायां प्रत्ययः प्राप्नोति, अतस्तन्निवृत्त्यर्थं नियमः क्रियते। `गोत्रादेव'इति। गोत्रपत्ययान्तादेवेत्यर्थः। अनेन नियमस्वरूपं दर्शयति। `न परम' इत्यादिना नियमस्य व्यवच्छेद्यम्। `गार्ग्यायणः, दाक्षायणः' इति। गोत्रे यौ यञिञौ विहितौ तदन्तात् `यञिञोश्च' (4.1.101) इति फक्। `औपगविः' नाडायनिः' इति। गोत्रे यावण्फकौ विहितौ तदन्तात् `अत इञ्' (4.1.95)।
`दाक्षी' इति। वक्षस्यापत्यं चतुर्थ स्त्री। `अत इञ्' (4.1.95), `इतो मनुष्यजातेः' (4.1.65) इति ङीष्।
`किं पुनरत्र प्रतिषिध्यते' इति। सर्वस्मिन् प्रतिषिध्यमाने दोषं मन्यते। तमेव दोषमाविष्कर्तुमाह-- `यदि' इत्यादि। `स्त्रियामनियमः प्राप्नोति' इति। परमप्रकृत्यनन्तरयुवभ्योऽपि स्त्रियां युवप्रत्ययः प्राप्नोतीत्यर्थः। `गोत्रसंज्ञाया युवसंज्ञया बाधितत्वात्' इति। `जीवति तु वंश्ये युवा' इत्यत्र तुशब्दोऽवधारणार्थः कृतः। तेन अभिधानं न प्राप्नोति। `तस्मात्' इत्यादि। यत एव च नियमयुवप्रत्यययोरुभयोरपि प्रतिषेधे दोषः, तस्मात् तन्निरासाय योगविभागः कर्त्तव्यः। तत्र ` गोत्राद्यूनि' इत्येको योगः, अनेन च नियमः क्रियते, यदाह-- `गोत्राद् यूनि प्रत्ययो भवति' इति. ततः `अस्त्रि याम्' इति द्वितीयो योगः। तेन च यूनीत्यत्र यदुक्तं कार्यं तस्य प्रतिषेधः क्रियते, यदाह-- `यूनि यदुक्तं स्त्रियां तन्न भवति' इति। `युवसंज्ञैव प्रतिषिध्यते' इति। कथम् ? `अस्त्रियाम्' इत्यत्र हि योगे यूनीत्येतदनुवर्त्तते, तेनैवं विज्ञायते-- यूनि यदुक्तं कार्यं स्त्रियां तन्न भवतीति। युवसंज्ञा च यून्येव कार्ययुक्तेत्यतः सैव प्रतिषिध्यते। `युवसंज्ञैव' इति। एवकारेण नियमयुवप्रत्ययोर्व्यवच्छेदः क्रियते। `तेन स्त्री गोत्रपत्ययेनाभिधास्यते' इति। तस्यां युवसंज्ञायां प्रतिषिद्धायां गोत्रसंज्ञाया अविचलत्वात्।।
25. अत इञ्। (4.1.95)
`अतः'इत्यनेन प्रकृतं प्रातिपदिकं विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्यत आह-- `अकारान्तात् प्रातिपदिकात्' इति। अथात इति `अत सातत्यगमने' (धा.पा.34) इत्यस्य क्विबन्तस्य ग्रहणं कस्मान्न विज्ञायते ? `शिवादिभ्योऽण्' (4.1.112) इति वचनात्। तद्धीञो बाधनार्थं क्रियते। यदि चेह स्वरूपग्रहणं स्यात्, शिवादिभ्यः प्रसङ्ग एव नास्तीति तेभ्यस्तद्बाधनार्थमण्विधानमनर्थकं स्यात्, क्रौड्यादीनाञ्चेञन्तानां पाठात्। तस्मादकारान्तस्यैवेदं ग्रहणम्। यद्येवम्, अस्यापत्यमिरित्यत्र न प्राप्नोति, अनकारान्तत्वात् ? एतदपि व्यपदेशिवद्भावेनाकारान्तं भवतीत्यदोषः। `शुभंयाः, कीलालपाः' इति। यातेः, पिबतेश्च `आतो मनिन्क्वनिब्वनिपश्च' (3.2.74) इत्यत्र हि `विजुपेश्छन्दसि' (3.2.73) इत्यतश्चकारेण विजप्यनुकृष्यते।
`कथम्' इत्यादि। दशरथशब्दादप्यकारान्तदिञा भवितव्यम्। ततः `दाशरथाय' इत्यणन्तस्य प्रयोगो नोपपद्यत इति भावः। `शेषविवक्षायाम्' इत्यादि। एतेन दशरथस्यायमित्यर्थविवक्षायामत्राण विहितः, न तु `तस्यापत्यम्' (4.1.92) इत्यर्थविवक्षायामिति दर्शयति। यदा तु दशरथस्यापत्यमिति विवक्ष्यते, तदेञ्भवत्येव-- दाशरथिरिति।।
96. बाह्वादिभ्यश्च। (4.1.96)
`बाहविः' इति। `ओर्गुणः' (6.4.146)।
`क्वचित्' इति। अजीगर्त्ताविष्कारान्तेषु। बाहुप्रभृतीनां वटाकुपर्यन्तानामनकारान्तत्वात् प्राप्त्यर्थः पाठः। चूडाशब्दस्य च `द्वय चः' (4.1.121) इति ढकि प्राप्ते। वृकलादीनां प्राक् पुष्करसच्छब्दात् `अवृद्धाभ्यो नदीमानुषीभ्यः' (4.1.113) इत्यणि प्राप्ते। पुष्करसदित्येवमादीनां लोमशब्दपर्यन्तानां प्राप्त्यर्थः, अनकारान्तत्वात्।
`अमितौजसः सलोपश्च' इति। अमितौजस्शब्दादिञ् भवति, सलोपश्च। आमितौजिः। उदञ्च्विति पठ्यते, तत्राञ्चतेर्धातोश्चकारो वेदितव्यः। नायं पुनरकारान्तः, किं तर्हि ? क्विन्नन्तः, प्रत्ययवेलायां निपातनादनुनासकिलोपो न भवति। उदीचोऽपत्यमौदञ्चिः। शिरः शब्दस्तदन्तविधिं प्रयोजयति, केवलस्य नपुंसकस्यापत्येन सम्बन्धाभावात्। हस्तिशिरसोऽपत्यं हास्तिशीर्षिः, `ये च तद्धिते' (6.1.61) इत्यत्र चकारस्यानुक्तसमुच्चलोम्नोऽपत्यम्-- और्ध्वलोमिः। अजीगर्त्तादीनां प्रागुदङ्कशब्दात् `ऋष्यन्धकवृष्णि' (4.1.114) इत्यादिनाणिबाधके प्राप्ते। `उदङ्कः संज्ञायाम्' इति। उदङ्को नाम कश्चित्, तस्यापत्यमौदङ्किः। `सम्भूयोऽम्भसोः सलोपश्च' (इति)। सम्भूयस्, अम्भसित्येतयोरिञ् भवति, सकारलोपश्च-- साम्भूयिः,आम्भिः। `बाह्वादिप्रभृतिषु' इति। प्रभृतिशब्देनेत ऊर्ध्वं ये वक्ष्यन्ते ते परिगृह्यन्ते। `येषां दर्शनं गोत्रभावे लौकिके' इति। दर्शनं = प्रसिद्धिः। लौकिके गोत्रे भावः = संज्ञाकारित्वम्। येषां लौकिकगोत्रभावे प्रसिद्धिस्तेषां बाह्वादिषु परिग्रहो द्रष्टव्यः । `ततोऽन्यत्र तेषां प्रतिषेधः' इति। येषां लौकिके गोत्रभावे न दर्शनमपि तु ततोऽन्यत्र दर्शनम्, तेषां प्रतिषेधो वेदितव्यः। तेन बाहुर्नाम कश्चिदादिपुरुषो यः संज्ञाकारित्वेन प्रसिद्धो यदपत्यसन्तानान्तः पातिनः पुमांसो बाहुव्यपदेशमासादयन्ति, तत एवेञ् भवति। यस्त्विदालीन्तनो बाहुर्नाम कश्चित् ततोऽणेव भवति-- बाहव इति। एतच्च वेत्यनुवृत्तेर्व्यवस्थितविभाषाविज्ञानाच्चलभ्यते। सम्बन्धिशब्दानाञ्च श्वशुरादीनाञ्च यत्कार्यमुच्यते तस्य तत्सादृश्यात् प्रतिषेधो भवति। अत्रापि पूर्वोक्त एव हेतुर्वेदितव्यः। राजश्वशुराद्यत्' (4.1.137) इति श्वशुरशब्दाद्यत्प्रत्ययः सम्बन्धिशब्दादेव भवति, न संज्ञाशब्दात्। तेन श्वशुरो नाम कश्चित्, तस्यापत्यं श्वाशुरितीञेव भवति। `संज्ञाश्वशुरस्य' इति। संज्ञया यः श्वशुरः, न सम्बन्धेन स संज्ञाश्वशुरः।।
97. सुधातुरकङ् च। (4.1.97)
`व्यासवरुड' इत्यादि। व्यासादीनामिञ्, तत्सन्नियोगेन चाकङादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- पूर्वसूत्रामिह चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः,तेन व्यासादीनामपि भविष्यति। `वैयासकिः' इति। `न य्वाभ्याम्' (7.3.3) इत्यादिनैज्वृद्धिप्रतिषेधौ। अथ बाह्वादिष्वेव सुधातृशब्दमधीत्य तत्र चाकङादेशः कस्मान्न कृतः, यथा-- अमितौजसः सलोपश्चेति गणे पठ्यते ? सूत्रे वा, न तत्र कश्चिल्लाघवाभावाद्विशेषो लभ्यत इति यत्किञ्चिदेतत्।।
98. गोत्रे कुञ्जादिभ्यश्च्फञ्। (4.1.98)
`इञोऽपवादः' इति। अकारान्तत्वात् कुञ्जादीनाम्। `चकारो विशेषणार्थः'इति। यद्यत्र चकारो न क्रियेत ततः `व्रातच्फञोरस्त्रियाम्' (5.3.113) इत्यत्रापि नैव क्रियते, च्फञ्प्रत्यस्याभावात्। ततश्च `वातफञोरस्त्रियाम्' इत्युच्यमाने `अश्वादिभ्यः फञ्' (4.1.110) इत्यस्यापि ग्रहणं स्यात्। `कौञ्जायन्यः, कौञ्जायन्यौ' इति। `पूगाञ्ञ्योऽग्रामणीपूर्वात्' (5.3.112) इत्यतः `ञ्यः' इत्यनुवर्त्तमाने `व्रातच्फञोरस्त्रियाम्' (5.3.113) इति स्वार्थ ञ्यः। `कौञ्जायनाः' इति। `ञ्यादयस्तद्राजा-' (5.3.119) इति तद्राजसंज्ञकत्वात् `तद्राजस्य बहुषु' (2.4.62) इत्यादिना लुक्। किं पुनरत्र ञित्वस्वरेण भवितव्यम् ? उत चित्स्वरेण ? इत्यत आह-- `एकवचनद्विवचनयोः' इत्यादि। एकवचनद्विवचनयोस्तावत् सति तस्मिन् चित्स्वरे पश्चाद् ञ्ये विहिते समुपजायमानो ञित्स्वरः सतिशिष्टो भवतीति तेनैव भवितव्यम्। बहुवचने तु ञ्ये निवृत्ते प्राप्ते तं त्यक्त्वा चित्स्वर एवेष्यते। कथं पुनरिष्यमाणोऽपि स लभ्यते, चित्करणसामर्थ्यादिति चेत् न; ञित्करणसामर्थ्याद् ञित्स्वरोऽपि लभ्यते। एवं तर्हि स्वरविधौ योगविभागः करिष्यते,इदमस्ति-- `चितःट (6.1.163) इति; ततः `तद्धितस्य' (6.1.164) इति, तत्र `चितः' इत्येवानुवर्त्तते। किमर्थमिदम् ? परत्वात् `ञ्नित्यादिर्नित्यम्' (6.1.197) इत्याद्युदात्तत्वं प्राप्नोति, तद्बाधनार्थम्। ततः `कितः' (6.1.165) इति, कितश्च तद्धितस्यान्त उदात्तो भवति।।
99.नडादिभ्यः फक्। (4.1.99)
नडादिषु `शलङ्कु शलङ्कञ्च' इति पठ्यते। तस्यायमर्थः- शलङ्कुशब्दः प्रत्ययमुत्पादयति शलङ्कभावं चापद्यते, तेन शालङ्कायन इति भवति। `पैलादिषु 'इति। पैलादिषु शालङ्किशब्द इञन्तः पठ्यते, तत उत्पन्नस्य युवप्रत्ययस्य लुग्यथा स्यात्-- `शालङ्कि पिता, शालङ्किः पुत्रः' इति। तत्र हि `ण्यक्षत्त्रियार्षञितः' (2.4.58) इत्यादेः सूत्रात् `यूनि लुक्' इति चानुवर्त्तते, तस्य शालङ्गिशब्दस्य तत्र पाठो न युज्यते-- नडादिषु पाठात् फका भवितव्यमिति कृत्वा, तत् कथमिञन्तस्तत्र पठ्यत इति चोद्यम्। तस्य परिहारमाह-- `गोत्रविशेषे' इत्यादि। कौशिकं यद्गोत्रं तत्रैव शलङ्कुशब्दादाचार्यः फकं स्मरन्ति, ततोऽन्यत्र त्विञेव भवतीत्यदोषः। स त्विञ् बाह्वादेराकृतिगणत्वाल्लभ्यते। अभ्युपेत्यापि गोत्रमात्रे फको विधानम्। परिहारान्तरमाह-- `अथ वा' इत्यादि। इञो भाव उपलक्षणम्। शलङ्कभावस्यापि हि पैलादिपाठ एव ज्ञापकम्। पूर्वत्रापि परिहारे तस्य एव ज्ञापकं वेदितव्यम्। `अग्निशर्मन् वृषगणे' इति। अग्निशर्मञ्शब्दाद्वृषगणे गोत्रे फग्भवति-- आग्निशर्मायणः। अन्यत्राणेव-- आग्निशर्मः। `अमुष्य' इति पठ्यते। ततर् निपातनाद्विभक्तेरलुक्-- आमुष्यायण इति। `कृष्णरणौ ब्राह्मणवाशिष्ठयोः' इति। कृष्णरणशब्दौ यथाक्रमं ब्राह्मणे वाशिष्ठे चाभिधेये फकमुत्पादयतः। कार्ष्णायनो ब्राह्मणः। राणायणो वशिष्ठः। वशिष्ठगोत्र इत्यर्थः। अन्यत्रेञेव भवति-- कार्ष्णिः, राणिरिति। `क्रोष्टु क्रोष्टञ्च' इति पठ्यते। क्रोष्टुशब्दः फकमुत्पादयति, क्रोष्टञ्चापद्यते -- क्रौष्टायनः।।
