सामग्री पर जाएँ

काशिकाविवरणपञ्जिका/अष्टमोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः
काशिकाविवरणपञ्जिका
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

अष्टमोऽध्यायः

प्रथमः पादः

1. सर्वस्य द्वे। (8.1.1)
स्वरितलिङ्गासङ्गादधिकारत्वमस्यावगम्याह--`सर्वस्य' इत्यादि। `वक्ष्यामः' इति। व्याख्यास्याम इत्यर्थः। `प्राक्‌ पदस्य' [`पदस्य' इत्यतः प्राक्‌--काशिका] इति। `पदस्य' (8.1.16) इति वक्ष्यमाणो यो योगस्तस्मात्‌ प्रागिन्यर्थः। `पदस्य' (8.1.16) इति वक्ष्यमाणस्य योगस्यानुकरणमेतत्‌। विभक्तिस्त्वनुकार्यानुकरणयोर्भेदस्यादिवक्षितत्वादसत्यर्थवत्वे प्रातिपदिकत्वाभावान्न भवति, यथा--गवित्ययमाहेति। `सर्वस्य द्वे भवत इत्येवं तद्वेदितव्यम्‌' इति। इतिकरणोऽर्थनिर्देशार्थः। `सर्वस्य द्वे भवतः' इति योऽयमर्थः प्रतीयत एतदर्थरूपं तद्वक्ष्यमाणं वेदितव्यमित्यर्थः।
`वक्ष्यति' इति। सूत्रकारः। `तत्र' इति। `नित्यवीप्सयोः' (8.1.4) इत्यत्र योगे। इह द्वौ पक्षौ सम्भवतः--स्थाने द्विर्वचनम्‌, द्विष्प्रयोगो द्विर्वचनञ्चेति। कथं कृत्वा? सर्वस्येति शब्दानुशासनप्रस्तावात्‌ सर्वस्य शब्दस्येति गम्यते। यद्‌ द्विशब्दश्चायं `आदशभ्यः संख्याः संख्येये वर्त्तन्ते' (हे.ग.90) इति संख्येयवचनः, तच्चेह संख्येयं शब्दरूपं वा स्यात्‌, आवृत्तिर्वा? `द्वे' इत्यपि निर्देशो नपुंसकलिङ्गेन वा स्यात्‌? स्त्रीलिङ्गेन वा? तत्र यदा नपुंसकलिङ्गेन निर्देशः, तदा शब्दरूपे संख्येये। यदि स्त्रीलिङ्गेन निर्देशा, तदा शब्दस्यावृत्ती उच्चारणलक्षणे क्रिये। तत्र यदा शब्दरूपे विधीयेते तदा सर्वस्येति स्थानषष्ठीयं सम्पद्यते; अनियतसम्बन्धत्वात्‌ `षष्ठी स्थानेयोगा' (1.1.49) इति न्यायात्‌। अस्मिन्‌ दर्शने `स्थाने द्विर्वचनम्‌' इत्येष पक्षो भवति। यदा तु द्वे आवृत्ती विधीयेते तदा `द्विष्प्रयोगो द्विर्वचनम्‌' इत्येष पक्षो जायते। अस्मिन्‌ दर्शने स्थान्यादेशभावो नास्ति। आवृत्तिर्हि क्रिया, तस्याश्चेह शब्दः साधनम्‌। न च क्रियायाः साधनस्य च स्थान्यादेशभाव उपपद्यते। यदि हि स्यात्‌, शब्दस्य स्थानिनो निवृत्तिधर्मत्वान्निवृत्तिरेव स्यात्‌; ततश्च क्रियाया अभाव एव स्यात्‌। न हि शब्देन विनोच्चारणक्रियोपपद्यते; तस्याः शब्दधर्मत्वात्‌। तस्माद्यदाद्वे आवृत्ती विधीयेते तदा `द्विष्प्रयोगो द्विर्वचनम्‌' इत्येष पक्ष उपजायते। अस्मिंस्तु पक्ष आवॄत्तिशब्दापेक्षया सर्वस्येति `कर्त्‌तृकर्मणोः कृति' (2.3.65) इति कृद्योगलक्षणा कर्त्तृषष्ठी वेदितव्या। सर्वो हि शब्द आवर्त्त्यमान एवावृत्तिक्रियायाः कर्त्ता भवति। अवाद्यां पक्षमाश्रित्यैतदुक्तम्‌--सर्वस्य स्थाने द्वे भवत इति।
कथं पुनः स्थाने द्विर्वचनपक्ष आश्रितः? कथं पुनर्नाश्रयितव्यः? सदोषत्वात्‌। स्थाने द्विर्वचने पुनः--श्वलिट्च्छवलिट्‌, दाग्वागिति `पूर्वत्रासिद्धम्‌' (8.2.1) इत्यसिद्धत्वात्‌ पूर्वं ढत्वादिभ्यो द्विर्वचने कृते ढत्वादयोऽत्र न सिद्ध्यन्ति; अपदान्तत्वात्‌? नैष दोषः; वक्ष्यति ह्येतत्‌--`पूर्वत्रासिद्धीयमद्विर्वचने' (जै.प.दृ.70) इति। अपि च नित्येऽर्थे वीप्सायाञ्च यः शब्दो वर्त्तते तस्य द्विर्वचनं विधीयते, न च ढत्वादिष्वकृतेषु नित्यादावर्थे पदस्य वृत्तिरुपपद्यते। तस्मात्‌ पूर्वं ढत्वादिभिरेव भवितव्यम्‌; पश्चाद्‌द्विर्वचनेनेत्येष क्रमः। इह तर्हि विसंविसम्‌, मुसलम्भुलमित्यत्र `आदेशप्रत्यययोः' (8.3.59) इति षत्वं प्राप्नोति? अयमप्यदोषः; यस्मादादेशो यः सकारस्तस्य षत्वं विधीयते, न ह्यत्रादेशः सकारः, किं तर्हि? तदवयवः। इह तर्हि नृभिर्नृभिरित्यत्र `रषाभ्यां नो णः समानपदे' (8.4.1) इति णत्वं प्राप्नोति? एषोऽप्यदोषः; कार्यिणो नकरस्य रेफादिना निमित्तेन यदा सर्वदा समानपदस्थत्वमेवं सति णत्वेन प्राप्नोति? एषोऽप्यदोषः; कार्यिणो नकारस्य रेफादिना निमित्तेन यदा सर्वदा समानपदस्थत्वमेवं सति णत्वेन भवितव्यमिति। किं वक्तव्यमेतत्‌? न; कथं तर्हि अनुच्यमानं लभ्यते? समानग्रहणसामर्थ्यात्‌। यदि हि यत्र समानपदस्थत्वमसमानपदत्वञ्च तत्रापि स्यात्‌, समानग्रहणमनर्थकं स्यात्‌। नृभिरिति शब्दस्य नकारस्य द्विर्वचन एव कृते रेफेण निमित्तेन समानपदस्थत्वम्‌, नाऽकृते। तस्माददुष्ट एव स्थाने द्विर्वचनपक्ष इति युक्त एवाश्रयितुम्‌। `के द्वे' इति। एवं मन्यते--विशिष्टे द्वे एवेष्येते, इह च विशेषानुपादानादनियमेन ये केचन शब्दरूपे अप्नुत इति। `स्थानेऽन्तरतमः' (1.1.50) इति परिभाषया व्यवस्था भवितव्यतीत्यनेनाभिप्रायेणाह--`ये शब्दतश्च' इत्यादि। इह केषाञ्चित्‌ शब्दानां शब्दत एवान्तरतम्यम्‌, यथा--बिभीतकादिवाचिनामक्षादिशब्दानाम्‌। केषाञ्चिदर्थत एव, न शब्दतः, यथा--तरुपादपादिशब्दानाम्‌। केषाञ्चिदुभयत एव, यथा--द्वयोः पजतिशब्दयोस्तिङतयोः। ततोभयथा यत्रान्तरतम्यमस्ति तत्र यथा स्यादित्येवमर्थमुभयोर्ग्रहणम्‌। एतच्च `स्थानेऽन्तरतमः' (1.150) इति परिभाषायास्तमब्ग्रहणाल्लभ्यते। ते एवोभयथाऽन्तरतमे दर्शयितुमाह--`एकस्य' इत्यादि। अथ `स्वं रूपं शब्दस्याशब्दसंज्ञा' (1.1.68) इति स्वरूपग्रहणाद्‌द्विशब्दादेश एव कस्मान्न भवति? द्विर्वचनेन निर्देशात्‌। स्वरूपग्रहणे तु सति द्विशब्दादेशप्रसङ्गः। यतश्चायं `तस्य परमाभ्रेडितम्‌' (8.1.2), `अनुदात्तञ्च' (8.1.3) इत्याह, ततो, विज्ञायते--न द्विशब्दादेश इति। द्विशब्दादेशे हि सति भेदनिबन्धनत्वात्‌ परस्य द्विशब्दस्य चाभिन्नत्वात्‌ परत्वमेव तावन्न द्विशब्दादेशे स्यात्‌, कुतः पुनराम्रेडितसंज्ञा, अनुदात्तत्वञ्च? यदि च द्विशब्द आदेशः स्यात्‌, `अव्यक्तानुकरणस्यात इतौ' (6.1.98) इत्यनुवर्त्तमाने `नाम्रेडितस्यान्त्यस्य तु या' (6.1.99) इत्याम्रेडितावयवस्याच्छब्दस्य पररूपत्वप्रतिषेधो नोपपद्यते, न द्विशब्दस्याच्छब्दोऽवयवोऽस्ति। एतेन सर्वशब्दस्यापि स्वरूपग्रहणं प्रतिक्षिप्तम्‌। यदि हि सर्वशब्दस्य स्वरूपग्रहणं स्यात्‌, तस्यैव हि द्विर्वचनं स्यात्‌। ततश्च पूर्ववदाम्रेडितसम्बन्धिनोऽच्छब्दस्य पररूपत्वप्रतिषेधो नोपपद्यते, `नित्यवीप्सयोः' (8.1.4) इत्यत्र नित्यग्रहणं चानर्थकं स्यात्‌। तत्र हि नित्येऽर्थे वीप्सायां च वर्त्तमानस्य द्विर्वचनं विधास्यते। न च सर्वशब्दस्य नित्येऽर्थे वृत्तिरस्ति, तिङ्क्षु नित्यता; `अव्ययकृत्सुच्सुप्सु वीप्सा' इति वचनात्‌। तस्मात्‌ सर्वस्येत्यत्रार्थग्रहणम्‌। सर्वशब्दोऽयमिह सकले कलावति वर्त्तते, तेन पचतीत्यादेः कृत्स्नस्य शब्दस्य द्विर्वचनं भवतीत्यलमतिप्रसङ्गेन। एवं तावत्‌ स्थाने द्विर्वचनपक्षमाश्रित्य `सर्वस्य स्थाने द्वे भवतः' इत्युक्तम्‌।
इदानीम्‌ `द्विष्प्रयोगो द्विर्वचनम्‌' इति पक्षमाश्रित्याह--`यदा तु' इत्यादि। तुशब्दः पूर्वस्मात्‌ पक्षाद्विशेवस्य प्रदर्शकः, तत्रान्तरतम्येन द्वे शब्दरूपे आदिश्येते। इह तु स एव शब्दो द्विरावर्त्त्यते, द्विरुच्यत इत्यर्थः। `द्वे आवृत्ती भवतः' इति। द्वे उच्चारणाक्रिये भवत इत्यर्थः। कथं पुनः `द्विष्प्रयोगो द्विर्वचनम्‌' इति पक्ष आश्रयितव्यः? कथं च नाश्रयितव्यः? सदोषत्वात्‌। द्विष्प्रयोगे हि--`आम्‌ पचसि पचसि देवदत्त' इत्यत्र `आम एकान्तरमामन्त्रितमनन्तिके' (8.1.55) इति निघातप्रतिषेधो न प्राप्नोति; आमन्त्रितस्य पदद्वयेन व्यवधानादेकान्तरताया अभावात्‌। स्थाने पुनर्द्विर्वचने ह्येकपदस्यायमादेश इति सत्यप्यादेशस्य स्वगते भेदे स्थानिवद्भावादेकत्वव्यपदेशे सत्येकीवितरती भवतीति निघातप्रतिषेधः सिध्यति? नैष दोषः; धर्मभेदादुपचरितो हीह भेदः, स्वगतस्त्वभेद एव; अन्यथा वृत्तिरेव न स्यात्‌। एकस्यैव हि वस्तुन आवृत्तदिः क्रियते। तस्माद्भिन्नत्वाद्वस्तुन इहैव सुनरमेकान्तरता सिध्यति। इह तर्हि पौनःपुन्यमिति? अत्र `गुणवचनब्राह्मणादिभ्यः कर्मणि च' (5.1.124) इति ष्यञ्‌ न प्राप्नोति, पौनःपुनिक इत्यत्र च `कालाट्ठञ्‌' (4.3.11) इति ठञ्‌ न प्राप्नोति; अप्रातिपदिकत्वात्‌। अप्रातिपदिकत्वं त्वर्थवत्समुदायानां