काशिकाविवरणपञ्जिका/अष्टमोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | काशिकाविवरणपञ्जिका द्वितीयः पादः [[लेखकः :|]] |
तृतीयः पादः → |
अथाष्टमाऽध्यायः
द्वितीयः पादः
1. पूर्वत्रासिद्धम्। (8.2.1)
एष योगः परिभाषा वा स्यात् अधिकारो वेति पक्षद्वयं सम्भाव्यते। तत्र यद्ययं परिभाषा स्यात् सर्वस्यामष्टाध्याय्याम्पूर्वस्मिन्नुत्तरमसिद्धं स्यात्, ततश्च `अतो भिस ऐस्' (7.1.9) इत्यत्र त्यदाद्यत्वस्यासिद्धत्वात् तैः, यैः--इत्यत्रैस्भावो न स्यादितीमं परिभाषापक्षे दोषं दृष्ट्वा स्वरितत्वेनाधिकारत्व (1.3.11) मस्येति निश्चित्याह--`पूर्वत्रासिद्धमित्यधिकारोऽयम्' इति। `अध्यायपरिसमाप्तेः' इति। अवधिप्रदर्शनार्थमेतत्। `तत्र' इति वाक्योपन्यासे। `सपादा' इति। सह पादेनानन्तरं प्रक्रान्तेन वर्त्तत इति सपादा। `सप्ताध्यायी' इति। सप्तानामध्यायानां समाहारः, `द्विगोः' (4.1.21) इति ङीप्। क्वचित् `सपादसप्ताध्यायी' इति पाठः, तत्र सपादा चासौ सप्ताध्यायी चेति विशेषणसमासः, पुंवद्भावः। `अयम्' इति। वक्ष्यमाणः। `पादोनोऽध्यायः' इति। अनन्तरोक्तेन पादेनोनोऽपरिपूर्णः पादोनोऽध्यायः। `असिद्धो भवति' इत्यादि। पादोनाध्यायग्रहणेनोत्तरोत्तरयोगग्रहणेन च शास्त्रासिद्धत्वमिहाश्रीयत इति दर्शयति। कार्यासिद्धत्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हते न पुनर्वेवदत्तस्य प्रादुर्भावो भवति, तथा कार्यस्यासिद्धत्वे तिपादिते न पुनः प्रकृतेः प्रत्यापत्तिर्भवति। [`प्रादुर्भावो'--प्रा.मु.पाठः] ततश्चामुद्धत्वे तुस्मैभावशास्त्रमेव प्रवर्त्तते, न त्वशास्त्रमसिद्धतवामिति न भवत्येष दोषप्रसङ्गः। अपि च शास्त्रस्य मुख्यत्वं पूर्वत्वं कार्यस्यौपचारिकत्वम्। यस्य कार्यस्य शास्त्रं पूर्वं तदप्युपचारेण पूर्वमित्युच्यते, न स्वत एव तसय पूर्वत्वम्; सन्निवेशविशेषाभावात्। कार्यं हि लक्ष्यगतम्, तत्र यथा लक्ष्यस्य सन्निवेशो नास्ति तथा तद्गतस्यापि कार्यस्य। न च मुख्ये पूर्वत्वे सति गौणत्वस्य परिग्रहणं मुक्तम्। तस्माच्छास्त्रं [तस्माच्छास्त्रपूर्वग्रहणेन--प्रा.मु.पाठः] पूर्वग्रहणेन गृह्यते। तस्य च पूर्वत्वं परशास्त्रमेवापेक्ष्य भवति। अतो यदपेक्षं तस्य पूर्वत्वं ततः परस्य शास्त्रस्यैवासिद्धत्वमनेन कर्त्तुं युक्तम्। शास्त्रस्यासिद्धौ च कृतायामर्थतः कार्यासिद्धत्वं कृतमेव भवति; तस्य तन्निबन्धनत्वात्। सिद्धशब्दो निष्पन्नवचनः। सिद्धं निष्पन्नमित्यर्थः। न सिद्धमसिद्धम्, अनिष्पन्नमित्युच्यते। परञ्च शास्त्रं यच्च निष्पन्नं तन्न शक्यं वचनशतेनाप्यनिष्पन्नसत्तायामापादयितुम्। अन्यथा न कश्चिद्दुःखविवशां दशामनुभवेतु; असिद्धवचनेनैव न दुःखस्यानिष्पन्नतापादानात्। तस्माद्यथा ब्रह्मदत्तोऽब्रह्मदत्तोऽयमित्युक्तेऽकतिदेशोऽयं गम्यते, तथेहाप्यसिद्धत्वमित्युक्तेऽतिदेशोऽयं गम्यत इत्याह--`असिद्धवद्भवति' इति। एतदेव स्पष्टीकर्तुमाह--`सिद्धकार्यम्' इत्यादि। एवं हि तदसिद्धवद्भवकति यदि सिद्धस्य यत्कार्यं तन्न करोति।
`तदेतत्' इत्यादि। तदिति हेतो, यस्मादनन्तरोक्तोऽसिद्धशब्दस्यार्थः, तस्मादेतदसिद्धवचनमादेशलक्षणप्रतिषेधार्थम्। आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्, तस्य प्रतिषेधः। सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्। `उत्सर्गलक्षणभाववार्थं च' इति। उत्सृज्यते निवर्त्यत इत्युत्सर्गः=स्थानिलक्षणम्, उत्सर्गौ लक्षणं निमित्तं यस्य तदुत्सर्गलक्षणं कार्यम्, तस्य भाव उपजननमुत्सर्गलक्षणभावः, सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्। `अस्मा उद्धर' इत्यादि। अस्मै इतोदंशब्दाच्चतुर्थी, उद्धरेत्यस्मिन् परत आयादेशः, `लोपः शाकल्यस्य' (8.3.19) इति वकारलोपः। तत्र कृतेऽकः सवर्णेदीर्घत्वं (1.1.101) प्राप्नोति; वकारलोपस्यासिद्धत्वान्न भवति। `व्यलोपस्यासिद्धत्वात्' इति। तादर्थ्याद्व्यलोपशास्त्रं व्यलोपशब्देनोक्तम्। अथ वा--व्यलोपशस्त्रस्यासिद्धत्वाद्व्यलोपस्यासिद्धत्वमित्युच्यते। एवूदाहरणेष्वादेशलक्षणप्रतिषेधोऽसिद्धत्वावचनस्य प्रयोजनम्। इदानीं येषूदाहरणेषूत्सर्गलक्षणभावः प्रयोजनम्, तानि दर्शयितुमाह--`अमुध्मै' इत्यादि। अदसश्चतुर्थीपञ्चमीसप्तम्यैकवचनानि। त्यदाद्यत्वम् (7.2.102)। अत्रासत्यप्यसिद्धत्वे परत्वात् `अदसोऽसेर्दादु दो मः' (8.2.80) इत्युत्वम्, ततश्चाकारान्तस्याभावात् तन्निबन्धनाः `सर्ववाम्नः स्मै' (7.1.14), `ङसिङ्योः स्मात्स्मिनौ' (7.1.15) इति स्मायादयो न स्युः। असिद्धत्वे सति शास्त्रस्य ते भवन्ति। `उत्वस्यासिद्धत्वात्' इति। अत्रापि तादर्ध्यादुत्वशब्देनोत्वशास्त्रमुक्तम्।
`शुष्किका' इत्यादिश्लोकः। अत्र `निदर्शनम्' इत्येतत् शुष्किकेत्यादिभिः प्रत्यकमभिसम्बध्यते। `झलां चश्त्वे' इति। अत्राप्यसिद्ध इति वृत्तभङ्गभयान्नोक्तम्। अनुक्तमपि प्रकरणेन ज्ञायते।
`शुष्किका' इति। `शुष शोषणे' (धा.पा.1183) इत्येतस्मात् क्तप्रत्ययः, `शुषः कः' (8.2.51) इति कादेशः, टाप्, अज्ञातार्थे `प्रागिवात् कः' (5.3.70), `केऽणः' (7.4.13) ति ह्रस्वत्वम्, ततष्टाप्, `प्रत्ययस्यात् कात्' (7.3.44) इत्यादिना नित्यमित्त्वं भवति, न तु `उदीचाम्' (7.3.46) इत्यादिना पाक्षिकम्; `शुषः कः' (8.2.51) इत्यस्यासिद्धत्वात्।
`शुष्कजङ्घा' इति। शुष्के जङ्घे अस्या इति बहुव्रीहिः, `न कोपधायाः' (6.3.37) इचि पुंवद्भावनिषेधो न भवति। `शुषः कः' (8.2.51) इत्यस्यासिद्धत्वादिति प्रकृतेन सम्बन्धनोयम्। ननु च सत्यप्यसिद्धत्वे नैवात्र पूर्वद्भावप्रतिषेधो न प्राप्नोति, `कोपधप्रतिषेदे तद्धितवुग्रहणं कर्त्तव्य्' (धा.733) इति वचनात्? न; वाक्यकारमतमेतत्, सूत्रकारमतेन तु श्लोकवार्त्तिककारेण च न चात्रैतत् प्रयोजनमुपन्यस्तम्। एतयोर्हि सामान्येन कोपधप्रतिषेधोऽभिमतः।
`क्षामिमान्' इति। `क्षै जै षै क्षये' (धा.पा.913,914,915), `आदेच उपदेशेऽशिति' (6.1.45) इत्यात्त्वम्, `क्षायो मः' (8.2.53) इति निष्ठातकारस्य मकारः--क्षाम इति स्थिते `अत इञ्' (4.1.95) इतीञं कृत्वा `अत इनिठनौ' (5.2.115) इतीनिप्रत्ययं वा कृत्वा मतुप् कर्त्तव्यः।
`वहेः' इत्यादि। `वह प्रापणे' (धा.पा.1004) इत्येतस्मान्निष्ठा, सम्प्रसारणम् (6.1.15), `हो डः' (8.2.31) इति ढत्वम्, `झषस्तथोर्धोऽधः' (8.2.40) इति धत्वम्, `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्, `ढो ढे लोपः' (8.3.13) इति ढलोपः, `ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111) इति दीर्घः, ऊढ इति स्थिते, तमाचष्ट इति णिच्, `णाविष्ठवत् कार्य प्रातिपदिकस्य' (वा.813) इतीष्ठवद्भावाट्टिलोपः, तदन्ताल्लुङ्, `णिश्रि' (3.1.48) इत्यादिना चङ्। अत्र धत्वष्टुत्वादीनामसिद्धत्वाद्योऽसौ णो टिलोपलस्तस्य णौ कृतं स्थानिवद्भवतीति (चांप.पा.21) स्थानिवद्भावात् `चङि' (6.1.11) इति `अजादेर्द्वितीयस्य' (6.1.2) इति ह्त इत्येतस्य द्विर्वचनम्, `कुहोश्चुः' (7.4.62) इति चुत्वम्--महाप्राणस्य हकारस्य स्थाने महाप्राण एव झकारः, `अभ्यासे चर्च' (8.4.54) इति झकारस्य स्थाने जकारः, `आडजादीनाम्' (6.4.72) इत्याट्, `आटश्च' (6.1.90) इति वृद्धिः। अथ `सस्वल्लधुनि चङ्परे' (7.4.93) इति सन्वद्भावः कस्मान्न भवति? इत्याह--`अनग्लोपे' इत्यादि। यदि तर्ह्यनग्लोप इति प्रतिषेधात् सन्वद्भावो न भवति तदौजिढदिति [`तदोजढदिति"--प्रा.मु.पाठः] न सिध्यति? इत्याह--`औजिढत्' [`औजढत्'--प्रा.मु.पाठः] इत्यादि।
गुडलिण्मान्' इति। गुडं लेढीति क्विप्, तदन्तान्मतुप्, पूर्ववङढत्वम्, `झलां जशोऽन्ते' (8.2.39) इति जश्त्वम्--ढकारस्य डकारः! मतोर्वत्वे कर्त्तव्य ढत्वजशत्वयोरसिद्धत्वात् `झयः' (8.2.10) इति वत्वं न भवति। कारिकायां झलां जश्त्वग्रहणमुपलक्षणार्थं निदर्शनमिति। अनेनैतत् दर्शयति--निदर्शनमेतच्छुष्किकादीनाम्, न तु परिगणनमिति।
यदि हि सपादायां सप्ताध्याय्यां कर्त्तव्यायां पादोनोऽध्यायोऽसिद्ध इत्युच्यते तदा य इह षष्ठीनिर्देशसप्मीनिर्देश-पञ्चमीनिर्देशाः क्रियन्ते तेऽप्यसिद्धः स्युः, ततश्च `संयोगान्तस्य लोपः' (8.2.23) इत्यत्र षष्ठीनिर्देशस्यासिद्धत्वात् `षष्ठी स्यानेयोगा' (1.1.49) इत्येषा नोपतिष्ठेन, एवञ्च सामीप्ययोगाप्येषा षष्ठी स्यातः ततः संयोगान्तसमीपो यस्तस्यापि लोप आपद्येत; `झलो झलि' (8.1.26) इत्यत्रापि सप्मीनिर्देशस्यासिद्धत्वात् `तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इत्येषा परिभाषा नोपतिष्ठेत, तथा च पूर्वस्यैवानन्तरे भवितव्यमिति नियमस्याभावात् सामान्येन पूर्वस्य परस्य वानन्तरे व्यवहिते झलि लोपः; `ह्रस्वादङ्गात् (8.2.27) इत्यादावपि पञ्चमीनिर्देशस्यासिद्धत्वात् `तस्मादित्युत्तरस्य' (1.1.67) इत्यस्योपस्थानं न स्यात्, ततश्चानियमात् पूर्वस्य परस्य वानन्तरस्य व्यवहितस्य च लोपः प्रसज्येतेत्यत आह--`येऽत्र षष्ठीनिर्देशाः' इत्यादि। किं पुनः कारणमसिद्धत्वं न भवति? इत्याह--`कार्यकालं हि' इत्यादि। यदि हि `यथोर्द्दशं संज्ञापरिभाषम्' (व्या.प.59) स्यात्, एवमासां परिभाषाणां पूर्वत्वे सति षष्ठोनिर्देशादीनामसिद्धत्वं न स्यात्, न तु यथोद्देशं संज्ञापरिभावम्, किं तर्हि? `कार्यकालं संज्ञापरिभाषम्' (व्या.पा.58), कार्यकालाः कार्यप्रयुक्ता हि संज्ञाः परिभाषाश्च। तस्माद्यत्र कार्यं तत्रैव ताः प्रयुज्यन्ते, तेन ता उपदेश एव। अतो निर्देशैरभिन्नदेशत्वात् परिभाषाणामत्र पूर्वत्वं नास्ति, ततः कुतस्तासु कर्त्तव्यासु तेषामसिद्धत्वप्रसङ्गः! यदि कार्यकालं संज्ञापरिभाषम्, `विप्रतिषेधे परं कार्यम्' (1.4.2) इत्येषाऽत्रोपतिष्ठेत? तत्र को दोवः? `स्फुर स्फुल सञ्चलने' (धा.पा.1389), 1390), `गुरी उद्यमने' (धा.पा.1396)--आभ्यां `ऋहलोर्व्यत्' (3.1.124) इति ण्यति कृते दिस्फोयम्, अवगोर्यमिति न सिध्येत्। अस्या हि परिभाषाया उपस्थाने, गुणं परत्वाद्बाधित्वा `हलि च' (8.2.77) इति दीर्घत्वं प्राप्नोतीत्यत आह--`विप्रतिषेधे परमित्येषा तु' इत्यादि। `विप्रतिषेधे परम्' (1.4.2) इत्येषा परिभाषाऽत्र न प्रवर्त्तत इति प्रकृतेन सम्बन्धः। कस्मान्न प्रवर्त्तते? इत्याह--`येन' इत्यादि। द्वयोर्हि तुल्यबलयोर्विप्रतिषेधो भवति। इह तु येन पूर्वेण लक्षणेन `पुगन्तस्य' (7.3.86) इत्यादिना सह परं लक्षणं स्पर्धते तदप्यभिभवितुमिच्छति। परं लक्षणं `हलि च' (8.2.77) इत्यादिकम्, तत् पूर्वं प्रति तस्यासिद्धत्वम्। अतोऽतुल्यबलत्वाद्विप्रतिषेधो नास्तीति `विप्रतिषेधे परम्' (1.4.2) इत्येषा परिभाषा न प्रवर्त्तते। `तथा च' इत्यादि। एवमस्याः परिभाषाया अप्रवृत्तौ सत्यामित्यर्थः। यदि तर्हि पूर्वस्मिन् कार्ये कर्त्तव्ये परमसिद्धं भवति, एवं सत्युत्सर्गे कर्त्तव्ये परस्यापवादस्यासिद्धत्वां सायत्। ततश्च दोग्धा, दोग्धृमित्यत्र `दादेर्घातोर्घः' (8.2.32) इति धस्यासिद्धत्वाङढत्वं स्यात्? इत्यत आह--`अपवादसर्य तु' इत्यादि। यद्यप्यपवादविषयस्यापि परस्योत्सर्गे कर्त्व्येऽसिद्धत्व स्यात्, निर्विषयत्वाच्चापवादवचनस्य वैयर्थ्यं स्यात्। अतोऽपवादस्य परस्यापि वचनप्रामाण्यादसिद्धत्वं न भवति। ननु च वचनप्रामाण्यात् पर्यायेण तयोर्भावः स्यात्, तत्कुतो वैयर्थ्य प्रसङ्ग? नैतदस्ति; यद्यपवादस्य पर्यायता स्यात्, `वा द्रुहमुह' (8.2.33) इति विकल्पेन धत्वविधाननमनर्थकं स्यात्।।
2. नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति। (8.2.2)
कृतोत्येतदनन्तरोक्तेन तुग्ग्रहणेनैव सम्बध्यते, न तु सर्वेः सुबादिभिः; अन्यथा यथा विधिशब्दस्य प्रत्येकं विधिसम्बन्धो दर्शितः, तथाऽस्यापि सम्बन्धं दर्शयेत्। इहायं विधिशब्दः सुबादिभिःसम्बध्यमानो भावसाधनो वा सम्बध्येत? कर्मसाधनो वा? तत्राद्ये पक्ष आश्रीयमाणे--राजभिः, तक्षभिरित्यत्रैस्भावे कर्त्तव्ये नलोपस्यासिद्धत्वं न प्राप्नोति, भावसाधने हि यत्रासतो विधानं तत्रासिद्धत्वेन भवितव्यम्, न तु सतः। न चात्रासतः सुपो विधानम्; किं तर्हि? सत एव, यतस्तस्य स्थान ऐस्भावस्य राजभ्यां राजभ्य इत्यत्रापि `सुपि च' (7.3.102) इति दीर्घत्वे `बहुवचने झल्येत्' (7.3.103) इत्येत्त्वे च कर्त्तव्ये नैवासिद्धत्वं प्राप्नोति; यस्मादिह सुपि परतो दीर्घत्वस्यैत्त्वस्य च विधानम्, त्वसतः सुपः। इतरस्मिंस्तु पक्षे स्वरसंज्ञातुकामसतामेव विधानेन लोपस्यासिद्धत्वमिष्यते, एतच्च न सिध्यति; कर्मसाधने हि विधिशब्दे तैः सम्बाध्यमाने सतामेव तेषामन्यस्मिन् कार्ये विधीयमाने सत्यसिद्धत्वेन भवितव्यम्, न तु तेषामसतां विधानेन [`विधानेन तु'--प्रा.मु.पाठः] शक्यते वक्तुम्--सुपा कर्मसाधनः सम्बध्यते, स्वरादिभिश्च भावसाधन इति। एको ह्ययं विधिशब्दः सूत्रोपात्तः, स च भावसाधनो वा स्यात्, कर्मसाधनो वेति; न तूभयसाधनः, न ह्येकस्योभयसाधनत्वमुपपद्यत इति? --एतच्चोद्यमपाकर्त्तमाह--`विधिशब्दोऽयम्' इत्यादि। यद्येव विधिशब्दः सुप्स्वरादिभिः समुदायेन सम्बध्यते, तदा स्यादयं दोषः। न च समुदायेन सम्बध्यते, किं तर्हि? सुबादिभिः प्रत्येकम्। प्रत्येकञ्चास्मिन् सम्बध्यमाने यावद्भिः सहायं सम्बध्यते तावन्त्येव स्वरादिदिधौ मलोपोऽसिद्धो भवतीत्येवमादीनि वाक्यानि भवन्ति। नलोपः सुप्स्वरसंज्ञातुग्विधिष्वेतद्ग्रहणकवाक्यं तेषामेव। निबन्धनम्। तेषु च भिन्नेषु वाक्येषु विधिशब्दोऽपि भिन्न एव। तत्र कश्चिद्भावसाधनः, कश्चित्कर्मसाधनः। तत्र स्वरसंज्ञातुकामसतामेव विधाने कर्त्तव्ये नलोपस्यासिद्धत्वमुच्यते, तेन च ते विधीयमानत्वात् कर्मभावमापद्यन्ते। ततो भावसाधनेन विधिशब्देन कर्मणोऽनभिहितत्वादेषु `कर्त्तृकर्मणो कृति' (2.3.65) इति षष्ठ्या भवितव्यम्। तेन तैः कर्मषष्ठीयुक्तैर्भावसाधनोऽभिसम्बध्यते, सुपा च सम्बन्धसामान्यवचनषष्ठ्यन्तेन।
`कर्मसाधनः' इति। सुपो विधीयमानेन कार्येण सम्बन्धमात्रम्। सम्बन्धसामान्ये षष्ठी तु यत्र `शेषे' (2.3.50) इति षष्ठी विधीयते तत्र वेदितव्यम्। सम्बन्धसामान्यस्य वचनीति षष्ठीसमासः, सा चासौ षष्ठी चेति विशेषणसमासः सम्बन्धसामान्यवचनषष्ठी अन्ते यस्य सुपः स तथोक्तः। कर्मषष्ठीयुक्तेन सुपा कर्मसाधनस्य विधिशब्दस्य सम्बन्धो नोपपद्यते; कर्मषष्ठ्यनुपपत्तेः। यदि हि सुप् कर्म स्यात् तत्र कर्मणि षष्ठी स्यात्, न चासौ सुप् कर्म; सुपो विधीयमानत्वात्। तत्तु तत्सम्बन्धिकार्यम्। विधीयमानत्वात् कर्म तद्विधिशब्देनोक्तम्। अतस्तत्रापि तावत् कर्मषष्टो न सम्भवति, किं पुनरकर्मणि सुपि! [`सुप्'--का.मु.पाठः] `तेन' इत्यादि। यस्मात् सम्बन्धमात्राभिधायिनी या षष्ठी तदन्तेन सुपा कर्मसाधनो विधिशब्दः सम्बध्यते, तेन हेतुना सुपः स्थाने यो विधिर्भिस ऐस्भावः, सुपि परतः यो विधिर्दीर्घत्वादिर्यस्य सुब्निमित्तं सर्वोऽसौ सुप्सम्बन्धी भवतीति सर्वत्राप्यसिद्धत्वं भवति। ननु च `षष्ठी स्थानेयोया' (1.1.49) इति वचनात् सम्बन्धविशेषे षष्ठ्या भवितव्यम्, न तु सम्बन्धसामान्ये। ततश्च सुप एव स्थाने यत् कार्यं तत्रैवासिद्धत्वं स्यात्, नान्यत्र? नैतदस्ति; यत्र ह्यादेशो विधीयते--`अस्तेर्भूः' (2.4.52) इत्येवमादौ तत्रास्याः परिभाषाया व्यापारः, न तु यत्र लक्षणान्तरेण विहितं कार्यं कार्यान्तरार्थ मुपादीयते तत्रापि; अन्यथा `उदीकारस्तस्य ग्रहणं भवति। ननु चेह सुपामादेशो न विधीयते, किं तर्हि? लक्षणान्तरविहितस्यापि सिद्धत्वम्। तस्मान्नान्न स्थानेयोगपरिभाषाया (1.1.49) व्यापारः।
`राजवती' इत्यादि। राजशब्दाद्मतुप्, `उगितश्च' (5.1.6) इति ङीपि कृते अन्तोऽबत्या' (6.1.220) इत्यन्तोदात्तत्वं प्राप्नोति। नलोपस्यासिद्धतवान्नायमवतीशब्द इति न भवति। तस्मिन्नसति `कनिन्युवृवितक्षिराजिधन्विद्युप्रतिदिवः' (द.उ.6.51) इति राजशब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वात् राजवतीशब्द आद्युदात्त एव भवति। `पञ्चार्भम्, दशार्मम्' इति। `दिक्संख्ये संज्ञायाम्' (2.1.50) इति मासः। अत्र नलोपे कृतेऽवर्णान्तं पूर्वपद जातमिति `अर्भे चावर्णम्' (6.2.90) इत्यादिना सूत्रेण तस्याद्युदात्तत्वं प्राप्नोति, असिद्धत्वान्न भवति, समासान्तोदात्तत्वमेव (6.1.223) भवति। `पञ्चदण्डि' [पञ्चदण्डी--काशिका] इति। पञ्चानां दणअडिनां समाहार इति `तद्धितार्थ' (2.1.51) इत्यादिना समासः, समाहाहे द्विगुः, `स नपुंसकम्' (2.4.17) इति नपुंसकत्वम्। नलोपे कृत इगन्तता जातेति `इगन्तकालकपालभगालशरावेषु द्विगौ' (6.2.29) इति पूर्वपदस्य प्रकृतिस्वरः प्राप्नोति, नलोपस्यासिद्धत्वान्न भवकति, समासान्तोदात्तत्वमेव (6.1.223) भवति।
`तदेतत्' इत्यादि। इह केषाञ्चिदेकयैव संज्ञयाऽनेकसंज्ञाकार्यं क्रियते--`यावन्ति संज्ञाकार्याणि तत्रैकैव संज्ञा प्रवर्त्तते' इति। दर्शनम्। अन्येषां तु `यथा संज्ञयैककार्यं क्रियते तयैवान्यम्, अतो यावन्ति संज्ञाकार्याणि तावस्य एव संज्ञाः प्रवर्त्तन्ते इति दर्शनम्। तत्र पूर्वस्मिन् दर्शने नेदं प्रयोजनम्; ययैव हि पाक्प्रवृत्त्या संज्ञया `षङ्भ्यो लुक्' (7.1.22) इति जश्शसोर्लुक्कार्यं कृतं तयैव हि टाप्प्रतिषेधो भविष्यति। तस्मादितरस्मिन् दर्शने तत् प्रयोजनं भवति। अत्रापि कथमेतत् प्रयोजनं भवति? इत्याह--`या हि' इत्यादि। हिशब्दो यस्मादर्थे। इतिकरणस्तस्मादर्ते। यस्माज्जश्शसोर्लुगर्था या षट्संज्ञा प्रवृत्ता तया स्त्रीप्रत्ययप्रतिषेधो न भवति, तस्मात् पुनः सा प्रवर्त्तयितव्या। यस्मात् सा प्रवर्त्तयितव्या तस्मादेतत् प्रयोजनमित्यर्थः।
`वृत्रहाभ्याम्, वृत्रहभिः' इति। वृत्रं हतवानिति `ब्रह्मभ्रूणवृत्रेषु क्विप' (3.2.87) तदन्तात् भ्याम्भिसौ, ततर नलोपे कृते `ह्रस्वस्य पिति कृति तुक्' (6.1.71) स्यात्, असिद्धत्वान्न भवति। `अत्र केचित्' इत्यादि। सन्निपातः=आनन्तर्यम्, तल्लक्षणं निमित्तं यस्य न तथोक्तः। सुपः सन्निपातेन नलोपः। स यदि तुकं प्रवर्त्तयेत् तत् सन्निपातं विहन्यात्। अनिमित्तञ्च `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (व्या.पा.12) इति। तस्मान्नलोपस्तुकं न प्रवर्त्तयतीति तुग्ग्रहणमनर्थकम्। ननु च तुकः पूर्वान्तत्वात् तुक् प्रातपदिकग्रहणेनैव गुह्यते, तत् कुतस्तस्य सन्निपातस्य विघातः, न हि स्वावयवेनैव स्वस्य व्यवधानमुपपद्यते? नैतदस्ति; ह्रस्वो ह्यागमी तुकः, न तदन्तः समुदायः, तत्कुतस्तस्य प्रातिपदिकग्रहणेन ग्रहणम्? बहिरङ्गलक्षणेन वासिद्धत्वात् तुकं प्रति नलोपस्य, तुग्विधिग्रहणमनर्थकम्। पदस्य बाह्मविभक्तिप्रत्ययमाश्रित्य नलोपो विधीयत इति तस्य बहिरङ्गत्वम्, अन्तर्वर्तिनं पदमाश्रित्य वर्णस्य तुग्विधीयत इति तस्यान्तरङ्गत्वमिति--`असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इति। यद्येवम्, युक्तमेवेति प्रतिपन्नाः, तत्किमर्थं तुग्ग्रहणं क्रियते? इत्यत आह--`तत् क्रियते' इत्यादि। अनित्यत्वज्ञापने तु सन्निपातलक्षणपरिभाषायाः प्रयोजनम्--`दृक्षाय' इत्यत्र `सुपि च' (7.3.102) इति दीर्घत्वसिद्धिः। अकारान्ततासन्निपाते हि ङेर्यो (7.1.13) विधीयत इति; तन्निमित्तत्वादिति दीर्घत्वनिमित्तभावोपगमनद्वारेण तद्विघातं न कुर्यात्। अनित्यत्वात्त् करोति। अन्यच्चात्र प्रयोजनमुत्तरत्रैव वक्ष्यते। बहिरङ्गलक्षणपरिभाषया सुप्यनित्वस्य ज्ञापने--एषा, द्वे इतयत्र टाप्सिद्धिः। अत्र हि त्यादद्यत्वस्य विभक्त्याश्रयत्वाद्बहिरङ्गत्वम्, प्रातिपदिकाश्रयत्वाट्टाबन्तरङ्गः। तत्र टाप कर्त्तव्ये त्यदाद्यत्वस्यासिद्धत्वं स्यात्, ततष्टाप् न सिद्ध्येत्। अनित्यत्वात्तु सिध्यति। प्रतिदीब्नेत्यत्र `हलि च' (8.2.77) इति दीर्घत्वसिद्धिः प्रयोजनम्। असति तस्यानित्यत्वे `हलि च' इति दीर्घत्वे कर्त्तव्ये बहिरङ्गस्याल्लोपस्यासिद्धत्वाद् हलि परतो वकारान्तो धातुर्नं भवतीति दीर्घत्वं न स्यात्। अनित्यत्वात्तु सिद्ध्यति।
`राजीयति' इति। `सुप आत्मनः क्यच्' (3.1.8) इति क्यच्, `क्यचि च' (7.4.33) इतीत्त्वम्। `राजायते' इति। `कर्त्तुः क्यङ सलोपश्च' (3.1.11) इति क्यङ् `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः। `राजश्यः' इति। `अकः सवर्णो दीर्घः' (6.1.101)।।
3. न मु ने। (8.2.3)
`मु' इत्यविभक्तिकोऽयं निर्देशः। `अमुना' इति। अदसस्त्यदाद्यत्वम्, `अदसोऽदेर्दादु दो मः' (8.2.80) इत्युत्वमत्वे, `अच्च घेः' (7.3.119) इत्यतः `घेः' इत्यनुवर्त्तमान `आङी नास्त्रियाम्' (7.3.120) इति नाभावः। यदि मुभावो नाभावे कर्त्तव्ये नासिद्धो भवति--इत्येव सूत्रार्थः स्यात्, एवं सति नाभावे कृते यत् कार्यं प्राप्नोति तत्र तस्यासिद्धत्वं न स्यात्, ततश्चामुनेत्यत्राकारान्तस्याङ्गस्य `सुपि च' (7.3.102) इति विधीयमानं दीर्घत्वं प्रसज्येत? इत्यत आह--`कृते तु नाभावे' इत्यादि। ह्रस्वसन्निपातेन हि नाभावो ह्रस्वस्य विघातं प्रति निमित्तं न भवतीति सत्यप्यसिद्धत्वे न भवति दीर्घत्वप्रसङ्गः।
`अथ वा' इत्यादि। यथैकेन हि क इतो धावतीति पृष्टोऽपरेणापि किंवर्णो धावतीति प्रश्ने कश्चिन्निपुणमतिस्तन्त्रेण वाक्यद्वयमुत्तरयति--श्वेतो धावतीति, तथेहापि योगद्वयमेतत् तन्त्रेणोच्चरितम्। तत्र द्वितीयस्य योगस्य न परतो यत् प्राप्नोति तस्मिन् कर्त्तव्यं भुभावो नासिद्ध इत्येव सूत्रार्थः। तेन दीर्घत्वं न भविष्यति।
एकस्मिन्नेव योगे दीर्घत्वप्राप्तिमपाकर्त्तुमाह--`अथ वा' इत्यादि। ननु चास्मिन् सूत्रार्थे ने कर्त्व्ये मुभावस्य यत् सिद्धत्वं तत् सूत्रेण संगृहीतं स्यात्, ततश्च नाभाव एव तावन्न प्राप्नोति, कुतः पुनस्तस्मिन् परतो यत् प्राप्नोति तस्मिन् कर्त्तव्ये मुभावस्यासिद्धत्वम्? इत्याह--`ने तु कर्त्तव्ये' इत्यादि। यथा पुत्रा मे बहुक्षीरघृतमोदनं सुवर्णापात्र्यां भुञ्जोरन्निति वरं प्रार्थयमानया वृद्धकुमार्या अर्थतः पतिः पुत्रा गावो धनं संगृहीतम्, एवमिहापि ने परतो यत् कार्यं प्राप्नोति तस्मिन् कर्त्तव्ये मुभावस्य सिद्धत्वं ब्रुवता ने कर्त्तव्ये मुभावस्यासिद्धत्वं नाश्रितम्। `तेन' इत्यष्दि। यस्मादेव एव वाक्यार्थः--ने कर्त्तव्ये मुभावस्य यत् सिद्धत्वं तदर्थतो गृहीतम्, तेन हेतुना नाभावश्च भवति, दीर्घत्वञ्च न भवतीति।
`एकदेश' इति। `प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोः' इति। वृक्षशब्दः प्रातिपदिकस्वरेणान्तोदात्त इति तस्यान्तो योऽकारः स उदात्तः। सप्तम्येकवचनम्, `अनुदात्तौ सुप्तितौ' (3.1.4) इत्यनुदात्तम्, तयोः `आद्गुणः' (6.1.87) इत्येकादेश आन्तरतम्यात् स्वरिते प्राप्ते `एकादेश उदात्तेनोदात्तः' असिद्धत्वे हि सति तस्य स एकादेशः स्वरित एवायादेशे कर्त्तव्ये स्यादिति तस्य स्थानेऽयादेश आन्तर्यतः स्वरित एव प्रसज्येत। अन्तरङ्गत्वं पुनरेकादेशस्यान्तरश्रितत्वात्। आद्गुणो ह्यवान्तरङ्गः; एकपदाश्रितत्वात्। अयादेशस्तु बहिरङ्गः; तद्विपर्वयात्।
`कुमार्या इदम्' इति। कुमारशब्दो वृक्षशब्दवदन्तोदात्तः। तस्मात् `वयसि प्रथमे' (4.1.20) इति ङीप्, `यस्येति च' (6.4.148) इत्यकारलोपः, `अनुदात्तस्य च य्रोदात्तलोपः' (6.1.161) इतीकारस्योदात्तत्वम्, चतुर्थ्येकवचनम्; कुमारी+ए इति स्थिते `आण्नद्याः' (7.3.112) इत्याट् यणादेशः (6.1.77), `उदात्तयणो हल्पूर्वात्' (6.1.174) इति विभक्तेरुदात्तत्वम्। तच्च `आदेः परस्य' (1.1.54) इति विभक्तिभक्तस्याट एव भवति, `आटश्च' (6.1.90) इति वृद्धिरेकादेशः। स च पूर्ववत् स्वरिते प्राप्ते `एकादेश उदात्तेनोदात्तः' (8.2.5) इत्युदात्तः क्रियते। तस्य सिद्धत्वं वक्तव्यम्--कुमार्या इदमित्यत्रायादेश उदात्ते यथा स्यात्, अन्यथा हि पूर्ववत् स्वरितः [वास्ति--का.मु.पुस्तके] स्यातद्। `यदि' इत्यादि। यदि पूर्वमुदात्तत्वं क्रियते, पश्चादेकादेशः, यथादर्शितमनन्तरायां रूपसिद्धावेवायादेश कर्त्तव्ये सिद्धो भवतीति युज्यत इदमुदाहरणम्। `अथ तु' इत्यादि। कुमारी+ए इति स्थित आट्, यणादेशः। "तत्रैकादेशे `उदात्तयणो हल्पूर्वात्' (6.1.174) इति विभक्तिस्वरः" इति। यदि कृत एकादेशे विभक्तिस्वरः क्रियते तदा नैतदस्योपसंख्यानस्य प्रयोजनम्। अस्यां हि रूपसिद्धावेकादेशस्य यदुदात्तत्वं तस्यायादेशे कर्त्तव्ये सिद्धत्वादनेन प्रकारेणोपसंख्यानस्येदं प्रयोजनं न भवतीत्याचष्टे। युक्तञ्चैतत्। तथा हि--अन्तरङ्गवादेकादेशेनैव तावद्भवितव्यम्, पश्चद्विभक्तिस्वरेण। वर्ण ह्याश्रित्यैकादेशो भवतीति तस्यान्तरङ्गत्वम्। उदात्तत्वं विभक्तेराश्रितत्वात् पदस्य भवतीति तस्य बहिरङ्गत्वम्।
`वृक्षाविदम्' इति। वृक्ष इदमित्येतदनुसारेणानुगन्तव्यम्, एकादेशः पुनरत्र `वृद्धिरेचि' (6.1.88) इति वृद्धिः। प्रथमयोः पूर्वसर्वदीर्घः (6.1.102) इत्येतत्त न प्रवर्त्तते; `नादिचि' (6.1.104) इति दीर्घप्रतिषेधात्।