100. हरितादिभ्योऽञः। (4.1.100)
`न च' इत्यादि चोद्यम्। `सत्यमेतत्' इत्यादि परिहार उच्यते। गोत्रे योऽञ् विहितस्तदन्तेभ्यो हरितादिभ्यः फक्। न च गोत्रप्रत्ययादपरो गोत्रप्रत्यययः सम्भवति। तत्र सामर्थ्यादगोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते। यद्येवम्, गोत्राधिकारः किमर्थः ? इत्याह-- `गोत्राधिकार उत्तरार्थः' इति।।
101. यञिञोश्च। (4.1.101)
अथ `द्वीपादनुसमुद्रं यञ्' (4.3.10) इति यो यञ् विहितः, यश्च `वृञ्छण्' (4.2.80)इत्यादिना सूत्रेण सुतङ्गमादिभ्य इञिति तदन्तात् कस्मान्न भवति, न ह्यत्र कश्चिद्विशेष उपात्तः ?इत्यत आहः-- `द्वीपादनुसमुद्रं यञ्' इत्यादि। गोत्रग्रहणेन ह्यत्र यञिञौ विशेष्येते-- गोत्रे यौ यञिञाविति। न च `द्वीपात्' (4.3.10) इत्यादिना गोत्रे यञ् विहितः,किं तर्हि ? जातादावर्थविशेषे। नापि सुतङ्गमादिभ्यो गोत्रे इञ् विहितः, किं तर्हि ? तदस्मिन्नस्तीति देशे' (4.2.67,70) इत्येवमादिषु चतुर्ष्वर्थेषु, तेन तदन्तान्न भवति। यदि तर्हि गोत्रग्रहणेनेह यञिञौ विशेष्येते, न प्रत्ययार्थः, एवं सति क्वायं प्रत्ययो भवतीति न विज्ञायत इत्यत आह--`तदन्तात्' इत्यादि। कस्मात् तदित्याह-- `गोत्राद्यूनीति वचनात्' इति।।
102. शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु। (4.1.102)
`गोत्र इत्येतत्' इति। यदि तर्हि गोत्र इति वर्त्तते, भुगुवत्साभ्यां मूलप्रकृतिभ्यां प्रत्ययार्थस्य विशेषणं नोपपद्यते, गोत्रप्रत्ययाभ्यामेव हि ताभ्यां गोत्रापत्यं प्रत्ययार्थः शक्यो विशेषयितुम्,अत एव युक्तं स्याद्वक्तुम्-- भार्गववात्स्यायनाग्रायणेष्विति ? नैष दोषः;गोत्राधिकारसामर्थ्याद्धि गोत्रापत्य एव वर्त्तमानाविह गृह्येते, कार्ये कारणोपचारं कृत्वा। तामेव गोत्रापत्ये तयोर्वृत्तिं दर्शयितुं वृत्तावित्युक्तम्-- `शारद्वतायनो भवति भार्गवश्चेत्, शौनकायनो भवति वात्स्यश्चेत्' इति।।
103. द्रोणपर्वतजीवन्तादन्यतरस्याम्। (4.1.103)
`कथम्' इत्यादि। यदि गोत्रापत्ये द्रोणादिभ्यः फग्भवति, तत्कथं द्रौणायनः, द्रोणतः प्रतीत्येवमादिषु प्रयोगेष्वनन्तरोऽश्वत्थामा इत्युच्यते ? `नैवात्र' इति। नात्रेदानीन्तनो द्रोणस्तदनन्तरापत्ये फका द्रोणायन इति, किं तर्हि ? `अनादिः'इति। श्रुतिसम्भवदर्शनार्थमिदमुक्तम्। येन हेतुनाश्वत्थामा द्रौणायन इत्युच्यते तमिदानीन्तनेत्यादिना दर्शयति। `इदानीन्तनात्तु'इत्यादि। अनादिद्रोणव्यवच्छेदपरमेतद्वेदितव्यम्। न हि तावद्भारतद्रोण इदानीन्तनो भवति; चिरातीतत्वात्। चिरातीतोऽप्यर्थो बुद्धौ परिभाव्यमानो वर्त्तमानतां प्रतिपद्यते, यथा-- अद्य कंसो हन्यताम्। इदानीन्तनाद् द्रोणादप्यश्वत्थाम्नि द्रोणायन इत्येवं गोत्रप्रत्ययेन यदभिधानं तदध्यारोपेण भवति। अविद्यमानस्यैव तत्रासञ्जनमध्यारोपः। कस्याध्यारोपः ? गोत्रस्य । `श्रुतिसामान्यात्' इति। अध्यारोपे हेतुः। अनादेर्द्रोणस्याश्वत्थानम्नः पितुश्च द्रोण इति समाना श्रुतिः। अतः श्रुतिसामान्यादनादिद्रोणापत्यस्य यो धर्मो गोत्रत्वं तद्भावं भारतद्रोणापत्येऽश्वत्थाम्न्यपि श्रुतिसामन्याच्चलितबुद्धयः प्रतिपत्तार अध्यारोपयन्ति। तेनाध्यारोपेण द्रोणायन इति तत्राभिधां प्रवर्त्तते।।
104. अनृष्यानन्तर्ये बिदादिभ्योऽञ्। (4.1.104)
`ये पुनरत्रानृषिशब्दाः' इत्यादि। ननु च सूत्रे आनन्तर्यशब्दो भावप्रत्ययान्त उपात्तः,तत्रैवं विवरितव्यम्-- ये पुनरत्रानृषिशब्दाः पुत्त्रादयस्तेभ्योऽपत्यानन्तर्य एव भवति ? नैतदस्ति; न ह्ययं भावे ष्यञ् विहितः, किं तर्हि ? स्वार्थ एव, चातुर्वर्ण्यवत्; अन्यथापत्यस्य धर्म आनन्तर्ये प्रत्ययः धर्म आनन्तर्ये प्रत्ययः स्यात्, नापत्ये, तत्रेष्यते च।
कथं पुनर्गोत्राधिकारे सत्यनुषिभ्योऽनन्तरापत्य एव प्रत्ययो लभ्यते ? अत्र गोत्रग्रहणं निवर्त्तते। ऋषिशब्देभ्योऽनन्तरापत्य एव स्वदित्यत आह-- `अनृष्यानन्तर्य इत्यस्यायम्' इत्यादि। `यद्ययमर्थः' इत्यादि। अस्मिन् ह्यर्थे सत्यनृष्यानन्तर्य इत्येतद्विष्यर्थ भवति; अनृषेरनन्तरापत्ये प्रत्ययविधानात्। ततश्च ऋष्यपत्य आनन्तर्येप्रतिषेधो न कृतः स्यादित्याह-- `ऋषिशब्दोऽत्रऋषिजातावृषित्वे वर्त्तते। `अपत्येषु नैरन्तर्यम्' इति। `सप्तमी' (2.1.40) इति योगविभागात्समासः। पश्चादृषेरपत्यनैरन्तर्यमिति षष्ठीसमासः। तदायमर्थो भवति-- ऋषित्वस्यापत्येषु नैरन्तर्यविषयेऽञः प्रतिषेधो न कृतः स्यात्। अथ वा-- ऋषयश्च तेऽपत्यानि च ऋष्यपत्यानि, तेषां नैरन्तर्यं तद्विषये प्रतिषेधोऽञः प्रत्ययस्य न कृतऋ स्यादित्यर्थः। ततर् को दोषः ? इत्याह-- `तत्रेदम्' इत्यादि। सप्त काश्यपा ऋषयोऽपत्यापत्यवत्सम्बन्धेन परसप्रं सम्बद्धाः, येषां मित्त्रहूर्नाम काश्यपः सप्तमः, तेषामुषित्वस्यापत्येषु नैरन्तर्यम्। तत्र ऋष्यपत्यानां वा नैरन्तर्ये विषयेऽञः प्रतिषेध इष्यते,काश्यपानामित्येतद्रूपं यथा स्यात्। अञि सति तस्य बहुषु लोपाभावात् काश्यपानामिति प्राप्नोति। स च प्रतिषएधोऽस्मिन्नर्थे सति न प्राप्नोति, ततश्च काश्यपानामिति न सिध्यति। तस्मात् `अनृष्यानन्तर्ये' इत्यस्य ऋष्यपत्यनैरन्तर्येण न भवतीत्येषोऽर्थो विज्ञायत इत्यभिप्रायः। `अनन्तरापत्यरूपेणैव' इति। न चात्र गोत्रापत्यं विवक्षितम्। किं तर्हि ? किं तर्हि ? अनन्तरापत्यम्। अतोऽनन्तरापत्यरूपेणैव ऋष्यणा ऋष्यन्धकादिषु (4.1.114) विहितेन काश्यपानामित्यभिधानं भविष्यति। एतदेव द्रढयितुमाह-- `अवश्यञ्च' इत्यादि। ऋष्यपत्यं नैरन्तर्यं विषयो यस्य प्रतिषेधस्य स तथोक्तः। ऋषित्वस्यापत्येषु ऋष्यपत्यानां वा यन्नैररन्तर्य तद्विषये प्रतिषेधे विज्ञायमान इत्यर्थः। `कौशिको विश्वामित्र इति दुष्यति' इति। किं कारणम् ? विश्वामित्रस्तपस्तेपे-- नानृषिः स्यामिति, तत्रभवानृषिः सम्पन्नः,स पुनस्तपक्षेपे --नानृषेः पुत्त्रः स्यामिति, तत्रभवान् गाधिरपि ऋषिः सम्पन्नः; स पुनस्तपस्तेपे-- नानृषेः पौत्रः स्यामिति; तत्रभवान् कुशिकोऽपि ऋषिः सम्पन्नः। तदेतद्भवति-- ऋषित्वस्यापत्येषु नैरन्तर्यम्,ऋष्यपत्यानां वानन्तर्यम्। ततश्च ऋष्यपत्यनैरन्तर्ये न भवतीत्येवं विज्ञायमाने कौशिको विश्वामित्र इति न सिध्यति।
`परस्त्री परशुञ्च' इति।परस्त्रीशब्दः प्रत्ययमुत्पादयति परेशुभावञ्चापद्यते। परस्त्रिया अपत्यं पारशवः।।
105. गर्गादिभ्यो यञ्। (4.1.105)
`कथं मानवी प्रजा'इति। गर्गादिषु पाठाद्यञा भवितव्यम्, ततश्च मानवीति न सिध्यतीति। लोहितादिलक्षणे हि यञन्तात्तु ष्फे विहिते मानव्यायनीति भवितव्यमित्यभिप्रायः। गोत्रमित्युच्यते, गोत्रे हि यञ् प्रत्यय उच्यते, नापत्यसामान्ये। तेन तत्रौत्सर्गिकोऽण् मानवीति भविष्यति। `कथम्' इत्यादि। यदि गोत्रमित्युच्यते, ततो यथा गर्गशब्दादनन्तरापत्ये यञ् न भवति, तथा च जमदग्निपराशरशब्दाभ्यामपि न भवितव्यम्, तत्कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्य इत्यत्र यञ् भवति ? `गोत्ररूपाध्यारोपेण भविष्यति' इति। यदानन्तरापत्ययोरपि गोत्ररूपयो रामव्यासयोर्विवक्षितत्वाद्गोत्ररूपाध्यारोपः क्रियते, तदा यञ् भवतीत्यदोषः। असतो न युक्ता विवक्षेत्येतच्च न सम्भावनीयम्; दृश्यते ह्यसतोऽपि विवक्षा, यथा-- विन्ध्यो वर्द्धितकः, समुद्रः कुण्डिकेति। यदा तर्ह्यनन्तरापत्यविवक्षा भवति, तदा केन भवितव्यमित्याह-- `अन्तरापत्यविवक्षायां तु' इत्यादि। `वाजाऽसे'इति। वाजशब्दो यञमुत्पादयति। असे, असमास इत्यर्थः। वाज्यः असमास इति किम् ? सौवाजिः।।
106. मधुबभ्व्रोर्ब्राह्मणकौशिकयोः। (4.1.106)
यदि तर्हि बभ्रुशब्दस्य गर्गादिपाठादेव सिद्धे कौशिके नियमार्थमिह ग्रहणम्, एवं सति नार्थो गर्गादिषु पाठेन, कौशिके विध्यर्थमेव ग्रहणमस्तु, नास्य ? इत्यत आह-- `गर्गादिषु पाठोऽपि' इत्यादि। गर्गादिषु पाठोऽपि कर्त्तव्यः। `सर्वत्र लोहितर' (4.1.18) इत्यादिनान्तर्गणकार्य ष्फो यथा स्यात्। अथ गण ए कौशिकग्रहणं कस्मान्न कृतम्, कः पुनरेवं सति गुणो भवति, सुत्रे पुनर्बभ्रुग्रहणं न कर्त्तव्यं भवति ? सत्यमेतत्; `अपाणिनीयत्वात्' गणस्य। नैवं चाकरणे पाणिनिरुपालम्भमर्हति। गणकारेणापि हि किं न कृतम् ? वैचित्र्यार्थम्। विचित्रा हि गणस्य कृतिर्गणकारेण।।