समासस्यैवेति समासग्रहणस्य नियमार्थत्वात्‌। स्थाने द्विर्वचने पुनर्यद्यपि सुबन्ततया स्वाश्रया प्रातिपदिकसंज्ञा नास्ति, तथापि स्थानिवद्भावात्‌ प्रातिपदिकग्रहणे ग्रहणात्‌ प्रातिपदिकं भवति। यद्यपि चास्य स्थानी प्रत्ययलक्षणेन सुबन्तः; तथाप्यप्रत्ययः (1.2.45) इति प्रातिपदिकसंज्ञायाः प्रतिषेधो न भवति; प्रातिपदिकसंज्ञायाः प्रत्ययलक्षणेताप्रत्यय (1.2.45) इति प्रतिषेधो न भवतीत्यस्यार्थस्य `न ङिसम्बुद्ध्योः' (8.2.8) इत्यनेन ज्ञापितत्वात्‌। द्विष्प्रयोगे द्विर्ववसेऽपि न दोषः। अत्र समासग्रहणं हि तुल्यजातोयस्यैव प्रातिपदिकसंज्ञां निवर्त्तयति। कश्च तुल्यजातीयः? यस्य भेदसंसर्गद्वारेण समुदायार्थ उपजायते। कस्य चैवं विधोऽर्थं उपजायते? वाक्यस्य। नित्यादिश्चायमर्थः पदादस्थायां न दृष्ट एव। द्विरुक्तिकाले दृश्यमानः पदान्तरेण न भिद्यते, नापि संसृज्यत इति कुत एवम्प्रकारस्य समासग्रहणान्निवृत्तिः। अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति--भवत्येवंजातोयेभ्यस्तद्वितोत्पत्तिरिति, यदयं कस्यादिषु कौतस्कुतशब्दं पठति। कुतः कुत आगत इति `अव्ययात्त्यप्‌' (4.2.104) इति त्यपि प्राप्तेऽस्मादेव निपातनादण्‌।
सर्वस्येति वचनमिह `अलोऽन्त्यस्य' (1.1.52) निवृत्त्यर्थं वा स्यात्‌? षष्ठ्यर्थप्रतिपत्त्यर्थ वा? तत्र त्वलोऽन्त्यनिवृत्त्यर्थं तावन्नोपपद्यते। तथा हि--शब्दतश्चार्थतश्चान्तरतमाभ्यां द्वाभ्यां शब्दरूपाभ्यां भवितव्यम्‌। ये चैवम्प्रकारे ते नियोगतोऽनेकाल्स्वरूपे इत्यन्तरेणापि सर्वग्रहणेन `अनेकाल्शित्सर्वस्य' (1.1.55) इति। सर्वस्यैव भविष्यतः, नान्त्यस्य। षष्ठ्यर्थप्रतपत्त्यर्थमपि सर्वग्रहणं नोपपद्यते। तथा हि--यत्र तावत्‌ षष्ठ्युच्चार्यते `परेर्वर्जने' (8.1.5) इत्यादौ, तत्र षष्ठ्युच्चारणादेव षष्ठ्यर्थस्य प्रतिपत्तिर्भविष्यति। `नित्यवीप्समोः' (8.1.4) इत्यत्र यद्यपि षष्ठी नोच्चार्यते, तथापि सर्वस्येति वचनमन्तरेणापि शक्यते षष्ठ्यर्थोऽवगन्तुम्‌। कथम्‌? `द्वे' इति ह्यादेशनिर्देशः, आदेशश्च सम्बन्धिनमपेक्षते, `नित्यवीप्सयोः' (8.1.4) इति चार्थनिर्देशाः; न चार्थनिर्देशे स्थान्यादेशसम्बन्ध उपपद्यते। तस्मान्नित्यदीप्सयोर्यः शब्दो वर्त्तते तस्य द्वे भवतः--इत्येवं वाक्यार्थः स्थाने द्विर्वचनपक्षे तावदवगम्यते। यदा `द्विष्प्रयोगो द्विर्वचनम्‌' तदापि विना सर्वस्येति वचनेन षष्ठ्यर्थोऽवगम्यत एव। एवं ह्यावृत्तिर्हि क्रिया, तस्या अवश्यं साधनेन सम्बन्धिना भवितव्यम्‌; तदायत्तत्वादात्मलाभस्य क्रियायाः। तस्माद्यत्तस्याः क्रियायाः साधनं तस्य द्वे भवत इति विल्पष्टैव षष्ठ्यर्थप्रतिपत्तिर्भवतीत्यभिप्रायेणाह--`सर्वस्येति किम्‌' इति। `विस्पष्टार्थम्‌' इति। य एवं न शक्नोति सर्वादेशं षष्ठ्यर्थं वा प्रतिपत्तुम्‌, तं प्रति सुखप्रतिपत्तये सर्वस्येत्युच्यत इति भावः।
`अथ' इत्यादि। एवं मन्यते--`पदस्य' इत्युच्यमाने समासतद्धितवाक्यानां द्विर्वचननिवृत्तिः कृता भवति; उत्तरत्र च `पदस्य' (8.1.16) इति वक्तव्यं न भवति। एतदेव हि `पदस्य' इति वचनं तत्रानुवर्त्तयिष्यते। अनुच्यमाने `पदस्य' इत्येस्मिन्‌, समासस्यापि द्विर्वचनं स्यात्‌--पर्वणिपर्वणि सप्तसप्त पर्णान्यस्य सन्तीति सप्तपर्ण इति; तद्धितस्यापि द्वौ द्वौ पादौ ददाति `पादशतस्य संख्यादेः' (5.4.1) इत्यादिना वन्‌--द्विपदिकां ददातीति; वाक्यस्यापि--ग्रामेग्रामे पानीयमिति। पदस्य' (8.1.16) इति चोत्तरत्र न वक्तव्यं भवति। `नैवं शक्यम्‌' इति। अत्र कारणमाह--`इह हि' इत्यादि। `प्रपचति' इति। वाक्यमेतत्‌, पदसमुदायात्मकत्वात्‌। अत्र `पदस्य' इत्युच्यमानेऽस्य द्विर्वचनं न स्यात्‌। तस्मादशक्यं पदस्येति वक्तुम्‌। सप्तपर्णः, द्विपदिकां ददातीत्यत्र तु पदस्येत्युच्यमाने द्विर्वचनं न भविष्यति; समासतद्धिताभ्यामेवोक्तत्वात्‌। वीप्सायां ग्रामेग्रामे पानीयमित्यत्रापि न भविष्यति; अवयवद्विर्वचनेनैव वीप्साया द्योतितत्वादित्यभिप्रायः।
`इह' इत्यादि। `द्रूह जिधांसायाम्‌' (धा.पा.1197), ततस्तृच्‌, द्रुह्‌+तृ इति स्थिते घत्वढत्वे प्राप्नुतः, द्विर्वचनं च, तत्र `पूर्वत्रासिद्धम्‌' (8.2.1) इति द्विर्वचने कर्त्तव्ये यत्वढत्वयोरसिद्धत्वादकृतयोरेव तयोर्द्विर्वचनं पूर्वं प्राप्नोति। कृते तस्मिन्‌ पश्चात्‌ `वा द्रुहमुहष्णुष्णिहाम्‌' (8.2.33) इति विकल्पे सत्यनिष्टमपि प्राप्नोति। नावश्यमिष्टमेव यद्ययं नियमो लभ्यते। यदैकस्य धत्वं भवति तदा द्वितीयस्यापि घत्वेन भवितव्यम्‌, यदा त्वेकस्य ढत्वं तदा द्वितीयस्यापि ढत्वेन भवितव्यमिति तदेष्टमेव स्यात्‌। न त्वेष नियमो लभ्यते; नियमकारणाभवात्‌। तस्मात्‌ कदाचिदनिष्टमपि स्यात्‌। तत्र यदा पूर्वोत्तरयोरेकस्य घत्वं भवत्यपरस्य ढत्वम्‌, तदानिष्टमपि प्राप्नोति। यदोभयोरपि घत्वं ढत्वं वा भवति, तदेष्टं स्यात्‌ तस्मादनिष्टनिवृत्त्यर्थम्‌ `पूर्वत्रासिद्धीयमद्विर्वचने' (जै.प.वृ.70) इति वक्तव्यम्‌। `पूर्वत्रासिद्धम्‌' (8.2.1) इत्यस्मिन्नधिकारे भवं पूर्वत्रासिद्धीयं नलोपादिकार्यम्‌। गहादित्वाच्छः (4.2.138), ततो द्विर्वचनादन्यत्रासिद्धं भवति, न तु द्विर्वचने।
अथ वा--पूर्वत्र सपादसप्ताध्याय्यामसिद्धं पूर्वत्रासिद्धम्‌, तदेव नलोपादिकार्यम्‌, तत्र भवं पूर्वत्रासिद्धीयम्‌। तत्‌ पुनस्तस्यैव नलोपादेरसिद्धत्वम्, तद्‌द्विर्वचनादन्यस्मिन्‌ कर्त्तव्ये भवति, न तु द्विर्वचन एव। एतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--`न मु ने' (8.2.3) इत्यत्र नेति यचोगविभागः कर्त्तव्यः, तेन द्विर्वचने कर्त्तव्येऽसिद्धत्वं न भविष्यतीति। असति चासिद्धत्वे द्रूहेस्तृचि कृते पूर्वं विकल्पेन घत्वम्‌, `झषस्तधोर्घोऽधः' (8.2.40) इति धत्वम्‌, `झलां जश्‌ झशि' (8.4.53) इति जश्त्वम्‌--धकारस्य गकारः, ततो द्विर्वचनम्‌--द्रोग्धाद्रोग्योति। यदा तु घत्वं नास्ति तदा `हो ढः' (8.2.31) इति ढत्वम्‌, पूर्ववद्धत्वम्‌। ष्टुत्वञ्च, `ढो ढे लोपः' (8.3.13) इति पूर्वढकारलोपः, ततो द्विर्वचनम्‌--द्रोढाद्रोढेति; इष्टमेव सिध्यति। यदि तर्हि `पूर्वत्रासिद्धीयमद्विर्वचने' (जै.प.वृ.70) इत्येतद्वक्तव्यम्‌; तदा `पूर्वत्रासिद्धम्‌' (8.2.1) इत्यत्र औजढवित्यस्य सिद्धये यद्वक्ष्यति--`ढत्वष्टुत्पढलोपादीनामसिद्धत्वाण्णौ यष्टिलोपस्तस्य स्थानिवद्भावाद्‌ हत्‌ इत्येतद्‌द्विरुच्यते' इति--तद्धिरुध्यते? नास्ति विरोधः; `पूर्वत्रासिद्धीयमद्विर्वचने' (जै.प.वृ.70) इत्यस्यासर्वविषयत्वात्‌। कथं विज्ञायते? `उभौ साभ्यासस्य' (8.4.21) इत्यस्य सूत्रस्यारम्भात्‌। यदि हि `पूर्वत्रासिद्धीयमद्विर्वचने' (जै.प.वृ.70) इत्येतत्‌ सर्वविषयकं स्यात्‌, एवं सति `अनितेः' (8.4.19) इत्यनेन कृतणत्वस्य द्विर्वचनेन भवितव्यमिति सिद्धम्‌--प्राणिणिषतीत्यादिकं रूपम्‌, किम्‌ `उभौ साभ्यासस्य' (8.4.21) इत्येनेन सूत्रारम्भेम? आरब्धञ्च, ततो ज्ञापते, पूर्वत्रासिद्धीयमद्विर्वचने' (जै.प.वृ.70) इत्येतदसर्वविषयमिति।
यस्तु मन्यते--आष्टमिकं द्विर्वचनमभिप्रेत्यैतद्वक्यव्यमिति, तदयुक्तम्‌; तस्य `सुविनिर्दुर्भ्यः सुपिसूतिसमाः' (8.3.88) इत्यत्र विषुषुपुरित्यस्य सिद्ध्यर्थं यद्वक्ष्यति--`षुपिभूतो द्विरुच्यते' इति; तद्विरुध्यते; यदि हि षष्ठिके द्विर्वचने कर्त्तव्ये षत्वस्यासिद्धत्वं नास्ति, एवं षुपिभूतस्य द्विर्वचनं लभ्यते, नान्यथा। तस्मात्‌ पूर्व एव परीहारः साधुः।
`सर्वस्येतद्वा' [`सर्वस्य' इत्येतदेव--काशिका, पदमञ्जरी च] इति। वाशब्दः पूर्वप्रयोजनापेक्षया विकल्पार्थः। अथ वा--नैवम्‌, विस्पटार्थ सर्वग्रहणम्‌। किं तर्हि? कृतसर्वकार्यस्य प्रतिपत्त्यर्थ कृतम्‌। सर्वं ढत्वादिकार्य यस्य तस्य प्रतिपत्तिः प्रतीतिर्यथा स्यादित्येवमर्थं सर्वग्रहणं द्रष्टव्यम। एतत्‌ कथम्‌? सर्वशब्दोऽयं मत्वर्थीयाकारप्रत्ययान्तः--सर्वं कार्यमस्यास्तीति सर्वः, अर्शआदित्वादच्‌ (5.2.127), तेन कृतसर्वकार्यस्य द्विर्वचनं भवतीत्युक्तं भवति।।