`गाङ्गेऽनूपः' इति। गङ्गायां जात इत्यणि कृते प्रत्ययस्वरेणान्तोदात्तो गाङ्गशब्दः। अनुगता आपोऽस्मिन्निति बहुव्रीहिः, `ऊदनीर्देशे' (6.3.98) इत्यूत्त्वम्, ऋक्पूरब्धूःपथामानक्षे' (5.4.74) इत्यकारप्रत्यये कृतेऽनूपशब्दोऽपि प्रत्ययस्वरेणान्तोदात्तः, शेषमस्यानुदात्तम्। `तस्य सिद्धत्वात्' इति। योऽसावेकारो गाङ्गशब्दे सप्तम्यकवचने परतः `आद्गुणः' (6.1.87) इत्यनेनाभिनिर्वृत्तः, तस्य सिद्धत्वाद्यः पुनः `एङः पदान्तादति' (6.1.109) इत्येकादेशोऽनूपशब्दाकारेण सह सः `एकादेश उदात्तेनोदात्तः' (8.2.5) इति भवति। अतो हेतोः `स्वरितो वानुदात्ते पदादौ' (8.2.6) इति पक्षे स्वरितो भवति। यदि पुनरसिद्धत्वं स्यात् तदासावेकार उदात्तानुदात्तस्थानित्वादान्तर्यतः स्वरितः स्यात्। यः पुनः `एङः पदान्तादति' (6.1.109) इत्येकादेशः, स उदात्तनानुदात्तस्य न भवतीति `स्वरितो वानुदात्ते पदादौ' (8.2.6) इति पक्षे स्वरितो न स्यात्, अपि तु स्वरितानुदात्तयोः स्थाने भवन्नान्तरतम्यान्नियमेन स्वरितः स्यात्।
`शतृस्वरः' इति। शत्राश्रयः स्वर इति शाकपार्थिवादित्वादुत्तरपदलोपो (वा.83) समासः। `तुदती, नुक्ती' इति। तुदिनुदिभ्यां (धा.पा.1281,1282) लट्; तुदादित्वाच्छः, स च प्रत्ययस्वरेणान्तोदात्तः, लसार्वधातुकस्यानुदात्ते कृते `अतो गुणे' (6.1.97) पररूपत्वमेकादेशः। स च `एकादेश उदात्तनोदात्तः' (8.2.5); तदुदात्तसय सिद्धत्वात्। `अन्तोदात्तादुत्तरपदात्' (6.1.169) इत्यन्तोदात्तादित्यनुवर्त्तमाने `शतुरनुमो नद्यजादी' (6.1.173) इति शत्रन्तादन्तोदात्तादीकारस्योदात्तत्वं भवति। असिद्धत्वे त्वेकादेशेऽस्योदात्तत्वं न स्यात्; अन्तोदात्तादित्यधिकारात् (6.1.169)। `अनुमः इत्यादिना ज्ञापकमाश्रित्यैतत्प्रयोजनमपाकरोति। कथं पुनरेतज्ज्ञापकम्? इत्याह--`न हि' इत्यादि। हिशब्दो हेतौ। अनुम इति प्रतिषेधस्यैतत् प्रयोजनम्--तुदन्ती, नुदन्तीत्यत्र `आच्छीनद्योर्नुम्' (7.1.80) इति नुमि कृते सनुम उदात्तत्वं मा भूदिति। यदि च शतृस्वरे, एकादेशस्वरोऽसिद्धः स्यात्, प्रतिषेधस्य वैयर्ध्यं स्यात्; यस्मादेकादेशस्वरमन्तरेण नास्ति शतुरन्तोदात्तत्वम्। अतः प्रतिषेधादवसीयते--सिद्ध एकादेशस्वरः। न हि एकादेशस्वरमन्तरेण शत्रन्तं सनुम्कं किञ्चिदन्तोदात्तमस्ति। तस्मादनुम इति प्रतिषेधवचनं ज्ञापकमेव।
`तुदन्ति, लिखन्ति' इति। अत्रापि पूर्ववल्लसार्वधातुकानुदात्तत्वे कृत उदात्तत्वे कृत उदात्तानुदात्तयो रेकादेश उदात्तः। `तेन' इति। एकादेशस्वरेण सिद्धेन। `वर्ज्यमानता' इति। `अनुदात्तं पदमेकवर्णम्' (6.1.158) इत्येषोऽर्थोऽनेन लक्ष्यते। एकं वजंयित्वा शेषस्यानुदात्तत्वं भवतीत्यर्थः। यदि पुनरसिद्धत्वं स्यात् `अनुदात्तं पदेमकवर्जम्' (6.1.158) इत्यस्मिन् कर्त्तव्ये सत्येकादेशस्वरस्यासिद्धत्वादसत्यां च वर्ज्यमानतायां द्वयोरुदात्तयोः श्रवणं प्रसज्येत।
ननु चासिद्धवचनमुत्सर्गलक्षणभावार्थमित्युक्तम्, अस्य च स्थानी स्वरितः; तथा हि `अतो गुणे' (6.1.97) पररूपत्व इत्यनेनैवान्तयैतो यो विहितः स्वरितस्यस्य स्थाने `एकदेश उदात्तेनोदात्तः' (8.2.5) इत्यनेनोदात्त आदेशो विधीयते, तत्र यद्युदात्तस्यादेशस्यासिद्धत्वात् तन्निमित्ता वर्ज्यमानता न भवति मा भूत्; यस्त्वस्य स्वरितस्य स्थानी तन्निमित्ता भविष्यति, तत्कथमेतत् प्रयोजनमुपपद्यते? यथोपपद्यते तथाख्यायते--`एकादेश उदात्तेनोदात्तः' (8.2.5) इत्यत्र चत्वारि दर्शनानि। `आद्गुणः' (6.1.87) इत्येवमादिभिरुदात्तानुदात्तयोरेकादेश आन्तरतम्यात् स्वरितगुणयोर्निवृत्तः, तस्य `एकादेश उदात्तेनोदात्तः' (8.2.5) इत्यनेन स्वरितस्य स्थान उदात्तगुण आदेशो विधीयत इत्येकं दर्शनम्। स्वरितगुणस्यैवाभिनिर्वृत्तस्य गुणान्तरापसिद्वारेण शब्दान्तरं प्रतिपद्यत इति द्वितीयम्। परिभाषेयमनुदात्तानुदात्तयोरेकादेश उदात्त इति तृतीयम्। अस्मिन् दर्शने परिभाषायाः पराङ्गभूतत्वादेकादेशशास्त्रैः सहास्यैकवाक्यता भवति, तत्रायमर्थः सम्पद्यते--आद्गुणो भवति, उदात्तानुदात्तयोस्तु `आद्गुणः' (6.1.87) भवतीति। चतुर्थं तु दर्शनम्--उदात्तानुदात्तयीर्य एकादेशः स उदात्तो भवति, न स्वरितगुणयुक्त इति। स्वरितस्यापवादभूतस्तूदात्तत्वमारभ्यते। येन नाप्राप्तिब्यायेनेदं (व्या.प.49) दर्शनमाश्रित्येवं प्रयोजनमुपन्यस्तम्। उपपद्यते च तदेतस्मिन् दल्शने। अत्र हि नाम विधान समकालमेवोदात्तत्वं विधीयते, न तु स्वरितगुणविहितस्य पुनरुदात्तत्वगुण आदेश इति न सम्भवति स्वरितेन स्थानिना वर्ज्यमानता; एकादेशस्वरस्य सिद्धत्वात्।
`कृते तस्मिन् तिङङतिङ इति निघातः' इति। असति तु तस्य सिद्धत्वे पश्चादेकादेशस्वरः स्यात्, ततश्च मध्योदात्तता प्रसज्येत। `पचति' इति। अत्र तिशब्दे य इकारः स सतिशिष्टत्वादनुदात्तः, इतिशब्दः `निपाता आद्युदात्ताः' (फि.सू.4.80) इत्याद्युदात्तः; तयोरकः सवर्णदीर्घत्वमेकादेशो द्विपादश्रयत्वाद्वाहिरङ्गः, तस्य बहिरङ्गत्वात् तदाश्रयोऽपि स्वरो बहिरङ्गः, तत इकारस्यासिद्धतवमेव भवति। ततश्च तेन `अनुदात्तं पदमेकवर्जम्' (6.1.158) इति वर्ज्यमानता न भवति। `प्रपचति' इति। अत्रापि बहिरङ्गत्वेनासिद्धत्वात् तिङि चोदात्तवति' (8.1.71) इति गतेरनुदात्तत्वं न भवतति `तिङङतिङः (8.1.28) इति निघात एवात्र भवति।
`हरिवो मेदिनम्' इति। हरिशब्दान्मतुप्, सुः, नुम् हल्ङ्यादि(6.1.68) लोपः, संयोगान्तलोपश्च (8.2.23), तस्मिन् कृते रुत्वम्, `हशि च' (6.1.114) इत्यस्योत्वम्, `आद्गुणः' (6.1.87)। `संयोगान्तलोपस्यासिद्धत्वात् हशि चेत्युत्वं न प्राप्नोति' इति। संयोगान्तलोपस्यासिद्धत्वे सति तकारेक इशो मकारस्य व्यवधानात्, तकारस्याहक्त्वात्।
`अलादीत्' इति। लुङ्, च्लेः सिच्, इट्, `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्, सिज्वृद्धिः, `इट ईटि' (8.2.28) इति सिचो लोपेऽकः सवर्णदीर्घत्वम्।
`वृक्णः, वृक्णवान्' इति। `ओव्रश्चू छेदने' (धा.पा.1292) निष्ठा, ग्रहिज्यादिसूत्रेण (6.1.16) सम्प्रसारणम्, `चोः कुः' (8.2.30) इति कुत्वम्, `ओदितश्च' (8.2.45) इति नत्वम्, `अट्कुप्वाङ्' (8.4.2) इति णत्वम्। षत्वे चासति `स्कोः संयोगाद्योः' (8.2.29) इति सलोपः। `कुत्वं प्रत्यासिद्ध एव' इति। षत्वस्वरपरत्ययविधीङ्विधिग्रहणस्य व्यावर्त्त्य दर्शयति--`स्वरप्रत्ययविधीडविधिषु क्षीबशब्द उदाह्रियते' इति। कथं पुनस्त्रिषु विधिषु क्षीबशब्द एक एवोदाहरणमुपपद्यते? इत्याह--`तत्र' इत्यादि। `अनुपसर्गात् फुल्लक्षीव' (8.2.55) इत्यत्र `क्षीब् मदे' (धा.पा.382) इत्यस्मात् क्तप्रत्यये परभूते क्षीबशब्दो निपातितः। तत्र चानेकपरकारं निपातनमाश्रितम्। तत्र क्वचिन्निपातने प्रत्ययविधौ स्वरविधौ च क्षीबशब्द उदाह्रियते, क्वचिदिङ्विधौ। कथम्? इत्याह--`यदा' इत्यादि। संज्ञायामित्यादिग्रहणम्; `संज्ञायामुपमानम्' (6.1.204) इत्यतः संज्ञाग्रहणानुवृत्तेः। `एष स्वरः' इति। आद्युदात्तः। तत्र हि `कर्षात्वतो घञोऽन्त उदात्तः' (6.1.159) इत्यतः उदात्तग्रहणमनुवर्त्तते, `ञ्नित्यादिर्नित्यम्' (6.1.197) इत्यत आदिग्रहणञ्च प्राप्नोतीति; इच्छब्दलोपस्यासिद्धत्वे सति क्षीबशब्दस्याद्व्यच्कत्वात्। न होच्छब्दलोपस्यासिद्धत्वे सति क्षीबशब्दो द्व्यच्को भवति, किं तर्हि? त्र्यच्कः। `क्षीबिकः' इति। `नौद्व्यचष्ठन्' (4.4.7)। `इडागमः प्राप्नोति' इति। तकारलोपस्या सिद्धत्वे सति; आर्धधातुकस्य बलादित्वात्।
`अग्नात्रि [अग्नात्रि इच्छत्रमिति] इच्छत्रम्, पटात्रि उच्छत्रम्' इति। अग्निपटुशब्दयोः सम्बुद्धौ ह्रस्वस्य गुणे कृते एङ् ह्रस्वात् सम्बद्धेः' (6.1.69) इति सम्बुद्धिलोपे `एचोऽप्रगृह्यस्यादूराद्धते पूर्वस्यार्धस्यादूत्तरस्येदूत्तौ' (8.2.107) इत्येकारौकारयोः पूर्वस्यार्थस्याकारावशः, स च पुनरुत्तरस्य च यथाक्रममिकारोकारौ। `नित्यस्तुग्न प्राप्नोति' इति। नित्यश्चेष्यते; `पदान्ताद्वा' (6.1.76) इत्यनेन विकल्पेन प्राप्नोति, स चातिष्टः। तस्मात्तुग्विधौ प्लुतविकारः सिद्धो वक्तव्यः। छ इति किम्? अन्यत्र तुग्विधौ प्लुतविकारस्यासिद्धत्वमेव यथा स्यात्--खलं पुनाति ब्रह्मणकुलमिति। क्विप; `ह्रस्वो नपुंसके प्रातिपदिकस्य' (7.1.23) इति तस्य लुक्, `ह्रस्वस्य गुणः (7.3.108), पूर्ववत् प्लुतविकारः। अस्यासिद्धत्वात् खलपु इत्यत्र `ह्रस्वस्य पिति कृति तुक्' (6.1.71) इति तुग्न भवति।
`श्चुत्वं धुटि' इत्यादि। अटश्च्योतति, रट्श्च्योतति' इति। अट रट गतौ' (धा.पा.295,297) इत्याभ्यां क्विप; सुः, हल्ङ्यादिलोपः (6.1.68), `झलां जशोऽन्ते (8.2.39) इति टकारस्य डकारः। तस्मिन् श्च्योततिशब्दे परतः श्चुत्वस्यासिद्धत्वात् धुङ् न प्राप्नोति तस्मात् श्चुत्वं धुट्त्वे कर्त्तव्ये सिद्धं वक्तव्यम्। किमर्थं पुनरयम्' इत्यादि। न त्वस्य सकारस्य क्वचित् क्वचित् श्रवणमस्तीत्यभिप्रायः। `मधुश्च्यत्' इति। तत्करोति तदाचष्टे' (वा.209) इति भधुश्च्युतमाचष्ट इति णिचि कृते `णाविष्ठवत् प्रातिपदिकस्य' (वा.813) इति। णिलोपः, मधुश्च्यित् इति स्थिते ण्यब्तात् पुनरपि क्विप्, `णेरनिटि' (6.4.51) इति णिलोपः। श्चुत्वस्यासिद्धत्वात् `स्फोः संयोगाद्योः' (8.2.29) इति सकारस्य संयोगाद्यस्य लोपः, ततः सयोगन्तस्य लोपः' (8.2.23) इति यलोपः, ततः `चोः कुः' (8.2.30) इति कुत्वम्--मधुगित्येतदिष्टं रूपं भवति। तदर्थं सकारादिः पठ्यतेऽयमित्यभिप्रायः स्यादेतत्। शकारादावप्येतस्मिन्नेतद्रूपं भवत्येव? इत्यत आह--`शकारादौ पुनरेतस्मिन्' इत्यादि। पूर्वं तावद्यकारस्य संयोगान्तस्य लोपः' (8.2.23) इति लोपः, लुप्ते यकारे चकारः संयोगान्तो जात इति तस्यापि लोपः, ततः शकारस्य व्रश्चादिसूत्रेण (8.2.36) षत्वे सति `झलां जशोऽन्ते' (8.2.39) इति षकारस्य डकारे मधुङित्यपि नित्यं स्यात्।
`बभणतुः, बभणुः' इति। `अण रण भण' (धा.पा.444,445,447) इत्यस्माल्लिट्, तस्य तावद्द्विर्वचने `अभ्यासे चर्च' (8.4.54) इति जश्त्वम्--बकारः, तस्यासिद्धत्वादनादेशादिरेवायमिति, `अत एक हल्मध्येऽनादेशादेलिटि' (6.4.120) इत्येत्त्वं प्राप्नोतीति। `विचिच्छित्सति' इति। छिदेः सन्, द्विरवचनं छिदत्यस्य, `अभ्यासे चर्च' (8.4.54) इति चर्त्वं चकारः, तस्य सिद्धत्वादभ्यासे परे चिशब्दस्य `छे च' (6.1.73) इति तुग्न भवति। `उचिच्छिषति' इति। `उछी विवासे' (दा.पा.216), सन्, अजादेर्द्वितीयस्य (6.1.2) इत्युच्छेरन्तरङ्गत्वात् तुकि कृते त्छिस्शब्दो द्विरुच्यते, तत्र `खर्पूर्वाः खयः' (वा.878) इति छकारः शिष्यते, पूर्ववच्चर्त्वम्, तस्य सिद्धत्वादुकारस्य तुग्न भवति।
`सयँय्यन्ता, सवँव्वत्सरः' इत्यादि। समित्येतस्य यन्तेत्येतस्मिन् परतः वत्सरशब्दे च परतः, यल्लोकं तल्लोकमित्यत्रापि यत्तदोर्द्वितीयैकवचनान्तयोर्लोकशब्दे परतो मोऽनुस्वारे (8.3.23), तस्य `अनुस्वारस्य ययि परसवर्णः' (8.4.58) इति परसवर्णे आन्तर्यतः सानुनासिके ययि कृते तस्यासिद्धत्वात् `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45) इति वर्त्तमाने `अनचि च' (8.4.47) इति यरो द्विर्वचनं न प्राप्नोति। ततश्च पक्षे त्रयाणां यकारादीनां द्वित्वं न स्यात्।
`पदाधिकारश्चेत्' इत्यादि। यदि लत्वादिषु `पदस्य' (8.1.16) इति नानुवर्त्तते, तदा पदस्य द्विर्वचनमपदस्य द्विर्वचनेन तुल्यत्वाद्द्विर्वचनस्य् बहिरङ्गत्वम्, लत्वादीनाञ्चान्तरङ्गत्वम्। `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इति लत्वादिषु कर्त्तव्येषु द्विवैचनसिद्धत्वात् [`द्विर्वचनस्यासिद्धम्'--प्रा.मु.पाठः। द्विर्वचनेनेति सिद्धत्वात्--का.मु. पाठ]`पूर्वत्रासिद्धम्' (8.2.1) इत्येतन्न प्रवर्त्तते, ततश्च लत्वादिभिरेव तावद्भवितव्यम्, तेषु सत्सु पश्चाद्द्विर्वचनेनेति सिध्यत्येवेष्टम्। पदाधिकारे सति लत्वादीनामपि बहिरङ्गत्वादसत्या बहिरङ्गपरिभाषया (व्या.प.42) तेषु सत्सु द्विर्वचनं सिद्धम्। लत्वादयस्त्वस्मिन् कर्त्तव्येऽसिद्धाः, पूर्वत्रासिद्धत्वात् (8.2.1); ततश्च पूर्वं द्विर्वचने कृते पश्चाल्लत्वादिषु विधीयमानेषु परतश्चानिष्टमपि प्रसज्येत। तस्माद्यदि पदाधिकारः ततो लत्वादीनि सिद्धानि वक्तव्यानि। `गलो गलः' इति। `मॄ निगरणे' (धा.पा.1410)। `नुन्नः' इति। `मुदविव' (8.2.56) इत्यादना नकारः, पक्षे तकारश्च। `अभिनोऽफभिनः' ति। भिदेर्लङ्, सिप्, श्नम्, हल्ङ्यादिलोपः, (6.1.68) `सिपि धातोरुर्वा' (8.2.74), `दश्च' (8.2.75) इति वा रुत्वं पूर्ववदेव `अतो रोरप्लुदादप्लुते' (6.1.113) इत्युत्वम्। `आद्गुणः' (6.1.87)। `मातृष्ष्वसा, पितृष्षवसा' इति। `मातुःपितृभ्यामन्यतरस्याम्' (8.3.85) इति पक्षे षत्वम्। `माष वापाणि' इति। `वा भावकरणयोः' (8.4.10) इत्यनुवर्त्तमाने `प्रातिपदिकान्तनुम्बिभक्तिषु' (8.4.11) इति पक्षे णत्वम्। `वाङनयनम' इति। `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45) इति पक्षेऽनुनासिकः। `वाक्छयनम्' इति। `झयो होऽन्यतरस्याम्' (8.4.62) इति वर्त्तमाने `शश्छोटि' (8.4.63) इति वा छत्वम्। `लत्वादीनाम्' इत्यादि। एतेनासिद्धत्वे सति लत्वादीनां यो दोषस्तं दर्शयति। लत्वादीनामसिद्धत्वात् पूर्वं द्विर्वचने कृते सत्युत्तरत्र काले विकल्पविधित्वादयमर्थः प्रवर्त्तमानो यथा पूर्वत्र वर्त्तते, तथा नियोगातः परत्रापि न प्रवर्त्तत [`प्रवर्त्तेत'--का.मु.पाठः] इत्यनियोगो लभ्यते; नियमकारणाभावात्। ततश्चानिष्टो विकल्पः स्यात्--पूर्वपरयोरेकत्र प्रवृत्तेः, अपरत्राप्यप्रवृत्तेः। नेषेटोऽनिष्टो विकल्पः। तथा सति गरो गलः, गलो गर इत्येवमाद्यनिष्टमापद्यते। तत्र `न' इत्येतावदनिष्टविषये सूत्रं कर्त्तव्यम्। किमर्थम्? अनिष्टविषये पूर्वत्रासिद्धत्वस्य प्रतिषेधार्थम्। यत्र पूर्वत्रासिद्धत्वस्यानिष्टविषयः। ततः `भु ने' इत्येतद्ध्यत्र वचनेऽनुवर्त्तते। यद्येदम्, किमर्थमिदम्, पूर्वसूत्रेणैव सिद्धा प्रतिषेधः? सर्वत्र तत् सूत्रं नास्तीति ज्ञापनार्थम्। तेन यत्रासिद्धत्वमिष्यते तत्रैदासौ प्रवर्त्तते। तदन्यत्र विपर्ययस्तु न भवति; योगविभागादस्मिन् सूत्रे।।
4. उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। (8.2.4)
`उदात्तयणः, स्वरितयणश्च' इति। उदात्तस्थाने यो यण स उदात्तयण; स्वरितस्थाने यो यण् स स्वरितयणित्यर्थः। `कुमार्यौ, कुमार्यः' इति। अत्र `अनुदात्तौ सुप्तितौ' (3.1.4) इत्यौजसावनुदात्तौ, तयोरुदात्तयणोः परयोः स्वरितो भवति। `उदात्तनिवृत्तिस्वरेण' इति। उदात्तलोपनिमित्तस्वरः पूर्वमुदात्तस्य लोपो यस्मात्, स पुनरुदात्तनिवृत्तिस्वरः `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इत्यत्र यो विहिसः स [नास्ति--का.मु. पाठे] वेदितव्यः। `कृत्स्वरेणान्तोदात्तौ' इति। `ल्व्या प्व्या' इति। लूपूभ्यां धातुस्वरेणान्तोदात्ताभ्यां क्विप्, `उपपदमतिङ्' (2.2.19) इति समासः। `गतिकारकोपपदात् कृत्' (6.2.139) इति कृदन्तस्योत्तरपदस्य प्रकृतिभावदिधानादेतौ कृत्स्वरेणान्तोदात्तौ भवतः। `उदात्तयणआदेशश्च' इति। इहनेन सूत्रेणानुदात्तयोदात्तयणः परस्य स्वरितो विधीयते, स्वरितयणश्च परसय सप्तम्येकवचनस्य पूर्वेण प्रकारेण स्वरितो विधीयत इति दर्शयति। `तस्य यो यण्' इति। तस्येत्यनेन सप्तम्येकवचनस्य परामर्शः। `आशाशब्दाकारस्यानुदात्तस्य' इति। `आशाया अदिगारव्या चेत्' (फि.सू.1.18) इत्याशाशब्द आद्युदात्तः, तेन `अनुदात्तं पदमेकवर्जम्' (6.1.158) इत्याकारस्यानुदात्तत्वम्।
`ननु च' इत्यादि। सप्तम्येकवचनस्य `उदात्तयणः' इत्येवमनेन सुत्रेण यत् स्वरितत्वं विहितं तत् षाष्ठिकयणादेशे कर्त्तव्येऽसिद्धम्, ततश्च नैवायं स्वरितस्य स्थाने यणादेश इति सकृल्ल्व्याशा खलप्व्यशेत्यत्र स्वरितत्वं न भवतीत्यभिप्रायः। `आश्रयात्' इत्यादि। आहायम्--स्वरितयण इति; न क्वचित् सिद्धः स्वरितः। तत्राश्रयात् सिद्धत्वं भविष्यति, यथा `अतो रोरप्लुतादप्लुते' (6.1.913) इत्यत्र रुत्वस्य।
`यद्येवम्' इत्यादि। एतेनाश्रयात् सिद्धत्वे समाश्रोयमाणेऽतिप्रसङ्गमुद्भावयति। `दध्याशा' इति। दधिशब्दः `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इत्याद्युदात्तः, शेष स्यानुदात्तत्वम्, `उदात्तादनुदात्तस्य स्वरितः' (8.4.66) इति धकारात्परस्येकारस्य स्वरितत्वम्। तस्याश्रयात् सिद्धत्वे तत्स्थानिकाद्यण उत्तरस्याशाशब्दाकारस्य स्वरितत्वं स्यात्। `तस्मात्' इत्यादि। यत एवमाश्रयात् सिद्धत्व आश्रीयमाणेऽयमतिप्रसङ्गो भवति; तस्मादयमेव यण्स्वरो योऽनेन सूत्रेण (8.2.4) विधीयते, तस्य यणादेशे कर्त्तव्ये सिद्धत्वं वक्त्व्यम्। वक्तव्य मित्यस्य व्याख्यानमर्थः। तत्तु पूर्ववदेव योगादिभागमाश्रित्य कर्त्तव्यम्।
`केचित्तु' इत्यादि। यद्येवमित्यादिना योऽतिप्रसङ्गदोष उद्भावितः, तं केषाञ्चिन्मतेन परिहरति। अनिष्टेऽपि विषये प्रवृत्तिरतिप्रसङ्गः। न च `उदात्तादनुदात्तस्य स्वरितः' (8.4.66) इत्यनेनोदात्तात् परो यः स्वरितो विधीयते तस्याश्रयात् सिद्धत्वमानिष्टम्; यस्मादुदात्तात् परो यः स्वरितयण् तत्परस्यानुदात्तस्य स्वरितत्वम्, ततः स्थानित्वाद्यणः परस्याशाशब्दाकारस्य स्वरितत्वं तैत्तिरीयके शाखान्तरे पठ्यते। तदनुदात्तत्वं पुनरग्निशब्दसयाकारस्य; तस्य प्रातिपदिकस्वरेणान्तोदात्तत्वात्। `तथा ब्राह्मणेऽपि इति। [इति-नस्ति--प्रा.मु.पाठे] तदेकदेशविशेषो ब्राह्मणशब्देनेह विवक्षितः। `दध्याशयति' इति। अश्नोतेर्णिजन्तस्य धातुस्वरेण चित्स्वरेण वान्तोदात्तादकारोऽनुदात्तः। तस्य स्वरितयणः परस्य ब्राह्णे स्वरितत्वं पठ्यते।
`यथा तु' इत्यादि। एतेन तमेवातिप्रसङ्घं समर्थयते। वार्तिककारेणोक्तम्--`आक्षयात् सिद्धमिति चेदुदात्तात् स्वरिते दोषः' इति। अस्यायमर्थः--यद्याश्रयात् स्वारतस्य सिद्धत्वमुदात्तात् परो यः स्वरितस्तस्य यो यण् ततः परस्यानुदात्तस्य स्वरितत्वमिष्टं स्यात्, तत्र दोषः। तेनानेन सूत्रेण स्वरितत्वं न भवतीति स्थितम्। अनेन हि वार्त्तिकेन--उदात्तात् परो यः स्वरितयण् तस्मात्परस्यानुदात्तस्य स्वरती भवतीत्येषोऽर्थो न प्रतीयते। तस्मादेतच्च न। यथा भाव्यं तथोदात्तस्यानेन स्वरितयणः परस्यानुदात्तस्य स्वरितो न भवतीति सिद्धं भवतीति। `तथा' इत्यादिनानन्तरमेवार्थं द्रढयति। भाष्ये हि `स्वरितग्रहणं न करिष्यते' इत्यादिना यन्थेन स्वरितग्रहणासिद्धत्वे सूत्रे प्रत्याच्याते। एवञ्च तत्प्रत्याल्यानमुपपद्यते, यद्युदात्तात् स्वरितयणः परस्यानुदात्तस्य स्वरितत्वं नेष्यते; अन्यथा तन्निमित्तस्य स्वरितस्येष्टौ सत्यां प्रत्याख्यानमुपपन्नमेव न स्यात्। किं [`कि' नास्ति--प्रा.मु.पाठेः] पुनर्भाष्ये स्वरितयणो ग्रहणं प्रत्याख्यायते, यावता तस्मिन् प्रत्याख्याते सकुल्ल्व्याशेथ्येवमादावनुदात्तस्य स्वरितो न सिध्यति? इत्यत आह--`सकृल्ल्व्याशेत्येमादौ' इत्यादि। उदात्तयण् पुनरत्रोकारवकारेको यकारः। ननु च योऽसौ सप्तम्येकवचनस्य स्थाने जायते तेन व्यवधानान्न सिध्यति? इत्यत आह--`स्वरितयण्' इत्यादि। अत्रैव कारणमाह--`स्वरविधौ' इत्यादि। इतिकरणो हेतौ।
यदि स्वरितग्रहणन्तरेणापि सिध्यति, कस्मात् सूत्रे तद्ग्रहणं क्रियते? इत्यत आह--`तत्तु क्रियते' इत्यादि। `अचः परस्मिन् पूर्वविधौ' (1.1.57) इत्यस्य हि--पूर्वस्माद्विधौ कर्त्तव्येऽजादेशः स्थानिवद्भवतीत्येषोऽर्थोऽभिमतः। उदात्तयणः परस्यानुदात्तस्य स्वरितविधौ कर्त्तव्य सप्तम्येकवचनस्थाने यो यणादेशस्तस्य स्थानिवद्भावादिकारेण व्यवधानमस्ति; व्यञ्जनस्य स्वरविधावविद्यमानवद्भावात् (व्या.प.37)। तेन व्यवधानं सति सकृल्ल्व्याशेत्यत्र `उदात्तयणः' इत्येव न सिध्यतीति स्वरितग्रहणं क्रियते। ननु च `नपदान्तरद्विर्वचन' (1.1.58) इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः। तत्कुतो व्यवधानम्? इत्यत आह--`स्वरदीर्घयलोपेषु' इत्यादि। अचो हि लोपादेशस्य स्वरविधौ [अयं भागः का.मुद्रिते नास्ति] स्थानिवद्भावः प्रतिषिध्यते। तथा हि तत्रोक्तम्--`स्वरदीर्घयलोपेषु[अयं भागः का.मुद्रिते नास्ति] लोपाजादेशो [लोपादेशो--का.मुद्रितपठिः] न स्थानिवद्भवतीति वक्तव्यम्' (1.1.58.वा.1) ति। न चात्राचो लोपादेशः, किं तर्हि? यणादेशः तस्मान्नास्ति स्थाविद्भावप्रतिषेधः।
`वैद्याशा' इति। विदस्यायत्यमिति `अनृष्यानन्तर्ये (4.1.104) इत्यादिना विदादित्वादञ्, तदन्तात् `शाङ्गरवाद्यञो ङीन्' (4.1.73) इति ङीन्। अत्र नित्त्वादाद्युदात्तत्वे कृते शेषस्यानुदात्तत्वमिति बैद्याशाशब्देऽचानुदात्तस्थाने यण्, नोदात्तस्य, नापि स्वरितस्य। `अत्र' इति। `अयमाद्युदात्तो लित्स्वरेण' इति। `सप्तम्यास्त्रल्' (5.3.10) इति त्रल्प्रत्ययान्तत्वात्। `हलि लोः' (7.2.113) इतीद्रूपस्य लोपः।।
5. एकादेश उदात्तेनोदात्तः। (8.2.5)
`अनुदत्तस्य' इति। उदात्तेन सहानुदात्तस्य यस्मिन्नेकादेशः स उदात्तः स्यात्, न तु स्वरितः। स्वरिते प्राप्त इदमारभ्यते। उदाहरणेष्वग्निप्रभृतयः प्रातिपदिकस्वरेणान्तोदात्ताः (फि.सू.1.1) विभक्तिस्तु `अनुदात्तौ सुप्तितौ' (3.1.4) इत्यनुदात्ता। `अग्नी, वायू' इति। `प्रथमयोः पूर्वसवर्णः' (6.1.102) इति दीर्घः। `वृक्षी, प्लक्षौ इति। `वृद्धिरेचि' (6.1.88) इति वृद्धिः।
`पचन्ति, यजन्ति' इति। `अतो गुणे' (6.1.97) पररूपत्वम्। `द्वयोरनुदात्तयोरयमेकादेशः' इति। ननु च `उदात्तादनुदात्तस्य स्वरितः' (8.4.66) इति शबकारस्य स्वरितत्वे कृते स्वरितानुदात्तयोरयमेकादेशः, तत्कथं द्वयोरनुदात्तयोरिति? एवमाह--`पररूपे कर्त्तव्ये स्वरितस्यासिद्धत्वात्'।।
6. स्वरितो वाऽनुदात्ते पदादौ। (8.2.6)
`सूत्थितः' इति। `कुगतिप्रादयः' (2.2.18) इति समासः। `अत्र सुशब्दः कर्मप्रवचनीयः' इति। अनेन सुशब्दस्य गतित्वमपनयति। गतित्वे हि सति `गतिर्गतौ' (8.1.70) इति निघातः स्यात्, ततश्चोदात्तेनानुदात्तस्यायमेकादेशो न स्यात्। `प्रादिसमासे' इत्यादि। सुशब्द आद्युदात्तः। तत्र हि प्रादिसमासे कृते `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वरत्वादाद्यूदात्तत्वं भवति। अतस्तेन प्रकृतिस्वरत्वेन हेतुनायमादेशः, यतोऽकः सवर्णदीर्घत्वमनुदात्ते पदादौ भवति। सुशब्दस्य ह्याद्युदात्तस्य प्रकृतिस्वरत्वे सति शेषस्यानुदात्तभावोपपत्तेः। ननु `प्रादिसमासे [`प्रादिप्रसङ्गे' इति वातिकपाठः] कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः' (वा.96) इत्युक्तम्, तत्कथमिह प्रादिसमासः? नैष दोषः; तस्य प्रतिधेधस्यानित्यत्वात्। अनित्यत्वं तु सुशब्दस्य सुषामादिषु (8.3.98) प्रयोगाद्विज्ञैयम्। तस्य हि तत्र `उपसर्गात्सुनोति' (8.3.65() इत्यादिनैव सिद्धेऽनुपसर्गार्थः पाठः। अनुपसर्गत्वं च सोः `सुः पूजायाम्' (1.4.94) इति कर्मप्रवचनीयत्वात्। अथ वा स्वतिभ्यामन्ये ये प्रादयस्तत्रायं प्रतिषेधः। तथा हि तत्र `स्वती पूजायाम्' (का.2.2.18) इति पूजायां स्वतिशब्दयोः प्रातिसमास उक्तः पूजायां च तयोः कर्मप्रवचनीयत्वं विवक्षितम्।
`दीक्षते' इति। विशब्दो निपरातस्वरेणाद्युदात्तः। अत्रापि `तिङङतिङः' (8.1.28) ति निघाते कृत एकादेश इत्यनुदात्ते पदादौ भवतीति सम्बन्धनीयम्। `वसुकोऽसि' इति। वसुशब्दः प्रातिपदिकस्वरेणान्तोदात्तः, ततः सुप्रन्ययान्तत्वात् कस्य ह्यसिशब्दे परतः `अतो रोरप्लुतादप्युते' (6.1.113) इत्युत्वम्, तस्य स्थानिवद्भावेन सुप्त्वादनुदात्तत्वमम्, पूर्वेण सह `आद्गुणः' (6.1.87) स च पूर्वसूत्रे (8.2.5) णान्तोदात्तः। `असि' इति। `तायस्त्योर्लोपः' (7.4.50) इति सकारलोपे कृते लटि सिपि रूपम्। अत्र `तिङङतिङः' (8.1.28) इति निघातेनाकारोऽनुदात्तः, तसयाकारेण सह `एङः पदान्तादति' (6.1.109) इति परपूर्वत्वम्। `स्वरितग्रहणम्' इत्यादि। कथं पुनरसति स्वरितग्रहणे स्वरित आदेशो भवति, पुनः स्वरितग्रहणं विस्पष्टार्थम्; न पुनः पक्षे स्वरितविधानार्थम्? इत्यत आह--`उदात्ते हि' इत्यादि। उदात्ते हि विकल्पिते यस्मिन् पक्षे स न भवति तस्मिन्नुदात्तानुदात्तयोरन्तरतमो यस्तेनैव भवितव्यम्, स च स्वरित एव। अतोऽन्तरेणापि स्वरितग्रहणं स्वरित एव भविष्यति।
7. नलोपः प्रातिपदिकान्तस्य। (8.2.7)
`प्रातिपदिकस्य' इति, `पदस्य' इति समानाधिकरणे षष्ठ्यौ।