107. कपिबोधादाङ्गिरसे। (4.1.107)
`कापेयः'इति। `इतश्चामिञः' (4.1.122) इति ढञक्। यदि कपिशब्दो गर्गादिषु पठ्यते, नियमार्थं त्विह तस्य ग्रहणम्, एवं सत्याङ्गिरसे विध्यर्थमेवास्य ग्रहणमेवास्तु,नार्थो गर्गादिषु पाठेन ? इत्यत आह-- `लोहितादिकार्यार्थश्च' इत्यादि।।
108. वतण्डाच्च। (4.1.108)
किमर्थमिदम् ? अनर्थकमिदमित्यर्थः। किं कारणमित्याह-- `यावता' इत्यादि। `शिवादिष्वपि' इत्यादिना प्रयोजनं दर्शयति। यदीदं नोच्येत, ततो गर्गादिपाठादाङ्गिरसे यथा यञ् भवति, तथा शिवादिषु पाठादणपि स्यात्। तस्मादाङ्गिरसे यञा शिवाद्यणो बाधनं यथा स्यादित्येवमर्थं पुनर्वचनम्। अथ गर्गादिपाठादेव सिद्धे, आङ्गिरसे नियमार्थमेतदिति कस्मान्नोक्तम् ? अशक्यमेवं वक्तुम्; प्रयोजनाभावे हि नियमार्थं भवति। इह चास्ति प्रयोजनम्, तच्च दर्शितमेव।।
109. लुक् स्त्रियाम्। (4.1.109)
`वातण्ड्यायनी' इति। लोहितादिलक्षणः ष्फः।।
110. अश्वादिभ्यः फञ्। (4.1.110)
`ये त्वत्र' इत्यादि। `एको गोत्रे' (4.1.93) इति वचनाद्गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो नोपपद्यते। तत्र सामर्थ्यादगोत्राधिकारेऽपि ये गोत्रप्रत्ययान्ताः पठ्यन्ते तेभ्यः `गोत्राद्यून्यस्त्रियाम्' (4.1.94) इति यूनि प्रत्ययो विज्ञायते। `शप आत्रेये' इति। शपशब्दात् फञात्त्रेयश्चेद्भवति शापायन आत्त्रेयः, अन्यत्र शापिः। वैल्यशब्दो गोत्रप्रत्ययान्तः, तस्माद्यूनि भवति । विलिर्नाम राजर्षिः, तस्यापत्यं गोत्रम्, `वृद्धेत्कोसलाजादाञ् ञ्यङ्' (4.1.171), वैल्यः, तस्यापत्यं वैल्यायनो युवा। आनडुह्यशब्दोऽपि गोत्रप्रत्ययान्तो गर्गादिषु, य़ञन्तत्वात्; तस्मादपि यून्येव फञ्-- आनडुह्यायनो युवा। स्त्रियां ढगेव भवति-- जाताया अपत्यं जातेयः। `आत्त्रेय भारद्वाजे'इति। आत्त्रेयशब्दात् फञ् भारद्वाजश्चेदपत्यार्थो भवति-- आत्त्रेयायणो भारद्वाजः, अन्यत्र आत्त्रेयिः। `भारद्वाज आत्त्रेये' इति। भारद्वाजशब्दात् फञ् आत्त्रेयेऽपत्यविशेषे-- भारद्वाजायन आत्त्रेयः, अन्यत्र -- ऋष्यण्।।
111. भर्गात्त्रैगर्त्ते। (4.1.111)
112. शिवादिभ्योऽण्। (4.1.112)
`यथायथम्' इति। यथास्वम्। यस्य य इञादिरात्मीयप्रत्ययस्तदपदादोऽण् विधीयते। अथाण्ग्रहणं किमर्थम्, न `शिवादिभ्यः' इत्येवोच्येत ? `शिवादिभ्यः' एतावत्युच्यमाने यथाविहितमिञादिरेव प्रत्ययो मा भूत्, अणेव यथा स्यादित्येवमर्थमिति चेत्; नैतदस्ति; यथाविहितमिञादीन् प्रत्ययान् प्रत्येतद्वचनमनर्थकम्; विनाप्यनेन तत्सिद्धेः। तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति। ननु चासत्यण्ग्रहणे फञः प्रकृतत्वात् तस्यैव विधिर्विज्ञायते ? नैतदस्ति; यदि हि शिवादिभ्यः फञ् विधातुमिष्टः स्यात्, ततोऽश्वादिष्वेव तेषां पाठं कुर्यात्। इदं तर्हि प्रयोजनम्-- अयमुष्टिषेणशब्दः शिवादिषु पठ्यते, तस्य `सेनान्तलक्षणकारिभ्यश्च' (4.1.152) इति ण्यप्रत्ययः प्राप्नोति। तत्रासत्यण्ग्रहणे पुनर्विधानमिदं तद्बाधने कृतार्थमिति ततो यथाविहितमिञेव स्यात्, नाण्; ततोऽणेव यथा स्यादित्यण्ग्रहणम्।
`उदीचामिञं बाधितुम्' इति। `उदीचाम्' (4.1.153) इत्यनेनेञ् प्राप्नोति, ततस्तं बाधितुं तक्षन्शब्दोऽतर् पठ्यते। तथा तर्हि तक्षन्शब्दस्यात्र पाठादुदीचामिञ् बाध्यते, तथा `सेनान्तलक्षणकारिभ्यश्च' (4.1.152) इति यो ण्यस्तस्यापि बाधा प्राप्नोति। ततश्च `ताक्षण्यः' इति न सिध्यति ? इत्याह-- `ण्यप्रत्ययस्य तु बाधो नेष्यते' (इति)। कथमनिष्यमाणमपि न भवति ? सुपिष्टशब्दादिभिः साहचर्यात्। इह यस्तक्षञ्शब्दः सुपिष्टमयूरखरदूरतक्षन्नित्येवं सुपिष्टादिभिः सह पठ्यते, यथा तेषाञ्चेञपवादार्थोऽत्र पाठः, तैः साहचर्यादस्यापीञपवादार्थ एव पाठो विज्ञास्यते। तत्र शिवादीनां प्राग् भूरिशब्दादिञपवादार्थं वचनम्। भूरि, सन्धि, मुनि-- इत्येतेषां `इतश्चानिञः' (4.1.122) इति ढकि प्राप्ते। कुठार, अनभिम्लान-- इत्येतयोः ककुत्स्थ-- इत्येमादीनां प्राग् जरत्कारुशब्दादिञो बाधनार्थम्। जरत्कारुप्रभृतीनां प्राक् सुपिष्टशब्दात् `स्त्रीभ्यो ढक्' (4.1.120) इति ढकि प्राप्ते। सुपिष्टादीनां प्राक् तक्षञ्शब्दादिञः। तक्षन्नित्यस्य कारिलक्षणोदीचामिञः। ऋष्टिषेणस्य सेनान्तलक्षमस्य ण्यस्य च बाधनार्थम्। गङ्गादिपाट्शब्दयोर्यस्मिन्नप्राप्त इह पाठः स वृत्तिकारेणैव व्याख्यातः। यस्कादिभ्यः प्राग् भूमिशब्दादिञि प्राप्ते। भूमिशब्दस्य `इतश्चानिञः' (4.1.122) इति ढकि। इलाशब्दस्यापि `{द्व्यचः इति सूत्रम्} द्व्यचश्च' (4.1.121) इति ढकि। एमेव सपत्नीशब्दस्यापि `स्त्रीभ्यो ढक्' (4.1.120) इति ढक्येव। `द्व्यचो नद्याः' इति। नदीवाचका ये द्व्यचस्तेभ्योऽण् भवति, सन्ध्या-- सान्ध्यम्, कुल्या-- कौल्यम्। ननु चात्र तन्नामिकोऽणस्त्येव ? सत्यमस्ति; स तु `द्व्यचः' (4.1.121) इति ढका बाध्यते। तस्मात् तद्बाधनार्थं वचनम्। `त्रिवेणी त्रिवणञ्च' इति। त्रिवेणीशब्दः प्रत्ययमुत्पादयति, त्रिवणञ्चापद्यते। त्रिवेण्या अपत्यं त्रैवणः।।
113. अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः। (4.1.113)
शास्त्रान्तरे परिभाषितमपि वृद्धमस्ति-- अपत्यमन्तर्हितं वृद्धमिति; इह शास्त्रेऽपि परिभाषितं वृद्धमस्ति `वृद्धिर्यस्याचामादिस्तद्वृद्धम्' (1.1.73) इति, अतो वृद्धप्रतिषेधे कस्यचित् सन्देहः स्यात्-- कस्य वृद्धस्यायां प्रतिषेधः, किंस्वित् यदिह परिभाषितं तस्यायं प्रतिषेधः ? उत यच्छास्त्रान्तरेण परिभाषितं तस्येति ? अतस्तन्निरासाय `वृद्धिर्यस्य' 91.1.73) इत्यादिनेह शास्त्रे यत् परिभाषितं तस्यायं प्रतिषेध इति दर्शयति। कुतः पुनरेतदवसितम्-- इह वृद्धं यत् परिभाषितं तस्यायं प्रतिषेध इति दर्शयति। कुतः पुनरेतदवसितम्-- इह वृद्धं यत् परिभाषितं तस्यायं प्रतिषेध इति ? नदीमानुषीनामधेयस्य गोत्रप्रत्ययान्तस्यासम्भवात्। नदीग्रहणे त्विह लौकिक्येव नदी गृह्यते, न तु पारिभाषिकी। कुत एतत् ? लौकिकार्थवृत्तिना मानुषीशब्देन साहचर्यात्। अथ स्वरूपग्रहणमेव नदीमानुषीशब्दयोः कस्मान्न भवति ? वृद्धप्रतिषेधात्। स्वरूपग्रहणे हि वृद्धप्रतिषेधोऽनर्थकः स्यात्; प्रसङ्गाभावात्। बहुवचननिर्देशाच्च न स्वरूपग्रहणम्। स्वरूपग्रहणे ही नदीमानुषीशब्दयोर्द्वित्वाद्द्विचनेनैव निर्देशं कुर्यात्। `अवृद्धाभ्य्इति शब्दधर्मः स्यात्। यदि तर्ह्यर्थधर्मोऽयम्, कथं नदीमानुषीभ्य इत्यनेन प्रकृतयो निर्दिश्यन्ते, अर्थधर्म एव ह्येवं निर्दिष्टो भवति, न प्रकृतयः? इत्यत आह-- `तेन' इत्यादि। तेनार्थभेदोपचारात्। नदीमानुष्यभिधायिन्यः प्रकृतयो निर्दिश्यन्ते। `प्रत्ययप्रकृतिः' इति। प्रत्ययस्य प्रकृतिरिति षष्ठीसमासः। `ढकोऽपवादः' इति। अवृद्धादीनां नदीनां मनुषीणां नामधेयानां स्त्रीप्रत्ययान्तत्वात्। `वैतस्तः, नार्मदः' इति। वितस्तानर्मदाशब्दाभ्यामण्। `शैक्षितः' इति। शिक्षिताशब्दात्।
`सौपर्णेयः, वैनतेयः' इति। सुपर्णाविनताशब्दौ पक्षिणीनामधेये, न नदीमानुष्यौ। `शौभनेय-' इति। शोभनाशब्दो वर्त्तते नदीमानुष्यर्थः, न तु संज्ञात्वेन, किं तर्हि ? विशेषणत्वेन।।
114. ऋष्यन्धकवृष्णिकुरुभ्यश्च। (4.1.114)
`इञोऽपवादः' इति। ननु चानकारान्तेभ्योऽत्स्त्र्यादिभ्यो ये ढगादयः प्राप्नुवन्ति तदपवाद एव युक्त इत्यत आह-- `अत्त्र्यादिभ्यस्तु' इत्यादि। एकेनादिशब्देन ऋषयो जातसेनादयोऽन्धकादिषु च वर्त्तमाना उग्रसेनादयः, परिगृह्यन्ते, द्वितीयेन ण्यादयः प्रत्ययाः। तत्र ऋष्यणोऽवकाशः-- वासिष्ठः, `इतश्चानिञः' (4.1.122) इति ढकोऽवकाशः--दौलेयः;अत्त्रिशब्दादुभयप्राप्तौ परत्वाद् ढग्भवति-- आत्त्रेयः। ऋष्यणोऽवकाशः स एव, सेनान्तलक्षमस्य ण्यस्यावकाशः-- कारिषेण्यः, हारिषेण्यः;जातसेनो नाम ऋषिः, तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति--- जातसेन्यः। अन्धकाणोऽवकाशः--वासुदेवः, ण्यस्य स एव; शूरसेनो विष्वक्सेनो नाम वृष्णिः, तस्मादुभ्यप्राप्तौ परत्वाण्ण्यो भवति-- शौरसेन्यः , वैष्वक्सेन्यः। कुर्वणोऽवकाशः--नाकुलः,ण्यस्य स एव; उग्रसेनो नामान्धकः,तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति-- औग्रसेन्यः। वृष्ण्यणोऽवकाशः-- वासुदेवः, ण्यस्य स एव; शूरसेनो विष्वक्सेनो नाम वृष्णिः, तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति-- शौरसेन्यः, वैष्वक्सेन्यः। कुर्वणोऽवकाशः--नाकुलः, ण्यस्य स एव; भीमसेनो नाम कुरुः, तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति-- भैमसेन्यः।