2. तस्य परमाम्रेडितम्‌। (8.1.2)
`तस्य' इत्वयवषष्ठी। तस्य द्विरुक्तस्य यत्‌ परमवयवभूतं शब्दरूपं तस्याभ्रेडितसंज्ञा विधीयते। अथ द्विष्प्रयोगद्विर्वचनपक्षे कथं परमिति व्यपदेशः? कथञ्च न स्यात्‌? तस्य भेदनिबन्धनत्वात्‌। परव्यपदेशो हि भेदनिबन्धनः। न च द्विष्प्रयोगद्विर्वचनपक्षे शब्दभेदोऽस्ति, आवृत्तिमात्रं हि तत्र भिद्यते, न शब्दः? नैष दोषः; अभिन्नस्यापि शब्दस्य धर्मभेदादौपचारिकमन्यत्वं भविष्यति। भवति हि धर्मभेदादभिन्नेऽपि वस्तुनि भेदव्यवहारः। तथा हि वक्तारो वदन्ति--परुद्भवान्‌ पटुरासीत्‌ पटुतरश्चैषमोऽन्य एवासि संवृत्त इति। `चौर चौर' इति। `एङ्ह्रस्वात्सम्बुद्धेः' (6.1.69) इति सुलोपः, `वाक्यादेरामन्त्रितस्य' (8.1.8) इत्यादिना भर्त्सने द्विर्वचनम्‌, `आर्म्रेडितं भर्त्सने' (8.2.95) इति प्लुतः। `दस्यो दस्यो' इति। `सम्बुद्धौ च' (7.3.106) इति गुणः।
अथ तस्यग्रहणं किमर्थम्‌, यावता `द्वे' इत्यनुवर्त्तिष्यते, तत्रैवं विज्ञायते--द्वयोर्यत्‌ परमिति? नैवं शक्यम्‌; `एकाचो द्वे प्रथमस्य' (6.1.1) इत्यत्रापि परमाम्रेडितसंज्ञं स्यात्‌। तस्यग्रहणे सति यत्रैतद्वक्ष्यमाणं द्विर्वचनं तस्य परमिति विज्ञायते। तेन न भवत्यतिप्रसङ्गः।
आम्रेडितमिति महत्याः संज्ञायाः करणमन्वर्थसंज्ञाविज्ञानार्थम्‌। आम्रेड्यत आधिक्येनोच्यत इत्याम्रेडितम्‌। तेनेहापि भवति--अहो दर्शनीया अहो दर्शनीया, मह्यं रोचते मह्यं रोचत इति। दर्शनीयत्वस्य रुचेश्चाधिक्यं द्योतयितुमत्र द्रष्टव्यं द्विर्वचनम्‌। एतदेव महत्याः संज्ञायाः करणं ज्ञापकम्‌--आधिक्याभिधाने द्विर्वचनं भवतीति।।

3. अनुदात्तञ्च। (8.1.3)
प्रकृतिस्वरे प्राप्ते परस्यानुदात्तत्वमुच्यते। अनुदात्तशब्दश्चात्र परशब्दसामानाधिकरण्यान्न शास्त्रीयमनुदात्तमाह, किं तर्हि? अन्वर्थो विज्ञायते--अविद्यमानमुदात्तमनुदात्तमिति। शास्त्रीये ह्यनुदात्ते गृह्यमाणे सम्बन्धार्थं परस्यैति षष्ठ्युच्चारयितव्या स्यात्‌। तथा च `अलोऽन्त्यस्य' (1.1.52) स्यात्‌। अथापि सर्वस्येत्यनुवर्त्तत, एवमपि वचनप्रामाण्यादेककाल एव सर्वादेशः प्रसज्येत। तस्मादन्वर्थस्यैव ग्रहणं युक्तम्‌। `भुङक्तेभुङ्क्ते' इति। `भुजोऽनवने' (1.3.66) इत्यात्मनेपदम्‌। तस्मिन्‌ कृते सति शिष्टस्वरत्वाद्धातुस्वरं बाधित्वा प्रत्ययस्वरः। श्नमि कृते यद्यपि तस्य स्वरः सतिशिष्टः, तथापि `विकरणस्वरः सार्वधातुकस्वरं न बाधते' इति तेशब्द एव स्वरे प्रसक्ते `तस्यनुदात्तेविङददुपदेशाल्लसार्वधातुकमनुदात्तमह्‌ न्विङोः' (6.1.186) इति सार्वधातुकस्यानुदात्तत्वम्‌, श्नसोरल्लोपे कृते `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इति पुनस्तेशब्द उदात्तः, नित्ये चार्थे द्विर्वचनम्‌, तस्मिन्‌ कृतेऽनेन परमनुदात्तं भवति। `पशून्पशून्‌' इति। `कुर्भ्रश्च' (द.उ.1-107) इत्यत `कुः' इत्यनुवर्त्तमाने `अर्जिवृशिकसम्यमिपशिबाधामृजिपशितुग्धुग्दीर्घहकाराश्च' (द.उ.1.112) इति कुप्रत्ययः, दृशे पशिरदिशश्च। पशृशब्दः प्रत्ययस्वरेणान्तोदात्तः, विभक्त्यकारेण सहैकादेशः, `एकादेश उदात्तेनोदात्तः' (8.2.5) वीप्सायां द्विर्वचनम्‌, अनेन परस्यानुदात्तत्वम्‌।।