`अहन्नहिम्' इति। हन्तेर्लङ्, तिप्, हल्ङ्यादिलोपः' (6.1.68) अदादित्वाच्छपो लुक्। `अधातुः' (1.2.45) इति प्रतिषेधादिह प्रातिपदिकत्वं नास्ति। `राजा, राजानौ, राजानः' इति। असर्वनामस्थाने पदसंज्ञाप्रतिषेधादिह (1.4.17) प्रातिपदिकस्यावयवोऽन्तो नकारो भवति। `प्रातिपदिकान्तस्य' इति। षष्ठीतत्पुरुषेऽत्रोत्तरपदप्रधानत्वादस्यैव पदस्य तद्विशेषणं युक्तम्, न तु गुणभूतस्य। प्रातिपदिकेनान्तशब्देन चात्र नकारो विशेषितः, स च नकारः प्रातिपदिकस्यान्तर्भूतः। `पदस्य' इति। अनिष्टयोरपि व्यधिकरणयोः पदप्रातिपदिकान्तर्योर्विशेषणविशेष्यभावेन भवितव्यम्--प्रातिपदिकान्तस्येति, पदस्येति। पदस्य योऽवयवः सोऽपि प्रातिपदिकस्येत्यर्थः। एवञ्च सति क्रियमाणेऽप्यन्तग्रहणे राजानौ, राजान इत्यत्र प्राप्नोत्येव नलोपः, भवति ह्यत्रापि पदावयवः प्रातिपदिकस्यान्तो नकारः?--इत्येतच्चोद्यमपाकर्तुमाह--`प्रातिपदिकग्रहणमसमस्तमेव' इति। ततश्च तस्य `पदस्य' इत्येतत् समानाधिकरणविशेषणं युक्तमेवेत्यभिप्रायः। यदि तर्ह्यसमस्तमेव प्रातिपदिकग्रहणं षष्ठ्याश्रयणं प्राप्नोतीत्यभिप्रायः? इत्यत आह--`सुपां सुलक्' इति। अनेन यत् षष्ठ्यां लुक् तेन लुका निर्दिष्टं प्रातिप्रार्तिपदिकग्रहणम्, अतो न भवति षष्ठ्याः प्रसङ्गः।
`अहः' इति। `स्वमीर्वपुंसकात्' (7.1.23) इति सोर्लुक्, `रोऽसुपि' (8.2.69) इति नकारस्य रेफः। प्रत्ययलक्षणेनाह्नः (1.1.62) सुप्परता नास्ति; `लुमता लुप्ते प्रत्ययलक्षणं नास्ति' (1.1.63) इति वचनात्। `अहोभ्याम्, अहोभिः' इति। `अहन्' (8.2.68) इति रुत्वम्, `हशि च' (6.1.114) इत्युत्वम्, `आद्गुणः' (6.1.87)। ननु च प्राप्तिपूर्वकः प्रतिषेधो भवति; इह च रेफरुत्वयोः कृतयोर्नलोपस्य प्राप्तिरेव नास्ति, नकाराभावात् तत्किं प्रतिषेधेन? इत्यत आह--`अहन्' (8.2.68) `रोऽसुपि' (8.6.9) इति आदिश्येते। तद्रेफो रुत्पञ्च द्वयमप्येतदनवकाशम्, अतो लोपे न भवति; अन्यथा हि तयोर्विधानमनर्थकं स्यादित्यत आह--`सावकाशम्' इत्यादि। सम्बुद्धौ हि लोप न; `न ङिसम्बुद्ध्योः' (8.2.8) इति प्रतिषेधात्। अतस्तत्रोभयमप्येतत् सावकाशम्। `हे दीर्घाहो निदाघ' इति। दीर्घाण्यहानि यस्मिन्निदाघ इति बहुव्रीहिः, तत्सम्बुद्धिः, हल्ङ्यादिलोपः (6.1.68)। सत्यपि लोपे प्रत्ययलक्षणेन सुप्परतास्ती ति `रोऽसुपि' (8.2.69) इत्येतन्न प्रवर्त्तते, `अहन्' (8.2.68) इति रुत्वमेव भवति।
`अहन्' इति। `प्रथमैकवचनान्तम्' इत्यादि। तत्र `अहन्' (8.2.68) इति रुत्वविधौ यदुपादीयते तदावर्त्तते--इत्येतावति वक्तव्ये `अहन्' इत्यनेन सूत्रेण केवलं रुत्वमादेशो न विधीयते, अपि त्वावृत्तिन्यायादहन्नित्येतच्छब्दरूपमन्वाख्यायते--इत्यत्रोपपत्तिप्रदर्शनार्थम् `प्रथमैकवचनान्तमकृतनलोपम्' इत्युक्तम्। यदि ह्यादेशनात्रमहन्नित्यनेन विधीयते, तदादेशसम्बन्धे षष्ठ्या भवितव्यमिति षष्ठ्युपादीयेत, न प्रथमा। प्रथमया ह्युपादीयमानं कृतनकारलोपमुपादीयेत, नकारलोपलक्षणस्य भावात्; न चैव कृतम्; तस्मात् प्रथमान्तस्याकृतनकारलोपस्योपादानदवसीयते--अहन्निति रूपस्यान्वाख्यानं क्रियत इति। अन्वाख्यायते--साधुत्वेन प्रतिपाद्यत इत्यर्थः। किमर्थम्? नलोपाभावार्थम्। `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इत्यनेन लोपो मा भूदित्येवमर्थम्।।
8. न ङिसम्बुद्ध्योः। (8.2.8)
`चर्मन्' इति। `सुपां सुलृक्' (7.1.39) इति ङेर्लुक्। ननु च सुराजन्निति प्रातिपदिकसंज्ञा हि विद्यते, प्रत्ययलक्षणेन (1.1.62) `अप्रत्ययः' (1.2.45) इति न प्रतिषेधात्। `आर्द्रे चर्मन्' इति। अत्र तु न केवल प्रातिपदिकसंज्ञा पूरवोक्तादेव हेतोर्नास्ति; प्रत्ययलक्षणेन प्रवृत्तया भसंज्ञया बाधितत्वात्। अतो नलोपप्राप्तिर्मास्त्येवेत्यर्थः।
कथं प्रतिषेधः? इत्यत आह--`एतस्मादेव' इत्यादि। `भसंज्ञा च न भवति' इति। अत्राप्येतस्मादेव प्रतिषेधवचनात् प्रत्ययलक्षणेन च ज्ञाप्यत इति सम्बध्यते। `तथा च' इत्यादिना ज्ञापनप्रयोजनं दर्शयति तदेवमेतस्मात् प्रतिषेधादर्थद्वयं ज्ञाप्यते। एवञ्च कृत्वा--राजपुरुष इत्यत्र प्रातिपदिकसंज्ञायां सत्यां नलोपश्च भवति। भसंज्ञायामसत्यां `अल्लोपोऽनः' (6.4.134) इत्यलोपश्च न भवति। न भसंज्ञाभावन्चेत्यस्येह `यथोद्देर्श संज्ञापरिभाषम्' (व्या.प.59) इत्यस्मिन् दर्शने प्रयोजनं वेदितव्यम्। `कार्यकालं हि संज्ञापरिभाषम्' (व्या.प.58) इत्यस्मिन् दर्शने भसंज्ञायामङ्गकार्यं भवतीति `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणप्रतिषेधादेव भसंज्ञा न भवतीति नार्थस्तत्र भसंज्ञाया अभावज्ञापनेन।
`ङावुत्तरपदे' इत्यादिनायं ङौ परतो नलोपप्रतिषेधस्य प्रतिषेध उक्तः। तस्योत्तरपदे परतो यो ङिस्तत्र प्रतिषेधो वक्तव्यः। `वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--`स्वरितो दानुदात्तं पदादौ' (8.2.6) इत्यतः `वा' इत्यनुवर्त्तते, सा च व्यवस्थितविभाषा, तेन ङावुत्तरपदे न भविष्यतौति। `चर्मणि तिला अस्य चर्मतिलः' इति। वैयधिकरण्येऽपि गमकत्वात् समासः। ननु चात्यल्पमिदमुच्यते--ङावुत्तरपदे प्रतिषेधो वक्तव्य [अयं भागः का. मुद्रितपूस्तके नास्ति] इति। सम्बुद्धावपि ह्युत्तरपदे प्रतिषधो [अयं भागः का. मुद्रितपूस्तके नास्ति] वक्तव्य एव; अन्यथा हि हे राजन् वृन्दारकेति विगृह्य `वृन्दारकनागकुञ्जरैः' (2.1.62) इति समासे कृते हेराजन् वृन्दारकेत्यत्र नलोपो न स्यात्? इत्यत आह--`हे राजन् वृन्दारकेत्यत्र तु' इत्यादि। समानार्थेन वाक्येन समासेन भवितव्यम्, एवं हि सामर्थ्यं भवति, नान्यथा। तथा चोक्तम्--ग्रहणवाक्यार्थाभिधाने यः शक्तः स समर्थो वेदितव्य इति। यश्चेहार्थो हे राजन् वृन्दारकेति वाक्येन गम्यते, स न ज्ञायते--हे राजवृन्दारकेति समासेन। वाक्येन ह्येकार्थीभावाभावात् सम्बोधनं गम्यते, समासे तु विपर्ययात् समुदायार्थः सम्बोधनम्। तस्माद्राजा चासौ वृन्दारकश्चेत्येवमेव विगृह्य समासः कर्त्तव्यः, ततः सम्बुद्धिः, एवञ्च सम्बुद्ध्यन्तं पूर्वपदम्। हे राजन् वृन्दारकेत्यत्र समासो भविष्यत्येव; ततश्चोत्तरपदे परतः सम्बुद्धेरभावान्नलोपप्रतिषेधस्य प्राप्तिरेव नास्तीति नार्थस्ततप्रतिषेधेन।
`वा नपुंसकानाम्' इत्यादि। नपुंसकलिङ्गानां वा नलोपप्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमिति। अत्र व्याख्यानं तु--इहापि वाग्रहणानुवृत्तिं व्यवस्थितविभाषात्वं चाश्रित्य कर्त्तव्यम्।।
9. मादुपधायाश्च मतोर्वोऽयवादिभ्यः। (8.2.9)
मकारान्तान्मकारोपधादवर्णान्तादवर्णोपधाच्चोत्तरस्य मतुपो मकारसय `च' इत्ययमादेशो भवतीत्ययमर्थोऽभिमतः। स एव यथा सम्पद्यते, तथा दर्शयितुमाह--`मतोरिह' इत्यादि। अत्र मतुप कार्यित्वेनीपात्तः। स च नास्त्यन्तरेण प्रातिपदिकत्वम्; तद्विधौ प्रातिपदिकाधिकारात् (4.1.1)। तस्मान्मतुपः पूर्वं सामर्थ्यलभ्यं प्रातिपदिकम्, तन्मकारावर्णाभ्यां मादिति विशिष्यते--मकारोऽन्तो यस्यं, अवर्णोऽन्तो यस्येति। मकारावर्णविशिष्टा या चोपधेति सामर्थ्यम्। कथम्? पूर्वं प्रातिपदिकान्तं विशिष्यते इति सम्बन्धनीयम्। मकारेण विशेषणेन, अवर्णेन विशेषणेन च विशिष्टा योपधा सा च विशिष्यते--मकार उपधा यस्य, अवर्ण उपधा यस्येति। मकारावर्णविशिष्टस्येति मतुपो विशेषणे `उपधायाश्च' इत्यत्र मा भूदिति? अस्यापेक्षितस्वल्लभ्यत इत्ययमर्थो भवतीति। इतिकरणो हेतौ। यस्मात् सामर्थ्यप्राप्तं प्रातिपदिकमेव विशिष्यते, तस्मादयं वक्ष्यमाणोऽर्थः सूत्रस्यापि भविष्यतीति। `किंवान्' इति। किमस्यास्तीति मतुप्; `उगिदचाम्' (7.1.70) इत्यादिना नुम्, हलङ्यादिसंयोगान्तलौ (6.1.68; 8.2.23), `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः।
`नार्मतम्' इति। नरोऽस्य सन्तीति नृमान्, नृमत इदमिति `तस्येदम्' (4.3.120) इत्यण्, तत्र वृद्धौ कृतायां दार्मतमित्यत्रावर्णोपधमतुप् प्रातिपदिकं जातमिति वत्वं प्राप्नीति, तत् कस्मान्न भवति? इत्याह--`इह' इत्यादि। नार्मतमित्यत्र ह्यवर्णोपधमतुप्त्वं वृद्धिरेव, सा च बाह्मतद्धितनिमित्ता। अतोऽवर्णौपधत्वस्य बहिरङ्गत्वम्, वत्वं तु प्रवृत्तिनिमित्तमिति तस्यान्तरङ्गत्वम्, असिद्धं च बहिरङ्गमन्तरङ्गे (व्या.प.42) इति, तेन नार्मत मित्यत्र वत्वं न भवति।।
10. झयः। (8.2.10)
`अग्निचित्वान्' इति। `तसौ मत्वर्थे' (1.4.19) इति भसंज्ञा। तेन पदसंज्ञानिबन्धनं `झलां जशोऽन्ते' (8.2.39) इति जश्त्वं न भवति।।
11. संज्ञायाम्। (8.2.11)
`अहीवती' इति। `नद्यां मतुप्' (4.2.85) इति चातुरर्थिको भतुप्, `शरादीनाञ्च' (6.3.120) दीर्घः।।
12. आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती। (8.2.12)
अथाष्ठीवदिति किमर्थं निपात्यते, यावतोर्वष्ठीवमित्यस्मादेव निपातनात् (5.4.77) एतत्सिद्धम्? एवं मन्यते--द्वन्द्व एवैतन्निपातनमिति तत्रैव स्यात्, इह तु निपातनं क्रियमाणं सर्वविषयं भविष्यतीति। कथं पुनर्ज्ञायते--आसन्दीशब्दः प्रकृत्यन्तरं विद्यते? इत्याह--`तथा चोक्तम्' इत्यादि। यदि तर्हि तत्रैव संज्ञायामिति वत्वे च (8.2.11) सिद्धमासन्दीवदिति, तत्किमर्थमिह पठ्यते? इत्याह--`आसन्दीवत्' इत्यादि। `तत्प्रयञ्चार्थम्' इति।
यदि तर्हि चक्रीवदिति संज्ञायामेतन्निपातनम्, कथं चक्रीवन्ति सदोहविर्धानानि भवन्तीति, न हीयं संज्ञा? इत्यात आह--`चक्रीवन्ति' इत्यादि। छन्दसि ह्ययं प्रयोगः, तत्र `व्यत्ययो बहुलम्' (3.1.85) इति वर्णव्यत्ययेनाकारस्येकारे कृते `छन्दसीरः' (8.2.15) इति मतोर्वत्वे चक्रीवन्तीत्येतत् सिध्यति। तस्माच्छान्दसत्वादेवमेतत् साधुत्वेनानुगन्तव्यम्।
`कक्षीवान्' इति। `हलः'[`हलि च' इति सूत्रम्] (8.2.77) इति दीर्घः। `नलोपाबावार्थम्' इति। `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नकारलोपः प्रापनोति, स मा भूदित्येवमर्थम्। `णत्वर्थं च' इति। `पदान्तस्य' (8.4.37) इति णत्वप्रतिषेधः प्राप्नोति, अतो णत्वार्थञ्च निपातनम्। `मतोर्वा नुडर्थमिति' इति। वाशब्दो विकल्पार्थः। थ वा--नैव नकारलोपाभावार्थं निपातनम्, नापि णत्वार्थम्, किं तर्हि? मतोर्नुडर्थम्। नुटि कृते नलोपे सत्यपि सिध्यत्येवेष्टम्, णत्वप्रतिषेधस्य प्रार्प्नास्त्येव; अपदान्तत्वात्। `अट्कुप्वाङ्' (8.4.2) इति णत्वं भवति।।
13. उदन्वानुदधौ च। (8.2.13)
`उदधावर्थे' इति। यस्मिन्नुदकं धीयते तस्मिन्नर्थं इत्यर्थः। तथा ह्युदके कर्मण्युपपदे `कर्मण्यधिकरणे च' (3.3.93) इति किप्रत्यये कृते `पेषंवासवाहनधिषु च' (6.3.58) इत्युदकस्योदभावे कृत उदधिशब्दो व्युत्पाद्यते। चकारेण `संज्ञायाम्' (8.2.11) इत्यनुकृष्यत इति दर्शयति। `संज्ञायां च' इत्यादि। `उदधावर्थे' इत्यादि। उदधिग्रहणञ्च संज्ञार्थम्। `उदन्दान्' इति। डदकं धेयमास्मिन्नस्तीत्यर्थविवक्षायां मतुप्। `स एव मुच्यते' इति। न तु गङ्गादिः।
यदि यस्मिन्नुदकं धीयते [नास्ति--का.मु.पुस्तके] स एव मुच्यते--उदकवान् घट इत्यभिधानं प्राप्नोति, घटेऽप्युदकं धीयत इत्यत आह--`उदकवान् घटः' इत्यादि। इह विवक्षा शब्दव्युत्पत्तेः प्रधानं कारणम्, न वस्तुनः सत्ता। स च येन दधात्यर्थेनोदधिरित्युच्यते, सोऽस्मिन् प्रयोगे घटे न विवक्षितः, किं तर्हि? उदकसत्तायाः सम्बन्धमात्रम्। उदकमस्मिन्नस्तीत्येवन्मात्रं विवक्षितम्। अतो दधात्यर्थस्याविवक्षितत्वाद्घटस्योदधित्वं विद्यमानमप्यसङ्कल्प्यमेवेति नायं निपातनस्य विषयः। तेन घट उदकवानित्युच्यते। यदा तु दधात्यर्थो विवक्ष्यते तदोदन्वानित्येवं वक्तव्यम्।।
14. राजन्वान् सौराज्ये। (8.2.14)
`राजन्वानिति निपात्यते' इति। किमन्न निपात्यते? नलोपाभावः, नुङ्वा। `सौराज्यम्' इति। शौभनो राजा यस्मिन् देशे स सुराजा, तद्भावः सौराज्यम्, ब्राह्मणादित्वात् व्यञ्, `नस्तद्धिते' (6.4.144) इति नलोपः। तत्पुनः सौराज्यं यत्र शोभनेन राज्ञा देशस्य सम्बन्धः। `समासकृत्तद्धितेषु सम्बन्धाभिधानम्' (सी.पा.130) इति वचनाद्राजन्वानित्यस्य शब्दस्य देश एव वाच्यः, न सौराज्यम्। स तु देश शब्दात्् प्रतीयमानः; सौराज्येनाविनाभावित्वात्। तच्च गमयतीत्याह--`गम्यमाने' इति। `राजन्वान्' इति पुंल्लिङ्गम्। तस्यातन्त्रतां दर्शयितुम्--`राजन्वती पृथिवी' इत्यस्योदाहरणस्योपन्यासः।।
15. छन्दसीरः। (8.2.15)
`हरिवो मेदिनम्' इति। `न मु ने' (8.2.3) इत्यत्रैतद्व्युत्पादितम्। `आरेवानेतु मा विशत्' इति। रयिशब्दस्य `रयेर्मतौ बहुलम्' (दा.665) इति सम्प्रसारणम्, परपूर्वत्वम्, `आद्गुणः' (6.1.87)। अथेह कस्मान्न भवति--सप्तर्षिमन्तं द्यावापृथिवीमन्तम्? इत्याह--द्यौश्च पृथिवी चेति द्वन्द्वे कृते `दिवसश्च पृथिव्याम्' (6.3.30) इति दिवो द्यावादेशः।
`गोर्वान्, धूर्वान्, आशीर्वान्' इति। `गॄ शब्दे' (धा.पा.1498), `धुर्वी हिंसार्थः (धा.पा.573), `आङ शासु श्च्छायाम्' (धा.पा.1022), एषां सम्पदादित्वात् क्विप्। गृणातेः `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, धुर्वेः `राल्लोपः' (6.4.21) इति वकारलोपः, `शास इदङ्हलोः' (6.4.34), इत्यत्र शास इत्त्वे `आशासः क्वावुपसंख्यानम्' (वा.781) इत्याङ्पूर्वस्य शास इत्त्वम्, मतुपि कृते `ससजुवो रुः' (8.2.66) इति रुत्वम्।।
16. अनो नुट्। (8.2.16)
`अक्षण्यन्तः' इति। `अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः' (7.1.75), ` छन्दस्यापि दृश्यते' (7.1.76) इत्याङ्; नुट्, अनङी नकारस्य लोपः नुमो णत्वम्। `अस्थन्वन्तम्' इति। अस्थिशब्दस्य णत्ववर्ज पूर्ववदनङादि कर्त्तव्यम्। `शीर्षण्वती' इति। `शीर्षंश्छन्दसि' (6.1.60) निपातितम्। ननु च नुटोऽनन्तरत्वात् तस्यैव वत्वेन भवितुं युक्तम्, न तु तद्व्यवहितस्य मकारस्य, तत्कथमिह नुटो वत्वं न भवति, ततस्तु परस्य न भवति? इत्याह--`नुटोऽसिद्धत्वात्' इत्यादि। अथायं नुट् परत्वादपवाद एव कस्मान्न भवति? भिन्नजातीयत्वात्। समानजातीयकार्यपन्नो हि विशेषः सामान्यस्य बाधको भवति, इह कार्यभेदोऽस्ति; वत्वस्यादेशत्वान्नुटस्थ्वागमत्वादिति नास्ति वाध्यबाधकभावः, नुटः परादिकरणं णत्वं यथा स्यादित्येवमर्थम्; अन्यथा हि `पदान्तस्य' (8.4.37) इति प्रतिषेधः स्यात्।।
17. नादघस्य। (8.2.17)
`सुपथिन्तरः' इति। शोभनः पन्था इति प्रादिसमासः--सुपन्थाः, सुशब्दात् `न पूजनात्' (5.4.69) इति प्रतिषेधात् `ऋक्पूरब्धूः' (5.4.74) इत्यादिना समासान्तो न भवति, तरप्। `दल्युहन्तमः'। दस्युं हतवानिति क्विप्, तदन्तात् तमप्।
`भूरिदावत्तरः' इति। भूरि वदातीति `आतो मनिन्' (3.2.74) इत्यादिना वनिप्, तदन्तादुत्तरपदस्य तुट्।
`रथीतरः' इति। रथिन्नित्येतस्मान्मत्वर्थीयेनिप्रत्ययान्तात् तरप्, नकारस्य लोपः, ईकारः अथ वा--नकारस्यैवेकारः, सवर्णदीर्घत्वम्।।
18. कृपो रो लः। (8.2.18)
इह र इति वर्ण उपादीयते, ल इत्यस्यादेशस्तादृश एव; ततश्च केवलो यो रेफवरणो नावयवभूतस्तस्यैव तथाभूत एव लकारादेशः स्यात्, ऋकारस्य तु लकारो न स्यात्; तयोः स्थान्यादेशभावेन सूत्रोऽनुपादानात्। ततश्च क्लृप्तः, क्लृप्तवानित्यादि न सिध्येदिति यश्चोदयेत्, तं प्रत्याह--`र इति सामान्यमुपादीयते' इति। वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य यत् सामान्य वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ वर्त्तते यतस्तयोर्वर्णत्वावर्णत्वादिभेदभिन्नयोर्द्वयोरपि र इत्यभिधानप्रत्ययावभिन्नौ भवतस्तदुपादीयते, न तु वर्णात्मकः--एवं विशेषः। `तेन' इति। सामान्योपादानेन द्वयोरपि ग्रहणं भवतीति। तस्य सामान्यस्य द्वयोरपि भावात् `ल इत्यपि सामान्यमेव' इति। उपदीयत इत्यपेक्षते। अत्रापि तेन यश्चकेवलो लकारो यश्च लृकारस्थः, तयोर्द्वयोरपि ग्रहणमित्येतद्वाच्यम्? पूर्वानुसारेण गम्यमानार्थत्वान्नोक्तम्। `ततोऽयम्' इत्यादि। यत एवं द्वयोरपि रेफयोलकारयोश्च ग्रहणम्, तस्मात् केवलस्य रेफस्य केवलो लकार आदेशो विधीयते। आन्तरतम्यादृकारस्यापि लृकारः। ननु च सत्यपि द्वयोरपि ग्रहणे ऋकारस्य स्थान ऋकारो विधीयत इत्येतन्न लभ्येत, न हि ऋकारस्थो रेफ ऋकारो भवति, किं तर्हि? तदवयवः; तत्र द्वयोरपि ग्रहणे सति ऋकारस्थस्यापि रेफस्य लृकारस्थो लकारस्त त्सदृश एवान्तरतन्याद्भवतीत्येषोऽर्थो लभ्यते, न तु ऋकारस्यापि स्थाने लृकारो भवतीत्येषोऽर्थोऽपि? इत्येतस्य चोद्यस्य निराकरणार्थं `एकदेशविकारहद्वारेण' इत्युक्तम्। एकदेश ऋकारस्यावयवो रेफस्तस्य विकार लृकारावयवो लकारः। अथ वा--एकदेश लृकारस्यावयवो लकारः, स एव विकारः। ऋकारस्य रेफस्यैकदेशविकारः। द्वारम्--मुखम्, उपाय इति यावत्। तेन ऋकारस्य स्थान लृकारादेशो विधीयते। यदि ऋकारलृकारस्थयो रेफलकारयोर्ऋकारलृकाराभ्यां पृथग्भावः सम्भवति। तस्मान्नान्तरीयकत्वादेकदेशविकारद्वारेण समस्तस्यैव ऋकारस्य समस्त एव लृकारादेशो विधीयते। अस्यैवार्थस्य द्रढीकरणायाह--`एवं च' इत्यादि। यत एवमेकदेशविकाद्वारेण ऋकारस्य स्थाने लृकारो विधीयते, एवञ्च `लुटि च क्लृपः' (1.3.110) इत्येवमादीनां ग्रहणम्। तदेवं चोद्यं परिहरता यदुक्तम्--`नुङ्विधिलादेशविनामेष्वृकारः [`ऋकारे'--काशिका, पदमञ्जरी च] प्रतिविधातव्यः' [विधातव्यम्--काशिका, पदमञ्जरी च] (वा.1) इति, तत्रावसरे प्राप्ते लादेशे प्रतिविहितम्। `कल्प्ता, कल्प्तारौ, कल्प्तारः' इति। तृच्, अथ वा लुट्। `चिक्लृप्सति' इति। सन्, `हलन्ताच्च' (1.2.10) इति कित्वाद्गुणाभावः। `क्लृप्तः, क्लृप्तवान्' इति। क्तक्तवत्।
`कृपा' इति। एतत्कथं सिध्यति? यावताऽत्रापि लत्वेन भवितव्यम्? इत्यत आह--`कृपेत्येतत्' इत्यादि। एतेन `क्रप कृपायां गतौ' (धा.पा.771) इत्यस्मात् `षिद्भिदादिभ्यो।।ऽङ्' (3.3.104) इत्यङि तत्सन्नियोगेन च सम्प्रसारणे कृते कृपेत्येतद्भवतीति दर्शयन् कृपेत्यस्य रूपस्य लाक्षणिकत्वं दर्शयति। यद्येवम्, ततः किमत्यत्र लत्वं न भवति? इत्याह--`तस्य हि' इत्यादि। यतसतस्य कृतसम्प्रसारणस्य क्रपेः कृपेत्येतद्रूपं भवति, तस्माल्लाक्षणिकत्वम्। अतो लक्षणप्रतिपदोक्तपरिभाषयैव (व्या.प.3) न गृह्यते इति भवति लप्रसङ्गः।
कृपण, कृपीट, कर्पूरादिषु ह्यौपदेशिकमेव कृपेत्येसद्रूपम्, न लाक्षणिकम्। तथा हि `रञ्जे क्वुन्' [`रजः क्युन्' इति द.उ.पाठः `रजेः, रञ्जेः' इति पाठान्तरे] (द.उ.5.24) इति यः क्वुन् विहितः, तस्मिन् बहुलवचनात् कृपेरेव विहिते कृपण इति भवति; `कॄतॄकृपिभ्यः कीटन्' [`कॄतॄकृपिकम्पिभ्यः कीटन्' इति द.उ.पाठः `कपिकम्पिभ्यः' इति पाठान्तरम्] (द.उ.5.3) इति कृपेरेत कोटनि विहिते कृपीट इति भवत; `खर्जिपिञ्जादिभ्य ऊरोलचौ' (द.उ.10.10) इत्युरप्रत्यये कृते कर्पूर इति भवतीत्याह--`कृपणकृपीट' इत्यादि। एवं मन्यते--बहुलवचनात् क्रपेरेव क्युन् [क्वुन् प्रा.मु.पाठः] भवति, तत्र चास्य सम्प्रसारणं कृतम्, `कृ-तृकृपिभ्यः कीटन्' (द.उ.5.3) इत्यत्रापि कृपिग्रहणमपनीय क्लृपिग्रहणं करिष्यते, सम्प्रसारणं तु बहुलवचनादेव भविष्यति; `खर्जिपिञ्जादिभ्य ऊरोलचौ' इत्यत्रापि आदिग्रहणे कृपिरेव ग्रहीष्यते, सम्प्रसारणं च पूर्ववदेव भविष्यतीति। यद्यपि कृपणकृपाणेत्येवमादीनि रूपाणि स्युः, तदास्य दोष इति दर्शयितुमाह--`जणादयो बहुलमिति वा' इत्यादि।
अत्यन्तभिन्नरूपयोरभिन्नस्वभावत्वमसम्भावयन् पृच्छति--`किमिदम्' इत्यादि। `समानविषयत्वम्' इति। अभिन्नविषयत्वमेकशब्देनात्र विवक्षितम्, न त्वभिन्नस्वभावत्वमिति दर्शयति। किमर्थं पुनः कृपिमुद्दिश्य लादेशो विधीयते, न कृपिरेवोद्दिश्येत? गु स्थाने लत्वमात्रं कर्त्तव्यम्, तच्चावश्यमुकर्त्तव्यमुपल्कारीयतीत्येवमर्थम्। तथा च--`ऋदुपधाच्चक्लृपि चृतेः (3.1.110) इत्यत्र क्लृपिप्रतिषेधो न कर्त्तव्यो जायते। तेनैवं शक्यम्--इह ह्यचोक्लृपदिति ऋकारलृकारयोः सवर्णसंज्ञादिधानादृकारस्य विधीयमानमुरत्त्वं लृकारस्यापि स्यात्। तथा च लृकारस्याप ऋवर्णः प्रसज्यते; ऋकारान्तं तूपदिश्य लत्वे विधीयमाने तस्यापि लृकारस्य लत्वं सिद्धं भवति।।
19. उपसर्गस्यायतौ। (8.2.19)
इह द्वौ पक्षौ सम्भवतः--अयतिग्रहणं रेफविशेषणमित्येकः पक्षः, उपसर्गस्य विशेषणमिति द्वितीयः। तत्राद्ये पक्षेऽयतौ परत इत्येवामादिको वृत्तिग्रन्थ एवं नेयः--अयतौ परतो यो रेफ उपसर्गस्थस्तस्य लकारादेशो भवतीति। द्वितीये ह्येवं नेयः--अयतौ परतो म उपसर्गस्तस्योपसर्गस्य यो रेफस्तस्य लकारादेशो भवतीति। `प्लायते' पलायते' इति। `अय ण्य' इत्यस्मादनुदात्तेत्त्वादात्मनेपदम्। कथमत्राद्ये पक्षे लत्वं भवति, यावता तस्मिन् कर्त्तव्ये `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवद्भावेन भवितव्यम्, ततश्च प्रकृत्युपसर्गयोर्निमागे सत्यवर्णेन व्यवधानद्रेफस्यायतिपरता न सम्भवति? इत्याह--`अत्र योऽयम्' इत्यादि। विभागे विश्लेष इत्यर्थः। एकग्रहणं प्रत्यय इत्यत्र सङ्घाते व्यवधाने लत्वं न भवतीति प्रदर्शनार्थम्। येन हि व्यवधानमेव नाव्यवधानं तेन व्यवधाने वचनाप्रामाण्याल्लत्वेन भवितव्यम्। केन व्यवधानमेवम्? एकेन वर्णेन। सङ्घातेन पुनर्व्यवधानमस्ति नास्ति चेति, तेन व्यवधाने भवति। `तथा च' इत्यादि। एवमाद्ये पक्ष एकेन वर्णेन व्यवधाने लत्वं भवति। न केवल पल्ययत इत्यत्र प्रवर्त्तते यत्र स्यानिवद्भावद्वारेणाशास्त्रीयं व्यवधानम्; यत्रापि तु श्रूयमाणेनैव वर्णेन लौकिकं व्यवधानम्, तत्रापि प्रवर्त्त्त इत्येषोऽपिशब्दस्यार्थः।
ननु च निरः कुषः' (7.2.46) इत्यत्र निर इति निर्देशेन ज्ञापितमेतत्--निरिति रेफान्तमुपसर्गान्तर मस्तीति, ततश्च निलय इत्यत्र वचनस्यावकाशे सति कथं `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्' (व्या.पा.46) इत्युक्तम्? एवं मन्यते--नैकमुदाहरणं सामान्यलक्षणं सामान्यलक्षणं प्रयोजयति, यदि ह्येतावत् प्रयोजनं स्यात्, निर एव ग्रहणं कुर्यादिति। एवं प्रथमे पक्षे सर्वस्य सिद्धतां प्रतिपाद्य द्वितीये पक्षे प्रतिपादयितुमाह--`उपसर्गविशेषणे तु' इत्यादि। तुशब्दोऽयमपिशब्दस्यार्थे वर्त्तते। न केवलं रेफविशेषणेऽयतिग्रहणे पल्ययत इत्यादि सर्वं सिद्धम्, अपि तूपसर्गविशेषणेऽपि तस्मिन् सर्वमेतत् सिद्धम्। अथ वा--तुशब्दः पूर्वस्मात्पक्षादस्य विशेषं द्योतयति। तत्र हि वयवधानाल्लत्वं प्राप्नोतीत्येतच्चोद्यमवतरति। अतो यदेतत् प्रतिपाद्यमेतत् सर्वम्। इह त्वस्य चोद्यस्यावतार एव नास्तीति सिद्धमेवैतत्, न यत्नसाध्यमित्यर्थः। प्रतेरपि प्राप्नोतीति चोदकः। तुशब्दः पूर्वस्माद्विशेषणार्थः, पूर्वत्र प्रतेर्न प्राप्नोति; सङ्घातेन व्यवधानात्; इह तु नास्ति केनचिद्व्यवधानम्, अतः प्रतेरपि प्राप्नोतीति मन्यन्ते। `अपरे' इति। द्वितीयपक्षाभिनिविष्टानामम्यतमे। `निस्दुसित्येतयोः' इति। यद्ययतिग्रहणं रेफस्य विशेषणम्, अथाप्युपसर्गस्य विशेषणम्, सर्वथाः रत्वे कृते लत्वं प्राप्नोति? इति यश्चोदयेत्, तं प्रत्याह--`निस्दुस्' इत्यादि। गतार्थम्।।
20. ग्रो यङि। (8.2.20)
`निजेगिल्यते' इति। `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, द्विर्ववचनम्, अभ्यासकार्यम्।
`भावगर्हायां ग्रो यङ विहितः' इति। `लुपसदचर' (3.1.24) इत्यादिना। `गिरतेः' इति। `गॄ निगरणे' (धा.पा.1410) इत्येतस्य तौदादिकस्य।
`गृणातेः' इति। `गु शब्दे' (धा.पा.1498) इत्यस्य ॠयादिकस्य।`सामान्येन ग्रहणमिच्छन्ति' इति। विशेषणानुपादानात्। `अपरे तु' इत्यादि। कथं पुनः सामान्योपादानेऽपि गिरतेरेव ग्रहणं लभ्यते? इत्याह--`गृणातेः' इत्यादि। किं `कारणं यङेव नास्ति? इत्याह--`अनभिधानात्' इति।
`निगीर्यते' इति। `सार्वधातुके यक्' (3.1.67), `हलि च' (8.2.77) इति दीर्घः।।
21. अचि विभाषा। (8.2.21)
`गिरति' इति। निगरणार्थस्य रूपम्। `निगरणम्' इति। ल्युट्। `निगारकः' इति। ण्वुल्। निगार्यते' इति। अत्र हि णिलोपे कृते विकल्पो न सिध्यत्यचः परस्याभावात्? इत्येतच्चोद्यमपाकर्त्तुमाह--`निगार्यते' निगाल्यते' इति। स्थानिवद्भावस्तु पूर्ववत्।
स्यादेतत्। नास्त्येवात्र स्थानिवद्भावः; `पूर्वत्रासिद्धे न स्थानिवत्' (जै.प.वृ.48) इति प्रतिषेधात्? इत्यत आह--`पूर्वत्रासिद्धे' इत्यादि। अपवादः=दोषः, सह तेन वर्त्तत इति सापवादम्। दोष एवायमस्याः परिभाषाया इत्यर्थः। अपिशब्दः समुच्चये। न केवलं तच्चोद्यं सापवादम्, अपि तु `पूर्वत्रासिद्धं न स्थानिवत्' (जै.प.वृ 48) इत्येतदपि वचनं सापवादमेव। तदेव सापवादत्वमाप्तवचनेन प्रतिपादयितुमाह--`तस्य' इत्यादि। तत्र संयोगादिलोपविधावयं दोषः--काक्यर्थः, वास्यर्थ इति; अत्रासति यणादेशस्य स्थानिवदभावे `स्कोः संयोगाद्योः' (8.2.29) इति ककारसकारयोर्लोपः प्रसज्येत। लत्वविधौ--निगार्यते, निगाल्यत इति; णिलोपस्य सति स्थानिवद्भावे विकल्पेन लत्वं न स्यात्। णत्वविधौ--प्रहिणोति प्रमीणीन इति; अत्र गुणेत्त्वयोरसति स्थानिवद्भावे `हिनुमीना' (8.4.15) इति णत्वं न प्राप्नोति। `अन्तरङ्गत्वाद्वा' इत्यादि। परिहारन्तरम्। अन्तरङ्गत्वं तु लत्वविकल्पस्य वर्णाश्रयत्वात्। णिलोपस्य तु बहिरङ्गत्वम्; आर्धधातुकाश्रयत्वात्।
अथ गिरौ, गिरः--इत्यत्र लत्वं कस्मान्न भवति? इत्याह--`गिरौ, गिरः' इत्यादि। इतिकरणो हेतौ। धातोः स्वरुपेण ग्रहणे सति तत्प्रत्यये धातोरित्येव यः प्रत्ययो विहितस्तत्र तत्कार्यं विज्ञायते। तस्मादगिरो, गिर इत्यत्र न भवति। न ह्यत्र श्रातो (3.1.91) रित्येव गिरतेः क्विबन्तादौजसौ विहितौ, किं तर्हि? प्रातिपदिकाधिकारात् (4.1.1)।।
22. परेश् घाङ्कयोः। (8.2.12)
