काशिकाविवरणपञ्जिका/अष्टमोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | काशिकाविवरणपञ्जिका तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
अथाष्टमाऽध्यायः
तृतीयः पादः
1. मतुवसो रु सम्बुद्धौ छन्दसि। (8.3.1)
`युधोः' (7.1.1) इत्यत्र द्वेष्यपरीहारायोक्तं तत् `मतुवसोः' इत्यत्रापि द्रष्टव्यम्। `इन्द्रमरुत्व' इति। मरुच्छब्दान्मतुप्, `झयः' (8.2.10) इति यत्वम्, `उगिदचाम्' (7.1.70) इति नुम्, हल्ङ्यादि (6.1.68) संयोगान्त (8.2.23) लोपौ, नकारस्य रुत्वम्, तस्य `भोभगो' (8.3.17) इत्यादिना यकारः, तस्यापि `लोपः शाकल्यस्य' (8.3.19) इति लोपः। `हरिषो मेदिनं त्वा' इति। हरिशब्दान्मतुप्, `छन्दसीरः' (8.2.15) इति वत्वम्, पूर्ववन्नुमादि। अयं त्वत्र विशेषः--`हशि च' (6.1.114) इति रोरुत्वम्, पूर्वेण स ह `आद्गुणः' (6.1.87)।
`मीढ्वस्तोकाय' इति। `मिह सेचने' (धा.पा.992) लिटः क्वसुः, `दाश्वान् सह्वान् मीढ्वांश्च' (6.1.12) इत्यद्वित्वम्, अनिट्त्वम् उपधादीर्घत्वञ्च निपात्यते, `हो ढः' (8.2.31) इति ढत्वम्, रोर्विसर्जनीये कृते तस्य `विसर्जनीयस्य सः' (8.3.34) ति सकारः। शत्रादेशस्य वसोः सम्बुद्धौ छन्दसि दिषये प्रयोगो नास्तीति तस्यानुदाहरम्। अत एव `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य' (व्या.प.52) इत्येषा परिभाषा नोपतिष्ठते; एकानुबन्धकस्य सम्बुद्धिपरस्य च्छन्दसि वसोः प्रयोगादर्शसात्।
`विद्वान्' इति। `विदेः शतुर्वसुः' (7.1.36)। `हे पपिवन्' इति। पातेः पिबतेर्वा परस्य क्वसोः `वस्वेकाजाद्घसाम्' (7.2.67) इतीट्, `आतो लोप इटि च' (6.4.64) इत्याकारलोपः स्थानिवद्भावाद्द्विर्वचनम्।
`वन उपसंख्यानम्' इति। अननुबन्धकस्य वनोऽसम्बवात्सामान्येन क्वनिब्बनिपोर्ग्रहणम्। यश्च मत्वर्थे `क्वनिब्वनिपौ छन्दसि वक्तव्यौ' (वा.582?) इत्यौपसंख्यानिकः, तस्यापि ग्रहणम्। `प्रातरित्व' इति। `इण् गतौ' (धा.पा.1045) प्रातापूर्वः, आतो मनिन्क्वनिब्धनिपश्च' (3.2.74) इत्यनुवर्त्तमाने `अन्येभ्योऽपि दृश्यन्ते' (3.2.75) इति क्वनिप्, `ह्रस्वस्य पिति कृति तुक्' (6.1.71)। इदं तु सम्पदादित्वादिना क्विपि तुकि तदन्तन्मतुपि `झयः' (8.2.10) इति वत्वे मत्वन्तादेव सिध्यतीति नोपसंख्यानं प्रयोजयति।
`विभाषा' इत्यादि। भवच्छब्दः `भातेर्डवतुः' [`भातेर्डवतुप्'--पं.उ.1-64] इति डवतुप्रत्ययान्तो व्युत्पादितः। अव्युत्पन्नं वोकारानुबन्धं प्रातिपदिकम्; इतरौ तु मत्वन्तौ। `हे भोः' इति। नुमो रुत्वे कृतेऽवशब्दस्य सर्वस्यैव स्थान ओकारः क्रियते, नालोऽन्त्यस्य, `नान्र्थकेऽलोन्त्यविधिः' (व्या.प.62) इति कृत्वा।
`नुपातविज्ञानात् सिद्धम्' इति। एतद्ग्रहणकवाक्यम्। `अथ वा' इति। अस्यैव विवरणम्। `असम्बद्धावपि' इत्यादि। एतेन निपातत्वे हेतुं दर्शयति। यद्युपसंख्यानादेव भो इत्येवमादिकं स्यात्, द्विवचनबहुवचनयोर्न स्यात्; सम्बुद्ध्यभावात्। स्त्रियाञ्च सम्बुद्धावपि न स्यात्--भो ब्राह्मणीति; अत्र स्त्रीलिङ्गविशिष्टानामनुपादानात्। `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (व्या.प.29) इति चेत्, न; विभ्कतौ तत्प्रतिषेधात्--विभक्तौ यत्कार्यं विषीयते तत्रेयं परिभाषा प्रतिषिध्यते; `विभक्तौ लिङ्गविशिष्टस्याग्रहणम्' (व्या.प.30) इति वचनात्। अथापि न प्रतिषिध्यते? एवमपि भवतीति स्थिते इकारस्य[`ईकारस्य'--प्रा.मु.पाठः] रुत्वे कृतेऽवशब्दस्य चौकारे कृते रुत्वस्यासिद्धत्वात् संयोगान्तलोपाभावे सति विसर्जनीये कृतेनिष्टं रूपं स्यात्। तस्मादसम्बुद्धौ, स्त्रियाञ्च दर्शनान्निपाता एवैते वेदितव्याः।
निपातत्वं पुनरेषां विभक्तिप्रतिरूपकत्वात्, `विभक्तिस्वरप्रतिरूपकाश्च' (ग.सू.16) इति चादिषु पाठात्। पवञ्च भोः शब्दस्य निपातत्वं स्यात्; भवतेर्विचि कृते गुणे च विभक्त्यन्ते भोःशब्दस्यैव विद्यमानत्वात्, इतरयोस्तु न स्यात्। न ह्यसत्यस्मिशुपसंख्याने भगोशब्दः, अघोःशब्दस्च विभक्त्यन्तोऽस्ति, यत्प्रतिरूपकौ निपातौ स्याताम्। तस्मात् सौत्रा एवैते निपाता वेदितव्याः; `भोभगोअधोअपूर्वस्य' (8.3.17) इत्यत्र सूत्रे एषां पाठात्। अथ वा--उपसर्गविभक्तित्वरप्रतिरूपकाश्चेति चकारस्यानुक्तसमुच्चयार्थत्वान्निपातत्वमेषां वेदित्वयम्। यदि तर्हि निपातत्वमेषामाश्रित्योपसंख्यानं प्रत्याख्यायते, तदा भोःशब्दप्रयोगे समोस्ततोभोस्तत्रभो इत्यत्र `इतराभ्योऽपि दृश्यन्ते' (5.3.14) ति भवदादियोगे विधीयमानास्तसिलादयो न सिध्यन्ति? अनिष्टस्वाददोषः। यो हि निपातत्वादुपसंख्यानं प्रत्याचष्टे स भोःशब्दप्रयोगे तसिलादीन्नेच्छत्येव।।
2. अत्रानुनासिकः पूर्वस्य तु वा। (8.3.2)
पूर्वत्वमिदमापेक्षिकम्, रुश्चेहानुवर्त्तते। न च तदपेक्षं पूर्वत्वमस्य विज्ञात्तुं शक्यते; इत उत्तरं ह्यनुनासिको रुश्च समनुवृत्तेरेककालं विधौयत इत्यनुनासिकविधानकाले रोरनिष्पन्नत्वम्। अतस्तदपेक्षया पूर्वत्वमिदमशक्यं विज्ञातुम्। तस्माद्यस्य स्थाने रुत्वं विधीयते तदपेक्षया पूर्वत्वं विज्ञायते, इत्याह--`यस्य स्थाने रुर्विधीयते ततः पूर्वस्य' इति। तुशब्दः परस्मात कार्यिणः पूर्वस्य विशेषं दर्शयति। परस्य रुत्वकार्यम्, पूर्वस्य त्वनुनासिक इति। अथ वा--रुत्वादननासिकस्य विशेषं दर्शयति। रुत्वं नित्यम् अनुनासिकस्तु विभाषेति।
अछाच्कद्कगणं किमर्थम्? अत्र रुप्रकरणे यथा स्यादिति चेन्न; अधिकारादेवैतत् सिद्धम्। यथा हि `अनुनासिकः पूर्वस्य' इत्यधिकृतमुत्तरत्रानुवर्त्तते, तथा रुरित्येतदपि। तत्रान्तरेणाप्यत्रेति वचनं रुप्रकरणे भविष्यतीत्यत आह--`अत्र' इत्यागदि। सन्नियोगः--यौगपद्यम्। यौगपद्यम्। रुणा सह कथं नाम स प्रतीयेतेत्येवमर्थमत्रग्रहणम्। अवधारणञ्चात्र द्रष्टव्यम्--रुणैवेति। सन्नियोगमात्रं हि रुत्वानुनासिकयोः; उत्तरत्र द्वयोरप्यनुवृत्तेः। स्थानिऊभेदेन विरोधाभावाद्विनाप्यत्रग्रहणेन लभ्यत एव। ननु रुप्रकरणादूर्ध्वमनुनासिकस्यास्वरितत्वादेव सन्नियोगो न विज्ञास्यते, तत्किं तदर्थेनात्रग्रहणेन? इत्यत आह--`अधिकारपरिमाणापरिग्रहे हि' इत्यादि। अधिकारस्य परिमाणमियत्ता, तस्य परिग्रहः=परिज्ञानम्, निश्चयः। तस्मिन्नसति मन्दधीभिः प्रतिपत्तृभिः किमुत्तरत्रानुनासिकस्य स्वरितत्वमस्ति? अहोस्विन्नास्ति? इति जातसन्देहैः `ढोढे लोपः' (8.3.13) इत्यादावपि यस्य स्थाने ढलोपदिकार्यं विधीयते तस्मात् पूर्वस्यानुनासिक आशङ्क्येत।
अथ वाग्रहणं किमर्थम्, यावतोत्तरसूत्रे नित्यग्रहणादेव विकल्पोऽस्य विज्ञास्यते? नैतदस्ति; एवं हि पूर्वसत्रे विकल्पो विज्ञायेत। तस्माद्वेति वक्तव्यम्? न वक्तव्यम्; आचार्यप्रवृत्तिर्ज्ञापयति--विकल्पेनायं विधिर्भवतीति, यदयमुत्तरसूत्रे यस्यानुनासिको न कृतस्तस्माद्रोः पूर्वस्मात् परमनुस्वारागमं शास्ति। न हि नित्येऽस्मिन् विधौ तत् सम्भवति, रोः पूर्वस्य यस्यानुनासिको न कृत इति। एवं तर्हि विस्पष्टार्थं वाग्रहणम्।।
3. आतोऽटि नित्यम्। (8.3.3)
`देवं अच्छादीव्यत्' इति। अत्र योऽकारस्तस्मिन्नटि परतो `दूर्घाददि समानपादे' (8.3.9) इति न कारस्य रुत्वे कृते तस्मात् पूर्वस्याकारस्यानेनानुनासिकत्वम्, पूर्ववद्रोर्यकारः, तस्य पूर्वदेव लोपः।
यदि महां इन्द्रो म ओजसेति `केचिदनुस्वारमधीयते' इति वक्तव्यम्, तर्हि तद्यथासौ सिध्यतीत्यत आह--`सः' इत्यादि। व्यत्ययो बहुलम्' (3.1.85) इत्यनेन बोद्धव्यः।
`यो वा वनस्पतीं रनु' इति। वनस्पतीन् अन्विति स्थिते `दीर्घादटि समानपादे' (8.3.9) इति नकारस्य रुत्वे कृते `अनुनासिकात् परोऽनुस्वारः' (8.3.4) इतीकारात् परोऽनुस्वारः `भवांशस्चरति' इति। `नश्छव्यप्रशात्' (8.3.7) इति नकारस्य रुत्वम्, तस्य विसर्जनीयस्य सकारः, तस्य `स्तोः श्चुना श्चुः' (8.4.40) इति श्चुत्वम्।
नित्यग्रहणं विस्पष्टार्थम्।[`स्पष्टार्थम्'--प्रा.मु.पाठः] पूर्वेणैव विकल्पे सिद्धे सत्यारम्भसामर्थ्यादेव नित्योऽयं विधिर्विज्ञास्यते। ननु चात एवाटि, अथ वाऽट्येवातः--इत्येव नियमो यथा स्यादित्येवमर्थः सिद्धे सत्यारम्भः स्यात्? नैतदस्ति; असति हि विधेये नियमो भवति। इह त्वस्ति विदेयम्, किं तत्? नित्योऽनुनासिकः। तस्माद्विधिरेव युक्तः; न नियमः। तथा चोक्तम्--`विधिनियमसम्भवे विधिरेव व्यायान्' (व्या.प.130) इति।
`आतः' इति तकारोऽसब्देहार्थः। `आ इत्युच्यमाने सन्देहः स्यात्--किमर्थं षष्ठ्यन्तस्याकारस्य कार्यिनो निर्देशः? उत्तादेशान्तस्य प्थमान्तस्य? इति।।
4. अनुनासिकात् पोरऽनुस्वारः। (8.3.4)
`अन्यशब्दोऽत्राध्याहार्यः' इति। असति ह्यन्यशब्दस्याध्याहरे परशब्दस्य धुतत्वात् तदपेक्षयैवानुनासिकादित्येषा पञ्चमी स्यात्; अन्यस्येह पञ्चमीहेतोरसम्भवात्। ननु `तस्मादित्युत्तरस्य' (1.1.67) उपस्थाने उत्तरशब्दापेक्षयैव पञ्चमौ स्यात्? नैतदस्ति; यदि ह्यल्याः परिभाषाया इहोपस्थानं स्यात् परग्रहणमनर्थकं स्यात्। तस्मात् परशब्दापेक्षयैव पञ्चम्या भवितव्यम्। सा भवन्ती च `अन्यारादितरर्त्ते' (2.3.29) इत्यादिवा सूत्रेण परशब्दयोगे दिग्बृत्तिगा वा स्यात्, अन्यार्थवृत्तिना वा? तत्र पूर्वस्मिन् पक्षे रोः पूर्वस्मादनुनासिकादेव परोऽनुस्वारो विज्ञायेत, न च तस्मात् पर इष्यते। इतरस्मिंस्त्वयमर्थं आपद्येत--अनुनासिकात् परो भवतदि, अनुनासिकादन्योऽनुस्चारो भवतीत्यर्थः। एवञ्च परग्रहणनर्थकं स्यात्; न ह्यनुनासिकापेक्षयानुस्वरोऽन्यत्वं व्यभिरति। किञ्च--श्रुतत्वात् तस्यैवानुनासिकस्यानुस्वारो विज्ञायेत, प्रकृतत्त्वाद्रोर्वाः; अनिष्टञ्चैतत् अन्यशब्दाध्याहारे तु वस्यानुनासिको न कृतस्यस्मादेव पर इति विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशब्दाध्याहारे तु यस्यानुनासिको न कृतस्यस्मादेव पर इति विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशाब्दाध्याहारे यदि परशब्दापेक्षयैव `अनुनासिकात्' इत्येषा पञ्चमी स्यात्, स दोषस्तदवस्थ एव स्यादिति मत्वाऽऽह--`तदपेक्षया चेयम्' इत्यादि। चशब्दोऽवधारणे। अन्यशब्दापेक्षयैव, न परशभ्दापेक्षयेत्यर्थः। `अनुनासिकदन्यो यः' इत्यनेन तदेवान्यशब्दापेक्षत्वं पञ्चम्या दर्शयति। `रोः पूर्वः' इत्यनेनापि पूर्वग्रहणानुवृत्तिम्। पूर्वत्वञ्च रुत्वापेक्षम्। `यस्यानुनासिको न कृतः' इत्यनेनाप्यन्यशब्दाभिधेयमर्थं दर्शयति। `ततः' इत्यनेनापि पूर्वग्रहणस्यार्थादिह पञ्चम्यन्ततया विपरिणआमम्। अन्यशब्दस्य चाव्याहृतस्य पञ्चम्यन्ततां पर इत्यनेनापि। तस्या अन्यशब्दस्य सम्बन्धिन्याः पञ्चम्याः परशब्दापेक्षताम्। `आगमः' इत्यनेनाप्यादेशाभावम्।
परग्रहणं शक्यमकर्तुम्। अन्यशब्दस्य पञ्चम्यन्तस्याध्याहरे सति पूर्वग्रहणस्य चार्थात् प्रथमान्ततया विपरिणामे सत्येवं विज्ञास्यते--अनुनासिकाद्योऽन्यस्तस्मादुत्तरो यो रुस्ततः पूर्वोऽनुस्वारागमो भवति। एवञ्च विज्ञायमानेऽसत्यपि परग्रहयणे संस्कर्त्तेत्यादि सिध्यत्येव, किं परग्रहणेन? एतत् क्रियते विस्पष्टार्थम्।।
5. समः सुटि। (8.3.5)
`मोऽनुस्वारः' (8.3.23) इत्यनुस्वारे प्राप्ते वचनम्। `सँस्कर्ता'[`संस्कर्तेति'--न्यासे, पदमञ्जर्यां च मुद्रितः पाठः] इत्यादि। करोतेः सम्पूर्वात् तृजादयः, `सम्पर्युपेभ्यः करोतौ भूषणे' (6.1.137) (इति) सुट्, समो मकारस्य `अलोऽन्तस्य' (1.1.52) इत्यनेन रुत्वे ततः पूर्वस्यानुनासिकः, रोर्विसर्जनीयः। तस्य `वा शरि' (8.3.36) इति विकल्पेन सकारे प्राप्ते विसर्जनीये च यथा नित्यं सकारो भवति, तथा वृत्तौ दर्शितम्।
कथं पुनरस्मिन् सूत्रे सकारो निर्द्दिश्यते? इत्याह--`समः स्सुटि' इत्यादि। यस्मिन् पक्षे विभक्तिसकारस्य विसर्जनीये कृते `वा शरि' (8.3.36) इति सकारो न क्रियते, सं पक्षमाश्रित्येदमुक्तम्; अन्यथा हि त्रिसकारकोऽयं निर्देश इति वक्तव्यं स्यात्; त्रयाणां सकाराणां सन्निपातात्। एको हि विभक्तिसम्बन्धी सकारः, द्वितीयस्त्वादेशसम्बन्धी, तृतीयः सुटसम्बन्धी। यदा तु त्रिसकारं कृत्वा सूत्रं पठ्यते, तदा द्विशब्दोऽधिकसकारोपलणार्थो द्रष्टव्यः। यदि तर्हि सकार आदेशो विधीयते, `संस्कर्त्ता' इत्यत्रानुनासिको न प्राप्नोति; यस्मादत्रात्रग्रहणं रुणैव सह सन्नियोगप्रतिपत्त्यर्थमुक्तम्। रुग्रहणस्यास्मिन् प्रकरणे यद्विधीयते तदुपलक्षणार्थत्वाददोषः। `रुणा सह' इति। रुप्रकरणे यद्विधीयते तेन सहेत्यर्थः। यदपि पूर्वस्मिन् सूत्रे वृत्तो `रोः पूर्वः' इत्युक्तम्, तत्रापि रुग्रहणस्यास्मिन् प्रकरणे यद्विधीयते तदुपलक्षणार्थं वेदितव्यम्; अन्यथा हि `संस्कर्ता' इति पक्षेऽनुस्वारो न स्यात्।।
6. पुमः स्वय्यम्परे। (8.3.6)
`पुमः' इति। पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्दशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कार्यित्वात्। `अम्परे' इति। अम् परो यस्मात् स तथोक्तः। अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य। कुत एतत्? व्याप्तिन्यायात् `खयि' इति प्रत्याहारेण साहचर्याच्च। `पुंश्चली' इति। चलडिति पचादौ पठ्यते। तेन `चल कम्पने' (धा.पा.832) इत्यस्मात् पचाद्यच् टिद्भवति, `टिड्ढणञ्' (4.1.15) इति ङीप्। पुंश्चलीति षष्ठीसमासः। `पुंस्कामा' इति। पुंसि कामोऽस्या इति बहुव्रीहिः। अथ वा--पुमांसं कामयत इति `शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः' (वा.229) इति णः; ततष्टाप्। अत्र पुंस्कामेत्यत्रोदाहरणे। `सकार एवादेशः' इति। विसर्जनीयस्येत्यपेक्षते। `वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--`कुप्वोः क पौ च' (8.3.37) इत्यत्र `वा शरि' (8.3.36) इत्यतो वाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा। तेनात्रापि विसर्जनीयस्य सकार एव भविष्यति, न विसर्जनीयजिह्वामूलीयाविति। इदं तावत् पूर्वसूत्रे यदा द्विसकारपक्षो नाश्रीयते, तदा प्रतिविधानमुक्तम्।
यदा तु तत्र `द्विसकारको निर्देशः' इत्येष पक्ष आश्रीयते, तदा प्रतिविधातुमाह--`द्विसकारकनिर्देशपक्षे तु' इत्यादि।
ननु च रुरप्यनुवरत्तत एव, तत्र यथा सकारोऽनुवर्त्तमानो भवति तथा रुरपि पक्षे स्यात्, ततश्च रुत्वपक्षे विसर्जनीये कृते जिह्वामूलोयः स्यादेव? इत्यत आह--`रुत्वं त्वनुवर्त्तमानम्' इत्यादि। तत्रैव कारणमाह--`सम्बन्धानुवृत्तिस्तस्य' इत्यादि। इतिकरणो हेतौ, स हि `मतुवसो रु सम्बुद्धौ' (8.3.1) इत्यतः स्वेन सम्बन्धिना मतुपा वसुना च सम्बद्ध इहानुवर्त्तते। तस्मान्नोत्सहते सम्बन्ध्यन्तरेण सम्बन्धमनुभवितुम्।
`पुंदासः' इति। षष्ठीसमासः--पुंसो दास इति। कर्मधारयो वा। एवं `पुगवः' इति। अत्र तु `गोरतद्धितलुकि' (5.4.92) इति टच् समासान्तः। `पुंक्षीरम्, पुंक्षुरम्' इति। षष्ठीसमासः।
`खय्यमि' इति। वक्तव्ये परग्हणं विपरीतकल्पनानिरासार्थम्। असति परग्रहणे--अमि खयि पर इति विज्ञायेत, ततश्च `पुमाख्यः, पुमाचारः' इत्यत्रापि स्यात्। अतः परग्रहणम्।।
7. नश्छव्यप्रशान्। (8.3.7)
`स' इति। निवृत्तम्, रुरेवानुवर्त्तते; सोऽपि मतुवसुभ्यामसम्बद्ध एव; तयोरपि निवृत्तत्वात्। `न' इति वर्णग्रहणम्, तच्च प्रकृतस्य पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह---`नकारान्तस्य पदस्य' इत्यादि। `भवांश्छादयति' इति। `झद अपवारणे' (धा.पा.1833), चुरादिणिच्। `भवांष्टीकते' इति। `टिकृ टीकृ रधि लघि गत्यर्थाः' (धा.पा.103,104,107,108)। अनुदात्तत्त्वादात्मनेपदम्। `प्रशान्' इति। प्रपूर्वाच्छमेः क्विप् `अनुनासिकस्य विवझलोः क्ङिति' (6.4.15) इति दीर्घः, `मो नो धातोः' (8.2.64) इति मकारस्य नकारः, तस्यासिद्धत्वान्नलोपाभावः। `भवान् त्सरुकः' इति। त्सरौ कुशलः, `आकर्षादिभ्यः कन्' (5.2.64) इति कन्प्रत्ययः।।
8. उभयथर्क्षु। (8.3.8)
पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम्।।
9. दीर्घादटि समानपादे। (8.3.9)
`समानपादे' इति। कर्मधारयात् सप्तमी। समानशब्दश्चायमेकार्थे वर्त्तमा इह गृह्यते। समाने=एकस्मिन् पादे निमित्तनिमित्तनोराधारभत इत्यर्थः। तत्रैकग्रहणे कर्त्तव्ये क्वचिदसमानपादेऽपि यथा स्यादिति समानग्रहणं कृतम्। तेनेहापि रुर्भवति--यजामहै यज्ञिया इन्द्रदेवां इलामहै ईक्षां अनाज्यैति। अत्र भिन्नयोः पादयोर्निमित्तनिमित्तिनौ वर्त्तते। अथ वा--सादृश्ये वर्त्तमानः समानशब्दो गृह्यते, अन्यथा ह्येकग्रहणं कुर्यात्। इह च सादृश्यमुभयोरस्ति पादयोः, क्रियापदयोस्तुल्यार्थत्वात्। यथा यजामहायित्येतत्, क्रियापदं पूजायां वर्त्तते, तथेलामहायित्येतदपि। `ईड स्तुतौ' (धा.पा.1019), लोट्, टेरेत्त्तवम्, `वैतोऽन्यत्र' (3.4.96) इतीकारस्यैकारहः। धातोर्वर्णव्यत्ययेन डकारस्य लकारः। छान्दसत्वाद् ह्रस्वत्वम्।।
10. नृन्पे। (8.3.10)
`नॄन्' इति। `सुपां सुलुक्' (7.1.39) इत्यादिना षष्ठ्या लुकं कृत्व निर्देशः। अथ वा-- विभक्तिरेवात्र नोत्पद्यते, अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात्। यथा-गवित्ययमाहेत्यादि। `पे' इति पकारमात्रमेव निमित्तत्वेनोपात्तम्; न समुदायः। अकारस्तूच्चारणार्थः, अन्यथा हि यद्यकारसमुदायो निमित्तत्येनाश्रीयते, तदा नॄः पचतीत्येवमादावेव स्यात्, न तु नॄन् प्रीणीहीत्यादौ। `अटि' इति चेह निवृत्तम्; निमित्तान्तरो पादानात्।
अथ तस्यैव निमित्तस्यैतद्विशेषणं कस्मान्न विज्ञायते--अटि परतो यः पकार इति? अशक्यमेवं विज्ञातुम्; इह न स्यात्--नॄः प्साति, नॄः प्लावयतीति। तस्मादस्य निवृत्तिरङ्ग्रहणस्य युक्ता।।
11. स्वतवान्पायौ। (8.3.11)
स्वतवानिति पूर्ववन्निर्देशौ वेदितव्यः। तथा `कान्' (8.3.12) इति परसूत्रेऽपि। `स्वतवाः, पायुरग्ने' इति। `दृक्स्वःसवतवसाञ्छन्दसि' (7.1.83) नुम, हल्ङ्यादि(6.1.68) संयोगान्त(8.2.23)लोपौ।।
12. कानाम्रेडिते। (8.3.12)
`कांस्कान्' इति। किमः शसि `किमः कः' (7.2.103) इति कत्वम्, प्रथमयोः पूर्वसवर्णः' (6.1.102) इति दीर्घः, `तस्माच्छसो नः पुंसि' (6.1.103) इति सकारस्य नकारः, वीप्सायां द्विर्वचनम्, रुत्वम् विसर्जनीयः, तसय `विसर्जनीयस्य सः' (8.3.34) इति सः।
कथं पुनरत्र सकारः, यावता `कुप्वोः क पौ च' (8.3.37) इति विसर्जनोयजिह्वामूलीयाभ्यां भवितव्यम्? अत आह--`अस्य' इत्यादि। तत्र यद्यपि न पठ्यते, तथापि भवत्येवानिष्टप्रसङ्ग इति दर्शयितुमाह--`समः सुटि' इत्यादि। यदि सकारोऽत्रानुवर्त्तिष्यते, पूर्वयोगेऽपि सर्वत्रैतस्मादनुवर्त्तमानात् सकारः प्रसज्येत? इत्याह--`पूर्वयोगेषु' इत्यादि। पूर्वयोगेषु हि `समः सुटि' (8.3.5) इति स्वेन सम्बन्धिना समा सुटा च सम्बद्धस्यैव तस्यानुवृत्तिः, ततो न तस्य सम्बन्ध्यन्तरेणा सम्बन्धो भवति।
कान् कानिति वक्तव्ये, आम्रेडितग्रहणम्--यत्र द्विर्वचनं तत्र यथा स्यात्। तेनेह न भवति--कान् कान् पश्यतीति। एकोऽत्र किं शब्दः प्रश्ने, द्वितीयस्तु कुत्सायाम्। कान् कुत्सितान् पश्यतीत्यर्थः।।
13. ढो ढे लोपः। (8.3.13)
`ढे' इति वर्णमात्रं निमित्तत्वेनाश्रीयते; न वर्णसमुदायः। कुत एतत्? व्याप्त्या। अकार उच्चारणार्थः। वर्णग्रहणे तु सति लीढ्वा, मीढ्वेत्यादावपि भवति; अन्यथा हि यदि वर्णसमुदायो निमित्तत्वेनाधीयते तदा लौढम्, मीढमित्यादावेव स्यात्, न तु लीढवेत्यादौ। `लीढम्' इत्यादि। `लिह आस्वादने' (धापा.1016) `मिह सेचने' (दा.पा.992), `गुहू संवर्णे' (धा.पा.896)--एभ्यः [एभ्यः `ष्टुना ष्टुः' इति ष्टुत्वम्--का.मु.पाठः] क्तः, `हो ढः' (8.2.31) इति ढत्वम्, `झवस्तथोर्धोऽधः' 98.2.40) इति धत्वम्। `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्, ढलोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111) इति दीर्घः।
कथं पुनर्लीढमित्याद्युदाहणमुपपद्यते, यावता ढकारोऽत्र परनिमित्तं नास्त्येव ढलोपे कर्त्तव्ये ष्टुत्वस्यासिद्धत्वात्? इत्यत--`ष्टुत्वस्य' इति। ढकारोऽत्र ढलोपनिमित्तनाश्रीयते, न चासौ क्वचित् सिद्धः सम्भवति यत्रानेन ढलोपः कर्त्तव्यः। तस्माद् ढकारस्य निमित्तत्वेनाश्रयणादेव ष्टुत्वस्य सिद्धत्वं वेदितव्यम्; अन्यथा ह्यस्य वचनस्य वैयर्थ्यं स्यात्; अनवकाशत्वात्।
स्यादेतत्। श्वलीङ्ढौकत इत्यनेन ढलोपो भविष्यति, सिद्धो ह्यत्र ढकारः, तत् कुतो वचनस्य वैयर्थ्याम्? इत्याह`श्वलिङ्ढौक्ते' इत्यादि। यद्यप्यत्र निमित्तं ढकारः सिद्धः, तथापि नैव ढलोप उपपद्यते; जश्त्वे कृते कार्यिणो ढकारस्याभावात्। ननु च निर्विषयत्वाङ्ढलोपो जश्त्वापवादो भविष्यति? इत्याह--`न च' इत्यादि। कुत एतत्? इत्याह--`तस्य हि' इत्यादि। यदि हि तस्य विषयो न सम्भाव्येत, ततो जशत्वापवादः सक्यते विज्ञातम्। सम्भवति चास्य विषयो लीढाटिः, तस्मान्न शक्यौऽसौ जशत्वापदाद इति विज्ञातुम्।