4. नित्यवीप्सयोः। (8.1.4)
`नित्ये चार्थे वीप्सायाञ्च' इति। अनेन `नित्यदीप्सयोः' इति सप्तमीयमर्थनिर्देशार्था, न तु षष्ठीयमिति दर्शयति। यदि ह्येषा षष्ठी स्यात्‌, तदा स्वरूविधिः प्रसज्येत, ततश्च `नित्यं क्रोडाजीविकयोः' (2.2.17) इति, `पादशतस्य संक्यादेर्वीप्सायाम्‌' (5.4.1) इत्यादिनिर्देशो नोपपद्यते। इह नित्यशब्दोऽयं सर्वकालभादिनो य आत्माकाशादयः, यषामुत्पत्तिविनाशौ प्रयोक्तृभिर्नोपलभ्येते, तेष्वपि प्रयुज्यमानो लोके दृश्यते--नित्य आत्मा, नित्यमाकाशम्‌, नित्या द्यौरिति। आभीक्ष्ण्येऽपि--नित्यं प्रहसितः, नित्यं प्रजल्पित इति। तत्र यदीह सामान्येन तत्र नाम नित्यताऽभिधेयभावेन वर्त्तते तस्य नित्यार्थवाचिनो ग्रहणं स्यात्‌, आत्माकाशादिशब्दानामपि द्विर्वचनं प्रसज्येत--इत्येनेनाभिप्रायेणाह--`केषु नित्यता' इति। इतरो विदिताभिप्राय आह--`तिङ्क्षु नित्यताऽव्ययकृत्सुण' इति। अव्ययानि च तानि कृन्ति चेति कर्मधारयः। यद्यप्यात्माकाशादिशब्देष्वपि सर्वकालभावित्वलक्षणा नित्यताऽभिधेयभावेन वर्त्तते, तथापीह भावप्रधानेषु तिङ्क्ष्वव्ययकृत्सु चाभीक्ष्ण्यलक्षणा या नित्यता सैवाश्रीयते। अतोऽतिप्रसङ्गो न भवतीति भावः।
ननु च नित्यशब्दोऽयं सामान्यवचनः। न च सामान्यशब्दाः प्रकरणादिकमन्तरेण विशेषेऽवस्थातुमुत्सहन्ते। न चेह तथाविधं किञ्चित्‌ प्रकरणादिकमस्ति, यतो विशेषेऽवस्थानं स्यात्‌, तत्कुतो नित्यताविशेषपरिग्रहो लभ्यते? इति मन्यमान आह--`कुत एतत्‌' इति। आभीक्ष्ण्यमिह नित्यतेत्याश्रीयत इति शेषः। व्याप्तेराभीक्ष्ण्यवचनस्य नित्यशब्दस्य ग्रहणादिहाभीक्ष्ण्यलक्षणा नित्यताऽऽश्रीयते, पदस्य हि द्विर्वचनमुच्यते। तच्च पदं सुबन्तं तिङन्तं च, तत्र सुप्सु दीप्सेति वक्ष्यति। यदि च नित्यशब्दोऽयं कूटस्थवचनो गृह्यते, ततश्च कूटस्थमिति सुबन्तेष्वभिधेयभावेन वर्त्तत इति सुबन्थानामेव द्विर्वचनं स्यात्‌, न तिङन्तानाम्‌, नाप्यव्ययकृताम्‌। आभीक्ष्ण्यवचनस्य तु नित्यशब्दस्य ग्रहणे सति नित्यलक्षणद्विर्वचनमाख्यातानामव्यकृतां च भवति। वीप्सालक्षणञ्चान्येषामिति सर्व पदजातमनुगृहीतं भवति। तस्माद्वयाप्तेराभीक्षण्यवचनस्य नित्यशब्दस्य ग्रहणादिह `आभीक्ष्ण्यं नित्यता' इत्युपपन्नं भवति।
`आभीक्ष्ण्यमिह नित्यता' (इति)। सा च तिङ्क्ष्वव्ययकृत्सु चेति। कुत एतत्‌? इत्याह--`आभीक्ष्ण्यं च` इत्यादि। आभीक्ष्ण्यं हि पुनः पुनः प्रवृत्तिः। तच्च साध्यरूपायाः क्रियाया एव सम्भवतीति तस्या एव धर्मः, न तु द्रव्यस्य; तस्य सिद्धरूपस्यैव सुबन्तेनाभिधानात्‌। सा च क्रिया तिङन्तादिभिरेवाभिधीयत इति तेष्वेव नित्यता। कीदृशी पुनः सा क्रिया? आभीक्ष्ण्यलक्षणेन या नित्यत्वेन योगान्नित्यशब्देनोच्यते, इत्याह--`याम्‌' इत्यादि। `अनुपरमन्‌' इति। `विरतिमकुर्वन्‌' इत्यर्थः। `तन्नित्यम्‌' इति। तत क्रियारूपं वस्तु नित्यमित्यर्थः। `प्राधान्येन' इति। यदुद्दिश्य क्रियाप्रवृत्तिस्तत्‌ प्रधानम्‌, तस्य भावस्तथा। यद्यपि ग्रामं गन्तुमिच्छन्‌ वृक्षमूलोपसर्वणं पुनः पुनः करोति, तथापि न तन्नित्यमिति। एतदुक्तं भवति--न ह्यसौ प्राधान्येन तत्करोति; तदुद्दिश्याप्रवृत्तेः। तेन ग्रामं गच्छन्‌ वृक्षमूलान्युपसर्पतीत्यत्र सत्यप्यामभीक्षण्ये द्विर्वचनं न भवति। `यां क्रियाम्‌' इत्यनेन हि क्रिया धर्मिणी दर्शिता। `अनुपरमन्‌ करोति' इत्यनेनापि तस्या आभीक्षण्यं धर्मः।
`पचतिपचति' इति। तिङन्तस्योदाहरणम्‌। `भुक्त्वाभुक्त्वा, भोजंभोजम्‌' इति। अत्र `आभीक्षण्ये णमुल्च' (3.4.22) इति क्त्वाणमुलौ। `लुनीहिलुनीहि' इति। `क्रियासमभिहारे' (3.4.2) इत्यादिना लोट्‌, तस्य हिरादेशः, `लोट्धर्माणौ हिस्वो भवतः' इति (3.4.2) तत्रोक्तम्‌, तेन विकरणम्‌, [`विकरणः'--प्रा.मु.पाठः] `ईहल्यघोः' (6.4.113) इतीत्वम्‌। एतानि त्रीण्यव्ययकृतामुदाहरणानि। एषां क्त्वादीनां `कृदतिङ्‌' (3.1.93) इति कृत्संज्ञा। अव्ययसंज्ञा तु क्त्वाप्रत्ययस्य `कत्वातोसुन्कसुनः' (1.1.40) इति। णमुलस्तु `कृन्मेजन्तः' (1.1.39) इति। लोटस्तु स्वरादिष्वाभीक्षण्यस्य पाठात्‌।
ननु चैते क्त्वाणमृल्लोटश्चाभीक्ष्ण्य एव विधीयन्ते, तत्र यथा पापच्यत इति क्रियासमभिहारे विधीयमानेन यङा पौनःपुन्यस्य प्रकाशितत्वाद्‌द्विर्वचनं न भवति, तथा कत्वादिभिरपि तस्य प्रकाशितत्वान्न भवितव्यम्‌। अथ प्रकाशितेऽपि तस्मिस्तु तद्भवति, पापच्यत इत्यत्रापि स्यात्‌? इत्यत आह--`कत्वाणमुलोः' इत्यादि। भिन्ना हि भावानां शक्तयः। तथा हि--यामेव क्रियां भारोद्बहनादिकां कश्चित्‌ सहायसापेक्षः करोति, तामेवान्यः सहायनिरपेक्षः, तस्माद्यद्यपि चाभीक्ष्ण्ये क्त्वा णमुल्लोट्‌ च विधीयते, तथापि तैर्नैवाभीक्ष्ण्यभिव्यक्तं भवति। द्विर्वचनसापेक्षाणामेव तेषां पौनःपुन्यप्रकाशने शक्तिः, न केवलानाम्‌। तेन भवत्येव तदन्तस्य द्विर्वचनम्‌; यङन्तु द्विर्वचननिरपेक्षस्यापि पौनःपुन्याभिव्यक्तौ सामर्थ्ययमस्तीति तेनैवाभीक्षण्यस्य द्योतितत्वात्‌ पापण्यत इत्यत्र न भवति। आभीक्ष्ण्यप्रकाशनाय हि द्विर्वचनमुच्यते, एतच्च यङैव प्रकाशितमिति किं द्विर्वचनेन?
ननु च यङन्तस्यापि क्वचिद्‌द्विर्वचनमिष्यत एव, तच्च यङो द्विर्वचननिरपेक्षस्य यौनःपुन्यप्रकाशने शक्तौ सत्यां न सिद्ध्यति? इत्याह--`यदा तु' इत्यादि। द्विप्रकारः क्रियासमभिहारः पौनःपुन्यम्‌, भृशार्थश्च। तत्र यदा यङन्तेन द्विर्वचनं भवति तदा भृशार्थे यङ्‌। द्विर्वचनं तु नस्यैव भृशार्थस्य धर्मे पौनापुन्ये, न हि तद्यङा प्रकाशितम्‌; तस्य भृशार्थे विदितत्वादित्यभिप्रायः। `क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यम्‌। इति। अत्र यद्यपि क्रियासमभिहारशब्दः सामान्यः, तथापि सामर्थ्यादभृशार्थलक्षणा एव क्रियासमभिहारे तस्य वृत्तिर्विज्ञायते, न हि पौनःपुन्येऽन्यस्य पौनःपुन्यस्य सम्भवोऽस्ति। अथ कथं पौनःपुन्ये यङ्‌ भवति? कथं च न स्यात्‌? द्विर्वचनेनापदादेन बाधितत्वात्‌। यङः कोऽवकाश इति चेत्‌? भृशार्थ एव? नैष दोषः; पदस्य हि द्विर्वचनमुच्यते, धातोश्च यङ्‌। तथा कार्यिणोरतिभेदात्‌ कुतो बाधा?
`नित्यवीप्सयोः' इत्युक्तम्‌, तत्र नित्यता तिङ्क्ष्वव्ययकृत्सु चेत्युक्तम्‌। वीप्सा तु न विज्ञायते--क्वाभिधेयभावेन वर्त्तते? इति, अतस्तत्परिज्ञानार्थं पृच्छते--`अथ केषु वीप्सा' इति। इतरो विदिताभिप्राय आह--`सुप्सु वीप्सा' इति। सुपामेव तदभिवयक्तौ सामर्थ्यात्‌। यदि सामान्येन व्याप्तुमिच्छा वीप्सा तदा चिकीर्षाशब्दस्यापि द्विर्वचनं प्राप्नोति, तस्य करोतिक्रियया कटादेर्व्याप्तुमिच्छा तत्र वृत्तिरिति मन्यमान आह--`का पुनर्वीप्सा' इति। `व्याप्तिविशेषविषया' इत्यादि। नानादाचिनामधिकरणानां क्रियादिसम्बन्धेन युगपद्व्याप्तिर्व्याप्तिविशेषः, स विषयो यस्या इच्छायाः सा तथोक्ता। सैवंविधा `प्रयोक्तुरिच्छा वीप्सा'। प्रयोक्तुरित्यनेन प्रयोक्तृधर्मो वीप्सा, नाभिधेयधर्म इति दर्शयति। कथं पुनर्व्याप्तिविशेषविषयेत्येष विशेषो लभ्यते? विशब्दप्रयोगात्‌। यदि ह्यविशेषेण व्याप्तुमिच्छां दीप्साऽभिमता स्यात्‌, `नित्येप्सयोः' इत्येवं ब्रूयात्‌।
`व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा' इत्युक्तम्‌, स तु विशेषोऽनिर्दिष्टस्वरूपत्वान्न विज्ञायते, तदज्ञानच्च तद्विशिष्टा वीप्सापि न ज्ञायत इत्यतः पृच्छति--`का पुनः सा' इति। `नानावाचिनाम्‌' इत्यादि। नानावाचिनाम्‌, अधिकरणानामिति--व्यधिकरणे षष्ठ्यौ। नाना=पृथग्भूताः, तान्‌ वक्तुं शीलं येषां शब्दानां ते नानावाचिनः। तत्सम्बन्धिनामधिकरणानां वाच्यानामित्यर्थः। `क्रियागुणाभ्याम्‌' इति। करणे तीया। `युगपत्‌' इति। एककालम्‌। `प्रयोक्तुः' इति। वक्तुः। यो द्विर्वचनं प्रयुङक्ते तस्य। `व्याप्तुम्‌' इति। सम्बन्धविशेषेणाप्तुम्‌। साकल्येन सम्बन्धुमित्यर्थः। `इच्छा' इति। अभिलाषः। `वीप्सा' इति। प्रादिसमासः--विशिष्टा ईप्सा वीप्सा।
`नानाभूतार्थवाचिनाम्‌' इत्यादिना अनन्तरेक्तं वाक्यं विवृणोति। यत एवंविधा वीप्सा, तेन चिकीर्षेत्यत्र द्विर्वचनं न भवति। चिकीर्षा हि कर्त्तुरिच्छा, न प्रयोक्तुः। यतश्चैवंविधा वीप्सा, तेन जातिवाचिनामपि द्विर्वचनं न भवति--निष्पन्नो यव इति। न हि जातिशब्दा नानाभूतार्थवाचिनः। यदा तु क्रमेण व्याप्तुमिच्छा तदापि न भवति--अयं ग्रामो रमणीयः, अयञ्च ग्रामो रमणोय इति। द्वन्द्वैकशेषयोरपि न भवति--अस्मिन्वने शोभना धवखदिरपलाशाः, अस्मिन्वने शोभना वृक्षा इति। अशेषविशेषव्याप्तावनभिमतायामप्येवं प्रयोगः क्रियत इति सर्वविशेषाभिधानं [`सर्वविशेषाविधानं'--का.मु. पाठः] न भवति, अतः प्रयोक्तुरप्यशेषान्‌ विशेषान्‌ व्याप्तुमिच्छा न जायते। बाहुल्येन तु शोभनत्वमाश्रित्येवं वाक्यं प्रयोक्ता प्रयुङक्ते--ग्रामो ग्रामो रमणीय इति। अत्र हि दिन्देशादिभेदेन भिन्नानां ग्रामाणां रमणीयत्वेन गुणेन प्रयोक्तुर्युगपद्व्याप्तुमिच्छा दीप्सा। `जनपदो जनपदः' इति। अत्रापि जनपदानाम्‌। `पुरुषः पुरुषे निषनमुपैति' इति। अत्र पुरुषाणां निधनक्रियया। निधनम्‌--विनाश इत्यर्थः। क्रियागुणग्रहणमुपलक्षणार्थम्‌। द्रव्येणापि नानावाचिनामधिकरणानां युगपद्व्याप्तुं प्रयोक्तुर्येच्छा सा वोप्सैव। तेन ग्रामे ग्रामे पानीयमित्यत्रापि द्विरवचनं सिद्धं भवति। यस्तु `द्रव्यस्य द्रव्यान्तेण सह सम्बन्धो न भवति, सिद्धरूपत्वात्‌' इत्याह, तस्य यदुक्तम्‌--क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः सम्बन्धोऽत्यन्तसंयोगः' इति, तद्वचनं व्याहन्यते; ग्रामे ग्रामे पानीयमित्ययं च शिष्टप्रयोगो नोपपद्यते। अथ कथं ग्रामशब्दोऽयं वीप्सायां वर्त्तते, यावता न तस्या वीप्साः-भिधेया, किं तर्हि? जनाकीर्मो भूखण्डः? सत्यमेतत्‌; यद्येवम्‌, तथापि द्विर्वचनप्रतिपत्तिद्बारेण तस्या द्योतितत्वात्‌ स तस्यां वर्त्तत इत्युच्यते। ग्रामो हि द्विर्वचनं प्रतिपद्यमानो वीप्सां द्योतयतीति तस्यां द्योतनद्वारेण वर्त्तते। अथ ग्रमो ग्राम इति कथमेकवचनम्‌, यावता बहुत्वाद्धिप्रामाणां बहुवचनेनैव भवितव्यम्‌; अथ कृते द्विर्वचने? नैतदस्ति; समुदाय एवात्र बहुत्वमुपजायते, न प्रत्येकम्‌? उपातैकत्वसंख्येऽवयवेऽविरुद्धं ह्येकत्वं बहुत्वेन। तेनावयवाद्बहुवचन न भवति। समुदायात्‌ तर्हि कथं न भवति? बहुत्वस्याबगतत्वाद्वीप्सया। स हि समुदायो वीप्सायां बहुत्वमन्तरेण न सम्भवतीति तां प्रकाशयन्नान्तरीयकत्वाद्बहुत्वमपि गमयति। ततोऽवगतार्थत्वाद्बहुवचनं न प्रयुज्यते।
अथ यत्‌ तिङन्तं नित्यतया प्रकर्षेण च युक्तम्‌, तत्र किं कृते द्विर्वचने प्रकर्षप्रत्ययेन भवितव्यम्‌। अथ वा कृते प्रकर्षेप्रत्यये द्विर्वचनेन? इत्यत आह--`यत्तिङन्तम्‌' इत्यादि। अत्र विप्रतिषेधो हेतुः। तत्र द्विर्वचनस्यावकाशो यत्र नित्यार्थो विवक्षितः, न प्रकर्षः--पचतिपचतीति; प्रकर्षप्रत्ययस्यावकाशो यत्र प्रकर्षेण योगः, न नित्यतया--पचतितरामिति; यत्र तूभाभ्यां योगस्तत्र विप्रतषेधेन द्विर्वचनं भवति--पचतिपचतितरामिति।
सुबन्तमपि तर्हि यद्वीप्सया प्रकर्षेण च युक्तम्‌, तस्मादत एव हेतोः कृतद्विर्वचनात्‌ प्रकर्षप्रत्ययः स्यात्‌, ततश्चाढ्यतरमाढ्यतरमानयेति न सिद्ध्येदित्यत आह-`इह तु' इत्यादि। यदि सुबन्तस्यैककालं वीप्सा प्रकर्षेण च योगः स्यात्‌, तदा स्यादयं प्रसङ्गः, स न नास्ति; यतः सुबन्तस्य प्रकर्षप्रत्ययेन संयुक्तस्य पश्चाद्वीप्सया योग इष्यते। कथम्‌? इह हि वीप्सा नाम पौरुषेयो धर्म इच्छाविशेषः, स च तथा प्रयोक्तुर्विदुषः प्रवर्त्तते यथा शब्दे नानिष्टमापद्यते, नापि प्रयोक्तरि। यदि प्रकर्षप्रत्ययात्‌ प्राक्‌ सहभावेन वा वीप्सा स्याच्छब्देनिष्टमापद्यते, तद्द्वारेण प्रयोक्तर्यपि, यथा--हेलयो हेलय इति ब्रूवप्सु पुरुषेषु; यज्ञेषु चानिष्टमापद्यते। तस्मात्‌ प्रकर्षयोगविवक्षाया उत्तरकालं शिष्टस्य प्रयोक्तुर्वीप्सया भवितव्यमिति सिद्धमाढ्यतरमाढ्यतरमानयेति।
अपरः प्रकारः--इहापि तर्हि तत एव हेतोः कृते द्विर्वचने प्रकर्षप्रत्ययः स्यात्‌, ततश्चाढ्यतरमाढ्यतरमानयेति न सिद्ध्यति?--इत्येतस्मिन्‌ पूर्वपक्ष इदमाह--`इह तु' इत्यादि। प्रकर्षसाहचर्यात्‌ प्रकर्षप्रत्ययः प्रकर्षशब्देनोक्तः। वीप्सासाहचर्याद्धि द्विर्वचनं वीप्साशब्देन। तदेतदुक्तं भवति--प्रकर्षप्रत्यययुक्तस्य द्विर्वचनेन योग इष्यत इति। अत्र चायमभिप्रायः--येन हेतुना युगपत्‌ प्रकर्षेण नित्यतया च युक्तस्य पूर्वं द्विर्वचनं भवति, स विप्रतिषेधोऽत्र नास्ति; अतुल्यबलत्वात्‌। अतुल्यबलत्वं तु प्रकर्ष प्रत्ययस्यान्तरङ्गत्वात्‌, द्विर्वचनस्य बहिरङ्गत्वात्‌। तथा हि ङ्याप्प्रातिपदिकादातिशायिको भवति, द्विर्वचनं तु पदस्य। `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इति सिद्धासिद्धयोश्चायुक्तो विप्रतिषेधः। तस्मात्‌ पहूर्वं प्रकर्षप्रत्ययेन सुबन्ताद्भवितव्यम्, पश्चात्‌ तदन्तस्य द्विर्वचनेनेति। ननु चातिशायिको नैवान्तरङ्गः, समर्थाद्धि स उपपद्यते, `समर्थानां प्रथमाद्वा' (4.1.82) इत्यधिकारात्‌, सामर्थ्य च सुबन्तेनैव? नैतत्‌; उक्तं हि तत्रैव (4.1.82) `स्वार्थिकप्रत्ययावधिश्चायमधिकारः प्राग्दिशो विभक्तिरिति (5.3.1) यावत्‌, स्वार्थिकेष्वस्योपयोगो नास्ति' इति। स्वार्थिकाश्चतिशायिकाः। तस्मादन्तरङ्गत्वादुत्पन्ने तस्मिन्‌ पश्चात्‌ सुबन्तस्य द्विर्वचनेन भवितव्यम्‌।।