`परिधः' इति। पर उपपदे हन्तेर्धातोरप्प्रत्ययः। हलोपः, धत्वञ्च निपात्यते, उपपदसमासः। `पर्यङ्कः' इति `अकि लक्षणे' (धा.पा.87) इत्यस्मात् पचाद्यच, `हलश्च' (3.3.121) इति वा घञ्, प्रादिसमासः--परिगतोऽङ्कः पर्यङ्कः। [नास्ति--का.मु.पुस्तके]
ननु च [नास्ति--का.मु.पुस्तके]`घ' इति तरप्तमपोरपीयं संज्ञा, स्वं रूपं शब्दस्य' (1.1.68) इति स्वरूपग्रहणं प्रतिषिष्यते, तत्किमिति घरूप एव लत्वमुदाह्रियते? इत्याह--`घ इति स्वरूपग्रहणमत्र' इति। एवं मन्यते--अङ्क इत्यनेनासंज्ञाशब्देन साहचार्यद्घ इत्यस्याप्यसंज्ञाशब्दस्यैव ग्रहणमिति।
`योगे चेति वक्तव्यम्' इति। योगशब्दे च परतः परेर्विकल्पेन [परविकल्पेन--का.मु.पाठः] लत्वं भवतत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--चकारोऽनुक्तसमुच्चयार्थः क्रियते, तेन योगेऽपि भविष्यतीति।
23. संयोगान्तस्य लोपः। (8.2.23)
`संयोगान्तस्य' इति। संयोगोऽन्तो यस्य तत्तथोक्तम्। अन्तग्रहणं विस्पष्टार्थम्। `पदस्य' (8.1.16) इति हि वर्त्तते, तत्र संयोगेन पदे विशिष्यमाणे `येन विधिस्तदन्तरस्य' (1.1.72) इत्येव संयोगान्तता पदस्य लभ्यते। `गोमान्' इति। हल्ङ्यादिलोपे कृतेऽलोऽन्त्यस्य लोपः (1.1.52), `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः। `क्षेयान्, भूयान्' इति। अत्र संयोगान्तलोपे न प्राप्नोति; परत्वाद्रुत्वेन बाध्यत इति यो मन्येत, तं प्रत्याह--`श्रेयान्, भूयान्' इत्यादि।
यदि तर्हि परमपि रुत्वमसिद्धत्वात् संयोगान्तसय बाधकं न भवति, एवं सत्यत एव हेतोर्जश्त्वस्यापि बाधकं न स्यात्, ततश्च यशः, पय इति जशत्वमेव स्यात्, न रुत्वम्? इत्यत आह--`जश्त्वे तु' इत्यादि। संयोगान्तलोपे हि प्राप्ते चाप्राप्ते च रुत्वमारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युवतं यद्रुत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युक्तं यद्रूत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। तस्माद्बाधकलक्षणयोगाद्रुत्वं जश्तवस्य बाधकं भवत्येव। श्रेयानिति--`प्रहशस्यस्य श्रः' (5.3.6)) इतीयसुनि श्रभावः, `आद्गुणः' (6.1.87), `सान्तमहतः' (6.4.10) इति दीर्घः। भूयानिति--`बहोर्लोपो भू च बहोः' (6.4.158) इतीयसुनि ईकारस्य लोपः, बहोश्च भूभावः।
अथ दध्यत्र, मध्वत्रेत्यत्र संयोगान्तलोपः कस्मान्न भवति? इत्याह--`दध्यात्र' इत्यादि। बहिरङ्गत्वं तु यणादेशस्य द्विपदाश्रयत्वात्। संयोगान्तलोपस्य त्वेकपदाश्रयत्वादन्तरङ्गत्वम्। पदस्येति किम्? गोमन्तौ, गोमन्तः।।
24. रात्सस्य। (8.2.24)
`संयोगान्तस्य पदस्य' इत्यादि। अत्र संयोगान्तं पदं रेफस्य विशेषणम्, रेफोऽपि सकारस्य। संयोगान्तस्य पदस्य योऽवयवो रेफस्तस्मादुत्तरो यः सकारस्तस्यालोऽन्त्यस्य लोपो भवति। `अक्षाः, अत्साः' इति। `क्षर सञ्चलने' (धा.पा.851), `त्सर च्छद्मगतौ' (धा.पा.554), लङ्, `अतो ल्रान्तस्य' (7.2.2) इति वृद्धिः, तिपो हल्ङ्यादिलोपः (6.1.68), सिचः सकारस्याप्यनेन, अडागमः, रेफस्य विसर्जनीयः (8.3.15)।
ननु चैतत् पूर्वेणैव सिद्धम्, तत्किमर्थमिदमारभ्यते? इत्याह--`सिद्धे' इत्यादि। `रात् सस्यैव' इति नियमस्य स्वरूपं दर्शयति। रादेव सस्य--इत्येष तु विपरीतनियमोऽत्र नाशङ्कनीयः, उरः प्रभृतिषु (5.4.151) पुमानिति कृतसंयोगान्तलोपस्य [`कृतसंयोगान्तस्य लोपस्य'--इति प्रा.मु.पाठः] पुम्स्शब्दस्य पाठात्। न हि विपरीतनियमे तस्य संयोगान्तलोप उपपद्यते। `ऊर्क्' इति। `ऊर्ज बलप्राणनयोः' [उर्ज--प्रा.मुपाठः] (दा.पा.1549), `भ्राजभ्रास' (3.2.177) इत्यादिना क्विप्। अत्र नियमाज्जकारस्य लोपो न भवति, तस्मिन्नसति `चोः कुः' (8.2.30) इति कुत्वम्--जकारस्य गकारः, `वावसाने' (8.4.56) इति चर्त्वम्--ककारः। `न्यमार्ट्'[अमाटै--काशिका, पदमञ्जरी च] इति। `मृजू शुद्धौ' (धा.पा.1066), अदादित्वाच्छपो लुक्, तिपो हल्ङ्यादिलोपः (6.1.68) `मृजेर्वृद्धिः' (7.2.114), `व्रश्च' (8.2.36) इत्यादिना षत्वम्, तस्य जश्त्वम्--डकारः, तस्यापि चर्त्वम्-टकारः।।
25. धि च। (8.2.25)
`अलविध्वम्, अलविढ्वम्' इति। लुङ्, सिच् (3.1.44) सस्य `धि च' इति लोपः, `विभाषेटः' (8.3.79) इति पक्षे भू र्धन्यः। `यद्यत्र' इत्यादिना सति सकारलोपे यदिष्टं प्राप्नोति तद्दर्शयति। असति हि सकारलोपे सिचः `आदेशप्रत्यययोः' (8.3.59) इति षत्वे कृते `झलां जश् झशि' (8.4.53) इति जश्त्वे च डकारे `ष्टुना ष्टुः' (8.4.41) इति धकारस्य ष्टुत्वे ढकारेण भवितव्यम्, ततश्च मूधन्याभावपक्षेऽपि धकारो न श्रूयते। विभाषाग्रहणं तु सिद्धं लिडर्थं लिङर्थं च स्यात्। तस्मादमूर्धन्यपक्षे धकारस्य श्रवणं यथा स्यादिति लोपो विधीयते।
`इतः प्रभृति सिचः सकारस्य लोप इष्यते' इति। स च `अचि विभाषा' (8.2.21) इत्यतो विभाषाग्रहणआनुवृत्तेर्व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। `चकाद्धि' इति। `चकासृ दीप्सौ' (धा.पा.1074), लोट्, सिप्, `सेर्ह्यपिच्च' (3.4.87) इति हिरादेशः, `हुझल्भ्यो हेर्धिः' (6.4.101) इति हेर्धिभावः, पूर्ववच्छपो लुक्, पूर्ववज्जश्त्वम्--सकारस्य दकारः। `पयो धावति' इति। पयः शब्दस्य रुत्वम्, `हशि च' (6.1.114) इत्युत्त्वम्, `आद्गुणः' (6.1.87)। यदीतः प्रभृति सिचो लोप इष्यते, सग्धिः, बब्धायित्यत्र `झलो झलि' (8.2.26) इति सकारस्य लोपो न प्राप्नोतौति चोद्यमाशङ्क्याह-सग्धिर्बब्धाम्' इत्यादि। `अद भक्षणे' (धा.पा.1011), स्त्रियां क्तिन् (3.3.94) `बहुलं छन्दसि' (2.4.39) इति घस्लादेशः, `घसिभसोर्हलि च' (6.4.100) इत्युपधालोपः, सकारस्य `बहुलं छन्दसि' इति च्छान्दसो लोपः। क्वचिदन्यदेवोच्यते एषोऽपि बहुलस्यार्थः। इष्यते `झषस्तथोर्धोऽधः' (8.2.40) इति तकारस्य धत्वम्, पूर्ववज्जश्त्वम्--घकारस्य गकारः। समाना ग्धिरिति विशेषणसमासः, `समानस्य च्छन्दसि' (6.3.84) इति सभावः। बब्धामिति--`भस भर्त्सनद्दीप्त्योः' (धा.पा.1100), लोट् तस्य `लोटो लङ्वत्' (3.4.85) इत्यतिदेशात् तसस्ताम्, जुहोत्यादित्वाच्छपः श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्, पूर्ववदुपधासलोपौ, पूर्ववदेव तकारस्य दत्वञ्च, भकारस्य दकारः `अभ्यासे चर्च' (8.4.54) इति जश्त्वम्। एवमिदं तावत् श्लोकवार्त्तिककारस्याभिमतं दर्शितम्। इदानीं भाष्यकारस्य मतं दर्शयितुमाह--`भाष्यकारस्त्वाह इत्यादि। एतेनाविशेषेणैव सकारमात्रस्य भाष्यकाशे लोपमिच्छतीति दर्शयति। `तेन' इत्यादि। अविशेषेण हि सकारमात्रस्य यो लोपमिच्छति तस्य पयो धावतीत्यत्रापि प्राप्नोति। तस्मादिह मा भूदिति यत्नान्तरमास्थेयम्। यत्नान्तरं तु व्यवस्थितविभाषाश्रयणमेव पूर्वधत्। अयं तु विशेषः--पूर्वत्र व्यवस्थितविभाषया धि चैव सिचो भविष्यति, नान्यस्य; इह तु यत्र समानपदस्थौ निमित्तनिमित्तिनौ तत्रैवाविशेषेण सकारमात्रस्य लोपो भवति। अत्र तु भिन्नपदस्थौ पयोधावतौत्यादौ, तत्र न भवन्येवेति। एतावता विशेषेण व्यवस्थितभाषा यत्नान्तरमित्युच्यते।
संक्षिप्तमेतमर्थं विस्तरेण सचोद्यपरिहरं वक्तुमाह--`धि सकारे सिचो लोपः' इत्यादि। धीत्येतद्यत्र परभूते सकारलोप इत्यतः प्रभृति विधातव्यः, तदुपलक्षणं वेदितव्यम्। कुत एतत्? इत प्रभृति सिचः सकारस्यलोप इष्यत इति प्राग्वचनात्। लोपं प्रति सकारस्याधिकरणत्वेन विवक्षतत्वात् सप्तम्या निर्देशः। किं प्रयोजनम्? इत्याह--`चकाद्धि' इत्यादि। यदि सिचो लोपः, आशाध्वं तु कथम्? आङः शासु इच्छायाम्' (धा.पा.1022), लोट्, ध्वम्, टेरेत्वम्, `सवाभ्यां वामौ' (3.4.91) इत्यमादेशः, पूर्ववच्छपो लुक्। अत्र सकारस्य लोप इष्यते, स न प्राप्नोति; यदि सिच एव सकारस्य लोपो विधीयते? `जश्त्वं सकारस्य भविष्यति' इति। `झलां जश्झशि' (8.4.53) इत्यनेन जश्त्वम्--सकारस्य दकारो भविष्यतीति सिद्धम्--आशाब्दमित्येतत्।
इतः सकारलोपशास्त्रं प्रत्याख्यातुमाह--`सर्वमेवं प्रसिद्धं स्यात्' इति। यदि सकारस्य भवति, एवं सति तेनैद जश्त्वेन सर्वं लक्ष्यं प्रसिद्धं स्यात्। ततश्च सकारलोपशास्त्रमेतन्न कर्तव्यमेवेत्यभिप्रायः। तत्रैतत्स्यात्--जश्त्वे सति श्रुतिभेदो भवति, तथा हि `अनचि च' (8.4.47) इति सकरस्य द्विर्वचने कृते सकारयोश्च जश्त्वे दकारद्वयस्य श्रवणं प्रसजतीत्याह--`श्रुतिश्चापि न भिद्यते' इति। न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रुतिं प्रति विशेषोऽस्तीति भावः। `लुङश्चापि न मूर्धन्ये ग्रहणम्' इति। कर्त्तव्यं भवतीति शेषः। अयं चान्यो जश्त्वे सति गुणः। `इणः षीध्वंलुङ्लिटां धोऽङ्गात्' (8.3.78) इत्यत्र मूर्धन्ये कर्त्तव्ये लुङ उपादानं कर्त्तव्यं न भवतीति; अच्चोढ्वम्, अप्लोढ्वमित्यादौ षत्वजश्त्वष्टुत्वैरेव मूर्धन्यस्य सिद्धत्वात्। `च्युङ् छ्युङ् [अयं धातुर्धातुपाठे नोपलभ्यते] ज्युङ् [न स्तः--प्रा.मु.पुस्तके] प्रुङ्प्लुङ गतौ' [न स्तः--प्रा.मु.पुस्तके] (धा.पा.955,956,957,958), लुङ् ध्वम्, सिच्, `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्, `झलां जश् झशि' (8.4.53) इत्यनेन षकारस्य जशत्वम्--इकारः, धकारस्य ष्टुत्वम्--ढकारः। एवं षत्वादिकार्यक्रमेण लुङि घकारस्य मूर्धन्यः सिदध इति, किं लुङ्ग्रहणेन? एवं लुङ् प्रत्याख्यायते। सलोपे परे लुङ्ग्रहणं कर्त्तव्यमिति यस्याभिमतम्; स आह--`सेटि दुष्यति' इति। यदि मूर्धन्यविदौ लऱङ्ग्रहणं न क्रियेत, ततः `विभाकेटः' (8.3.79) इत्यत्र मूर्धन्यो न प्राप्नोति, ततश्च पूर्ववत् षत्वादिषु कृतेष्वलविध्वमित्थेव नित्यं स्या, न तु कदाचिदपयलविढ्वमिति। तस्मादुत्तरार्थं लुङ्ग्रहणं कर्त्तव्यम्। `धि च' (8.2.25) इति सकारलोपोवक्तव्यः--अलविढ्वमित्यस्य सिद्ध्यर्थम्। न ह्येतदसति सकारलोपे सिध्यति, ततश्च यदुक्तम्--`सर्वमेवं प्रसिद्धं स्यात्' इति, तदयुक्तम्। `श्रि च' (8.2.25) इत्येतस्मिश्च क्रियमाणे चकाद्धोति मा भूदिति सिच्ग्रहणं कर्त्तव्यम्, एवं श्लोकबार्त्तिककारमतेन सिज्ग्रहणं कर्त्तव्यमिति स्थितम्।
इतरस्तस्मिन् क्रियमाणेऽपरं दोषं दर्शयितुमाह--`घसिभसोनं `सिध्येत'[सिध्येत् त्विक्ष्यादि--का.मुद्रितःपाठः] इत्यादि। तुशब्दो हेतौ। यस्मात् सिज्ग्रहणस्य हि धसिभसोः सकारलोपः सग्धिर्बब्धामित्यत्र न सिध्यतीत्येष हेतुरुक्तः स चायमहेतुः; यस्माद्यद्यपि सिज्ग्रहणे क्रियमाणे धसिभसोः `झलो झलि' (8.2.26) इत्यनेन लोपो न भविष्यति, तथापि च्छाब्दसो वर्णलोपो भविष्यति; तेनापि सग्धिः, बब्धामित्येतदुभयं सिध्यत्येव। क्व यथा च्छान्दसो वर्णलोपः? इत्याह`यथा' इत्यादि। यथाध्वरविषये प्रयोगे इष्कत्तरिमध्वरस्येत्यत्र च्छान्दसो वर्णलोपो भवति, तथा साग्धिः, बब्धामित्यत्रापि घसिभयोर्भविष्यति। वाशब्दोऽत्रैवोपपत्त्यन्तरं सूचयति। तत्रेदमुपपत्त्यन्तरम्--सग्धिरिति नैतद्घसे रूपम्, किं तर्हि? `षघ हिंसायाम्' (धा.पा.1268) इत्यस्य। ननु चार्थभेदो भवति, स्वरभेदश्च; पूर्वस्यां व्युत्पत्तौ समानावनमित्येषोऽर्थो भवति, तसासस्वरेणान्तोदात्तत्वञ्च; षधिस्तु क्तिनि विहिते हिंसार्थो भवति, नित्स्वरेणाद्युदात्तश्च? अनेकार्थत्वाद्धातूनां षघिश्च समानावनमित्यस्मिन्नर्थे वर्त्तिध्यते, स्वरव्यत्ययेन चान्तोदात्तत्वं भविष्यतीत्यदोषः। बन्धामिति च नैतद्भसे रूपम्, किं तर्हि? `बध बन्धने' (धा.पा.973) इत्यस्माल्लोटि तस्माम्, `व्यत्ययो बहुलम्' (3.1.85) इति धत्वे तकारस्य `व्यत्ययो बहुलम्' (3.1.85) इति धातुधकारस्य बकारे च कृते बब्धामिति भवति। एवं च सिज्ग्रहणे क्रियमाणे घसिभसोर्यदि न सिध्यति नाम, तथापि नैव किञ्चिदनिष्टम्; यस्मादनयापि व्युत्पत्त्या तदपाकृतं भवति। तदुक्तम्--`घसिभसोर्न सिध्येत्तु [`सिध्येत'--काशिका] तस्मात् सिज्ग्रहणं न तत्' (का. 8.2.25)। ततश्च `घि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम्' (का. 8.2.25) इत्येतदवस्थितं श्लोकवार्त्तिककारस्य मतम्।।
26. झलो झलि। (8.2.26)
`अभित्त, अभित्थाः' इति। भिदेर्लुङि स्वरितेत्त्वादात्मनेपदम्; तथासो, दकारस्य `खरि च' (8.4.55) इति चर्त्त्वम्--तकारः। `अवात्ताम्' इति। दसेर्लुङि तसस्ताम्। `अदात्त' इति। थस्य तः, `वदव्रज' (7.2.3) इत्यादिना वृद्धिः। अत्र सकारलोपे कृते `सः स्यार्धधातुके' (7.4.49) इति तकारो न प्राप्नोतीति यस्य भ्रान्तिः स्यात्, तं प्रत्याह--`अवात्ताम्' इत्यदि।
`अमंस्त, अमंस्थाः' इति। `मन ज्ञाने' (धा.पा.1176), अनुदात्तेत्त्वादात्मनेपदम्। `अभित्साताम्' इति। भिदेराताम्। `अभित्सत' इति। `आत्मनेपदेष्वनतः' (7.1.5) इति झस्यादादेशः।।
27. ह्वस्वादङ्गात्। (8.2.27)
`अलाविष्टाम्' इति। तसस्ताम्, सिचि वृद्धिः। अत्र श्रुतिकृते पौर्वापये सति ह्रस्वादिङः परः सकारो भवति, न त्वङ्गात्; इडागमः प्रत्ययभक्तत्वेनानङ्गत्वात। `अलाविषुः' इति। `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुस्। `अकृषाताम्' इति। `उश्च' (1.2.12) इति कित्त्वाद्गुणाभावः। `द्विष्टचाम्' इति। `द्वित्रिचतुर्भ्यः सुच्' (5.4.18) तदन्तादतिशायने तरप्; `किमेत्तिङ्' (5.4.11) इत्यादिनामुः, `ह्रसवात्तादौ तद्धिते' (8.3.101) इति सकारस्य मूर्धन्यः।।
28. इट ईटि। (8.2.28)
`अदेवीत्' इति। `नेटि' (7.2.4) इति वृद्धिप्रतिषेधे कृते लघूपधगुणः, `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्।।
29. स्कोः संयोगाद्योरन्ते च। (8.2.29)
झलोति वर्त्तते। `संयोगाद्योः' इति षष्ठीसमासः। अत्र यद्यपि संयोग उत्तरपदार्थो गुणभूतः, तथापि संयोगाद्योः स्कोरन्तग्रहणं विशेषणं न भवतीति गुणभूतोऽपि तेन संयोग एव विशिष्यत इति विज्ञायते, इत्याह--`पदस्यान्ते यः संयोगः' इति। `अन्ते' इति। अवसान इत्यर्थः। `झलि परतः' इति। पदस्येत्यपेक्षते। `तदाद्योः' इति। तस्यैवम्भूतस्य संयोगस्यादिभूतयोरित्यर्थः। `लग्नः' इति। `ओलजो ओलस्जीव्रीडे' (धा.पा.1290, 1291), निष्ठा। अत्र जकारे झलि परतः सकारजकारयोर्यः संयोगः पदस्यादयवस्तदादेः सकारस्य लोपः, `ओदितश्च' (8.2.45) इति नत्वम्, `श्वीदितो निष्ठायाम्' (7.2.14) इतीट्प्रतिषेधः, `चोः कुः' (8.2.30) इति कुत्वम्--गकारः। `साधुलक्' इति। साधु लज्जात इति क्विप्। अत्र पदस्यादसाने संयोगः। (7.1.60) इति नुम्, स च भवत् `मस्जेरन्त्यात् पूर्वो नुमनुषङ्गसंयोगादिलोपार्थम्' (वा. 7) इति वचनादन्त्याज्जकारात् पूर्वो भवति, तस्य च `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः।
`तष्टः' इति। `तक्षू त्वक्षू तनूकरणे' (धा.पा.655,656) ऊदित्त्वात्, स्वरत्यादिसूत्रेण (7.2.44) विभाषितेट्; तेन निष्ठायां `यस्य विभाषा' (7.2.15) इतीट्प्रतिषेधः। `काष्ठशवस्थाता' इति। काष्ठं शक्नोतीति क्विप्; काष्ठशकि स्थातेति `सप्तमी' (2.1.40) इति योगविभागात्समासः।
`तदत्र' इत्यादिना `झलि सङीति वक्तव्यम्' (वा 917) इति यदुक्तम्, तत् प्रत्याचष्टे। तदिति वाक्योपन्यासार्थः। `शकेः क्विबन्तस्य प्रयोग एव नास्ति' इति। शकेः `अन्येभ्योऽपि दृश्यते' (3.2.178) इति क्विप् स्यात्, इह च `दृश्यते' इत्यस्य ग्रहण एवायमर्थः--यत्र लौकिके प्रयोगे क्विबन्तस्य प्रयोगो दृश्यते तत्र यथा स्यादिति, न च लोके काष्ठशगित्येवंविधः शकेः क्विबन्तस्य प्रयोगो दृश्यते। ततः शकेः क्विबन्तस्य प्रयोग एव नास्ति, अतो हेतोः `झलि सङीति वक्तव्यम्' (वा.917) इत्येतत् प्रत्याख्यातुमाह भाव्यकारः--`काष्ठाशगेव नास्ति; कुतोऽयं काष्ठशकि तिष्ठेत्' इति। आधारपरतन्व उद्घनादावस्य वृत्तिः, अतो यत्र काष्ठशगाधार एव नास्ति, तत्र तदाधेयः स्थाता सुतरामेव नास्ति तस्मान्न झलि सङीति वक्तव्यम्; व्यावर्त्त्याभावात्। इह कस्मान्न भवति--वाक्स्थातेति? संयोगादिलोपे कुत्वम्यासिद्धत्वात्।
अथेह कस्मान्न भवति--वास्यार्थम् काक्यर्थम्? इत्याह--`दास्यर्थम्, काक्यर्थम्' इत्यादि।
अथ स्कोरिति किमर्थम्? नर्नर्तीत्यत्र मा भूत्। नृतेर्यङ्लुगन्तस्य `रुग्रिकौ च लुकि' (7.4.91) इत्यभ्यासस्य रुकि कृते रूपमेतत्। `संयोगाद्योरिति किम्? `पयःशक्' इति। क्विबन्तमेतत्। सोपपदस्य हि शकेः क्विबन्तस्य प्रयोग एव नास्ति। केवलस्य तु स्यादेव। अन्ते चेति किम्? तक्षिता, तक्षकः।।
30. चोः कुः। (8.2.30)
`झलि पदान्ते च' इति। `परतः' इति प्रत्येकमभिसम्बध्यते। ननु च पूर्वसूत्रे चकारेण झलनुकृष्ट इति तस्येहानुवृत्तिरयुक्ता? नैतदस्ति; न हि तत्र चकारेण झलनुकृष्टः, किं तर्हि? स्वरितत्वादेवानुवर्त्तमानस्यान्तग्रहणं न बाधकमित्यतादच्चकारेण व्याख्यातम्। `वाक्' इति। वचेः `क्विब्वचि' (वा.288) इत्यादिना ज्विप्, दीर्घश्च।
`क्रुञ्च' इति। इह केचित् `कुञ्च कौटिस्याल्पीभादयोः' (धा.पा.186) इति सरेफं अकारोपधं धातुं पठन्ति, `कुञ्च कौटिल्याल्पीभावयोः' (धा.पा.185) इत्यरेकं नकारोपधं परे। तत्र पूर्वपाठं गृहीत्वा यश्चोदयेत्--अथ क्रुञ्चेत्यत्र कस्मान् भवतीति? तं प्रत्याह--`ॠञ्च' इत्यादि। अनेन `झलि सङीति न वक्तव्यम्' इति यत् पूर्वं प्रत्याख्यातं तस्येहार्थतां दर्शयति। `युजिक्रुञ्चाञ्च' (3.2.59) इति निपातनाद्वेति। `क्रुञ्चेत्यत्र ञकारस्य चकारे कुत्वं न भवतीति सम्बन्धः। `ञकारोपधस्य [ञकारिपदस्य--का.मुद्रितपाठः] सरेफस्य पाठमभ्युपेत्य प्राप्तौ तस्यामेवं परिहारद्वयमुक्तम्। इपानीं कुत्वस्य प्राप्तिरेव नास्ति; यस्मान्नायं ञकरोपधः पठ्यते, किं तर्हि? नकारोपध इति दर्शयितुमाह--`नकारोपधो वा' इत्यादि। किं पुनः कारणं नकारोपधः पठ्यते? किं तर्हि? नकारोपध इति दर्शयितुमाह--`नकारोपधो वा' इत्यादि। किं पुनः कारणं नकारोपधः पठ्यते? इत्याह--`नकारलोपे हि'[`सकारलोपे हि'--प्रा.मु.पाठः] इत्यादि। निकुचित इत्येष प्रयोगोऽस्त्येव। धातोर्निष्ठान्तस्य `श्नान्नलोपः' (6.4.23) इत्यनुवर्त्तमाने-`अनिदिताम्' (6.4.24) इति नलोपादिह नकारलोपस्य दर्शनान्नकारोपधोऽयं पठ्यते; अन्यथा ह्येष प्रयोगो नोपपद्यते। न हि ञकारलोपस्य किञ्चिल्लक्षणमस्ति। यदि तर्हि कुञ्चेति रेफरहितो नकारोपधः पठ्यते, एवं सति क्रुङ, क्रुञ्चौ, क्रुञ्चः--इति न सिध्यति; ऋत्विगित्यादिना (3.2.59) सूत्रेण हि क्विनि कृते `अनिदिताम्' (6.4.24) इति नलोपे कुक, कुचौ, कुचः--इत्येवं प्राप्नोतीत्यत आह--`युजिक्रुञ्चाम्' इत्यादि। स्यादेतत्--यद्यपि नकारलोपाभावो निपात्यते, तथापि नकारस्यानुस्वारे तस्य ययि परसवर्णे (8.4.58) ञकारे स्यादेव कुत्वम्? इत्यत आह--`तत्र' इत्यादि। गतार्थम्।।
31. हो ढः। (8.2.31)
`सोढा' इति। `हो ढः' इति ढत्वे कृते `झषस्तथोर्धोऽधः' (8.2.40) इति तृचतकारस्य धत्वम्, ष्टुत्वम्, `ढो ढे लोपः' (8.2.13) `सहिवहोरोदवणस्य' (6.3.112) इत्योत्त्वम्। `जलाषाट्' इति। जलं सहत इति `भजो ण्विः' (3.2.62), `छन्दसि सहः' (3.2.63) इति ण्विः, उपधावृद्धिः उपपदसमासः, `अन्येषामपि दृश्यते' (6.3.137) इति पूर्वपदस्य दीर्घ, ढकारस्य जश्त्वम्--डकारः, तस्य चर्त्त्वम्--टकारः, `सहेः साडः सः' (8.3.56) इति मूर्घन्यः। `प्रष्ठवाट्' इति। `वहश्च' (3.2.64) इति ण्विः।
`चुहोः कुढौ' इत्येकयोग एव कर्त्तव्ये पृथग्योगकरणं समसंख्यात्वप्रतिषेधार्थम्। एकयोगे तु समसंख्यत्वाज्झलादौ कुत्व पदान्ते ढत्वं स्यात्।।
32. दादेर्धातोर्घः। (8.2.32)
`दग्धा, दग्धुम्' इति। पूर्ववद्धत्वम्, घकारस्य झशि झशत्वम्--गकारः। `काष्ठधक्' इति। क्विबन्तमेतत्। `एकाचो बशो भष' (8.2.37) इत्यादिना दकारस्य भष्--धकारः, घकारस्य जश्त्वम्--गकारः, तस्य चर्त्त्वम्--ककारः। `दादेः' इत्युच्यते, तेनाधोगित्यत्र घत्वं न सिध्यति, अदकारादित्वेऽस्याविहितत्वादित्यत आह--`धातोः' इत्यादि। `तद्धिशेषणम्' इति। दादेर्विशेषणमित्यर्थः। किंविशिष्टम्? अवयवषष्ठ्यन्तमिति। अवयवसम्बन्धिनी या षष्ठी तदन्तमित्यर्थः। `किं कृतं भवति? इति। एवं सति किमिष्ठं साधितं भवतीत्यर्थः। `अधोगित्यत्रापि घकारः सिद्धो भवति' इति। अत्रापि धातोरवयवो यो दादिशब्दस्तदवयवत्वाद्हकारस्य। दुहेर्लङ्, तिप्, अदादित्वाच्छपो लुक्, हल्ङ्यादिलोपः (6.1.68), पूर्धवद्भष्भावः, अट्।
`कथम्' इत्यादि। धातोरवयवो यो दादिशब्दस्तदवयवसय हकारस्य घत्वं भवति। एवं सति दग्धा, दग्धुमित्यत्र घत्वं न कथञ्चिदित्यर्थः। तथा ह्यत्र धातोरवयवो यो दादिशब्दो न तस्यावयवो हकारः। यस्य तु समुदायस्य हकारोऽवयवः स धातुरेव, न हकारावयवः। अत्रोत्तरमाह--`व्यपदेशिवद्भावात्' इति। एषोऽपि व्यपदेशिवद्भावेन धातोर्वादिरवयवो भवति। अभेदेऽपि व्यपदेशिवद्व्यवहारो लोके दृश्यते। तथा हि--शिलापु त्रकस्य शरीरम्, राहोः शिर इति च।
`अथ वा' इत्यादि। धातूपदेशो धातुपाठः। तत्र यो दादिरित्येवं विज्ञायते। कथं पुनर्धातुपाठे दकारादित्वं विशेषणं लभ्यते, धातुग्रहणसामर्थ्यात्। तस्य हीदं प्रयोजनं स्यात्--अधातोर्मा भूदिति। एतच्चाप्रयोजनम्, न ह्यधातोर्धकारादेर्झलि वा पदान्ते च हकारोऽवयवः सम्भवति, यन्निवृत्त्यर्थं धातुग्रहणम्। तदतिरिच्यमानं धातूपदेश एव दकारादित्वं विशेषणं भवतीत्यमुमर्थं गमयति। एवं विज्ञायमाने यद्यपि `धातोः' इत्यस्य `दादेः' इत्यनेन सामानाधिकरण्यम्, तथाप्यधोगित्यत्र घत्वं प्रवर्त्तत एव; धातुपाठे दुहेर्दकारादित्वात्। `तथा च' इत्यादि। एवञ्च विज्ञायमाने यद्यपि दामलिह्यतेर्दकारादित्वम्, तथापि दामलिडित्यत्र न भवति धत्वम्'; धातूपदेशे तस्यादकारादित्वात्। धातुत्वं तस्य `सनाद्यन्ता धातवः' (3.1.32) इति। न केवलमधोगित्वत्र धत्वं भवति, अपि तु दामलिहेरपि भवतीत्यपिशब्दो द्योतयति। दाम लेढोति दामलिडिति क्विप्, तदन्ताद् दामलिहमिल्छतीति `सुप आत्मनः क्यच्; (3.1.8) इति क्यच्, क्यजन्तात् क्विप्, `अतो लोपः' (6.4.48) इत्यकारलोपः, `क्यस्य विभाषा' (6.4.50) इति यकारस्य च, `हो ढः' (8.2.31) इति ढत्वम्, ढकारस्य जश्त्वम्।।
33. वा द्रुहमुहष्णुहष्णिहाम्। (8.2.33)
`द्रूहेः' इति। `द्रुह जिघांसायम्' (धा.पा.1197) इत्यस्य। `इतरेवाम्' इति। `मुह वैचित्त्ये' (धा.पा.1198), `ष्णुह उद्गिरणे' (धा.पा.1199), `ष्णिह प्रीतौ' (धा.प.1200)-इत्येषामप्राप्तेः। पुनरेषं घत्वं स्यात्, अदकारादित्वात्।।
34. नहो धः। (8.1.34)
`उपानत्' इति। `णह बन्धने' (धा.पा.1166) क्विप्, `नहिवृति' (6.3.116) इत्यादिना दीर्घः। एवं परीणत्' इति। अत्र णत्वं तु `उपसर्गादसमासेऽपि, (8.4.14) इत्यादिना। प्रक्रियालाघवार्थं दकारे विधातव्ये धकारविधानम्--नद्धेत्यत्र `झषस्तथोर्धोऽधः' (8.2.40) इति धत्वं यथा स्यादित्येवमर्थम्। दकारे हि तन्न स्यात्, दकारस्याझष्त्वात्। `रदाभ्यां निष्ठातो नः' (8.2.42) इत्येवमर्थं च, नकारो यथा न स्यादिति।।
35. आहस्थः। (8.1.35)
`आत्थ' इति। `ब्रुवः पञ्चानामादित आहो ब्रुवः' (3.4.84) इति लडादेशस्य सिपस्थल् ब्रुवश्चाहादेशः, तस्यानेन थकारः, तस्य `खरि च' (8.4.55) इति चर्त्त्वम्--तकारः। किमर्थमादेशान्तरं क्रियते, न प्रकृतेर्विकार एव विधीयते? इत्यत आह--`आदेशान्तरकरणम्' इत्यादि। यदि धकार आदिश्येत, ततः `झषस्तथोर्धोऽधः' (8.2.40) इति धत्वं स्यात्, अतस्तन्निवृत्त्यर्थमादेशान्तरं क्रियते।
`हृग्रहोः' इत्यादि। हरतेः, ग्रहेश्च यो हकारस्तस्य च्छन्दसि विवये भकारो वक्तव्यः। हकारस्येति वचनं हरत्यर्थम्। ग्रहेस्तु `अलोऽन्त्यस्य' (1.1.52) इत्येव भविष्यति हकारस्य। `ग्रभीता' इति। तृन्, इट्, `ग्रहोऽलिटि दीर्धः' (7.2.37)। `जभ्रिरे' इति। हृञो लिट्, `लिटस्तझयोरेशिरेच्' (3.4.81) इति झस्येरेच्; यणादेशः, द्विर्वचनम्, अभ्यासकार्यम्। `उद्ग्राभम्', `निग्राभम्' इति। ग्रहेः `हलश्च' (3.3.121) इति घञ्। एतत्तु सर्वं `व्यत्ययो बहुलम्' (3.1.85) इति वर्णव्यत्ययेनैव सिद्धम्। वक्तव्यशब्दस्य व्याख्येयमित्येषोऽर्थो वेदितव्यः।।
36. व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः। (8.2.36)
`ओ व्रश्चू छेदने' (धा.पा.1292), `भ्रस्जो पाके' [`भ्रस्ज' इत्येव धातुपाठः] (दा.पा.1284), `सृज विसर्गे' (धा.पा.1178), मृजू शुद्धौ' (धा.पा.1066), `यज देवपूजासङ्गतिकरणदानेषु' (धा.पा.1002), `राजू दीप्तौ' (धा.पा.822), `टु भ्राजृ टृभ्राशृ टुभ्लाशृ दीप्तौ' (धा.पा.823,824,825)। छ इति च्छकारान्तावां ग्रहणम्; श इति शकारान्तानाम्। अत्र च शकारस्य जश्त्वे प्राप्ते, इतरेषां तु कत्वे तदपवादः षकारो विधीयते। `व्रष्टा' इति। `स्कोः संयोगाद्योः' (8.2.29) इति सकारलोपः, ऊदित्त्वात् पक्ष इडभावः। `मीलबृट्, धानाभृट् इति। `ग्रहिज्या' (6.1.16) इति सूत्रेण सम्प्रसारणम्। `स्रष्टा' इति। `सृजिदृशोर्झल्यमकिति' (6.1.58) इत्यमागमः। `मार्ष्टा' [मार्ष्टीति का. मुद्रितपाठ] इति। `मृजेर्वृद्धिः' (7.2.114)। `उपयट्' ति। यदेः `विजुपे छन्दसि' (3.2.73) इति विच्। `सम्राट्' इति। `मो राजि समः क्वौ' (8.3.25) इति समो मकारस्य मकारादेशः।