कथं पुनर्लीढादिरस्य विषयः पावता यथा श्वलिङ्ढौकत इत्यत्र जश्त्वे कृते कार्यिणोऽसम्भवाङढलोपस्या विषयः, तथा लोढादावपवि ष्टुतवस्यासिद्धत्वे सति निमित्तस्याभावात्। अथात्र वचनसमार्थ्याडढलोपेन ष्टुत्वस्यासिद्धत्वं बाध्यते? इतरत्रापि जश्त्वं कस्मान्न बाध्यते; तस्माद्यदि पुनर्लीढाविढंलोपस्य विषय इत्तरेणापि तद्विषयेण भवितव्यम्, न तु लीढादिनैवेतरत्रापीत्यत आह--`तत्र हि' इत्यादि। इह `ढे' इति सप्तमीनिर्देशा दानन्तर्यमाश्रितम्; न तु लीढादिनैवेतरत्रापीत्यत आह--`तत्र हि' इत्यादि। इह `ढे' इति सप्तमीनिर्देशा तद्विषयेण भवितध्यम्, न तु लीढादिनैवेतरत्रापीत्यत आह--`तत्र हि' इत्यादि। इह `ढे' इति सप्तमीनिर्देशा दानन्तर्यमाश्रितम्; निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्। ततश्चानन्तर्ये सति ढलोपेन भवितव्यम्। अस्ति च लोढादो श्रुतिकृतमानन्तर्यम्, उभयोर्निमित्तकार्यिणोर्ढकारयोः श्रयमाणत्वात्। तस्मादेष एव ढलोपस्य विषयः? सत्यमिहासत्यानन्तर्यं श्रुतिकृतम्; अनानन्तर्यमप्यस्ति शास्त्रकृतम्; शास्त्रेण ष्टुत्वस्यासिद्धत्वोपादानात्। सति च तस्मिन् सोऽपि न ढलोपस्य विषय इत्यत आह--`शास्त्रकृतम्; शास्त्रेण ष्टत्वस्यासिद्धत्वोपादानात्। सति च तस्मिन सोऽपि न ढलोपस्य विषय इत्यत आह--`शास्त्रकृतम्' इत्यादि। विद्यमानमपि शास्त्रकृतमनान्तर्यं ढलोपेन बाध्यते; अन्यथा हि वचनवैयर्ध्यं स्यात्। यथा शास्त्रकृतमनानन्तर्यं वचनसामर्थ्याद्बाधित्वा ढलोपो भवति, तथा श्यलिङ्ढौकत इत्यत्रापि श्रुतिकृतमानानन्तर्यं बाधित्वा ढलोपः स्यादित्याह--`श्वलिङ्ढौकत इत्यत्र तु' इत्यत्र तु' इत्यादि। तुशब्दो लौढादेरस्य विशेषं दर्शयति। अत्र लीढादौ हि यद्यपि शास्त्रकृतमानन्तर्यं नास्ति, श्रुतिकृतं त्वस्ति। इह तु नापि श्रुतिकृतमानन्तर्यं द्वयोर्ढकारयोरश्रूयमाणत्वात्, नापि शास्त्रकृतम्, शास्त्रेण जशत्वस्यासिद्धत्वानुपायनात्। तस्मान्नैव ढलोपस्य विषयः।।
14. रो रि। (8.3.14)
किं पुनरिदं सानुबन्धकारस्य रेफस्य ग्रहणम्? उत्त निरनुबन्धकस्य? किञ्चात्र यदि सानुबन्धकस्य ग्रहणम्? सिद्धम्--अग्नीरथः, इन्दूरथ इति; नीरक्तं दूरक्तमिति तु न सिध्यति। अथ निरनुबन्धकरस्य ग्रहणम्? तदा सिध्यति--नीरक्तम्, दूरक्तमिति; अग्नीरथः, इन्दूरथ इति न सिध्यति? नैष दोषः; इह तन्तेणाचार्यः `रो रि' इति द्वे सूत्रे उच्चारितवान्, तत्रैकत्र सानुबन्धकस्य ग्रहणम्, अपरत्र निरनुबन्धकस्येति। नीरक्तमित्यादौ `ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111) इति दीर्घत्वम्।
इह यदि पदस्येति स्थानषष्ठी स्यात्, ततः `अलोऽन्त्यस्य' (1.1.52) इति पदान्तस्यैव [`पदान्तस्य'--का.मु.पाठः] रेफस्य [अयं भागः का.मु.पाठे नास्ति]लोपः स्यात्--नीरक्तमित्यादौ। अजर्धा इत्यादौ त्वपदान्तस्य[अयं भागः का.मु.पाठे नास्ति] न स्यात्; विशेषणषष्ठ्यां त्वस्यामिहापि भवतीत्येतच्चेतसि कृत्वाऽऽह--`पद्स्य' इत्यादि। विशेषणषष्ठ्यां हि पदस्येत्यस्यैवमभिसम्बन्धः क्रियते--पदस्यावयवो यो रेफस्तस्य रेफे परतो लोपो भवतीति। तेनापदान्तस्यापि भवति। `अजर्धाः' इति। `एकाचो बशो भव्' (8.2.37) इत्यादौ सूत्र इवं व्युत्पादितम्। `अपास्पाः' इति। `स्पर्द्ध सङ्घर्षे' (धा.पा.3) असमाद्यङ्, द्विर्वचनम्, `शर्पूर्वाः खयः' (7.4.61) इति खयः शेषः, `दीर्घोऽकितः' (7.4.83) इति दीर्घत्वम्, `यङोऽचि च' (2.4.74) इति यङो लुक्; पास्पर्द्ध इति स्थिते लङ् अडापमः, सिप्, `चर्करौतञ्च' (धा.पा.1081) इत्यादिषु पाठाच्छपो लुक्, सिपो इल्ङ्यादिना (6.1.68) लोपः, जश्त्वेन धकारस्य दकारः, `दश्च' (8.2.75) इति तस्यैव दकारस्य रुत्वम्, तत्रानेन रेफस्य लोपः, पूर्ववद्दीर्धत्वम्।
योगविभागकरणमुत्तरार्थम्, उत्तरसूत्रे रेफस्यानुवृत्तिर्यथा स्यादित्येवमर्थम्; इतरथा हि ढकारस्यापि ततरानुवृत्तिः स्यात्, ततश्च तस्यापि विसर्जनीयः प्रसज्येत।।
15. खरवसानयोर्विसर्जनीयः। (8.3.15)
यद्यत्र पदस्येति विशेषणवष्ठी स्यात्--पदस्यावयवो यो रेफ इति, तदा `अर्कः' इत्यादानप्यपदान्तस्य रेफस्यापि विसर्जनीयः स्यात्। स्थानषष्ठ्या न दोषः; अत्र हि पदं रेफेण विशेष्यते, विशेषणेन च तदन्तविधिर्भवति, तेन रेफान्तसय कार्यमुच्यमानमलोऽन्त्यस्यैव भवतीत्येतदालौच्च पदसयेत्येषा स्थाने षष्ठी; तच्च पदं रेफेण वेशेष्यत इत्यतद्दर्शयन्नाह--`रेफान्तस्य पदस्य' इति। `खरि परतोऽवसाने च' इति। `पतः' इत्येतत् पूर्वेणैव सम्बध्यते, न परेणावसानेन,[`परेण अवसाने--का.मु.पाठः] तस्य पौर्वापर्याभावात्। तथा हि येन वर्णेन विरम्यते सोऽवसानं स्यात्। विरतिर्वा विरामः=वर्णस्यानुच्चारणम्। तेन रेफान्तात् पदाद्येन वर्णेन विरभ्यते स तावदवसानसंज्ञकः परो न सम्भवति; तन्मात्रस्याप्रयोगात्। अप्रयोगस्तु निरर्थकत्वात्। इतरत्र तु पुनरवसानमभावरूपम्। अभावे च पौर्वापर्यं न सम्भवति; तस्य वर्णधर्मत्वात्। तस्मात् तदपि नैव रेफान्तात् पदात् परमुपपद्यते।
केचित्तु बुद्धिकल्पितं पौर्वापर्यमाश्रित्य `अवसाने च' इत्यानेनापि सह `परतः' इत्येतत्सम्बन्धन्ति। तत्र यदि वुद्धिकल्पितं पौर्वापर्ग्रं नाश्रीयते, तदा `खरवसानयोः' इत्येकाप्येषा सप्तम्यधिकरणभेदाद्भिद्यते; खर्यौपश्लेषिकेऽञिकरणे सप्तमी भवति--खरि परत इति, अवसाने तु वैषयिकेऽधिकरणे सप्तमी भवति--अवसाने विषय इति। यदा तु वृद्धिकल्पितमभावेऽपि पौर्वापयमवसानेऽप्याश्रीयते, तदोभत्रापि परसप्तम्येव।
उदाहरणेषु खरि विसर्जनीये कृते `विसर्जनीयस्य सः' (8.3.34) इति सकारः, तस्य चवर्गे परतः श्चुत्वम्।
ञधेह नृकुट्यां भवः, `तत्र भवः' (4.3.53) इत्यणि--नार्कुटः, नृपतेरपत्यम् `दित्यादित्यादित्यपत्युत्तरपदाण्ण्यः' (4.1.85) इति नार्पत्य इत्यत्र विसर्जनीयः कस्मान्न भवति? इत्याह--`इह' इत्यादि। वृद्धिहिं भवादावर्थे विहितं तद्धितमाश्रित्य भवन्ती बहिरङ्गा, तस्याश्च बहिरङ्गत्वात् तदाश्रयस्यापि रेफस्य बहिरङ्गत्वम्; वृद्ध्याश्रितत्वात्, पुना रेफस्य तद्भक्तात्वात् तन्निमित्तात्वाच्च। विसर्जनीयक्तु खर्माधमाश्रित्य भवतीत्यन्तरङ्गः। `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इति विसर्जनीये कर्त्तव्ये रेफोऽसिद्धः, अत इह विसर्जनीयो न भवति। ननु च बृद्धौ कर्त्तव्यायां विसर्जनीयोडभिमतोऽन्तरङ्गोऽसद्धः, तदसति तस्मिन् `वृद्धेर्बहिरङ्गव्यपदेशो नोपपद्यते, तस्यान्तरङ्गापेक्षकत्वात्; असति तस्मिन् वृद्धेर्बहिरङ्गव्यपदेशे रेफस्यापि स न स्यात्। वृद्धेर्बहिरङ्गद्वारकं हि रेफस्य बहिरङ्गत्वम्; ततश्चोमयाङ्गविकलत्वात् बहिरङ्गपरिभाषा (व्या.प.42) नोपतिष्ठत इति यदुक्ततम्--`बृद्धेर्बहिरङ्गलक्षणत्वात्' इति, तन्नोपपद्यते? नैतत्; `न मु ने' (8.2.3) इति कार्यान्तरार्थम् `न' इति योगाविभागः कृतः। तेन वृद्धौ कर्त्तव्यायां विसर्जनीयस्यासिद्धत्वं न भविष्यति। अत एव बहिरङ्गपरिभाषायामपि विसर्जनीयस्यासिद्धत्वं न भविष्यतीति वेदितव्यम्। `कार्यकालं संज्ञापरिभाषम्' (व्या.प.58) इत्यस्य दर्शनस्येहाश्रितत्वाच्च। युक्तञ्चैतत्, कार्यप्रयुक्तत्वाद्धि संज्ञापरिभाषस्य तद्देशतैव न्याय्या। यत्र ह्यनयाऽसिद्धत्वं क्रियते सोऽस्याः कार्यदेशः। क्व चानयाऽसिद्धत्वम्? विसर्जनीयविधौ। तस्मात् तद्देशैवेयम्; न तु यत्रोपसंख्याता--`विप्रतिषेधे परं कार्यम्' (1.4.2) इति, तद्देशा; नापि यत्र ज्ञापिता--`वाह ऊरु' (6.4.132) इत्यत्र, तद्देशा।।
16. रोः सुपि। (8.3.16)
`पयःसु, यशःसु' इति। क्वचित् सकारद्वयं पठ्यते। तत्र `वा शरि' (8.3.36) इति विसर्जनीयस्य सकारः। `सर्पिःषु' इति। यत्र विसर्जनीयः पठ्यते तत्र `नुम्विसर्जनीयशर्व्यवायेऽपि' (8.3.58) इति प्रत्ययसकारस्य षत्वम्। यत्र सर्पिष्ष्विति षकारद्वयं पठ्यते, तत्र पूर्ववदेव विसर्जनीयस्य सकारे कृते पूर्ववदेव प्रत्ययसकारस्य वत्वम्, पूर्वस्य ष्टुत्वम् (8.4.41)।
सुपीति प्रत्याहारग्रहणशङ्कानिरासायाह--`सुपि' इत्यादि। एतच्च `खरि' इत्यनुवर्त्तनाल्लभ्यते, न हि सप्तमीबहुवचनदन्यः सुप् क्षरादिरस्ति। मा भूत्; खरीत्यनुवृत्तेः। सप्तम्याः पकारेण प्रत्याहारग्रहणं कस्मान्न भवतीति? सम्भवति [`न सम्भवति--का.मु.पाठ] तत्र खरादिः सुप्। यदि स्यात् किञ्च स्यात्? अगीःकः, अधःक इत्यत्र नियमाद्विसर्जनीयो न स्यात्। तस्माद्व्याख्यानमेव शरणम्। किमर्थं पुनरिदम्, यावता ननु सिद्धः पूर्वेणैव विसर्जनीयः? इत्याह--`सिद्धे सति' इत्यादि। विपरीतनियमो नाशङ्कनीयः, `किमः क्षेपे' (5.4.70) इत्यादौ विसर्जनीयनिर्देशात्। `गीर्णु', धूर्षु' इति। `र्थोरुपधायाः' (8.2.76) इत्यादिना दीर्घः।।
17. भोभगोअघोअपूर्वस्य योऽशि। (8.3.17)
`भो अत्र' इत्यादौ `ओतो गार्ग्यस्य' (8.3.20) इति नित्यो यलोपः। गार्ग्यग्रहणं तत्र पूजार्थम्। `भो ददाति' इत्यादावपि `हलि सर्वेषाम्' (8.3.22) इति नित्य एव यलोपः।
अथाश्ग्रहणं किमर्थम्, यावताऽशोऽम्यः खर्यो भवति तत्र खरवसानयोर्विसर्गेण भवितव्यम्, कृते विसर्णनीये तस्य स्थानिवद्भावाद्रुग्रहणेन ग्रहणे सति स्यादिति चेत्? न; ज्ञापकात्। यदयम् `अत्रानुनासिकः पूर्वस्य तु धा' (8.3.2) इत्यत्र विसर्जनीययकारमकृत्वा निर्देशं करोति तज्ज्ञापयति--विसर्जनीयस्य खरि यकारो न भवति। अवसाने तर्हि स्यादिति चेत्? न; `संहितायाम्' (8.2.108) इत्यधिकारात्। तस्मादन्तरेणाप्यश्वचनमश्येण भवति, इत्यत आह--`अदग्रहणमुत्तरार्थम्' इति। `हलि सर्वेषाम्' (8.3.22) इत्यादिना तामेवोत्तरार्थतां दर्शयति। `दृक्षवृट्' इति। `ओव्रश्चू छेदने' (धा.पा.1292), क्विप्, ग्रह्यादिना (6.1.16) सम्प्रसारणम्, `स्कोः संयोगाद्योरन्ते च' (8.2.29) इति सकारलोपः, चकारस्य व्रश्चादिना (8.2.36) चकारः, तस्य जश्त्वेन डकारः, तस्यापि चर्त्वम्--टकारः, वृक्षवृट्, तमाचष्ट इति णिच्, `णाविष्ठवत् प्रातिपदिकस्य' (धा.813) इतीष्ठवद्भाः, `टेः' (6.4.155) इति टिलोपः, वृक्षवयतेर्ण्यन्तात्क्विप्, `णेरनिटि' (6.4.51) इति णिलोपः। `वृक्षव् करोति' इति। अत्राश्ग्रहणाद्वकरस्य ककारे परतो लोपो न भवति। अत एवाश्घ्रहणात् `लोपो व्योर्वलि' (6.1.66) इति लोपो न भवत्येव। अन्यथादग्रहणमनर्थकं स्यात्।
यद्युत्तरार्थमश्ग्रहणं स्यात् तर्हि तत्रैव कर्त्तव्यम्, एवं ह्यनुवृत्त्यर्थ स्वरितत्वं न कर्त्तव्यं भवतीत्यभिप्रायेणाह--`अथ' इत्यादि। `उत्तरार्थम्' इति। `हलि सर्वेषाम्' (8.3.22) इत्यस्मात् सूत्रादुत्तरसूत्रेऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। `मोऽनुस्वारः' (8.3.23) इत्यादिना तदेवोत्तरार्थत्वं स्पष्टीकरोति। यदि हि `हलि सर्वेषाम्' (8.3.22) इत्यत्राश्ग्रहणं क्रियेत, ततः `मोऽनुस्वारः' (8.3.23) इत्यत्र यथा हल्ग्रहणस्यानुवृत्तिः, तथाश्ग्रहणस्यापि स्यात्। ततश्चाश्येव हलि मोऽनुस्वारः स्यात्, न हल्मात्रे। यदा तु तत्राश्ग्रहणं न क्रियते, तदोत्तरत्र हल्मात्रेऽनुस्वारः सिध्यति। पुनरुत्तरार्थतामश्ग्रहणस्य दर्शयति--`व्योर्लधुप्रत्यत्नतरः' इत्यादि। गतार्थम्।।
18. व्योर्लघुप्रयत्नतरः शाकटायनस्य। (8.3.18)
`लघुप्रयत्नतरः' इति। प्रयत्नः प्रयतनम्। `यजयाच' (3.3.90) इत्यादिना नङ्। लघुः प्रयत्नो यस्य स लघुप्रयत्नः, अतिशयेन लघुप्रयत्नो लघुप्रयत्नतरः। किं पुनरिदं लघुप्रयत्नतरत्वम्, यद्योगाल्लघुप्रयत्नतरो भवतीत्याह--`लघुप्रयत्नतरत्वम्' इत्यादि। स्थानम्--ताल्वादि, करणम्--ज्ह्वामूलादि, तयोरुच्चारणे शैथिल्यं लघुप्रयत्नतरत्वम्' इत्यादि। स्थानम्--ताल्वादि, करणम्--जिह्वामूलादि, तयोरुच्चारणे शैथिल्यं लधुप्रयत्नतरत्वम्। उदाहरमेष्वान्तरतम्याद्वकारस्य वकार एव भवति, यकारस्य यकार एव।
शाकटायनग्रहणं पूजार्थम्। अनेन हि व्योर्लघुप्रयत्नतरत्वं विधीयते, उत्तरसूत्रेणापि लोपः; तत्रोभयोविधानसामर्थ्यादेव पक्षे विधिर्विज्ञास्यते।।
19. लोपः शाकल्यस्य। (8.3.19)
ओतः परयोर्व्योर्लोपो नित्यं वक्ष्यति। तस्मादवर्णपूर्वयोरयं विधिर्वज्ञायत इत्याह--`अवर्णपूर्वयोः' इत्यादि।
`शाकल्यग्रहणं विभाषार्थम्' (इति)। ननु च शाकटायनस्य मतेन लघुप्रयत्नतरो विहितः। तत्रान्त रेणापि शाकल्यग्रहणं पाक्षिक एव विधिर्विज्ञास्यते; अन्यथा हि[`हि'--नास्ति का.मु.पाठे] लघुप्रयत्वविधानमनर्थकं स्यात्, तत्किंशाकल्यग्रहणेन? इत्यत आह--`तेने' इत्यादि। असति हि शाकल्यग्रहणे विभाषार्थे लघुप्रयत्नतरेण मुक्ते नित्यो लोपः स्यात्, ततश्चालघुप्रयत्नतरयोर्व्योः पक्षे श्रवणं न स्यात्। शाकल्यग्रहणे तु सति लोपो विकल्प्यते। तेन तयोरपि पक्षे श्रवणं सिद्धं भवति। एवञ्च त्रीणि रूपाणि भवन्ति--एकं लघुप्रयत्नतरपक्षे, द्वितीयं लोपपक्षे, तृतीयं तूभयोरभावपक्षे।।
20. ओतो गार्ग्यस्य। (8.3.20)
ओकारादुत्तरो वकारो नास्ति, पदान्त इति यकारस्यैवायं विधिर्विज्ञास्यत इत्याह--`ओकारादुत्तरस्य यकारस्य' इति। ननु च पूर्वसूत्रेणैवौकारादुत्तरस्य यकारलोपः सिद्धः, तत्किमर्थमिदमारभ्यते? इत्याह--`मित्यार्थोऽयमारम्भः' इति।
गार्ग्यग्रहणं तर्हि किमर्थम्? इत्याह--`गार्ग्यग्रहणम्' इत्यादि। व्योरिह प्रकरणे लघुप्रयत्नतरपक्षेविहितो लोपोऽपि, तत्कस्यार्य नित्यो लोपो बाधकः? इत्याह--`योऽयम्' इत्यादि। अथ वा--यदि नित्यार्थोऽयमारम्भः, पक्षे लघुप्रत्यत्नतरो न स्यादित्यत आह--`योऽयम्' इत्यादि। लोपविकल्पस्यानन्तरत्वात् तस्यैव निवृत्तिर्युक्ता कर्तुमिति भावः।
`केचित्तु' इत्यादि। कथं पुनरिष्यमाणमपि लघुप्रयत्नतरस्य बाधनं भवति, यावतानन्तरत्वाल्लोपविकल्पस्यानेन बाधा युक्ता? व्योः कार्यसमुदायस्यापेक्षितत्वाददोषः। यदि लोपविफल्पमात्रमपेक्षते, ततः स एव बाध्यते, न लघुप्रयत्नतरः; लोपेन व्यवहितत्वात्। यदा तु व्योर्यवस्मिन् प्रकरणे कार्यं विहितं तत्समुदायोऽपेक्ष्यते, तदा तस्यानन्तर्यात् स एव निवर्त्त्यते।
तपरकरणमसन्देहार्थम्। यतो हि `ओः' इत्युक्ते सन्देहः स्यात्--किमयमोकरस्य निर्देशः? आहोस्विदुकारस्येति? मैवम्; `भोभगोअघोअपूर्वस्य' (8.3.17) इत्यनुवर्त्तते, न भोःप्रभृतीनामुकारोऽस्ति, तत्कुतः सन्देङः? एवं तर्हि मुखसुखार्थम्।।
21. उञि च पदे। (8.3.21)
`लोपः शाकल्यस्य' (8.3.19) इति सिद्धे नियमार्थम्--उञि पद एव, नान्यत्रेति। `अवर्ञपूर्वयोः' इति। ओकारपूर्वस्य वकारस्यासम्भवाद्यकारस्य पूर्वेणैव सिद्धत्वादवर्णपूर्वयोरेवायं लोपो विज्ञायत इत्यवर्णपूर्वयोरित्युक्तम्। `स उ' इति। तच्छब्त् सुः, त्यदाद्यत्वम्, `तदोः सः सावनन्त्ययोः' (7.2.106) इति सः, रुत्वाम्, तस्य यकारः, तस्यानेन लोपः।
`तन्त्रयुतम्' इति। `तन्त्रे' इत्येतस्य सप्तम्यन्तस्य उतशब्दे निष्ठान्ते परतोऽयादेशः। ननु च `उञि' [`उञ्'--का.मु.पाठः] इत्युच्यते, न चायमुञ्, ञकाराभावात् तत्किमेतन्निवृत्त्यर्थेन पदग्रहणेन? इत्यत आह--`वेञः सम्प्रसारणे' इत्यादि। सम्प्रसारणं तु `वचिस्वपि' (6.1.15) इत्यादिना। एवं तावदुञो निपातस्य प्रतिपदोक्तस्यास्तित्वमनपेक्ष्य पदग्रहणप्रयोजनं दर्शितम्।
यदा तु तस्यास्तित्वमपेक्ष्यते, तदा प्रयोजनान्तरं दर्शयितुमाह--`उत्तरार्थम्' इति। `ङमो ह्रस्वादचि ङमुण् नित्यम्' (8.3.32) इत्येष विधिरजादौ पदे यथा स्यात्, इह मा भूत्--परमदण्डिनेति। यद्युत्तरार्थम्, तत्रैव कस्मान्न कृतम्, कः पुनरेवं सिति लाभः? स्वरितत्वं न प्रतिज्ञायत इत्येष लाभः। इहापि क्रियमाणे लक्षणप्रतिपदोक्तपरिभाषा (व्या.प.3) नाश्रयणीया भवतीति समानम्।
चकारोऽवर्णपूर्वस्यानुकर्वणार्थः; क्षन्यथा ह्योतोऽनन्तरत्वात् ततः परस्य यकारस्य लोपो विज्ञायेत? नैतदस्ति; एवं हि विज्ञायमाने निरर्थकमेवेदं सूत्रं स्यात्, पूर्वेणैव सिद्धत्वात्। नानर्थकम्, नियमार्थत्वात्--उङि पद एव यथा स्यात्--भो उ पदश्यतीति। असति ह्यस्मिन्नियमार्थे भो युतम्, भगो युतमित्यत्रापि नित्यो लोपः स्यात्। यदि तु निपातस्येदमुञो ग्रहणम्, तदा नियमार्थस्य व्यावर्त्यत्वं नास्तीति पूर्वापेक्षया चकारः समुच्चयार्थो द्रष्टवप्यः।
उञीति ञकारोऽसन्देहार्थः। असति हि तस्मिन् सप्तम्या औ इति निर्देशः स्यात्। ततश्च किमयमुकारस्य निर्देशः? उत्तेकारस्येति? सन्देहः स्यात्। ननु च क्रियमाणेऽपि तस्मिन् किमुञीति निपातस्य ग्रहणम्? आहोस्विदुकारादारभ्य झभञ्' (मा.सू.8) इति ञकारस्येति सन्देहः स्यादेव? नैवम्; इदं तावद्भवान् प्रष्टव्यः--किमुञिति प्रत्याहरे येऽन्तर्गता हलस्तेष्वेव नित्यो लोपः? उतान्येष्वपीति? किमत्र वक्तव्यम्--`अन्येष्वपि' इति? तथा हि वक्ष्यति--`हलि सर्वेषाम्' (8.3.22) इति। एवं तर्हि यद्यत्र प्रत्याहारग्रहणभिमतं स्यात् `एऔच्' (मा.सू.4) इति चकारेण प्रत्याहरं गृह्णीयात्--उचि च पद इति। हल्यपि `हलि सर्वेषाम्' इत्यनेन भविष्यतीति। तत्राप्ययमर्थः--सन्देहः परिहृतो भवति। अथ वा यद्यत्रोकारादीनामुञा प्रगत्याहरग्रहणभिमतं स्याद्धलीति लकारेण प्रत्याहरं गृहीत्वैकमेवेमं योगं कुर्यात्--`उलि च पदे सर्वेषाम्' इति। न हि योगविभागस्य किञ्चित् प्रयोजनं पश्यामः। तस्मान्नात्रोकारादीनां प्रत्याहारग्रहणमिष्टम्। ततश्चोञो निपातस्यैव ग्रहणमित्यसन्दिग्धमेतत्।।
22. हलि सर्वेषाम्। (8.3.22)
`भोभगोअघोअपूर्वस्व' इति। भोभगोअघोपूर्वस्य वकारस्यासम्भवात्। अवर्णपूर्नस्तु वकारः सम्भवति। तस्य तु पूर्वमेव `हलि सर्वेषाम्' इत्यनेन लोपो न भवतीति दर्शितम्। तेनेह यकारस्यैव ग्रहणं न वकारस्य, तस्य लोपो न भवतीति दर्शितम्--`भोभगोअघोअपूर्वस्य' (8.3.17) इत्यादौ सूत्रे। तत्राश्ग्रहणं किमर्थम्? हलि सर्वेषामित्ययं लोपोऽशि हलि यथा स्यात्, इह मा भूत्--वृक्ष वृश्चतीति वृक्षवृट्, तमाचष्ट इति णिच्, वृक्षववति, वृक्षवयतेरप्रत्ययः वृक्षव्--`वक्षव् करोति' इति। एवमश्ग्रहणस्य प्रयोजनं दर्शयतामेन सूत्रेणाशि हलि वकारस्यावर्णपूर्वस्य लोपो न भवतीत्युक्तं भवति। ननु चावर्णपूर्वस्येत्यस्यानुवृत्तिरयुक्ता; पूर्वसूत्रे चानुकृष्टत्वात्, तत्कथमवर्णपूर्वस्य लोपो भवतीति? नैतदस्ति; `चानुकृष्टमुत्तरत्र् नानुवर्त्तते' (व्या.प.76) इति प्रायिकमेतत्। कथं ज्ञायते? `एकाजुत्तरपदे णः' (8.4.12) इत्यत्र `णः' इति प्रकृते पुनर्णग्रहणम्, `वा भावकरणयोः' (8.4.10) इत्यत्र `वा' इति यदनुवृत्तं तन्निवृत्त्य्र्थ कृतम्। यदि चेदं प्रायिकं न स्यात्, पुनर्णग्रहणमनर्थम्; पूर्वसूत्रे चानुकृष्टत्वादेव हि वाग्रहणस्यानुवृत्तिर्न भविष्यतीति किं पुनर्णग्रहणेन? कृतञ्च, ततोऽवसीयते--चानुकृष्टपरिभाषाऽनित्येति।
`शाकटायनस्यापि लोपो यथा स्यात्' इति। अपिशब्दाच्छाकल्यस्यापि। असति तु सर्वग्रहणे प्रत्यासन्नस्य गार्ग्यस्य मतेन लोप एव विज्ञायेत।।
23. मोऽनुस्वारः। (8.3.23)
पदस्येति स्थानषष्ठी, तच्च पदं मकारेण विशेष्यते, विशेषणेन त तदन्तविधिर्भवतीति मकारान्तपदस्यानुस्वारो विधीयमानोऽलोऽत्यपरिभाषया (1.1.52) मकारस्यैव विज्ञायते, इत्याह--`मकारान्तस्य पदस्य'[`मकारस्य पदान्तस्य'--काशिका, पदमञ्जरी च] पदस्य' इति।।
24. नश्चापदान्तस्य झलि। (8.3.24)
`हलि' इति निवृत्तम्, झल्ग्रहणात्। चकारो मकारानुकर्षणार्थः। असति हि तस्मिन्निकारस्यापदान्तस्य कार्यिण इह ग्रहणान्मकारो निवृत्त इत्याशङ्का स्यात्। `पयांसि' इति। `जश्शसोः शिः' (7.1.20), `नपुंसकस्य झलचः' (7.1.72) इति नुम्, `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः। `आक्रंस्यते' इति। आङ्पूर्वात् क्रमेर्लृट्, `आङ् उद्यमने' (1.3.40) इत्यात्मनेपदम्। `आचिक्रंसते' इति। `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदम्। एवं `अथिजिगांसते' इत्यत्रापि। इङः सनि `इङश्च' (2.4.48) इति गमिरादेशः; `अज्झनगमां सनि' (6.4.16) इति दीर्घः; द्विर्वचनम्, अभ्यासकार्यम्।
`राजन्' इति। राजतेः शत्रान्तात् सम्बुद्धिः, तस्या हल्ङ्यादिना (6.1.68) लोपः।।
25. मो राजि समः क्वौ। (8.3.25)
`सम्राट्' इति। सम्पूर्वाद्राजतेः `सत्सूद्विव' (3.2.61) इत्यादिना क्विप्, व्रश्चादिना (8.2.36) षत्वम्, षकारस्य जशत्वम्--डकारः, तस्य चर्त्वम्--टकारः। `साभ्राज्यम्' इति। ब्राह्यणादित्वत् व्यञ्।
किमर्थं पुनर्मकार उच्चार्यते? इत्याह--`मकारस्य मकारवचनम्' इत्यादि। `मोऽनुस्वारः' (8.2.23) इत्यनुस्वारः प्राप्नोति, स मा भूदित्येवमर्थं मकारस्य मकारो विधीयते। यद्येवम्, नेति प्रतिषेधः कर्त्तव्यः, एवं हि लघु सूत्रं भवति; विभक्त्यनुच्चारणात्? एवं तर्हि निर्देशाधिक्येन तु मकारविधानेनैतत् सूचयति--अत्र प्रकरणेऽधिको हि विधिर्भवतीति। यवलपरे यवला वा भवन्तीत्युपपन्नं भवति। `संयत्' इति। यमेः सम्पूर्वात् क्विप्, `अनुदात्तोपदेश' (6.4.37) इत्यादिना मकारलोपः, अकारस्य `ह्रस्वस्य पिति कृति' (6.1.71) इति तुक्।।