5. परेर्वर्जने। (8.1.5)
`परि परि त्रिगर्त्तेभ्यः' इति। `अपपरी वर्जने' (1.4.88) इति परेः कर्मप्रवचनीयसंज्ञायां सत्याम्‌ `पञ्चम्यपाङ्परिभिः' (2.3.10) इति पञ्चमी। `परिषिञ्चति' इति। सर्वत्र सिञ्चतीत्यर्थः। `उपसर्गात्‌ सुनोति' (8.3.65) इत्यादिना षत्वम्‌। `परेर्वर्जनेऽसमासे वा' इत्यादि। परेर्वर्जनेऽर्थेऽसमासे विभाषा द्विर्वचनं भवतीत्येतदर्थरपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--`विभाषा वेषिटिचेष्ट्योः' (7.4.96) इत्यतो मण्डूकप्लुत्या विभाषाग्रहणमनुवर्त्तते, तेनासमासे द्विर्वचनं परेर्वर्जने विभाषा भवतीति।
`असमासे' इति। वचनात्‌ समासे तु नित्यमेव द्विर्वचनेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्‌, अतस्तां निराकर्त्तुमाह--`समासे तु' इत्यादि। यथा दध्नोपसिक्त ओदनो दध्योदन इतीहोपसिक्तशब्दः समासेऽन्तर्भूतः, तथा `अपपरिबहिरञ्चवः पञ्चम्या' (2.1.12) इति समासे कृते तत्र वर्जनम्‌। परिशब्दस्तु समासेऽनर्थक एव; तेन वर्जनेऽर्थे वर्त्तमानस्य द्विर्वचनमुच्यमानं समासे न भवति। अथापि परिशब्दो वर्जनेऽर्थेऽर्थवान्‌ स्यात्‌; एवमपि समासेनैव वर्जनार्थप्रत्यायितत्वान्नैव द्विर्वचनेन भवितव्यम्‌। `परित्रिगर्त्तम्‌' इति। समासादुत्पन्नस्य सोः `नाव्ययीभावादतोऽस्त्वपञ्चम्याः' (2.4.83) इत्यम्भावः।।

6. प्रसमुपोदः पादपूरणे। (8.1.6)
`प्रसमुपोदः' इति। `द्वन्द्वाच्चुदषहान्तात्‌ समाहारे' (5.4.106) इति समासान्तो न कृतः; समासान्तविधेरनित्यत्वात्‌। `पादपूरणे' इति। `यस्य च भावेन भावलक्षणम्‌' (2.3.37) इति सप्तमीयम्‌। पादपूरणस्य भावेनोत्पत्तिलक्षणेन द्विर्वचनसक्य भावो लक्ष्यते। ननु च द्विर्वचनात्‌ प्राक्‌ पादपूरणमसदेव, तत्‌ कुतस्तस्य भावो द्विर्वचनस्य लक्षणं स्यात्‌, न हि तत्‌ सत्त्वम्‌? असारमेतत्‌; तदुत्पत्तिर्ह्यत्र भावः, सा चानिष्पन्नसत्ताकस्यैव भवति, न निष्पन्नसत्ताकस्य। न हि मृत्तिकावस्थायां सन्तो घटादय उत्पद्यन्तेः पादश्चेह विशेषानभिधानेऽपि सामर्थ्यादृच एव गृह्यते, न श्लोकस्य। लौकिको हि श्लोकः, लोके चार्थपरत्वादनर्थकस्य प्रयोगो नोपपद्यते।।

7. उपर्यध्यधसः सामीप्ये। (8.1.7)
`सामीप्ये' इति। प्रत्यासत्तावित्यर्थः। एतच्चोपर्यादीनां विशेषणम्‌। सामीप्यं देशकृतम्‌, कालकृतञ्च भवति। तत्र `उपर्युपरि ग्रामम्‌' इति देशकृतस्योदाहरणम्‌। समीपे ग्रामस्येत्यर्थः। द्वितीयात्र `उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु' (वा.118) इत्याद्युपसंख्यानात्‌। कालकृतस्योदाहरणम्‌--`उपर्युपरि दुःखम्‌' इति। समीपं यद्‌दुःखमचिरकालातिक्रान्तमचरकालभावि वा तदेवमुच्यते।
`अथेह[`अथ'--नास्ति--काशिका] कस्मान्न भवति--उपरि शिरसो घटं धारयति' इति, अस्ति ह्यत्र घटेन शिरसः प्रत्यास्त्तिः? इत्याह--`उपरि शिरसो घटम्‌' इत्यादि। न हीह शास्त्रे वस्तुनः सत्तैव शब्दव्युत्पत्तेः प्रथानं कारणम्, किं तर्हि? तद्विवक्षापि, सा चेह नास्ति। औत्तराधर्यमात्रस्य विवक्षितत्वात्‌। तेनेह न भवति द्विर्वचनम्‌। द्वितीययाऽपि न भवितव्यम्‌, नाम्रेडितत्वात्‌।।

8. वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु। (8.1.7)
आख्यातं साध्ययकारकविशेषणं वाक्यम्‌, तस्यादिर्वाक्यादिः। असूयादीनपेक्षमाणस्यापि गमकत्वात्‌ समासः। `असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद्वाक्यं भवति' इति। एतेनासूयादीनां वाक्यं प्रति विशेषणभावं दर्शयति। ननु चामन्त्रितस्य विशेष्यत्वात्‌ प्राधान्यम्‌, वाक्यस्य विशेषणत्वादप्राधान्यम्‌, तत्र प्राधान्यादामन्त्रितं प्रत्येवैषां [`प्रत्येषां'--प्रा.मु.पाठः] विशेषणत्वं युक्तम्‌? नैतदस्ति; आमन्त्रितविशेषणत्वे हि सति तेषामसूयादिवृत्तेरेवामन्त्रितस्य द्विर्वचनं स्यात्‌--असूये असूय इत्यादौ वाक्ये, माणवक माणवकेत्यादौ तु वाक्ये न स्यात्‌। वाक्यविशेषणत्वं [वाक्यविशेषणत्वे--प्रा.मु.पाठः] ह्यसूयादीनां सर्वत्र भवति। तस्माद्वाक्यविशेषणतैघासूयादीनां युक्त; व्याप्तेः। कदा पुनर्वाक्यमसूयादिषु भवति? यदा तस्मिन्‌ वाक्ये प्रयुच्यमाने असुयादयो गम्यन्ते। असहनम्‌ अक्षान्तिः। पूजनम्‌ शब्देन गुणाविष्करणम्‌। `एते च प्रयोक्तृधर्माः' इति। यो वाक्यं प्रयुङक्ते तस्यैते धर्मा गुणविशेषा इत्यर्थः। प्रयोक्तृधर्मत्वं च तेषां प्रयोक्तरि वृत्तेः। `नाभिधेयधर्माः' इति। अभिधेये तेषामवृत्तेः। न हि यथा माणवकादावभिधेय आभिरूप्यादयो धर्मा वर्त्तन्ते, तथाऽसयादयः। तथा हि--`माणवका मणवक आभिरूपका अभिरूपक रिक्तं त आभिरूप्यम्‌'--इत्येवं वाक्यप्रयोगे प्रयोक्तृगता एवासूयादयः प्रतयन्ते, न तु माणवकादिगताः। `रिक्तम्‌' इति। असारमित्यर्थः।
`शक्तिके शक्तिके' इति। कुत्सिता शक्ता। `प्रागिवात्‌ कः' (5.3.70), `केऽणः' (7.4.13) इति ह्रस्वः; टाप्‌, `प्रत्ययस्थात्‌' (7.3.44) इतीत्त्वम्‌, `सम्बुद्धौ च' (7.3.106) इत्येत्त्वम्‌। `आन्नेडितस्यैव' इति। भर्त्सने यदुक्तमिहोदाहरणं तदधिकृत्यैतदुक्तम्‌, न तु `आम्रेडितं भर्त्सने' (8.2.95) इत्यनेनाम्रेडितस्यैव प्लुतः क्रियते, अपि तु पर्यायेण; `भर्त्सने पर्यायेण' (वा.930) इति वचनात्‌। `शोभनः खल्वसि माणवक' इत्यत्रास्ति पूजनम्‌, न त्वामन्त्रितं वाक्यादि। `उदारो देवदत्तः' इत्यत्रास्ति पूजनम्‌। वाक्यादित्वञ्चोदारशब्दस्य, न त्वामन्त्रितत्वम्‌।
ननु चासूयायाः कुत्सनं कार्यम्‌, भर्त्सनं कोपस्य, तत्र कुत्सनमत्संनयोद्विर्वचने कृते ततः प्रतीयमानाभ्यां कुत्सनभर्त्सनाभ्यां कोपासूययोरपि प्रतीतिर्भविष्यति; कार्यस्य कारणाव्यभिछारात्‌, तस्मात्‌ कोपासूययोर्ग्रहणं न कर्त्तव्यमेव? नैवम्‌; न हि कोपासूयाप्रभवे एव कुत्सनभर्त्सने। तथा हि--पित्रादयः पुत्रादीननसयन्तोऽपि कुत्सयन्ति, अकुप्यन्तोऽपि भर्त्सयन्ते। यद्यपि तदानीं कायवाग्विकारोऽस्ति, तथापि न त्वसावसूया, नापिकोपः; तयोश्चैतसिकत्वात्‌। अतः कार्यकरणभावसस्याभावात्‌ कुत्सनभर्त्सनप्रतीत्या कोपासूययोः प्रतीतिर्नोपपद्यते।
अथ कोपासूयाप्रभवे एव विशिष्टे कुत्सनभर्त्सने, ये ते गृहीत्वा कोपासूययोरनुमानं करिष्यत इति चेत्‌? न; विशेषस्यावधारयितुमशक्यत्वात्‌। तथा हि--यथाऽसयन्कुत्सयति तथाऽनसूवन्नपि। यथा कुप्यन्नपि भर्त्सयते तथाऽकुप्यन्नपि। तस्मात्‌ कोपासूययोरपि ग्रहणं कर्त्तव्यम्‌।।

9. एकं बहुव्रीहिवत्‌। (8.1.9)
यद्यविशेषेणैकशब्दस्य बहुव्रीहिवद्भावो विधीयते, तदैकमित्यत्रापि स्यादिति मन्यमानोऽतिप्रसङ्गं परिजिहीर्षुराह--`एकमित्येतद्‌द्विरुक्तं बहुव्रीहिवद्भावो भवति' इति। कथं पुनर्द्विरुक्तमित्येव विशेषो लभ्यते, यावता नायं सूत्रोपात्तः? एवं मन्यते--वीप्साऽनुवर्त्तते, [`वीप्सामनुवर्त्तते'--प्रा.मु.पाठः] वीप्सायाञ्च पूर्वमेव द्विर्वचनं विहितम्‌। न च तदेकशब्दस्यानेन बहुव्रीहिवद्भावेन बाध्यते; अन्यथा हि `एकैकस्य प्राचाम्‌' (8.2.86) इति निर्देशो नोपपद्येत। तस्माद्वीप्साग्रहणानुवृत्तेर्द्विरुक्तस्यैकशब्दस्यायं बहुव्रीहवद्भावो विज्ञायत इति। किं पुनर्बहुव्रीहिवद्भावे प्रयोजनमित्याह--`बहुव्रीहिवत्त्वे' इत्यादि। यद्यपि सुब्लृक्पुंवद्भावौ बहुव्रीहावित्येवं नोच्येते, तथाप्येतौ तत्र दृष्टावित्यस्मिन्नतिदेशे तयोः प्रवृत्तिः प्रयोजनम्‌। `एकैकम्‌' इति। वीप्सायां द्विर्वचने कृते यता चित्रगुरित्यादौ बहुव्रीहौ `सुपो धातुप्रातिपदिकयोः' (2.4.71) इति सुब्लुग्भवति, तथेहाप्यतिदेशेन। अतिदेशेनैव समासे प्रातिपदिकत्वात्‌ सुः, `अतोऽम्‌' (7.1.24) इत्यम्भावः। `एकैकया' इति। पूर्ववद्विभक्देर्लुक्‌, `स्त्रियाः पुंक्त्‌' (6.3.34) इत्यादिना यथा दर्शनीयभार्य इत्यत्र बहुव्रीहौ पुंवद्बावो भवति, तथेहाप्यतिदेशेन, तृतीयैकवचनम्‌, `आङि चापः' (7.3.105) इत्येत्तवम्‌, अयादेशः। ननु चासत्यपि पुंवद्भावे `वृद्धिरेचि' (6.1.88) इति वृद्धावपि कृतायामेतत्‌ सिध्यत्येव? यद्यप्येतत्‌ सिध्यति, तथापि गतगतेत्येतत्‌ `आबाधे च' (8.1.10) इति द्विर्वचने कृते न सिध्यति। तस्मादुत्तरसूत्रे पुंवद्भावो बहुव्रीहिवदित्यस्यातिदेशस्यैव प्रयोजनत्वेनोच्यते। एकैकयेत्येतत्तु `एकमित्येष नपुंसकलिङ्गेन निर्देशोऽन्त्रम्‌' इत्येतत्सूचयितुमुक्तम्‌। अतन्त्रत्वं तु सूत्रे लिङ्गनिर्देशस्य `अर्धं नपुंसकम्‌' (2.2.2) इत्यत्र नपुंसकग्रहणेन ज्ञापितम्‌। यदि सौत्रो निर्देशस्तन्त्रमभविष्यत्‌, अर्धमित्यत्र तत एव निर्देशाल्लिङ्गविशेषे सिद्धे नपुंसकमिति नावक्ष्यत्‌। अथ पूर्वपदप्रकृतिस्वरत्वमपि प्रयोजनं कस्मान्नोच्येत? विशेषाभावा। परस्य निघाते कृते पूर्वपदप्रकृतिस्वर एव भविष्यति।
यदि तर्हि बहुव्रीहौ यद्‌वृष्टं तदतिदिश्यते, सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्तानामप्यतिदेशः प्राप्नोति? इत्यत आह--`सर्वनामसंज्ञा' इत्यादि। कथं पुनरेते सर्वनामसंज्ञाप्रतिषेधादयः समासाधिकारे विहिते बहुव्रीहौ शक्या विज्ञातुम्‌? उच्यते; सर्वनामसंज्ञाप्रतिषेधस्तावत्‌ `बहुव्रीहौ' (1.1.28) इत्यनुवर्त्तमाने पुनर्बहुव्रीहि (1.1.29) ग्रहणाच्च शक्यते विज्ञातुम्‌। तस्य ह्यतत्‌ प्रयोजनमुक्तम्‌--बहुव्रीहेरेव यो बहुव्रीहिस्तत्र प्रतिषेधो यथा स्यात्‌, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्ततर मा भूदिति। एवञ्चार्थात्‌ समासाधिकारविहित एव बहुव्रीहौ प्रतिषेधो विज्ञायते। न हि ततोऽन्यो बहुव्रीहिरेव बहुव्रीहीर्भवति; `एकैकस्मै' इत्यादेर्बहुव्रीहिवद्भावेन बहुव्रीहिवत्त्वात्‌। `नञ्सुभ्यम्‌' (6.2.172) इत्यनेनापि `बहुव्रीहाविदमेतत्तद्भ्यः (6.2.162) इत्यतो बहुव्रीहिग्रहणेऽनुवर्त्तमाने नञ्सुम्यां परस्य बहुव्रीहावन्तोदात्तत्वं विधीयते, न तु तयोरपि; यस्मात्‌ सुनञादिह निमित्तत्वेनोपात्तौ। न च निमित्तयोः कार्यित्वं युक्तम्‌। यथीक्तम्‌---`नेमौ [`हयवरट्‌' (मा.सू.5) इत्येतस्मिन्‌ सूत्रे भाष्यकारेण] रहौ कार्यिणौ, किं तर्हि? निमित्तमिमौ द्विर्वचनस्य' इति। तस्माद्यत्र बहुव्रीहौ नञ्सूभां सुनञोरेव परभूतत्वात्‌ `आबाधे च' (8.1.10) इति द्विर्वचनम्‌, बहुव्रीहिवद्भावश्च। अथ वा स्वरविधौ `समासस्य' (6.1.223) इत्यतः समातग्रहणमनुवर्त्तते, तेन च बहुव्रीहि विशेषयिष्यामः--समासो यो बहुव्रीहिरिति। ननु च नन, सुस्वित्यतावपि समासावेव, अस्ति ह्यनयोरेव बहुव्रीहिवद्भावेनोत्पादिता समाससंज्ञा, ततश्च विशिष्यमाणऽपि समासग्रहणे न बहुव्रीहौ स्वरः प्राप्नोतीत्येव? नैव दोषः; विशिष्यते हि समासग्रहणेन बहुव्रीहिः, न कश्चिदसमासो बहुव्रीहिरस्ति, तत्र विशेषणसामर्थ्यावतिदेशद्बारेम यस्य समाससंज्ञा तस्य न भवति। स च समासाधिकारे विहितो बहुव्रीहिरिति विज्ञायते। ननु च समासग्रहणेन बहुव्रीहौ विशिष्यमाणे विशेषणसामर्थ्याद्विशिष्टस्य बहुव्रीहेरिवं ग्रहणमित्येतादन्मात्रं निश्चीयते, तत्र तु विशिष्टे बहुव्रीहौ सन्देह एव? उच्यते; भवति व्याख्यानतो विशेषप्रतिपत्तिः, न हि सन्देहादलक्षण(व्या.पा.75)मित्यदोषः, समासान्तविधावपि `समासाच्च तद्विषयात्‌' (5.3.106) इत्यतः समासग्रहणमनुवर्त्तते। तत्र समासाधिकारादेव समासान्तत्वे वक्ष्यमाणानां प्रत्ययानां सिद्धे समासग्रहणानुवृत्तिविशिष्टे समासे समासान्तत्वं यथा स्वादित्येवमर्थं विज्ञायते। स पुनर्विशिष्टः समासो यः समासाधिकारे विहितः स एव व्याख्यानाद्वेदितव्यः। अथ ननेत्यत्र `नलोपो नञः' (6.3.73) इति नलोपः कस्मान्न भवति, अस्ति तस्यापि बहुव्रीहौ दर्शनम्‌? नैष दीषः; `नलोपो नञः' इत्यत्र हि उत्तरवदाधिकारोऽनुवर्त्तते--उत्तरपदे नलोपो विधीयते। नञ्‌ च कार्यित्वेनोपात्त:, कार्यिणश्चेह निमित्तभावो नोपपद्यत इति नञोऽन्यस्मिन्नुत्तरपदे लोपेन भवितव्यम्‌, यथा--अब्राह्मण इति, न तु तस्मिन्नेवेति कुतो नकारलोपस्य प्रसङ्गः?।।

10. आबाधे च। (8.1.10)