किं पुनः कारणं राजभ्राजोर्झल्युदाहरणं न प्रदर्शितम्? इत्याह--`राजभ्राजोः' इत्यादि। झलत्वं कस्मान्न भवतीत्याह--`झलादिराभ्याम्' इत्यादि। आभ्यां परो यो झलादिः स इटा पर्यवपद्यत इतीङ्विधीयते; सेट्त्वादनयोः। इतरेष्वाद्यचतुर्थे। विभाषितेटौ, स्वरतीत्यादिसूत्रेम (7.2.44) शेषास्त्वानिटः; `एकाचः' (7.2.10) इतीटृप्रतिषेधात्। तस्मात् तेषामुभयार्थमेव ग्रहणम्। `राष्टिः भ्राष्टिः' इति। `क्वितन्नाबादिभ्यश्च' (वा.307) इति क्तिन्प्रत्ययः, `तितुत्र' (7.2.9) इत्यादिनेट्प्रतिषेधः। `शब्दप्राट्' इति। शब्दं पृच्छतीति `क्विव्वचि' (वा.288) इत्यादिना क्विप्, दीर्घश्च।
अथ किमर्थं छग्रहणम्, यावता `च्छ्वोः शूडनूमासिके च' (6.4.19) इति च्छकारस्य शकारे कृते शकारान्तत्वादेव पृष्ट इत्यादौ षत्वं भविष्यति? इत्यत आह--`च्छदोः शूट्' इत्यादि। `अत्र' इत्यादि। इतिकरणौ हेतौ। तत्र हि `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इत्यनुवर्त्तते, तेन च्छग्रहणं क्रियते; अन्यथा पृष्टः, पृष्टवानित्याद्येव सिध्यत्; न तु प्रष्टा, प्रष्टुमित्यादि; तृजादावक्ङिति शत्वाभावात्। एतच्च सूत्रकारमतेनोत्तम्। केचिदाचार्याः छग्रहणमिह सूत्रे प्रत्याचक्षत एव। तथा हि--`च्छ्रवो शूडनुनासिके च' (6.4.19) इत्यत्रोक्तम्--"केचिदिह क्ङितीत्येतन्नानुवरत्तयन्ति। कथं द्युभ्याम्, द्युभिरित्यूठि कृते? `दिव उत्' (6.1.131) इति तपरकरणान्मात्राकालो भविष्यतीति। `छशां षः' (8.2.36) इत्यत्र च्छग्रहणं न कर्त्तव्यम्, अनेनैव हि सर्वत्र शकारो विधीयते" इति।
`लेष्टा' इति। `लिश अल्पीभावे' (धा.पा.1179) `वेष्टा' इति। `विश प्रवेशने' (धा.पा.1424)।।
37. एकाचो बशो भष् झषन्तस्य स्ध्वोः। (8.2.37)
`धातोः' (8.2.32) इति यदीहानुवर्त्तते तदवयवषष्ठ्यन्तमेकाचो विशेषणम्। `झषन्तस्य' इत्येतदपि समानाधिकरणं तस्यैव विशेषणम्। `एकाचः' इत्येतदवयवषष्ठ्यन्तं बशः। `तदवयवस्य' इति। तस्यावयवस्तदवयवः। योऽसौ धातोरवयव एकाज् झषन्तस्तस्य, तदित्यनेनाभिसम्बध्यते। `झलि परतः' इत्यनेन झलीत्यनुवर्त्तते (8.2.26), तस्य सकारो विशेषणमिति दर्शयति। किमर्थं पनर्झलीत्यनुवर्त्तते? पदान्तस्येत्यनुवृत्तिर्यथा स्यात्; अन्यथा झलीत्यस्मिन् निवर्त्तमाने तत्सम्बद्धं पदान्तग्रहणमपि निवर्त्तत, ततश्च पदान्ते न सिध्येत्। ननु च स्वरितत्वात् पदान्तस्येस्यानुवृत्तिर्भविष्यति? तर्ह्यनेनापि प्रकारेणाख्यायते मन्दधियां सुखप्रतिपत्त्ये। `ध्वशब्दे च' इति। अत्र झलीत्येतन्नापेक्षते, असम्भवात्। न हि कश्चित् झल् ध्वशब्दोऽस्ति; तस्य प्रत्याहारेष्वसन्निवेशात्। `भोत्स्यते' [`भोत्स्यन्ते'--काशिका, पदमञ्जरी च] इति। `बुध अवगमने' (धा.पा.858), लृट्, स्यः, `खरि च' (8.4.55) इति चर्त्त्वम्--तकारः, अनुदात्तेत्त्वादात्मनेपदम्। अत्र बुधेर्धातोर्व्यपदेशिवद्भावेन स्वरूपमेवैकाजवयवो झषन्तः, तदवयवो बकारो बश, अस्यान्तरतम्यादोष्ठ्यस्य स्थान ओष्ठ्य एव भकारो भविष्यति। एवमन्यत्रापि विज्ञेयम्। `अभुध्वम्' [`अबुद्ध' इति प्रा.मु.पाठः] `षढोः कः सि' (8.2.41) इति कत्वम्, `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्। `न्यघूढ्वम्' इति। `ढ्रलोपे पूर्वस्य दोर्घोऽणः' (6.3.111)। `धोक्ष्यते' इति। दुहो लृट्, `दादेर्धातोर्धः' (8.2.32), तस्य `खलि च' (8.4.55) इति चर्त्वम्--ककारः।
`अजर्घाः' इति। `गुधु अभिकाङ्क्षायाम्' (धा.पा.1246), यङ्, द्विर्वचनम्, हलादिशेषः, `उरत्' (7.4.66) इत्यत्वम्, `कुहोश्चुः' (7.4.62) इति चुत्वम्, `यङोऽचि च' (2.4.74) यङ्लुक्, `रुग्रिकौ च लुकि' (7.4.91) इति रुक्। जगृध इति स्थिते इङादयो विधेयाः। अत्र मुख्य एव गृध इत्ययं धातोर्झषन्तोऽवयवः।
`गर्दभयतेः' इति। गर्दभशब्दात् तदाचष्ट इति णिच्, `णाविष्ठवत् प्रातिपदिकस्य' (वा.813) इति टिलोपः। अत्र गर्वभीत्ययं मुख्य एव धातोर्झषन्तोऽवयवः।
`अप्रत्ययः' इति। अश्राविप्रत्ययः क्विबादिरप्रत्यय इत्युच्यते। `दामलिट्' इति। अत्र `होढः' (8.2.31) इति ढत्वे कृते झषन्ततायामुपजातायामेकाज्ग्रहणाद्भष्भाषो न भवति। ननु चात्र द्वावेकाजवयवौ--दकारादिर्मकारान्तः, लकारादिर्झषन्तश्च; तयोश्चासत्यप्येकाज्ग्रहणे नैव भष्भावः प्रसज्यते। तथा हि-यो झषन्तस्तस्य वश् न विद्यते, यस्तु दकारादिर्मकारान्तस्तस्य वश् विद्यते, झषन्तता तु नास्ति, तदनर्थमेकाज्ग्रहणम्? इत्यत आह--`असत्येकाजग्रहणे' इत्यादि। वशो विशेषणं व्यवच्छेदार्थम्। व्यवच्छेदोऽर्थः प्रयोजनं यस्य तत्तथो क्तम्। यद्येकाज्ग्रहणं न स्यात्, ततोऽन्यस्येहाश्रुतत्वात्, बशस्तु श्रुतत्वाच्च स एव धातोरित्यनेन विशेष्यते न धातोरवयवो वशिति। एवं च बशो झषन्तता न सम्भवतीति झषन्तस्येत्यनेन धातुरेव विशेष्यते; अन्यस्येहासम्भवात्। तथा चायं सूत्रार्थः स्यात्--झषन्तस्य धातोर्योऽवयवो बश तस्य झलि सकारे ष्वे च परतः पदान्ते च भव् भवतीति। अस्मिंश्च सूत्रार्थं दामलिडित्यत्रापि प्रसज्येत। भवति दकारोऽत्र बश् झषन्तस्य धातोरवयवः। एकाच इत्येतस्मिन् सति धातोर्झषन्तस्येत्येतदुभयान्तस्यैव विशेषणं भवति, तदपि बशः। तेन वृत्तिकारोपदर्शित एव सूत्रार्थो जायते; ततश्च न किञ्चिदनिष्टमापद्यते। दामलिडित्यत्र हि यो झषन्त एकाजवयवो लकारादिनं तस्य बश् विद्यते, यस्य तु विद्यते दकारादिर्मान्तस्य स झषन्तो न भवति।
`क्रोत्स्यति' इति। `क्रुध कोपे' (धापा.1189)। `दादद्वि' इति। `दीर्घोऽकितः' (7.4.83) इत्यभ्यासस्य दीर्घत्वम्।
अन्तग्रहणमसन्देहार्थम्। असति हि तस्मिन् सन्देहः स्यात्--किमत्र बशः स्थानित्वम्? अथ झषः? इति।।
38. दधस्तथोश्च। (8.2.38)
दधातेरप्येतत् कृतद्विर्वचनस्य रूपमस्ति। `दध धारणे' (धा.पा.8)--इत्यस्य चाकृतद्विर्वचनस्य रूपम्, तत्र तु शपा व्यवहितत्वादनन्तरौ तथो न सम्भवतः; तस्माद्दधातेरेव ग्रहणं विज्ञायते, इत्याह--`दध इति कृतद्विर्वचनो दधातिः परिगृह्यते' इति। `धत्तः, इति। लटस्तस्थसौ, शपः [शपः श्लुलुपि द्विर्वचनम्--प्रा.मुद्रितः पाठः] श्लुः `श्लौ' (6.1.10) (इति) द्विर्वचनम्, `अभ्यासे चर्च' (8.4.54) इति जश्त्वम्--दकारः, `श्नाभ्यस्तयोरातः' (6.4.112) इत्याकारलोपः, अभ्यासदकारस्य भष् धकारः। धातुधकारस्य चर्त्वम्--तकारः। `धत्से' इति। `थासः से' (3.4.80) `धध्वे' इति। टेरेत्त्वम्। `धध्वम्' इति। लोटि `सवाभ्यां वामौ' (3.4.91) इत्यमादेशः।
कथं पुनरत्र भष्भावः; यावता दधातेर्झषन्तस्य यो दश् तस्य भष् भवतीत्युच्यते, अत्र नापि झषन्ततास्ति; आकारलोपस्य `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवद्भावात्; नापि बश्, अभ्यासजशत्वस्यासिद्धत्वात्? इत्यत आह--`वचनसामर्थ्यात्' इत्यादि। `अभ्यासजश्त्वस्यासिद्धत्वम्' इति वचनसामर्थ्यान्न भवतीत्य पेक्षते। यद्याकारलोपस्य स्थानिवद्भावः स्यादभ्यासजश्त्वस्यासिद्धत्वम्। एवं सत्यपार्थकतैवास्य वचनस्य स्यात्, न हि दधातेराकारलोपेन विना बश् स्यात्। तस्माद्वचनप्रामाण्यादुभयं न भवति।
इह झलोत्यनुवर्त्तते, झषन्तस्येति च, तकारथकाराभ्यामन्यः स झलस्ति यत्र दधातेर्झषन्तस्य भष्भावो नेष्यते। तस्मात् `तथोः' इति वचनमन्तरेणापिसिद्धमिष्टमित्यभिप्रायेणाह--`तथोरिति किम्' इति। `आनन्तर्यात्' इत्यादि। अनन्तरसूत्रे हि `स्ध्वोः' (8.2.37) इत्युक्तम्, ततश्च `अनन्तरलस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति स्ध्वोरेव भष्भावो विज्ञायते, न तथोः; अतः `तथोः' इत्युच्यते। यद्येवम्, निमित्तान्तरोपा दाने पूर्वस्य निमित्तस्य निवृत्त्या भवितव्यम्, ततश्च तथोरेव स्यात्, न स्ध्वोः? इत्यत आह--`चकारः' इत्यादि। परिहारः।।
39. झलां जशोऽन्ते। (8.2.39)
`श्वलिट्' इति। ढत्वे कृते जश्त्वम्।
अथान्तग्रहणं किमर्थम्, ननु `स्कोः संयोगाद्योरन्ते च' (8.2.29) इत्यतोऽन्तग्रहणमनुवर्त्तत एव? इत्यत आह--`अन्तग्रहणम्' इत्यादि। तद्ध्यन्तग्रहणं झलीत्यनेन सम्बद्धम्, अतस्तदनुवृत्तौ झलीत्येतदप्यनुवर्त्तत, तस्मादेतन्निवृत्त्यर्थमन्यदेवान्तग्रहणं क्रियते। तेन च वसतेः--वस्ता, वस्तुमित्यत्र न भवति।।
40. झषस्तथोर्धोऽधः। (8.2.40)
`अथः' इति। अनेन धातुप्रतिषेधोऽयं न धकारप्रतिषेध इति दर्शयति। यदि हि धकारप्रतिषेधः स्यात्, धकारात् परयोस्तथोर्धकारो न भवतीति। ततः `मतिबुद्धिपूनार्थेभ्यश्च' (3.2.188), `वृद्धिर्यस्याचामादिस्तद्वृद्धम्' (1.1.73) इत्येवमादयो निर्देशा नोपपद्येरन्। `अलब्ध, अलब्धाः' इति। लुङ्, तस्य तथासौ, `झलो झलि' (8.2.26) इति सकारलोपः। `अलीढ, अलीढाः' इति। ढत्वष्टुत्वढलोपदीर्घत्वानि कर्त्तव्यानि।।
41. षढोः कः सि। (8.2.41)
`पेक्ष्यति' इति। `पिष्लृ सञ्चूर्णने' (धा.पा.1452), लृट्। `अपेक्ष्यत्' इति। लृङ्। `पिपिक्षति' इति। सन्, `हलन्ताच्च' (1.2.10) इति कित्त्वाद्गुणाभावः।
`पिनष्टि' इति। रूधादित्वात् श्नम्। `लेढि' इति। अदादित्वाच्छपरो लुक्।।
42. रदाभ्यां निष्ठातो नः पूर्वस्य च दः। (8.2.42)
`आस्तीर्णम्' इति। `स्तॄञ् आच्छादने' (धा.पा.1484)। `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, `हलि च' (8.2.77) इति दीर्घः। `विशीर्णम्' इति। `शॄहिंसायाम्' (धा.पा.1488)। `निगीर्णम्' इति। `गॄ निगरणे' (धा.पा.1410)। एषु `श्रयुकः किति' (7.2.11) इतीट्प्रतिषेधः, `अवगूर्णम्' इति। `गुरी उद्यमने' (धा.पा.1396)। `श्वीदितो निष्ठायाम्' (7.2.14) इतीट्प्रतिषेधः।
अथ यथा `कृपो रो लः' (8.2.18) इत्यत्र `र' इति वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य सामान्यस्योपादानम्, तथेहापि, अस्ति च ऋकारे रेफः; ततश्च कृतः कृतवानित्यत्र भवितव्यमेव नत्वेनेति यो मन्यते, तं प्रत्याह--`र इत्यत्र' इत्यादि। यद्यत्र `र' इति सामान्यमुपादीयेत तस्मादेवः प्रसङ्गः, न तु रश्रुतिसामान्यमुपादीयते, किं तर्हि? व्यञ्जनमर्धमात्रात्मकम्। न च समानाकारोऽस्तीति कुतो नत्वप्रसङ्गः? भवतु नाम सामान्यस्योपादानम्, तथापि नैवात्र नत्वं प्रसज्यत इति दर्शयितुमाह--`सामान्यनिर्देशेऽपि' इत्यादि। ऋकारोऽत्र ये भागास्तन्मध्यवर्ती रेफो मात्राचतुर्भागात्मकः, तत्र योऽसौ रेफात्परस्तृतीयो भागस्तेन व्यवधानान्न भवति।
`चरितम्, मुदितम्' इति। `चर गत्यर्थः' (धा.पा.559),`मुद हर्षे' (धा.पा.16)। असति हि `त' इति ग्रहणे `रदाभ्याम्' इत्यनेन निष्ठा विशेष्यते--रदाभ्यां परा या निष्ठेति, ततश्चरितमित्यादौ `आदेः परस्य' (1.1.54) इति इट एव नत्वं स्यात्; तस्य निष्ठाभक्तत्वात्। अथ `त' इत्युच्यमाने चरितमित्यादौ तकारस्य कस्मान्न भवति? इटा व्यवहितत्वात्। स हि प्रत्ययभक्तत्वात् प्रत्ययमेव न व्यवदध्यात्। तदवयवत्वं तु व्यवदध्यादेव। `परस्य मा भूत्' इति। असति हि पूर्वग्रहणे यदि हि सन्निहितया निष्ठया दकारो विशेष्येत--निष्ठाया यो दकार इति, ततो जशत्वे कृते परस्यैव स्यात्--भिन्नवद्भ्याम्, भिन्नवद्भिरित्यादौ। अथ न विशेष्येत, ततो विशेषानुपादानाद्यथापूर्वस्य भवति, तथा परस्यापि। तस्मात् परस्य मा भूदित्येवमर्थं पूर्वग्रहणं कृतम्।
अथ कृतस्यापत्यम्, `अत इञ्' (4.1.95) कार्त्तिरित्यत्र कस्मान्न भवति? इत्याह--`इह' इत्यादि। वृद्धिर्हि तद्धितं निमित्तमाश्रित्य भवतीति बहिरङ्गा, नत्वं तु न किञ्चिद्बाह्यं निमित्तमाश्रित्य भविष्यतीत्यतस्तदन्तरङ्गम्। तस्माद्वृद्धेर्बहिरङ्गत्वान्नत्वे कर्त्तव्ये रेफस्यासिद्धत्वम्। ननु च यदि तर्हि बहिरङ्गलक्षणा सा, तस्या एवासिद्धत्वेन भवितुं युक्तम्, न तु रेफस्यापि, न हि रेफो वृद्धिर्भवति? नैष दोषः; वृद्ध्याश्रितो हि रेफः, ततो वृद्धेर्बहिरङ्गत्वाद्रेफस्यापि बहिरङ्गत्वेन भाव्यम्।।
43. संयोगादेरातो धातोर्यण्वतः। (8.2.43)
`प्रद्राणः' इति। `द्रा कुत्सायां गतौ' (धा.पा.1054)। `कृत्यचः' (8.4.29) इति णत्वम्। `म्लानः' इति। `म्लै गात्रविनामे' [`म्लै हर्षक्षये'--इति धातुपाठः] (धा.पा.904)।
`च्युतः, प्लुतः' इति। `च्युङ् प्लुङ् गतौ' (धा.पा.955,958)। `निर्यातः' इति। `या प्रापणे' (धा.पा.1049)। `निर्वातः' इति। `वा गतिगन्धनयोः' (धा.पा.1050)। अत्र र्या, र्वा-इत्येतयोर्धातुत्वं न भवति। `र्या' इत्ययं हि समुदायः संयोगादिः, न चायं धातुः, किं तर्हि? `या' इत्ययम्। एवं `र्वा' इत्ययं संयोगादिः, न चैष धातुः, किं तर्हि? `वा' इत्ययम्। ननु च बहिरङ्गमत्र संयोगादित्वम्, द्विपदाश्रयत्वात्, नत्वं तु विपर्ययादन्तरङ्गम्; `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्यसिद्धत्वादेव संयोगादित्वस्य नत्वं न भवतीति किं धातुग्रहणेन? एवं तर्हि एतज्ज्ञापयति--उपसर्गसम्बन्धेन यो धर्म उपजायते धातूपसर्गसमुदायस्य स धातोरतद्धर्मवतोऽपि कार्याणि प्रापयतीति। तेनोपास्तते गुरुः, अभिभूयते शत्रुरिति कर्मणि लकारः सिद्धो भवति। अत्र ह्यु पसर्गसम्बन्धेन सकर्मकत्वधर्मो जातः। स च धातूपसर्गसमुदायस्य, न धातुमात्रस्य। तत्र यद्ययमर्थो न ज्ञाप्येत, कर्मणि लकारो न स्यात्; धातोरकर्मकत्वात्। अस्मिंश्चार्थे ज्ञापिते तु भवति। `स्नातः' इति। `ष्णा शौचे' (धा.पा.1052)।।
44. ल्वादिभ्यः। (8.2.44)
`जीनः' इति। `ज्या वयोहानौ' (धा.पा.1499), `ग्रहिज्या' (6.1.16) इत्यादिसूत्रेण सम्प्रसारणम्, `हलः' (6.4.2) इति दीर्घः।
`ऋकारल्पादिभ्यः' इत्यादि। ऋकारान्तेभ्यो ल्वादिभ्यश्च परो यः क्तिन् स निष्ठा भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं नु `ओदितश्च' (8.2.45) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्। यथा ऋकारल्पादिभ्यो निष्ठातकारस्य नत्वं भवति, तथा क्तिनोऽपि तकारस्य नत्वं भवतीति।
`दुग्वोः' इति। `दु उपतापे' [`टु टु उपतापे'--धातुपाठः, पदमञ्जर्यां तु-`दु गतौ(944)इत्ययं धातुरुपात्तः, न `टु टु उपतापे' इति] (धा.पा.1256)। `गु पुरीषोत्सर्गे' (धा.पा.1399)।
`पूनाः' इति विनष्टा इत्यर्थः। `पूतं धान्यम्' इति। विधूतमित्यर्थः।
`सिनोतेः' इति। `विञ् बन्धने' (धा.पा.1248) इत्येतस्य। `ग्रासकर्मकर्त्तृकस्य' इति। ग्रासः कर्मकर्ता यस्य स तथोक्तः। अर्थद्वारकञ्चेदम्। तस्य ग्रासकर्मकर्त्तृकत्वं विशेषणं वेदितव्यम्। यथा सिनो ग्रासो बन्धनक्रियायां व्यञ्जनविशेषयोगादानुकूल्यं प्रतिपद्यते, तथा कर्मणोऽपि सतस्तस्य कर्त्तृत्वं विवक्षितमिति कर्मकर्त्तासौ भवति। `सिनो ग्रासः' ति। स्वयमेव बद्ध इत्यर्थः। `सिता पाशेन सूकरी' इति। समुदायप्रत्युदाहरणमेतत्। अवयवप्रत्युदाहरणं दर्शयितुमाह--`ग्रासोऽपि' इत्यादि। ग्रासोऽपि यदि कर्मैव भवति न कर्मकर्ता, तदापि न भवति; ग्रासकर्मकर्त्तृकत्वमस्य तदाभावात्। ग्रासकर्मतो हि स तदानीं भवति ग्रासकर्मकर्त्तृकः।।
45. ओदितश्च। (8.2.45)
`आपीनः' इति। `प्यायः पी' (6.1.28) इति पीभावः।
`स्वादय ओदितः' इति। ते पुनः `षूङ प्राणिप्रसवे' (धा.पा.1132) इत्यादयः `व्रीङ् प्रीणात्यर्थे' [वृणोत्यर्थे-धातुपाठः] (धा.पा.1140) इत्येवमन्ता दिवादिषु पठ्यन्ते।।
46. क्षीयो दीर्घात्। (8.2.46)
`क्षियः' इति। `क्षि क्षये' (धा.पा.236), `क्षि निवासगत्योः' (धा.पा.1407) इति द्वयोरपि ग्रहणम्; विशेषानुपादानात्। `क्षीणआः क्लेशाः' इति। `क्तोऽधिकरणे' च' (3.4.76) इत्यादिनाऽकर्मकत्वात् कर्त्तरि निष्ठा, `निष्ठायामण्यदर्थे' (6.4.60) इति दीर्घः। `क्षीणो जाल्मः, क्षीणस्तपस्वी' इत्यादि। `वाऽऽक्रोशदैभ्ययोः' (6.4.61) इति।
ननु च `क्षियः' इति निर्देशादेव दीर्घस्य ग्रहणं विज्ञायते, तत् किं दीर्घग्रहणेन? यदि ह्रस्वस्येवं ग्रहणं स्यात्, एवं सति परत्वात् `घेर्ङिति' (8.3.111) इति गुणे कृते क्षेरिति निर्देशः स्यात्? इत्यत आह--`ह्रस्वस्यापि हि' इत्यादि। यदि नियोगतो दीर्घस्यैव धात्वनुकरणस्येयङा निर्देशः स्यात्, ततोऽस्मान्निर्देशाद्दीर्घस्येदं ग्रहणमिति विज्ञायते। न च दीर्घस्यैवेयङा निर्वेशो भवति। तथा हि ह्रस्वान्तस्यासौ दृष्टः क्षियः। `निष्ठायामण्यदर्थे' (6.4.60) इत्यत्रावसितं ह्रस्वान्तस्थेदमनुकर्णम्, न दीर्घान्तस्येति? उच्यते; यथाभूतस्यैवानुकर्तुयुक्तम्। ह्रस्वान्तस्य च दीर्घत्वं विधेयम्। अतस्तस्यैवानुकरणमिदमिति विज्ञायते। यदि तर्हि ह्रस्वान्तस्यापि धात्वनुकरणस्येयङा निर्देशो भवति, `विपराभ्यां जेः' (1.3.19), `विभाषा चेः' (7.3.58) इत्येवमादावपि कस्मान्न भवति? इह `विपराभ्यां जेरित्येवमादौ' इत्यादि। अत्रासङ्कल्पमित्यतदध्याहार्यम्। धात्वनुकरणस्य हि `प्रकृतिवदनुकरणं भवति' (व्या.प.113) इतीयङा निर्देशो भवति। धात्वनुकरणं च किं भवितुमर्हति येन धातावनुकार्येव स्थितम्? धातुत्वं क्रियावाचित्वलक्षणं विवक्ष्यते। `विपराभ्यां जेः' (1.3.19) इत्येवमादौ त्वनुकार्यगतं धातुत्वं सदप्यववक्षितत्वादसङ्कल्पम्। तस्मान्नात्र धात्वनुकरणम्। अपि तु ङीप्रभृतेः क्रियावाचिनश्च तत्सादृश्यशब्दान्तरस्य ङीत्येवमादेर्यद्रूपसामान्यमर्थशून्यं तदनुकरणं द्रष्टव्यम्। तस्मादधात्वनुकरणत्वान्न भवतीयङादेश इत्यभिप्रायः। यदि तर्हि धात्वनुकरण स्यात्, प्रकृतिवदनुकरण भवतीति, एवं सत्यधातो (1.2.45) इति प्रातिपदिकसंज्ञाप्रतिषेधोऽपि स्यात्, ततश्च विभक्तिर्नोपपद्यते? वत्करणेनानुकार्येणार्थेणार्थनार्थवत्त्वस्याश्रयात् प्रातिपदिकसंज्ञा भविष्यतीत्यदोषः।।
47. श्योऽस्पर्शे। (8.2.47)
`शीनम्' इति। `श्यैङ् गतौ' (धा.पा.963), `द्रवमूर्त्तिस्पर्शयोः श्यः'(6.1.24) इति सम्प्रसारणम्, `हलः' (6.4.2) इति दीर्घः। `शोतं वर्त्तते' इति। भावे निष्ठा। पूर्वत्र तु कर्त्तरि। एवं `शीतो वाधुः' इत्यादौ।
`शीतमुदकमित्यत्र' इत्यादि। `गुणभूतोऽपि' इति। अप्रधानभूतोऽपीत्यर्थः। ननु च प्रधाने कार्यसम्प्रत्ययादप्रधानस्य नत्वप्रतिषेधादिकार्यं प्रति निमित्तभावो नोपपद्यते? नैष दोषः; `अस्पर्शे' इति हि यद्ययं पर्युदासः स्यात्, एवं सति शीतो वायुरित्यादौ स्पर्शादन्यद्द्रव्यमस्तीति नत्वं स्यात्; न त्वयं पर्युदासः, किं तर्हि? प्रसज्यप्रतिषेधः। तेन यत्र ल्पर्शनगन्धोऽस्ति तत्र तदाश्रयेण नत्वप्रतिषेधेन भवितव्यम्। अस्ति चेह गुणभूतः स्पर्शः, तेन तदाश्रयो नत्वप्रतिषेधो भवत्येव। भवत्वेवं नत्वप्रतिषेधः, सम्प्रसारणस्य तु गुणभूतः स्पर्शः कथं कारणं भवति? नियमस्य त्यागात्। इह `अल्पाच्तरम्' (2.2.34) इति नियमः--अल्पाच्तरं द्वन्द्वे पूर्वमेव प्रयोक्तव्यमिति; `द्रवमूर्तिस्पर्शयोः श्यः' (6.1.24) इत्यत्र स्पर्शशब्दस्याल्पाच्तरस्य परनिपातं कुर्वताऽस्य नियमस्य त्वागः कृतः। स किमर्थं कृतः? स्पर्शोऽत्रानियमेन प्रधानभूत उपसर्जनभूतो वा सम्प्रसारणस्य कारणमित्यस्यार्थस्य सूचनार्थः। तेन गुणभूतोऽपि स्पर्शः सम्प्रसारणस्य निमित्तं भवति।
स्पर्शशब्दोऽयमस्ति गुणवचनः, अस्ति च रोगवचनः; तदिह विशेषानुपादानादुभयोरपि ग्रहणम्। ततो रोगेऽपि प्राप्नोतीति प्रतिशीन इत्येतन्न सिध्येदिति चोद्यमाशह्क्याह--`गुणे च' इत्यादि। गुण एवेत्यर्थः। कथं पुनर्गुण एव प्रतिषेधो लभ्यते? ज्ञापकात्। यदयं `द्रवमूर्त्तिस्पर्शवोः श्य-' (6.1.24) इत्यत्र सम्प्रसारणं विधाय पुनः `प्रतेश्च' (6.1.25) इति विधत्ते, तज्ज्ञापयति--श्यायतेर्यत्र ग्रहणं तत्र स्पर्श उपादीयमानो रोगं न प्रत्याययतीति। यदि हि प्रत्याययेत्, पुनर्विधानमनर्थकं स्यात्; पूर्वेणैव सिद्धत्वात्। प्रतिपूर्वो हि रोग एव श्यायतिर्वत्तेते, नान्यत्र।।
48. अञ्चोऽनपादाने। (8.2.48)
`न चेदपादानं तत्र भवति' इति। तत्रेत्यनेनाञ्चतिः परामृश्यते। शब्दद्वारेणाञ्चत्यर्थं एवायमपादानस्य प्रतिषेधसामर्थ्याद्विज्ञायते। न ह्यञ्चतावपादानत्वं सम्भवति, किं तर्हि? तदर्थे क्रियाविषयत्वात् कारकाणाम्। तदेतदुक्तं भवति--न चेदञ्चत्यर्थे विषयभूतेऽपादानं न भवतीति। `समक्नौ' इति। सङ्गतावित्यर्थः। `अन्चु गतिपूजनयोः' [`अन्चू' इति काशीमुद्रितः पाठः](धा.पा.188) इत्युदित्त्वाद्विभाषितेट्। [इत्यूदित्त्वात्--काशीमुद्रितः पाठः] तेन `यस्य विभाषा' (7.2.15) इति निष्ठायामिट्प्रतिषेधः, `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः। `उदक्तमुदकम्' इति। उद्धृतमुदकमित्यर्थः। अथ व्यक्तमित्यत्र नतवं कस्मान्न भवति? इत्याह--`व्यक्तमित्येतत्' इत्यादि। `अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' [`अन्चू' इति। काशीमुद्रितः पाठः] (धा.पा.1458) इत्येतस्यैतद्रूपम्,[इत्येतद्रूपम्--काशीमुद्रितः पाठः] नाञ्चतेः; ततो नत्वमिह न भवतीति भावः।।
49. दिवोऽविजिगीषायाम्। (8.2.49)
`आद्यूनः, परिद्यूनः' इति। अविजिगीषुरित्यर्थः। `च्छवोः शूडनुनासिके च' (6.4.19) इति ऊठ्। `द्यूतं वर्त्तते' इति। विजिगीषार्थोऽत्र विवक्षित इति नत्वं न प्रवर्त्तते। कथं पुनरिह विजिगीषार्थः, यावता अक्षपातनलक्षणक्रोडा न प्रतीयते? इत्याह--विजिगीषायां हि'[इत्येतद्रूपम्--काशीमुद्रितः पाठः] इत्यादि। विजेतुमिच्छा विजिगीषा, तस्याम्। तत्र क्रोडायामक्षपातनादि क्रियते। तस्माद्विजिगीषार्थेऽवतिष्ठत इति भावः। आदिशब्देन शलाकापातादेर्ग्रहणम्।।
50. निर्वाणोऽवाते। (8.2.50)
`दातेरुत्तरस्य' इति। `वा गतिगन्धनयोः' (धा.पा.1050) इत्येतस्मात्। `न च' इत्यादि। धातमचिकरणमाधारो यस्य स तथोक्तः। एतदुक्तं भवति--धातेर्धातोर्योऽर्थः स यदि धातेन समवेतो भवतीत्यर्थः। `निर्वाणोऽग्निः, निर्वाणः प्रदीपः' इति। अत्र स्वरूपस्य यः प्रशम उपरतिलक्षणः स धात्वर्थः। `एष निर्वाणो भिक्षुः' इति। अत्रापि। अथ वा--रागादिप्रहाणं धात्वर्थः।
`निर्वातो वातः' इति। अकर्मकत्वात् कर्त्तरि निष्ठा। `निर्वातं वातेन' इति। अत्र भावे। उभयत्राप्यत्र गतिनिरोधो धात्वर्थ-।
`निर्वाणः प्रदीपी वातेन' इति। अत्र वातेनेति कर्त्रि तृतीया। तस्माद्वात एव दात्यर्थस्याधारः, ततश्च नत्वेन भवितव्यमिति कस्यचिद्व्यामोहः स्यात्, अतस्तान्निराकरणायाह--`निर्याणः प्रदीपः' इत्यादि। अत्र निर्वाणंधात्वर्थः, तच्च प्रदपाधारम्, न वाताधारम्। वाताधारे हि तस्मिन्निर्वाण इति यदि कर्त्तरि निष्ठा, तदा तयैवाभिहितत्वात् कर्त्तुर्वातात् तृतीया न स्यात्। अथ `नपुंसके भावे क्तः' (3.3.114) इति भावे? एवं ससि निर्वाण इति पुंल्लिङ्गं न स्यात्। तस्मात् प्रदीप एव कर्त्ता धात्वर्धस्याधारः। यद्येवम्, कथं वातेनेत्यत्र तृतीया? इत्यत आह--`वातस्तु' इत्यादि। एतेनैषा तृतीया न कर्त्तरीति दर्शयति।।
51. शुषः कः। (8.2.51)
`शुष शोषणे' (धा.पा.1183) इत्यस्मात् परस्य निष्ठातकारस्य ष्टुत्वे प्राप्ते ककारो विधीयते। अकार उच्चारणार्थः। `शुष्कः, शुष्कवान्' इति। युक्तं शुष्वानित्येतदुदाहरणम्, शुष्क इत्येतत्त्वयुक्तम्; न ह्येतदर्थेऽस्य सूत्रस्यारम्भो युज्यते, `शुष्कधृष्टौ' (6.1.206) इति निपातनेनैव सिद्धत्वात्? नैतदस्ति; निपातनेन हि ककारे सति शुष्किकेत्यत्र `उदीचामातः स्थाने यकपूर्वायाः' (7.3.46) इति विभाषेत्वं स्यात्, शुष्कजङ्घेत्यत्र च `न कोपधायाः' (6.3.37) इति पुंवद्भावप्रतिषेधः स्यात्; इह तु ककारस्य विधाने सति तस्यासिद्धत्वादेतदुभयं न भवति। तस्माच्छुष्क इत्येतदर्थोऽप्यस्यारम्भो युक्तः।।
52. पचो वः। (8.2.52)
`पक्वः, पक्ववान्' इति। `डुपटचष् पाके' (धा.पा.996)। यद्येवम्, पक्व इत्यतत् `सिद्धशुष्कपक्वबन्धैश्च' (2.1.41) इति निपातनादपि हि सिध्यति; तथापि पक्ववानित्येतदर्थमिदमवश्यमारब्धव्यम्। अन्यार्थं चारभ्यमाणं पक्व इत्येतदर्थरूपमपि भवतीति पस्वशब्दोऽस्योदाहरणमुपन्यस्तम्। निपातनद्वारेण हि तद्व्युत्पत्तौ प्रतिपत्तिगौरवं स्यादित्यभिप्रायः।।
53. क्षायो मः। (8.2.53)
`क्षै जै वै क्षये' (धा.पा.913-915)।।
54. प्रस्त्योऽन्यतरस्याम्। [`प्रस्तोन्यतरस्याम्'--इति प्राचीन्यासमुद्रितः पाठः]
`प्रस्तीमः' इति। `ष्ट्यै स्त्यै सङ्घातशब्दयोः' (धा.पा.911,910)। `स्त्यः प्रपूर्वस्य' (6.1.23) इति सम्प्रसारणम्; पूर्ववद्दीर्घः। इह यदा मत्वं न भवति। तदा `संयोगादेः' (8.2.43) इत्यनेन नत्वेन भवितव्यम्; ततश्च प्रस्तीनः, प्रस्तीनवानितीष्टं स्यात्--इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`यदा मत्वं नास्ति' इत्यादि। कृते तर्हि प्रथमं सम्प्रसारणे नत्वं कस्मान्न भवति? इत्याह--`तत्र कृते' इत्यादि।।
55. अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः। (8.2.55)
`फुल्लः' इति। `ञिफला विशरणे' (धा.पा.516), `आदितश्च' (7.2.16) इतीट्प्रतिषेधथः, `उत्परस्यातः' (7.4.88) इत्युत्त्वम्।
`क्तवत्वन्तस्याप्येतल्लत्वमिष्यते' इति। कथं पुनरिष्ययाणमपि लभ्यते, न हि क्तवत्वन्तः शब्दः सूत्र उपात्तः? उच्यते; इह निष्ठायास्तकारान्तं यच्छब्दरूपं तस्य `फुल्ल' इत्येतन्निपात्यते, क्तवतोश्च [`क्तक्तवतोश्च' इति काशीमुद्रितः पाठः] तत् तुल्यम्। परस्तु यदि क्तवतोऽर्थो वा विशेष्यते? विशेष्यताम्, न हि तेन समानेनासमानेन वा परयोजनमस्ति। तस्मात् क्तवत्वन्तस्याप्येतल्लत्वं भवति। एवमनयैव युक्त्या क्षीबकृशोल्लाघादिष्वपि यन्निपात्यते, तदपि क्तवत्वन्तस्य प्रसज्यते?[`प्रसज्येत'--इति का.मु.पाठः] नैष दोषः; वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोर्योगयोः शेषः। व्यवस्थितविभाषा च न ज्ञायते, तेनातिप्रसङ्गो न भविष्यतीति।