26. हे मपरे वा। (8.3.26)
मः परो यस्मादिति बहुव्रीहिः। `किम् ह्यलयति' इति। `ह्वल ह्यल चलने' (धा.पा.805,806), `ज्वलह्वलह्यलनमामनुपसर्गाद्वा' (ग.सू.धा.पा.817 इत्यस्यानन्तरम्) इति वा मित्संज्ञा, `मितां ह्रस्वः' (6.4.92) इति ह्रस्वः।
`यवलपरे' इत्यादि। यवलाः परे यतः स यवलपरस्तस्मिन् हे मकारस्य वा यवला भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वं विहितमेव। यवलाश्चैते भवन्त आन्तरतम्यात् सानुनासिका एव भवन्ति। वावचनात् पक्षेऽनुस्वारो भवत्येव। अथ `हे भः' इत्येव कस्मान्नोक्तम्; एवं हि परग्रहणं न कर्त्तव्यं भवति, सप्तम्यैव हि तदर्थं प्रतिपादयिष्यते--मकारे परतो योऽकार इति? नैतदस्ति; `हे मः' इत्युच्यमाने विपर्ययोऽपि विज्ञायेत--हकारपरे मकार इति, ततश्च किमह्न इत्यादावेव स्यात्। अकारेण व्यवधानान्न भविष्यतीति चेत्? न; `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्' (व्या.प.46) इत्येकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेनेति। आद्यपक्षे किम् ह्यलयतीत्यादिषु कृतार्थं वचनम्, अतो न शक्यं व्यवधानमाश्रयितुमिति चेत्? न; येन हकारपदे मकार इत्येष सूत्रार्थो गृहीतः, तं प्रति पक्षान्तरस्यासम्भवात्। तस्मात् परग्रहणमेव कर्त्व्यं विपर्ययप्रतीतिर्मा भूदित्येवमर्थम्।।
27. नपरे नः। (8.3.27)
नः परो यस्मादिति बहुव्रीहिः। परग्रहणं नकारपरे यथा स्यादित्येवमर्थम्, अन्यथा हि `ने नः' इत्युच्य माने नकार एव केवले परतो विज्ञायेत, न इति निमित्तान्तरोपादनाद् हे इत्यस्य निवृत्तिः? नैतदस्ति; एवं हि वचनमिदमनर्थकं स्यात्। कृते ह्यनुत्त्वारे नकारे परतः `अनुस्वारस्य ययि परसवर्णः' (8.4.58) इत्यनेन नकारः सिध्यति? सत्यम्; विकल्पार्थमेतत्। अत्र हि यदानेन नकारो न क्रियते, तदा वचनसामर्थ्यात् परसवर्णो न भवतीति विकल्पः सिध्यति। तस्मात् परग्रहण कर्त्व्यम्--नपरे हकारे यथा स्यात्, केवले मा भूदिति। `किन् ह्नुते' इति। `ह्नुङ् अपनयने'; (धा.पा.1082), अदादित्वाच्छपो लुक्।
इह केचिच्चोदयन्ति--न इति प्रतिषेधः कस्मान्न विज्ञायत इति? एतच्चायुक्तम्; सविसर्गस्य पाठात् प्रतिषेधवाचिनश्च नकारस्य विसर्गानुपपत्तेः। अथाप्यविसर्गः पठ्यते? एवमप्ययुक्ता प्रतिषेधाशङ्का; प्राप्त्यभावात्।।
28. ङ्णोः कुक्टुक् शरि। (8.3.28)
ङश्च णश्च तौ ङ्णौ, कश्च टश्च कटौ, तयोरुकारककाराभ्यां प्रत्येकमभिसम्बन्धः--कुक्ट्गिति। उकार उच्चारणार्थः, ककारो देशविध्यर्थः। `प्राङ्क् छेते' इति। प्राङिति `क्विन्प्रत्ययस्य कुः' (8.2.62) इत्यत्र व्युत्पादितम्। वण्ट् छेते' इति। वणतेर्विच्।
किमर्थं पुनः पूर्वान्तादेतौ क्रियेते? इत्याह--`पूर्वान्तकरणम्' इत्यादि। किं पुनः कारणं पूर्वान्तत्वे च्छत्वं भवति, न पुनः परादित्वे? इत्यत आह--`शश्छोऽटि' इत्यादि। किमर्थं पुनरेतद्धि `विज्ञायते? [वलिज्ञायेत'--का.मु.पाठः] इत्यत आह--`इह' इत्यादि। यदि पदान्ताज्झय (8.2.10) इत्येवं तत्र न क्रियेत, तदा विरप्शिन्नित्यत्र च्छत्वं विज्ञायेत, एवञ्च विज्ञायमाने न भवति, न ह्यत्र पदान्ते झय्। `विरिष्शिन्' इति। विपूर्वाद्रपेः `लृटः सद्वा' [`लटः'--प्रा.मु.पाठः] (3.3.14) इति शत्रादेशाः, `व्यत्ययो बहुलम्' (3.1.85) इति स्यप्रत्ययस्य सकारस्य शकारः, यकारस्य चेकारः। `प्राङक् सायः' इति। अत्र परादित्वे सति `इण्कोः' (8.3.57), `आदेशप्रत्यययोः' (8.3.59) इति प्राप्तस्य षत्वस्य `सात्पदाद्योः' (8.3.112) इति प्रतिषेधो न स्यात्; अपदादित्वात्। `वण्ट् सायः' इति। अत्रापि `ष्टुना ष्टुः' (8.4.41) इति प्राप्तस्य ष्टुत्वस्य `न पदान्ताट्टोरनाम' (8.4.42) इति प्रतिषेधो न स्यात्; अपदान्तत्वात्। तस्मात् प्राङक्छेत इत्यादौ छत्वादिसिध्यर्थ पूर्वान्तकरणम्।।
29. डः सि धुद्। (8.3.29)
`उभयनिर्देशे पञ्चमीनिर्देशो बलीयाम्' (शाक.प.97) इति `ङः' इति पञ्चम्या `सि' इत्यस्याः सप्तम्याः षष्ठ्यां परिकल्पितायां शकारस्यैव धुडविधीयते, इत्याह--`डकारान्तात्' इत्यादि। यद्येवम्, सप्तमीनिर्देशः किमर्शः? लाघवार्थः। `ङः सो धुट्' इत्युच्यमाने माधाधिक्याट् गौरवं स्यात्। अथ `यस्मिन् विधिस्तदादावल्ग्रहणे' (व्या.प.127) इत्येवमर्थः सप्तमीनिर्देशः कस्मान्न विज्ञायते? केवलस्य सकारस्याभावादेव तत्सिद्धेः, पद इत्यधिकाराच्छ। श्वलिटत्याय इत्यत्र धुटि कृते धकारस्य चर्त्वम्--तकारः।
प्रक्रियालाघवार्थं तु तुटि वक्तव्ये धुङ्वचनमुत्तरार्थम्--`नश्च' (8.3.30) इत्यत्र धुडयथा स्यात्, तुण्मा भूदिति। यदि हि स्यात्, तर्हि किम्? भवान्त्साय इत्यत्र `नश्छव्यप्रशान' (8.3.7) इति रुः प्रसज्येत? नैतदस्ति; अम्पर इत्यत्रानवर्त्तते, न चेहाम्परस्तकारोऽस्ति। अथथेहापि भूतपूर्वेणोकारेणाम्परः स्यात्? एवमप्यसिद्धत्वात् तुटो रुत्वं न भविष्यति। तस्मात्तुडेव वक्तव्यः। एवं तर्हि वैचित्र्यार्थ धुडवचनम्।
अथ किमर्थं धुट् पराधिः क्रियते, न द्युगेव पूर्वान्तः क्रियेत, एवं हि `शि तुक्' (8.4.31) इत्यत्र तुग्ग्रहणं न कर्त्तव्यं भवति, धुगेव हि तत्रानुवर्त्तिष्यते? इत्यत आह--`परादिकरणम्' इत्यादि। यदि पूर्वान्तः क्रियेत, श्वलिट्त्साय इत्यत्र धुकः ष्टुत्वं स्यात्। परादिकरणे तु टकारस्य पदान्तत्वं न विहितमिति `न पदान्ताट्टोरनम्' (8.4.42) इति प्रतिषेधः सिध्यति। तदर्थं परादिकरणम्।।
30. नश्च। (8.3.30)
चकारो धुडित्यनुकर्षणार्थः। ननु च स्वरितत्वादेवानुवर्त्तिष्यते, न चोत्तरत्रानुवर्त्तिष्यते, आगमान्तरस्योपादानात्, अस्वरितत्वाद्वा? सत्यमेतत्; प्रतिपत्तिगौरवं तु मन्दधियां स्यात्। अथ भवान्त्साय इत्यत्र धुटश्चात्वे कृते `नश्छव्यप्रशान्' (8.3.7) इति रुः कस्मान्न भवति? इत्याह--`धुटश्चर्त्वस्य चासिद्धत्वात्' इत्यादि। यदि केवलस्य चत्वेस्य धुटो वासिद्धत्वं स्यात्, तथापि रुत्वप्राप्तेरसम्भव एव, किं पुनरुभयोरसिद्धत्वे सतीति रुत्वप्राप्तेरत्यन्तासभ्भवं दर्शयितुमुभयोर्ग्रहणम्। क्वचित् `घुटश्चर्त्वस्यासिद्धत्वात्' इति पाठः। तत्राप्ययमर्थो वेदितव्यः--विनापि हि चकारेण तदर्थो गम्यते, यताहरहर्नयमानो वैवस्थतो गामश्वं पुरुषं पशुमित्यादौ वाक्ये। अथ वा--अस्मि पाठे धुटो यच्चार्त्वं तस्यासिद्धत्वादित्यर्थः। ननु धुडप्यसिद्ध एव, तत् कुतश्चर्त्वस्यासिद्धावमुच्यते? पुनर्धुटोऽपि? नैतत्; सत्यपि धुटि विना चर्त्वेन रुत्वप्रप्तिरेव नास्ति। ततो यस्मिन् सति रुत्वमादाङक्यते, तस्यासिद्धत्वं युक्तनुक्तमिति भावः। कथं पुनः सत्यपि चर्त्वस्यासिद्धत्वे रुत्वमाक्षङ्कितम्, यावताऽम्परे छवि तदुच्यते, न चेहाम्परत्वमस्ति? भूतपूर्वेणोकारेणाम्परत्वमस्तीति युगतमाशङकितम्। ननु च साम्प्रतिकाभावे भूतपूर्वगतिर्भवति, अस्ति साम्प्रतिकत्वमन्यत्राम्परत्वं रुत्वस्य? सत्यमेतत्; अध्यारोप्यैवमुक्तम्; एवं मन्यते--भवतु नाम, भूतपूर्वेणोकारेणाम्परत्वं प्रसज्यत इत्याह--`धुटश्मर्त्वस्यासिद्धत्वात्' इति।।
31. शि तुक्। (8.3.31)
`शि' इति सप्तम्यकृतार्था `नः' इति पूर्वसूत्रे कृतार्थायाः पञ्चम्याः षष्ठीत्वं प्रकल्पयति; `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति वचनात्, तेन नकर एवागमी विज्ञायत इत्याह--`नकारान्तस्य' इत्यादि।
अथ किमर्थं तुक् पूर्वान्तः क्रियते, न प्रकृतो धुडेव परादिः क्रियेत; तथापि चर्त्वेन सिध्यति? इत्यत आह--`पूर्वान्तकरणम्' इत्यादि। पूर्वान्तः=पूर्वस्यान्तः, स पुनः प्रकरणात् तुग्विज्ञायते, तल्प करणम्=विधानम्, छत्वं यथा स्यादित्येवमर्थम्। यदि प्रकृतो धुडेव विधीयेत, `शश्छोऽटि' (8.4.63) इति च्छत्वं न स्यात्। तत्र च कारणं पूर्वमेवोक्तम्। `यद्येवम्' इत्यादि। यदि पूर्वान्तस्तुक् क्रियते, कुर्वञ्चेते--इत्यत्र तुका पदान्तताया रहितत्वात् नकारस्य `अट्कुष्वाङ्' (8.4.2) इत्यनेन णत्वं प्राप्नोति, परादित्वे त्वेष दोषो न भवति; `पदान्तस्य' (8.4.37) इति णत्वपरतिषेधादिति भावः। `तत्र' इत्यादिना `न भाभूपूकमिगमि' (8.4.34) इत्यादेः सूत्रान्नेति वर्त्तमाने `स्तोः श्चुना श्चः' (8.4.40) इति योगविभागः क्रियते, तेन चवर्गयोगे कुर्वञ्चेते--इत्यत्र णत्वं न भवत्येव। ननु च क्रियमाणेऽपि योगदिभागे णत्वं प्राप्नोत्येव, यस्मादिह चवर्गयोगो नास्त्येव, तुकः श्चुत्वस्यासिद्धत्वात्? योगविभागकरणसामर्थ्यात् श्चुत्वस्यासिद्धत्वेऽपि णत्वप्रतिषेधो भविष्यतीत्यदोषः।।
32. ङमो ह्वस्वादचि ङमुण्नित्यम्। (8.3.32)
`इमः' इति, `ङमुट' इति उभयमपि प्रत्याहारग्रहणम्। उडिति प्रत्येकं ङकारादिभिः सम्बध्यते। `ह्रस्वात्' इत्येतन्ङमो विशेषणम्, ह्रस्वविशेषितोऽपि ङम् पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीति तदन्तात् पदादिति विज्ञायते। यद्यपि पदस्येति षष्ठ्यन्तं प्रकृतम्, तथापि तदिहार्थात् पञ्चम्यन्ततया विपरिणम्यते--`उभयनिर्देशे पञ्चमोनिर्देशो बलीयान्' (शाक.प.97) इति। `ङमः' इति पञ्चम्या `अचि' इति सप्तम्याः षष्ठ्यां परिकल्पितायामच एवागमित्वं प्रतिपद्यते। सप्तमीनिर्देशस्तु लाघवार्थः; उत्तरार्थश्चेत्येतत्सर्वं चेतसि कृत्वाऽह--`ह्वस्वात् परो यो ङम्, तदन्तात्' इति। संख्यातानुदेशो हीह वेदितव्यः; आगमिनामागमानाञ्च समानत्वात्। `प्रत्यङ्ङास्ते' इति। `आस उपवेशने' (धा.पा.1021), अदादित्वाच्छपो लुक्। `कृवन्नास्ते' इति। `कृष विलेखने' (धा.पा.990) लौदादिकः, शत्।
अथ परमदण्डिनोत्तमदण्डिनेति `सन्महत्' (2.1.61) इत्यादिना समासे कृते ङमन्तात् तृतीयैकवचने तस्य नुट् कस्मान्न भवति; अत्र हि `यचि भम्' (1.4.18) इति भत्वेऽपि समासस्य ह्रस्वादिकारात् परो ङम् नकारः, तदन्ताद्दण्डिनेत्यस्माद्या विभक्तिस्तस्यां लुप्तायामपि प्रत्ययलक्षणेन (1.1.62) लब्धपदसंज्ञत्वात् तृतीयैकवचनमच्परं भवतीत्यस्ति ङमुट्प्राप्तिः? इत्याह--`परमदण्डिना' त्यादि। उत्तरपदत्वे उत्तरपदव्यपदेशे कर्त्तव्ये सत्यपदादिविधौ पदाविधिधेरन्यत्र प्रत्ययलक्षणं न भवतीति वाक्यार्थः। असति प्रत्ययलक्षणे दण्डिनेत्यस्य पदसंज्ञा न भवति। ततश्च पदान्तादुत्तरस्योच्यमानो ङमुडागमो न भवति।
एवं तावत् कात्यायनमतेन परीहार उक्तः। यस्तु सूत्रकारमतेन, तं दर्शयितुमाह--`अथ वा' इत्यादि। पद इत्यनुवृत्ती सत्यामचा पदे विशेष्यमाणे `यस्मिन् विधिस्तदादावल्ग्रहणे' (वा.14) इत्यनेनाजादौ पदे कार्येण भवितव्यम्, न चात्राजादि पदमस्ति, तत्कुतो नुट्प्रसङ्गः।
अथ नित्यग्रहणं किमर्थम्, यावतोत्तरसूत्रे (8.3.33) वाग्रहणादेव नित्यो विधिर्विज्ञास्यते? सत्यमेतत्; पूर्वसूत्रेऽपि (8.3.31) नित्यत्वं विज्ञायेत। तस्मात् पूर्वसूत्रेषु `हे मपरे वा' (8.3.26) इत्यतो `वा' इत्नुवर्त्तत इति ज्ञापनार्थं नित्यग्रहणम्।।
33. मय उञो वो वा। (8.3.33)
`मयः' इति प्रत्याहारस्य ग्रहणम्, न तु अय वय `मय' इति धातोः। कुत एतत्? व्याप्तिन्यायात्। किमर्थमिदमुच्यते, यावता `इको यणचि' (6.1.77) इत्युञो वकारः सिद्ध एव, विकल्पार्थमिति चेत्? स्यादेतत्--यदि `इको यणचि' इति नित्यं स्यात्, तस्माद्विकल्पार्थं वचनमिति? एतच्च न; `पदान्ताद्वा' (6.1.76) इत्यतो वेत्यनुवर्त्तिष्यते, सा च व्यवस्थितविभाषा विज्ञायते। तेनोञो विकल्पेन यन्मवतीत्याह--`प्रगृह्यत्वात्' इत्यादि। प्रगृह्यत्वं पुनः `उञः' (1.1.17) इति प्रगृह्यसंज्ञाविधानात्। तस्मिन् सति `प्लुतप्रगृह्य अचि' (6.1.125) इति प्रकृतिभावः प्राप्नोति, तस्मिन् प्राप्ते वकारो विधीयते। एवमपि `इको यणचि' इत्यस्यानन्तरमुञो यण् वकारो विधेयः? एवं हि व इति न कर्त्तव्यं भवति; यणः प्रकृतत्वात्। वेति वचनं न कर्त्तव्यं भवति; `पदान्ताद्वा' (6.1.76) इत्यतो वाग्रहणं मण्डूकप्लुत्याऽनुवर्त्तते? इत्याह--`असिद्धत्वात्' इत्यादि। तत्र ह्युच्यमाने वकारस्य [नास्ति--का.मु.पाठे] सिद्धत्वाद्धलि विधीयनानोऽनुस्वारः स्यात्, न चेष्यते, तस्मादिहैव क्रियते। इह क्रिममाणो मोऽनुस्वारो न भवति, वत्वस्यासिद्धत्वात्।।
34. विसर्जनीयस्य सः। (8.3.34)
`खरोत्यनुवर्त्तते' इति। खरवसानयोर्विसर्जनीयः' (8.3.15) इत्यतः अनुवृत्तिश्च मण्डूकपलतिन्यायेन, स्वसम्बन्धानुवृत्त्या वा वेदितव्यः; अन्यथा पूर्वसूत्रेऽपि (8.3.33) खरि कार्यं विज्ञायेत।।
35. शर्परे विसर्जनीयः। (8.3.35)
शर् परो यस्मादिति वहुव्रीहिः। अथ परग्रहणं किमर्थम्, न शरीत्येवोच्येत? अशक्यमेवं वक्तुम्, एवं ह्युच्यमाने शर एव केवलं निमित्तभावो विज्ञायेत, न खरीत्यनुवृत्तेः `वा शरि' (8.3.36) इति विधानाच्च। विपर्ययस्तर्हि विज्ञार्येत--शरीति, तथा च नित्यः स्फोटः, पुरुषः स्थूल इत्यादादेव स्यात्, वासः क्षीममित्यादौ तु न स्यात्? तस्माद्विपर्ययो मा विज्ञायीत्येवमर्थं परग्रहणम्।
अथ किमर्थं विसर्जनीय इत्युच्यते, नेत्येवोच्येत, सकारस हि प्रतिषेधे कृते विसर्जनीयः स्वेनैव रूपेणावस्थास्यते? इत्याह--`विमर्जनीयस्य' इत्यादि। तस्य विसर्जनीयसय विकारो जिह्वामूलीयादिः, तन्निवृत्त्यर्थ विसर्जनीयग्रहणम्; अन्यथा यदि नेत्येवोच्येत, ततः `अनन्तरस्य विधिर्वा भवति प्रतिषेदो वा' (व्या.प.29) इति सकारस्यैव विज्ञायेत। ततश्च जिह्वामूलीयादिर्विसर्जनीयस्य विकारः स्यादेव। विसर्जनीयग्रहणे तु तत्सामर्थ्यादेव न भवति।।
36. वा शरि। (8.3.36)
37. कुष्वोः क पौ च। (8.3.37)
`विसर्जनीयश्च' इति। अनेन विसर्जनीयानुकर्षणार्थश्चकार इति दर्शयति। अथ वाग्रहणमनुवच्यं जिह्वामूलीयोपध्मानीयौ कस्मान्न विकल्प्येते, एवञ्च विसर्जनीयानुकर्षणार्थश्चकारो न कर्त्तव्यो भवति; आभ्यां हि मुक्ते पक्षे विसर्जनीय एव भविष्यति? नैवम्; शपंरयोरेव हि कुप्वोरेवं स्यात्। अशर्परयोस्तु पक्षे `विसर्जनीयस्य सः' (8.3.34) इति सकारः प्रतज्येत। तस्माच्चकारः कर्त्तव्यः। इह ककारपकारयोर्जिह्वामूलोयोपष्मानोययोः सूत्र उच्चारणात् तथाभूतावादेशो विसर्जैनीयस्य विज्ञायेते? इति कस्याचिवाशङ्का स्यात्, अतस्तां निराकर्त्तुमाह--`ककारपकारावुच्चारणार्थो' इति। आभ्यां विना तयोरुच्चारयितुमशक्यत्वादिति भावः। कीदृशौ तावादेशौ? इत्यत आह--`जिह्वामूलीयोपध्मानीयावेव त्वादेशौ' इति। तुशब्द आशङ्किताभ्यां समुदायरूपाभ्यामादेशाभ्यां विशेषं द्योतयति। एवकारोऽवधारणार्थः। जिह्वामूलीयोपध्मानीयावेव केवलौ। न तु समुदायरूपावित्यर्थः।
इह सर्वस्य विषयस्य विध्यन्तरेणावष्टब्धत्वात् `कुप्वोः क पौ च' (8.4.37) इत्यस्यानवकाशत्वम्, अतो यथा वृक्षः करोतीत्यादौ `विसर्जनीयस्य सः' (8.3.34) इतीमं विधिं बाधित्वः `कुप्वोः क पौ च' इति प्रवर्त्तते, तथा वासः क्षौमम्, अद्भिः प्सातमित्यादौ `शर्परे' (8.3.35) इतीममपि विधिं कस्मान्न बाधते? इति यो देशयेत् तं प्रत्याह--`विसर्जनीयस्य' इत्यादि। `शर्परे विसर्जनीयः' (8.3.35) इत्येतस्मिन् प्राप्ते चाप्राप्ते चेदमारभ्यते। वाशः क्षौमम्, अद्भिः प्सातमित्यादौ प्राप्ते; वृक्ष करोति वृक्ष पचतीत्यत्राप्राप्ते। `विसर्जनीयस्य सः' (8.3.34) इत्येतस्मिंस्तु सर्वत्र प्राप्ते। एवं तस्य विशेषणं खर्मात्रे विधानात् स्यात्, तस्यैवेदं बाधकम्; नेतरस्य विधेः; तं प्रति बाधकलक्षणस्यायोगात्। स्यादेतत्--शर्परे विसर्जनीयस्य कवर्गपवर्गाभ्यामन्यः शर्परः खरवकाशः, `कुप्वोः क पौ च' (8.3.37) इत्यस्याशर्परौ कवर्गपवर्गौ--वासः क्षौमम्, अद्भिः प्सतमित्यत्रोभयं प्राप्नोति, तत्र `विप्रतिषेधे परं कायम्' (1.4.2) इति विसर्जनीयं बाधित्वा जिह्वामूलीयोपध्मानीयाभ्यां भवितुं युक्तम्? इत्याह--`पूर्वत्रासिद्धे' इत्यादि। अत्रैवोपपत्तिमाह--`अभावादुत्तरस्य' इति। द्वयोस्तुल्यबलयोर्युगपदेकत्र प्राप्तौ विरोधो भवति, नचात्र युगयत् प्राप्तिरस्ति; पूर्वस्मिन् कर्त्तव्ये सत्यसिद्धत्वादुत्तरस्याविद्यमानत्वात्। इतिकरणो हेतौ। यस्मात् पूर्वत्रासिद्धीये नास्ति विप्रतिषेधः, तस्माद्वासः क्षौमम्, अद्भिः प्सातमित्यत्र `शर्परे विसर्जनीयः' (8.3.35) इत्येतदेव भवति, न जिह्वामूलीयोपध्मानीयाविति।
`केचित्' इत्यादि। वासः क्षौमम्; अद्भिः प्सातमित्यत्र विसर्जनीयो यथा स्यादित्येवमर्थ `कुप्वोः क पौ च' इत्यत्र योगविभाघं कुर्वन्ति--`कुप्वोः' योगः, ` क पौ' इति द्वितीयः। तत्र पूर्वस्मिन् योगे `शर्परे विसर्जनीयः' (8.3.35) इत्येतदनुवर्त्तते। तेन शर्परयोः कुप्वोर्विसर्जनीय एव भवति, न जिह्वामूलीयोपध्मानीयाविति।।
38. सोऽपदादौ। (8.3.38)
पूर्वस्यायमपवादः। `अपदादौ' इति। सुब्ब्यत्ययेन द्विर्वचनस्य स्थान एकवचनम्; अन्यथा ह्यपदादित्वं कुप्वोर्विशेषणमिति नोपपद्यते। द्वित्वे सत्यपदाद्योरिति कुर्यात्। `पाशकल्पककाम्येषु' इति सम्भवदर्शनम्, न परिगणनम्; व्यवच्छेद्याभावात्। `पयस्पाशम्' इति। `याप्ये पाशप्' (5.3.47)। `पयस्कल्पम्' इति। `ईषदसमाप्तौ कल्पप्' (5.3.37) इत्यादिना कलपप। `पयस्कम्' इति। अज्ञातं पयः--`अज्ञाते' (5.3.73) इति कः। `पयस्काम्यति' इति। `सुप आत्मनः क्यच्' (3.1.8), `काम्यच्च' (3.1.9) इति काम्यच्। `पय कामयते' इति। `कमेर्णिङ्' (3.1.30)। `पय विबति' इति। `पा पाने' (धा.पा.925) पाघ्रादि (7.3.78) सूत्रेण पिबादेशः।
`सोऽपदादावनव्ययस्येति वक्तव्यमम्' इति। `सोऽपदादौ' इत्यस्मिन् सूत्रेऽनव्ययविसर्जनीयस्य सकारादेशो भवतीत्येतदर्थरूप् व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्--`वा शरि' (8.3.36) इत्यतो वाग्रहमनृवर्त्तते, सा च व्यवस्थितविभाषा; तेनानव्ययस्यैव भविष्यतीति, नाव्ययस्य।
`रोः काम्ये नियमार्थम्' इति। एतद् ग्रहणकवाक्याम्। `रोरेव' इति। अस्यैव विवरणम्। वक्तव्यशब्धस्यात्रापि स एवार्थः। व्याख्यानं पूर्वपदेव कर्त्तव्यम्। `रोः' इति विसर्जनीयाक्षया स्थानषष्ठी। रोर्यो विसर्जनीयस्तस्येत्यर्थः।
`उजब्जिरुपध्मानीयोपधः पठ्यते' इति। इह केषाञ्चिद्दर्शनमिदम्--`उबज आर्जवे' (धा.पा.1303) इति, उपध्मानीयस्य त्वश्रवणम्; कृतजश्त्वनिर्देशात्। अन्येषां तु दर्शनम् `उद्ज आर्जवे' ति। तत्राद्यपक्ष डब्जेः `हलश्च' (3.3.121) ति घञि `चजोः कु घिण्णयतोः' (7.3.52) इति कुत्वे उपध्मानीयस्य `झलां जश् झशि' (8.4.53) इति बकारे अभ्युब्गः, समुबग इत्यनिष्टं रूपं न्यात्। तस्मादुपध्यामीयस्य कवर्गे परतः सकारो वक्तव्यः; सकारे ह्युपध्मानोयस्य कृते तस्य जश्त्वेन दकारः, एवमभ्पुद्गः समुद्गः--इतीष्टं सिध्यति। द्विर्वचनप्रतिनेधोऽप्युपध्मानीयस्य वक्तव्य एव; अन्यथा एव; अन्यथा ह्युब्जिजिषतीत्यत्र `अजादेर्द्वितीयस्य' (6.1.2) इत्युपध्मानीयस्य द्विर्वचनं प्रसज्येत। इतरस्मिस्तु दर्शने--असिद्धकाण्डे भ उब्जेर्वक्तदव्यः, अन्यथोब्जिजिषति, उब्जितेत्यादि न सिध्येत्। तथा चोक्तम्--`असिद्धे भ उब्जेः' इति। असिद्धवचनमसिद्धत्वाद्भकारस्य। उब्जिजिषतीत्यत्र `न न्द्राः संयोगादयः' (6.1.3) इति द्वितीयस्यैकाचो द्विर्वचनप्रतिषेधो यथा स्यात्। तर्ह्ययं भकारो वक्तव्यः? न वक्तव्यः; निपातनेन सिद्धत्वात्। किं पुनर्निपातनम्? `भुजन्युज्जौ पाच्युपतापयोः' (7.3.61) इति। अत्र हि तर्हि प्राप्नोति--अभ्युद्गः, समुदग इति? अकुत्वविषये निपातनमित्यदोषः।
39. इणः षः। (8.3.39)
पूर्वेण सकारे प्राप्ते तदपवादः षकारो विधीयते। `सर्पिस्तत्र'[`सर्पिस्ते'--काशिका] इति। `विसर्जनीयस्य सः' (8.2.34) इति स एव भवति।
इतः प्रभृति यदि षकार एवानुवर्त्तते, न सकारोऽपि; तदा `नमस्पुरसोर्गत्योः' (8.3.40), `अतः कृकमिकंस' (8.3.46) इत्यादौ सकारग्रहणं कर्त्व्यम्। क्रियमाणेऽपि यदि षकारस्तन्नानुवर्तते, तदा सोऽपि, प्राप्नोति सङ्करः। अथेतः परभृति यदि सकार एवानुवर्त्तते, न षकारोऽपि, तदा `इदुदुपधसय चाप्रत्ययस्य' (8.3.41), `द्विस्त्रिश्चतुरिति कृत्वोऽर्थे' (8.3.43), `इसुसोः सामर्थ्ये' (8.3.44), `नित्यं समासेऽनुत्तरपदस्थस्य' (8.3.45) इत्येतेषु योगेषु षकारग्रहणं कर्त्व्यम्। क्रियमाणेऽपि तस्मिन् यदि सकारोऽप्यनुवर्त्तते, तदा सोऽपि प्राप्नोति, एषोऽपि सङ्करः प्रसज्येत? इत्याह--`उत्तरम्' इत्यादि। एतेन सकारषकारयोः करणं यद्देशितं तन्निरस्तम्। यस्तु सङ्करदोषो दर्शितः, तस्याप्यपाकरणमाह--`तत्र' इत्यादि। कथं पुनरुभयोरुत्तरत्र सममनुवृत्तौ सत्यामेष विषयविभागो लभ्यते? मण्डूकपलुतिन्यायेनानुवर्त्तमानत्वात्।।
40. नमस्पुरसोर्गत्योः। (8.3.40)
`अपदादौ' (8.3.38) इति निवृत्त्म्। नमःशब्दस्य `साक्षात्प्रभृतीनि च' (1.4.74) इति गतिसंज्ञा, पुरःशब्दस्य तु `पुरोऽव्ययम्' (1.4.67) इत्यनेन।