`कथं पुनः' इत्यादि चोद्यम्। `केचिदाहुः' इत्यादि चोद्यपरिहारः। `काकतालीयम्' इति। अबुद्धिपूर्वकमित्यर्थः। `सङ्कलिताः' इति। समुच्चिताः। `नित्या एव' इति। अन्धकादीनां वंशानामनादित्वात्।।
115. मातुरुत्संख्यासम्भद्रूपर्वायाः। (4.1.115)
`द्वैमातुरः'इति। प्राक् तद्धितार्थे विषये द्विकुः, पश्चात् तद्धितः। `साम्मातुरः' इति। पूर्वं प्रादिसमासः, पश्चात् तद्धितः।`भाद्रमातुरः' इति। पूर्वं विशेषणसमासः; ततस्तद्धितः।
अथ प्रत्ययार्थ वचनं कस्मान्न भवति ? इत्याह-- `प्रत्ययः पुनः' इत्यादि। उत्सर्गलक्षणेनैव `तस्यापत्यम्' (4.1.92) इत्यनेन। ननु च संख्यादिपूर्वत्वं मातृशब्दस्य विशेषणम्, तत्र मातृशब्दापेक्षया निर्देशः क्रियमाणः पुंल्लिङ्ग एव दृश्यते, तत्कथं `संख्यासम्भद्रपूर्वायाः' इति स्त्रीलिङ्गेन निर्देशः ? इत्यत आह-- `स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः' इति। मातुः शब्दस्य योऽर्थस्तदपेक्षोऽयं निर्देशः, स चार्थः स्त्रीलिङ्गः। तेन स्त्रीलिङ्गेन निर्देशः कृतः। `तेन' इत्यादिनार्थापेक्षस्य फलं दर्शयति। अर्थापेक्षे हि स्त्रीलिङ्गनिर्देशे स्त्रीलिङ्गो यस्यार्थो मातृशब्दस्य , तस्यैव ग्रहणेन भवितव्यम्, तेन धानयमातुर्ग्रहणं न भवति। न हि तस्य स्त्रीलिङ्गोऽर्थः, किं तर्हि ? पुंल्लिङ्गः। धान्यं मिमीते यो भृतकः स धान्यमातेत्युच्यते।
`सौमात्रः' इति। प्राक् प्रादिसमासः। तत औत्सर्गिकोऽण्।।
116. कन्यायाः कनीन च। (4.1.116)
117. विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्त्रिषु। (4.1.117)
अत्र वत्सभरद्वाजास्त्रिशब्दा वात्स्यभारद्वाजात्त्रेयेषु गोत्रविशेषेषु लब्धवृत्तय उपात्ता इति। अत एवाह-- `वैकर्णो भवति वात्स्यश्चेत, शौङ्गो भवति बारद्वाजश्चेत्, चागलो भवत्यात्त्रेयश्चेत्' इति। सा पुनस्तेषां गोत्रापत्ये वृत्तिः कार्ये कारणीपचाराद्वेदितव्या।
`द्वयमपि चैतत् प्रमाणम्' इति। कथं पुनः परस्परविरुद्धमपि प्रमाणं भवति ? इत्याशङ्क्याह-- `उभयथा ह्येतत् सूत्रमाचार्येण प्रणीतम्, तस्मात् को विरोधः।।
118. पीलाया वा। (4.1.118)
119. ढक्च मण्डूकात्। (4.1.119)
120. स्त्रीभ्यो ढक्। (4.1.120)
`इह स्त्रीग्रहणेन टाबादिस्त्रीप्रत्ययान्ताः शब्दाः गृह्यन्ते' इति। अथ स्वरूपग्रहणं कस्मान्न भवति ? बहुवचननिर्देशात्। स्वरूपग्रहणे हि तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यात्। स्त्र्यर्थमात्रस्य ग्रहणं कस्मान्न भवति ? विमातृशब्दस्य स्त्र्यर्थस्य शुभ्रादिषु पाठात्। यद्यत्र स्त्र्यर्थमात्रस्य स्त्रीशब्दस्य ग्रहणं स्यात्, तस्य शुभ्रादिषु पाठोऽनर्थकः स्यात्, अनेनैव ढकः सिद्धत्वात्। `ऐडविडः दारदः' इति। इडविडोऽपत्यं वरदोऽपत्यमित्यणेव भवति। ढगिति वर्त्तमाने ढकः पुनर्ग्रहणं नित्यार्थम्।
`वडवाया वृष वाच्ये' इति। यस्तस्या गर्भे बीजं प्रक्षिपति स वृषो वाडवेय इत्युच्यते।
`अण्क्रुञ्चाकोकिलात् स्मृतः' इति। वृष इति नापेक्ष्यते। अपत्ये विधिरेवायम्। ढकोऽपवादः।।
121. द्व्यचः। (4.1.121)
`तन्नामिकाणोऽपवादः'इति। ये द्व्यचः स्त्रीप्रत्ययान्ता नदीमानुषीनामधेयभूतास्तेभ्यो विशेषविहितत्वात् तन्नामिकाण् भवति। ततस्तद्बाधनार्थं ढग्विधीयते।।
122. इतश्चानिञः। (4.1.122)
123. शुभ्रादिभ्यश्च। (4.1.123)
`यथायोगम्' इत्यादि। ये तावदकारान्तास्तेभ्य इञोऽपवादः। शलाका, कुरेका,अम्बिका, अशोका, खट्वा, पिङ्गला, खण्डोन्मत्ता-- इत्येतेम्पस्तन्नामिकाणः। विधवाशब्दात् क्षुद्रालक्षणस्य ढ्रकः। किंकसा, रोहिणी, अजवस्ति, शकन्धि, कृकलास, सुदत्त, परिधि-- एतेभ्यश्चतुष्पाल्लक्षणस्य ढञः। गोधाशब्दाद् गोधाया ढ्रकः, वचनसामर्थ्यात् सोऽपि भवत्येव। शेषेभ्य औत्सर्गिकोऽण इत्येष यथायोगार्थः। `लक्षणश्यामयोर्वासिष्ठे' इति। लक्षण, श्याम-- इत्येतयोर्वासिष्ठेऽपत्यविशेषे ढग्भवति। लाक्षणेयो वासिष्ठः, लाक्षणिरन्यः। श्यामेयो वासिष्ठः, श्यामायनोऽन्यः। अश्वादित्वात् फञ्।।
124.विकर्णकुषीतकात्काश्यपे। (4.1.124)
125. भ्रुवो वुक्च। (4.1.125)
126. कल्याण्यादीनामिनङ्। (4.1.126)
127.कुलटाया वा। (4.1.127)
कुलन्यटतीति कुलटा। नन्वकः सवर्णे दीर्घत्वे कृते कुलाटेति भवितव्यमित्यत आह-- `पररूपम्' इत्यादि। `पूर्वेणैव' इति।`स्त्रीभ्यो ढक्' (4.1.120) इत्यननैव। व्यवहितेऽपि पूर्वव्यपदेशः प्रवर्त्तते, यथा-- मथुरायाः पाटलिपुत्रं पूर्वमिति।
`कौलटेरः' इति। एयादेशे कृते वलि यलोपः।।
128.चटकाया ऐरक्। (4.1.128)
`चटकाया अपत्यं स्त्री चटका' इति। `लुक् तद्धितलुकि' (1.2.49) इति लुकि कृते पुनष्टाप् कर्त्तव्यः। पुंल्लिङ्गादपि स्त्रियामिष्यत एव लुक्। एवम् `चटकादैरक्' इत्येतत् सूत्रमासीत्, इदानीं प्रमादाच्च `चटकायाः' इति पाठः।।
129. गोधाया ढ्रक। (4.1.129)
`गोधेरः' इति। पूर्ववद्यलोपः।।
130. आरगुदीचाम्। (4.1.130)
`आचार्यग्रहणं पूजार्थम्' इति। ननु चासत्याचार्यग्रहणे नित्य एवायं विधिः स्यात्, तथा चारकः पूर्वेण ढ्रका समावेशो न स्यात्। तद्विकल्पार्थमेवाचार्यग्रहणं कस्मान्न भवतीत्याह-- `वचनसामर्थ्यात्' इति। ढ्रगपि ह्युच्यते, आरगपि, तत्र वचनसामर्थ्यात् समावेशो भविष्यति। तस्मात् पूजार्थमेवाचार्यग्रहणम्। `ज्ञापकं तु' इत्यादि। रका सिद्धे यदारग्वचनं सञ्ज्ञापनार्थम्। तेनैवं ज्ञायते-- अन्येभ्योऽप्ययं भवति;अन्यथा ह्यारग्वचनमनर्थकं स्यात् रकि सिद्धेः। तेन जडस्यापत्यं जाडारः, पाण्डार इति सिद्धं भवति, न ह्येतद्रका सिध्यति।।
131. क्षुद्राभ्यो वा। (4.1.131)
`अर्थधर्मेण' इति। अर्थस्य क्षुद्रत्वात्तदभिधायिन्योऽपि प्रकृतय उपचारेण क्षुद्रा इति निर्दिश्यन्ते।।
132. पितृष्वसुश्छण्। (4.1.132)
133. ढकि लोपः। (4.1.133)
`कथं पुनः' इत्यादि। ढग्विधौ टाबादिस्त्रीप्रत्ययान्तग्रहणात् पितृष्वसृशब्दस्य चास्त्रीप्रत्ययान्तत्वात्। ततो ढको भावमसम्भावयतः प्रश्नः। `एतदेव' इत्यादि। यदेतत् पितृष्वसृशब्दं प्रति ढको निमित्तत्वेनाश्रयणम्, एतदेव पितृष्वसृशब्दत् तस्य भावं ज्ञपायति। न ह्यसतो निमित्तभाव उपपद्यते।।
134. मातृष्वसुश्च। (4.1.134)
`पितृष्वसुरित्येतदपेक्षते'इति। इहापि `अनन्तरस्य पितृष्वसुर्विधिर्वा भवतिप्रतिषेधो वा' इति लोप एवानन्तरः प्राप्नोति, न छण्; व्यवहितत्वात्। उभयमपि चैतदिष्यते, तत्र यतो हेतोरेतद्द्वयमपि लभ्यते तमनेन दर्शयति-- `पितृष्वसुः' इति। एतदिहापेक्ष्यमाणं षष्ठ्यन्तं ज्ञायते यथा लोपविधौ `पितृष्वसुः' (4.1.132) इति च षष्ठी, तेनायमर्थः सम्पद्यते-- पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि तेन छण् ढकि लोपश्च लभ्यते। उभयमपि ह्येतत् पितृष्वसुरुक्तम्।।
135. चतुष्पाद्भयो ढञ्। (4.1.135)
`चतुष्पाद्भ्यः' इति। चत्वारः पाद आसामिति तास्तथोक्ताः। `पादस्य लोपऽहस्त्यादिभ्यः' (5.4.138) इति लोपः। इहाप्यर्थधर्मेण तदभिधायिन्यः प्रकृतयो निर्दिश्यन्ते। अत एवाह-- `चतुष्पादभिधायिनीभ्यः प्रकृतिभ्यः' इति। बहुवचननिर्देशः स्वरूपविधिनिरासाय। `अणादीनाम्' इति। आदिशब्देन ढगादीनां ग्रहणम्। `कामण्डलेयः' इत्यादि। कमण्डलूशुन्तिबाहुजम्बुशब्दाश्चतुष्पाज्जातिवाचिनः,तेषां `ढे लोपोऽकद्रवाः' (6.4.147) इत्युवर्णलोपः।।
136. गृष्टयादिभ्यश्च। 4.1.136)
अणादीनामपवादः। आदिशब्देन ढकः। बहुवचननिर्देशस्तु प्रकृतिभेदेन तयोर्भेदस्य विवक्षितत्वात्। तत्राजवस्तिमित्रयुशब्दयोरणोऽपवादः, शेषाणां `इतश्चानिञः' (4.1.122) इति ढकः।।
137. राजश्वशुराद्यत्। (4.1.137)
`क्षत्रियजातिश्चेत्' इति। प्रत्ययान्तेन यदि क्षत्रियजातिर्गम्यते एवं यद् भवति। यो ह्यपत्यमेव राज्ञो न क्षत्त्रियजातिस्तत्राणेवौत्सर्गिको भवति। एतच्च `वा (4.1.131) इत्यस्येहानुवृत्तस्य व्यवस्थिविभाषात्वविज्ञानाल्लभ्यते। `राजन्यः' इति। `ये चाभावकर्मणोः' (6.4.168) इति प्रकृतिभावः। `राजनः' इति। अत्रापि `अन्' (6.4.167) इति प्रकृतिभावः।।
138.क्षत्त्राद्घः। (4.1.138)
`घप्रत्ययो भवति' इति। घशब्द एव, न तु तरप्तमपाविति वेदितव्यम्। कथं पुनरेतल्लभ्यते,यावता `घः' इति तरप्तमपोरियं संज्ञा, चोच्चरिता संज्ञिनं सम्प्रत्ययायतीति तयोरेव ग्रहणं युक्तम् ? नैष दोषः; प्रत्ययविधौ यत्र `घः' इति श्रूयते,तत्र स्वरूपस्य ग्रहणं भवति; ज्ञापकात्। यदयं प्रत्ययादेर्घकारस्येयादेशं शास्ति, तज्ज्ञापयति-- यत्र प्रत्ययविधौ घः श्रूयते स्वरूपमेव गृह्यत इति। न हि संज्ञिनोर्ग्रहणेन प्रत्ययादेर्घः सम्भवति।।
139. कुलात्खः। (4.1.139)