`आबाधनभावाधः' इति। भावे घञ्‌। यद्यत्राबाधोऽभिधेयधर्म आश्रीयते, तदा बाधितपीडिताविशब्दानामेव द्विर्वचनं स्यात्‌, न तु गतादिशब्दानाम्‌। प्रयोक्तृधर्म आश्रीयमाणे सर्वत्र भवति। तस्माद्व्याप्तिव्यायात्‌ प्रयोक्तृधर्म एवाश्रीयते, इत्याह--`प्रयोक्तृधर्मः' इति। `तत्र वर्त्तमानस्य' इति। द्विर्वचनप्रतिपत्तिद्वारेण, बहुव्रीहिवद्भावप्रतिपत्तिद्वारेण च तत्प्रकाशनात्‌ तत्र तस्य वृत्तिर्वेदितव्या, न तु तदभिधानात्‌। न हि गतादयः शब्दा कथञ्चिदाबाधनमभिदधति। चकारो वाक्यभेदमाचष्टे। तेन द्वयमत्र विधीयते--एकेन वाक्येन द्विर्वचनम्‌, अपरेण च बहुव्रीहिवद्भावः। `गतगतः' इत्यादौ पूर्ववत्‌ सोर्लुक्‌। `गतगता' इत्यादौ तु पुंवद्भावः पूर्ववदेव। `प्रियस्य गमनादिना' इत्यादि। एतेन प्रयोक्तृधर्मताऽबाधस्येति दर्शयति। आदिशब्देन विनाशादेर्ग्रहणम्‌।।

11. कर्मधारयवदुत्तरेषु। (8.1.11)
कर्मधारयवत्‌ कार्यं भवतीत्यनेन कार्यातदेशोऽयमित्याचष्टे। कार्यातिदेशस्य फलमुत्तरत्र दर्शयिष्यते। `कर्मधारयवत्त्वे प्रयोजनम्‌' इत्यादि। तत्र सुग्लुग्बहुव्रीहिवद्भावे, अस्मिन्नतिदेशे च साधारणं प्रयोजनम्‌। पुंवद्भा वस्तु क्वचित्‌ साधारणम्‌, क्वचिदसाधारणम्‌; यत्र हि पुंवद्भावस्य प्रविषेधो नास्ति--पटुपट्वीत्यादौ, तत्र साधारणम्‌, यत्र तु ' न कोपधायाः' (6.3.37) इत्यादिना पुंवद्भावप्रतिषेधोऽस्ति--कालककालिकेत्यादौ, तत्रा साधारणम्‌। तथा हि यस्य हि पुंवद्भावः प्रतिविद्धस्तस्यापि `पुंवत्कर्मधारय' (6.3.42) इत्यादिना कर्मधारये पुंवद्भावो विधीयते। अन्तोदात्तत्वं त्वसाधारणमेव। यस्मात्‌ कर्मधारय एव `समासस्य' (6.1.223) इत्यन्तोदात्तत्वं विधीयते, न बहुव्रीहौ; तत्र `बहुव्रीहौ प्रकृत्या पूर्वपदम्‌' (6.2.1) इति पूर्वपदप्रकृतस्वरस्य समासान्तोदात्तस्यापवादस्य विधीनात्‌। तत्र यदसाधारणं प्रयोजनं तदिममतिदेशं प्रयोजयति, नेतरत्‌। तद्धि बहुव्रीहिवदित्यतिदेशस्यानुवृत्तावपि सिद्ध्यत्येव। सति त्वन्यार्थोऽस्यारम्भे बहुव्रीहिवदित्यतिदेशस्यानुवृत्तिरपार्थिका; अनेनैव साधारणस्यापि सिद्धत्वात्‌। अतः सुब्लुगादिकमपि साधारणं कर्मधारयवत्त्वे प्रयोजनं न भवति। `पटुपट्वी' इति। `वोतो गुणवचनात्‌' (4.1.44) इति ङीष्‌। स च पूर्वपदे पुंवद्भादेन निवर्त्तते। `कालककालिका' इति। अज्ञाताद्यर्थे `प्रागिवात्‌ कः' (5.3.70), टाप्‌, `केऽणः' (7.4.13) इति ह्रस्वः, पूर्ववदित्त्वम्‌। पुंवद्भावेन पूर्वपदे टाबित्त्वयोर्निवृत्तिः। कथं पुनरत्र पुंवद्भावः, यावता `न कोपधायाः' (6.3.37) इत्यस्य प्रतिषेधः कृतः? इत्याह--`कोपधायाः' [`न कोपधायाः' इत्यादि--प्रा. मु. पाठ] इत्यादि। कर्मधारये हि `पुंवत्कर्मधारय' (6.3.42) इत्यादिनां योगेन प्रतिषेधविषयेण पुंवद्भावो विहितः तेन कोपधाया अपि पुंवद्भावो भवत्येव।
ननु चाभ्रेडितानुदात्तत्वमाष्टिकिमम्‌, समासान्तोदात्तत्वं च षाष्ठिकम्‌, अतः परत्वादाभ्रेडितानुदात्तत्वेनैव भवितव्यम्‌; न चैवं सति कर्मधारयदित्यतिदेशस्य वैयर्थ्यं स्यात्‌, तस्य प्रयोजनान्तरे चरितार्थत्वात्‌? इत्यत आह--`समासान्तोदात्तत्वमनेन' इत्यादि। शल्त्रातिदेशे हि शस्त्रेध्वतिदिष्टेषु तैरेव स्वदेशस्थैः कार्याणि क्रियन्त इत्याभ्रेडितानुदात्तस्य समासान्तोदात्तत्वात्‌ परत्वं स्यात्‌। न चायं शास्त्रातिदेशः, किं तर्हि? कार्यातदेशः। कार्यातिदेशे सत्यतिदेशशास्त्रेणैव विधियते। तस्मादन्तोदत्तत्वेमेव परम्‌। अतस्तस्मात्‌ परत्वादाभ्रेडितानुदात्तत्वं बाधते।
ननु चान्तरेणाप्युत्तरग्रहणं यथा `प्रत्ययः' (3.1.1) इत्येवमादीनामधिकाराणामुत्तरत्रावस्थानं भवति, तथाऽस्यापि भविष्यति; अधिकाराणामुत्तरत्रानुधृत्तिदर्शनात्‌, तत्किकमर्थम्‌ `उत्तरेषु' इति वचनम्‌? इत्याह--`अधिकारेणैव' इत्यादि। अधिकाराणां क्वचिल्लक्षणत्वस्य व्यवहारः, यथा `शेषे' (4.2.92) इत्यधिकारस्य लक्षणत्वमस्ति, तच्चाविस्पष्टम्‌; अन्येष्वधिकारेषु `प्रत्ययः' (3.1.1) इत्येवमादिष्वदृष्टत्वात्‌। तस्मादस्य विस्पष्टत्वं यथा स्यादित्येवमर्थमुत्तरेष्विति वचनम्‌। एतद्धि लक्षणत्वमस्य मा भूदित्येवमर्थं क्रियते। यदि तु लक्षणस्याधिकारेष्वसम्भवः स्यात्‌, उत्तरेष्विति वचनमनर्थकं स्यात्‌; व्यार्त्त्याभावात्‌। अथ वा--सिंहावलोकितव्यायस्येत्यव्याहारः। प्रायेण ह्यणिकारणमुत्तरत्रानुवृत्तिर्दुष्टेति सिहावलोकितन्यायस्याविस्पष्टता; केषुचित्‌ प्रत्ययादिष्वदृष्टत्वात्‌। तस्मात्‌ तस्य विस्पष्टीकरणार्थमुत्तरेष्विति वचनम्‌। यदि सिंहावलोकितन्यायेन पूर्वत्रानुवृत्तेरधिकारणां न सम्भव एव स्यात्‌, उत्तरेष्विति वचनमनर्थकं स्यात्‌; व्यावर्त्त्याभावात्‌।।

12. प्रकारे गुणवचनस्य। (8.1.12)
`प्रकारो भेदः। सादृश्यं च' इति। उभयन्नापि प्रकारशब्दस्य प्रयोगदर्शनात्‌। तत्र भेदे प्रयोगो दृश्यते--बहुभिः प्रकारैर्भुङ्क्ते। बहुभिर्भेदैः, विशेवैर्भुङक्त इत्यर्थः। सादृश्येऽपि--बाह्मणप्रकारोऽयं माणवकः। ब्राह्मणसदृश इत्यर्थः। `तदिह सादृश्यं प्रकारो गृह्यते' इति। कुत एतत्‌? लक्ष्यानुरोधात्‌। न हि कृतद्विर्वचनात्‌ गुणवचनात्‌ पदादिह भेदो गम्यते, किं तर्हि? सादृश्यम्‌। अत्र च शब्दशक्तिस्वाभाव्यं हेतुः। `प्रकारे वर्त्तमानस्य' इति द्विर्ववचनप्रतिपत्तिद्वारेण तद्द्योतनात्‌ तत्र तस्य वृत्तिर्विज्ञेया। `परिपूर्णगुण' इत्यादि। एतेनोदाहरणे गुणवचनत्य सादृदये वृत्ति दर्शयति। उपमानं हि सादृश्यम्‌। परिपूर्णः=सकलः पाटवादिर्गुणो यस्य स तथोक्तः। स एव न्यूनः=असकलोऽपरिसमाप्तो यस्य स न तथोक्तः। जातीयरपि प्रकारवचन एव विधीयत इति नाप्रप्ते तस्मिन्निदामारभ्यत इति तद्बाधनं प्राप्नोति? इति यश्चोदयेत्‌, तं प्रत्याह--`जातीयरोऽनेन बाधनं नेष्यते' इति। कथं पुनरिष्यमाणमपि बाधनं न भवितव्यति? वक्ष्यमाणस्यान्यतरस्यांग्रहणस्योभयोरपि योगयोः शेषभूतत्वात्‌। किं पुनः कारणं बाधनं नेष्यते? इत्याह--`पटुजातीयो मृदुजातीय इत्यपि [इत्यादि भवतीति'--प्रा.मु.पाठः] हि भवति' इति। यस्तु `पटुपटुजातीयो मृदुमृदुजातीयः' इति प्रायेण पुस्तकेषु पाठः स प्रमादकृतः। कुतः? एकस्य कार्यिणोऽनेकेषां कार्याणां प्राप्तौ बाध्यबाधकभावो भवति। इह तु पटुदटुमृदुमृदुशब्दाभ्यामेव प्रकारस्य द्योतितत्वात्‌ तयोः पुनर्द्विर्वचनं न प्रप्नोति, नापि जातीयर्‌; तस्मादपपाठोऽयम्‌। `अग्निर्माणवकः, गौर्वाहिकः' इति। अग्निशब्दो गोशब्दश्चान्नाप्रकारे वर्त्तते। तथा ह्यग्निना माणवकस्य सूदृश्यं गम्यते, गवा च चाहीकस्य। न हि तौ गुणवचनौ, किं तर्हि? द्रव्यवचनौ; माणवकवाहीकयोर्द्रव्यत्वात्‌।