`क्षीविकृशिभ्याम्' इति। `क्षीबृ मदे' (धा.पा.382), `कृश तनूकरणे' (धा.पा.382), `कृश तनूकरणे' (धा.पा.1227)। `इडभावश्च निपात्यते' इति। क्तलोपस्यासिद्धत्वाद्वलादिरार्धधातुको भवतीतीट् प्राप्नोति; अतस्तदभावश्च निपात्यते। `कृते वा इटि इच्छब्दलोपः' इति। निपात्यत इति सम्बन्धः। इडभावापेक्षो विकल्पः। अथ वा--नेडभावो निपात्यते। किं तर्हि? कृत इटीच्छब्दलोपः।
`लाघेरुदोऽन्य उपसर्गः प्रतिषिध्यते' इति। उत्पूर्वस्य ग्रहणसामर्थायत्। अन्यथा ह्युत्पूर्वस्योपादानमनर्थकं स्यादित्यभिप्रायः।
अनुपसर्गादित्युच्यते, तत्र परिकृश इति न सिध्यति? इत्यत आह--`परिकृश इत्यत्र' इत्यादि। तनूकरणलक्षणक्रियाया अन्यक्रिया गमनलक्षणा क्रियान्तरम्, तेन योगोऽयम्, न परिशब्दः, अतर कृशिं प्रत्युपसर्गसंज्ञा भवतीति कृत्वा। `परिगतः कृशः' इति। अनेन तं क्रियान्तरयोगं दर्शयति। अथ किमर्थं निपातनम्; यावता फुल्ल इति `फुल्ल विकसने' (धा.पा.532) इत्यस्मात् पचाद्यचि सिध्यति, क्षीबेरिगुपधलक्षणे के--क्षौव इति, कृश इत्यपि कृशेरचैव, उल्लराघ इति--लाघ इत्येव पचाद्यचि सिद्ध्यत्येव? सत्यमेवैतत्; निष्ठायां तु फलतिप्रभृतीनामसत्यस्मिन्ननिष्टं रूपं प्राप्नोति। अतस्तन्निवृत्त्यर्थमारब्धध्यमेतत्।।
56. नुदविदोन्दत्राघ्रह्वीभ्योऽन्यतरस्याम्। (8.2.56)
`समुन्नः, समुत्तः' इति। `अनिदिताम्' (6.4.24) इति नलोपः। `ह्रीत्यस्य' [`ह्री' इत्यतस्य--काशिका, पदमञ्जरी च] इति। `ह्री लज्जायाम्' (धा.पा.108530 इत्यस्य। `अप्राप्त्रः' इति। केनचिदविधानात्। `इतरेषाम्' इति। तत्र `नुद प्रेरणे' [`णुद प्रेरणे'--धातुपाठः] (धा.पा.1426), `उन्दी क्लेदने' (धा.पा.1457)--तयोः `रदाभ्याम्' (8.2.42) इति नित्यं प्राप्सम्। `त्रैङ् पालने' (धा.पा.965), `घ्रा गन्धोपादाने' (धा.पा.926)--एतयोः `संयोगादेः' (8.2.43) इत्यादिना।
`विद विचारणे' इत्यस्य विदेरिह ग्रहणमिध्यते' इति। कथं पुनरस्य ग्रहणमिष्यते, श्लुविकरणेन ह्रीत्यनेन [`ह्रीणा'--प्रा.मु पाठः] साहचार्यात्? नैतदस्ति; शविकरणेन नुदिना साहचर्याल्लाभार्थस्य विदेर्ग्रहणप्रसङ्गात्? एवं तर्ह्यन्यतरस्यामित्येषा व्यवस्थितविबाषा, तेन विचारणार्थस्यैव भवितव्यम्, नान्यस्य; यस्यैवं भवितव्यं तस्यैव ग्रहणं युक्तमिति स एव गृह्यते।
कथं पुनर्ज्ञायते--विचारणार्थस्य विदेर्यहणमिष्यते? इत्याह--`एवं हि' इत्यादि। इष्यत इति वक्ष्यमाणं प्रत्येकमभिसम्बध्यते। `निष्ठा' इत्यनेन निष्ठान्तमुपलक्षयतिः `वेत्तेः' इत्यादि। `विद ज्ञाने' (धा.पा.1064) इत्यस्य `विदितः' इत्येतद्रूपमिष्यते; नित्येट्त्वात्, तस्येटा निष्ठातकारस्य व्यवधाने सति नत्वस्यासम्भवात्। `विद्यतेः' इति। `विद सत्तायाम्' (धा.पा.1171) इत्यस्य श्यन्विकरतस्य [नास्ति--का.मुपाठे] निष्ठान्तस्य `विन्नः' इत्येतद्रूपमिध्यते; `एकाचः' (7.2.10) इतीट्प्रतिषेधात्; `रदाभ्याम्' (8.2.42) इत्यादिना च नित्यं नत्वविधानात्। `विन्तेविन्नश्च वित्तश्च' इति। `विद विचारणे' (धा.पा.1450) इत्यस्य निष्ठान्तस्यैतद्रूपद्व्यमिष्यते; पूर्ववदिट्प्रतिषेधात्, अनेन च सूत्रेण (8.2.56) पक्षे नत्वविधानात्। `भोगिवित्तश्च विन्दतेः' इति। विब्दतेरित्यनेन लाभार्थविदिं दर्शयति। तस्य हि `शे मुचादीनाम्' (7.1.59) इति नुमि कृते विन्दतीत्येतद्रूपं भवति। भोगवित्त इति--भोगे वित्तो भोगवित्तः, `सप्तमी' (2.1.40) इति योगविभागात् समासः। भोगग्रहणं चोपलक्षणमात्रम्। प्रत्ययोऽयि गृह्यते। `विद्लृ लाभे' (धा.पा.1432) इत्यस्य भोगे प्रत्यये चार्थे वित्त इत्येतद्रूपं निष्ठायामिष्यते; `वितो भोगप्रत्यययोः' (8.2.58) इति नत्वाभावस्य निपातनात्, `यस्य विभाषा' (7.2.15) इति निष्ठायामिट्प्रतिषेधाच्च। विन्दतेर्हि क्वसौ `विभाषा गमहनविदविशाम्' (7.2.68) इतीङ्विभाषितः; `भोगवित्तश्च विन्दतेः' इति ब्रुवताऽर्थतौ भोगप्रत्ययाभ्यामन्यत्र विन्न इत्येतद्रूपमिष्यत इत्युक्तं भवति।।
57. न ध्याख्यापमूर्च्छिमदाम्। (8.2.57)
`ध्यै चिन्तायाम्' (धा.पा.908), `ख्या प्रकथने' (धा.पा.1060), `चक्षिङः ख्याञ्' (2.4.54) इति च--द्वयोरपि ग्रहणम्। ननु च चक्षिङादेशस्य सानुबन्धकत्वान्निरनुबन्धकग्रहणपरिभाषया (व्या.प.53) न प्राप्नोतीति? नैष दोषः; इह हि निष्ठातकारस्य परत्वप्रतिपादने पञ्चमी युक्ता, यथा--`रदाभ्याम् (8.2.42) इति। तत्र पञ्चमीनिर्देशे कर्त्तव्ये यः षष्ठीनिर्देशः क्रियते, स सम्बन्धसामान्यं प्रतिपादयितुम्। न च सम्बन्धिन मन्तरेण सम्बन्धसामान्यमुपपद्यते। न च सानुबन्धके परित्यज्यमाने सम्बन्धिभेदः सम्भवतीति युक्तं तस्यापि ग्रहणम्, `पॄ पालनपूरणयोः' (धा.पा.1489), `मुर्च्छा मोहसमुच्छ्राययोः' (धा.पा.212), `मदी हर्षे' (धा.पा.1208)। एषु ध्याख्याप्रभृतिषु--आद्ययोः `संयोगादेः' (8.2.43) इत्यादिना नत्दे प्राप्ते, इतरेषामपि `रदाभ्याम्' (8.2.42) इत्यादिना, प्रतिषेधोऽयमारभ्यते। `पूर्त्तः' इति। `श्रयुकः किति' (7.2.11) इतीट्प्रतिषेधः, `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युत्त्वम्, पूर्ववद्दीर्घः। `मूर्त्तः' इति `राल्लोपः' (6.4.21) इति च्छकारलोपः, `आदितश्च' (7.2.16) इतीट्प्रतिषेधः। `मत्तः' इति। अत्रापि `श्वीदितो निष्ठायाम्' (7.2.14) इति।।
58. वित्तो भोगप्रत्यययोः। (8.2.58)
`धनमस्य बहवित्यर्थः' इति। कथं पुनर्भोगे व्यत्पादितस्य धने वृत्तिरर्थो भवति? इत्याह--`घनं हि' इत्यादि। अनेन कर्मसाधनत्वं भोगशब्दस्य दर्शयन् धनेऽस्य वृत्तिं दर्शयति।
`प्रतीत इत्यर्थः' इति। एतेन प्रत्ययशब्दस्य कर्मसाधनतामाचष्टे। प्रतीत इति कर्मणि निष्ठा। प्रतीत आख्यात इत्यर्थः। स चायमर्थः प्रत्यये व्युत्पाद्यमानेऽस्य कथं [नास्ति--का.मु.पाठे] भवति, यदि प्रत्यशब्दोऽपि कर्मसाधनो भवति--प्रतीयत इति प्रत्ययः। तेन प्रत्ययशब्दस्य कर्मसाधनता वेदितव्या।।
59. भित्तं शकलम्। (8.2.59)
`भित्तमिति निपात्यते' इति। किं निपात्यते? रदाभ्यामिति (8.2.42) नत्वे प्राप्ते तदभाव इति। `शकलं चेत्तद्भवति' इति। शकलशब्दस्य योऽर्थः, खमण्ड इति यस्यापरमभिधानम्, भित्तशब्दस्यापि यदि स एवार्थो भवतीत्यर्थः। कथं पुनर्भित्तशब्दस्य शकलमर्थो भवति? इत्याह--`शकलपर्यायोऽयम्' इति। भित्तशब्दः शकलस्यैव पर्यायः। तस्माद्यथा शकलशब्दस्य शकलमभिधेयं भवति, एवं भित्तशब्दस्यापि।
ननु च शकलशब्दोऽयं जातिशब्दः; जातिप्रव-त्तिनिमित्तमुपादाय स्वाभिदेये प्रवृत्तत्वात्; भित्तशब्दस्तु क्रियाशब्दः, क्रियाप्रवृत्तिनिमित्तत्वात्; तथा हि--भिदेर्विदारणार्थात् क्ते विहिते भित्तमिति निपात्यते, न च क्रियाशब्दो जातिशब्दपर्याय उपपद्यते? इत्याह--`अत्र' इत्यादि। शब्दव्युत्पत्तिः=शब्दसंस्कारः, तस्या एवात्र भित्तशब्दे भिदिक्रियानिमित्तत्वाम्; न तु तत्प्रवृत्तेः; असत्त्वात्। जातिरेव तु तत्प्रवृत्ति प्रति निमित्तम्; तस्या विद्यमानत्वात्। तस्माच्छकलशब्दवद्भित्तशब्दोऽपि जातिशब्द एव; न क्रियाशब्द इति युक्ता तस्य तत्पर्यायता। यदि तर्ह्यसत्येवात्र भिदिक्रिया, शब्दसंस्कारत्वस्यापि सा निमित्तं नोपपद्यते? नैतदस्ति; न ह्ययं नियोगोऽभिधीयते--विद्यमानैव क्रिया शब्दसंस्कारस्य निमित्तं भवतीति। तथा हि तैलपायिकाशब्दो यत्र प्राणिविशेषे रूढः, तत्र तैलपानक्रियाशब्दोऽपि नास्ति; तथापि तैलपानक्रिया तत्संस्कारनिमित्तत्वेनाश्रीयते। कथं पुनर्भित्तशब्दो भिदिक्रियाप्रवृत्तिनिमित्तं न भवति? इत्याह--`भिदिक्रियाविवक्षायां हि' इत्यादि। अत्र भिन्नमित्यस्य च भित्तशकलशब्दाभ्यां प्रत्येकमभिसम्बन्धः। तेन `भिन्नं भित्तमित्येव भवति' इति। एतत् प्रयोगद्वयमपि भिदिक्रियादिवक्षायां सिद्धं भवति। विदीर्णे हि शकले तस्य विदीर्णतां प्रतिपादयितुं भिन्नम्, भित्तमित्येष प्रयोगो भिदिक्रियाविवक्षायां क्रियते। यदि च भित्तशब्द क्रियाप्रवृत्तिनिमित्तं स्यात्, ततो भित्तशब्देनैव भिदिक्रियानिमित्तकेन विदीर्णता शकलस्य प्रतिपाद्यत इत्येष प्रयोगो नोपपद्यते, न हि तदस्ति यस्य भित्तशब्देनाप्रतिपादितस्य भिन्नशब्दयोगो भवेत्। भिन्नं शकलमित्येष च प्रयोगो नोपपद्यते; शकलव्युत्पादितेन भित्तशब्देन भिदिक्रियानिमित्तकेन भिन्नशब्दस्य बाधितत्वात्। अस्ति चायं द्विविधोऽपि प्रयोगः, तस्गाद्भित्तशब्दस्य भिदिक्रियानिमित्तत्वं न गम्यते।।
60. ऋणमाधमर्ण्ये। (8.2.60)
`ऋ इत्येतस्मात्' इति। `ऋ गतौ' (धा.पा.1098) इत्येतस्मात्, `ऋ गतिप्रापणयोः' (धा.पा.936) इत्येतस्माद्वा।
`अधम ऋणेऽधमर्णः' इति। केन पुनरत्र समास इति? यावता नात्र किञ्चित् समासलक्षणमस्ति; `सप्तमिति योगविभागात् समासः' इत्येतच्च न वक्तव्यम्, सप्तम्याः पूर्वनिपातप्रसङ्गत्? इत्यत आह--`एतस्मादेव' इत्यादि। `तद्भाव आधमर्ण्यम्' इति। तत् प्रतिदास्यतीति ग्रहणक्रियाभिसम्बन्धः। तद्योगाद्भावेऽसावधमर्ण इत्युच्यते। `कालान्तर' इत्यादि। यस्मिन् कालेऽधमर्णो गृह्णाति तस्मात् कालादन्य आगामी कालः कालान्तरम्, तत्र यद्देयं तत् कालान्तरदेयम्, तेन यो विनिमयः= विपरिवर्त्तनम्, तदुपलक्षणार्थमेवाधमर्णग्रहणमेवमुपात्तम्, न च स्वार्थपरतिपादनार्थमेव। किं कारणमेवं व्याख्यायते? इत्याह--`उत्तमर्ण इत्यपि भवति' इति। ऋणे ह्येकोऽधमर्णो भवति, यो गृहीत्वा प्रतिदास्यतीति; यस्तु दत्वा ग्रहौष्यति स उत्तमर्णः। तत्र यद्याधमर्ण्यग्रहणं स्वार्थप्रतिपादनार्थमेवोपात्तम्, तदोत्तमर्ण इति न सिध्येत्, न ह्यत्राधमर्ण्यं विवक्षितम्। तत्तर्हीदं चोत्तमर्यर्णेऽपि कालान्तरदेयविनिमयोपलक्षणार्थत्वादाधमर्ण्यग्रहणे सत्येतदपि सिध्यति, अस्ति ह्यत्र कालान्तरद्वयविनिमयः। तथा ह्युत्तमर्णोऽपि प्रयच्छन् कालान्तरे यद्देयं तेन विनिमयं करोति।।
61. नसत्तनिषत्तानुत्तप्रतूर्त्तसूर्त्तगूर्त्तानि छन्दसि। (8.2.61)
`सदेः' इति। `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.854) इत्येतस्मात्। `निषत्तः' इति। `सदिरप्रत्तेः' (8.3.66) इतिषत्वम्।
`अनुत्तम्' इति। `उन्दी क्लेदने' (धा.पा.1457), `अनिदिताम्' (6.4.24) इति नलोपः।
`प्रतूर्त्तम्' इति। यदा `ञित्वरा सम्भ्रमे' (धा.पा.775) इत्यस्य निपात्यते, तदा `ज्वरत्वर' (6.4.20) इत्यादिना वकारस्योपथायाश्चोत्वम्। यदा `उर्वी तुर्वी थुर्वी हिंसार्थाः' (धा.पा.569,570,571) इत्यस्य, तदा `राल्लोपः' (6.4.21) इति रकारलोपः, पूर्ववद्दीर्घः।
`सूर्त्तम्' इति। `सृ गतौ' (धा.पा.935) उत्वसन्नियोगे रपरत्वम्, पूर्वद्दीर्घः।
`गूर्त्तम्' इति। `गुरी उद्यमाने' [`गूरी'--प्रा.मु.पाठ] (धा.पा.1396)।
62. क्विन्प्रत्ययस्य कुः। (8.2.62)
`घृतस्पृक्' इति। अत्र शकारस्य विवृत्तकरणस्य श्वासानुप्रदानस्याघोषस्य तादृश एव खकारः, तस्य जश्त्वम्--गकारः। गकारस्यापि चर्त्वम्--ककारः।
अथ प्रत्ययग्रहणं किमर्थम्, न क्विन इत्येवोच्येत, न हि क्विन् प्रत्ययत्वं व्यभिचरति। एवमुच्यमाने लोपापवादः क्विन एव कुत्वं स्यादित्येतच्च नाशङ्कनीयम्, तथा हि--क्विन्निति प्रत्ययग्रहणं यत्र प्रत्ययग्रहणं प्रत्ययग्रहणपरिभाषया (भो.प.सू.7) क्विन्नन्त उपस्थापिते क्विनो लोपे कर्त्तव्ये कुत्वस्यासिद्धत्वात् पूर्वं लोपेनैव भवितव्यम्। तस्मिन् सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यिति? इत्यत आह--`क्विनः कुरिति वक्तव्ये' इत्यादि। असति हि प्रत्ययग्रहणे क्विन्प्रत्ययान्तस्यैव पदान्तस्य स्यात्, मान्यप्रत्ययान्तस्य, तस्यापि चेष्यते। तस्मात् प्रत्ययग्रहणं क्रियते। प्रत्ययग्रहणे सति बहुव्रीहिर्लभ्यते। तेन बहुव्रीहिणा यस्माद्विहितः स धातुरूपलक्ष्यत इति सर्वस्य सिध्यति। `मानो अस्राक्, मानो अद्राक्' इति। `सृज विसर्गे' (धा.पा.1414) `दृक्षिर् प्रेक्षणे' (धा.पा.988), लुङ्, च्लेः सिच् (3.1.44), तिप्, `सृजिदृशोर्झल्यमकिति' (6.1.58) इत्यमागमः, `वदव्रज' (7.2.3) इत्यादिना वृद्धिः, हल्ङ्यादिलोपः (6.1.68), अडागमः, अनेन कृत्वम्।
`सृजिदृशिभ्यां क्विन्विहितः' इति। `ऋत्विक्' (3.2.59) इत्यादिना सृजेः क्विन्विहितः। दृशेरपि `त्यवादिषु दुशेरनालोचने कञ्च' (3.2.60) इत्यनेन। कथं पुनरत्राडागमः, यावता `न माङयोगे' (6.4.74) इति प्रतिषिद्धोऽसो? इत्यत आह-`माङ्योगेऽपि' इत्यादि। छान्दसौ ह्येतौ प्रयोगौ। तेन सत्यपि माङ्योगे `बहुलं छन्दस्यामाङ्योगेऽपि' (6.4.75) इत्यडागमो भवत्येव। `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट् तर्हि कस्मान्न भवति? इत्याह-ईट् च न भवति' इत्यादि।
प्रत्ययग्रहणाद्यथा क्विन्प्रत्ययस्य लुगन्तस्य कृत्वं भवति, दृग्भ्यामित्या दौदृशेः क्विबन्तस्यापि। `एवम्' इत्यादि। प्रत्ययग्रहणात् क्विन्प्रत्ययो यस्माद्विहितः, तस्यान्यप्रत्ययान्तस्यापि कुत्वं भवतीत्यस्मिन्नर्थे व्यवस्थिते रज्जुसृङ्भ्यामित्यत्रापि ब्रश्चादिसूत्रेण (8.2.36) षत्वं यत् प्राप्नोति तद्बाधित्वा कृत्वेन भवितव्यम्।
`अथ तु नेष्यते, प्रतिविधानं कर्त्तव्यम्' इति। [नास्ति--प्रा.मु.पाठे] प्रतिविधानमुत्तरसूत्रे वाग्रहणं यत् तदुभयोर्योगयोः शेषः। व्यवस्थितविभाषा च, तेनेह न भविष्यतीति। एवञ्च सति रज्जुसृभ्याम्, रज्जुसृङ्भ्य इति भवितव्यम्।।
63. नशेर्वा। (8.2.63)
`जीवनङाहुतिः' इति। अत्राकुत्वपक्षे व्रश्चादिसूत्रेण (8.2.36) षत्वे कृते जश्त्वम्--डकारः।।
64. मो नो धातोः। (8.2.64)
`पदस्य' इति वर्त्तते। तच्च धातुसमानाधिकरणं मकारेण विशेष्यते--मकारान्तस्य पदस्य धातोरिति। `प्रशान्, प्रतान् इति। `शमु उपशमे' (धा.पा.1201), `तमु काङ्क्षायाम्' (धा.पा.1202), क्विप्, `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इत्युपधादीर्घत्वम्, हल्ङ्यादिलोपः (6.1.68)। अथेह `नलोपः प्रातिपदिकान्तस्य' (8.2.7) ति नकारलोपः कस्मान्न भवति? इत्याह--`नत्वस्य' इत्यादि।।
65. म्वोश्च। (8.2.65)
`अगन्म' इति। `स उत्तमस्य' (3.4.98) इति सकारलोपः। `जगन्वान्' इति। गमेर्लिट्, क्वसुः, हल्ङ्यादि (6.1.68) संयोगान्तलौपौ (8.2.23), `सान्तमहतः' (6.4.10) इति दीर्घः, `गमहन' (6.4.98) इत्यादिनोपधालोपः। `छन्दस्युभयथा' (3.4.117) इति सार्वधातुकत्वं न भवति।
चकारः `धातौः' इत्यनुकर्षणार्थः।।
66. ससजुषो रुः। (8.2.66)
`सजूः' इति। `जुषी प्रीतिसेवनयोः' (धा.पा.1288), सह जषत इति क्विप्, उपपदसमासः, `सहस्य सः संज्ञायाम्' (6.3.78) इति सभावः। रुत्वे कृते `र्वोरुपधायाः' (8.2.76) इति दीर्घः। सजुवो ग्रहणमसकारान्तार्थम्। योगश्चायं जश्त्वापवादः।।
67. अवयाः श्वेतवाः पुरोडाश्च। (8.2.67)
`दाशेः' [`दाशतेः'--काशिका] इति। `दाशृ दाने' (धा.पा.882) इत्यस्माण्ण्विनि कृत इति। वहिदाशिभ्यां `मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्' (3.2.71) इत्यनेन, यजेश्च `आवे यजः' (3.2.72) इति ण्विन्प्रत्ययान्तेभ्यः सम्बुद्धिः, तस्या हलङ्यादिलोपः (6.1.68), ततः `श्वेतवाहादीनां डस्पदस्य' (वा.263) इति डस्प्रदस्य' टिलोपः। किमर्थमेते निपात्यन्ते, यावता श्वेतवोभ्याम्, श्वेतवोभिरित्येवमाद्यर्थम् `श्वेतवाहादीनां डस्पदस्य' इत्यदश्यमिदं वक्तव्यम्, डसि च कृते `ससजुषो रुः' (8.2.66) इत्येव सिद्धम्? इत्याह--`श्वेतवाहादीनाम्' इत्यादि।
नैते रुत्वार्थ निपात्यन्ते, किं तर्हि? सम्बुद्धौ दीर्घत्वार्थम्। ननु च द्रीर्घत्वमप्येषां `अत्वसन्तस्य चाधातोः' (6.4.14) इत्येव सिद्धम्? इत्यत आह--`अत्वसन्तस्य च' इत्यादि। तत्र हि `सर्वनामस्थाने चासम्बुद्धौ' (6.4.8) इत्यतः `असम्बुद्धौ' इत्येतदनुवर्त्तते, तेन सम्बुद्धौ दीर्घत्वं प्राप्नोतीति, तदर्थमेते निपात्यन्ते। `पुरोडाः' इति। `मन्त्रे श्वेतवहोक्थशस्' (3.2.71) इत्यादिनैव सूतद्रेण दकारस्य डकारो निपात्यते। `उक्थशाः' इति। `शन्सु स्तुतौ' (दा.पा.728)। उक्थानि शंसतीति `मन्त्रे श्वेतवह' (3.2.71) इत्यादिनैव ण्विन्, ततः पूर्ववत् सम्बुद्ध्यादिः।।
68. अहन्। (8.2.68)
`नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नलोपे प्राप्ते विधीयते। ` अहोभ्याम्, अहोभिः' इति। `हशि च' (6.1.114) इत्युत्वम्, `आद्गुणः' (6.1.87)। `दीर्घाहो निदाघः' ["दर्घाहा"--काशिका, प्राचीनमुद्रितन्यासपाठश्च] इति। बहुव्रीहिः, हल्ङ्यादिलोपः (6.1.68), रुत्वस्यासिद्धत्वात् `सर्वनामस्थाने च' (6.4.8) इत्यादिना दीर्घः, `भोभगोअधो' (8.3.7) इत्यादिना रेफस्य यकारः, तस्य `हलि सर्वेषाम्' (8.3.22) इति लोपः। `हे दीर्घाहोऽत्रि' इति। `अतो रोरप्लुतादप्लुते' (6.1.113) इत्युत्वम्; `आद्गुणः' (6.1.87), `एङः पदान्तात्' (6.1.109) इति परपूर्वत्वम्।
हन्तेर्लङि तिपा हल्ङ्यादिलोपे (6.1.68) कृते तिपश्च लुक्यडागमे चाहन्नित्येतद्रूपं सम्पद्यते, तस्मात्तस्य रुत्वेन भवितव्यम्? इति कसयचिद्भान्तिः स्यात्, अतस्तन्निरासायाह--`अहन्' इत्यादि।
उपसंख्यानशब्दोऽत्र प्रतिपादने वर्त्तते। अह्नो रूविधौ कर्त्तव्ये रूपादिषु रुत्वस्य प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्--पूर्वसूत्रादिह चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेनाह्रो रूपादिषु रुत्वं भविष्यतीति। `अहोरूपम्' इति। अह्नो रूपमिति षष्ठीसमासः। कथं पुना रात्रिशब्द उच्यमानं रुत्वं रात्रशब्दे भवति? स्थानिवद्भावात्, एकदेशविकृतस्यानन्यत्वाद्वा। रात्रशब्दास्य तु ग्रहणं न कृतम्, रात्रिशब्दस्यापि यथा स्यात्--गतमहो रात्रिरागतेति। `अहो रथन्तरम्' इति। षष्ठीसमासः। अथ वा--असमास एव। "रोऽसुपि' इत्यस्यापवादो रुत्वम्' इत्यादि। अहोरूपमित्यादि यदि समासः, यद्यसमासो वा, सर्वथा विभक्तेर्लुका भवितव्यम्। लुकि सत्यह्नो रविधौ लुमता लुप्ते (1.1.63) प्रत्ययलक्षणस्य प्रतिषेधः। तेन सुप्परत्वस्याभावात् `रोऽसुपि' (8.2.69) इत्येतत् प्राप्नोतीति रुत्वं विधीयते। किमर्थम्? `हशि च' (6.1.114) इत्युत्वं यथा स्यात्। यदि रुरुदुत्पन्नस्य स्यात्, उत्वविधौ `रोः' इत्युकारानुबन्धविशिष्टस्य रेफस्यानुवृत्तेः।।
69. रोऽसुपि। (8.2.69)
पूर्वस्यायमपवादः। रेफेऽकार उच्चारणार्थः। `अहर्ददाति' इति। यद्यत्र रुत्वं स्यात् `हशि च' (6.1.114) इत्युत्वं प्रसज्येत। तस्माद्रो विधीयते। ननु चात्रापि प्रत्ययलक्षणेन सुबस्ति? नैष दोषः; अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणस्य प्रतिषेधः।
लोपशब्देन यत्र लोपस्तत्र हि प्रत्ययलक्षणम्, यथा--`हे दीर्घाहोऽत्र। हे दीर्घाह निदाघ' इति। अत्र हल्ङ्यादिलोपः (6.1.68)।।
70. अभ्नरूधरवरित्युभयथा छन्दसि। (8.2.70)
नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्येवमर्थमिदम्। सकारस्य रुत्वं कृत्वा निर्देशः--यस्मिन् प्राप्ते रेफ उच्येते, तस्य रुत्पस्योभयथाग्रहणेन पक्षेऽबावो विज्ञायेत-इत्येवमर्थञ्च; इतरथा हि द्वेष्यमपि विज्ञायेत। यस्मिन् प्राप्ते रुत्वमारभ्यते तस्य जश्त्वं पक्षेऽभ्यनुज्ञायत इति। `अम्न एव' इति। रुत्वपक्षे `भोभगो' (8.3.17) इत्यादिना यकारः, तस्य `लोपः शाकल्यस्य' (8.3.19) इति लोपः।
`प्रचेतस उपसंख्यानम्, अहरादीनां पत्यादिषूपसंख्यानम्' इति। उभयत्रोपसंख्यानशब्दसय प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्--इतिकरणः प्रदर्शनार्थः, एवम्प्रकारेष्वन्येष्वप्युभयथा भवति--रुत्वं वा रेफो वेते। तेन प्रचेतःशब्दस्य राजनि, अहरादीनाञ्च पत्यादिषूभयता भवति। `प्रचेतो राजन्' इति। प्रकृष्टं चेतो यस्येति बहुव्रीहिः, आमन्त्रितैकवचनम्, रुत्वम्, `हशि च' (6.1.114) इत्युत्वम्, `आद्गुणः' (6.1.87)। इत्युत्वं यथा स्यात्। यदि रुरुदुत्पन्नस्य स्यात्, उत्वविधौ `रोः' इत्युकारानुबन्धविशिष्टस्य रेफस्यानुवृत्तेः।।
69. रोऽसुपि। (8.2.69)
पूर्वस्यायमपवादः। रेफेऽकार उच्चारणार्थः। `अहर्ददाति' इति। यद्यत्र रुत्वं स्यात् `हशि च' (6.1.114) इत्युत्वं प्रसज्येत। तस्माद्रो विधीयते। ननु चात्रापि प्रत्ययलक्षणेन सुबस्ति? नैष दोषः; अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणस्य प्रतिषेधः।
लोपशब्देन यत्र लोपस्तत्र हि प्रत्ययलक्षणम्, यथा--`हे दीर्घहोऽत्र। हि दीर्घाह निदाघ' इति। अत्र हल्ङ्यादिलोपः (6.1.68)।।
70. अम्नरूधरवरित्युभयथा छन्दसि। (8.2.70)
नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्येवमर्थमिदम्। सकारस्य रुत्वं कृत्वा निर्देशः--यस्मिन् प्राप्ते रेफ उच्यते, तस्य रुत्पस्योभयथाग्रहणेन पक्षेऽभावो विज्ञायेत-इत्येवमर्थञ्च; इतरथा हि द्वेष्यमपि विज्ञायेत। यस्मिन् प्राप्ते रुत्वमारभ्यते तस्य जश्त्वं पक्षेऽभ्यनुज्ञायत इति। `अम्न एव' इति। रुत्वपक्षे `भोभगो' (8.3.17) इत्यादिना यकारः, तस्य `लोपः शाकल्यस्य' (8.3.19) इति लोपः।
`प्रचेतस उपसंख्यानम्, अहरादीनां पत्यादिषूपसंख्यानम्' इति। उभयत्रोपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्--इतिकरणः प्रदर्शनार्थः, एवम्प्रकारेष्वन्येष्वप्युभयथा भवति--रुत्वं वा रेफो वेति। तेन प्रचेतःशब्दस्य राजनि, अहरादीनाञ्च पत्यादिषूभयता भति। `प्रचेतो राजन्' इति। प्रकृष्टं चेतो यस्येति बहुव्रीहिः, आमन्त्रितैकवचनम्, रुत्वम्, `हशि च' (6.1.114) इत्युत्वम्, `आद्गुणः' (7.1.87)। `प्रचेता राजन्' इति। रेफे कृते तस्य `रो रि' (8.3.14) इति लोपः, `ढ्रलोपे' (6.3.111) इत्यादिना दीर्घः। सम्बुद्ध्यन्तोदाहरणं रुत्वरेफयोर्विशेष सम्प्रतिपादनार्थम्; असम्बुद्धौ हि रुत्वरेफयोरसिद्धत्वात् `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घत्वे तुल्यमेव रूपं भवति। `अहर्पत्तिः' इति। षष्ठीसमासः। `रोऽसुपि' (6.2.69) इति रेफे कृते तस्य पक्षे रेफो विधीयते। `अह पत्तिः' इति। रेफस्य विसर्जनीये कृते `कुप्वोः क पौ च' (8.3.37) इति पक्षे उपध्मानीयः। `गीर्पतिः' इति। `गॄ शब्दे' (धा.पा.1498)। सम्पदादित्वात् क्विप्, `ऋत इद्धातोः' (7.1.100) इतीत्वम्, रपरत्वम्। `धूर्पतिः' इति। धुर्वेः क्विप्, `राल्लोपः' (6.4.21) इति वकारलोपः। अथ किमर्थं रेफस्यैव रेपो विधीयते? इत्याह--`विसर्जनीयवाधनार्थम्' इत्यादि। `खरवसानयोः' (8.3.15) इति विसर्जनीयः प्राप्नोति, तद्वाधनार्थ रेपस्यैव रेफो विधीयते।।
71. भुवश्च महाव्याहृतेः। (8.2.71)
भुवःशब्दः षष्ठ्य तप्रतिरूपकमव्ययम्, तस्य नित्यं रुत्वे प्राप्ते पक्षे रेफो यता स्यादित्येवमर्थमिदम्। चकार उभयथेत्यस्यानुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति।
`भुवो विश्वस्य' इति। मूशब्दस्य षष्ठ्यन्तस्य पञ्चम्यन्तस्य वा प्रयोगः। यद्येवम्, लाक्षणिकत्वादेवास्य [`लाक्षणिकत्वादिनास्य'--प्रा.मु.पाठः] न भविष्यति, तत्किमेन्निवृत्त्यर्थेन महाव्याहृतिग्रहणेन? एवं तर्ह्येतज्ज्ञापयति--अनित्यलक्षणा प्रतिपदोक्तपरिभाषेति। तेन क्रापयतीत्यतर पुगागमः सिद्धो भवति, नित्यत्वे तु तस्य न स्यात्, अस्याकारान्तस्य लाक्षणिकत्वात्।
कीदृशी भुवःशब्दो महाव्याहृतिर्भवति? इत्याह--`भुवसित्येतत्' इत्यादि। अन्तरिक्षं हि महत्, तस्य व्याहृतिः=उक्तितर्यस्मात्; तस्मान्महाव्याहृतिर्भवति।।
72. वसुस्रंसुध्वंस्वनडुहां दः। (8.2.72)
`विद्वद्भ्याम्' इति। `विदेः शतुर्वसुः' (7.1.36) इति वसुरादेशः। `पपिवद्भ्याम्, पपिवद्भिः' इति। पिवतेः पातेर्वा लिट्, क्वसुः, `वस्वेकाजाद्घासाम्' (7.2.67) इतीट्, `आतो लोप इटि च' (6.4.64) इत्याकारलोपः, स्थानिवद्भावेन `पा' इत्येतद्द्विरुच्यते। `उखास्रत्, पर्णध्वत्' इति स्रंसिध्वंसिभ्याम्--उखायाः स्रंसते, पर्णानि ध्वंसत इति क्विप्, `अनिदिताम्' (6.4.24) इति नलोपः।
इहेदं वसोर्दत्वमनवकाशम्, सर्वस्य विषयस्य विध्यन्तरेणावष्टब्धत्वात्; तथापि विद्वानित्यादौ संयोगान्तलोपः प्राप्नोति, विद्वद्भ्यामित्यादौ तु रुत्वम्। अतस्तदनवकाशत्वाद्यदा रुत्वं बाधते तदा संयोगान्तलोपोऽपि तेन बाधितव्यः, ततश्च विद्वानिति न सिध्यतीति तस्य व्यामोहः स्यात्, तं प्रत्याह-`रुत्वे नाप्राप्ते' इत्यादि। `यस्मिन्नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति' (व्या.प.49), न चाप्राप्ते रुत्व इदमारभ्यते, अतस्तदेव दत्वेन बाध्यते। `संयोगान्तलोपस्तु नैवम्' इति। तुशब्दो रुत्वाद्विशेषं दर्शयति। इतिकरणो हेतौ। यथा रुत्वं सर्वत्र प्राप्नोति नैवं स्योगान्तलोपः। स हि विद्वानित्यादावेव प्राप्नोति, न विद्वद्भचामित्यादौ। तस्मात् तेनैव दत्वं बाध्यते, न त्वसौ दत्वेन; संयोगान्तलोपे कर्त्तव्ये दत्त्वस्यासिद्धत्वादित्यभिप्रायः।