`उत्तरसूत्रे' इत्यादि। उत्तरसूत्रे हि पूर्वपदप्रतिषेधाद्यस्यां परिभाषायां प्रातिपदिकश्रुतिरस्ति, साऽत्र नोपतिष्ठत इत्येषोऽर्थो ज्ञायते। यदि ह्युपतिष्ठेत, तदा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव (व्या.प.89) स पूर्वपदान्न भविष्यतीत्यपूर्वपदादिति प्रतिषेधोऽनर्थकः स्यात्। सामान्यापेक्षञ्च ज्ञापकम्; तेन `व्यपदेशिवद्भावोऽप्रातिपदिकेन' (शाक.प.65), `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नेष्यते' (व्या.प.89) इत्येतयोरपीह परिभाषयोरुपस्थानं न भवति। ततश्च कुलशब्दान्तं प्रातिपदिकं कुलशब्दो गृह्यते।।
140. अपूर्वपदादन्यतरस्यां यड्ढकञौ। (4.1.140)
ननु पूर्वशब्दोऽवयववचनः; न च कुलशब्दस्य पदान्तरमवयव उपपद्यते; पृथग्भूत्तवात्, अनारम्भकत्वाच्च, ततो व्यपच्छेद्याभावादपूर्वपदादित्युक्तमेतत्कुलशब्दस्य विशेषणम् ? इत्याह-- `समाससम्बन्धि' इत्यादि। समासे सत्येतद्भवति-- पूर्वपदम्, उत्तरपदमिति। तस्मात् समाससम्बन्धिनः पूर्वपद्सयाभावेन कुलशब्दो विशेष्यते-- अविद्यमानं समाससम्बन्धि पूर्वपदं यस्येति। कस्य चाविद्यमानम् ? यः समासस्यान्तभूतो न भवति केवलः कुलशब्दः,तेन केवलात् कुलशब्दादयं विधिरित्युक्तं भवति। अथ व्यवस्थावाच्येव पूर्वशब्दः कस्मान्नाश्रीयते ? अशक्यत्वात्। तत्र ह्याश्रीयमाणेऽविद्यमानं पूर्वपदं यस्मात् कुलशब्दात् सोऽपूर्वपदशब्देनोच्यते। ततश्च देवदत्तः कुल्यो देवदत्तः कौलेयक इति वाक्ये य़ड्ढकञौ न स्याताम्; देवदत्तस्येह पूर्वपदस्य विद्यमानत्वात्। `पदग्रहणं किम्' इति। अपूर्वादित्येवं कस्मान्नोक्तम्, एवमपि हीष्टं सिध्यति, लघु च सूत्रं भवतीति मन्यते। `बहुच्पूर्वपदादपि यथा स्यात्' इति। `अपूर्वात्' इत्युच्यमाने बहुच् पूर्वं यत्प्रतातिपदिकं बहुजस्य पूर्वं इति ततः प्रत्ययो न स्यात्। पदग्रहणे तु सति ततोऽपि भवति; तस्यापूर्वपदत्वात्। `बहुकुल्यः' इति। ईषदसमाप्तं कुलमिति `विभाषा सुपो बहुच् पुरस्तात्तु' (5.3.68) इति बहुच्। बहुकुलस्यापत्यं बहुकुल्यः।।
141. महाकुलादञ्खञौ। (4.1.141)
142.दुष्कुलाड्ढक्। (4.1.142)
143. स्वसुश्छः। (4.1.143)
144. भ्रातृर्व्यच्च। (4.1.144)
`तकारः स्वरार्थः' इति। `तिस्त्वरितम्' (6.1.185) इति स्वरितत्वं यथा स्यात्।
145. व्यन्सपत्ने। (4.1.145)
ननु `नित्यं सपत्न्यादिषु' (4.1.35) इति सपत्नीशब्द एव स्त्रीलिङ्गो व्युत्पादितः, तत्कथं सपत्न इति प्रयोगः पुंलिङ्गस्य युज्यत इत्याह-- `सपत्नशब्दः शत्त्रुपर्यायः' इत्यादि। `इवार्थे' इति। इवार्थः = सादृश्यम्। यथैव हि सपत्नी दुःखहेतुः, तथा शत्त्रुरपीति। यः सपत्नीव सपत्नः स उच्यते।।
146. रेवत्यादिभ्यष्टक्। (4.1.146)
`यथायोगम्' इत्यादि। तत्राद्यानां चतुर्णां स्त्रीप्रत्ययान्तत्वाद् ढकोऽपवादः; वृकञ्चिन्-- इत्यस्याणः, शेषाणामकरान्तत्वादिञः।।
147. गोत्रस्त्रियाः कुत्सने ण च। (4.1.147)
`अपत्यं प्रौत्रप्रभृति गोत्रं गृह्यते' इति। न लौकिकमपत्यमात्रम्, तद्ग्रहणे हि गोत्रग्रहणमनर्थकं स्यात्। अपत्याधिकारादेव तद्ग्रहणस्य लब्धत्वादिति भावः। `पितुरसंविज्ञाने' इति। अप्रसिद्धौ। तस्य पितुरसंविज्ञानप्रदर्शनार्थं मात्रा यो व्यपदेशोऽस्ति तेन कुत्सा स्यात्। `गार्गो जाल्मो गार्गिकः' इति। गर्गशब्दाद्गोत्रे गर्गादियञन्तात् `यञश्च' (4.1.16) इति ङीपि `हलस्तद्धितस्य' (6.4.150) इतिलोपे सति यकारस्य गार्गी इति स्थिते णठकौ। `ग्लौचुकायनः' इत्यादि। ग्लुचकस्यापत्यं गोत्रं स्त्री `प्राचामवृद्धात्' फिन् बहुलम्' (4.1.160) इति फिन्,ततः `इतो मनुष्यजातेः' (4.1.65) इति ङीष्,ततो णठकौ।
`कारिकेयः'इति। कारकशब्दाण्ण्वुलन्ताट्टाप्।कारिकाशब्दोऽयं गोत्रे न वर्त्तते,ततो ढगेव भवति। `औपगविः'इति। उपगोरपत्यं गोत्रं पुमान्,अण्, तदन्तादिञेव भवति। अत्र केनचित् प्रतिषिद्धाचरणादिना कुत्सा वेदितव्या।`गार्गेयो माणवकः' इति। अत्र पितरि विज्ञाते मातुः परिज्ञानार्थं तन्मत्रा व्यपदेशः क्रियत इति नास्ति कुत्सा, तेन ढगेन भवति।।
148.वृद्धाट्ठक्सौवीरेषु बहुलम्। (4.1.148)
`सौवीरेष्विति प्रकृतिविशेषणम्' इति। सौवीरेषु यद्वृद्धं सौवीरगोत्राभिधायि यद्वृद्धमित्यर्थः। `भागवित्तेःट इत्यादि। भगवित्तस्यापत्यं गोत्रम्। `अत इञ' (4.1.95) , तदन्तात् ठक्-- `भागवित्तिकः' । `भागवित्तायनः' इति। `यञिञोश्च' (4.1.101) इति फक्। तृणादिबिन्दोरपत्यमौत्सर्गिकोऽण् तार्णबिन्दवः, ततष्ठक्-- `तार्णबिन्दविकः'। पूर्वसूत्रे ठक् चानुकृष्ट इतीह नानुवर्त्तत इति पुनष्ठग्ग्रहणं ण्सय निवृत्त्यर्थम्। वापूर्वकं हि ठग्ग्रहणं णप्रत्ययेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्।
`भागपूर्वपदो वृत्तिः' इत्यादि। येभ्योऽनेन सूत्रेण ठगिष्यते, त एतेन श्लोकेन परिगण्यन्ते। `भाग' इत्येतत् पूर्वपदं यस्य वृत्तिशब्दस्य स तथोक्तः। अयं तावदेको भागवित्तिः, द्वितीयस्तार्णबिन्दवः, तृतीयस्त्वाकशापेयः-- य एते त्रयः शब्दाः ,गोत्रे ठग्बहुलं तत इति। सौवीरगोत्रवचनान्तात् प्रातिपदिकाद्बहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवित्तिप्रभृतिभ्यस्त्रिभ्यो भवति, नान्येभ्य इत्यर्थः।
अथ वृद्धग्रहणं किमर्थम्, यावता पूर्वसूत्राद्गोत्रग्रहणमनुवर्त्तते, सौवीरग्रहणेनैव विशेषयिष्यामः; यच्चसौवीरगोत्रे वर्त्तते प्रातिपदिकं भागवित्त्यादिकं तद्वृद्धमेव, ततो निवृत्त्यभावादपार्थकं वृद्धग्रहणम् ? इत्याह -- `वृद्धग्रहणम्' इत्यादि। तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तस्मिन्ननुवर्त्तमाने विशेष्यायाः स्त्रिया अनुवृत्तिः स्यात्। तस्मात् तन्निदृत्त्यर्थं वृद्धग्रहणम्। गोत्रग्रहणमेवानुवर्तिष्यते; तस्यैव स्वरितत्वात्, न स्त्रीति-- एतद्व्याख्येयं भवति। व्याख्यानाच्च लघु वृद्धग्रहणमेव।
`औपगविः' इति। अणन्तादिञ्। ननु च परिगणनं कृतम्,तत्कथमौपगवशब्दात् ठक्प्रसङ्गः ? सौवीरग्रहणे सति तत्परिगणनम्। तथा हि-- भागवित्तिप्रभृतयः सौवीरगोत्राभिधायिन एव परिगणिताः। तत्रासति सौवीरग्रहणे औपगवशब्दादपि प्रसज्यते-- `भागवित्तायनः' इति। पूर्ववत् फक्।
अथ बहुलग्रहणं किमर्थम्,न, वाग्रहणमेव क्रियेत,तेनापि हि भागवित्तिको भाघवित्तिकायन इत्यादि सिध्यत्येव ? इत्यत आह-- `बहुलग्रहणम्' इत्यादि। वाग्रहणाद्विकल्पमात्रं लभ्यते, न तूपाधिवैचित्र्यम्। बहुलग्रहणे तु तदपि। तस्मादुपाधीनां विशेषमानां वैचित्र्यम् = नानाप्रकारता यथा स्यादित्येवमर्थं बहुलग्रहणम्। तदेवोपाधिवैचित्र्यं दर्शयितुमाह-- `गोत्रस्त्रिया इत्यारभ्य' इत्यादि। सुखावबोधम्।।
149.फेश्च च। (4.1.149)
`यमुन्दश्च'इत्यादि। येभ्योऽनेन सूत्रेण छठकाविष्येते, तेषामनेन श्लोकेन परिगणनं क्रियते, तत्तु बहुलग्रहणानुवृत्तेरेव लभ्यत इत्येवं तद्वेदितव्यम्। यमुन्दमुद्दिश्य वृत्तिकारेणैवोदाहरणं दर्शितम्। इतरयोस्तु दर्शयामः-- सुयाम्नोऽपत्यं, फिञ्-- सौयामायनिः,तस्यापत्यं सौयामायनिकः। वृषस्यापत्यं,फिञ्, तस्य वार्ध्यायणिः, तस्यापत्यं वार्ष्यायणीयः,वार्ष्यायणिकः। एते यमुन्दादयः शब्दाः फिञः स्मृताः = फिञन्ता विज्ञाताः। `गोत्रस्त्रियाः कुत्सने ण च' (4.1.147) इत्यादयश्चत्वारो योगाः। तत्राद्यः कुत्सन एव, अन्त्यः सौवीरेष्वेव। मध्यमौ तु द्वौ सौवीरेषु कुत्सायाञ्च शब्दवित्स्मरेत् जानीयात्।।
150. फाण्टाहृतिमिमताभ्यां मफिञौ। (4.1.150)
`आल्पाच्तरस्य' इत्यादि। मिमतशब्दोऽयमल्पाच्तरः, तस्य `अल्पाच्तरम्' (2.2.34) इति पूर्वनिपाते प्राप्ते यः परनिपातः स लक्षमव्यभिचारचिह्नं सूचयति। यथेदं पूर्वनिपातलक्षणं व्यभिचरति = स्वविषये न प्रवर्त्तते, तथा यथासंख्यलक्षणमपीति यथासंख्यं न भवति। अत एवैकैकस्मात् प्रत्ययद्वयं सिद्धं भवति।।
151.कुर्वादिभ्यो ण्यः। (4.1.151)
`कौरव्यः' इति। `ओर्गुणः' (6.4.156), `वान्तो यि प्रत्यये' (6.1.79) इत्यवादशः। `कुरुनादिभ्यो ण्यः' इत्यादि। किमर्थं पुनः कुरुशब्दादपरोऽपि ण्यप्रत्ययो भविष्यति, यावतानेनैव सिद्धम्, तदेव हि रूपम्, स एवच स्वरः ? इत्यत आह-- `स तु क्षत्त्रियात्' इति। अनेनार्थभेदं दर्शयति। स हि `जनपदशब्दात् क्षत्त्रियादञ' (4.1.168)इत्यधिकारात् क्षत्त्रियाद्भवति, अयं तु ततोऽन्यतः। ततश्चैकः क्षत्त्रियापत्यो भवति, अपरस्त्वक्षत्त्रियापत्य इति स्पष्ट एवार्थभेदः। रूपविशेषोऽपि बहुषु विद्यत इति दर्शयन्नाह-- `तद्राजसंज्ञकः' इत्यादि। तस्य हि तद्राजसंज्ञकत्वात् `तद्राजस्य बहुषु' (2.4.62) इत्यादिना बहुषु लुका भवितव्यम् -- कुरव इति। अयं तु श्रूयत एव कौरव्या इति।
रथकारशब्दोऽतर् पठ्यते, तत्र रथकारशब्दश्चास्त्येव जातिवचनः, अस्ति च कारिवचनः, तदिह तयोः कतरः पठ्यते ? इत्याह-- `रथकारशब्दोऽत्र पठ्यते' इत्यादि। अथ कारिवचनोऽपि कस्मान्न पठ्यते ? इत्याह-- `कारिणस्तु' इत्यादि। यो हि वचनो रथकारशब्दः, तत उत्तरसूत्रेणैव ण्यः सिद्धः, तत्कित्र तस्य पाठेन !