`पूः पुरौ, पुरः करोति' इति। `पृ पालनपूरणयोः' (धा.पा.1086), `भ्राजभ्रास' (3.2.177) इत्यादिना क्विप्, `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युत्त्वम्, रपरत्वम्, स्वादयः, हल्ङ्यादिलोपः (6.1.68), `र्वोरुपधाया दीर्घः' (8.2.76) इत्येकवचने दीर्घः। पूः, पुरावित्यत्रागतिसंज्ञकत्वात् पुराशब्दस्य सत्वं न भवति, तस्मिन्नसति विसर्जनीय एव स्यात्; पक्ष उपध्मानीयोऽपि। पुरः करोतीत्यत्रागतिसंज्ञकत्वात् सकारो न भवति, तस्मिन्नसति विसर्जनीय एव भवति, पक्षे जिह्वामूलीयोऽपि। नमःशब्दस्य तु नमःकृत्वेति प्रत्युदाहरणं वेदितव्यम्। वृत्तिकृता तु सुबोधत्वान्न दर्शितम्।।
41. इदुदुपधस्य चाप्रत्ययस्य। (8.3.41)
इच्च उच्च तौ इदुत्तौ। इकारोकारायुपधे यस्य स तथेक्तः। `निदुर्वहिः' इत्यादि। सम्भवदर्शनार्थमेतत्, न परिगणनम्; वयावर्त्त्याभावात्। `मातुः करोति, पितुः करोति' इति। अत्र यथा न भवति तथा वक्ष्यति। `पुंस्कामा, मुहुःकामा' इति। अत्रापि यथा न भवति तथा वक्ष्यति। `चतुष्कपालम्, चतुष्कष्टकम्' इति। चतुःशब्दस्य कपालकण्टकशब्दाभ्यां बहुव्रीहिः, समाहारे द्विगुर्वा। `अकारान्तोत्तरपदो [`पदद्विगुः'--प्रा.मु.पाठे] द्विगुः स्त्रियां भाष्यते' (वा.156) इति स्त्रीलिङ्गता न भवति; `पात्रादीनां प्रतिषेधः' (वा.159) इति वचनात्। `मातुः करोति, पितुः करोति' इति देश्यम्। मातुपितृशब्दाभ्यां षष्ठ्येकवचनम्; `ऋत उत्' (6.1.111) इत्युत्त्वमेकादेशः, रपरत्वम्, `रात्सस्य' (8.2.24) इति सलोपः, रेफस्य विसर्जनीयः। स च रेफस्याप्रत्ययत्वात् प्रत्ययविसर्जनीयो न भवति, अतः षत्वं प्राप्नोति। तत्कस्मान्न भवति? इत्याह--`कस्कादिषु' इत्यादि। परोहारः। एकादेशश्चासो निमित्त् चेति कर्मधारयः। यद्येकादेशादिणो निमित्तभूतात् षत्वं स्यात्, कस्कादिषु भ्रातुष्पुत्रशब्दस्य ग्रहणं न कुर्यात्; अनेनैव सिद्धत्वात्, कृतं च, एतदेव ज्ञापयति--एकादेशनिमित्तात् षत्वं न भवतीति।
`पुम्मुहुसाः' इत्यादि। वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--उत्तर (8.3.42) सूत्रेऽन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतं विज्ञायेत। सा व्यवस्थितविभाषा, तेन पुंमुहुसोर्न भवति। अन्येषां तु नित्यमेव भविष्यति। पुमित्यस्य प्रहणं रुत्वादेशपक्षमाश्रित्य कृतम्। सकारादेशपक्षे हि विसर्जनीयाभावात् प्रतिषेधसर्जनीय' (8.3.34) इति सकारः। जिह्वामूलीयस्तु यथा न भवति तथा पूर्वमेव प्रतिपादितम्। `मुहुकामा' इति। षत्वे प्रतिषिद्धे जिह्वामूलीयो भवति। क्वचित् `मुहुस्कामा' इति। सकारः पठ्यते। तत्र यथा पुंस्कामेत्यत्र जिह्वामूलीयाभावः प्राक्प्रतपादितस्तथेहापि प्रतिपाद्यः। `नैष्कुस्यम्, दौष्पुरुध्यम्' इति ब्राह्मणादित्वात् ष्यञि कृते तन्निमित्तायां च वृद्धाविदुदुपधत्वाभावात् षत्वं न प्राप्नोति। `निश्ष्कुलम्, दुश्ष्पुरुषः' इत्यत्रापि `गुरोरनुतः' (8.2.86) इत्यादिना प्लुते विहिते नैव तत्प्राप्नोति, इदुदुपधत्वाभावादिति यो देशयेत्, तं प्रत्याह--`नैष्कुल्यम्' इत्यादि। वुद्धे स्तावद्वहिरङ्गत्वं तद्धितापेक्षत्वात्, तद्धितो भवाद्यर्थापेक्षत्वाद्वहिरङ्गः। तेन तदाश्रिताऽपि वृद्धिर्वहिरङ्गा भवति। प्लुतोऽपि दूरद्धूतावावर्थे वाक्यस्य विधीयमानत्वाद्विहिरङ्गः, षत्वं तु वर्णस्य पदसम्बान्धिनो दिधीयत इतयल्पापेक्षीत्यन्तरङ्गम्। तेनान्तरङ्गे षत्वे कर्त्तव्ये वृद्धिप्लुतयोर्थहिरङ्गयोरसिद्धत्वात् प्रदर्त्तत एव षत्वम्। [अयं भाहगः का.मु.पाठे नास्ति] तपरकरणमाशीः करोति, गोः करोति, धूः करोतीत्यत्र मा भूदित्येवमर्थम्।।[अयं भाहगः का.मु.पाठे नास्ति]
`इदुदुपधस्य' इत्यादिना द्विस्त्रिश्चतुरिति ग्रहणं प्रत्याचष्टे। एतद्धि एवमर्थं क्रियते--द्विरादीनामेव विसर्जनीयस्य षत्वं यथा स्यात्, पञ्चकृत्वः करोतीत्यत्र मा भूदिति। ननु च `इदुदुपश्रस्य' (8.3.41) इत्यस्मिन्ननुवर्त्तमाने कृत्वोऽर्थो विवयो यसय पदस्य तस्य यो विसर्जनीय इत्येवं कृत्वोऽर्थविषयेण पदेन विसर्जनीयो यदा विशेष्यते, तदान्यस्य न प्राप्नोति; द्विरादेरन्यस्येदुदुपधस्य कृत्वोऽर्थवृत्तेः पदस्यासम्भवात्। तस्मादन्तरेणापि द्विरादीनां ग्रहणम्, तेषामेव हि विसर्जनीयस्य षत्वं भविष्यति। द्विस्त्रिश्चतुरिति शक्यमकर्तुम्।
`कृत्वसुजर्थे षत्वं ब्रवीति कस्मात्' इति। अस्मिन् षत्वविक्लपविधाने हेतुं कृत्वोऽर्थवचनस्य पृच्छति। कस्मात् `कृत्वोऽर्थे' इत्येवमुक्त्वेमं षत्वविकल्पं ब्रवीति? किं तत् प्रयोजनं यतो हेतोरिह षत्वविकल्पविधौ कृत्वोऽर्थग्रहणं करोतीत्यर्थः। अत्र वक्ष्यमाण एवाभिप्रायः। अतो हेतुमाह--`चतुष्कपाले' इत्यादि। असति कृत्वोऽर्थग्रहणे चतुश्कपालेऽपि विभाषा षत्वं स्यात्, नित्यं चोष्यते। तस्मादत्र विभाषा षत्वं मा भूदित्येवमर्थं कृत्वोऽर्थ इत्युच्यते। येनाभिप्रायेण परं पृष्टवान्, तमाविष्कर्त्तुमाह--`ननु सिद्धं तत्र पूर्वेण' इति। नान्वित्यभ्युपगमे। एतदनेन दर्शयति--भवत्वनेन षत्वं विभाषा, तथापु पूर्वसूत्रेण नित्यं भविष्यति षत्वमस्य श्रवणम्; यस्माद्यदाप्यनेन षत्वं न भवति तदापि पूर्वसूत्रेण `इदुदुपधस्य चाप्रत्ययस्य' (8.3.41) इत्यनेन चतुष्कपाले सिद्धं षत्वमिति।
`सिद्धे ह्ययं विधत्ते' इति। सिद्धे प्राप्त इत्यर्थः। एतदाचष्टे--`इदुदुपधस्य' इत्यादिना नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विदधात। नाप्राप्ते तस्माद्येन नाप्राप्तिन्यायेन (व्या.प.49) तस्यायं बाधकः स्यादिति। तदनेन यदुक्तम्--`सिद्धं तत्र पूर्वेण' इति, तन्निराकृतम्। तस्माद्विभाषानिवृत्त्यर्थ कृत्वोऽर्थग्रहणम्। स्यादेतत्--कृत्वोऽर्थविवक्षायां सुचि कृते तस्य यदा विसर्जनीयः क्रियते तदा पूर्वेण न प्राप्नोति, अप्रत्ययस्येति (8.3.41) प्रतिषेधात्; तपश्च `सिद्धे ह्ययं विधत्ते' इति यत्तन्नोपपद्यते, तत्कुतो ह्यनेन विकल्पेन नित्यं षत्वं बाध्येत? इत्याह--`यदापि कृत्वोऽर्थे' इत्यादि। चतुःशब्दो वर्त्तत इति शेषः। अस्य च `सिद्धे ह्यं दिधत्ते चतुरः षत्वम्' इत्यनेन प्रकृतेन सम्बन्धः। अस्यार्थः--एतदुक्तं भवनि, न केवलं यदा कृत्वोऽर्थवृत्तिश्चतुःशब्दस्तदा पूर्वेण प्राप्ते सतीमं षत्वविकल्पं विधत्ते, अपि तु यदा कृत्वोऽर्थस्तदापीति। अत्रैवोपपत्तिमाह--`लुप्ते कृत्वोऽर्थोये' इत्यादि। इत्यादि। हिशब्दो हेतौ। कृत्वोऽर्थे भवः कृत्वो।़र्थीयः,क सुच, गहादित्वाच्छः। यस्मात् `रात्सस्य' (8.2.24) इति लुप्ते कृत्वोऽर्थीये रेफस्याप्रत्यस्य विसर्जनीयो भवति तस्मात् कृत्वोऽर्थेऽपि पूर्वेण नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विधतते। ततश्च सर्वेत्र कृत्वोऽर्थेऽप्यकृत्वोऽर्थेऽपि नाप्राते पूर्वेण षत्वे विकल्प आरभ्यत इति तस्य बाधक एव स्यात्। एवञ्चासति कृत्वोऽर्थग्रहणे चतुष्कपाले विभाषा षत्वं प्रसज्येत। तस्मात् तन्निवृत्त्यर्थं कृत्वोऽर्थग्रहणमिति [`इति' नास्ति--प्रा.मु.पाठः] स्थितमेतत्।
`एवम्' इत्यादि। यदि कृत्वोऽर्थग्रहणं क्रियते, एवं तर्हि तस्मिन् सति किमिदानीं द्विस्त्रिश्चतुरित्यनेन कार्यम्? न किञ्चित; व्यावर्त्त्यभावात्। तस्मान्न कर्त्तव्यमिदमित्त्येवाभिप्रायः।[मेदेत्यभिप्रायः--प्रा.मु.पाठः] स्यादेतत्--असत्यस्मिन् पञ्चकृत्वः करोतीत्यादावपि विभाषा षत्वं स्यात्, अतस्तन्निवृत्तिरनेन क्रियते इति? अत आह--`अन्यो हि' इत्यादि। `इदुदुपधस्य' (8.3.41) इत्यनुवर्त्तते, `कृत्वोऽर्थे' इति चोच्यते, न च द्विरादिभ्योऽन्य इदुदुपधः कृत्वोऽर्थे वर्त्तते; तस्मात् सामर्थ्यादेषामेव भविष्यति, नान्येषामित्यनर्थकं द्विरादीनां ग्रहणम्।
`अक्रियमाणे' इत्यादिना असति हि द्विरादिग्रहणे यो दोषस्तं दर्शयति। यदि द्विरादिग्रहणं न क्रियेत, तदा विसर्जनीयस्य प्रकृतस्वात्स एव कृत्वोऽर्थग्रहणेन विशेष्यते--कृत्वोऽर्थे यो वर्त्तते विसर्जनीय इति। कः पुनरेवं सति दोषः स्यात्? इत्यत आह--`चतुरो न सिध्यति' इति। `तथा' इति। तथैवं कृत्वोऽर्थग्रहणेन विसर्जनीये विशेष्यमाणे चतुःशब्दस्य विभाषा षत्वं न सिध्यति। किं कारणं न सिध्यति? इत्यत आह--`रेफस्य' इत्यादि। हिशब्दो हेतौ, यस्माच्चतुरः `रात्सस्य' (8.2.24) इति सुचः सकारे लुप्ते प्रकृत्यवयवस्य रेफस्य विसर्जनीयः, तस्मान्न सिध्यति। न ह्यसौ विसर्जनीयः कृत्वोऽर्थे वर्त्तते।
अथ क्रियमाणेऽपि तस्मिन् कस्मादेव दोवो न भवति? इत्यत आह--`तस्मान्' इत्यादि। तस्मिन् द्विस्त्रिश्चतुरित्येतस्मिंस्तूपादोयमाने कृत्वोर्थग्रहणं चतुःशदस्य विशेषणं न्यायं भवति। तथा हि--तस्य श्रुतत्वात् स एव विशेष्यते, कृत्वोऽर्थ यो वर्त्तते चतुःशब्द इति। लुप्तेऽपि कृत्वोऽर्थीये चतुःशब्दः कृत्वोऽर्थे वर्त्तत इति न भवति द्विरादिग्रहणे क्रियमाणेऽपि दोषः। तस्माद्द्विरादिग्रहणं कर्त्तव्यम्--कृत्वोऽर्थग्रहणं तस्य विशेषणं यथा स्यात्। एतदपि न भवति तस्य प्रयोजनमिति दर्शयन्नाह--`प्रकृतं पदं तदन्तम्' इति। तदन्तं विसर्जनीयान्तम्। अतः `तस्यापि तद्विशेषणं न्याय्यम्' उपपत्तिमाह--तदन्तत्वं तु पदस्य विसर्जनीयेन विशेष्यत्वाल्लभ्यते। अपिशब्दोऽवधारणे। तस्यैवेत्यर्थः। कुत एतत्? व्याप्तिन्यायात्। विसर्जनीये हि विशेष्यमाणे चतुरो न सिध्यति, पदे तु विशेष्यमाणे सर्वत्र भवति। तस्मात् तदेव विशेषयिष्यामः--कृत्वोऽर्थे यद्वर्त्तते पदमिति। पदे विशेष्यमाणे चतुरः षत्वं सिध्यत्येव। लुप्तेऽपि कृत्वोऽर्थीये चतुरित्येतत्पदं कृत्वोऽर्थे वर्त्तत इति। तस्मान्नार्थो द्विरदिग्रहणेनेति श्लोकवार्त्तककारेम प्रत्याख्यातं द्विरादिग्रहणम्।
सूत्रकारस्य त्वयमभिप्रायः--विसर्जनीयस्य कार्यित्वात् पदेन विशेष्यमाणत्वाच्च प्राधान्यम्। तत्रासति द्विरादिग्रहणे प्राधान्यादविसर्जनीय एव कृत्वोऽर्थग्रहणेन विशेष्यत ति। तस्मिंस्तु सति तदुपादानसामर्थ्यात् साक्षात् क्षुतत्वाच्च द्विरादेरेव पदस्यैतद्विशेषणम्, न तु स्वरितत्वादनुमितस्य विसर्जनीयसय। तस्माद्युक्तं द्विरादिग्रहणं कर्त्तुमिति।
`एवं तु' इत्यादिना ग्रन्थेन द्विस्त्रिश्चतुर्ग्रहणं सूत्रकारमतेन स्थापयति। `पूर्वेण' इति। `इदुदुपधस्य' (8.3.41) इत्यादिना। तत्रैतत् स्यात्--`इदुदुपधस्य' इत्यस्यावकाशः--निष्कृतम्, दुष्कृतमिति; अस्यावकाशः--द्विष्करोतीत्यादौ; चतुष्करोतीत्यत्र परत्वात् पूर्वविधिं बाधित्वाऽयमेव विकल्पो भविष्यति? इत्यत आह--`पूर्वत्रासिद्धे' इत्यादि। किं कारणं नास्तीति? अत आह--`अभावादुत्तरस्य' इति।।
44. इसुसोः समर्थ्ये। (8.3.44)
यदि `अचिंशुचिहुसृयिच्छादिच्छृदिभ्य इसिः' (द.उ.9-30), `जनेरुसिः' (द.उ.9-37) इत्यनुवर्त्तमाने `अत्तिंपॄवपियजितनिधानितपिभ्यो नित्' (द.उ.9.39) इत्येषं सपिंः, यजुरादयः शब्दा इसुस्प्रत्ययान्ता व्युत्पाद्यन्ते--इति दर्शनम्, ततश्च केनचिदप्राप्त एव षत्वे `कुप्वोः' (8.3.37) इत्यादिना जिह्वामूलीयादिषु प्राप्तेष्विदं वचनम्। अथ `अथादयोऽव्युत्पन्नानि प्रातिपदिकानि' (पु.प.वृ.70) इति दर्शनम्। ततोऽप्रात्ययविसर्जनीयत्वात् `इदुदुपधस्य चाप्रत्ययस्य' (8.3.41) इति नित्ये षत्वे प्राप्तेऽयमारम्भः। `सामर्थ्ये सति' इति। कुप्वोर्निमित्तत्वेनाश्रयणात् तदादिनैव शब्दान्तरेण सह सामर्थ्यं वेदितव्यम्। सर्पिष्करोतीत्यत्र सर्पिः साधनं करोतीत्येवं साध्यां क्रियामपेक्षते, करोतीत्यर्थोऽपि[करोत्यर्थोऽपि--करोत्यर्थोऽपि--प्रा.मु.पाठः] साध्यः। साधनं सर्पिरित्यस्ति सामर्थ्यम्।
`तिष्टतु सर्पिः पिब त्वमुदकम्' इति। अत्र सर्पिरित्यत्र पिबेत्यनेन सामर्थ्यं नास्ति। तथा हि--पिबेत्ये तदुदुकमपेक्षते, सर्पिरित्येतत्तु तिष्टत्विति।
अथ परमसपिःकुण्डिकेत्यत्र विभाषया षत्वं समासे कस्मान्न भवति? इत्याह--`सामर्थ्यमिह' इत्यादि। दाशब्दोऽप्यर्थे वर्त्तते; अनेकार्थत्वादव्ययस्य। `न पुनः' इत्यस्यैकार्थीभाव इत्यनेन, उभय इत्येनेन च सम्बन्धः। अवधारणं चात्र द्रष्टव्यम्; व्यवच्छेदफलकत्वात् सर्ववाक्यानाम्। तदयमत्रार्थः--सामर्थ्यमिह व्यपेक्षैवाश्रयते, उभयं तु कथं नाश्रयितुं युक्तम्; न हि सामान्यशब्दाः प्रकरणादिकमन्तरेण विशेषेष्ववतिष्ठन्ते, न चेह प्रकरणादिकमस्ति तथाविधं किञ्चिद्येन व्यपेक्षालक्षणमेव सामर्थ्य ग्रहीतव्यम्? नैषः दोषः; `कार्यकालं संज्ञापरिभाषम्' (व्या.प.58) इति, इह `पदस्य' इति वर्त्तते, तत्र पदाधिकारादेव समर्थपरिभाषाया उपस्थानात् सामर्थ्ये लब्धे यतः सामर्थ्यग्रहणं क्रियगते तस्येदं प्रयोजनम्--इष्टसामर्थ्यस्य परिग्रहो यथा स्यात्। इह च व्यपेक्षालक्षणमेवेष्टं सामर्थ्यमिति तदेवाश्रयितुं युक्तम्; नैकार्थीभावः, नाप्युभयमिति।।
45. नित्यं समासेऽनुत्तरपदस्थस्य। (8.3.45)
`सपिष्कुण्डिका' इति। षष्ठीसमासः। एवं `धनुष्कपालम्' इत्यादावपि।
`परममपिःखुम्डिका' इति। परमसर्पिः शब्दयोः सन्महत्' (2.1.61) इत्यादिना कर्मधारयं कृत्वा कुण्डिकाशब्देन सह षष्ठीसमासः। अत्र परमशब्दापेक्षया सर्पिःशब्द उत्तरपदम्, तत्रस्थश्च विसर्जनीय इति षत्वं न भवति।
ननु च `इसुसोः सामर्थ्ये' (8.3.44) इत्यत्र `इसुसोः' इति प्रत्ययग्रहणमेतत्, तत्र `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य' (भो।पु.सू.7) इति नियमाद्यत एवेसुसौ विहितौ तदादेरेव ग्रहणेन भवितव्यम्, नाधिकस्य, अधिकश्च परमशाब्दः; केवलाद्धि सपेरिस्प्रत्ययो विहितः, न परमशब्दादेः; एवञ्चोत्तरपदप्रकृतिरेव नास्ति, किं प्रतिवेधेन? इत्याह--`एतदेव' इत्यादि। यद्ययमिह नियमः स्यात् `अनुत्तरपदस्थस्य' इति नोक्तं स्यात्, उक्तञ्च, तस्मादेतज्ज्ञापयति--नायमिह नियमो भवतीति। किमस्य ज्ञापकस्य प्रयोजनम्? इत्याह--`तेन' इत्यादि। यस्मादयमिह नियमो न भवति, तेन हेतुना वाक्येऽधिकस्यापि ग्रहणे सति परमसर्पिः करोति, परमसर्पिष्करोतीत्यत्र पूर्वसूत्रेण षत्वबिकल्पो भवति; नियमे तु सति न स्यात। समासेऽपि तर्हि परमसर्पिःकुण्डिकेत्यत्र षत्वविकल्पेन भवितव्यम्; नियमाभावात्? इत्यत आह--`व्यपेक्षा च तत्र' इत्यादि। चकोरोऽवधारणार्थः। इतिकरणो हेतौ। तत्र `इसुसोः' (8.3.44) इत्यादौ सूत्रे सामार्थ्यग्रहणाद्व्यपेक्षैव सामर्थ्य वत्वविकल्पस्य निमित्तं यस्मादाश्रितं तस्मात् समासे न धवति; तत्र तदभावात्।।
46. अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य। (8.3.46)
`कुप्वोः क पौ च' (8.3.37) इति प्राप्ते वचनमिदम्। `अयस्कारः' इति। `कर्मण्यण' (3.2.1)। एवं `अयस्कामः' इत्यत्रापि। `शीलिकामिभिक्ष्याचरिभ्यो णो वकतव्यः' (वा.229) इति त्वत्र न प्रवर्त्तते। तत्रोपसंख्याने ण्यन्तस्य कमेरुपादानात्, इह त्वण्न्तस्य। यदा `आयादय आर्धधातुके वा' (3.1.31) इति कमेर्णिङ् नास्ति, तदा कमेरण्यन्तता। `अयस्कंसः' इति। षष्ठीसमासः। ननु कमेरेव `वॄतॄवदिहनिकमिकषिभ्यः सः' (द.उ.9.29) इति से कृते कंस इति भवति, तत्र कमिग्रहणेनैव सिद्धत्वात्। कंसग्रहणमनर्थकम्? न; ज्ञापनार्थत्वात्। एतदनेन ज्ञाप्यते--अस्तीदमपि दर्शनम्--`उणादयोऽव्युत्पन्नानि। प्रापतिपदिकानि' (है.प.पा.103) इति,। `अयस्कुम्भः' इति। अयसो विकारः कुम्भ इति `समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च' (वा.83) इति पध्यपदलोपी समासः। षष्ठीसमासो वा। `अय स्कुम्भी' इति। गौरादित्वाङङीष्। अयस्कुम्भवत्समासः।
`अयस्पात्री' इति। पात्रशब्दः ष्टुन्प्रत्ययान्तः, `षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्। `अयस्कुशा' इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदाविसूत्रेण (4.1.42) इति ङीष्। `अयस्कुशा' इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदादिसूत्रेण (4.1.42) ङीष् न भवति। अय इव कर्णावस्या इत्ययस्कर्णी, `नासिकोदर' (4.1.55) इत्यादिना ङीव्। ईकारान्तस्य कर्णशब्दस्य ग्रहणम्। अतः शुनःकर्ण इत्यत्र सत्वेन त भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, निराकर्तुमाह--`शुनस्कर्ण इत्ययं तु' इत्यादि।
`भाःकरणम्' इति। ल्युडन्तेन समासः। यदि तर्हि तपरकरणं न क्रियेत भास करोतीति विवादिसूत्रेण (3.2.21) टे कृते भास्कर इत्यत्रापि भवति? अत आह--`भास्कर इत्ययं तु' इत्यादि। सुबोधम्।।
47. अधःशिरसी पदे। (8.3.47)
`अथःशिरसो' इति। सुब्व्यत्ययेन षष्ठ्याः स्थाने प्रथमा। `पदशब्दे परतः' इति एतेन पद इति स्वरूपस्य ग्रहणम्; न पारिभाषिकस्येति दर्शयति। यदि हि पारिभाषिकस्य ग्रहणं स्यात्, पदग्रहणमनर्थकं स्यात्। समासाधिकारादेव तस्य लब्धत्वादित्यभिप्रायः। `शिरस्पदम्' इति। षष्ठीसमासः।।
48. कस्कादिषु च। (8.3.48)
`कुत्वोः' (8.3.37) इत्यस्यायमपवादः। `यथायोगम्' इति। इणः परो यो विसर्जनीयस्तस्य षकारः, यस्त्वन्यस्तस्य सकार इत्येष यथायोगार्थः `कस्कः' इति। सौ परतः `किमः कः' (7.2.103) इति कादेशः, दीप्सायां द्विर्वचनम्। `कौतस्कुतः' इति। `पञ्चम्यास्तसिल्' (5.3.7), `कु तिहोः' (7.2.104) इति किमः स्थाने कुभावः, पूर्ववद्द्विरुक्तिः, `तत आगतः' (4.3.74) इत्यणि कृते `अव्ययानां भमात्र' (वा.842) इति टिलोपः। `भ्रातुष्पुत्रः' इति। यदा समासस्तदा `ऋतो विद्यायोनिसम्बन्धेभ्यः' (6.3.23) इति षष्ठ्या अलुक्। `शुवस्कर्णः' इति। संज्ञायाम्' ष्ठ्या आक्रोशे' (6.3.21) इत्यलुक्। असंज्ञायां तु समासे श्वकर्ण इत्येवं भवति।
ननु च सर्पिष्कुण्डिकादीनां `नित्यं समासेऽनुत्तरपदस्थस्य' (8.3.45) इत्येवं षकारः सिद्धः, तत्किपर्थमेषामिह पाठः? इत्यत आह--`एषाम्' इत्यादि। पारायणेन दीव्यन्तीति पारायणिकाः `तेन दीव्यति'(4.4.2) इती ठक्। `भाव्ये वृत्तौ च' इति। अनुत्तरपदस्थस्येति किम्? परमसर्पिःकुण्डिकेति भाष्ये वृत्तौ च प्रत्युदाहृतम्; अतस्तयोरिह पाठो नाभिमतोऽमीषामिति दर्शयति। `अविहितलक्षणः' इत्यादिना कस्कादेराकृतिगणतामाचष्टे। चकारोऽनुक्तसमुच्चयार्थो भवन्नेवमर्थं द्योतयति। विसर्जनीयस्थानिकयोः सकारषकारयोः `उपचारः' इत्येषा संज्ञा विहिता।।
49. छन्दसि वाऽप्राम्रेडितयोः। (8.3.49)
`अयस्पात्रम्' इति षष्ठीसमासे कृते `अतः कृकभि' (8.3.46) इत्यादिना नित्ये षत्वे प्राप्तेऽनेन विकल्पो विधीयते। एवं `विश्वतस्पात्रम्' इत्यादावपि यदि समासः, तदा प्राप्ते। `उरुणस्कारः' इत्यत्राप्यसमासत्वादेवा प्राप्ते। उरुशब्दात् परस्यास्मच्छब्दस्य `बहुवचनस्य वस्नसौ' (8.1.21) इति नसादेशः, `नश्च धातुस्थोरुषुभ्यः' (8.4.27) इति णत्वम्।
अथेह `हरिकेशः पुरस्तात्' (ॠवे.10.139.1), स नः पावक (ऋ.वे.1.12.10) इत्यादौ च कस्मान्न भवति? इत्याह--`हरिकेश' इत्यादि।।
50. कः करत्करतिकृधिकृतेष्वनदितेः। (8.3.50)
वेति निवृत्तम्। `कर्' इति। कृञो लुङः, च्लिः, तस्य `मदत्रे घस' (2.4.82) इत्यादिना लुक्, तिप्, गुणः रपरत्वम्, हल्ङ्यादिना (6.1.68) तिलोपः, रेफस्य विसर्जनीयः, `बहुलं छन्दस्यामाङ्योगेऽपि' (6.4.75) इत्यडागमाभावः। `करत्' इति। कृञो लङ, `कृमृदृरुहिभ्यश्छन्दसि' (3.1.51) इत्यङ, `ऋदृशोरङि गुणः' (7.4.16) इति गुणः, पूर्ववदडागमाभावः। अथ वा लटः शत्रादेशः, व्यत्ययेन शप्। `करति' इति। लट्, तिप्, पूर्ववच्छप्। `कृधि' इति। कृञो लोट्, `सेर्ह्यपिच्च' (3.4.87) इति सिपो हिरादेशः, तस्य `श्रुशृणुपॄकृवृभ्यश्छन्दसि' (6.4.102) इति धिभावः, `बहुलं छन्दसि' (2.4.73) इति विकरणलुक्। `कृतम्' इति। निष्ठान्तमेतत्। `विश्वतस्कः' इति। `पञ्चभ्यास्तसिल्' (5.3.7)। `उरुणस्कृधि' इति। पूर्ववन्नसादेशः, णत्वं च। `सदस्कृतम्' इति। सदसि कृतमिति `सप्तमी' (2.1.40) इति योगविभागात्समासः।।
51. पञ्चम्याः परहावध्यर्थे। (8.3.51)
`अध्यर्थम्' इति। परेरिदं विशेषणम्। `हिमवतस्परि' इति। हिमवत उपरीत्यर्थः। पञ्चमी च सुब्ब्यत्ययेन षष्ठ्याः स्थाने वेदितव्या।
`दिवः पृथिव्याः' इत्यादि। सर्वतोभावे परिशब्दोऽत्र वर्तते।।
52. पातौ च बहुलम्। (8.3.52)
`दिवस्पातु' इति। पातेर्लोट्, तिप्, `एरुः' (3.4.86) इत्युत्वम्, अदादित्वाच्छपो लुक्।।
53. षाष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु। (8.3.53)
`वाचस्पतिम्' इति। `तत्पुरुषे कृति बहुलम्' (6.3.14) इति बहुलवचनादकृत्यपयलुक्।।
54. इडाया वा। (8.3.54)
पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम्। यद्येवम्, वेत्यनर्थकम्, आरम्भसामर्थ्यादेव विकल्पेनायं विधिर्विज्ञास्यते? नैतत्; असति वाग्रहणे पूर्वो विधिर्बहुलं विज्ञायेत; बहुलग्रहणस्य प्रकृतत्वात्। इह तु वाग्रहणे पूर्वो विधिर्नित्यो विज्ञायेतेति नानर्थकम्।।
55. अपदान्तस्य मूर्घन्यः। (8.3.55)