अत यथा `हो ढः' (8.2.31) इत्यस्य दकारोऽत्रापवादः, तथा स [`स तथा'--प्रा.मु.पाठः] `सावनडुहः' (7.1.82) इत्यस्यापि कस्मान्न भवति, यता ह्यवकाशत्वाद्दकारो ढत्वस्य बाधकस्तथा नुमोऽपि बाधक एव युक्तः? इत्यत आह--`नुमस्तु विधानसामर्थ्यान्न भवति' इति। प्रतिपदं हि `सावनडुहः' नुम् विधीयते, तस्य यद्ययं दकारोऽपवादः स्यात्, नुम्वधानमनर्थकं स्यात्। `अनड्वान्' इति। `चतुरनडुहोरामुदात्तः' (7.1.98) इत्याम्, यणादेशः, हल्ङ्यादि (6.1.68) संयोगान्त (8.2.23) लोपौ। `हे अनड्वन्' इति। `अम् सम्बुद्धौ' (7.1.99) इत्यम्। सेषं पूर्ववत्।।
73. तिप्यनस्तेः। (8.2.73)
`अचकात् अन्वशात्' इति। `चकासृ दीप्तौ' (धा.पा.1074), `शासु अनुशिष्टौ' (धा.पा.1075), लङ्, तिप्, अदादित्वाच्छपो लुक्, हल्ङ्यादिलोपः (6.1.68)। भवानित्यनुप्रयोगस्तिपोऽभिव्यक्तेये। `आ' इति। `आडजादीनाम्' (6.4.72) इत्याट्, `आटश्च' (6.1.90) इति वृद्धिः, तिपो लोपे कृते धातुसकारस्य रुत्वम्, तस्य विसर्जनीयः।।
74. सिपि धातो रुर्वा। (8.2.74)
`अचकास्त्वम्' इति। रुत्वे कृते तस्य विसर्जनीयः, तस्य `विसर्जनीयस्य सः' (8.3.34) इति सकारः। `त्वम्' इति अनुप्रयोगः सिपोऽभिव्यक्तये।
अथ धातुग्रहणं किमर्थम्, यावता सकारान्तस्यापि रेफदकारावुच्येते, न च सिपि सकारान्ताद्धातोरन्यदस्ति? इत्यत आह--`धातुग्रहणम्' इत्यादि। उत्तरार्थता चास्व `र्वोरुपधायाः' (8.2.76) इत्यत्र दर्शयिष्यते। क्रियतामुत्तरार्थं धातुग्रहणम्, रुग्रहणं तु न कर्त्तव्यम्; अनर्थकत्वात्; दकारे हि विकल्पिते यथाप्राप्तं रुत्वं पक्षे लभ्यत एव? इत्यत आह--`रुग्रहणं च' इति। उत्तरार्थमित्यपक्षते। `दश्च' (8.2.75) इति वक्ष्यति, तत्र पक्षे रुत्वं यथा स्यादित्येवमर्थम्। असति हि तस्मिन् यदा दत्वं न भवति, तदा यथाप्राप्तं चत्वं न स्यात्।।
75. दश्च। (8.2.75)
चकारेण `दः' (8.2.72) इत्यनुकृष्यते, तेनोत्तरत्र तस्यानुवृत्तिर्न भवति। `अभिनस्त्वम्' इति। लङ्, रुधारित्वात् श्नम्।।
76. र्वोरुपधाया दीर्घ इकः। (8.2.76)
पदस्येत्येव, धातोरिति च, तदुभयमिह समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशे णेन च तदन्तविधिर्भवतीत्याह--`रेफवकारान्तस्य' इति। वकारस्योदाहरणं कसमान्न प्रदर्शितम्? इत्याह--`दकारग्रहणमुतरार्थम्' इति। तेन वकारान्तस्योदाहरणं न प्रदर्शितमिति भावः। एतदर्थं तु तन्न भवति; वकारान्तस्य पदस्य धातोरसम्भवात्। `अबिभः' इति। भृञो लङ्, तिप्, गुणः, रपरत्वम्, `जुहोत्यादिभ्यः श्लुः' (2.4.75), द्विर्वचनम्, `उरत्' (7.4.66) इत्यत्त्वम्, `भॄञामित्' (7.4.76) इतीत्त्वम्, हल्ङ्यादिलोपः (6.1.68)।।
77. हलि च। (8.2.77)
`दिव्यति, चतुर्यति' इति। दिव् चतुर्--इत्युभयं प्रातिपदिकमत्र, तेन न भवति। `स्मेर्यते' इति। भावे यक्, `गुणोर्त्तिसंयोगाद्योः' (7.4.29) इति गुणः। `भव्यम्' इति। `अचो यत्' (3.1.97) गुणः; `धातोस्तन्निमित्तस्यैव' (6.1.80) इत्यवादेशः।।
78. उपधायाञ्च। (8.2.78)
पूर्वं रेफवकारान्तस्य घातोर्दीर्घत्वविधानादरेफवकारान्तार्थमिदम्। उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्। `उपधाभूतौ' इति। उपधात्वं प्राप्तावित्यर्थः। अलोऽन्त्यात् पूर्वौ इति यावत्। `हल्परो' इति। हल् पर आभ्यामिति बहुव्रीहिः। स पुनर्हल् धात्ववयव एव वेदितव्यः। यत्र हि प्रत्ययावयवो रेफवकाराभ्यां हल्परस्तत्र पूर्वेणैव सिद्धः। `हूर्छिता' इति। `हुर्च्छ कौटिल्ये' (धा.पा.211)। `मूर्च्छिता' इति। `मुर्च्छा मोहसमुच्छ्राययोः' (धा.पा.212)। ननु च `अचो रहाभ्यां द्वे' (8.4.46) इति द्विर्वचने कृते रेफोऽत्रोपधा न भवति? नैतदस्ति; दीर्घत्वे कर्त्तव्ये द्विर्वचनस्यासिद्धत्वाच्छकारोऽत्रैक एव हलिति भवत्येवोपधात्वं रेफस्य।
`चिरिणोति, जिरिणोति' इति। `रि क्षि चिरि जिरि दाश दृ हिंसायाम्' (धा.पा.1275-1280) स्वादित्वात्श्नुः'।
इह `री गतौ' (धा.पा.1500), `धी गतिप्रजनादिषु' (धा.पा.1048)-एताभ्यां लिट्, अतुसि, उसि च, `एरनेकाचः' (6.4.82) इति यणादेशः; तस्य स्थानिवद्भावाद्द्विर्वचने कृते `रिर्यतुः, रिर्युः; विव्यतुः विव्यु' इति स्थितेऽभ्यासेकारस्य दीर्घस्य प्राप्नोति, हल्परयो रेफवकारयोरुपधाभूतत्वात्। एतत्कस्मान्न भवति? इत्याह--`रिर्यतुः, रिर्यः' इत्यादि। स्थानिवद्भावः `अचः परस्मिन्' (1.1.57) इत्यादिना। ननु च `न पदान्त' (1.1.58) इत्यादिना दीर्घविधौ प्रतिषिध्यते स्थानिवद्भावः, तत् कुतस्तस्येह सम्भवः? नैतदस्ति; परिगणनं हि तत्र क्रियते--`स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्' (का.वृ.1.1.58) इतिः `असिद्धत्वाद्वा' इत्यादि। अत्र बहिरङ्गत्वं यणादेशस्य; अङ्गाधिकारे विधीयमानस्य प्रत्ययाश्रितत्वात्। दीर्घत्वस्य त्वन्तरङ्गत्वम्; प्रकृत्याश्रयत्वात्। `असिद्धञ्च बहिरङ्गमन्तरङ्गे' (व्या.प.42) इति दीर्घत्वे कर्त्तव्ये यणादेश स्यासिद्धत्वाद्रेफवकारौ हल्परौ न भवतिः, तत्कुतो दीर्घत्वस्य प्राप्तिः।
इह तर्हि चतुर्यितेति दीर्घत्वं कस्मान्न भवति, अत्र हि `चतुर्य' इत्यस्य क्यजन्तस्य धातोस्तृचि परतः `अतो लोपः' (6.4.48) इत्यकारलोपे कृत उपधाभूतो रेफो हल्परो भवतीत्यस्ति दीर्घत्वस्य प्राप्तिः, इत्याह--`चतुर्यितेत्यत्रापि' इत्यादि। बहिरङ्गत्वमतो लोपस्यार्थधातुकाश्रय स्यात्। दीर्घस्यान्तरङ्गत्वं पूर्ववत्।
तर्हि प्रतिदीव्नेत्यत्रापि दीर्घत्वं न स्यात्। यथैव हि चतुर्यितेत्यत्र धातोरुपधा रेफो न भवति, तथा प्रतिदीव्नेत्यत्रापि वकारः। तथा हि--दीव्येत्येतावान् धातुः, नकारस्तु प्रत्यय सम्बन्धी; न च दिवेर्धातोर्वकर उपधाभूतः, किं तर्हि? अन्तभूतः? इत्यत आह--`प्रतिदीव्नेत्यत्र' इत्यादि। प्रतिपूर्वाद्दिवः `कनिन् युवुषितक्षि' (द.उ.6.51) इत्यादिना कविन्, `अल्लोपोऽनः' (6.4.134) इत्यकारलोपः। ननु च `अचः परस्मिन् पूर्वविधौ' (1.1.57) इत्यल्लोपस्य स्थाविवद्भावाद्धलि परतो वकारान्तोऽत्र धातुर्न भवति। तत्कथं `हलि च' (8.2.77) इति दीर्घत्वम्? इत्याह--`दीर्घविधौ' इत्यादि। स्थानिवद्भावप्रतिषेधस्तु `न पदान्त' (1.1.58) इत्यादिना। नन्वेवमपि बहिरङ्गलक्षणसिद्धत्वादल्लोपस्य नैवात्र हलि परतो वकारान्तो धातुरुपपद्यते? इत्याह--`असिद्धं बहिरङ्गम्' इत्यादि। अनाश्रयणस्य तु हेतुरनित्यत्वमस्याः परिभाषायाः। अनित्यत्वं तु `नलोपः सुप्स्वर' (8.2.2) इत्यादौ सूत्रे तुग्विधिग्रहणाज्ज्ञापितम्।
अथ जिव्रिः, किर्योरित्यादौ `हलि च' (8.2.77) इति दीर्घत्वं कस्मान्न भवति जिव्रिशब्दोऽप्ययमे वं व्युत्पाद्यते, `जीर्यतेः क्रिन् रश्च वः' (द.उ.1-80) इति। `जॄष् [`जॄष'-धा.पा.] झॄष् [`झॄष'--धा.पा.] वयोहानौ' (धा.पा.1130,1131) इत्यस्मात् क्रिन्प्रत्ययः; `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, रपरत्वम्, रेफस्य वकार आदेशः--इत्येवं व्युत्पत्तौ जिव्रिरित्येतस्य वकारान्तस्य धातो रेफे हलि परतः `हलि च' (8.2.77) इत्यस्ति दीर्घत्वस्य प्राप्तिः। किरिः गिरिरित्येवमादीनामपि शब्दानामेवं व्युत्पत्तिः क्रियते। `अच इः' (द.उ. 1-67) इत्यत इप्रत्ययेऽनुवर्त्तमाने `भुजेः किच्च' (द.उ. 1-71) इति च `कृगॄशॄपॄकुटिभिदिच्छिदिभ्यश्च' (द.उ. 1-72) इतिकिरतिप्रभृतिभ्यो धातुभ्य इप्रत्ययं विधाय व्युत्पाद्यन्त एते। एवं हि व्युत्पत्तावोसि यणादेशे कृते यकारे हलि परतो रेफान्तानां किरिप्रभृतीनां `हलि च' (8.2.77) इति दीर्घत्वं प्राप्नोति? इत्यत आह--`उणादयोऽव्युत्पन्नानि' इत्यादि। ननु च किर्योः, गिर्योरित्यत्र व्युत्पत्तिपक्षेऽपि दीर्घत्वं न प्रसजति, न ह्यत्र हलि परतः किरतिगिरती रेफान्तौ, दीर्घत्वे कर्त्तव्ये यणादेशस्य स्थानिवद्भावात् स्वराविलोपेषु हि लोपाजादेशो न स्थानिवत्, अन्यस्तु स्थानिवदेव? सत्यमेतत्; अभ्युपगम्येवं परिहार उक्तः। एवं मन्यते--भवत्यविशेषेण स्थानिवद्भावप्रतिषेधः, तथापि नैवात्र दीर्घत्वं प्रसज्येत; अव्युत्पन्नत्वादुणादीनामिति। यद्युणादयोऽव्युत्पन्नानि प्रातिपदिकानीति, न हि तत्रैव सूत्रे व्युत्पत्तिपक्षश्चाश्रयितुं युक्तः, योऽपि `आतो मनिन्क्वनिब्वनियश्च' (3.2.74) इति `अन्येभ्योऽपि दृश्यन्ते' (3.2 75) इति क्वनिप्प्रत्ययान्त प्रतिदिवञ्शब्दं व्युत्पादयेत तस्यापि नैव दीर्घत्वं सिध्यति, `लोपोव्योर्वलि' (6.1.66) इति वकारलोपे कृते धातोरवकारान्तत्वादिति? कर्त्तव्योऽत्र यत्नः। एव क्रियते-`हलि च' (8.2.77) इत्यत्र `व्याक्तः पदार्थः' इत्येतद्दर्शनमाश्रीयते। अस्मिंश्च दर्शने प्रतिलक्ष्यं लक्षणभेदो भवतीति यावन्ति लक्ष्याणि तावन्त्येव लक्षणाम्युपदिशन्ति, तत्र भिन्नेषु लक्ष्यानुरोधात् क्वचित् प्रतिदीव्नेत्यादौ व्युत्पत्तिपक्ष आश्रीयते; क्वचित् पुनर्जिव्रिः, किर्योः, गिर्योरित्यादावव्युत्पत्तिपक्ष इति।
चकारो हलोत्यनुकर्षणार्थः।।
79. न भकुर्चछराम्। (8.2.79)
`हालि च' (8.2.70) इति दीर्घत्वे प्राप्ते प्रतिषेधोऽयमारभ्यते। `धुर्यः' इति। `धुरं वहतीति `धुरी यङ्ढकौ' (4.4.77) इति यत्। `कुर्यात्' इति। करोतेलिङ्, `तनादिकृञ्भ्य उ' (3.1.79), धातोर्गुणः, रपरत्वम्, `अत उत् सार्वधातुके' (6.4.110) इत्युत्त्वम्, `ये च' (6.4.109) इत्युकारलोपः। `कुर्यात्' इति। आशिषि लिङ्। करोतेर्विकरणेन निर्देशश्चिकीर्षतीत्यत्र प्रतिषेधो मा भूवित्येवमर्थः।।
80. अदसोऽसेर्दादु दो मः। (8.2.80)
`असेः' इतीकार उच्चारणार्थः। अविद्यमानः सकारो यस्य स तथोक्तः। यश्चैवंविधः स सकारान्तो न भवतीत्याह--`असकारान्तस्य' इत्यादि। `अमुम्' इत्यादि। अदसोऽमादिषु त्यदाद्यत्वे `अतो गुणे' (6.1.97) पररूपत्वे च कृतेऽसि (6.1.107) पूर्वत्वम्। औटि, `वद्धिरेचि' (6.1.88) इति वद्धिः। शसि प्रथमयोः पूर्वसवर्णदीर्घत्वम्। अत्र स्थानेऽन्तरतमपरिभाषया (1.1.50) एकवचने मात्रिकस्य मात्रिक एव भवति, अन्यत्र द्विमात्रिकस्य द्विमात्रिकः ननु च मात्रिकः सूत्र उपात्तः, तत्कथं द्विमात्रिको लभ्यते? `अणुदित् सवर्णस्य चाप्रत्ययः' (1.1.69) इति सवरणग्रहणादिति चेत्? न; `भाव्यमानोऽण् सवर्णान् न गृह्णाति' (व्या.प.35) इति प्रतिषेधादित्यत आह--`भाव्यमानोऽपि' इत्यादि। एतच्च `ऋत उत्' (6.1.111) इत्यत्र तपरकरणेन ज्ञापितम्।
`अदस्यति' इति। `सुप क्षात्मनः क्यच्' (3.1.8)।
`अदसोऽनोस्र इति वक्तव्यम्' इति। ओकारसकाररेफाणां द्वन्द्वः, अविद्यमान्ना ओस्रोऽस्येति बहुव्रीहिः। अदोऽत्रेति नपुंसकत्वात् `स्वमोर्नपुंसकाप्त' (7.1.23) इति सोर्लुक्, सकारस्य रुत्वे `अतो रोरप्लुतादप्लुते' (6.1.113) इति रोरुत्वम्, `आद्गुणः' (6.1.87), `एङः पदान्तादति' (6.1.109) इति परपूर्वत्वम्। इदमीकारप्रतिषेधस्य प्रत्युदाहरणम्। `अदः' इति। एतत्तु रेफप्रतिषेधस्य। रुत्वे कृते विसर्जनीयः।
`तदर्थम्' इति। सकाररेफयोरपि प्रतिषेधो यथा स्यादित्येवमर्थम्। `अः सेर्यस्य' इति। सकार [नास्ति-का.मु.पाठे] उच्चारणार्थः। अकारः सकारस्य यस्येत्यर्थः।
`कथम्' इत्यादि। यदाऽदसोऽद्र्यादेशः क्रियते, तदेदमदसोऽद्रेश्च पृथङ्मुत्वं भवति? उतान्त्यसदेशस्य? आहोस्विदद्र्यादेशविषये न भवत्येव? इत्येतत् पृच्छति।
`अदसोऽद्रः' इत्यादि। मश्च उश्च मुः, तस्य भावो मुत्वम्। अदसोऽद्रेश्चोभयोरपि केचिन्मुत्वमिच्छन्तीत्यर्थः। विनापि हि चकारेण तदर्थो गम्यते। तद्यथा--अहरहर्नयमानो गामश्वं पुरुषं पशुमित्यादौ वाक्ये। कथम्? यथेत्याह--`लत्त्ववत' इति। यथा चलीक्लृप्यत इत्यत्र `कृपो रो लः' (8.2.18) इति धातो रेफस्य रीशब्दस्य चोभयोरपि लत्वमिच्छन्ति, तद्वददशः, अद्रेश्च मुत्वम्। `केचिदन्त्यसदेशस्य' इति। अद्र्यादेश इकारान्तः, तस्य केचिदुत्वमिच्छन्ति। स पुनरद्र्यादेशसम्भन्धी दकारो रेफश्च। `नेत्येके' इति। अपरे तु--यदाऽदसोऽद्र्यादेशः क्रियते तदा न भवितव्यमेव मुत्वेनेतीच्छन्ति। अत्रैव कारणमाह--`असेर्हि दृश्यते' इति। अः सेर्यस्य सोऽयमसिः, तस्यासेः। हिशब्दो यस्यादर्थे। यस्मात् सकारस्य स्थाने यस्यादसोऽकारो भवति तस्य पज्डितैर्मुत्वं दृश्यते। न च कृताद्र्यादेशस्यादसः सकारस्य स्थानेऽत्वं भवति; विभक्तेः परहस्य निमित्तस्यानावात्। तस्मात् न तस्य मुत्वेन भवितव्यमिति।
`यैः' इत्यादिना श्लोकस्य पूर्वार्ध व्याचष्टे। असेरति सकारस्य प्रतिषेधः क्रियते-नास्य सिर्विद्यत इत्येवं व्याचक्षाणैः। `उभयोरपि' इति। अदसः, अद्रेश्च। `अमुमुयङ्' इत्यादि। अदोञ्चतीति ऋत्विगित्यादिना (32.59) सूत्रेणाञ्चतेः क्विन्, `अनिदिताम्' (6.4.24) इति नलोपः, उपपदसमासः, `उगिदचाम्' (7.1.70) इति नुम्, हल्ङ्यादि (6.1.68)संयोगान्त(8.2.23) लोपौ। एकवचने `क्विन्ग्रत्ययस्य कुः' (8.2.62) इति कुत्वम्--नकारस्य ङ्कारः। अन्यत्र `न श्चापदान्तस्य झलि' (8.3.24) इत्यनुस्वारः, `अनुस्वारस्य यपि परसवर्णः' (8.4.58) इति परसवर्णो ञकारः, [`ङकारः'--का.मु.पाठः] `आसर्वनाम्नः' (6.3.91) इत्यतः `सर्वनाम्नः' इत्यमुवर्त्तमाने `विष्वग्देवयीश्च टेरद्र्यञ्चतौ वप्रत्यये' (6.3.92) इत्यदः शब्दस्य टेरद्र्यादेशः, पूर्वस्माद्दकारादुत्तरस्योत्वम्, दकारस्य मत्वम्, द्वितीयस्मादपि दकाराद्रफस्योत्वम्, दकरस्य मत्वम्--अमुमुयङ्, अमुमुयञ्चाविति भवति। `यथा' इत्यादिना लत्ववदित्यस्थार्थमाचष्टे। `चलीक्लृप्यते' इति। `कृपू सामर्थ्ये' (धा.पा.762)। अत्यन्तं कल्पत इति यङ्, द्विर्वचनम्, `उरत्' (7.4.66) इत्यत्त्वम्, `हलादिः शेषः' (7.4.60), `रीगृदपधस्य च' (7.4.90) इति रीक्, `कुहोश्चः' (7.4.62) इति चुत्वम्, `कुपो रो लः' (8.2.18) इत्युभयोरपि लत्वम्; `अनन्त्यविकारेऽन्त्यसदेशस्य' (व्या.प.63) इति परिभाषानाश्रयणात्।
`ये तु' इत्यादिना `केचिदन्त्यसदेशस्य' इत्यस्यार्थ कथयन्ति। `अदमुयङ्, अदमुयञ्चौ' इति। अत्राद्रिदकारादेरुत्तरस्योत्वम्, अद्रिदकारस्यैव च मत्वम्। शेषं पूर्ववत्।
`येषां तु'[`तेषां तु'--प्रा.मु.पाठे] इत्यादिना `एके' इत्यादेर्व्याख्यानम्। केषां पुनस्त्यदाद्यत्वविषय एव मुत्वेन भवितव्यम्? ये `अः सेयंस्य सोऽयमसिस्तस्यासेः' इत्येवं वर्णयन्ति तेषाम्। `अत्र' इति। अद्र्यादेशविषये नैव भवितव्यमिति;त्यदाद्यत्वाभावात्। अदद्र्यङ, अदद्र्याञ्चौ, अदद्र्यञ्चः' इति। पूर्ववत्। मुभावस्तु विशेषः।
`अमुया, अमुयोः' इति। अदसस्तृतीयैकवचन ओसि च परतस्त्यदाद्यत्वम्, (7.2.102) टाप्, एकादेशः, तस्य `अन्तादिवच्च' (6.1.85) इति पूर्वं प्रत्यन्तवद्भावो दादुदोग्रहणेनैव ग्रहणम्। अत्र यदि दादिति नोच्येत तदा `आङि चापः' (7.3.105), `ओसि च' (7.3.104) इति ङित्येत्वे कृते तस्य चायादेशेऽलोन्त्यपरिभाषया (1.1.52) यकारस्यैवोत्वं स्यात्। दादिति वचनान्न भवति।
उदिति तपरकरणं मुखसुखार्थम्।।
81. एत ईद्रबहुवचने। (8.2.81)
`बहुवचन इत्यर्थविर्देशोऽयम्' इति। अन्वर्थनिर्देश इत्यर्थः। एतदुक्तं भवति--नेदं पारिभाषिकस्य बहुवचनस्य ग्रहणम्, किं तर्हि? अन्वर्थस्य ग्रहणम्--बहुनामर्थानामुक्तिः बहुवचनमिति। किं कारणमेवं व्याख्यातम्? इत्याह--`पारिभाषिकस्य हि' इत्यादि। यदि पारिभाषिकस्य बहुवचनस्येदं ग्रहणं स्यात्, अमी इत्यत्र न स्यात्। न ह्यत्रैकारात् परं पारिभाषिकं बहुवचनमस्ति। अन्वर्थग्रहणे त्वत्रापि बहुनामर्यानामभिधानमस्तीति सिध्यति। अन्वर्थग्रहणं तु व्याप्तिन्यायाल्लभ्यते--एव इति एकारस्य स्थानिवत्त्वं यथा विज्ञायेत। `एः' इत्युच्यमाने, इकारस्यापि स्थानित्वमाशङ्क्येत। किञ्च स्यात्? अद्र्यादेशे कृते तदवयव स्येकारस्य यणादेशो बाधितः स्यात्।
ईदिति तकारो मुखसुखार्थः।।
82. वाक्यस्य टेः प्लुत उदात्तः। (8.2.82)
`वाक्यग्रहणम्' इत्यादि। असति हि वाक्यग्रहणे वाक्ये यावन्ति पदानि तेषां सर्वेषामेव प्लुतः प्रसज्येत। वाक्यग्रहणे त्वन्त्यस्यैव भविष्यति, नानन्त्यस्य। अन्त्यस्यैव हि पदस्य यष्टिः स वाक्यटिर्भवति, न त्वितरस्य। तस्मादनन्त्यस्य पदस्य प्लुतौ मा भूत्, अन्त्यस्यैव यता स्यादित्येवमर्थम्। अनन्त्यस्य कस्मान्न भवति? अनिष्टत्वात्। न हि पदाधिकारस्य निवृत्तिरिष्यते, तथा हि प्रागुक्तम्--पदाधिकारः प्रागपदान्ताधिकारादिति। असत्यत्वाच्च; न हि वाक्यग्रहणेन वाक्ये यावन्ति पदान्ति तेषां सर्वेषाम्। एक एव हि वाक्यस्य टिः, स नियोगतः पदस्यापि भवति, अतो न युक्ता वाक्यस्य पदाधिकारनिवृत्त्यर्थता।
अथ टिग्रहणं किमर्थम्, यावताऽलोऽन्त्यपरिभाषयैव (1.1.52) आयुष्मानेधि देवदत्त3 इत्यत्र टेः प्लुतो भविष्यति? इत्यत्र आह--`टिग्रहणम्' इत्यादि। असति हि टिग्रहणे यथा `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वग्रहणेघ समुर्त्थापिते `अचः' (1.2.28) इत्येतस्मिन्नचा प्रातिपदिके विशेषिते तस्याजन्तस्यैव ह्रस्वत्वं भवति, नानजन्तस्य--सुवाग् ब्राह्मणकुलमिति; तथेहापि प्लुतग्रहणेन `अचः' इत्येतस्मिन्नुपस्थापिते सत्यचा वाक्ये विशेषितेऽजन्तस्यैव प्लुतः स्यात्, न व्यञ्जनान्तस्य। टिग्रहणे तु सति टिसंज्ञकेनाज्विशेष्यते, न त्वचा टिसंज्ञकः। यदि ह्यचा टिसज्ञको विशेष्येत, ततोऽजन्तो यष्टिस्तस्य प्लुतः स्यात्; तथा चानर्थकं हि टिग्रहणं स्यत्। विनापि तेनाचा वाक्ये विशेषिते तस्याजन्तस्य प्लुतो भवन्नलोऽन्त्यपरिभाषया (1.1.52)ऽन्त्यस्याचः सिध्यति। तस्माट्टिग्रहणस्य नानर्थक्यमिति। टिसंज्ञकेनाज्विशेष,्यते--टिसंज्ञको योऽजिति। एवं च सति व्यञ्जनस्यापि टेर्योऽच् तस्यापि प्लुतः सिध्यति। `अग्निचि3त्त' इति। अव्यञ्जनान्तस्यापि व्यपदेशिवद्भावेन--देवदत्त3 इति। तस्माद्व्यञ्जनान्तस्यापि टेरचः प्लुतो यथा स्यादित्येवमर्थं टिग्रहणं कृतम्।
उदात्तग्रहणं तु स्वरान्तरनिवृत्त्यर्थम्, तच्चानन्तोदात्तं प्रयोजयति; योह्यन्तोदात्तस्तत्र स्थानिवद्भावादेवान्चोदात्तो भवति।।
83. प्रत्यभिवादेऽशूद्रे। (8.2.83)
`यदभिवाद्यमानो गुरुः' इत्यादि। अत्र सामान्योपक्रमेण विशेषस्यानभिधानाद् यदिति नपुंसकलिङ्गेन निर्देशः। `आयुष्मानेधि देवदत्त3' इति। इदमत्रोदाहरणम्; प्रत्यभिवादवाक्यत्वात्। अत्र `अभिवादये देवदत्तोऽहम्' इत्येतत्तु गुरोरभिवाद्यमानतां दर्शयितुमुपन्यस्तम्। अभिवाद्यमानो गुरुर्यामाशिषं प्रयुङ्क्ते स प्रत्यभिवादः। तत्रावश्यं गुरोरभिवाद्यमानता दर्शयितव्या; अन्यथा प्रत्यभिवादो न गम्येत। `एधि' इति। भवेत्यर्थः। `अस भुवि' (धा.पा.1065), लोट्, मध्यमपुरुषैकवचनम्, `सेर्ह्यपिच्च' (3.4.87), ध्वसोरेद्धावभ्यासलोपश्च' (6.4.119) इत्येत्त्वम्, `श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः, `हुझल्भ्यो हेर्धिः' (6.4.101) इति धिरादेशः।
`वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--`सिपि धातो रुर्वा' (8.2.74) इत्यतो मण्डूकप्लुतिन्यायेन वेत्यनुवर्त्तते, सा च व्यवस्थितविभाषा, तेन स्त्रियां न भविष्यतीति।
`असूयकेऽपि' इति। असूयतीत्यसूयकः। यो गुरुमसाध्ब्या प्रवृत्त्या सामर्ष करोति स उच्यतेऽसूयक इति। `तस्मिन्' इत्यादिना प्रतिषेध इष्यमाणोऽपि न वक्तव्य इति दर्शयति। यदा ह्यसावभिवादयिताऽसूयकत्वेन न निर्ज्ञायते, तदा तेनाभिवाद्यो गुरुः प्रत्यभिवादने तस्य प्लुतं करोत्येव। यदा तु `असूयकोऽयं मां विहेडयितुकामः' इत्येवं विज्ञातो भवति, तदात्र प्रत्यभिवादना नास्त्येवेति किं प्रतिषेधेन! कथं पुनर्ज्ञायते--तत्रासूयकत्वेन निर्ज्ञाते प्रत्यभिवादो नास्ति? इत्याह--`तथा च' इत्यादि। केनाप्यविनीतेनोपगम्याविधिनाभिप्रायेणाभिवादयेऽयं भोः स्थालीत्येवमभिवादिते गुरुस्तस्यासूयकत्वमज्ञात्वा स्थालिञ्शब्दोऽयमस्य संज्ञेति मत्वा प्रत्यभिवादयन् प्लुतं प्रयुक्तवान्--`आयुष्मानेधि स्थालि3न्' इति। अथ सोऽविनीत उक्तवान्--नैष मम संज्ञा, मया दण्डिन्यायो विवक्षितः। ततो गुरुः प्लुतरहितं प्रत्यभिवादनं कृतवान्--`आयुष्मानेधि स्थालिन्निति। पुनः स उक्तवान्--न न मया दण्डिन्यायो विवक्षितः, संज्ञा ममैषेति; अथ स गुरुरसूयकत्वमस्य विज्ञायोनतवान्--`असूयकस्त्वं जाल्म, न त्वं प्रत्यभिवादमर्हसि, भिद्यत्वं वृषल स्थालिन्' इति।
अथाभिवाद्यमानो यदा देवदत्त कुशल्यसि, देवदत्तायुष्मानेधीत्येवं प्रत्यभिवादं प्रयुङ्क्ते तदा कस्मात् प्लुतो न भवति? इत्याह--`अभिवादनवान्ये' इत्यादि। अभिवाद्यतेऽनेनेत्यभिवादनम्, अभिवादनञ्च तद्वाक्यञ्चेत्यभिवादनवाक्यम्। तत्र तावत् सङ्कोर्त्तितं संशब्दितं नाम देवदत्तोऽहमित्येवम्, गोत्रम्--वात्स्योऽहमित्येवम्। यद्यत्र प्रत्यभिवादवाक्यस्यान्ते=अवसाने प्रयुज्यते तत्रायं प्लुत इष्यते। देवदत्त कुशल्यसीत्यादौ तु यदभिवादनवाक्ये सङ्कीर्तितं नाम देवदत्तशब्दः, तत् प्रत्यभिवादनवाक्यस्यादौ प्रयुक्तम्, नावसाने। तस्मात् प्लुतो न भवति। कुतः पुनरेतल्लभ्यते? वेत्यनुवृत्तेः, व्यवस्थितविभाषाविज्ञानाच्च, प्राधान्याद्वा। इह हि प्रधाने कार्यसम्प्रत्ययात् प्रधानस्य वाक्यस्यान्ते वर्त्तमानस्य टेः प्लुतेन भवितव्यम्। प्राधान्यञ्च पदस्यार्थद्वारकम्। प्रधानस्यार्थस्य यद्वाचकं पदं तत् प्रधानं [`प्रधाने'--का.मु.पाठः] चार्थोऽभिवादयिता, तदनुग्रहार्थत्वात् प्रत्यभिवादस्य। तथा ह्यभिवादयितुरनुगुहीतार्यं गुरुः प्रत्यभिवादं प्रयुङक्ते। तस्मादभिवादयिता संस्कार्यः, कुशलिताऽऽयुष्मत्तादीनि तस्यैव संस्कारकाणि। अतोऽभिवादयिता संस्कार्यत्वात् प्रधानम्, तस्य वाचकं पदं संज्ञाशब्दो गोत्रशब्दश्चेति तस्यैव वाक्यान्ते वर्त्तमानस्य टेः प्लुतो भवति। यद्यपि तिङन्तवाच्योऽर्थः साध्यः, न तु तस्य साध्यत्वमिह प्राधान्येनाश्रितम्, किं तर्हि? संस्कारकत्वमेव, तस्मान्न तस्यापि प्राधान्यम्।
`भोराजन्यविशाम्' इत्यादि। भो इति--स्वरूपग्रहणम्, राजन्य इति--क्षत्रियनाम्नः, विश इति--वैश्यनाम्नः। अत्र भोःशब्दस्याप्राप्ते विभाषा, असंज्ञागोत्रशब्दत्वात्। इतरेषां तु प्राप्ते; संज्ञाशब्दत्वात्।।
84. दूराद्धूते च। (8.2.84)
`दूरात्' इति। आरात्। `दूरान्तिकेभ्यो द्वितीया च' (2.3.35) इति पञ्चमी। ह्वानं हूतम्। भावे निष्ठा।
दूरादित्युच्यते, दूरञ्चानवस्थितम्। यवेवालस्यापहतं प्रति दूरं भवति तदेवोत्साहसम्पन्नं प्रत्यन्तिकम्। एवं हि कश्चित् कञ्चिदाह--य एष पार्श्वतः करकस्तमानयेति। स आह-उत्थाय गृहाण, दूरं गन्तुं न शक्ष्यामीति। अतो दूरस्यानवस्थितत्वान्न ज्ञायते--कस्यामवस्थायां प्लुत्या भवितव्यमिति। अत आह--`दूरम्' इत्यादि। हूतं ह्वानम्। तदपेक्षं यद्दूरं तदिहाश्रीयते। इतिकरणो हेतौ। यस्माद्धूतापेक्षमिह दूरमाक्षीयते तस्मात् प्राकृतात् प्रकृतौ भवात् प्रयत्नाद्यः प्रत्यत्नविशेषः प्राकृतयत्नादधिकस्तस्यिन्नाश्रीयमाणे यत्र शब्दाह्वानं तत् श्रूयते तद्दूरम्। ततो न भवति दूरस्यानवस्थितत्वमित्वभिप्रायः।
अथेह कथं प्लुतः स्यात्--सक्तून् पिव देवदत्त3 इति? न शब्दमात्रं हूतम्, अपि तु शब्दविशेधः, येन परत आगमने नियुज्यते स शब्दविशेषो हूतम्, न च तदिहास्ति? इत्यत आह--`हूतग्रहणं च' इत्यादि। सम्बोधनं शब्दसाधनं हूतम्। चशब्दस्तस्मादित्यर्थे। तेन तत्साध्यं सम्बोधनं लक्ष्यत इति हूतग्रहणं सम्बोधनमात्रोपलक्षणं वेदितव्यम्। इहायं प्लुतोऽपि दूरात् सम्बोधने विधीयते; एकश्रुतिरपि; `एकश्रुति दूरात् सम्बुद्धौ' (1.2.33) इति; तत्रैवमेकत्र प्राप्नुवतामनेकेषां बाधाविकल्पसमुच्चयानामन्यतमेन भवितव्यम्, अत्र न ज्ञायते--किमेतयोः समुच्चयो भवति? उत विकल्पः? आहोस्विदन्यतरस्य बाधेति? तत्परिज्ञानायाह--`अस्याश्च' [`अस्यां च'--प्रा.मु. न्यासपाठः'] इत्यादि। बाधया तावन्न भवितव्यम्; समानविषयत्वात्। विषयभेदे हि सति बाध्यबाधकभावो भवति, तद्यथा--`कर्मण्यण्'[`तत्तथा'--प्रा.मु.न्यासपाठः] (3.2.1), `आतोऽनुपसर्गे कः' (3.2.3) इति; अत्र ह्येकस्य विशेषो विषयः; अपरस्य सामान्यमित्यस्ति विषयभेदः। अनयोस्तु विशेषो नास्तीत्ययुक्ता [`नास्तीत्युक्ता--का.मु.पाठः] बाधा। विकल्पोऽप्ययुक्तः; असहप्राप्तेः। सहप्राप्तयोर्हि विकल्पो भवति, यथा--तच्यदादीनाम्। न चैकश्रुत्यपेक्ष्येह सहप्राप्तिरस्ति; प्लुतस्यासिद्धत्वात्। तस्मात्पारिशेष्यात् समादेश एव भवति। समावेशः पुनरत्रैकस्मिन् वाक्ये प्रवृत्तिः, न त्वेकस्मिन्नवयवे; दिरुद्धयोरेकस्मिन् प्रवृत्तेरसम्भवात्। वाक्यस्य त्वेनेकावयवात्मकत्वात्। टेरचः प्लृतो भवति। अवशिष्टस्य त्वेकश्रुतिरिति युज्यते समावेशः।।
85. हैहेप्रयोगे हैहयोः। (8.2.85)
पूर्वसूत्रेण प्राधान्याद् हूयमानस्यैव प्लुतो विहितः। प्राधान्यं तु तस्य तदभिमुखीकरणाय वाक्यप्रयोगात्। अतो हैहयोर्न प्राप्नोति, एतदर्थोऽयमारम्भः।