`पुंवद्भावो न भवति' इति। `भस्याऽढ तद्धिते' (वा.731) इति यः पुंवद्भावः प्राप्नोति, स केशिनी शब्दस्य न भवति। यदि स्यात्, `नस्तद्धिते' (6.4.144) इति टिलोपे कृते `कैश्यः' इत्यनिष्टं रूपं स्यात्। कस्मान्न भवति ? इत्याह-- `स्त्रीप्रत्ययस्य निर्देशसामर्थ्यात्' इति।यदि हि पुंवद्भावः स्यात्, स्त्रीप्रत्ययेनास्य निर्देशोऽनर्थकः स्यात्, पुंल्लिङ्गमेवैनं पठेत्। पुंल्लिङ्गस्यापि पाठे लिङ्गविशिष्टपरिभाषया केशिनीशब्दादपि प्रत्ययः सिध्यति। ननु च पुंल्लिङ्गनिवृत्त्यर्थः स्त्रीप्रत्ययान्तस्य पाठः स्यात् ? नैतदस्ति; अभिधानादेव हि पुंल्लिङ्गान्न भविष्यति।
`तस्य कण्वादिवत्'इति। अपत्याधिकारेऽयमतिदेशो भवन् कण्वादिभिरपत्यप्रत्ययान्तैर्विज्ञायते। कण्वादयश्च गर्गाद्यन्तः पातिनः, तेन यञन्तानां कण्वादीनां यत्कार्यं तद्वामरथ्यस्य स्वरवर्जं भवतीत्ययं भवति। `लुगादिकम्' इति। आदिशब्देन ङीबादिकं गृह्यते। कण्वादीनमपत्यप्रत्ययस्य `यञञोश्च' (2.4.64) इति बहुषु लुग्भवति। स्त्रियां `यञश्च' (4.1.16) इति ङीप्। `प्राचां ष्फ तद्धिते' (4.1.17) इतिष्फ प्रत्ययः
स्त्रियामेव। `यञिञोश्च' (4.1.101) इति फक्। शैषिकेष्वर्थेषु `कण्वादिभ्यो गोत्रे' (4.2.111) इत्यण् `तस्येदम्' (4.3.120) इत्यर्थविवक्षायाम्। `सङ्घाङ्कलक्षणेष्वञ्यञिञाम्' (4.3.127) इत्यण्। एतानि कार्याणि यथा कण्वादीनां भवन्ति तता वामरथ्यस्यापि। एषां `वामरथा' इत्यादीनि यथाक्रममुदाहरणानि। `नातिदेशिकमाद्युदात्तत्त्वम्' इति। यथा कण्वादीनां यञन्तानां ञित्स्वरेणाद्युदात्तत्वं, न तथा वामरथ्यस्य, किं तर्हि ? प्रत्ययस्वरेणान्तोदात्तत्वमेव भवति। `सम्राजः क्षत्त्रिये' इति। सम्राजः क्षत्त्रिये ण्यो भवति, सम्राजोऽपत्यं साम्राज्यः। अन्यत्राणेव-- साम्राजः।।
152. सेनान्तलक्षमकारिभ्यश्च। (4.1.152)
अत्र ग्रहणवता प्रातिपदिकेन तदन्तविधि (व्या.प.89) प्रतिषेधाल्लक्षणशब्दस्य स्वरूपग्रहणम्। अत एवाह-- `लक्षणशब्दात्' इति। कारीत्यर्थग्रहणम्। तत्रार्थे कार्यस्याभावात् तद्वाचिनः प्रत्ययो विज्ञायत इत्याह-- `कारिवचनेभ्यश्च' इति।यथा लक्षणशब्दस्य स्वरूपग्रहणं तथा कारिशब्दस्य कस्मान्न भवति ? शिवादिषु तक्षन्निति पाठात्। अस्य हि कारिलक्षणमिञं बाधितुं तत्र पाठः। यदि च कारिशब्दस्येह स्वरूपग्रहणं स्यात्, तक्षन्शब्दादिभ्यः प्राप्तेरसम्भवादुत्सर्गेणैवाणा भवितव्यमिति तस्य शिवादिषु पाठोऽनर्थकः स्यात्। अर्थग्रहणे त्वनेन प्राप्तस्येञो बाधनार्थस्तत्र पाठो युज्यते।।
153. उदीचामिञ्। (4.1.153)
`वचनसामर्थ्यात्' इत्यादि। ण्योऽप्युच्यते, इञपि, वचनसामर्थ्यादेवान्तरेणाचार्यग्रहणं तयोः समावेशे सिद्धे तदाचार्यग्रहणं क्रियते तद्वैचित्र्यार्थम्। आचार्यग्रहणस्यातिरिच्यमानत्वादयमर्थो लभ्यते, ग्रन्थाधिक्यादर्थाधिक्यं भवतीति कृत्वा। ननु च पूजार्थमाचार्यग्रहणं स्यात् ? नैतदस्ति; एवं हि प्राचामपि ग्रहणं कर्त्तव्यं स्यात्। तेऽपि हि सेनान्तलक्षणकारिभ्य इञं स्मरन्ति। `तक्षन्शब्दः' इत्यादिना वैचित्र्यं दर्शयति। `ताक्ष्णः' इति। शिवाद्यणि कृते `षपूर्वहन्धृतराज्ञामणि' (6.4.135) इत्यल्लोपः। `ताक्षण्यः' इति। `ये चाभावकर्मणोः' (6.4.168) इति प्रकृतिभावः।।
154. तिकादिभ्यः फिञ्। (4.1.154)
`कौरव्यशब्दः पठ्यते' इत्यादि। कौरव्यशब्दोऽयमस्त्येव क्षत्त्रियगोत्रवचनो यः `कुरुनादिभ्यो ण्यः' (4.1.172) इति ण्यप्रत्ययान्तः; तयोरिह पूर्वो गृह्यते। कुत एतत् ? औरसशब्देन साहचर्यात्। औरसशब्दोऽयं `जनपदशब्दात् क्षत्त्रियादञ्' (4.1.168) इत्यञ्प्रत्ययान्तः, तेनासौ क्षत्त्रियवचनः, तत्साहचर्याच्चकौरव्यशब्दो यः क्षत्त्रियप्रत्ययान्तत्वात् क्षत्त्रियवचनः स एव गृह्यते।
`यस्तु' इत्यादि। यस्तु `कुर्वादिभ्यो ण्यः' (4.1.15)। इति ण्यप्रत्ययान्तो ब्राह्मणादिगोत्रवचनः, तस्मात् `अत इञ्' (4.1.95) इदीञैव भवितव्यम्, तत्रैतत् स्यात् ? स्वमनीषिकेयं भवत इत्याह-- `तथा च' इत्यादि। यत एवं ब्राह्मणादिगोत्रवचनादिञैव भवितव्यम्। तथा हि ण्यक्षत्त्रियादि (2.4.58) सूत्रे पूर्वेरपि वृत्तिकारैः--- कौरव्यः पिता, कौरव्यः पुत्र इत्युदाहृतम्। यदि चातः फिञ् स्यात् तदुदाहरणं न युज्येत।न हि ण्यप्रत्ययान्ताद्विहितस्य फिञो यूनि लुगुच्यते, अपि त्वणिञोः।।
155.कौशल्यकार्मार्याभ्याञ्च। (4.1.155)
`परमप्रकृतेरेवायं प्रत्यय इष्यते' इति। कोशलशब्दात्, कर्मारशब्दाच्च। एवकाः `वृद्धेत्कोशलाजादाञ्ञ्यङ्' (4.1.171) इति ञ्यङन्तो यः कौशल्यशब्दः, यश्च `सेनान्तलक्षणकारिभ्यश्च' (4.1.152) इति कारिलक्षणण्यप्रत्ययान्तः कर्मार्यशब्दः तयोर्व्यवच्छेदाय।
यदि मूलप्रकृतेरेवेष्यते, कथमिदं विकृतं प्रकृतिरूपं श्रयूते ? इत्याह-- `प्रत्ययसन्नियोगेन' इत्यादि। न चेयं स्वमनीषिका, अपि त्वाचार्यणामेव भाष्यकारप्रभृतिीनामिदं मतमिति दर्शयन्नाह-- `तथा च' इत्यादि। कः पुनः परमप्रकृतेः प्रत्ययान्ताद्वत्पत्तौ विशेषः ? परमप्रकृतेरुत्पत्तावपत्यमात्रे प्रत्ययो लभ्यते, प्रत्ययान्तात् तूत्पत्तौ `गोत्राद्यूनि' (4.1.94) इति वचनात् `यून्यपत्ये' इत्येव विशेषः। `युड् वादिष्टस्य' इति। आदिष्टग्रहणमायन्नादेशए कृते यथा स्यादित्येवमर्थम्; अन्यथा ह्यनादित्वादायन्नादेशो न स्यात्। `दागव्यावनिः' इति। `ओर्गुणेः' (6.4.146) कृते `वान्तो यि प्रत्यये' (6.1.79) इत्यवादेशः।।
156. अणो द्व्यचः। 94.1.156)
`कार्त्रायणिः' इति। कर्त्तुरपत्यमित्यण्--- कार्त्रः, ततः फिञ्। ` दाक्षायणः' इति। दाक्षिशब्दादिञन्ताद्यूनि पञिञोश्च' (4.1.101) इति फक्। प्रतिपादनादि सुगमम्।।
157.उदीचां वृद्धादगोत्रात्। (4.1.157)
`वृद्धात्' इति। इहैव यत्पारिभाषिकं वृद्धं तद्गृह्यते, न शास्त्रान्तरप्रसिद्धम्, अगोत्रादिति प्रतिषेधात्। `कारिशब्दात्' इत्यादि। कारिलक्षणस्येञोऽवकाशः-- तान्तुवायिरिति, फिञोऽवकाशः--आम्रगुप्तायनिरिति; इहोभं प्राप्नोति-- नापितायनिरिति, परत्वात् फिञेव भवति।।
158. वाकिनादीनां कुक्च। (4.1.158)
`यदिह वृद्धमगोत्रम्' इति। वाकिनशब्दादिकाकपर्यन्तम्। `इञाद्यपवादो योगः' इति। आदिशब्देनाणो ग्रहणम्। तत्र चर्मिवर्मशब्दयोरणोऽपवादः शेषाणामिञः।
`चमिवर्मिणोर्नलोपश्च' इति। चर्मिन्, वर्मिन्-- इत्येतयोः कुक्फिञौ भवतः, नलोपश्चेति। कुकि कृते प्रातिपदिकस्यानकारान्तत्वान्नलोपोऽत्र न प्राप्नोतीति विधीयते-- चार्मिकायणिः,वार्मिकायणिः।।
159. पुत्रान्तादन्यतरस्याम्। (4.1.159)
`तेन' इत्यादि। वचनात् पूर्वसूत्रेणैवोदीचां मतेन यः पक्षे फिञ् विहितस्तस्मिन्ननेनान्यतरस्यां कुगागमोऽपि विधीयते।तेन त्रीणि रूपाणि भवन्ति।।
160.प्राचामवृद्धात्फिन्बहुलम्। (4.1.160)
`विकल्पार्थः' इति। विकल्पप्रयोजनाय। `एकेनैव सिध्यति' इति। विकल्पार्थत्वादिति।प्रकृतत्वाद्विकल्प इति गम्यते। अत्र च किमर्थं सर्वेषां ग्रहणमित्यध्याहार्यम्। तत्रेत्याद्युत्तरम्। यच्चोदीचांग्रहणं यच्च प्राचांग्रहणम्, तदुभयं पूजार्थम्। `बहुलग्रहणं वैचित्र्यार्थम्' (इति)। पारिशेष्यादन्यतरस्यांग्रहणं विकल्पार्थमित्युक्तं भवति। `क्वचित्' इत्यादिना बहुलग्रहणस्य वैचित्र्यार्थतां दर्शयति।।
161. मनोर्जातावञ्यतौ षुक् च। (4.1.161)
`तथा च' इत्यादि । यस्मादपत्यार्थोऽत्र नास्ति, एवञ्च कृत्वा मानुषा इति बहुषु लुग्न भवति। अपत्यार्थे तु सति `यञञोश्च' (2.4.64) इति बहुषु लुक् प्रसज्येत।
`अपत्ये कुत्सिते' इत्यादि। मूर्धन्योपसंख्यानपरोऽयं श्लोकः। अण्प्रत्ययोऽपत्यविवक्षायाम् `तस्यापत्यम्' (4.1.92) इत्येनैव सिध्यति। ननु च मूर्धन्योऽपि च बहुलग्रहणानुवृत्त्या सिध्यत्येव ? एवं तर्हि बहुलग्रहणानुवृत्तेर्लभ्य एवार्थः श्लोकेन कथ्यते। स चापि मूर्धन्यो विशिष्ट एव विषये मूढादावपत्ये भवति, न सर्वत्र। अनधीतवेदत्वदज्ञो मूढः। मूढत्वादेव प्रतिषिद्धाचरणाद्वा कुत्सितो यः स ब्राह्मणजातीयो माणव उच्यते।।
162. अपत्यं पौत्रप्रभृति गोत्रम्। (4.1.162)