मूर्धनि भवो मूर्धन्यः--`शरीरावयवाद्यत्' (4.3.55), `ये चाभावकर्मणोः' (6.4.168) इति प्रकृतिवद्भावः। `सिषेच', इति। `षिचिर् क्षरणे' (धा.पा.1434), `ञिष्वप् शये' (धा.पा.1068), `धात्वादेः षः सः' 96.1.64) इति सत्वम्, लिट्, तिप्, णल्। स्वपेः `लिट्यभ्यासस्योभयेषाम्' (6.1.17) इति सम्प्रसारणम्।
अथ श्रूर्थन्यग्रहणं किमर्थम्, न ष इत्येवोचयेत, षकारेऽपि कृते सिषेचेत्यादि सिध्यति, लघधु च सूत्रं भवति? इत्वाह--`ष इत्येवं सिद्धे' इति। यदि ष इत्येवोच्येत अकृढवम्, चकृढ्वे इत्यत्रापि `इणः षीध्वं लुङ् लिटां धोऽङ्गात्' (8.3.78) इति षत्वं प्रसज्येत? ढत्वं चेष्यते, तच्च मूर्धन्यग्रहणे सति सिध्यत्येव। अत्र हि सत्यान्तरतम्यान्नादानुप्रदानस्य घोषवतो महाप्राणस्य घकारस्य तादृशो ढकारो भवति। यदि पुनः `इणः षीध्वम्' इति सूत्रे ढग्रहणं क्रियते, तदा शक्यत इह सूत्रे मूर्धन्यग्रहणमकर्तुम्। तथा च ढग्रहणं न कृतं वैचित्र्यार्थम्। ननु च क्रियामाणेन ढग्रहणेन षकारस्य व्यवच्छिन्नत्वादत उत्तरेषु षग्रहणं कर्त्तव्यं जायेत। जायतां नाम, तथापि मूर्धम्यग्रहणात् स्वरूपग्रहणमेव लाघवं भवति। स्वरूपग्रहणे हि षण्मात्रा भवन्ति--इह `ष' इत्युक्ते द्वे मात्रे उत्तरसूत्रे `ढ' इल्युक्ते द्वे, उत्तरत्र `ष इत्युक्ते द्वे। ताः सर्वाः सङ्कलिताः षण्मात्रा भवन्ति। मूर्धन्यग्रहणे सति सप्त। तस्मात् स्वरूपग्रहणे सति लाघवं भवति। यदि तु सन्तावपि षकारढकारी प्रकृतौ, तथापि षकारस्य स्वरितत्वात् स्यैषानुवृत्तिरिति कल्प्यते, तदा सुतरां स्वरूपग्रहणे ललाघवं भवति। `अकृढवम्' इति। `ह्रस्वादङ्गात्' (8.2.27) इति सिचो लोप-।
अथान्तग्रहणहणं किमर्थम्? `अपदस्य मूर्घन्यः' इत्युच्यमानेऽपदस्य यः सकारस्तस्य मूर्धन्यो विज्ञायेत। तथा च करिष्यतीत्यादौ न स्यात्; पदसकारत्वात्। क्व तर्हि स्यात्? करिष्यतेत्यादौ यत्र पदसंज्ञा नास्ति। अत्र हि भसंज्ञा पदसंज्ञां बाधेत। तस्मादन्तग्रहणं क्रियते।।
56. सहेः साडः सः। (8.3.56)
`साड्रूपस्य' इति। साडित्येतद्रूपमापन्नस्येत्यर्थः। `जलाषाट्' इति। जलं सहत इति `भजो ज्विः' (3.2.62) इत्यनुवर्त्तमाने `छन्दसि सहः' (3.2.63) इति ण्विः, `अत उपधायाः' (7.2.116) इति वृद्धिः, `हो ढः' (8.2.31) इति ढत्वम्, तस्य जश्त्वम्--डकारः, `अन्येषामपि दृश्यते' (6.3.137) इति दीर्घः। सकारस्योष्मणो घोषवत आन्तरतम्यात् तादृश एव षकारः। `सह डेन' इत्यादि। डीङः `सप्तम्यां जनेर्डः' (3.2.97) इत्यनुवर्त्तमाने `अन्येष्वपि दृश्यते' (3.2.101) इति डप्रत्ययः; अपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात्। सह डेन वर्त्तत इति `तेन सहेति तुल्ययोगे' (2.2.28) इति बहुव्रीहिः, `वोपसर्जनस्य' (6.3.82) इति सहशब्दस्य सभावः, सडस्यापत्यमिति अत इञि (4.1.95) `यस्येति च' (6.4.148) इत्यकारलोपः, आदिवृद्धौ च साडिरित्येतद्रूपं भवतीति, असति सहेरित्येतस्मिन् मूर्घन्यः प्रसज्येत। `अचः परस्मिन् पूर्वविधौ' (1.1.57) इत्यकारस्य स्थानिवत्त्वान्नास्ति साडित्येतत्तद्रूपमिति चेत्? न; `पूर्वत्रासिद्धे न स्थानिवत्' (जै.प.वृ.48) इति स्थानिवद्भावनिषेधात्। नन्वेवमपि नैवात्र साडित्येतद्रूपमस्ति? षत्वे कर्त्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्वात्। इहापि तर्हि न स्यात्--जलाषाडिति? षत्वे कर्त्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्वादेव; सा ह्यङ्गमाश्रित्य भवति, अङ्गसंज्ञा च प्रत्यये सति, प्रत्ययो ह्यु पपदाश्रय इति व्यक्तमुपधादृद्धेर्वहिरङ्गत्वम्। षत्वं त्वन्तरङ्गं साङ्भूतस्य विधीयत इति `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्यसिद्धत्वात् षत्वं न भविष्यतीति वचनमिदमनर्थकं स्यात्। तस्मान्मा भूद्वचनस्य वैयर्थ्यमिति नैयं परिभाषोपतिष्ठते। `तुरासाहम्' इति। द्वितदीयैकवचनान्तमेतत्। क्वचित् `जलासाहम्' इति पाठः, स त्वयुक्तः; इष्टत्वादिह षत्वस्य। तथा च वक्ष्यति--(8.3.108) `सवनादिष्वश्वसनिग्रहणमनिणोऽपि षत्वं भवतीति ज्ञापनार्थम्। तेन जलाषाहम्। अश्वषाहमित्येतत् सिद्धं भवति' इति।
`स इति किम्' इति। एवं मन्यते--अलोऽन्त्यपरिभाषया (1.1.52) अन्तस्य तावङ्डकारेण भवितव्यम्, अन्तस्य भवन्नान्तरतम्याडुकारः स्यात्, एतच्चायुक्तम्; डकारस्य डकारविधाने प्रयोजनाभावात्। तस्मादन्तरेणापि सग्रहणं सकारस्यैव भविष्यति। इतरस्तु `स' इत्येतस्मिन्नसति `अनन्त्यविकारेऽन्त्यसदेशस्य' (व्या.प.63) इत्याकारस्य द्विमात्रिकस्यान्तरतम्यात् तादृश ऋकारो मूर्धन्यः स्यादित्यनेनाभिप्रायेणआह--`आकारस्य मा भूत्' इति।।
57. इण्कोः। (8.3.57)
`इण्कोः' इति द्वन्द्वैकवद्भावं कृत्वैकवचनेन निर्देशः। नुमागमस्तु सत्यपि नपुंसकत्वे `अनित्यमागमशासनम्' (व्या.प.99) इति न क्रियते। इणिति परेण णकारेण प्रत्याहारग्रहणम्। `कु' इति कवर्गस्य। कुतः पुतरेत दवसितम्--अनयोर्ग्रहणम्, न पुनरिकारककारोकाराणामिति? व्याख्यानात्। सर्वसन्देहेष्विदमुपतिष्ठते--भवति हि व्याच्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति (व्या.प.75)। `वाक्षु, त्वक्षु' इति। `चोः कुः' (8.2.30) इति कुत्वम्।
`दास्यति' इति। कथं पुनरिवं प्रत्युदाहरणमुपपद्यते, यावता `अणुदित्सवर्णस्य चाप्रत्ययः' (1.1.69) इत्यत्र हकारेण गृह्यमाणेन आकारो गृह्यत इति; अस्ति ह्यकारस्य हकारेण सह सवर्णत्वम्; तुल्यस्थानप्रयत्नत्वात्; स्थानमस्ति ह्यनयोस्तुल्यमिति `अकुहविसर्जनीयाः कण्ठ्याः' इति। प्रयत्नोऽपि तुल्यः--विवृतं करणमूष्मणआं स्वराणाञ्चेति; तस्मात् सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; `नाज्झलौ' (1.1.69) इत्यत्र हकारेण गृह्यमाणेन आकारो गृह्यत इति; अस्ति ह्यकारस्य हकारेण सह सवर्णत्वम्; तुल्यस्थानप्रयत्नत्वात्; स्थानमस्ति ह्यनयोस्तुल्यमिति `अकुहविसर्जनीयाः कण्ठ्याः' इति। प्रयत्नोऽपि तुल्यः--विवृतं करणमूष्मणां स्वराणाञ्चेत्; तस्मात् सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; `नाज्झलौ' (1.1.10) इति सवर्णसंज्ञाप्रतिषेणादिति चेत्; न;[अयं भागा का.मु.पाठे नास्ति] अगुहीतसवर्णानां प्रतिवेधात्[अयं भागः का.मु.पाठे नास्ति]? नैष दोषः; यदयं `वयस्यासु मूर्ध्नो मतुप्' (4.4.127) इतयत्राकारादुत्तरस्य सकारस्य मूर्घन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते--मूर्ध्नो मतुप्' (4.4.127) इत्यत्राकारादुत्तरस्य सकारस्य मूर्धन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते--हकारो गृह्यमाणो नाकारं ग्राहयति; अन्यथा `वयस्यासु' इति निर्देशं न कुर्यात्। `असौ' इति। `तदोः सः सावनन्त्ययोः' (7.2.106) इति दकारस्य सकारः, `अदस औ सुलोपश्च' (7.2.107) इत्यौत्वं सुलोपश्च।।
58. नुम्विसर्जनीयशर्व्यवायेऽपि। (8.3.58)
इण्कोरिति पञ्चमीनिर्देशान्निर्दिष्टग्रहणस्यान्तर्यार्थत्वाद्व्यवये सति पूर्वेण न प्राप्नोतीत्यस्यारम्भः। इष्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति। एवं नुम्व्यवाये, विसरजनीयव्यवाये, शर्व्यवाये। `अपि' इत्येभिः प्रत्येकमभिसम्बध्यते, तेन त्रीणि वाक्यानि सम्पद्यन्ते। वाक्यत्रयस्य प्रयोजनं दर्शयिष्यामः नुम्ग्रहणं नुम्स्थानिकस्यानुस्वारस्योपलक्षणं द्रष्टव्यम्। न हि नुमा क्यचिद्व्यवायोऽस्ति; सर्वत्र `नश्चापदान्तस्य झलि' (8.3.24) इत्यनुस्वारविधानात्। `सर्पीषि' इति। `नपुंसकस्य झलचः' (7.1.72) इति नुम्, `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः। `सर्पिःषु' इति। `दा शरि' (8.3.36) इति विसर्जतीयः। `सर्पिष्षु' इति। वाग्रहणाद्विसर्जनीयमुन्ते `विसर्जनीयस्य सः' (8.3.34) इति पक्षे विसर्जनीयस्य सकारः, परस्य सकारस्य षत्वे कृते पूर्वस्य (8.4.41) ष्टुत्वम्।
अथेह कस्मान्न भवति--निस्से, निंस्स्वेति? अत आह--`नुमादिभिः' इत्यादि। एतच्च प्रत्येकं हि वाक्यपरिसमाप्तौ लभ्यते! प्रत्येक हि वाक्यपरिसमाप्तौ त्रीणि वाक्यानि भवन्ति--नुमा व्यवायेऽपीण्कोरुत्तरस्य मूर्धन्यो भवति, एवमन्यत्रापि। `नुम्विसर्जनीयशर्व्यवायेऽपि' इत्येतद्ग्रहणकवाक्यं तेषामेव निबन्धनम्। तत्रैकेन वाक्येन नुमा व्यवाये मूर्धन्यो विधीयते, द्वितीयेन तु विसर्जनीयव्यवाये, तृतीयेन च शर्भिरिति। तेनेह न भवति--नुमा विसर्जनीयदिसहितेन मूर्धन्यः। `निंस्से' इति। `णिसि चुम्बने' (धा.पा.1025), इदित्त्वान्नुम्, लट्, थास्, `थासः से' (3.4.80), अदादित्वाच्छयो लुक्। `निंस्स्वा' इति। लोट्, टेरेत्त्वम्, `सवाभ्यां वामौ' (3.4.91) इत्येकारस्य वकारः। अथापिशब्दः किमर्थः? अव्यवायेऽपि यता स्यादिति चेत्? नैतदस्ति; सिद्धं ह्यन्यवाये पूर्वेणैव, सिद्धे सत्यरम्भो नियमार्थो विज्ञायेत--नुमादिव्यवाय एव। तथा च सति नुमादिभिरव्यवहितादिण्कोर्न स्यात्? नैतदस्ति; यदि हि नुमादिभिर्व्यवाये मूर्धन्योऽभिमतः स्यात्, `इण्कोर्नुभ्विसर्जनीयशर्व्यवाये' इत्येकमेव योगं कुर्यात्, कृतवांश्च, तस्माद्योगविभागकरणसामर्थ्यात् पूर्वोऽव्यवायार्थो विज्ञास्यते, नार्थोऽपिशब्देन। यस्य तर्हि एवमर्थमवगच्छतः प्रतिपत्तिगौरवं भवति तं प्रति तत्परीहारार्थोऽपिशब्दः।
सकरग्रहण एव कर्त्तव्ये शरिति प्रत्याहारग्रहणं वैचित्र्यार्थम्। न हि शकारवकाराभ्यां निमित्तकार्यिणोर्व्यवधानमस्ति।।
59. आदेशप्रत्यययोः। (8.3.59)
अत्र चत्वारः पक्षाः सम्भवन्ति--1. आदेशप्रत्यययोरित्युभयत्र सकारपेक्षयाऽवयवयोगा येयं षष्ठी स्यात्--आदेशावयवो यः सकारः, प्रत्ययो यः सकार इति। अथ वा--3 प्रत्यये समानाधिकरणाऽदेशेऽवयवयोगा--प्रत्ययो यः सकारः, आदेशावयवो यः सकार इति। 4.तस्य विपर्ययो वा--आदेशो यः सकारस्तस्य, प्रत्ययावयवो यस्तस्येति। कथं पुनरेका षष्ठी समानाधिकरणा वा स्यात्, अवयवयोगा वा? विषयभेदात्। यथैव हि `खरवसानयोः' (8.3.15) इत्यत्रैकापि सप्तम्यधिकरणभेदादभिद्यते, तथेहप्येकस्या अपि षष्ठ्या विषयभेदो वेदितव्यः। तन्नाद्यपक्ष आश्रीयमाणे `नित्यदीप्सयोः' (8.1.4) इति स्थाने द्विर्वचने कृते बसंबिसम्, मुसलंमुसलमित्यत्रापि षत्वं प्राप्नोति, भवति ह्यत्रादेशावयवः सकारः। `सर्वस्य द्वे' (8.1.1) इति स्थाने द्विर्वचनपक्षोऽप्याश्रित एव। द्वितीये तु करिष्यतीत्यादौ न स्यात्; सकारमात्रस्याप्रत्ययत्वात्। तृतीये तु पक्षे यावाद्ययोर्दोषौ तावुभावपि प्रसज्येते इति विषु प्रक्षेषु दोषवत्तां दृष्ट्वा चतुर्थ पक्षमाश्रित्याह--`अदेशो यः सकारः' इत्यादि।
चतुर्थे पक्षेऽप्याश्रीयमाणे--इन्द्रो मा वक्षत्, `सदेवाम् यक्षत्' (अ.दे.3.4.6) इत्यत्र न प्राप्नोति, प्रत्ययो ह्यत्र सकारः, न तु प्रत्ययावयव इत्यत आह--`इन्द्रो मा वक्षत्' इत्यादि। इतिकरणो हेतौ। यस्मादिहापि व्यपदेशिवद्भावात् प्रत्ययावयवः सकारस्तस्माद्भवति मूर्धन्यः। वक्षादिति--वहेर्लेट्, तिप्, `इतश्च लोपः परस्मैपदेषु' (3.4.97) इतीकारलोपः, `लेटोऽडाटौ' (3.4.94) इत्यट, `सिब्बहुलं लेटि' (3.1.34) इति सिप्, `हो ढः' (8.2.31), `षठोः कः सि' (8.2.49) इति कत्वम्। यक्षदिति--यजेः `चोः कुः' (8.2.30) इति कुत्वम्--जकारसय गकारः, तस्य चर्त्वम्--ककारः। शेषं यथायोगं पूर्ववत्।।
60. शासिवसिघसीनां च। (8.3.60)
`अन्वशिषत्' ति। `शासु अनुसिष्टौ' (धा.पा.1075), लुङ्, `सर्त्तिशास्त्यरत्तिभ्यश्च' (3.1.56) इति च्लेरङ्, `शास इदङ्हलोः' (6.4.34) इतीत्त्वम्। `अन्वशिषताम्' इति। तसस्ताम्। `शिष्टः' इति। ष्टुत्वम्, पूर्ववदित्त्वम्। `उषितः' इति। `वस निवासे' (धा.पा.1005), `वसतिक्षुधोः' (7.2.52) इतीट्, वच्यादिसूत्रेच (6.1.15) सम्प्रसारणम्। `जक्षतुः जक्षुः' इति। `घस्लु अदे (धा.पा.715), यश्चादेशो घसिः--तयोर्द्वयोरपरि ग्रहणम्। ननु चादेशस्य लाक्षणिकत्वाद्ग्रहणमयुक्तम्? नैष दोषः; अनित्या हि लक्षणप्रतिपदोक्तपरिभाषः। अनित्यत्वं चास्याः `यावत्पुरानिपातयोर्लट्' (3.3.4) इत्यत निपातग्रहणेन ज्ञापितम्। `भुवश्च महाव्याहृतेः' (8.2.71) इत्यत्र महाव्याहृतिग्रहणेन च ज्ञापितम्। अपि चात्र घसिवसोरेकतरस्य लब्दक्षरत्वात् पूर्वनिपाते कर्त्तव्ये शासेः पूर्वनिपातं कुर्वता शास्त्रनिरपेक्षता सूच्यते--किञ्चिच्छास्त्रमत्र नापेक्षितवयमित्यमुमर्थं दर्शयितुम्। तेन लक्षणप्रतिपदोक्तपरिभाषा (व्या.प.3) नाश्रीयत इति युक्तमादेशस्यापि ग्रहणमिति। अदेर्लिटि कृते `लिट्यन्यतरस्याम्' (2.4.40) इति धस्लादेशः, `गमहन' (6.4.98) इत्यादिनोपधालोपः, `द्विर्वचनेऽचि' (1.1.59) इति स्थानिवद्भावाद् द्विर्वचनम्, `कुहोश्चुः' (7.4.62) इति चुत्वम्--झकारः, तस्यापि जश्त्वम--जकारः, घकारस्य चर्त्वम्--ककारः। तस्य चाश्रयत्वात् सिद्धं भवतीति वेदितव्यम्। `अक्षन्' इति। लुङ्, `बहुलं छन्दसि' (2.4.39) इति घस्लादेशः, झेरन्तादेशः, संयोगान्तलोपः (8.2.23), `मन्त्रे घसह्वर' (2.4.80) इत्यादिना च्लेर्लुक्, `घसिभसोर्हलि च' (6.4.100) इत्युपधालोपः, चर्त्वम्--ककारः।
`अनादेशार्थं वचनम्' इत्युक्ते यो देशयेत्--युक्तं शासिवसोरनादेशार्थं वचनम्, अनादेशार्थं तु घसिं प्रत्ययुक्तम्, आदेशसकरत्वादिति? सं प्रत्याह--`धसिः' इत्यादि। घकारादिवर्णसमुदायो हि घसिरादेशः, सकारस्तु तस्यादयवः, नादेश इत्यादेशघसिमपि प्रत्यनादेशार्थं वचनम्।।
61. स्तौतिण्योरेव षण्यभ्यासात्। (8.3.61)
`षभूते' इति। `ष' इतीदं रूपमापन्न इत्यर्थः। `तुष्टुषति' इति। `इको झल्' (1.2.9) इति सनः कित्त्वम्' `अज्झनगमां सनि' (6.4.16) इति दीर्घः, दिर्वचनम्, `शपूर्वाः खयः' (7.4.61) इति खयः शेषः। `सिवेचयिषति' इति। सिचेः `हेतुमति च' (3.1.26) इति णिच्, सन्, इट्, गुणायादेशौ। `णौ कृतं स्थानिवद्भवति' (चां.प.21) इति सिचो द्विर्वचनम्। `सिषञ्जयिषति' इति। `सन्ज सङ्गे' (धा.पा.987), सन्, द्विर्वचनम्, `सन्यतः' (7.4.79) इतीत्त्वम्। `सुष्वापयिषति' इति। स्वापेर्ण्यन्तस्य `द्युतिस्वाप्योः सम्प्रसारणम्' (7.4.67) इत्यभ्यासस्य सम्प्रसारणम्।
ननु च सिद्धोऽत्र भूर्धन्यः पूर्वणैव, तत् किमर्थोऽस्यारम्भ,? इत्याह--`सिद्धे सति' इत्यादि। `सिसिक्षति' इति। सिचः सन्, `इको झल्' (1.2.9) इत्यनुवर्त्तमाने `हलन्ताच्च' (1.2.10) इति कित्त्वाद्गुणाभावः, `चोः कुः' (8.2.30) इति कुत्वम्। `सुसूषते'[सुसूषति--काशिका] इति। `षूङ प्राणिगर्भविभोचने' (धा.पा.1031), `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदम्। क्वचित् तिप्प्रत्ययान्तं सुसूषतीति प्रत्युद्हरणम्, तत् `षू प्रेरणे' (धा.पा.1408) इत्यस्य द्रष्टव्यम्।
अथैवकारकरणं किमर्थम्, सिद्धे सत्यारम्भसामर्थ्यादेव नियमो विज्ञास्यते? इत्याह--`एवकारकरणम्' इत्यादि। कः पुनः स्तौतिण्योः षण्येवेत्यस्मिन्नियमे दोषो यतः स नेष्यते? इत्यत आह--`स्तौतिण्योः षण्येव' इत्यादि। षण्येदेत्यनेनावधारणेन स्तौतिण्योः सन्प्रत्ययेन प्रत्ययान्तरस्य व्यवच्छेदः क्रियते--स्तौतिण्योर्यदिमूर्धन्यो भवति तदा षण्येव, नान्यस्मिन् प्रत्यय इति। ततश्च तुष्टावेति लिटि न स्यात्। इह तु स्यादेव--सिसिक्षतीति; अवधारणेन षत्वस्याव्यवच्छिन्नत्वात्।
`अन्यत्र' इत्यादि। यदि षणीति नोच्येत ततोऽविशेषेण सर्वत्र नियमः स्यात्। ततश्च नियमोन व्यावर्त्तितत्वाद् यथा सिसिक्षतीत्यत्र न भवत्यभ्यासादुत्तरस्य सकारस्य षत्वम्, तथा सिषेचेत्यत्र लिट्यपि न स्यात्। तस्मात् षणोऽन्यत्र लिडादौ मा भूदित्येवमर्थं षणीत्युच्यते।
`को विनतेऽनुरोधः' इति। विनत इति पूर्वाचार्यसंज्ञा षत्वणत्वयोः। अनुरुध्यत इत्नुरोधः= प्रयोजनम्। किं प्रयोजनं षत्वस्य यतः कृतषत्वस्येहोपादानं कृतमित्यभिप्रायः। `अर्विनते नियमो मा भूत्' इति। अविनत इति अविद्यमानषत्व इत्यर्थः। सनीत्युच्यमाने सन्मात्रे नियमः स्यात्। तत्र यथा षभूते सन्यन्यधातोरभ्यासान्मूर्धन्यो न भवति, एवमषत्वभूतेऽपि न स्यात्। तस्मादषत्वभूते नियमो मा भूत्' इति। अविनत इति अविद्यमानषत्व इत्यर्थः। सनीत्युच्यमाने सन्मात्रे नियमः स्यात्। तत्र यथा षभूते सन्यन्यधातीरभ्यासान्मूर्धन्यो न भवति, एवमषत्वभूतेऽपि न स्यात्। तस्मादषत्वभूते नियमो मा भूदित्येवमर्थं विनतस्य ग्रहणम्। `सुषुप्सति' इति। स्वपेः सन्, `रुदविद' (1.2.8) इत्यादिना कित्त्वाद् वच्यादिसत्रेण (6.1.15) सम्प्रसारणम्।
`कः सानुबन्धकेऽनुरोधः' इति। नकारोऽनुबन्धः। नकारानुबन्धस्य ग्रहणं किमर्थम्, किं प्रयोजनमित्यर्थः। `षशब्दमात्रे नियमो मा भूत्' इति। `ष' इत्युच्यमाने यो नाम कश्चित् षशब्दस्तत्र सर्वत्र नियमः स्यात्। सानुबन्धकग्रहणे तत्रैव भवति, नान्यत्र। तेन निरनुबन्धकषशब्देऽन्यस्यापि भवत्येव मूर्धन्यः। `सुषुपिष इन्द्रम्' इति। स्वपेर्लिट्, व्यत्यर्येनात्मनेपदम्, `थासः से' (3.4.80), `असंयोगाल्लिट् कित्' (1.2.5) इति कित्त्वम्; वच्चादिसूत्रेण (6.1.15) सम्प्रसारणम्, क्रादिनियमादिट्, द्विर्वचनम्, प्रत्ययसकारस्य मूर्धन्यः, इन्द्रशब्दे परतोऽयादेशः, `लोपः शाकल्यस्य' (8.3.19) इति यकारलोपः; सूषुपिष इन्द्रमिति स्थित इह निरनुबन्धके नियमाभावादभ्यासान्मूर्धन्यो भवत्येव।
`अभ्यासस्य या प्राप्तिः'[`अभ्यासात्'--काशिका, पदमञ्जरी च] इत्यादि। असत्यभ्यासग्रहणे धातोर्य इण् तस्यापि नियमः स्यात्, न चेध्यते। तस्मादभ्यासाद्या प्तिस्तस्या नियमो यथा स्यादित्यभ्यासग्रहणम्। `प्रतीषिषति' इति। प्रतिपूर्वादिमः सन्। `अधोषिषति' इति। अघिपूर्वादिकः सन्, अजादित्वाद्द्वितोयैकाच् `सन्यङोः (6.1.9) इति द्विरुच्यते, `सन्यतः' (7.3.79) इतोत्त्वम्, धातूपसर्गयोरेकादेशः; अधीषिष इति, प्रतीषिष इति स्थिते धातुप्रापतिनियमाभावात् षभूतेऽपि सनि धातोः परस्य सकारस्य मूर्धन्यो भवत्येव।।
62. स स्विदिस्वदिसहीनां च। (8.3.62)
`स' इत्यविभक्तिकोऽयं निर्देशः। नेति प्रतिषेध एव क्रियतामित्यादेशनीयम्; लाघवकृते विशेषाभावात्। `सिस्वेदयिषति' इत्यादि। `ञिष्विदा गात्रप्रक्षरणे' (धा.पा.1188) `रुवद स्वर्द आस्वादने' (धा.पा.18,19), `षह मर्षणे' (धा.पा.852)--एभ्यो णिव्, ततः सन्।
ननु च सकारस्य सकारविधाने न कश्चिद्विषेषः, तत्किमर्थं सकार उच्यते? इत्याह--`सकारस्य' इत्यादि। य एषां `धात्वादेः षः सः' (6.1.64) इति सकारः कृतः, तस्यादेशत्वान्मूर्धन्ये प्राप्ते वचनम्।।
63. प्राक्सितादङ्व्यवायेऽपि। (8.3.63)
`इण्कोः' (8.3.57) इति पञ्चमीनिर्देशान्निर्दिष्टग्रहणस्यानन्तर्यार्थत्वाद्व्यवायेन प्राप्नीतौतीदमारभ्यते। अङ्ग्रहणेनागमस्य ग्रहणम्, न प्रत्याहारस्य। एतच्च व्याख्यानाद्वेदितव्यम्। `प्राक्सितसंशब्दनात्' इति। `परिनिविभ्यः सेवसितसय' (8.3.70) इत्यादितः। उदाहरणात्युत्तरत्र व्युत्पादयिष्यन्ते। अव्यवधानेऽपि यथा स्यादित्येवमर्थोऽपिशब्दः; अन्यथा ह्यसति तस्मिन् यस्यापि तावत्पूर्वेण प्राप्तिरादेशसकारस्य, तस्याप्यच्यवाये न स्यात्; तक्रकौण्डिन्यन्यायेन बाधितत्वात् किं पुनरनादेशसकारस्य सेनायादिसम्बन्धिनो यस्य मूर्धन्यप्राप्तेरतयन्तासम्भव एव।।
64. स्थादिष्वभ्यासेन चाभ्यासस्य। (8.3.64)
`प्राक्सितादिति वर्त्तते' इति। `स्थासेनयसेधसिच' (8.3.65) इत्यत्र यः स्थाशब्दः, तमादाप प्राक् (8.3.70) सितसंशब्दनात् ये धातवः सूत्रे निर्दिष्टास्ते स्थादयो वेदितव्याः। अथ किमर्थमभ्यासव्यवाये षत्वभुच्यते, यावता परितिष्ठासतीत्यादौ `इण्कोः' (8.3.57), `आदेशप्रत्यययोः' (8.3.59) इत्येवं सामान्यलक्षणेन सिद्धं णत्वम्? इत्याह--`अभ्यासेन व्यवार्ये इत्यादि। अषोपदेशो यस्तस्य सकारः पूर्वेण न सिध्यतीति तदर्थमभ्यासेन व्यवाये षत्वमुच्यते।
`अभिषिषेणयिषति' इति। सेनयाऽभियातीति `सत्यापपाश' (3.1.25) इत्यादिना णिच्, इष्ठवद्भावाट्टिलोपः, सन्, पूर्ववदिडागमः।
`अवर्णान्ताभ्यासार्थं च' इति। षोपदेशमधिकृत्य तदुक्तम्। यद्यपि तस्य सकार आदेशो भवति, तथापि नैद सामान्यलक्षणेन सिध्यति; अनिणन्तत्वादभ्यासस्य, तेन व्यवधानाच्च। `अभितष्ठौ' इति। `आत औ णलः' (7.1.34) इत्यौत्वम्, पूर्ववत् खयः शेषः।
`षणि तषेधार्थं च' इति। स्तौतिण्योरेवेति (8.3.61) नियमेन यत् प्रतिषिद्धं व्यावर्त्तितं तत् षणि यथा स्यादित्येवमर्थं चेत्यर्थः। किं पुनस्तत् प्रतिषिद्धम्? षत्वम्। अथ वा प्रतिषेधा प्रतिषिद्धम्, भावे निष्ठा। अर्थशब्दो निवृत्तौ वर्त्तते, यता--मशकार्थो धूभ इति। तदेतदुक्तम्--यः षणि प्रतिषेधः स्तोतिणिभ्यामन्यस्य धातोः षत्वप्रतिषेधः कृतस्तन्निवृत्त्यर्थ चेति। `अभिषिषिक्षति' इति। अत्र यद्यभ्यासेन व्यवाये नोच्येत तदा षत्वं न स्यात्, यथा--सिसिक्षतीत्यत्र।