अथ पुनर्हैहयोर्ग्रहणं किमर्थम्, यावता विनापि तेन श्रुतत्वात् तयोरेव भविष्यति? इत्याह--`पुनः' [`पुनस्त्वित्यादि'--का.मु.पाठः] इत्यादि। `हैहेप्रयोगे' इत्युच्यमाने `वाक्यस्य टेः प्लुत उदात्तः' (8.2.82) इत्यधिकारादन्त्ययोरेव स्यात्, नानन्त्ययोः; तयोरपि यता स्यादित्येवमर्थं पुनर्हैहेग्रहणम्, हैहेग्रहणे प्रयोगग्रहणं चानर्थकयोरपि यथा स्यात्। तदा चैतावनर्थको यदाऽऽमन्त्रितान्तम्। तेनैवामन्त्रितार्थस्यावगमितत्वादर्थान्तस्य द्योत्यस्याभावात् तावनर्थकौ भवतः। अन्ये त्वाहुः--निपातसमाहारावपि तौ स्तो हन्त हैह इति। तत्रासति प्रयोगग्रहणे तयोर्न स्यात्; लाक्षणिकत्वात्। तस्मात् प्रयोगमात्रे लाक्षणिकयोरपि यथा स्यादित्येवमर्थं प्रयोगग्रहणमिति।।
86. गुरोरनृतोऽनन्त्यस्याप्यैकैकस्य प्राचाम्। (8.2.86)
प्रत्यभिवादादिषु वाक्यस्य टेः प्लुत उदात्तः। स एव तु ऋकारवर्जितस्य गुरोरनन्त्यस्य प्लुत उच्यते। `अव्त्यस्यापि टेः' इति। अनेनापिशब्दष्टेः तमुच्चयं करोतीति दर्शयति। यदि ह्यपिशब्देन गुरोः समुच्चयः क्रियते, अनन्त्यस्यापि,गुरोरन्त्यस्यापीति, तदानेन गुरावनन्त्ये प्लुतः। लघुरन्त्यः पूर्वेण प्लुत एव। ततश्च द्वयोः प्लुतयोः श्रवणं युगपत् प्रसज्येत। न च `अनुदात्तं पदमेकवर्जम्' (6.1.158) इति वचनान्न भविष्यतीति शक्यं वक्तुम्; तस्मिन् कर्त्तव्ये प्लुतस्यासिद्धत्वात्। यदा टिसंज्ञकोऽपिशब्देन समुच्चीयते तदानेनैव सूत्रेणान्त्यस्य[सूत्रेणानन्त्यस्य--प्रा.मु.पाठः] गुरोरनन्त्यस्य च टेः प्लुतो विधीयते। तत्रैकैकस्येति वचनाद्यथानन्त्यस्य पर्यायो न भवति, तथान्त्यस्यापीति न भवति यौगपद्यप्रसङ्गः।
`एकैकग्रहणम्' इत्यादि। यद्येकैकग्रहणं न क्रियत, तदा पक्षे युगपदेव सर्वेषां प्रसज्येत। तस्मात् पर्यायेण यथा स्यादित्येनमर्थमेकैकग्रहणम्। एतच्च `यथोद्देशं संज्ञापरिभाषम्' (व्या.प.59) इत्याश्रित्य कृतमिति वेदितव्यम्। दर्शनान्तरे `अनुदात्तं पदमेकवर्जम्' (6.1.158) इत्यस्योपस्थाने सति न प्लुतयोर्द्वयोर्यौगपद्यप्रसङ्गः।
अथ प्राचामिति किम; यावतैकैकग्रहणादेव विभाषा सिध्येत्? इत्यत आह--`प्राचाम्' इति। सर्वस्य प्लुतस्येत्यभिप्रायः। अत एवाह--`तदनेन' इत्यादि। अपायहेतुमविमृश्य प्रवृत्तिः=साहसम्।।
87. ओमभ्यादाने। (8.2.87)
`प्रारम्भः' इति। कस्य प्रारम्भे? स्वाध्यायादेः।।
88. ये यज्ञकर्मणि। (8.2.88)
`येज्ञकर्मणि' इति। कर्मशब्दः क्रियावाची। यज्ञक्रियायामित्यर्थः। `ये3 यजामहे' इत्यत्रैवायं प्लुत इष्यत इत्येतच्च `प्राचाम्' इत्यस्यानुवृत्तेः, व्यवस्थितविभाषाविज्ञानाच्च लभ्यत इति वेदितव्यम्।।
89. प्रणवष्टेः। (8.2.89)
`क एष प्रणवो नाम' इति। इह शास्त्रे प्रणवस्यापरिभाषितत्वाल्लोके चाप्रसिद्धत्वात् प्रश्नः। `पादस्य वा' [`पादस्य चेल्यादिना'--प्रा.मु.पाठः] इत्यादिना शास्त्रान्तरपरिमाषया प्रणवस्वरूपं दर्शयति। `वान्त्यमक्षरम्' इति। स्वरोऽत्राक्षरशब्देन विवक्षितः। अन्त्यत्वं पुनस्तस्येतरस्वरापेक्षयः। `उपसंगृह्य' इति। गृहीत्वेत्यर्थः। तदन्त्यमक्षरमादौ यस्याक्षरशेषस्य तत् तदादि। अक्षरञ्च शेषञ्चेति [इति--नास्ति प्रा.मु.पाठे] समाहारे द्वन्द्वः। अक्षरं स्वरः, तस्य शेषः व्यञ्जनम्, तदाचि च तदक्षरशेषञ्च, तदक्षरशेषं यत्रान्त्यात् स्वरात् परं व्यञ्जनं नास्ति तत्र स एव। तदादि तस्य बहुव्रीहेरन्यपदार्थः। व्यपदेशिवद्भावेन तत्रापि तदादिव्यपदेशो भवति। यत्रान्त्यात् स्वरात् परं व्यञ्जनमस्ति तत्र सह स्वरेण व्यञ्जनमन्यपदार्थः; तद्गुणसंविज्ञानस्य बहुव्रीहेरिहाश्रितत्वात्। योऽयमनेन ग्रन्थेन टिसंज्ञक एवोक्तो भवति तद्व्यक्षरशेषस्य ल्थाने यत् त्रिमात्रनोकारम्, ओङ्कारं वा विदवाति तत् प्रणवं कथयन्ति। `जिन्वतो3म्' इति। जयतेः परस्य लट्, तस्य शत्रादेशः, व्यत्ययेन श्नुप्रत्ययः, यणादेशः; जिन्वन्निति स्थितेऽन्शब्दस्यान्त्याक्षरादेः प्रणवः। `सुम्नयो3म्' इति। सुम्नशब्दात् क्यच्, `क्याच्छब्दसि' (3.2.170) इति उप्रत्ययः, `देवसुम्नयोर्यजुषि काठके' (7.4.38) इति आभावः, सुम्नआयुस् इति स्थिते उसित्यस्यान्त्याक्षरादेः प्रणवः।
ननु च टिस्थानिकयोरेव त्रिमात्रयोरोकारौकारयोः प्रणव इति परिभाषा कृता। तत्रान्तरेणापि टिग्रहणं टेरेव भविष्यति, तत् किं टिग्रहणेन? इत्यत आह--`टिग्रहणम्' इत्यादि। असत्यत्र टिग्रहणे व्यञ्जनान्तेष्वलोऽन्त्यपरिभाषयाऽ(1.1.52)न्त्यस्यैव स्यात्। अतष्टिग्रहणं क्रियते--सर्वस्यैव टेर्यथा स्यादिति। `अन्त्यस्य मा भूत्' इति। ओङ्कारस्यानेकाल्त्वात् सर्वादेशो भविष्यतीत्योकारार्थं टिग्रहणम्।।
90. याज्यान्तः। (8.2.90)
इहान्तग्रहणं टेरित्येतस्य निवर्त्तकं वा स्यात्? विशेषणं वा? पूर्वस्मिन् पक्षेऽचान्ते विशेषितेऽजन्ताया एव याज्याया प्लुतः स्यात्। इतरस्मिंस्त्वन्तग्रहणमनर्थकम्, न ह्यनन्त्यष्टिः सम्भवति; `अचोऽन्त्यादि टि' (1.1.64) इत्यस्यैव टिशब्दरूपविशषसंज्ञाविधानादित्यभिप्रायेणाह--`अन्तग्रहणं किम्' इति। इतरोऽपि विदिताभिप्रायोऽन्यदेवान्तग्रहणस्य प्रयोजनं दर्शयितुमाह--`याज्या नाम' इत्यादि। गतार्थम्।।
91. ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः। (8.2.91)
श्रौषट्, वौषडिति निपातौ; इतराणि लोण्मध्यमपुरुषैकवचनानि। केचित्तु आवहशब्दोऽपि निपात इत्याहुः। `प्रेष्य' इति। `ईषु गतौ' [दिवादिषु `इष गतौ' इत्येव पठ्यते] (धा.पा.1127), दिवादित्वाच्छ्यन्, उपसर्गाकारेण सह `आद्गुणः' (6.1.87)।
अथेह कस्मान्न भवति--`आवह देवान् यजमानाय' (वा.सं.5.12), `आवह जातवेदः' (आ.श्रौ.सू.1.3.22), `सुयजा यज'? इत्याह--`आवह देवान्' इत्यादि।
आदिग्रहणं वाक्यादेर्मा भूदिति।।
92. अग्नीत्प्रेषणे परस्य च। (8.2.92)
अग्निमिन्त्रे इत्यस्मिन्नर्थेऽग्नीट्=ऋत्विग्विशेषः, तस्य प्रेषणं नियोजनमग्नीत्प्रेषणमित्यर्थः। आदेः सन्निहितत्वात् तदपेक्षयैव परोऽपि ज्ञायत इत्याह--`तस्मादेवादेः' इत्यादि। `अत्रैव' इति। अनन्तरोक्त उदाहरणद्वय एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह--`अग्नीदग्नीन् विहर बर्हिस्तृणीहि' इति। कथं पुनरेतल्लभ्यते? इत्याह--`तदर्थम्' इत्यादि। यथा च सर्वत्र प्लुतो विभाषा शक्यो विज्ञातुम्, तथा `गुरोरनृतोऽनन्त्यस्य' (8.2.86) इत्यादौ सूत्रे प्रतिपादितम््। यदि तर्हि सर्वत्र प्लुतो विभाषा विज्ञायेत, उत्तरत्र विभाषाग्रहणमनर्थम्? न; प्रपञ्चार्थत्वात्। अथेह कथं प्लुतः--`उद्धर3 उद्धर, अभिहर3 अभिहर' इति; स्वाध्यायकाले ह्ययंप्लुतः, नाग्नीत्प्रेषणे, न चायमादेः, नापि `आदेः परस्य' (1.1.54), किं तर्हि? ततोऽन्यस्यैव? इत्यत आह-देः सन्निहितत्वात् तदपेक्षयैव परोरपि ज्ञायत इत्याह--`तस्मादेवादेः' इत्यादि। `अत्रैव' इति। अनन्तरोक्त उदाहरणद्वय एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह--`अग्नीदग्नीन् विहर बर्हिस्तृणीहि' इति। कथं पुनरेतल्लभ्यते? इत्याह--`तदर्थम्' इत्यादि। यथा च सर्वत्र प्लुतो विभाषा विज्ञायेत, उत्तरत्र विभाषाग्रहणमनर्थकम्? न; प्रपञ्चार्थत्वात्। अथेह कथं प्लुतः--`उद्धर3 उद्धर, अभिहर3 अभिरह' इति; स्वाध्यायकाले ह्ययं प्लुतः, नाग्नीत्प्रेषणे, न चायमादेः, नापि `आदेः परस्य' (1.1.54), किं तर्हि? ततोऽन्यस्यैव? इत्यत आह--`इह तु' इत्यादि। विस्पष्टार्थम्।।
93. विभाषा पृष्टप्रतिवचने हेः। (8.2.93)
`पृष्टप्रतिवचनम्' इति। पृष्टस्य प्रतिवचनम्=आख्यानं पृष्टप्रतिवचनम्। प्रतिवचनशब्दोऽयं विरुद्धेऽपि वचने प्रवर्त्तते--विरुद्धं वचनं प्रतिवचनमिति, प्रतिशब्दो ह्यत्र विरोधं द्योतयति, यथा--प्रतिमल्लः, प्रतिगज इति; वीप्सायामपि वर्त्तते--वचनं वचनं प्रतीति प्रतिवचनम्, `यथार्थे यदव्ययम्' (2.1.6) इति दीप्सायामव्ययोभावः; समाधानेऽपि वर्त्तते--यदनेनाभिहितं तस्य मया प्रतिवचनं विहिनमिति, समाधिर्विहित इति गम्यते; तत्र `प्रतिवचने' इत्युच्यमाने सर्वत्र प्रसज्येत। तस्मात् प्रतिवचनविशेषार्थं पृष्टग्रहणम्। पृष्टस्य यत् प्रतिवचनम्=अर्थाख्यानं तत्रैव यथा स्यात्, अन्यत्र मा भूदिति।।
94. निगृह्यानुयोगे च। (8.2.94)
`निगृह्य' इति। ल्यबन्तमेतत्। `स्वतात्' इति। स्वावगमात्। `प्राच्यावनम्'[`प्रच्याचनम्'--प्रा.मु.पाठः] इति। अपनयनम्। `आविष्करणम्' इति। प्रकाशनम्। `श्राद्धम्' इति। कर्मविशेषः। `एवमनुयुज्यते' इति। एवमादिष्कृतस्वमतः क्रियत इत्यर्थः। चकारो विभाषेत्यस्यानुकर्षणार्थः। तेनोत्तरविधिर्नित्यो भवति।।
95. आम्रेडितं भर्त्सने। (8.2.95)
`चौर चौर3' इति। `वाक्यादेरामन्त्रितस्य' (8.1.8) इत्यादिना भर्त्सने द्विर्वचनम्। यद्यपि वाक्यग्रहणमेतदन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम्, तथापीह वचनसामर्थ्यादनन्त्यस्यापि भवति। न हि वाक्यान्ते भर्त्सन आम्रेडितं सम्भवति, वाक्यादेरेव पदस्य भर्त्सने द्विर्वचनविधानात्।
`तदर्थम्' इति। पर्यायेण पूर्वोत्तरयोः पदयोर्यथा स्यादित्येवमर्थम्; द्विरुक्तोपलक्षणार्थञ्च। आम्रेडितस्य भर्त्सनग्रहणाद्विज्ञायते--तद्द्विरुक्तस्य हि यत् परं तदाम्रेडितम्। न च तावता भर्त्सने प्रवृत्तिः सम्भवति; भर्त्सनस्य द्विरुक्तिद्योत्यत्वात्। तस्माद्द्विरुक्तोपलक्षणार्थमाम्रेडितग्रहणं विज्ञायते। तद्द्विरुक्तिश्च पूर्वोत्तरविषयेऽपीति द्वयोरपि प्लुतो भवति। स च पर्यायेण भवति, न यौगपद्येन; भर्त्सनद्योतनफलत्वात् प्लुतेः। अन्यतरप्लुत्यैव च तद्भर्त्सनस्य द्योतितत्वात्।।
96. अङ्गयुक्तं तिङाकाङ्क्षम्। (8.2.96)
`आकाङ्क्षम्' इति। आकाङ्क्षति अपेक्षत इत्याकाङ्क्षम्, पचाद्यच्। `अङ्ग कूज3' इत्यादि। अङ्गकूज 3, अङ्ग व्याहर 3--इत्येतदुभयमपि `इदानीं ज्ञास्यति जाल्म' इत्येतदपेक्षते। `अङ्ग देवदत्त' इत्येतदपि `मिध्या वदसि' इत्येतत्। `अधीष्व' इत्येतदपि `ओदनं ते दास्यामि' इत्येतत्। `नैतदपरमाकाङ्क्षति' इति। विवक्षितार्थस्य परिसमाप्तत्वात्।
अथ युक्तग्रहणं किमर्थम्, यावता पदविधित्वादेव योगो विज्ञास्यते। एवं तर्हि युक्तग्रहणं कुर्दन्नेतज्ज्ञापयति--`समर्थः पदविधिः' (2.1.1) इत्येषा परिभाषाऽनित्या। तेनाऽसूर्यम्पश्यानि मुखानीति नञोऽसत्यपि सूर्यशबह्देन सामर्थ्ये समासः सिद्धो भवति।।
97. विचार्यमाणानाम्। (8.2.97)
`प्रमाणेन वस्तुपरीक्षणं विचारः। तेन विषयीक्रियमाणानि विचार्यमाणानि। बहुवचननिर्देशो येषामर्थगत एव विचारो न स्वरूपगतः, तेषामपि यथा स्यादित्येवमर्थः; इतरथा हि येषां स्वरूपगतो विचारस्तेषामेव स्यात्। न हि मुख्ये वाक्ये विचार्यमाणे सत्यर्थद्वारकं गौणं यस्य विचार्यमाणत्वं तस्य ग्रहणं युक्तम्। `गृहा3इ' इति। गृह इत्यत्र एकारः, तस्य `एचोऽप्रगृह्यस्य' (8.2.107) इत्यादिना पूर्वार्थस्याकारः, उत्तरार्धस्य त्विकारः। तस्याकारस्यानेन प्लुते भवति।।
98. पूर्वं तु भाषायाम्। (8.2.98)
पूर्वेणैव सिद्धे नियमार्थमेतत्। तुशब्दस्त्विष्टतोऽवधारणार्थः। असति हि तस्मिन् विपरीतोऽपि नियमो विज्ञायेत--भाषायामेव पूर्वमिति। पूर्वत्वं च प्रयोगापेक्षम्। अहिर्नु3, रज्जुर्नु3--इत्येतयोर्वाक्यायोर्यत् पूर्वं प्रयुज्यते तस्यैव टेः प्लुतो भवति। इह तु भावाग्रहणात् पूर्वयोगाश्छन्दसीति विज्ञायते।।
99. प्रतिश्रवणे च। (8.2.99)
प्रतिश्रुतिः प्रतिश्रवणम्। प्रतिपूर्वाच्छृणोतेर्भावे ल्युट्, `कुगति' (2.2.18) इत्यादिना तत्पुरुषः। प्रतिपूर्वस्य शणोतिर्यदा परानुग्रहो विवक्ष्यते, तदाभ्युपगमे वर्त्तते। अथ त्वविवक्षा परानुग्रहस्य, तदा प्रतिज्ञाने। यदा श्रितिः--श्रवणमिति भावसाधनेन श्रवणशब्देन प्रतिशब्दस्य `लक्षणेनाभिप्रती आभिमुख्ये' (2.1.14) इत्यव्ययीभावः क्रियते, तदा श्रवणाभिमुख्ये श्रवणं प्रति प्रवृत्त इत्यर्थः। तदिह विशेषानभिधानात् सर्वस्मिन् प्रतिश्रवणे वाक्यस्य टेः प्लुतो भवति। `देवदत्त भोः किमात्थ3' इति। एतच्छ्रवणाभिमुख्य उदाहरणम्। `देवतत्त भोः' इत्यामन्त्रितम्। तप्र श्रवणार्थमेवमाह--`किमात्थ3' इति। एकत्र श्रवणमुद्दिश्य प्रवृत्तत्वादभिमुखं भवति। अभ्युपगमे तूदाहरणम्--`गां मे देहि भोः, अहं ते ददामि3' इति। प्रतिज्ञाने--`नित्यः शब्दो भवितुमर्मति' इति।
चकारो भाषायामित्यनुकर्षणार्थः।।
100. अनुदात्तं प्रश्नान्ताभिपूजितयोः। (8.2.100)
अगम3' इति। गमेर्लुङ् पुवदिसूत्रेण (3.1.55) लृदित्त्वादङ्, सिप्।
`अग्निभूता3इ' इति, `पटा3उ' इति। सम्बुद्धौ परतः `ह्रस्वस्य गुणः' (7.3.108) इति गुणः, `एचोऽप्रगृह्यस्य' (8.2.107) इत्यादिनाऽकारः, इदुतौ च। उदाहरणवाक्ये पूर्वपदानामेतेनैव प्लुतः, कृत इति गृहीत्वा यश्चोदयेत्--अथ कथमिहानन्त्यस्यापि प्लुतो भवति, यावता वाक्यस्य टेरित्यनुवर्त्तते इति? तं प्रत्याह--`अग्निभूते, पटो इत्येतयोः' इत्यादि।।
101. चिदिति चोपमार्थे प्रयुज्यमाने। (8.2.101)
`चिदिति' इति। इतिकरणः प्रयुज्यमान इत्येतच्छब्दस्य विशेषणमित्यस्यार्थस्य द्योतनाव। असति ह्येतदर्थं इतिकरणे ह्युपमार्थेऽन्यस्मिन् प्रयुज्यमाने चिच्छब्दः प्लवत इति विज्ञायेत। तत्प्रज्यमानतयात्र तस्मिन् विशेषिते वाक्यस्य टेः प्लतः सिद्धो भवति।
`कतथञ्चिदाहः' इति। अत्र कृच्छ्रे चिच्छब्दो वर्त्तते। `अग्निर्माणवको भायात्' इति। अग्निरिव माणवको दीप्येतेत्यर्थः अस्तीहोपमार्थः, तथापि चिच्छब्दस्य प्रयोगो नास्तीति न प्लुतो भवति। असति तु प्रयुज्यमानग्रहणे इहोपमानगतौ सत्यां यदप्यन्येषामपि सर्वेषामुपमानार्थानां प्रयोगो गम्यते, तथापि योऽत्र चिच्छब्दस्य प्रयोगस्तदाश्रयः प्लुतः स्यादेव। चकारोस्यैव प्लुतस्य समुच्चयार्थः। समुच्चयश्च भेदाधिष्ठान इति प्लुतानन्तरमेवेदमाख्यातं भवति; अन्यथा पूर्वध्वेव प्लुतनिमित्तेष्वेतस्मिन् विषयेऽनुदात्तत्वमात्रं विधीयत इति विज्ञायेत।।
102. उपरिस्विदासीदति च। (8.2.102)
इतिकरणः कार्यिणो निर्देशार्थः। कार्यं हि विधातुमवश्यं षष्ठ्यासौ निर्देष्टव्यः। इतिकरणेन वेति वार्थः प्रत्यवमुश्यते। शब्दप्रधानस्त्विहोपरिस्विदादिशब्दः कार्यं इष्यत इतीतिकरणेन निर्दिष्टः प्लुतो यथा विज्ञायेत। `अधःस्विदासीदित्यत्र' इत्यादि। अत्राधःस्विदासीत्, उतोपरिस्विदासीवित्येतद्विचार्यते; तत्र पूर्वस्मिन् वाक्ये `विचार्यमाणानाम्' (8.2.97) इत्यादिनोदात्तः प्लुतः, इतरस्मिंस्त्वनेनानुदात्तः, तस्यैवापवादः।
चकारस्य पूर्ववदेव प्रयोजनम्।।
103. स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु। (8.2.103)
असूयादिशब्दानां `वाक्यादेरामन्त्रित' (8.1.8) इत्यादौ सूत्रेऽयं आख्यातः। `माणवक3 माणवक' इत्यादौ द्विर्वचनं तेनैव सूत्रेण वेदितव्यम्।
`वावचनं कर्त्तव्यम्' इति। वेत्येतद्विकल्पोपलक्षणम्। वचनं व्याख्यानमित्यर्थः। अत्रैतदुक्तं भवति--विकल्पव्याख्यानं कर्त्तव्यमिति। तत्रेदं व्याख्यानम्--`विभाषा पृष्टप्रतितिवचने हेः' (8.2.93) इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणनुवर्त्तते, तेन विकल्पो भविष्यतीति।।
104. क्षियाशीःप्रैषेषु तिङाकाङ्क्षम्। (8.2.104)
क्षिया=आचारभेदः। इष्टाशंसनम्=आशीः। नियोगः=प्रैषः। आकाङ्क्षत्यपरं तिङन्तमेव। कुत एतत्? आकाङ्क्षाग्रहणादेव। सुबन्ते हि साधनादायिनी तिङन्तस्यावश्यम्भाविनी अपेक्षेति।
`धनं च तात' इति। अत्र लप्सीष्टेत्येतदपेक्षते। `व्याकरणं च' इति। अत्राप्यध्येषीष्टेत्येतत्।
`लुनीहि3' इति। `ई हल्यधोः' (6.4.113) इतीत्वम्। `पिब' इति। पाध्रादिसूत्रेण (7.3.78) पिबादेशः।
`अस्तु' इति। अस्तेर्लोट्, `एरुः' (3.4.86) इत्युत्वम्, अदादित्वाच्छपो लुक्, एतच्चापरं तिङन्तं नापेक्षते। एवं `विहर' इत्येतदपि।।
105. अनन्त्यस्यापि प्रश्नाख्यानयोः। (8.2.105)
`अन्त्यस्य तु' इत्यादि। तुशब्दः पदान्तरेभ्यो विशेषं दर्शयति। अन्त्यस्येत्यनेनापि स्वरितः, `अनुदात्तं प्रश्नान्ताभिपूजितयोः' (8.2.100) इत्यनेनाप्यनुदात्तः; तयोश्चैकत्र यौगपद्यं न सम्भवति। तत्र वचनप्रामाण्यादनुदात्तोऽपि पक्षे न भवति, स्वरितोऽपि।।
106. प्लुतावैच इदुत्तौ। (8.2.106)
`दूराद्धूते च' (8.2.84) इत्येवमाविभिर्लक्षणैः प्लुतो विधीयमानः `अचश्च' (1.2.28) इत्यस्योपस्थाने सति यत्रैव प्लुत उक्तः, तत्र तस्यैवैचः समुदायात्मनः स्यात्, तदवयवयोरेवेष्यते। स च वचनमन्तरेण न सिध्यतीतीदमारभ्यते। तस्य तु प्लुतस्य निमित्तं दूराद्धूतादेवैचः प्रसङ्ग इति पूर्वेण प्रकरणेन प्लुतस्य प्राप्तौ सत्यामित्यर्थः। `ऐ3तिकायन्, औ3पमन्यव' इति। अत्र `गुरोरनृतीः' (8.2.86) इत्यादिना एचः प्लुते प्राप्तेऽनेन तदवयवयोरिदुतोः प्लुतः क्रियते। ऐ3तिकायन, औ3पमन्यवेत्यत्र यद्यैचोरवयवयोरिदुतोः प्लुतः क्रियते, तत्रैकारीकारौ चतुर्मात्रौ सार्द्धत्रिमात्रो वा प्राप्नुतः। इह ह्यौचौ समाहारवर्णौ; मात्राऽवर्णस्य मात्रेवर्णोवर्णयोः। अपरे त्वाहुः--अर्धमात्राऽवर्णस्य, अध्यर्धमात्रेवर्णोवर्णयोरिति। अत्र पर्वस्मिन् दर्शनेऽनेन प्लुते कृते सति इदुतोस्तिस्रो मात्राः, अवर्णस्य चैकमात्रेति चतुमत्रिः प्राप्नोति; इतरत्र तु दर्शनेऽवर्णस्यार्धमात्रा, इदुतीस्तु ता एव तिन्न इति सार्धत्रिमात्रः प्राप्नोतीत्यत आह--`अत्र यदा' इत्यादि।
ननु च त्रिमात्रस्य `प्लुत इति संज्ञा कृता, तत्कथं द्वित्रिमात्रावपि प्लृतौ शक्यावनेन कर्त्तुम्? इत्यत आह--`प्लुतावविति हि' इत्यादिना। एतेन लौकिकस्यात्र प्लुतस्य ग्रहणम्, न पारिभाषिकस्येति दर्शयति। कुतः पुनरेतल्लभ्यते? पुनः प्लुतग्रहणमनर्थकं स्यात्, लोके हि च प्लुतो वृद्धिमानुष्यते। अत एवाह--`इदुत्तौ वृद्धिं गच्छत इत्यर्थः' इति। अनेकार्थत्वाद्धातूनां प्लवतिर्वृद्धावपि वर्त्तते। नन्वेवमप्यनियमेन वृद्धिः प्रसज्यते; इयत्तानभिधानात्; ततश्च यावती वृद्धिः स्यात्, याक्त्या चतुर्मात्रार्वचौ सम्पद्येयातामिति? अत [`अत्राह'--का.मु.पाठः] इत्यादि। प्लुतिर्वृद्धिरित्यर्थः। कथं पुनरयं नियमो लभ्यते? एवं मन्यते--ऐच इति प्लुतापेक्षया षष्ठी। इदुतौ तथा प्लवेते यथा स प्लुत एङोर्भवति; एवञ्चंचोर्भवति यदि तावती वृद्धिर्भवति यावत्या तावैचौ त्रिमात्रौ सम्पद्येते। अकृतायां हि वृद्धौ ऐच्त्वमेव स्यात्; युक्तपरिमाणत्वादैचाम्, ततश्चैच्सम्बन्धी प्लुतो न स्यादिति।
`अर्धतृतीयमात्रौ' इति। अर्धतृतीयं ययोर्मात्रयोस्तेऽर्धतृतयमात्रे, ते ययोस्तावर्धतृतयमात्रौ। इदं तावद्वार्त्तिककारमतमाश्रित्य समाधानमुक्तम्।
भाष्यकारस्य त्विष्टैव चतुर्मात्रता प्लुतस्येति दर्शयन्नाह--`भाष्ये तूक्तम्' इत्यादि। `तत्कथम्' इति। यदि तत् भाव्यकारस्य मतं तत् केन प्रकारेण सम्पद्येत? इत्येतत् पृच्छति। `सम्परविभागपक्षे' इत्यादिना यथा तत् सम्पद्यते तथा दर्शयति। समप्रविभागपक्षे ह्यनेन सूत्रेणेदुतोस्त्रिमात्रः प्लुतः क्रियते, ततश्च तत्सम्बन्धिन्यो यास्मिस्रो मात्रा या च पूर्वाकारमात्रा ताः सर्वाः समाहृताश्चतस्रो मात्रा भवन्ति। एवञ्च चतुर्मात्रः प्लुतो भवति। अत्र भाष्यकारदर्शने पुनः प्लुतग्रहणं सर्वत्र प्लुतोपसंग्रहार्थम्; अन्यथा स्वरितप्रकरणात् तस्यैव प्रसङ्गे सत्येवेदुतोरिवं प्लुतिः स्यात्। पुनः प्लुतग्रहणे तूदात्तानुदात्तयोरपि भवति।
तपरकरणं मुखमुखार्थम्।।
contin...november file
107. एचोऽप्रगृह्यस्यादूरादूधूते पूर्वस्यार्घस्यादुत्तरस्येदुतौ। (8.2.107)
एचः समाहारवर्णाः तत्र एकारस्य ओकारस्य च पूर्वेण प्रकरणेन समुदायस्यैष प्लुतः, एचोः पुनरवयवयोरिदुतोः। अनन्तरसूत्रेणेदमारभ्यते `विषयपरिगणनं कर्त्तव्यम्' इति। एतद्ग्रहणवाक्यम्। अस्य `प्रश्नान्ताभिपूजित' इत्यादिना विवरणं करोति `कर्त्तव्यम्' [वक्तव्यम्--काशिका] इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`अनुदात्तं प्रश्नान्ताभिपूजितयोः' (8.2.100) इत्यादयो योगा इहानुवर्त्तन्ते, तेनान्यत्र न भवति। `यथाविषयम्' इति। यो यस्य विषयो यथाविषयम्--`यथाऽसादृश्ये' (2.1.7) इत्यव्ययीभावः, `प्रश्नान्ताभिपूजितयोः' (8.2.100) अनुदात्तः प्लुतः। प्रश्ने तु `अनन्त्यस्यापि प्रश्नाख्यानयोः' (8.2.105) इति स्वरितः, शेषेपूदात्तः। `इतुतौ पुनरुदात्तावेतौ' इति। `टेरुदात्तः' (8.2.82) इति चाधिकारात्। `विष्णुभूते विष्णुभूते3' इति। अत्र `आम्रेडितं भर्त्सने' (8.2.95) इति प्लुतः।
`आगच्छ भो माणवक विष्णुभूते3' इति। अत्र `दूराद्घते च' (8.2.84) इति। ननु चासत्यपि परिगणने नैव प्लुतः प्राप्नोति; `अदूराद्धते' इति वचनात्, तत्किमर्थमिदं परिगणनस्य प्रत्युदाहरणित्याह--`परिगणने च' इत्यादि। असति परिगणने, अदूराद्धूत [`अदूराद्धूतेन भविष्यतीति' इत्येव--का.मु.पाठः] इत्युच्यते। अस्मिंस्तु सत्येतन्न वक्तव्यम्। परिगणनादेव हि दूराद्धूते न भविष्यतीति। `कर्त्तव्यम्' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`याज्यान्तः' (8.2.90) इत्यतोऽन्तग्रहणमनुवर्त्तते, तेनान्तस्यैव भविष्यतीति।
`भद्रं करोषि गौः' इति। `अभिपूजिते' (8.2.100) इति प्लुतः। अन्तग्रहणानुवृत्तेरत्रायं विधिर्न भवति, न ह्यत्रैतच्छब्दोऽश्ते, किं तर्हि? व्यञ्जनम्।
`शोभने खल् स्तः खट्वे3' इति। अत्रापि `अभिपूजिते' (8.2.100) इत्येव प्लुतः।
`आमन्त्रिते `च' [`च' नास्ति--काशिका पदमञ्जरी च] इत्यादि। प्लुतश्चासौ विकारश्चेति प्लुतविकारः। प्लुतव्यपदेशस्त्विदुतोः प्लुतसाहचर्याद्धेदितव्यः। इदुतोर्ग्रहणमैचः पूर्वस्योत्तरस्य चैत आदेशा मा भूवन्नित्येवमर्थम्। तपरकरणमिहापि मुखसुखार्थम्।।
108. तयोयर्वावचि संहितायाम्। (8.2.108)
`तयोः' इति। अनन्तरविहिताविदुतौ प्रत्यवमृश्येते।
`अग्ना3याशा, पटा3वाशा' इति। अग्ने आशा, पटो आशा इति स्थिते `प्रद्नान्ताभिपूजितदिचार्यमाणप्रत्यभिवाख्याज्यान्तेषु' (वा.932) इत्येतेषामन्यतमस्मिन् विवक्षिते, एचः पूर्वस्यार्थस्याकारः प्लुतः, उत्तरस्यार्थस्येदुतौ, तयोरनेन य्वौ।
किमर्थं पुनरेतदारभ्यते? एतौ `इको यणचि' (6.1.77) इत्येव सिध्यत? इत्यत आह--`इदुतोरसिद्धत्वात्' इत्यादि। ननु च सिद्धा प्लुतः स्वरसन्धिषु। यणादेशादिषु यदयम् `प्लुतप्रगृह्या अचि' (6.1.125) इति प्लुतस्य प्रकृतिभावमाह; सतो हि कार्येम भवितव्यम्, नासतः; प्लुतस्य चेकः, अतस्तावपि स्वरमन्धिषु सिद्धावेष? इत्यत आह--`अथापि' इत्यादि। यदीदं नोच्येत, तदा `अग्ना3 इ इन्द्रम्, पटा3 उ उदकम् ति स्थिते षाष्ठिकं यणादेशं बाधित्वाऽकः सवर्णे दीर्घत्वं (6.1.101) स्यात्। इह चाग्ना3 इति आशा इति स्थिते `इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च' (6.1.127) इति प्रकृतिभावः स्यात्। तस्माद्यथानयोः सिद्धत्वं स्यात्, तथापि दीर्घत्वं शाकलविषिश्च मा भूदित्येवमर्थमिदं वक्तव्यमेव। ननु चान्यदेव तन्निवृत्त्यर्थ यत्नान्तरमस्ति, किं पुनस्तदिति चेत्? उच्यते; `श्को यणचि' (6.1.77) इत्यत्रोपसंख्यायते--`इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम्' (वा.673) इति। तस्योपसंख्यानमवश्यं कर्त्तव्यम्। य इक् भोःशब्दस्य प्लुतः। अत्र भोःशब्दात् पर इकारो निपातः, न प्लुतविकारः। तस्य यणादेश इष्यते, सोऽसति तस्मिन्नुपसंख्याने न स्यात्। तस्मादवश्यं तत् कर्त्तव्यम्। यस्मिंश्च क्रियमाणे प्लुतविकारयोरपीदुतोस्तेनैव भवितव्यम्, ततो नेदं वक्तव्यमित्यत आह--`तथापि' इत्यादि। अग्ना3 इति आशा इति स्थिते यदि तेन षाष्ठिकोपसंखक्यानेन यणादेश इहोदात्तल्येकारस्य स्थाने क्रियेत, तस्योदात्तयण्स्वरे कर्त्तव्ये सिद्धत्वादाशाशब्दाकारस्यानुदात्तस्य `उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (8.2.4) इति स्वरितः प्रसज्येत। आशाशब्दः `आशाया अदिगाख्या चेत्' (फि.सू.1-18) इत्यन्तोदात्तः। शेषमपि `अनुदात्तम्' (6.1.158) इत्याकारोऽनुदात्तः। तस्मादस्ति स्वरितत्वपरसङ्ग इति तन्निवृत्त्यर्थमिदमुच्यते।
`किन्त यणा' इत्यादि। संग्रहश्लोकद्वयम्। किमिति प्रश्ने। तु इति वितर्के। `इको यणचि' (6.1.77) इति यणादेशेन किं न सिद्धं भवतीहाग्ना3 याशेत्येवमादावुदाहरणे यदाचार्य इदुतीर्य्वौ विदधाति! सर्वमेव सिद्धमित्यभिप्रायः। स्यादेतत्--यणादेशो न प्राप्नोति, तस्मिन् कर्त्तव्ये इदुतोरसिद्धत्वादित्यत आह--`तौ च' इत्यादि। तुशब्दो हेतौ। यदा इक् प्लुतपूर्वो भवति तदा तस्य स्यात्। तस्मात् `इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम्' (वा.673) इत्युपसंख्याने यणादेशमपवादं करोति शाकलदोर्घविध्योः। तेन हेतुना तयोरिदुतोः शाकलदीर्घविधी न भविष्यतः। चशब्दः समुच्चये; भिन्नक्रमश्च प्रतिषेधानन्तरं द्रष्टव्यः। `तौ च मम स्वरसन्धिषु सिद्धौ'। न च शाकलदीर्घविधी प्रयोजयतः। एवमपवादः। तेषां शाकलदीर्घनिवृत्तेः प्रयोजनत्वे प्रयोजनान्तरमाह--`यणस्वरबाधनमेव तु हेतुः' इति। यणादेशाश्रयः स्वरो यणस्वरः, तस्य बाधनं हेतुः कारणम्। कस्य? प्रकरणात् सूतारम्भस्यैति गम्यते। तुशब्दोऽवधारणे। यण्स्वबाधनमेव तु सूत्रारम्भस्य हेतुरित्यर्थः।।
इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायामष्टमाध्यायस्य
द्वितीयः पादः
- - -