प्रभृतिशब्द आदिशब्दस्यार्थे। पौत्रः प्रभृतिर्यस्येति बहुव्रीहिः। यदि पौत्रप्रभृति यदपत्यं तद्गोत्रसंज्ञं भवति, गर्गस्यापि गोत्रसंज्ञा प्राप्नोति, सोऽपि कञ्चित् प्रति पौत्रो भवत्येव। सत्याञ्च गोत्रसंज्ञायां गोत्रशब्दादनन्तरापत्ये प्रत्ययो न प्राप्नोतीति चोद्यमाशङ्क्याह-- `सम्बन्धिशब्दत्वात्' इत्यादि। गोत्रसंज्ञा ह्यपत्यस् पोत्रप्रभृतेर्विधीयते। ते च यस्चापत्यमिति सम्बन्धिशब्दोऽसौ नियोगतोऽपत्यवन्तमपेक्षत। तेन तस्य यदपत्यं तदपेक्षया गोत्रसंज्ञा विधीयते। न च यस्य गर्गः पोत्रस्तस्यासौ गर्गोऽप्तयमिति शक्यते व्यपदेष्टुम् ; अपत्यत्वस्य तत्राप्रतिभासनात्। अप्रतिभासनं पुस्तस्तस्य द्वतोऽविवक्षितत्वात्। यदपि हि तत्रापत्यत्वं तदप्यविवक्षितस्वरूपेण नाख्यातम्, ततोऽपत्यस्य पोत्रप्रभृतेर्विधीयते। अतः स्वरूपेण प्रतिभासमानो न भवति गर्गस्य गोत्रसंज्ञायाः प्रसङ्गः।`गर्गस्य पौत्रप्रभृति' इति। गर्गसम्बन्धि पौत्राद्यपत्यं गार्ग्य इति गोत्रसंज्ञायां सत्यां `गोत्रे कुञ्जादिभ्यश्च्फञ्' (4.1.98) इत्यतो गोत्र इत्यनुवर्त्तमाने `गर्गादिभ्यो य़ञ्' (4.1.105) इतिगोत्रेऽपत्ये यञ् भवति। `अपत्यमिति व्यपदेशोऽयम्' इति। संज्ञिन इति शेषः। तच्चोत्तरसूत्र इत्यभिप्रायः। इह तु पौत्रस्यापत्यत्वाव्यभिचारात् तदपत्यमेव प्रत्ययान्तैः विज्ञायत इति नार्थः संज्ञिव्यपेदशार्थेनापत्यग्रहणेन। उत्तरसूत्रे तु पौत्रप्रभृत्येतत् षष्ठ्यन्तं विपरिणम्य पौत्रप्रभृतेः सम्बन्धिनोऽपत्यस्य युवसंज्ञेष्यते, सा चापत्यग्रहणमन्तरेण न लभ्यते। अन्यदपि ह्यपत्यात् पौत्रप्रभृतेः सम्बन्ध्यस्ति, तत्र न ज्ञायते-- कस्येयं संज्ञेति ? अतस्तत्र संज्ञिनो व्यपदेशाय युक्तमपत्यग्रहणमित्येके।
इह तु संज्ञिव्यपेदशार्थं युक्तमपत्यग्रहणं पश्यामः। असति ह्यपत्यग्रहणे सम्ब्नधिशब्दत्वादपत्यशब्दस्येत्यादि यदुक्तं चोद्यनिरासाय तदघटमानं स्यात्। ततश्च गर्गस्यापि गोत्रसंज्ञा स्यादेव। तस्मादिहापि संज्ञिव्यपेशायापत्यग्रहणं कर्त्तव्यमेव, अपत्यरूपेण प्रतिभासमानस्य संज्ञा यथा स्यात्।
`अन्यस्य मा भूत्' इति। ननु च तस्मादेव तत्प्रकृतमपत्यग्रहणं तदेव संज्ञिव्यदेशाय भविष्यति, तत् किमपरेणापत्यग्रहणेन ? नैतदस्ति; तद्धि प्रत्ययार्थतया प्कृतं कथं संज्ञिनो व्यपदेशाय स्यात्; स्यादेतत् यद्यपि तत्प्रत्ययार्थे कृतं तथापि तस्येहानुवृत्तस् तत्प्रयोजनं नास्तीत्यतः संज्ञिव्यपदेशाय विज्ञास्यत इति ?एतच्च नास्ति; उत्तरार्थं ह्यधिकाराणामनुवृत्तिर्दृश्यते,व्याख्याऩञ्चैवं कर्त्तव्यं स्यात्, व्याख्यानाच्च वचनमेव लघुतरमित्यपत्यग्रहणं कर्त्तव्यम्। `कौञ्जि-, गार्गिःर' इति। अनन्तरस्य गोत्रसंज्ञाया अभावात् `गोत्रे कुञ्जादिभ्यश्च्फञ्' (4.1.98), `गर्गादिभ्यो यञ्' (4.1.105) इति यश्च गोत्रे विधीयमानो न स भवति।।
163. जीवति तु वंश्ये युवा। (4.1.163)
`अभिजनप्रबन्धः' इति। अभजनाः = पितामहादयः, प्रबन्धः = सन्तानः, तत्र भवो वंश्य इति दिगादित्वाद्यत्। `पौत्रप्रभृत्यपत्यम्' इति। षष्ठीसमासः। `पौत्रप्रभृतीति च' इत्यादि। यदि पौत्रप्रभृतीत्येतत् सामानाधिकरण्येनापत्यं विशेषयेत् पौत्रप्रभृति यदपत्यमिति तदारभ्य युवसंज्ञा स्यात्, तच्चानिष्टम्। तस्मान्नैतत् सामानाधिकरण्येनापत्यस्य विशेषणम् किं तर्हि ? अर्थाद्विभवनक्तविपरिणामे कृते षष्ठ्यन्ततामापन्नं वैयधिकरण्येन पौत्रप्रभृर्यदपत्यमिति, तथा सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह-- `तेन' इत्यादि। यत एवं विभक्तिविपरिणामे कृते पौत्रप्रभृतीत्यनेन षष्ठ्यन्तेनापत्यं विशेष्यते तेन चतुर्थादारभ्य युवसंज्ञा विधीयते, तस्य च विभक्तपरिणामस्यापत्यं हेतुः। अपत्यशब्दो हि सम्बन्धिशब्दत्वनाद्धेत्वाद्यपेक्षते,तत्र षष्ठ्या हेतुर्भवति। सन्निहितत्वाच्च। पौत्रप्रभृति तस्येत्येतदेवापेक्षते, ततस्तत्रैव षष्ठीं प्रकल्पयति।यदि तर्ह्यपत्यग्रहमसामर्थ्यात् पौत्रप्रभृतेः षष्ठीविपरिणामो भवति, पूर्वसूत्रेऽपि कस्मान्न भवति ? तत्र प्रथमाया अनवकाशत्वात्। पूर्वसूत्रे ह्यकृतार्था प्रथमा, ततो न शक्यते तस्याः षष्ठीं विपरिणमयितुम्। इह तु कृतार्था शक्यते षष्ठीभावेन विपरिणमयितुम्। `गार्ग्यायणः' इति। इह युवसंज्ञायां सत्यां `गोत्राद्यून्यस्त्रियाम्' (4.1.94) इति गोत्रप्रत्ययान्ताद्यूनि प्रत्ययो भवति। `तु शब्दोऽवधारणार्थः' इति। कः पुनः संज्ञासमावेशे दोषः कथ्यते ? शालङ्केरपत्यं युवा `यञिञोश्च' (4.1.101) इति फक्, पैलस्यापत्यं युवा `अणो द्व्यचः'(4.1.156) इत फिञ्,तयोः `पैलादिभ्यश्च' (1.4.59) इति लुगुच्यते-- शालङ्किर्युवा, पैलो युवेति। यदि च गोत्रयुवसंज्ञयोः समावेशः स्यात् तदा शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायां प्राग्दीव्यतीयेऽजादौ प्रत्यये विषयभूते गोत्रादयः `गोत्रेऽलुगचि' (4.1.89) इत्यलुक् स्यात्। ततस्तस्माद्यूनो गोत्रसंज्ञा मा भूदित्यवधारणार्थस्तुशब्दः क्रियते।।
164. भ्रातरि च ज्यायसि। (4.1.164)
भ्रातृशब्दस् सम्बन्धिशब्दत्वाद्यदपेक्षं भ्रातृत्वं मेव भ्रातरं संज्ञित्वेनोपक्षिपति। ज्यायानिति प्रशस्यतरोवृद्धतरश्चाभिधीयते। तस्य च ज्यायस्त्वं गुणैर्वयसा वा। युवानं प्रतियोगिनमपेक्ष्य भवतीति स एव ज्यायसीत्यनेन प्रतियोगी प्रत्युपस्थाप्यते। तेन भ्रातुरेव कनीयसः संज्ञा विज्ञास्यत इति मत्वाह-- `कनीयान् भ्रातः यवसंज्ञो भवति' इति। `पूर्वजाः' इत्यादिना अवंश्यार्थतामारम्भस्य समर्थयते। `अकारणत्वात्' इत्यनेनापि भ्रातुरवंश्यत्वम्। यो हि साक्षात् पारम्पर्येण वा कारणं स वंश्यः, न च भ्राता कारणम्, तस्मादसौ वंश्यो न भवतीति।। गार्ग्ये जीवति भ्रातरि जीवतीत्यर्थः। एवं वात्स्ये जीवति वात्स्यायनोऽस्य कनीयान् भ्राता, दाक्षौ जीवति दाक्षायणोऽस्य कनीयान् भ्राता वेदितव्यः।।
165. वान्यस्मिन् सपिण्डे स्थविरतरे जीवति। (4.1.165)
`सप्तमपुरुषावधयः' इति। सप्तमः पुरुषोऽवधिर्येषां सपिण्डानां ते तथोक्ताः समानपिण्डाः,निपातनात् सभावः, `समानस्य' (6.3.84) इति योगविभागाद्वा। तस्य च योगविभागस्यैतल्लिङ्गम्, तेन सपिण्डाः शास्त्रेष्वा सप्तमात्पुरुषात्। परेण ये ते सपिण्डा नोच्यन्ते। `येषाम्' इत्यत्याधिकार इति परेण सम्बन्धः।
`उभयत्र' इति। जन्मनि मरणे च। `इत्येवमादिकायाम्' इति। आदिशब्देन निवृत्त्य्ादिकाः क्रियाश्च गृह्यन्ते। तथा चोक्तम्---
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्त्तते।। इति।।
`जीवति' इति। सप्तम्येकवचनमेतत्। प्रथमायाश्च स्थाने सुब्व्यत्ययेन सप्तमी विहिता, अत एवाह-- `जीवदेव' इति। `तरब्निर्देशः' इत्यादि। असति हि तरब्निर्देशे स्थविरशब्दाद्वयःप्रकर्षमात्रं गम्यते, तरपा तु स्थानप्रकर्षोऽपि गम्यते। तस्मादुभयोरुत्कर्षार्थस्तरब्निर्देशः कृतः। `पितृव्ये पितामहे भ्रातरि च' इति । द्वावप्येतौ स्थानत उत्कृष्टौ। स्थानशब्देन चेह सम्बन्धविशेष उच्यते; अनेकार्थत्वाद्धातूनाम्।
`गार्ग्य एव भवति' इति। न गार्ग्यायणः।युवसंज्ञायामसत्यां युवप्रत्ययस्य फकोऽनुत्पत्तेः । `मृते' इति। स्थविरतरे सपिण्डे। `मृतो वा' इति। पौत्रप्रभृतिरप्यत्र मृतोऽर्थः।।
166. वृद्धस्य च पूजायाम्। (4.1.166)
`अपत्यमन्तर्हितम्' इत्यादिना शास्त्रान्तरेण परिभाषितं यद्वृद्धं तत्परिगृह्यते, न तु यदिह शास्त्रे परिभाषितं तदिति दर्शयति। कुतः पुनरेतदवगतम्-- शास्त्रान्तरपरिभाषितमिह वृद्धत्वं गृह्यत इति ? अपत्याधिकारात्। शब्दात्मकस्य वृद्धस्यापत्त्वासम्भवाद्विज्ञायते। `पूजायां गम्यमानायाम्' इति। का पुनरिह पूजा विवक्षिता ? युवत्वमेव। तद्धि लोके सर्वप्राणिनामभिमतम्। ननु च नेह युवशब्दो वयः पदार्थक एवायं युवशब्दो गोत्रे वर्तिष्यते। `संज्ञासामर्थ्यात्' इत्यादिना संज्ञाप्रणयनस्य प्रयोजनं दर्शयति। गोत्रप्रत्ययेनाभिहितमपि गोत्रम्। संज्ञासामर्थ्यात् पुनर्युवप्रत्ययो विधीयते गार्ग्यायण इति। अथ किमर्थं वृद्धस्येति षष्ठ्या निर्देशः क्रियते, न वृद्धमिति प्रथमान्तं निर्दिश्यते,एवं हि लघु सूत्रं भवति ? इत्याह-- `वृद्धस्य' इत्यादि। इतिकरणो हेतौ। यस्माद्विचित्रा सूत्रस्य कृतिः; तस्माद्वृद्धस्येति षष्ठ्या निर्देशः। एवं हि सूत्रे कृते वैचित्र्यं सम्भवतीत्यभिप्रायः।`तत्र भवान् गार्ग्यायणः' इति। तत्रभवच्छब्दस्य पूजावचनस्य प्रयोगेण पूजां गमयतीति।।