अभ्यासस्येति किमर्थमुच्यते, यावता चशब्दोऽत्र क्रियते, स चापिशब्दस्यानुकर्षणार्थः, तेनायमर्थो भवति--अव्यवाये व्यवायेऽपीति, एवमन्तरेणाब्यासस्येति वचनमुपसर्गस्थान्निमित्तादुत्तरस्याभ्यासस्य भविष्यति? `सात्पदाद्योः' (8.3.111) इति प्रतिषेधान्न भविष्यतीति चेत्? न; `उपसर्गात् सुनोति' (8.3.65) इत्यस्य षत्वविधानार्थस्य प्रतिषेधार्थत्वात्, तस्मिन्नेव हि प्रतिषेधे प्राप्ते तद्बाधनार्थ `उपसर्गात् सुनोति' (8.3.65) इत्यस्यारम्भः, तत्कुतः प्रतिषेधस्य प्राप्तिः? इत्याह--`अभ्यासस्य तु' इत्यादि। स्थादिष्वभ्यासस्यैवेति विपरीतनियमो नाशङ्कनीयः; विपरीतनियमे सत्यभ्यासध्वयाये स्थादीनां यन्मूर्धन्यविधानं तदपार्थकमेव स्यात्। `अभिसुसूषति' इति। `षू प्रेरणे' (धा.पा.1408)। `अभिसिषासति' इति। `षो अन्तकर्मणि' (धा.पा.1147)।।
65. उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसन्जस्वन्जाम्।
`षुञ् अभिषवे' (धा.पा.1247), `षू प्रेरणे' (धा.पा.1408)। सुवतीति शबिकरणनिर्देशात् `निरनुबन्धकग्रहणे न सानुबान्धकस्य' (व्या.प.53) इति च `षूङ प्राणिगर्भविमोचने' (धापा.1031), `षूङ प्रसवे' (धा.पा.1132)--इत्येतयोरादादिकदैवादिकयोर्ग्रहणं न भवति। `षो अन्तकर्मणि' (धा.पा.1147) `ष्टुञ् स्तुतौ' (धा.पा.1043), `ष्टुभु स्तम्भे' [`ष्टुम स्तम्भे'--का.प्रा.मु.पाठौ] (धा.पा.394) `ष्ठा गतिनिवृत्तौ' (धा.पा.928) सेनयतिर्ण्यन्तः पूर्वमेव दर्शितः। `- गत्याम्' (धा.पा.47), `षिधू शास्त्रे माङ्गस्ये च' (धा.पा.48)--द्वयोरपि ग्रहणम्। एतयोस्तु `सेधतेर्गतौ' (8.3.113) इति प्रतिषेधाद्गतेरन्यत्र षत्वं भवतीति वेदितव्यम्। शपा निर्देशः `षिधु संराद्धौ' (धा.पा.1192) इत्यस्य दैवादिकस्य निवृत्तये। `विचिर् क्षरणे' (धा.पा.1434) `सन्ज सङ्गे' (धा.पा.987)। योऽत्र षोपदेशस्तस्य `आदेशप्रत्यययोः' (8.3.59) इति प्राप्तस्य षत्वस्य `सात्पदाद्योः' (8.3.111) इति प्रतिषेधे प्राप्ते[नास्ति--का.मु.पाठे] वचनम्। यस्त्वषोपदेशस्तस्यादित एवाप्राप्तेः। सुनोतीत्येव मादीनां श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः।
`उपसर्गस्थान्निमित्तादुत्तरस्य' इत्यादि। एतेनोपसर्गस्थे मूर्धन्यनिमित्ते तात्स्थादुपचारेणोपसर्गशब्दोऽत्र वर्त्तत इति दर्शयति। भवति हि तात्स्थ्यात् ताच्छब्द्यम्, यथा--मञ्चाः क्रोशन्तीत्यत्र। `अभ्यषुणोत्' इति। लङ्, प्राक्तितादङ्व्यवायेऽपि' (8.3.63) इति षत्वम्।
`अभिषुवति' इति। `अचि श्नुधातुभ्रुवाम्' (6.4.77) इत्यादिनोवङ्।
`अभिष्यति' इति। `ओतः श्यनि' (7.3.71) इत्योकारलोपः। `अभिष्टौति' इति। अदादित्वाच्छपो लुक्, `उतो वृद्धिर्लुकि हलि' (7.3.89) इति वृद्धिः।
`अभिष्टोभते' इति। अनुदात्तेत्त्वादात्मनेपदम्। `अभिषिञ्चति' इति। `शे मुचादीनाम्' (7.1.59) इति नुम्।
`अभिषजति' इति। `दंशसञ्जस्वञ्जां शपि' (6.4.25) इति नकारलोपः। एवमभिष्वजत इत्यत्रापि। पूर्ववदात्मनेपदम्। `अभिषिष्वङ्क्षते' इति। अत्रापि `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदम्।
`दधि सिञ्चिति' इति। `सात्पदाद्योः' (8.3.111) इति प्रतिषेधः। `निःसेचको देशः' इति। अत्र गमिक्रियया निसो योगः, न सिचिक्रिययेति गमिमेव प्रति तस्योपसर्गसंज्ञा, न सिचिं प्रति। `यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति' (जै.प.वृ.99) इति वचनात। `अभिसावकीयति' इति। सुनोतेर्ष्वुल्। सावकमिच्छतीति `सुप आत्मनः क्यच्' (3.1.8), `क्यचि च' (7.4.33) इतीत्वम्; सावकीय इति स्थितेऽभिना योगः, ततो लट्। अत्रापि सावक्रीयतिं प्रन्यभेरूपसर्गसंज्ञा; तं प्रति क्रियायोगात्, न सुनोतिं प्रति; विपर्ययात्। तेन षत्वं न भवति।
यद्येवम्, अभिषावयतीत्यत्रापि न स्यात्, इहापि सावयतिं प्रति विपर्ययात्? इत्यत आह--`अभिषावयतीत्यत्र तु' इत्यादि। अत्र हि प्रागेव सुनोतिरुपसगण योगमनुभूय पश्चात् प्रेथणाध्येषणाद्यर्थेन योगमनुभवन् णिचमुत्पादयति। तस्मादुपसर्गविशिष्टायामेव क्रियायां प्रेष्यते, अध्येष्यते वा। ततः सुनोतिमेव प्रत्यभेरुपसर्गसज्ञेति भवत्येव षत्वम्।।
66. सदिरप्रतेः। (8.3.66)
`सात्पदाद्योः' (8.3.111) इति प्रतिषेधे प्राप्ते वचनम्। सदिरिति सुब्व्यत्ययेन षष्ठ्याः स्थाने थमा। `निषीदति' इत। `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.1427)। पाध्रादिसूत्रेण (7.3.78) सोदादेशः। `निषसाद' इति। `सदिस्वञ्जोः परस्य लिटि' (8.3.118) इति प्रतिषेधादभ्यासात् परस्य न भवति षत्वम्।।
67. स्तन्भे। (8.3.67)
स्तन्भिः सौत्रो धातुः। स यदि' अज्दन्त्यपराः सादयः षोपदेशाः' (6.1.64), भाष्यम्) इति लक्षणत्वात् षोपदेशस्तस्य ततः पूर्ववत् षत्वप्रतिषेधे प्राप्ते वचनम्। अथ सूत्रे तथा पाठादषोपदेशः, ततोऽप्राप्त एव। `स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च' (3.1.82) इति चकारेण श्नाप्रत्ययः समुच्चीयते। `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः।
`अप्रतेरेतदिह नानुवर्त्तते'[`अप्रतेरित्येतदिह'--काशिका, पदमञ्जरी च] इति। एतच्च योगाविभागदेव गम्यते; इतरथा हि पूर्वसूत्र एव स्तन्मभेर्ग्रहणं कुर्यात्। स्यादेतत्--`अवाच्चालम्बनाविदूर्ययोःट (8.3.68) इति षत्वं वक्ष्यति। ततः स्तन्भेरेव यथा स्यात्, सदेर्मा भूदित्येवमर्थो योगविभाव इति? नैतदस्ति; एकयोगेऽपि यस्यालम्बनादिदूर्ये वृत्तिरस्ति तस्यैव भविष्यते। कस्य चैते स्तः? स्तम्भेरेव।।
68. अवाच्चालम्बनाविदूर्ययोः। (8.3.68)
चकारः स्तम्भेरनुकर्षणार्थः। अनिणर्थोऽयभारम्भः। आलम्बनम्=अश्रयणम। विदूरम्=विप्रकृष्टम्, ततोऽन्यदविदूरम्। तत्पुनर्यदासन्नं यच्च नाप्यतिदूरं तद्वेदितव्यम्, नासन्नमात्रम्। आसन्नमात्रं यद्यभिमतं स्यात्, तदासन्नग्रहणमेव कुर्यात्। अविदूरस्य भाव आदिदूर्यम्। अत एव निपातनान्नञ्पूर्वादपि तत्पुरुषादुत्तरो भावप्रत्ययः। ब्राह्यणादित्वाद्वा। `अवष्टभ्य' इति। ल्यबन्तमेतत्। आश्रित्येत्यर्थः। `अवष्टब्धा शरत्' इति। आसन्नेत्यर्थः। अथ वा नाप्यासन्ना, नातिविप्रकृष्टेत्यर्थः। एष त्वर्थभेदः प्रकरणादिगम्यः। निष्ठातकारस्य `झषस्तथोर्धोऽधः' (8.2.40) इति धकारः, `झलां जशु झशि' (8.4.53) इति भकारस्य वकारः।
`अवस्तब्धः' इति। अभ्यर्दित इत्यर्थः।।
69. वेश्च स्वनो भोजने। (8.3.69)
चकारः `अवात्' (8.3.68) इत्यस्यानुकर्षणार्थः। वेरुत्तरस्य स्वनतेरनादेशसकरत्वादप्राप्ते। अवशब्दात् पुनरनिणन्तत्वाच्चाप्राप्त एवेदमारभ्यते। `अभ्यबहारक्रियाविशेषोऽभिधीयते' इति। अनेन भोजनार्थतां दर्शयति। `विष्वणति' इति। सशब्दं भूङ्क्त इत्यर्थः। अनेकार्थत्वाद्धातूनां स्वनतिरत्राभ्यबहार क्रियाविशेषे वर्त्तते। `यत्र' इत्यादिना तमेव भोजनविशेषं दर्शयति।।
70. परिनिदिभ्यः सेवसितसयसिबुसहसुट्स्तुस्वञ्जाम्। (8.3.70)
`षेवृ सेवृ सेवने' [नास्ति धातुपाठे] (धा.पा.501) इति भ्वादावात्मनेपदिनौ पठ्येते। योऽत्र वोपदेशस्तस्य `सात्पदाद्योः' (8.3.111) इति प्रतिषेधे प्राप्ते, इतरस्य त्वप्राप्त एव षत्वे वचनम्। `सित' इति। `षिञ् बन्धने' (धा.पा.1248) इत्येतस्य पूर्ववत् प्रतिषेधे प्राप्ते वचनम्। अपरे तु स्यतेरपि ग्रहणमिच्छन्ति, तस्यापि क्ते `द्यतिस्यति' (7.4.40) इत्यादिनेत्त्वे कृते सित इति रूपम्। किमर्थं पुनस्तस्य ग्रहणम्, यावता `उपसर्गात् सुनोति' (8.3.65) इत्यादिना सिद्धमेव? नियमार्थम्--परिनिविभ्य एवोपसर्गेभ्यो यथा स्यात्, अन्येभ्यो मा भूदिति। `सय' इति। सुनोतेः `एरच्' (3.3.56) इत्यजन्तस्य ग्रहणमन्यप्रत्ययान्तनिवृत्त्यर्थम्। `सिवु' इति। `षिवु तन्तुसन्ताने' (धा.पा.1108) पूर्ववत् प्रतिषेधे प्राप्तेऽस्यग्रहणम्। `सह'[नास्ति--प्रा.मु.पाठे] इति। `षह मर्षणे' (धा.पा.852)। `सुट्' इति। `सुट् कात् पूर्वः' (6.1.135) सुडागमः, [रुडागमः--का.मु.पाठः] तस्यानादेशसकारत्वादप्राप्त एव षत्व उपादानम्। स्तुस्वञ्जोः `उपसर्गात् सुनोति' (8.3.65) इत्यादिनैव सिद्ध उत्तरसूत्रेणाड्व्यवायेऽपि विकल्पो यता स्यादिति ग्रहणम्। `परिषोध्यति' इति। `हलि च' (8.2.77) इति दीर्घः। `परिष्करोति' इति। `सम्पर्युपेभ्यः' (6.1.137) इत्यादिना सुट्।।
71. सिवादीनां वाड्व्यवायेऽपि। (8.3.71)
सिवादयः प्रत्यासत्तेः `सिवुसहसुट्स्तुस्वञ्जाम्' (8.3.70) इति पूर्वसूत्र एव सन्निनिष्टा गृह्यन्ते, न तु गणसन्निविष्टाः स्तुस्वञ्जोः `प्राक्सितादड्व्यवाये' (8.3.63) इति प्राप्ते, शेषाणामप्राप्ते विभाषेयमारभ्यते।।
72. अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु। (8.3.72)
`स्यन्दू स्रवणे' [`प्रस्रवणे'--धा.पा.] (धा.पा.761)। अस्याषोपदेशत्वादप्राप्त एव षत्व इदं वचनम्। `अनुस्यन्दते मत्स्य उदके' इति। अथ कथमिदं प्रत्युदाहरणमुपपद्यते? यद्यप्राणिष्विति प्रसज्यप्रतिषेध आश्रीयते; प्राणिषु न भवतीति। प्रसजयप्रतिषेधे हि यत्र प्राणिगन्धोऽस्ति तत्र श्रूर्धन्येन न भवितव्यम्। इह चास्ति मत्स्यः प्राणीति षत्वं न प्रवर्त्तते। यदि तु पर्युदास आश्रीयते, प्राणिभ्योऽन्यत्र भवतीति तदा प्राण्यप्राणिसमुदायः प्राणिभ्योऽन्यो भवतीति स्यादेवात्र प्राण्यप्राणिसमुदायात्मके विषये मूर्धन्यः।।
73. वेः स्कन्देरनिष्ठायाम्। (8.3.73)
`स्कन्दिर् गतिशोषणयोः' (धा.पा.971)। अधोपदेशः। अतस्तस्याप्राप्त एव मूर्धन्ये वचनम्। `विष्कशः' इति। `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः। `रदाभ्याम्' (8.2.42) इत्यादिना नत्वम्।।
74. परेश्च। (8.3.74)
`पृथग्योगकरणसामर्थ्यात्' इत्यादि। यदि परेरप्युत्तरस्या स्कन्देर्निष्ठायां मूर्धन्यो नाभिमतः स्यात्, ततः `विपराभ्यां स्कन्देरनिष्ठायाम्' इत्येकयोगमेव कुर्यादित्यभिप्रायः। चकारः स्कन्देरनुकर्षणार्थः।।
75. परिस्कन्दः प्राच्यभरतेषु। (8.3.75)
पूर्वेण षत्वविकल्पे प्राप्ते तदभावो विधीयते। `परिष्कन्दः' इति। पचाद्यच्। `बह्वच इञः प्राच्यभरतेषु' (2.4.66) इत्यत्र प्राचांग्रहणेन भरतानां ग्रहणं न भवतीति ज्ञापितमेतत्। अतः प्राच्यत्वेऽपि भरतानां पृथग्ग्रहणम्।।
76. स्फुरतिस्फुलत्योर्निर्निविभ्यः। (8.3.76)
`स्फुर, स्फुल सञ्चलने' (धा.पा.1389,1390) इति तौदादिकौ। एतयोरपि पूर्ववदप्राप्त एव मूर्धन्यो विधीयरो। श्तिपा निर्देशो धातुनिर्देशार्थं एव; न यङ्लुग्निवृत्त्यर्थः। न हि यङ्लुक्यभ्यासस्य खयः शेषे कृते निरादिब्य उत्तरः सकारः सम्भवति।।
77. वे स्कभ्नातेर्नित्यम्। (8.3.77)
`विष्कम्भिता' इति। `स्तन्मभुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च' (3.1.82) इति सूत्रे पाठात् सौत्रोऽयं धातुरषोपदेशः। तत्सकारस्याप्राप्त एव मूर्धन्यो विधौयते वेरुत्तरस्य। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। श्तिपा निर्देशस्य पूर्ववदेव प्रयोजनम्।।
78. इणः षीध्वंलुङ्लिटां धोऽङ्गात्। (8.3.78)
`इणन्तादङ्गादुत्तरेषाम्' इत्यादना इणन्तमङ्गं षीष्वंलुङ्लटां विशेषणम्। तेऽपि धकारस्येति दर्शयति। अथ धकारस्यैवेणन्तमङ्गं विशेषणं कस्मान्न विज्ञायते--इणन्तादुत्तरो यो धकार इति? एवं मन्यते--इणन्तस्याङ्गस्य धकारविशेषणत्वे सति च्योषीढवम्, प्लोषीढ्वमित्यत्र न स्यात्; षीशब्देन व्यवधानात्। अथापि `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्मात्' (व्या.प.46) इत्येकेन षीशब्देन व्यवधानेऽपि स्यादेव। एवमपि वचनप्रामाच्यादर्थप्रतिपत्तौ मन्दधियः प्रतिपत्तिगौरवं स्यात्। षीध्वमादिषु विशेष्यमाणेषु नायं दोष इति तेषामेवाङ्गमिणन्तं विशेषणं युक्तम्। गुणत्वादयुक्तमिति चेत् स्यादेतत्--धकारस्य कार्यित्वात् तैश्च विशेष्यमाणत्वात् प्राधान्यम्। तेषां तु विपर्ययाद्गुणाभावः। तस्माद्धकारस्यैवेणन्तमङ्गं विशेषणं न्याय्यम्। एतच्च न; यत्र हि विशेषणेन सह सम्बन्धमनुभूय गुमः प्रधानस्य भूयांसमुपकारं कर्त्तुं समर्थो भवति, तत्र विशेषणेन च सह तावदप्रधानेन प्रणमं सम्बन्धमनुभवति। पश्चात् प्रधानेन सम्बन्धम्। तथा च--
गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते।
प्रधानस्योपकारे हि तथा भूयसि वर्त्तते।। इति।
इह चेणन्तेनाङ्गेन षीष्वमादयो विशेषिता धकारस्य विशिष्टमुपकारं प्रतिपत्तिगौरवदोषरहितं कार्यविशेषं प्रतिपादयन्ति। तस्मादिण्विशिष्टेनाङ्गन षीध्वमादय एव विशेष्यन्ते। तैश्च धकार इत्येतदेव युक्तं भवति। `च्योषीढवम्, प्लोषोढ्वम्' इति। च्युङ्प्लुङ्भ्यामाशिषि लिङ्, सीयुट्, ध्वम्, `एकाचः' (7.2.10) इत्यादिनेटप्रतषेधः, गुणः। `अच्योढवम्, अप्लोढवम्' इति। `धि च' (8.2.25) इति सकारलोपः `चकृढ्वे, ववृढ्वे' इति। कृञो वृञो लिट्। `कुसृभृवृ' (7.2.13) इत्यादिनेट्प्रतिषेधः। द्विर्वचनमभ्यासकार्यम्।
ननु चानुवर्त्तत एवेह `इण्कोः' (8.3.57) इति पूर्वकमिण्ग्रहणम्। कथं पुनरिण्ग्रहणं क्रियते? त्वाह--`इण्ग्रहणम्' इत्यादि। तद्धि पूर्वकमिण्ग्रहणं कवर्गेण सह सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मत् तन्निवृत्त्यर्थं पुनरिण्ग्रहणमिह क्रियते। `पक्षीध्धम्, यक्षीध्वम्' यक्षीध्वम्' इति। पचियजिभ्यामाशिषि लिङ्, `चोः कुः' (8.2.30) इति कुत्वम्, तस्मिन् कृते कवर्गस्येह निवृत्तत्वान्मूर्धन्यो न भवति। `स्तुध्वम्' इति। स्तोतेर्लोट्, अदादित्वाच्छपो लुक्। `अस्तुध्वम्' इति। लङ्। `परिवेविषोध्वम्' इति। `विष्लृ ष्याप्तौ' (धा.पा.1095), विध्यादिलिङ, सीयुट्; तस्य `जुहोत्यादिभ्यः' (2.4.75) इति श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्, `णिजां[`निजां' इति--प्रा.मु.प्राठः] त्रयाणणम्' (7.4.75) इत्यभ्यासस्य गुणः, `लिङः सलोपोऽनन्त्यस्य' (7.2.79) इति सकारस्य लोपः, `लोपो व्योर्वलि' (6.1.66) इति यकारलोपः. अत्र धातुषकारस्य ईध्वंशब्दस्य च यः समुदायस्तदात्मकः षीध्वंशब्दोऽस्ति, न त्वसाविणन्तावङ्गादुत्तरः। तथा हि--वेविषित्यस्याङ्गसंज्ञा, न तु वेषीत्येतावान्मात्रास्य षकारात्पूर्वभागस्य।
`अर्थवद्ग्रहणादप्येतत् सिद्धम्' [`एतत्'--नास्ति काशिकायाम्] इति। चोदकस्यैतद्वचनम्। मृह्यतेऽनेनेति ग्रहणम्, अर्थयतो ग्रहणमर्थवद्ग्रहणम्। तत्पुनः `अर्थवद्ग्रहणे नानर्थकस्य' (व्या.प.1) इति परिभाषासूत्रम्। ततोऽपि परिवेविषीध्वमित्येतत् सिद्धम्। अर्थवद्ग्रहणपरिभाषया (व्या.प.1) अर्थवत एव षोध्वंशब्दस्य ग्रहणे सत्यस्यैव ढत्वेन भवितव्यम्। न चे ह षीर्ध्वशब्दोऽर्थवान्, किं तर्हि? तदवयव ईर्ध्वशब्दः; तत्किमेतन्निवृत्त्यर्थेनाङ्गग्रहणेनेत्यभिप्रायः। अत्रोत्तरमाह--`एतत्तु नाश्रितम्' इति। एतदिति `अर्थवद्ग्रहणे नानर्थकस्य' (व्या.प.1) इति भाषावचनम्।
अथ वा--गृहीतिः=ग्रहणम्, अर्थवतो ग्रहणमिति षष्ठीसमासः। अतोऽप्येतत् सिद्धमितीह पूर्वक एवाभिप्रायः। `एतत्तु नाश्रितम्' [तत्तु नाश्रितम्--काशिका] इत्युत्तरम्। एतदर्धवतो ग्रहणमिति नाश्रतम्; अर्थवद्ग्रहणपरिभाषाया (व्या.प.1) अनाश्रयणात्। तदनाश्रयणं तु प्रतिपत्तिगौरवदोषपरिहाराय। सूत्रानुपात्तवचनाश्रयेण ह्यभीष्टमर्व प्रतिपद्यमानस्य मन्वधियः प्रतिपत्तुः प्रतिपत्तिगौरवं स्यात्। इह त्वङ्गग्रहणे क्रियमाणे सुखत एवाभिमतोऽर्थः प्रतीयते। लिङ्ग्रहण एव कर्त्तव्ये षीध्वंग्रहणमस्य रूपस्य यो धकारस्तस्य यता स्यात्। तेनायीध्वम्, स्तुवीध्वमित्यत्र न भवति।।
79. विभाषेटः। (8.3.79)
क्वचित् पूर्वेण नित्ये प्राप्ते, क्वचिदप्राप्त एव विकल्पार्थ वचनम्। एतच्चोदाहरणे व्यक्तोकरिष्यामः। अत्रेण्ग्रहणमिटो विशेषणम्, सोऽपि षोध्वमादोनाम्, तेऽपि धकारस्येति दर्शयन्नाह--`इणः परस्मात्' इत्यादि। ननु षीध्वमो लिटश्चेडपेक्षं परत्वं न सम्भवति, तस्य तद्ग्रहणेन ग्रहणात्? यद्यपि शास्त्रकृतं न सम्भवति, तथापि श्रुतिकृतं तु सम्भवत्येवेत्यदोषः। `लविषीध्वम्, लविषीढ्वम्' इति। अत्र षीध्वंशब्दस्येटि कृते तस्य तद्ग्रहणेन ग्रहणाद्व्यवधानं नास्तीति पूर्वेण नित्यं प्राप्नोति। `अलविध्वम्' इत्यत्रापि सिच एवेडागमः क्रियते, न लुङ इति तस्य तद्ग्रहणेनाग्रहणात् पूर्वेण न प्राप्नोति। `लुलुविढ्वे' इत्यत्रापि लिट एवेडागम इति तस्य तद्ग्रहणेन ग्रहणादसति व्यदधाने पूर्वेण नित्यं प्राप्नोति।
`आसिषीध्वम्' इति। `आस उपदशने' (धा.पा.1021), लिङ्, सोवुट्, धातुसकारस्येणोऽसन्नि वेशादिणः परोऽत्रोडागमो न भवति।
`अथेह कथं भवितव्यम्' इति। किमत्रानेन विकल्पेन भवितव्यम्? उत नित्येन भवितव्यमित्यभिप्रायः। `दीङ् क्षये' (धा.पा.1134), लिट्, क्रादिनियमादिट् (7.2.13)। `दीङो युडचि क्ङिति' (6.4.63) इति गुट्, टेरेत्तवम्। उपदिदीयिध्व इति स्थिते केचिदाहुनं भवितव्यमेवात्र ढत्वविकल्पेन; इणन्तादङ्गादिटो यदानन्तर्य तस्य युटा व्यवहितत्वात। समुदायभक्तो ह्यसौ युट् समुदायमेव न व्यवदधाति। अवयवं तु व्यवदधात्येव। अथ पूर्वेण नित्यं कस्मान्न भवति? अत्रेणन्तादङ्गादुत्तरो लिट्, सत्सम्बन्धी च धकार इति भवितव्यम्। तथा च वृत्तिकृता सूत्रार्थो दर्शितः। अथ तु नेष्यते, ततो विभाषाग्रहणं पूर्वेणासम्बन्धनीयम्। सा च व्यवस्थितविभाषः, तेनेह न भवति। एवमन्यत्र तु नित्यमेव भविष्यति। `अपरेषाम्' इत्यादि। यदाङ्गग्रहणमिह निवृत्तम्, इण इत्येतदेवानुवर्त्तते, तदेणैव केवलेनेडागमो विशेष्यते--इणः परो य इडिति। एवञ्चात्र भवितव्यमेव पाक्षिकेण ढत्वेन। भवति ह्यत्र यकारादिण उत्तरोऽनन्तरश्चेडागमः।।
80. समासाङ्गुलेः सङ्गः (8.3.80)
सङ्ग इति षष्ठ्याः स्थाने सुब्ब्यत्ययेन प्रथमा। एवमुत्तरत्रापि वेदितव्यम्। `सात्पदाद्योः' (8.3.111) इति प्रतिषेधे प्राप्तेऽन्यारम्भः। एवमुत्तरल्यापि। सञ्जनं सङ्ग इति भावे धञ्, अङ्गुलिषु सङ्गः संश्लेषोऽस्या अस्तीति बहुव्रीहिः।।
81. भीरोः स्थानम्। (8.3.81)
`भीरुष्ठानम्' इति। अधिकरणसाधनन स्थानशब्देन षष्ठीसमासः।
पृथग्योगकरण यथासंख्यभावनिवृत्त्यर्थम्। एकयोगे हि निमित्तनिमित्तनोः माम्येऽपि सत्यस्वरितत्वाद्यथासंक्यभावः स्यात्। अथ तदर्थ स्वरितत्वं प्रतिज्ञायते; [`प्रतिज्ञायेते'--का.मु.पाठः] ततो योगविभागकरणं वैचित्र्यार्थम्।।
82. अग्नेः स्तुत्स्तोमसोमाः। (8.3.82)
पदादिसकारत्वात प्रतिषेधे प्राप्तेऽयमारभ्यते। एवमुत्तरत्रापि। स्तोमसोमशब्दी स्तौतिसुनोतिभ्याम् `अर्तिस्तुसुहुरुसृधुक्षिक्षुभायावापदियक्षिनिभ्यो मन्' [`क्षुभायापदियक्षिभ्य'--द.उ. क्षुभायावापदियक्षीनीभ्यः--प्रा.न्या.मु.पाठः] (द.उ.7.26) इति मन्प्रत्ययं विधाय व्युत्पाद्येते। अव्युगत्पत्तिपक्षे त्वादित एवाप्राप्तेऽनयोः षत्वं विधीयते। `अग्निष्टुत्' इति। अग्नावुपपदे स्तौतेः क्विप। ह्रस्यस्य' (6.1.71) इत्यादिना तुक। उपपदसमासः। `अग्निष्टोभः' इति। षष्ठीसमासः `अग्निषोमौ' इति। द्वन्द्वः, `ईदग्ने' सोमदरुणयोः' (6.3.27) इतीत्त्वम्। `अग्नेर्दीर्घात् सोमशब्दस्य षत्वभिध्यते' (इति)। एतच्च भाष्ये `विभाषेटः (8.3.79) इत्यतो विभाषाग्परहणानुवृत्तेर्लभ्यते। न च तदमुवृत्तादतिप्रसङ्गः स्यात्, व्यवस्थितविभाषाविज्ञानात्।।
83. ज्योतिरायुषः स्तोमः। (8.3.83)
`ज्योतिःष्टीमः, आयुःरुटोमः' इति। षष्ठोसमासः। सकारस्य रुत्वम, विसर्जनीयः, `वा शरि' (83.36) इति पक्षे सकारः। तस्य तकारस्य च ष्टुत्वम्।।
84. मातुपितृभ्यां स्वसा। (8.3.84)
`मातृपितृभ्याम्' इति। `अभ्यहितं पूर्व निपतति' (वा.109) इति मातृशब्दसय पूर्वेनिपातः। अनादेशसकारत्वादप्राप्तस्यैव षत्वस्येवं निपातनम्। `मातृष्वसा, पितृष्वसः' इति षष्ठोसमासः।।
85. मातृपितृर्भ्यामन्यतरस्याम्। (8.3.84)
पूर्वेणाप्राप्ते विभाषयमारभ्यते; मातृपितृभ्यां केवलाभ्यां प्रकृतिप्रत्ययसमुदाययोर्मातुःपितुरित्येतयोरन्यत्वात्। `मातुः ष्वसा, पितुःष्वसा' इति। `विभाषा स्वसृपत्योः' (6.3.24) इत्यलुक् षष्ठ्याः।
उत्तरपदस्य रेफान्तस्य ग्रहणात् तत्साहर्च्यात् पूर्वपदस्यापि रेफान्तस्य ग्रहणं विज्ञायत इत्याह--`मातुः- पितुरिति रेफान्तयोः' इति। यद्येवम्, रेफस्य विसर्जनोये कृते तस्य `वा शरि' (8.3.36) इति पक्षे सकारे कृते विसर्जनीयान्तात् सकारान्ताच्च न प्राप्नोति? इत्याह--`एकादेशविकृतस्य' इत्यादि। यदि रेफान्तयोर्ग्रहण न स्यात् ततो यदि विसरजनीयान्तयोरुपादानं क्रियेत तदा तथाभूताभ्यामेव स्यात्, न सकारन्ताभ्याम्; निर्देशस्य तन्त्रत्वात्। अथापि सकारन्तयोर्ग्रहणं स्यात्; एवमपि तथाभूताभ्यामेव स्यात्, न विसर्जनीयान्ताभ्याम्। रेफान्तयोस्तु ग्रहणे स्वसृशब्दे परतो नियोगतो विकारेण भवितव्यमिति निदशस्य तन्त्रता नास्ति। तेन विसर्जनीयान्ताभ्यां सकारान्ताभ्याञ्च षत्व सिद्ध्यति।
86. अभिनिसः स्तनः शबदसंज्ञायाम्। (8.3.86)
अनादेशसकारत्वादप्राप्त एव षत्वे वचनम्। `ष्टन शब्दे' (धा.पा.461) इति भौवादिकस्य ग्रहणम्। `स्तन गदी देवशब्दे' [`गदी परिवेदने' (धा.पा.1860)] (धा.पा.1859) इत्यतस्य चौरादिकस्य तु न। तस्य ग्रहणे सत्यदन्तत्वात् `अत उपधायाः' (7.2.116) इति न वृद्धिर्लभ्यते। अभि, निस्--इत्येताभ्यामेवेदं षत्वं विधीयते। न हि व्यस्तभ्यामुत्तरस्य तस्य स्तुनतेर्मूर्धन्षे कृते शब्दसंज्ञा गम्यते। `अभिनिस इत्येतस्मात्' इत्यादि। अभिनिसिति योऽयमुपसर्गसमवायस्तस्मादित्यर्थः। `अभिनिष्टानः' इति। अभिनिस्तव्यतेऽनेन, `अकर्तरि च कारके संज्ञायाम्' (3.3.19) इति घञ्। प्रादिसमासः।
ननु च समानाधिकारादेवाभिनिःस्तनतीत्यत्र न भविष्यति। किमेतन्निवृत्त्यर्थेन शब्दसंज्ञाग्रहणेन? इत्यत आह--`समास इत्यतः प्रभुति निवृत्तम्' इति।।
87. उपसर्गप्रादुर्भ्यामस्तिर्यच्परः। (8.3.87)
इदमपि पूर्ववदप्राप्ते वचनम्। यश्चाच्च तौ यचौ, चचौ परो यस्मात् स यच्परः। प्रादुःशब्दस्यानुपसर्गत्वात् पृथग्ग्रहणम्। `अभिषन्ति' इति। `अस भुवि' (धा.पा.1065) अदादित्वाच्छपो लुक्, `श्नसोरल्लोपः' (6. 4.111) इत्यकारस्य। `अभिष्यात्' इति। लिङ्। अनुसुनम्' इति। `सृ गतौ' (धा.पा.935)।
ननु च सकारस्य प्रृतत्वात् तमेव प्रत्युपसर्गत्वमाश्रीयते, न चानुसृतमित्यत्र यः सकारस्तं प्रत्यनुशब्दल्योपसर्गसंज्ञा; तन्मात्रस्यऽक्रियावचनत्वात्, क्रियावचनं च प्रति प्रादीनामुपसर्गसज्ञाविधानात्। `ये प्रति क्रियुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति' (म.भा.1.4.40) इति वचनात्। तस्मादसत्यप्यस्तिग्रहणे नैवात्र मूर्धन्यः प्रसज्येत। तत्किमस्तिग्रहणेन? तत्रैतत् स्यात्--असति तस्मिन् प्रादुःशब्दादुत्तरस्य धात्वन्तरसकारस्य भूर्धन्यः प्राप्नोति; अतस्तन्निवृत्त्यर्थमस्तिग्रहणम्, एतच्च नास्ति; प्रादुःशब्दस्य नियतविषयत्वात्। स हि सर्वदा कृभ्वस्तिथिषय एव प्रयुज्यते। तत् कुतोऽयं प्रसङ्ग इति यो देशयितुकामस्तदीयं मतम् `अथ' इत्यादिना दर्शयति। प्रत्युदाहरणान्तरं वक्तुकाम आह--`अन्यत्र' इति। अनुसुतमित्यत्र प्रत्युदाहरणे। `तथापि' इति। एवमपीत्यर्थः। एतेनैतद्दर्शयति--एवमपि कल्प्यमानेऽस्तिग्रहणन्यानुसेय इत्येतत् प्रत्युदाहरणमस्त्येव। तस्मात् कर्त्तव्यमेवास्तिग्रहणम्। `षूङ् प्राणिगर्भविमोचने' (धा.पा.1031) इत्येतस्मादनुपूर्वात् क्विप्, अनुसूत इत्यनुसूः, तस्यापत्यं शुभ्रादित्वात् (4.1.123) ढक्, एयादेशः, `ढे लोपेनाऽकद्रवाः' (6.4.147) इत्यूकारलोपः। अत्र सकारं प्रत्यनुशब्दस्योपसर्गसंज्ञेत्यसत्यस्तिग्रहणे [संज्ञेत्यस्तिग्रहणे--का.मु.पाठः] स्यादेव मूर्धन्यः।।
88. सुविनिर्दुर्भ्यः सुपिसूतिसमाः। (8.3.88)
सुपिसूत्योः `सत्पदाद्योः' (8.3.111) इति निषेधे प्राप्ते। सम इत्येतदन्युत्पुन्नं प्रातिपदिकं सर्वादिषु षठ्यते; तेनास्यादित एवाप्राप्ति षत्वमुच्यते। अथ तु`षम ष्टम अवैकल्पे' (धा.पा.829,830) इत्यस्य पचाद्यचि समशब्दो व्युत्पाद्यते, तथा च सनि तस्यापि प्रतिषेधे प्राप्त इदं वचनम्। `सुषुप्तः' इति। `ञिष्वप् शये' [`ष्वप'--धा.पा.] (धा.पा.1068), निष्ठा, वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्, `एकाचः' (7.2.10) इतीट्प्रतिषेधः।
`सुषूतिः' इति। सूतेः सूयतेर्वा `स्त्रियां क्तित्' (3.3.94)। सूतीति स्वरूपग्रहणम्। यत्रास्यैतद्रूपं नास्ति, तत्र न भवति--सुसूनम्, विसूतमिति। कथं पुनर्ज्ञायते--स्वरूपग्रहणमेतत्, न पुनः सूत्र्लुग्विकरणसय ग्रहणमिति? भवति तस्यापि `इविश्तपौ धातुनिर्देशे' (वा 319) इति श्तिपि कृते सूतिरित्येष निर्दसः? समशब्देन साहचर्यात् त य हीह स्यरूपं गृह्यत इति। यद्यपि सु पना धातुना साहचर्याद्धातोरपि ग्रहणं युक्तम्, तथापि शब्दपरविप्रतिषेधेन शब्दपरं यत्साहचर्यं तद्बलीय इति समशब्देनैव माहचर्यात स्वरूपमेव गृह्यते, न सुपिना धातुना साहचर्याद्धातुः।
अथ किमर्थं सुपेः कृतसम्प्रसारणस्य षत्वमुच्यते? इत्यत आह--`सुपेः षत्वं स्वपेर्मा भूत्' इत्यादि। सुस्वापः, विस्वपनम्, निस्विपनम्, दुःखपनमित्यत्राकृतसम्प्रसारणस्य स्वपेः षत्वं मा भूदित्येवमर्थ स्वपेः कृतसम्प्रसारणस्य षत्वमुच्यते। यद्येवम्, विसुष्वापेति केन न' इति? स्वपेर्लिट्, तिप्, णल्, द्विर्वचनम्, `लिट्यभ्यासस्योभयेषाम्' (6.1.16) इति सम्प्रसारणम्। कृतसम्प्रसारणस्य स्वपेरभ्यासस्येति केन हेतुना षत्वं न भवति? नास्त्येव स हेतुयेन हेतुना विसुष्वापेत्यत्र न भविष्यतीत्यभिप्रायः। परस्य तु सकारस्य `आदेशप्रत्यययोः' (8.3.59) इत्यनेन षत्वं भवत्येव, न तद्धिषयेयं चिन्ता। `हलादिशेषान्न सुपिः' इति। एतेन येन हेतुना षत्वमत्र न भवति तं दर्शयति। `लिट्यभ्यासस्योभयेषाम्' (3.1.17) इत्येतस्माद्धि सम्प्रसारणात्परत्वाद्धलादिशेषे कृते यद्यपि पश्चात् सम्प्रसारणं क्रियते, तथापि सुप इति रूपं न भवति; पकारस्यारणात्परत्वाद्धलादशेषे कृते यद्यपि पश्चात् सम्प्रसारणं क्रियते, तथापि सुप् इति रूपंनि भवति; पकारस्याभावात्। तस्मात् षत्वं न भविष्यतीत्यभिप्रायः। तेन सुप सुप इत्यस्य रूपत्याभावः षत्वाभावे हेतुरुक्तः। पूर्वपक्षवादिना तु प्राक् सम्प्रसारणे कृते पश्चाद्धलादिशेषेण पकारो निवृत्त इति मन्यमानेन देशितम्। ननु पश्चादपि पकारस्य निवृत्तिः, नैवायं सुपिर्भवति, पकाराभावात्, तत् किमिति देशितम्? `एकदेशविकृतस्यानन्य'त्वात्् (व्या.प.16) सुपिरेवायमित्यभिप्रायः। यदा तु परत्वाद्धलादिशेषे कृते सम्प्रसारणं भवति, तदैकदेशविकृतस्यानन्यत्वे सुपिरयं न भवति; न हि तदा सुपेरेव विकारः, किं तर्हि? स्वपेः। अत आह--`इष्ट पूर्वं सम्प्रसारणम्' इति। हलादिशेषादिं पूर्वं सम्प्रसारणमेवेष्यते। तथा ह्युभयेषां ग्रहणं तत्रैवमर्थं कृतम्--परमपि हलादिशेषं बाधित्वा पूर्वं सम्प्रसारणमेव यथा स्यादिति। तस्मद्धलादिशेषात्पूर्वमभ्यासस्य सम्प्रसारणेणैव भवितव्यमित्युक्तम्--हलादिशेषान्न सुपिरिति। ततश्च `विसुष्वापेति केन न' इत्येतद्देश्यं तदवस्थमेव।
एवं तर्हि `स्थादिष्वभ्यासेन चाभ्यासस्य' (8.3.64) इति योऽयं नियमः स्थादीनमेवाभ्यासस्य प्रवर्त्तते, नान्येषामित्येतस्मन्नियमात् `विसुष्वाप' इत्यत्राभ्यासस्य षत्वं न भवतीत्यत आह--`स्थादीनाम्' इत्यादि। स्थादिनिमित्तको नियमः स्थादिनियमः स्थादिभिर्व्यपदिश्यते; स्थादिनिमित्तकत्वं तु नियमस्य तानुपादाय विधानात्। स्थादीनां यो नियमः सोऽत्र न प्रवर्त्तते। कथं `विसुष्वाप' इत्यत्राभ्यासस्य षत्वं न भविष्यति? कस्मात् पुनः स्थादिनियमोऽत्र न प्रवर्त्तते? इत्यत आह--`प्राक् सितात्' इति। तेषु पुनर्नियमविधानादिति शेषः। `स्थादिष्वभ्यासेन चाभ्यासस्य। (8.3.64) इत्यत्र `प्राक्सितात्' (8.3.63) इति वर्त्तते। तेन सेवासत' (8.3.70) इत्यत्र सितसंशब्दनाद्ये प्राग्ब्यवस्थिताः `सुनोतिसुवतिस्यतिस्तोभतिप्रभृतयस्तेष्वेवागं नियमः, अतस्तेषामेवाभ्यासस्य षत्वं व्यावर्त्तयति, नान्येषामिति दर्शयति सिद्धान्तवादिमस्तु सामान्येन नियम इत्यभि प्रायः। स्यादेतत्--सुपिरपि प्राक्सितादेव व्यवस्थितः; तेनात्रापि नियमः प्रवर्त्तिष्यते? इत्यत आह--उत्तरः सुयिः' इति। सितादित्येतदपेक्षते। सितशब्दादुत्तरः सुपिः पठ्यते, तत् कुतस्तत्र नियमस्य प्रवृत्तिः अतो नियमेन तदभ्यासस्य षत्वं न व्यावर्त्त्यत इति `विसुष्वापेति केन न' इत्यविकलं देश्यमेव।
एवं तर्हि `अर्थवद्ग्रहणे नानर्थकस्य' (व्या.प.1) इत्यर्थवेतः सुपेर्ग्रहणात्, इह च तस्यानर्थकत्वात् षत्वं न भविष्यति। न ह्यत्र सुपिरर्थवान्। तथा हि--यदा तादत् स्थाने द्विर्वचनं तदा समुदाय एवार्थवान् अवयवस्त्वनर्थक एव। यदा तु द्विष्प्रयोगो द्विर्वचनम्, तदापि शब्दस्यावृत्तिः, नार्थस्य, तेन कृतेऽपि द्विर्वचनं समुदायस्यैवार्थवत्त्वम्, न तु केवलायाः प्रकृतेः, नापि केवलाभ्यासस्येत्यत आह--`अनर्थके विषुषुपुः' इति। कथं षत्वमिति वाक्यशेषः। यद्यर्थवतः सुपेर्ग्रहणात् `विसुध्वाप' इत्यत्र षत्वं न भवति, एवं सति `विषुषुपुः' इत्यत्र कथं षत्वं न भविष्यति, अत्रापि ह्यनर्थकत्वान्नैव षत्वेन भवितव्यम्, यथा विसुष्वापेत्यत्र? इत्यत्र आह सुपिभूतो द्विरुच्यते' [`षुपि'--प्रा.मु.पाठः] इति। पुपीत्येतद्रूपमापन्नोद्विरुच्यत इत्यर्थः। स्वपेर्लिट्, उस्, द्विर्वचनम्, `असंयोगाल्लिट् कित् (1.2.5) इति कित्त्वम्, वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम। अनेन षत्वम्। विषुप्+उस इति स्थित आन्तरतम्यात् षुप् इत्येतस्य द्विर्वचनम्, एवं पुपिभूते द्विरुच्यमाने विषुषुपुरित्यत्राभ्यासस्य षत्वं सिध्यति पिसुष्वापेत्यत्र षुपिभूतस्य द्विर्वचनं नास्ति; पुपिभूतस्याभावात्। तदेवं कुतः सम्प्रसारणे हि कृते षुपिभूते भवितव्यम्? णलः कित्त्वाभावात् सम्प्रसारणमेव मास्ति, कुतः पुनः षत्वम्। तस्मात् सुपोत्येतदेव द्विरुच्यते यद्यप्युत्तरकालं सम्प्रसारणे कृते सुपीत्येवं भवति, तथाप्यनर्थकत्वात् तस्य मूर्धन्यो न भवतीति। तदेवं यदि कृतसम्प्रसारणस्य णत्वं भवति `विसुष्वापेति केन न' इति देश्यमर्थवद्ग्रहणपरिभाषा (व्या.प.1) माश्रित्य परिहृतम्।
ननु च द्विर्वचने कर्त्तव्ये षत्वमसिद्धम्, तत् किमुच्यते `षुपिभूतो द्विरुच्यते' इति? अत आह--`पूर्वत्रासिद्धीयम्' इत्यादि।
89. निनदीभ्यां स्नातेः कौशले। (8.3.89)
`ष्णा शौचे' (धा.पा.1052)। अस्य पूर्ववत् षत्वप्रतिषेधे प्राप्तेऽस्यारम्भः। कौशलम्=नैपुण्यम्। `निष्णातः कढकरणे' इति। तत्र कुशल इति गम्यते। `नदीष्णः' इत्यत्रापि नदीस्नाने कुशल इति। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः, उपपदसमासः। `नदीस्नातः' इत्यत्रापि `सप्तमी' (2.1.40) इति योगविभागात् समासः।।
90. सूत्रं प्रतिष्णातम्। (8.3.90)
`प्रतिष्णातम्' इति। पूर्ववत् षत्वप्रतिषेधे प्राप्ते निपात्यते। `स्नातेः' (8.3.89) इत्यनुधृत्तौ सत्यां सूत्रे प्रतेरित्युच्यचमाने कामं प्रतिष्णातमिति सिध्यति। तृजादिष्वपि प्राप्नोति; तस्मादतिपरसङ्गनिवृत्त्यर्थ प्रतिष्णातमिति निपातनमाश्रितम्।।
91. कपिष्ठलो गोत्रे। (8.3.91)
यदि `ष्ठल स्थाने' (धा.पा.836) इत्ययं धातुः `अब्दन्त्यपराः सादयः षोपदेशाः' (काशिका.6.1.64) इति लक्षणात्षोपदेशः, तस्य चैतद्रूपं भवति, तदा पूर्ववत् प्रतिषेधे प्राप्ते वचनम्। अथ गणे तथाऽपाठादवोपदेश इति लक्षणादयोपदेशोऽध्युत्पन्नो वा स्थलशब्दः, तदादित एवाप्राप्ते षत्वे वचनम्। `गोत्रविषये' इति। गोत्रविषयश्चेत् कपिष्ठलशब्दो भवतीत्यर्थः। गोग्रग्रहणेन चेह लौकिकं गोत्रं गृह्यते न पारिभाषिकम्। लोके च ये पुरुषा अपत्यसन्ततेः प्रवर्त्तयितारो यत्पूर्विकापत्यसन्ततिर्भवति ते गोत्रमित्यभीधीयन्ते। कश्च कपिष्ठलशब्दो गोत्रविषयः? यः संज्ञाशब्दः प्रवराध्याये पठ्यते। पारिभाषिकं गोत्रविषयत्वमपत्यप्रत्ययमन्तरेण न सम्भवतीति पारिभाषिकगोत्रस्येहग्ग्रहणम्। `कपिष्ठलो नाम' इति। स्थलतौति स्थलः, पचाद्यच्, कपिरिव स्थलः कपिष्ठलः। `उपमितं व्यघ्रादिभिः (2.1.56) इत्यादिना समासः। व्युत्पत्तिमात्रमेर्वतत् कृतम्, न त्ववयवार्थो विद्यते। नामशब्दः संज्ञाशब्दतां कपिष्ठलशब्दस्य दर्शयितुं प्रयुक्तः। कपिष्ठलशब्दस्याप्रसिद्धत्वात् तदपत्येन प्रसिद्धेन तमाख्यातुमाह--`यस्य कापिष्ठलिः' इति। यस्य कापिष्ठलिरपत्यं स कपिष्ठलो नामेत्यर्थः।
`कपिस्थलम्' इति। कपीनां स्थलं स्थानमित्यर्थः।।
92. प्रष्ठोऽग्रगामिनि। [`अग्रगामिणि'--इति प्रा.मु.न्या.पाठः] (8.3.92)
प्रशब्दस्याविणन्तत्वादप्रप्तमेव षत्वं विधीयते। अग्रे गन्तुं शीलं यस्य सोऽग्रगामौ=पुरःसर उच्यते। प्रतिष्ठित इति प्रष्ठः `सुपि स्थः' (3.2.4) इति कप्रत्ययः, पूर्ववदकारलोपः।।
93. वृक्षासनयोविष्टरः। (8.3.93)
`विष्टरः' इति। `स्तृञ् ञाच्छादेन'(धा.पा.1484) इत्यस्याज्दन्त्यपरस्यापि षोपदेशत्वं नास्ति, `सृपिसृजिस्तॄस्त्यासेकृसृवर्जम्' (काशिका.6.1.64) इति वचनात्, तेन नापराप्तेमेव षत्वं निपात्वते। विस्तीर्वत इति विष्टरः, `ऋदोरप' (3.3.57)। रूढिशब्दोऽयं यथाकथञ्चित् व्युत्पाद्यते, नात्रावयवार्थं प्रत्यभिनिवेशः कर्त्तव्यः।।
94. छन्दोनाम्नि च। (8.3.94)
छन्दोग्रहणेन वृहात्यादीनां ग्रहणम्, न हि वेदस्य विष्टार इति नाम, किं तर्हि? वृहत्यादीनां वृत्तानाम्। ननु विष्टर इति प्रकृतम्, वत्कथं विष्टार इति निपातयि शक्यते? इत्याह--`विपूर्वात्' इत्यादि। `प्रे स्त्रोऽयज्ञे' (3.3.32) इत्यतः `स्त्रः' इत्यनुवर्त्तमाने `प्रथने वाणशब्दे' (3.3.33) इत्यतो वाविति `छन्दोनाम्नि च' (3.3.34) इति स्तृणातेर्धञ् णिधीयते। न च घञि विष्टर इत्येतद्रूपमापद्यते। तस्माद्यद्यपि विष्टर इति प्रकृतम्, तथापि निपात्यते। न नु च घञ्यपि विहितेब्स्मादेव निपातनाद्घ्रस्वत्वे कृते विष्टर इति भवत्येव, तत्कथं विष्टार इति शक्यं विज्ञातुम्? `छन्दोनाम्नि च' इति वचनात्। न हि विष्टर इति छन्दोनाम्, किं तर्हि? विष्टार इति।।
95. गवियुधिभ्यां स्थिरः। (8.3.95)
स्थिरशब्दोऽयम् `अजिरशिशिर' (द.उ.8.27) इत्यादिसूत्रेण यदि तिष्ठतेः किरच्प्रत्ययान्तो निपात्यते तदा `सात्पवाद्योः' (8.3.111) इति प्रतिषेधे प्राप्ते वचनम्। अथाव्युत्पन्नमेव प्रातिपदिकं तदादित एवाप्राप्ते वचनम्। `गविष्ठिरः, गुधिष्ठिरः' इति। संज्ञायां समासः। अथ कथं गविष्ठिर इत्यत्र सञ्चम्या अलुक्, `हलदन्तात् सप्तम्याः संज्ञायाम्' (6.3.9) इति चेत्? न; गोशब्दस्याहलन्तत्वादित्यत आह--`गोशब्दात्' इत्यादि।।
96. विकुशमिपरिभ्यः स्थलम्। (8.3.96)
`सात्पदाद्योः' (8.3.111) इति प्रतिषेधे प्राप्ते वचनम्। यथा चैवं तथा `कपिष्ठलो गोत्रे' (8.3.91) इत्यत्र प्रतिपादितम्। `विष्ठलम्, कुष्ठलम्' इति। स्थलशब्दः पचाद्यजन्तः, तेन यदा विकुशब्दौ निपातौ समत्येते तदा `कुयतिप्रादयः' (2.2.18) इति समासः। अथानिपातौ पक्षिपृथिवीवचणौ, तदा षष्ठीसमासः। `शमिष्ठलम्' इति। शमीनां स्थलमिति समासः। `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्' (6.3.63) इति ह्रस्वः। ह्रस्वोच्चारणं दोर्धपक्षे मा भूदित्येवमर्थम्, अन्यथा हि बहुलवचनात् दीर्घोऽपि पक्षे विज्ञायेत। `परिष्ठलम्' इति। प्रादिसमासः।।
97. अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः।
येषामत्रोपपदसमासे कृते स्थलशब्द उत्तरपदे सप्तम्या अलुग्भवति, ये चेणन्ताः, तेब्यः `इष्कोः' (8.3.57) इत्यनेन प्राप्तस्य वत्वस्य पदादिलक्षणप्रतिषेधे प्राप्ते वचनम्। बर्हिःशब्दादपि `नुज्विसर्जनीयशर्ष्यवायेऽपि' (8.3.58) इति पदादिलक्षण एव प्रतिषेधे प्राप्ते वचनम्। शेवेभ्यस्त्वप्राप्त एव। स्थ इति धातुग्रहणं स्यात्? स्वरूपग्रहणं वा? यदि `आतो धातोः' (6.4.140) इत्याकारलोपं कृत्वा तिष्ठतेः षष्ठ्यां धिर्देशस्ततो धातुग्रहणम्। अथ सुब्ब्यत्ययेन षष्ठ्याः स्णले प्रथमां कृत्वा स्थशब्दस्य कप्रत्ययान्तस्य निर्देशस्तदा स्वरूपग्रहणम्। यदात्र यदि धातोरिह ग्रहणं स्यात् तदा गोस्थानमित्यादावपि प्रसज्येतेत्यालोच्य स्वरूपग्रहणं दर्शयन्नाह `इत्येतेभ्यः' इत्यादि। उदाहरणेषु गोष्ठ इत्यत्र गोशब्दे प्रथमान्त उपपदे घञर्थे कविधानम्। `स्वास्नापाव्यथिहविवुज्यर्थं धञर्थे कविधानाम्' (वा.306) इति गावस्तिष्ठन्त्यस्मिन्नित्यधिकरणे कप्रत्ययः। अपतिष्ठतीत्यर्थेऽपष्ठ इत्यत्र `सुर्पि स्वा' (3.2.4) इति कप्रत्वदः। `आपष्ठः' इति क्वचित्पाठः। `अन्येषामपि दृश्यते' (6.3.137) इति दीर्घः। अन्यत्रापि सर्वत्र `सुपि स्थः' (3.2.4) इति कप्रत्ययः। यदि कुशब्दो निपातस्तदा प्रणमान्त एतस्मिन्नुपपदे कणिधिः, अथानिपातस्तदा सप्तम्यन्ते। अम्बादिषु सप्तम्यन्तेष्वेव। `जम्बष्ठः' इति। `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्' (6.3.63) इति ह्रस्वः।
`स्थ' इति। स्वरूपग्रहणादन्येवां न प्राप्नोतीतीदमाह--`स्थास्थिन्स्थॄणाम्' इत्यादि। एषामपि षत्वं वक्तव्यम्, व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्--सुषामादेराकृ-तिगणत्वादेषां षत्वं भविष्यतीति। `सर्व्येष्ठा' [`सव्येष्ठाः'---काशिका] इति। सव्ये तिष्ठतीति `दिवेॠ।' (द.उ.2.7) इत्यनुवर्त्तमाने `नयतेर्डिच्च' (द.उ.2.8) इति डिति च `सव्ये स्थश्छब्दसि' (द.उ.2.9) इति सव्यशब्द उपपदे तिष्ठतेॠप्रत्ययः, डित्वाट्टिलोपः, `तत्पुरुषे' (6.3.14) इत्यादिना सम्पम्या अलुक्, सव्येष्ठृ इति स्थिते `ऋदुशनस्पुदोदंशोऽनेहसाम्' (7.1.94) इत्यादिमाब्नङ्, `सर्वनामस्णाने चासम्बुद्धौ' (6.4.8) इति दीर्घः। `परमेष्ठी' [`परमेष्ठीः'--काशिका] इति। `गमेरिधिः' (द.उ.6.57) इत्यनुवर्त्तमाने `परमे स्थः किच्च' [`कित्' इत्येव--द.उ.] (द.उ.6.61) इतीनिप्रत्ययः, कित्त्वादालोपः। परमेष्ठिन्निति स्थिते `सौ च' (6.4.13) इति दीर्घः। `सव्येष्ठृसारधिः' इति। पूर्ववत् सव्येष्ठृशब्दं साधयित्वा सारधिशब्देन कर्मधारयः।।
98. सुषामादिषु च। (8.3.98)
क्वचित् षत्वप्रतिषेधे प्राप्ते, क्वचिदादित एवाप्राप्ते मूर्धन्यो विधीयते। `सुषामा' इति। सामशब्दोऽयम् `षो अन्तकर्मणि' (धा.पा.1147) इत्येतस्मान्मनिन्प्रत्ययं विधाय व्युत्पादितः। तस्य पदादिलक्षणे प्रतिषेधे प्राप्ते तद्बाधनार्थमिह पाठः। `निष्षामा' इति। `दुष्वामा' इति। रेफस्य विसर्जनीये कृते यदा `वा शरि' (8.3.36) इति पक्षे सकार-, तदा परस्य षत्वे कृते पूर्वस्य ष्टुत्वम्। ननु च सुषेधादीनां त्रयाणाम् `उपसर्गात् सुनोति (8.3.65) इत्यादिनैव भूर्धन्यः सिद्धः, तत् किमर्थमिह पठनम्? इत्याह--`सुशब्द' इत्यादि। सुशब्दस्य कर्मप्रवचनीयत्दादनुपसर्गत्वे सति सुषेध इति पाठः। निर्दुःशब्दयोस्तु क्रियान्तरावषयत्वादनुवसर्गत्वे सति निःषेधः, दुःषेध इत्ययं पाठ इति सम्बन्धः कर्त्तव्यः। सुषेधादिषु स्थादीनामुपसर्गत्वं नास्ति; ततो यदि तेषामिह पाठो न क्रियते तदा `डपसर्गात् सुनोति' (8.3.65) इत्यादिनोपसर्गस्थान्निमित्तात् षत्वं विधीयमानं न स्यात्, इष्यते च; तस्मादनुपसर्गान्निमित्तात् षत्वं यथा स्वादित्येवमर्थमेषां सुषेधादीनामिह पाठः। तत्र सुशब्दस्य कर्मप्रवचनीवत्वे सत्युपसर्गसंज्ञा न भवति; एका संज्ञेत्यधि कारात् (1.4.1)। अनुपसर्गत्वं त्वस्य `सुः पूजायाम्' (1.4.94) इति कर्मप्रवचनीयसंज्ञाविषानात्। निर्दुःशब्दयोस्तूपसर्गत्वाभावः, क्रियान्तरविषयत्वात्। निर्गतः सेधो निष्षेधः, दुर्गतः सेधो दुष्षे ध इति--गमिक्रिया विषयौ हि तौ; तस्माद्गमिमेव प्रति तयोरुपसर्गत्वम्, न सेधतिं प्रति; यं परति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति (म.भा.1.4.60) वचनात्। एवं तावत् `षिधु संराद्धो' (धा.पा.47) इति यदा गतौ दर्त्तमानस्य सेध इत्येतद्भवति, तदा प्रतिषेधबाधनार्थः पाठ इति दर्शयितुमाह--`सेधतेः' इत्यादि। अथ वा `सेधतेर्गतौ' (8.3.111) इति प्रतिषेधं वक्ष्यति, स मा भूदित्येवमर्थं एषां पाठः। `सुषन्धिः, निष्षन्धिः, दुष्षन्धिः' इति। एते `उपसर्गे घोः किः' (3.3.92) इति क्रिप्रत्ययान्ताः। तेनैषामनादेशसकारत्वादप्राप्ते षत्वे पाठः। सन्धीयत इति सन्धिः, शोभनः सन्धिरिति प्रादिसमासः--सुषन्धिरिति। एवमन्यत्रापि। `सुष्ठुदुष्ठु' शब्दयोस्तु पदादिलक्षण एव तिषेधे प्रान्ते पाठः। `तिष्ठतेरुणादिष्वेतौ व्युत्पाद्येते' इति। `कुर्भ्रश्च' (द.उ.1.107) इत्यतः कुग्रहणमनुवर्त्तते। `मृगय्वादयश्च' (द.उ.121) इति कुप्रत्ययान्तौ व्युत्पाद्येते।
`गौरिषक्यः' इति। गौरिषक्यशब्दस्य सकारस्य संज्ञायां षत्वं भवति। गौर्याः सक्थीति षष्ठीसमासः। `अच्प्रत्ययन्ववपूर्वात्' (5.4.75) इत्यादिसूत्रे अजिति योगविभागादच् समासान्तः। यदा तु बहुव्रीहिः--गौर्या इव सक्ति यस्येति, तदा `बहुव्रीहौ सक्ध्यक्ष्णोः स्वाङ्गात् षच्' (5.4.113) इति षच्प्रत्ययान्तः। सक्तिशब्दोऽयम् `असिसञ्चिभ्यां क्थिन' (द.उ.1.10) इति विथन्प्रत्ययान्तो व्युत्पाद्यते। तेन प्रतिषेधबाधनार्थो गौरिषक्थशब्दस्य पाठः। अव्युत्पत्तिपक्षे त्वप्राप्त एव षत्वे। `प्रतिष्णिका' इति। अस्यापि प्रतिस्नातीति [प्रतिष्णातीति--का.मुद्रितः, पाठः] `आतश्चोपसर्गे' (3.1.136) इति कप्रत्ययः। ठाप, तदन्तात् `संज्ञायां कन्' (5.3.87), `केऽणः' (7.4.13) इति ह्रस्वः। `प्रत्यस्थात्' (7.3.44) इत्यादिनेत्त्वम्। `जलावाहम्' इति। अनिणन्तार्थः पाठः। अनार्षः पुनरयं लक्ष्यते। तथा हि--सवनावि (8.3.110) ष्वश्वसनिशब्दग्रहणेन ज्ञापकेनास्य षत्वं प्रतिपादयिष्यते। अपरे त्वश्वसनिशब्दो वा सवनादिज्ञापनार्थः पठितव्यः, इह वा जलाषाहिशब्द इति विकल्पदर्शनार्थमिहास्य पाठं समर्थयन्ते। उपलक्षणार्थश्चेतीहास्य पाठः। तेनाश्ववाहमित्यपि पाठो वेदितव्यः। `नौषेचनम्, दुन्दुभिषेषणम्' इति। षष्ठीसमासौ। सिचेः `वेवृ सेवने' (धा.पा.501) इत्यस्माच्च स्युटि प्रतिषेधबाधनार्थः पाठः।।