167. यूनश्च कुत्सायाम्। (4.1.167)
ननु च युवसंज्ञा पूर्वमेवाभिनिर्वृत्ता,यदाह-- `यूनश्च' इति।न ह्यसत्यां तस्यामयं निर्देश उपपद्यते, तदभिनिर्वृत्तायास्तस्याः पुनर्विकल्पेन विधानमनुपपन्नमित्यत आह-- `निवृत्तिप्रधानो विकल्पः' इति। नायं विधिप्रधानो विकल्पः, किं तर्हि ? प्रतिषेधप्रतिपादनपर इत्यर्थः। सिद्धायां प्रतिषिद्धायां गोत्रसंज्ञा वक्तव्याः; अन्यथा यूनो गोत्रप्रत्ययेनाभिधानं न स्यात् ? इत्यत आह-- `युवसंज्ञायाम्' इत्यादि। गोत्रसंज्ञाया युवसंज्ञा प्रतिपक्षः प्रत्यनीकः। सा चेन्निवृत्ता गोत्रसंज्ञैव प्रवर्त्तते; प्रतिपक्षाभावात्, अतो न वक्तब्गेति भावः। `गार्ग्यो जाल्मः'इति। जाल्मशब्दस् कुत्सावचनस् प्रयोगेण कुत्सां गमयति। कुत्सा पुनरिह यूनो वृद्धतयाभिधानस्यैवानभिमतत्वात्। अत एवाकुत्सिते युवेति वाक्यार्थं पदमन्वाख्यायते। सा च कुत्सा याऽन्या वा ततो वेति विशेषो नाश्रीयते, यथा-- कदन्नादिविषये देवदत्तादीनाम्।।
168. जनपदशब्दात्क्षत्त्रियादञ्। (4.1.168)
जनपदवृत्तिशब्दः पञ्चालादिर्जनपद इत्युक्तः,क्षत्रियवृत्तिः क्षत्रिय इत्यभिधानेऽभिधेयोपचारात्, साहचर्याद्वा। ननु पञ्चालादयः शब्दाः, ते `तस्य निवासः' (4.2.69) इति तद्धिते कृते तस्य `जनपदे लुप्' (4.2.81) इति लुपि च जनपदे वर्त्तन्ते, तत् कथमवरकालया जनपदशब्दतया नित्याः क्षत्रियशब्दा विशेष्यन्ते ? कथं पुनः क्षत्त्रियसम्बन्धादेते जनपदे वर्त्तन्त इत्येतदभिधातुमर्हति विद्वान्। सूत्रकारेण हि `तदशि,्यं संज्ञाप्रमाणत्वाल्लुव्योगाप्रख्यानात्' (1.2.53,54) इतियुक्तवद्भावं लुपञ्च प्रत्यादिशता जनपदे क्षत्त्रियेष्विव स्वत एव पञ्चालादिशब्दस्य वृत्तिरुक्ता। यथा शब्दा नित्यास्तथा पञ्चालादिरपि जनपद इति कुतो जनपदवचनानताया अवरकालता !`पाञ्चालः' इत्यादि। पञ्चालादयः शब्दा देशे सन्तः क्षत्त्रियवाचिनोऽपि भवन्ति स्वभावत एव, तेभ्योऽपत्यार्थेऽञ्। `ऐक्ष्वाकः' इति। इक्ष्वाकुशब्दस्य `दाण्डिनायनहस्तिनायन' (6.4.174) इत्यादौ सूत्रे उकारलोपो निपातितः।
`द्रौह्यवः' इति। द्रह्युशब्दः क्षत्त्रियवचन एव, न जनपदशब्दः, तेनाणेव भवति। `पाञ्चालिर्वैदेहिः' इति। इह पञ्चालविदेहशब्दौ भवतो जनपदशब्दौ, न तु क्षत्त्रियवचनौ। अपि तु ब्राह्मणवचनो, तेनेञेव भवति।
`क्षत्त्रियसमानशब्दात्' इत्यादि। क्षत्त्रियवचन एव शब्द उपचारेण क्षत्त्रिय इत्युक्तः जनपदशब्दो जनपद इति। क्षत्त्रियेण समानः शब्दो यस्य स तथोक्तः। तस्मात् क्षत्त्रियसमानशब्दादस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत् प्रत्ययोत्पत्तिरिति वक्तव्यम्। `अवृद्धादपि बहुवचनविषयात्' (4.2.125) (इति) प्राप्तस्य वुञोऽपवादः। यथा पञ्चालस्यापत्यमित्यत्र भवति पाञ्चालः, तथा प़ञ्चालानां राजा पाञ्चाल इत्यत्रापि भवति।`मागधः' इति। मगधशब्दादपत्ये `द्व्यञ्मगध' (4.1.170) इत्यादिनाण् भवति, तथा तस् यराजेत्यत्रापि।।
169. साल्वेयगान्धारिभ्याञ्च। (4.1.169)
170. द्व्यञ्गमधकलिङ्गसूरमसादण्। (4.1.170)
171. वृद्धेत्कोशलाजादाञ्ञ्यङ्। (4.1.171)
वृद्धग्रहणेनेह `वृद्धिर्यस्याचामादिस्तद्द्वृद्धम्' (1.1.73) इति गृह्यते, तस्यैव हि जनपदशब्दता क्षत्त्रियवाचित्वं च सम्भवति, न शास्त्रान्तरपरिभाषितस्य। `आम्बष्ठ्यः सौवीर्यः' इति। आम्बष्ठसौवीरशब्दाभ्यां ञ्यङ। `आवन्त्यः, कौन्त्यः' इति। अवन्तिकुन्तिशब्दाभ्यां ञ्यङ। `कौमारः' इत्यत्राञ् भवति। `ड्यण् वक्तव्यः' इति। क्षत्त्रियञ्यङोऽपवाद इति, डकारष्टिलोपार्थ इति। स च `वान्यस्मिन् सपिण्डे'(4.1.165) इत्यतो मण्डूकप्लुतिन्यायेन वेत्यनुवृत्तेर्लभ्यते। तथैवमतिप्रसङ्गो भवति ? व्यवस्थितविभाषात्वात् स न भविष्यति। `अन्यस्मात् पाण्डवः' इति। यः पाण्डुशब्दः क्षत्त्रिये वर्त्तते,तस्मादौत्सर्गिकेऽणि कृते पाण्डव इति भवति।।
172. कुरुनादिभ्यो ण्यः। (4.1.172)
अञणोरपवादः। कुरुशब्दस्यतु द्व्यज्लक्षणस्याणः। कुरुशब्दात् `कुर्वादिभ्यो ण्यः' (4.1.151) इति पूर्वमपत्ये उक्तः। तस्य यो जनपदशब्द क्षत्त्रियो न भवति सोऽवकाशः, यस्तु जनपदशब्दः क्षत्त्रियस्तस्मात् परत्वादञि तदपवादो द्व्यज्लक्षणोऽण् स्यात्। अतस्तं बाधितुं पुनर्ण्यो विधीयते।।
173. साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्। (4.1.173)
`अजपीष्यते' इति। तन्नामिकालक्षणः। कुतो विज्ञायते ? साल्व इति निपातनात्। तदवयवा जनपदानां वाचकाः क्षत्त्रियाणां समाना भवन्ति। अतस्तेऽप्यौपचारिकं साल्वापदेशमासादयन्ति।।
174. ते तद्राजाः। (4.1.174)
`गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात्' इति।गोत्रयुवसंज्ञाप्रकरणं हि यदन्तरा व्यवधायं कृतं तस्यैतदेव प्रयोजनम्। तेन ये व्यवहिताः पूर्वेऽणादयस्तेषां `ते तद्राजाः' इत्यत्र सर्वनाम्ना प्रत्यवमर्शो मा भूदिति। `तथा चैवोदाहृतम्' (इति)। `तद्राजस्य बहुषु तेनैवास्त्रियाम्' (2.4.62) इत्यत्र कार्याश्रयमुदाहृतम्। इह तु प्रकरणे रूपाश्रयम्।।
175. कम्बोजाल्लुक्। (4.1.175)
`चोलः,शकः' इति। द्व्यञ्मगध (4.1.170) लक्षणस्याणो लुक्। केरल इत्यञः।।
176. स्त्रियामवन्तिकुन्तिकुरुभ्यश्च। (4.1.176)
`अवन्ती। कुन्ती' इति। तद्धितलुकि कृते `इतो मनुष्यजातेः' (4.1.65) इति ङीष् ?। `कुरूः' इति। `ऊङ्' (4.1.66) इत्यूङ्।।
177. अतश्च। (4.1.177)
`तकारो विस्पष्टार्थः' इति। तकारे ह्यसति `अस्य' इति निर्देशेन भवितव्यम्, ततश्च समानत्वान्निर्देशस्य सन्देहः स्यात्-- किमयवमवर्णस्य निर्देशः ? आहोस्तवित् इदमः ? इति। तकारे तु सत्येष दोषो न भवति; तपरस्य वणष्वेव प्रसिद्धत्वात्। दीर्घनिवृत्त्यर्थस्तु तकारो न भवति, दीर्घस्यासम्भवात्। `सूरसेनी। मद्री' इति। सूरसेनाशब्दाद्योऽञ्, म्दरशब्दाद्यो द्व्यज्लक्षणोऽण् -- तयोर्लुकि कृते `जातेरस्त्रीविषयादयोपधात्' (4.1.63) इति ङीष्। `दरत्' इति। दरच्छब्दाद् द्व्यञ्मगधलक्षणस्याणो (4.1.170) लुक्।
यदि `अतः' इति वर्णस्येदं ग्रहणम्, एवंसति वर्णग्रहमं तदन्तविधिं प्रयोजयतीतीहापि प्राप्नोति--- आम्बषष्ठ्या, सौवीर्या इति ? अत आह-- `अवन्त्यादिभ्य लुक्' इत्यादि। यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्। तदन्तविधावसत्यकारग्रहणमात्रेण न सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमनर्थवद्भवति।।
178. न प्राच्यभर्गादियौधेयादिभ्यः। (4.1.178)
`पाञ्चाली, वैदेही'इति। `जनपदशब्दात्' (4.1.168) इत्यादिनाञ्। `शार्ङ्गरवाद्यञो ङीन्' (4.1.73)। `आङगी। मागधी' इति। `द्व्यञ्मगध' (4.1.170) इत्यादिनाण्। `जातेरस्त्रीविषयादयोपधात्' (4.1.63) इति ङीष्। भर्गशाल्वशब्दाभ्यां द्व्यञ्मगधलक्षणोऽण् (4.1.170)। शेषेभ्यस्त्वञ्। `भार्गी' इत्यादौ पूर्ववत् ङीष्। `यौधेयी, शौक्रेयी, शौभ्रेयी' इति। यौधेय शौक्रेय शौभ्रेयशब्देभ्यः स्वार्थे `पर्श्वादियौधेयादिभ्योऽणञौ' (5.3.117) इत्यण्। भार्गीत्यादौ पूर्ववन्ङीष्।
`कस्य पुनः' इत्यादि।येनाभिप्रायेण पृष्टवान् तं `कथम्' इत्यादिना आविष्करोति। `पर्श्वादि' इत्यादि। पर्शूः = क्षत्त्रियः, जनपदेन समानशब्दः, तस्यापत्यं स्त्रीत्वविशिष्टम्। `द्व्यञ्मगध' (4.1.170) इत्यादिनाण्, तस्य `अतश्च' 4.1.77) इति लुक्। पर्श्वादियौधेयादिभ्योऽणञौ' (5.3.117) इत्यनेनापि यः स्वार्थिकोऽण्, तस्यापि लुक्। एवं `रक्षाः' इति। असूरशब्दाज्जनपदशब्दादित्यादिनाञ्, तदन्तात् पूर्ववत् स्वार्थिकोऽण् तोयर्लुक्। `तथा च' इत्यादिना ज्ञापकमेव भाष्यकारयतेन द्रढयति।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
चतुर्थाध्याये प्रथमः पादः।
--------------------------------