99. एति संज्ञायामगात्। (8.3.99) [99,100 संख्याकसूत्रद्वयमिदं सिद्धान्तकौमुद्यादिषु चाष्टाध्यायीसूत्ररूपेम स्वीकृतम्। पदमञ्जरीकारस्य चैतन्न सम्मतमितमिव भाति। काशीमुद्रितकाशिकायाम्, अस्माभिः प्रकटितकाशिकायां च सूत्रद्वयमिदं गणसूत्रत्वेनैव स्वीकृतम्। काशोमुद्रितन्यासेऽपि सूत्रद्वयस्यास्य गणसूत्रत्वमेवाङ्गीकृतमिति भाति। प्राचीनमुद्रितन्यासग्रन्थे तु सूत्रद्वयस्यास्य चाष्टध्यायीस्थत्वमंनुमतम्]
`एति संज्ञायाम्' इत्यादि। एतद्ग्रहणकवाक्यम्। अस्यैव `एकारपरस्य' इत्यादिना विवरणम्। एकारः परो यस्मादिति बहुव्रीहिः। एतेर्नतीत्यस्याः परसप्तमीत्वं दर्शयति। `हरिषेमः' इति। हरयः सेना ञस्येति बहुव्रीहिः, उपसर्वनह्रस्वत्वम्। `पुवुसेनः' इति। `स्त्रियाः' (6.3.34) इत्यादिना पूंवद्भावः। `बिष्दक्सेनः' इति। विष्वञ्चतीति `ऋत्विक्' (3.2.59) इत्यादिना क्विन्। `अनिदिताम्' (6.4.24) इति नलोपः। `उगितश्च' (4.1.6) इति ङीप्, `अचः' (6.4.138) इत्यकारलोपः, `चौ' (6.3.138) इति दीर्घः। विषूची सेनास्येति बहुव्रीहिः। उपसजनह्रस्वत्वम्। `स्त्रियाः' (6.3.34) त्यादिना पुंवद्भावः। `क्वित्वस्य कुः' (8.2.62) इति कुत्वम्। `झलां जशोऽन्ते' (8.2.39) इति जश्त्वं--गकारः। तस्य `खरि च' (8.4.55) इति चर्त्त्व--ककारः। तस्यासिद्धत्वाद्यकारः।।
100. नक्षत्राद्वा। (8.3.100)
`नक्षत्राद्वा' इति। पूर्वेण नित्ये प्राप्ते विकल्पोऽयमुच्यत इति। सूत्रे[`सुषामादिषु च' इत्यस्मिन् सूत्रे (8.3.98)] चकारोक्तसमुच्चयार्थः, स चाकृतिगणतां सुषामादेर्बोधयतीत्यत आह--`अविहितलक्षणा' इत्यादि।।
101. ह्वस्वात्तादौ तद्धिते। (8.3.101)
`अपदान्तस्य' (8.3.55) इत्यधिकारारात् पदान्तेऽप्राप्ते मूर्धन्ये सतीदमारभ्यते। येषु तकारादिषु तद्धितेषु मूर्धन्येन भवितव्यम्, तान् दर्शयितुमाह--`तरप्तमपौ' इति। `सर्पिष्टरम्' इति। `द्विवचनविभज्योपपदे' (5.3.57) इत्यादिना तरप्। प्रकृतिसकारस्य रुत्वम्, विसर्जनीयः, तस्यापि `विसर्जनीयस्य सः' (8.3.34) इति सकारः, तस्यानेन षत्वम्, ष्टुत्वम्। `सर्पिष्टमम्' इति। `अतिशायने' (5.3.55) इत्यादिना तमप्। `चतुष्टये' इति। `संख्याया अवयवे तयप्' (5.2.42), तदन्ताज्जम्, सप्तम्येकवचनं वा। यदा जस् तदा `जशः सी' (7.1.17) इति शीभावः। क्वचित् `चतुष्ठयी' इति पाठः। तत्र हि `टिड्ढाणञ्' (4.1.15) इति ङीप्। `सर्पिष्ट्षम्, सर्पिष्टा' इति। `तस्य भावस्त्वतलौ' (5.1.119)। `र्पिष्टः' इति प्रयोगे `पञ्चम्यास्तसिल्' (5.3.7) इत्यनुवर्त्तमाने `अपादाने चाहीयरुहोः' (5.4.45) इति तसिप्रत्ययः। `आविष्ट्य' इति। आधिः शब्दाद्भवादावर्थे `अव्ययात् त्यप्' (4.2.104)। ननु च `अमेहक्वतसित्रेभ्यस्त्यद्विधियोऽव्ययात् स्मृतः' [`अमेहत्वतसित्रेभ्यस्त्यब्विधिरव्ययात्'--प्रा.मु.पाठः, अमेहक्वतसित्रेभ्यस्त्यब्विधिरव्ययात् स्मृतः--का.मु.पाठः] (कारिका.4.2.104) इति तत्र परिगणयति, तत्कथमादिःशब्दात् त्यप्? नैष दोषः; अल्पाच्तरत्वात् कुशब्दस्य त्रशब्दस्य वा पूर्वनिपाते कर्त्तव्ये तदकरणाल्लक्षणव्यभिचारं दर्शयता सूचितं व्यभिचार्येव तत्परिगणनम्, तेनाविःशब्दादपि भवति।
`सर्पिस्मात्' इति। `विभाषा साति कार्त्स्न्ये' (5.4.52) इति सातिः। ननु च `सात्पदाद्योः' (8.3.111) इति वक्ष्यमाणात् प्रतिषेधादेव मूर्धन्यो न भविष्यति; तत्किं तन्निवृच्यर्थेन `तादौ' इत्यनेन? इत्यत आह--`प्रत्ययषकारस्य' इत्यादि। सादित्यनेन हि सात्प्रत्यस्य यः सकारः, यश्च पदादिलक्षणस्तयोः षतवं प्रतिषिध्यते, न तु सात्प्रत्ययात् पूर्वस्य प्रकृतिसकारस्य। ततो यदि `तादौ' इति नोच्येत, तदा प्रत्ययसकारस्याषत्वे प्रकृतिसकारस्य स्यादेव। तस्मिंश्च सति ष्टुत्वं प्रत्ययसकारस्यापि स्यात्।
`वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रैदं व्याख्यानम्--इहादिग्रहणं न कर्त्तव्यम्, `यस्मिन्विधिस्तदादावल्ग्रहणे' (वा.14) इत्येवं हि तादौ भविष्यति, तत् क्रियते--ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीति तिङन्तस्य प्रतिषेधो यथा स्यादित्येवमर्थम्। अप या `न रपर' (7.3.110) इत्यादौ `न' इति योगविभागः करिष्यते, तेन तिङन्तस्य न भवतीति। अस्मिस्तु व्याख्याने आदिग्रहणं विस्पष्टार्थम्। `भन्द्युस्तराम्, छिन्द्युस्तराम्' इति। भिदिच्छिदिभ्यां लिङ्, यासुट्, `झर्जुस्' (3.4.108), `लिङः सलोपः' (7.2.79) त्यादिना सलोपः। `उस्यपदान्तात्' (6.1.96) इति पररूपत्वम्। `श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः, `तिङश्च' (5.3.56) इति तरप्, `किमेत्तिडव्यय' श्(5.4.11) इत्यादिनाऽऽमुप्रत्ययः।।
102. निसस्तपतावनासेवने। (8.3.102)
अयमपि पदान्तार्थ आरम्भः। `निष्डपति' इति। `तप धूप सन्तापे' (धा.पा.985,396)। रुत्वे विसर्जनीयः, `विसर्जनीयस्य सः' (8.3.34), सस्य भूर्धन्यः, ष्टुत्वम्। अथेह निष्टप्तं रक्षः, निष्टप्ता अरातयः इति निष्ठान्ते तपतौ कस्यान्न भवति, अस्ति ह्यत्रासेवनमिति? अत आह--निष्टप्तम्' इत्यादि। न हीह वस्तुनः सत्तैव शब्दव्युत्पत्तेः प्रधानं कारणम्, अपि तु तद्विवक्षा। न चेहासेवनविवक्षास्तीति भवति मूर्धन्यः। यदि तर्ह्यासेवनं विवक्ष्यते तदा न भवितव्यं मूर्धन्येनेनत्यत आह--`च्छान्दसो वा' इत्यादि। समावे कृते `व्यत्ययो बहुलम्' (3.1.85) इति पुनः षकारः।।
103. युष्मत्तत्ततक्षुष्वन्तःपादम्। (8.3.103)
अयमापि पदान्तार्थ आरम्भः। `अन्तःपादम्' इति। पादस्य मध्ये। विभक्त्यर्थेऽव्ययीभावसमासः। पादग्रहणेन ऋक्पादश्लोकपादयोः सामान्येन ग्रहणम्। तकारादित्वं त्विह युष्मद एव विशेषणम्, नेतरयोः; अव्यभिचारात्। युष्मच्छब्दस्यापि त्वादिष्वादेशेषु तकारादित्वं भवतीत्यत आह--`युष्मदादेशाः' इत्यादि। `अग्निष्ट्वम्' इति। `त्वाहौ सौ' (7.2.94) इति त्वादेशः, `ङ प्रथमयोरम्' (7.1.28) इति सोरम्भावः, `शेषे लोपः' (7.2.90)। `अग्निष्ट्वः' इति। `त्वामौ द्वितीयायाः' (8.1.23) इति द्वितीयान्तस्य त्वादेशः। `अग्निष्टे' इति। `तेमयावेकवचनस्य' (8.1.22) इति षष्ठ्यन्तस्य तयादेशः। `अग्निष्टव' इति। `तवममौ ङसि' (7.2.96) इति तदादेशः, `युष्मदस्मद्भ्यां ङसोऽक्ष्' (7.1.27)। `अग्निष्टत्'[`अण्स्वग्ने सधिष्टव--इति काशिकायामुदाहरणम्, `अग्निष्ट्व'--इति का.मु.पाठः] इति। तच्छब्दोऽयं निपातः। सर्वनाम वा। `निष्टतक्षुः' इति। तक्षेर्लिट्, उस्।
`अग्निस्तत्पुनः' इति। अग्निशब्दोऽत्र पूर्वपदस्यान्ते वर्त्तते। तेनायं सकारः पादस्यान्ते वर्त्तते, न पादमध्ये।।
104. यजुष्येकेषाम्। (8.3.104)
`यजुषि' इति। यजुर्वेदे। अत्र पादा न सम्भवन्तीति पूर्वेम नाप्राप्ते षत्वमिदमारभ्यते। एकेषांग्रहणं विकल्पार्थम्।।
105. स्तुतस्तोमयोश्छन्दसि। (8.3.105)
`सात्पदाद्योः' (8.3.111) इति प्रतिषेधे प्राप्तेऽस्यारम्भः।
ननु चोत्तरसूत्रेणैव `नुभिःष्टुतम्, गोभिःष्टोमम्' इत्यत्र षत्वं सिध्यति, तत्किमर्थमिदमारभ्यते? स्यादेतत्--समासे सत्येतद्भवति पूर्वपदम्, उत्तरपदमिति, न चात्र समासः, तस्मात् पूर्वपदादि (8.3.106) त्युत्तरेण न सिध्यतीति? एतच्चासम्यक्, असमासे यत् पूर्वपदं तदपि तत्रापि गृह्यते। वक्ष्यति--असमासे [असमासेऽपि यत्पूर्वपदम्--काशिका। असमासे यत् पूर्वपबदं तदपि तत्रापि गृह्यते--प्रा.मु.न्यासपाठः। ] यदपि पूर्वपदं तदपि [तदपीह--काशिका] गृह्यते' (काशिका.8.3.104) इति? अत आह--`पूर्वपदादित्येव' इत्यादि।।
106. पूर्वपदात्। (8.3.106)
`द्विषन्धिः' इति। षष्ठीतत्पुरुषः, बहुव्रीहिर्वा। `मधुष्ठानम् इति। षष्ठीसमासः। `द्विवाहस्रम्' इति। द्वयोः सहस्रयोर्भव इति तद्धितार्थे समासः। `तत्र भवः' (4.3.53) इत्यण्; `संख्यायाः संवत्सरसंख्यस्य च' (7.3.15) इत्युत्तरपदवृद्धिः। अथेह कथं षत्वम्--त्रिः षमुद्धत्वायेति? यावता समासे यत् पूर्वपदं तत्र पूर्वपदशब्दो रूढः; न चायं समासः; किं तर्हि? वाक्यम्? इत्यतद आह--`असमासेऽपि' इत्यादि। कथं पुनरेतल्लभ्यते? व्यवस्थावचनस्येह पूर्वपदस्याश्रयणात्। यथैव हि पूर्वशब्दो लोको रूढिभादाय क्वचित् तु समुदाये वर्त्तते--पूर्वपञ्चाला इति, क्वचिद्व्यवस्थायाम्--अस्मात् पूर्वं इति वा; तथा शास्त्रेऽपि। तत इह व्यवस्थाशब्दो गृह्यते। कुतः? व्याप्तेः। रूढिशब्द एव गृह्यमाणे समास एव स्यात् नासमासे। व्यवस्थाशब्दे तु सर्वत्र भवति।।
107. सुञः। (8.3.107)
`पूर्वपदात्' (8.3.106) इत्येवं सिद्धे प्रपञ्चार्थमिदम्। `सुञ [`सुञः'--प्रा.मु.पाठः] इति निपातो गृह्यते' [निपात इह गृह्यते--काशिका] इति। अथ `षुञ् अभिषवे' (धा.पा.1247) इति धातुः कस्मान्न गृह्यते? एवं मन्यते--यत्रास्य धातोर्ग्रहणमिच्छति तत्र क्तिपा निर्द्देशं करोति। शैलीयमाचार्यस्य, यथा--`उपसर्गात् सुनोति' (8.3.65) इत्यत्र `सुनोतेः स्यसनोः' (8.3.117) इत्यत्र च। तदिहापि यदि धातोर्ग्रहणमभीष्टं स्यात्, श्तिपा निर्द्देशं कुर्यात्; नैव कृतम्, अतो निपातस्येवं ग्रहणमवसीयते। `अभीषुणः' इति। षष्ठीबहुवचनस्यास्मच्छब्दस्य `बहुवचनस्य वस्नसौ' (8.1.21) इति नस्, `डकः सुञि' (6.3.134) इति दीर्घः। `नश्च धातुस्थोरुषुभ्यः' (8.4.27) इति णत्वम्।।
108. सनोतेरनः। (8.3.108)
`अनः' इति। अविद्यमानो नकारोऽस्येत्यर्थः। `गोषाः' इति। `षणु धाने' (धा.पा.1464)। गां सनोतीति `जनसनखनक्रमगमो विट्' (3.2.67), `विङवनोरनुनासिकस्यात्' (6.4.41) इत्यात्त्वम्। `गोसनिम्' इति। `स्तम्बशकृतोरिन्' (3.2.24) इत्यत इन्नित्यनुवर्त्तमाने `छन्दसि वनसनरक्षिमयाम्' (3.2.27) इतीन्प्रत्यवः।
ननु `पूर्वपदात्' (8.3.106) इत्येव गोषा इत्यादौ षत्वं सिद्धम्। तत्किकर्थमिदमित्याह--`पूर्वपदादित्येव' इति। अविद्यमाननकारस्यैव भवति; नान्यस्येत्येव नियमो यथा स्यादित्येवमर्थमेतत्। यद्येवम्, गोसनिमिति न नियमस्य फलम्, सवनादित्वात्? इत्याह--`अत्र' इत्यादि। इतिकरणो हेतौ। यस्मात्सवनादिषु पाठाद्गोसनिशब्दो नियमस्य फलं न भवति, तस्मात् केचित् सिसानयिवतीति प्रत्युदाहरन्ति। `सिसनीरित्यपरे' इति। सनोतेर्ण्यन्तस्य सनि रूपम्--सिसानयिषतीति। अत्र यदि नियमार्थमेतन्नोच्येत, तदा स्तौतिण्योरेव (8.3.61) षत्वं स्यात्। अस्मिंस्तु सति न भवतीति ण्यन्तस्मोदाहरणम्। अम्यन्तस्य स्तीतिण्योरेव (8.3.61) इत्यत एव नियमात् षत्वनिवृत्तेः सिद्धत्वात्। सिसनोरोति--सनोतेः सन्, इट्, द्विर्वचनम्, सनः सकारस्य णत्वम्; सिसनिष इति स्थिते क्किप्, अतो लोपः (6.4.48), षत्वस्यासिद्धत्वाद्रूत्वम्, `र्वोरुपदाया दीर्घ हकः' (8.2.76) इति दीर्घः। सिसनीरिति स्थितेऽत्र सनः वत्वभूतस्याभावात् स्तौतिण्योरेव (8.3.61) इत्येषे नियमो न प्रवर्त्तते। अत्र यदीदं नोच्येत, `आदेशप्रत्यययोः' (8.3.59) इति मूर्धन्यः स्यात्; अस्मिंस्तु सति न भवति।।
109. सहेः पृतनर्ताभ्यां च। (8.3.109)
असाडर्थम्, अनिणर्थञ्च। `पृतनाषाहम्' इति। `छन्दसि सहः' (3.2.63) इति ण्विः। `ऋतीषाहम्' इति। `अन्येषामपि दृश्यते' (6.3.137) इती दीर्घः। `ऋतीषहम्' इति। `कृत्यल्युटो बहुलम्' (3.3.113) इति क्विप्। `नहिवृतिवृषिण्यधिरुचिसहितनिषु क्वौ' (6.3.116) इती दीर्घत्वम्। `संहितायामेतद्दीर्घत्वं षत्वञ्च' इति। उभयोरपि विधाने संहिताधिकाराद्दीर्घस्य प्रतिपादनम्--ऋतीशब्दस्यायं प्रयोग इति प्रतिपादनार्थम्। अन्यथा हि ऋतिशब्दान्तरमेवेदभित्याशङ्क्येत। [`ह्यतिशब्दान्तर'--प्रा.मु.पाठः] यस्तु मन्यते--वर्णव्यत्ययेनैवात्र चत्वं भविष्यति, तत् किमेतदर्थेन वोगविभागेनेति, तं प्रति षत्वस्य सांहितकत्वं प्रतिपादितम्। यदि हि `व्यत्ययो बहुलम्' (3.1.85) इति षकारः क्रियते, ततोऽसंहितायामेव स्यात्, न हि तत्र संहिताधिकारोऽस्ति। तस्मात् संहिताधिकारे यथा स्यादिति योगविभागः कर्त्तव्य इति भावः। `अनुक्तसमुच्चयार्थः' इति। न केवलं साङ्भूतस्येण्कोः परस्येति, अपि तु पृतनर्त्ताभ्याञ्च षत्वं भवतीति। ये तु योगविभागं न कुर्वन्ति, ते ऋतीबहमित्यर्थश्चकारः समुच्चयार्थं इति वर्णयन्ति।।
110. न रपरसृपिसृजिस्पृशिस्पूहिसवनादीनाम्। (8.3.110)
रः परो यस्मादिति रपरः। `सृप्लृ गतौ' (धा.रा.983), `सृज विसर्गे' (धा.पा.1414), `स्पृश संस्पर्शे', [संस्पर्शने--धा.पा.] `स्पृह ईप्सायाम्' (धा.पा.1871) चुरादावदन्तः पठ्यते। सवनमादिर्येषामिति बहुव्रीहिः। `विस्रंसिकायाः' इति। `स्रन्सु अवस्रंसने' (धा.पा.754) अस्माद्विपूर्वात् `रोयख्यायां ण्वुल् बहुलम्' (3.3.108) इति ण्वुल्। `विस्रब्धः' इति। `स्रन्भु विश्रम्भे' [`विश्वासे'--धा.पा.] (धा.पा.757), `अनिदिताम्' (6.4.24) इति न लोपः, `झषस्तथोर्थोऽधः' (8.2.40) इति धकारः, `झलां जश् झशि' (8.4.53) इति भकारस्य बकारः। `विसृपः' इति। `सृपितृदोः कसुन्' (3.4.17) इति कसुन्। `विसर्जनात्' इति। ल्युट्। `दिविस्पृशम्' इति। `स्पृशोऽनुदके क्विन्' (3.2.58), `तल्पुरुषे कृति बहुलम्' (6.3.14) इति सप्तम्या अलुक्। `निस्यृहः' [निस्पृहम्--काशिका] इति। स्पृहणं स्पुहः, `एरच्' (3.3.56) इत्यच्, णिलोपः, निर्गतः स्पृहो निःस्पृहः। `सवनेसवने' इति। सुनोतेर्ल्युट्, सप्सम्येकवचनम्, वीप्सायां द्विर्वचनम्। `सूतेसूते' इति। `षूङ् प्राणिगर्भविमोचने' (धा.पा.1131) सुवतेर्वा, निष्ठा। `सोमेसोमे' इति। सुञित्येतस्मात् `अर्त्तिस्तु' (द.उ.7.26) इत्यादिना सोमशब्दः व्युत्पादितः। `सवनमुखेसवनमुखे' इति। सवनस्य मुखमिति षष्ठीसमासः। `किंसं किंसम्' इति। `षो अन्तकर्मणि' (दा.पा.1147), `आतोऽनुपसर्गे कः (3.2.3)। तत्र किमो कमारस्यानुस्वारे कृते `अयोगवहानामट्सूपदेशादङ्व्यवायेऽपि इति पूर्वपदस्थान्निमित्तात् प्राप्तः। `अनुसवनमनुसवनम्' [`अनुसवनमिति'--इति प्रा.मु.पाठः] इति। ल्युडन्तमेतत्। अश्यसनेर्व्युत्पत्तिर्गोसनिवत्।
अगाश्वसनिग्रहणं किमर्थम्? न ह्यत्र सकारस्य षत्वं प्राप्नोति, तथा हि पुर्वस्थादिण उत्तरस्य षत्वं प्राप्नोति, न चासाविण उत्तरः सकारः? इत्यत आह--`अश्वसनिग्रहणम्' इत्यादि। किमेतज्ज्ञापनेन प्रयोजनम्? इत्यत आह--`जलाषाहम्'
इत्यादि। क्वचित् `विसंबिसम्, मुसलमुसलम्' इति पाठः। स्थाने द्विर्वचनपक्षे `आदेशप्रहत्यययोः' (8.3.59) इत्यादेशसकारत्वात् प्राप्तस्य षत्वस्य प्रतिषेधो वक्तव्यः।।
111. सात्पदाद्योः। (8.3.111)
`आदेशप्रत्यययोः' (8.3.59) इति षत्वे प्राप्तेऽयं प्रतिषेध-।।
112. सिचो यङि। (8.3.112)
`आदेशप्रत्यययोः' (8.3.59) इति `उपसर्गात् सुनोति' (8.3.65) इति च प्राप्तस्य षत्वस्यार्य प्रतिषेधः। `सेसिच्यते' इति। `आदेशप्रत्यययोः' (8.3.59) इति प्राप्तिः। `अभिसेसिच्यते' इति। अत्र `उपसर्गात् सुनोति' (8.3.65) इत्यादिना।
कथं पूनरत्र प्रतिषेधः प्रवर्त्तते? यावता `उपसर्गात्' (8.3.65) इत्यादिना सूत्रेण षत्वं प्रतिषेधविषये विधीयते। अत्रोपसर्गस्थान्निमित्ताद्या प्राप्तिः सा यथा `सात्पदाद्योः' (8.3.111) इतीमं पदादिलक्षणप्रतिषेधं बाधते, तथा `सिचो यङि' (8.3.112) इत्यतच्च? इति देश्यमाशङ्क्याह--`उपसर्गाथा प्राप्तिः' इत्यादि। येन नाप्राप्तिन्यायेन (व्या.प.49) पदादिलक्षणस्यैव प्रतिषेधस्य बाधा युक्ता, तत्र प्राप्त एवोपसर्गार्थमारभ्यते, `सिचो यङि' (8.3.112) इत्येतस्मिन् पुनः प्राप्ते चाप्राप्ते च। अथ वा--`पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्' (व्या.पा.9) इत्येवमुपसर्गात् षत्वप्राप्तिः सिचः पदादिलक्षणमेव प्रतिषेधं बाधते, न तु सिचो यङीत्यभिप्रायः।।
113. सेधतेर्गतौ। (8.3.113)
`उपसर्गात्' सुनोति' (8.3.64) इति प्राप्तस्य षत्वस्य प्रतिषेधः। प्रतिषेधस्याकार्यादिति निवारणे सेधतिर्थर्त्तते।।
114. प्रतिस्तब्धनिस्तब्धौ च। (8.3.114)
`प्रतिस्तब्धम्, निस्तब्धम्' इति। `स्तम्भेः' (8.3.67) इति प्राप्तस्य षत्वस्यापवादो निपात्यते।।
115. सोढः। (8.3.115)
`परिनिविभ्यः' (8.3.70) इति प्राप्ते षत्व आरभ्यते। `सोढः' इति। निष्ठायामपि प्रथमैकवचने कृत एतद्रूपं भवति। एतद्ग्रहणाशङ्कानिरासायाह--`सहिरयम्' इत्यादि। `सोङ्भूतः'[`सोढभूतः'--प्रा.मु.पाठः] इति। हकारे ढकारे कृते यद्रूपं भवति तत्प्राप्त इत्यर्थः। ढकारस्तु जश्त्वे न श्रूयते। `परिसोढः' इति। घत्वढत्वष्टुत्वढलोपेषु कृतेषु `सहिवहोरोदवर्णस्य' (6.3.112) इत्योकारः।।
116. स्तम्भुसिवुसहां चङि। (8.3.116)
अत्राद्यस्य `स्तन्भेः' (8.3.67) इति षत्वे प्राप्ते, इतरयोस्तु `परिनिविभ्यः' (8.3.70) प्रतिषेधेऽयमारभ्यते। `अभ्यतस्तम्भत्' इति। णिच्, लुङ्, णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ्' (3.1.48), णिलोपः, `चङि' (6.1.11) इति द्विर्वचनम्, पूर्ववत् खयः शेषः, अट्, `प्राक्सितादड्व्यवायेऽपि' (8.3.63), `स्थादिष्वभ्यासेन चाभ्यासस्य' (8.3.64) इति व्यवाये सत्युपसर्गस्थान्निमित्तातु षत्वं प्राप्तं न भवति। `पर्यसीषिवत्' इत्यादि। पूर्ववल्लुङादि, सिवेर्लधूपधगुणः, सहेस्तु `अत उपधायाः' (7.2.116) इति बृद्धिः, `सन्वल्लघुनि' (7.4.93) इतीत्त्वे, उभयोः `णो चङ्युपधायाः' (7.4.1) इति ह्रस्वः। `दीर्घो लघोः' (7.4.94) इति दीर्घः। अत्रापि `सिवादीनां वाङ्यवायेऽपि' (8.3.71) इत्यङ्व्यवाय उपसर्गस्यान्निमित्तात् परेषां प्राप्नोति, तत्र भवति।
`सिवुसहोः' इत्यादि। एतयोः सिवुसहोश्चङ्युपसर्गस्थान्निमित्तात् षत्वं प्राप्नोति, तनमा भूदित्येवमर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? इत्याह--`उपतर्गाद्या प्राप्तिः' इत्यादि। तत्रेदं व्याख्यानम्--`डपसर्गात् सुनोति' (8.3.65) इत्यतो मण्डूकप्लुतिन्यायेनोपसर्गादितीहानुवर्त्तते। तेनोपसर्गाद्या प्राप्तिस्तस्या एव प्रतिषेधो भविष्यतीति। `तथा चैवोदाहृतम्' इति। यत्तदर्थरूपं व्याख्येयम्, तत्तथोक्तम्। तदर्थरूपमेवोदाहृतमित्यर्थः।।
117. सुनोतेः स्यसनोः। (8.3.117)
`अभ्यसोष्यत्' इति। लृङ्।
`अभिसुसूषति' इति। सन्, `इको झल्' (1.2.9) इति कित्त्वे गुणाभावः। `ञज्झनगमां सनि' (6.4.16) इती दीर्घः। `अत्र' इत्यादि। इतिकरणो हेतौ। अत्र यस्मात् `स्तौतिण्योरेव षण्यभ्यासात्' (8.3.61) इत्यतो नियमादप्राप्ते `स्थादिष्वभ्यासेन' (8.3.64) इति नियमादप्राप्तिस्तस्मादभिसुसूरित्युदाहरन्ति। स्यादेतत्--अत्रापि नास्ति यत् तदप्युदाहरणं नोपपद्यते? इत्यत आह--`सन् षभूतो न भवति' इत्यादि। षभूते हि सनि स्तौतिण्योरेव (8.3.61) नियमः, न चात्र सन् षभूतः। तस्मादसति सन्ग्रहणेऽब्यासस्थान्निमित्तात् `आदेशप्रत्यययोः' (8.3.59) इति षतद्वं न प्राप्नोति। अभ्यासग्रहणमुपसर्गात् प्राप्तेरसन्भवात्। अत उपसर्गस्थान्निमित्ताद्धातुसकारस्य षत्वं न प्राप्नोति; अभ्यासेन व्यवहितत्वात्, नास्याससकारस्य स्थादिनियमेन व्यावर्त्तितत्वात्। `अभिसुसूः' इति। अभिसुसूष इति स्थिति क्विप्, `अतो लोपः' (6.4.48), षत्वस्यासिद्धत्वाद्रुत्वविसर्णनीयौ।।
118. सदिस्वन्ज्योः [`सदिस्वञ्जोः'--प्रा.मु.न्यासपाठः] परस्य लिटि। (8.3.118)
लिटि द्विर्वचने कृते द्वौ सकारौ सम्भवतः। तत्र सदेः `स्थादिष्वभ्यासेन चाभ्यासल्य' (8.3.64) इति सत्यप्यभ्यासेन व्यवाये षत्वं प्राप्नोति, त्वञ्ञेरपि `स्वञ्जेरपि `उपसर्गात् सुनोति' (8.3.65) इत्यादिना, अतः प्रतिषेधोऽयमारभ्यते। `अभिवस्वजे' इति। लिट्, `लिटस्तझयोरेशिरेच्' (3.4.81) इत्येश, `अनिदिताम्' (6.4.24) इति नलोपः। ननु चासंयोगादिति (1.2.5) प्रतिषेधात् स्वञ्जेः परस्य लिटः कित्त्वं नास्ति, तत् कथमत्र नलोपः? इत्यत आह---`स्वञ्जेः संयोगान्तादपि लिटि विभाषा कित्त्वमिच्छन्ति' इति। तच्च `इन्धिभवतिभ्याञ्च' (1.2.6) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्; `विभाषोर्णोः' (1.2.3) इत्यतो विभाषाग्रहणानुवुत्तेर्षा। नन्वेदम्, `इन्धिभवतिभ्याञ्च' (1.2.6) इत्यत्रापि विभाषा प्रसज्येत? वैम्, तस्या व्यवस्थितविभाषाविज्ञानात्।।
119. निव्यभिभ्योऽड्व्यवाये वा छन्दसि। (8.3.119)
येन केनचिल्लक्षणेन प्राप्तस्य षत्वस्य प्रतिषेधोऽयमारभ्यते। `न्यसीवत्' इति। लङ्; `पाघ्रा' (7.3.78) इत्यादिना सीदादेशः। अत्र `सदिरप्रतेः' (8.3.66) इति प्राप्तिः। `न्यस्तौत्' इति। `उपसर्गात् सुनोति' (8.3.65) इत्यादिना स्तौतेर्लङ्, अदादित्वाच्छपो लुक्, `अतो वृद्धिर्लुकि हलि' (7.3.89) इति बृद्धिः।।
इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायामष्टमाध्यायस्य
तृतीयः पादः
- - -