ननु चमावपि मणवचनावेव, तथा हि--यज्जातयस्तैरुण्यादिर्गुणो यह्नो दृष्टस्तज्जातीयमेव गुणविशेषमुपादाय सोऽयमित्यभेदोपचारेण सम्बन्धेनोपमानोपमेयभावेन वाऽग्निशब्दोऽयं माणयके वर्त्तते; तमेव गुणविशेषं प्रतपादयितुं प्रवृत्तत्वात्‌। एवं गोशब्दोऽपि यज्जातीयो जाड्यादिर्गुणः सास्नादिमति दृष्टः, तज्जातीयमेद गुणविशेषमुपादाय पूर्वोक्तयोः सम्बन्धयोरन्यतरेण सम्बन्धेन वाहोके वर्त्तते, तस्यैव गुणविशेषस्य प्रतिपादनाय। तस्माद्गुणविशेषे प्रतिपादयितुं प्रवृत्ताविमावपि गुणवचनावेव, इत्याह--`यद्यप्यत्र' इत्यादि। यतः शब्दात्‌ श्रुतिमात्रेण योऽर्थः प्रतियते स तस्य मुख्योऽनपचरितोऽर्थः। स्त्वभेदोपचारादिना निमित्तन कथञ्चिद्यत्वेन प्रतीयते, स गौण इति। उपचरित इत्यर्थः। अग्निशब्दात्‌ श्रुतिमात्रेण पावकः प्रतीयते, गोशब्दाच्च सास्नादिमान्‌। अतोऽग्निशब्दस्य पावको मुख्यार्थः, गोशब्दस्यापि वाहिकः। मुख्येनार्थेन यावकादिना गौणस्य माणवकादेः सम्बन्धः। पूर्वोक्तयोः सम्बन्धयोरन्यतरो मुख्यार्थसम्बन्धः। तेन हेतुना करणेन वाऽवधतो निश्चितो भेदो विशेषो यस्य तैक्ष्ण्यजाड्यादेर्गुणस्य स तथोक्तः। कथं पुनस्तेन सम्बन्धेन तस्य निश्चयो भवति? तत्प्रतीनी तत्प्रततेः। स हि गुणविशेषस्तस्य सम्बन्धस्य हेतुः; तस्मिन्‌ सति तत्सद्भावात्‌। अतः सम्बन्धो द्विप्रकारोऽपि प्रतीतः सन्‌ तत्प्रतीतिंजिनयति; धूम इवाग्नौ। तमेवंविधं गुणविशेषमेव यद्यपि मुख्यादर्थादन्यस्मिन्‌ गौणेऽर्थे गोशब्दोऽग्निशब्दश्च प्रतिपादयितुं प्रवृत्तः, तथापि सर्वकालं गुणवचनो न भवतीति न तद्‌द्विरुच्यते, तथा हि--यदासावमुख्येऽर्थे साधर्म्येण माणवके वाहीके च प्रयुज्यते, तदा गुणवचनो न भवतीति न तद्‌द्विरुच्यते, तथा हि--यदासावमुख्येऽर्थे साधर्म्येण माणवके बाहीके च प्रयुज्यते, तदा गुणवचनो भवति। यदा च वह्नौ सास्नादिमति च, तदा जातिवचनो द्रव्यवचनो वा। तत्र यदाऽग्निशब्दोऽग्नित्वे वर्त्तते गोशब्दोऽपि गोत्वे, तदा जातिवचनौ भवतः। यदा तु जातिवचनो द्रव्यवचनो वा। तत्र यदाऽग्निशब्दोऽग्नित्वे वर्त्तते गोशब्दोऽपि गोत्वं, तदा जातिवचनौ भवतः। यदा तु जात्युपलक्षिते जतिमति द्रव्ये तदा द्रव्यवचनौ। तस्मात्‌ सर्वकालमगुणवचनत्वान्न भवति तयोर्द्विर्वचनम्‌। एतच्च गणवचग्रहणाल्लभ्यते। प्रकारे हि वर्त्तमानः शब्दः सर्व एव गुणवचनः सम्पद्यते, उच्यते चेदं वचनम्‌ गुणवचनस्येति, तत्र सर्वप्रकर्षावगतिर्विज्ञायते--साधीयान यो गुमवचन इति। कश्च साधीयान्‌ गुणवचनः? यः [नास्तीदं वाक्यं भुद्रिते] सर्वदा गुणवचनः। यदि तर्हि सर्वदा यो गुणवचनस्तस्य द्विर्वचनेन भवितव्यम्‌; तदा पटुशब्दस्यापि द्विर्वचनं न प्राप्नोतीति, सोऽपि यदा पाटवमात्रे गुणविशेषे वर्त्तते तदैव गुणवचनः; यदा तु तद्वति द्रव्ये तदा द्रव्यवचन एव? नैतत; न हि विशेषणमनभिदधता विशेष्यं शक्यमभिधातुम्‌। अतो विशेष्यं द्रव्यमभिदधता नियोगतो विशेषणमव्यभिधेयम्‌। तस्मस्द्द्रव्येऽपि वर्त्तमानः पटुशब्दस्तद्विशषणमपि मुणमभिदधात्येव। इयांस्तु विशेषः--गुणमुपसर्जनीभूतमभिदधाति, द्रव्यं तु प्रधानभूतमिति।
आनुपुर्व्ये, इत्यादि। अवीप्सार्थमिदम; वीप्साया असम्भवात्‌। तल्यजातीयानां हि भिन्नानां वीप्सा भवति, यथा--यामाणाम्‌। सर्वे, हि वे ग्रामत्वजास्यैकयाऽध्यासितत्वात्‌ तुल्युजातीया दिग्देशादिभेदेन भिन्नाः। `मूले मूले स्थूलाः' इत्यादौ तु देण्‌ नडादोनां [`नलादीनाम्‌--प्रा.मु.पाठः] ये भागस्तेषामेकमेव मुख्यं मूलं यस्याधोभागान्तरं न सन्निविष्टम्‌। एवकेकमेव च मुख्यमग्रं ग्रस्पोपरिभागान्तरं न सन्निविष्टम्‌। तथा हि वेणोर्मूलमित्यक्ते यस्याधोभायान्तरं नास्ति तत्रैव प्रतीतिरुपजायते। तथा वेणोरग्रमित्युक्ते यस्योपरिभागान्तरं नास्ति तत्रेव ग्रतीतिरुपजायते नतरेव। यस्तु तेषु मूलव्यपदेशोऽग्रव्यपदेशश्च, सोऽपेक्षाकृतः, अपरि सन्निविष्टमपेक्ष्य मूलवयपदेशः, अधःसन्निविष्टमपेक्ष्याग्रमिति। तस्माद्यथा सर्वे ग्रामास्तुल्यजातीया न तथा वेणुभागः भवन्ति। ग्रामाणां हि न किञ्चिदपेक्षाकृतं ग्रामत्वम्‌ भागानां त्वेकस्यैव मुख्यं मूलत्वमग्रत्वञ्चानपेक्षाकृतम्‌। अनेकेषां भागानां तूभयम्‌। यत्तदपेक्षाकृतमेव तस्माद्भिन्नजातीयः भागाः। न च भिन्नजातीयानां वीप्सा भवति, यथा--सास्नादिमतां गदां वाहिकानाञ्च। न हि गोर्गौरित्यक्ते वाहीकगतापि दीपासा गम्यते। अप चैतावातिहार्थो विवक्षितः---आनुपूर्व्येण वेणु नडादयः [`नलादयः'---प्रा.मु.पाठः] स्थूलाः सूक्ष्मा वेति प्रतियते; न तु वीप्सा। `र्ज्यष्ठं ज्येष्ठं प्रदेशय' इति। अत्रानुपूर्व्यमात्रं विवक्षितम्‌। यः सर्वेयां ज्येष्ठस्त तावत्प्रदेशय, ततसतदन्येषां यो ज्यष्ठन्तं प्रदेशयेति। अन्यथा यद्यत्र ज्येष्ठानां वीप्सा स्यात्‌ सर्वकनीयसः प्रवेशो न स्यात्‌; तस्य वीप्सयाऽविवयीकृतत्वात्‌, न ह्यसौ ज्येष्ठः। तस्मादत्रापि नास्ति वीप्सा। तेनानुपूर्व्ये द्वे भवत इत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--यथा `शेषे' (4.2.92) इति लक्षणञ्च, अधिकारश्च; तथा `सर्वस्य द्वे' (8.1.1) इत्येतदपि लक्षणमधिकारश्च। तेनानुपूर्व्ये द्वे भवत इत्युत्तरत्रापि द्विर्वचनविधौ यथायोगमेव व्याख्यानं कर्त्तव्यम्‌। यदि तर्हि `सर्वस्य द्वे इत्येतल्लक्षणमपि, एवं सति `नित्यवीप्सयोः' (8.1.4) इत्यादेर्वेयर्थत्य न भवति, तत्रैव [`तथा हि'--प्र.मु.पाठः] `नित्यदीप्सयोः' इत्येसादीनाम प योगानाम्‌।
`अस्मात्‌ काषपिणादिह भवद्भ्यां मा मावं देहि' इत। अत्र द्बावेवेत्यवधार्यते। द्वावेव देहि, नैकम्‌, नापि बहुनित्यर्थः। विनापि ह्येवकारप्रयोगेणावधारणे गम्यते; विवक्षितत्वात्‌, यथा--पार्थो धनुर्धर इति। ननु किं पुनः कारणे दीप्सा न सम्भवति? इत्याह--`अत्र हि' इत्यादि। अनेन वीप्साया अभाव दर्शयति। कार्षापणौ ह्यनेकमावसमुदायः। न च सर्वे मावा दानक्रियया व्याप्तुमिष्यन्ते, अपि तु द्वादेदेति नास्त्यतर वीप्सा--माषं देहि, द्वौ माषौ देहि, क्रीन्‌ मावान्‌ देहीति। एकं माषं देहि, द्वौ वा, त्रीन वा--इत्ययमत्रार्थो विवक्षितः, न त्ववधारणमिति द्विर्वचनं न भवति।
`सम्भ्रमेण' इति। त्वरया। `प्रवृत्तिः' इति। प्रवत्तनम्‌। `अहिरहिर्बुध्यस्य बुध्यस्व' इति। यद्ययं न वुध्यतेऽह चर्व नावबोधयाम्‌, ततो नून दृष्ट [दष्टः--प्रा.मु.पाठ] एवायमहिनेति मत्वा सम्भ्रमेणैवं वाक्य प्रयुक्ते। `क्रियासमभिहारे द्वे भवत इति वक्तव्यम्‌' (वा.886), `आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम्‌' (वा.887) इत्येवं वाक्यद्वयं लोडादिभिरेव तन्नित्यताया द्योतितत्वाद्‌द्विवचनं न प्राप्नोतीत्युपन्यस्तम्‌। `नित्य' इत्यादिना `नित्यवीप्सयोः' (8.1.4) इत्यनेनैवात्र द्विर्वचनं सिद्धमिति दर्शयति। यथा च सिद्ध तथा तत्रैव `क्त्वाणगलोर्लोटश्च द्विर्वेचनापेक्षया इत्यादिना ग्रन्थेन प्रतिपादितम्‌।
पटपटाकरोति' इति। पटच्छपब्दस्य डाचि विषयभूतेऽनुत्पन्न एव द्विर्वचनम्‌। ततः `अव्यक्तानुकरणाद्द्व्यर्जवरार्धादनितौ डाच' (5.4.57), नित्यमाम्रीडते डाजि' (6.1.100) इति तकारस्य पररूपत्वम्‌। `पटपटायते इति। `लोहितादिडाज्भ्यः क्यष' (3.1.413), `वा क्यषः' (1.3.90) इत्यात्मनपदम्‌।
`ढाजन्तस्य' इति। भाविडाजन्तमभिप्रेत्यैवमुक्तम्‌। तस्मात्‌ डाचि विषयभूतेऽनुत्पन्न एवैतद्‌द्विर्वचनमिष्यते। अत एव वृत्तिकारेण `अव्यक्तानुकरण' (5.4.57) इत्यादौ सूत्रे उक्तम्‌--डाचीति विषयसप्तमीयमिति। अत्र `नित्यमाम्रेडिते डाचि' (6.1.100) इति पररूपविधानं ज्ञापकम्‌। तत्र ह्य इति, अन्तस्येति, च वर्त्तते। यदि डाचि परभूते द्विर्वचनमिष्यते, ततो डाचि विहिते पटच्छब्दस्य नित्यत्वाट््टिलोपेनैव प्राग्भवितव्यम्‌; तथा च सत्यच्छब्दाभावात्‌ तत्‌ परूपं नोपपद्यते। तस्माद्विषयसप्तमीयम्‌। एवं कृत्वा `नित्यमाम्रेडिते डाचि' (6.1.100) इत्यत्र यदुक्तम्‌--`प्राक्‌ टिलोपाद्‌द्विर्वचनमिष्यते' इति, तदुपपन्नं भवति। एवं हि प्राक्‌ टिलोपाद्‌द्विर्वचनं सिध्यति; यदि डाचि विषयभूते तत्र तद्विधीयते; अन्यथा हि यदि तस्मिन्‌ परभूते विधीयेत, ततो नित्यत्वात्‌ प्राक्‌ टिलोप एव स्यात्‌, न तु द्विर्वचनम्‌। `द्वितीयाकरोति' इत्यादि। `कृञो द्वितीयतृतीय' (5.4.58) इत्यादिना डाच्‌। `तदर्थम्‌' इति। अव्यक्तानुकरणडाजन्तस्यैव द्विर्वचनं यथा स्यादित्येवमर्थम्‌। `केचित्‌' इति वचनात्‌ केचिद्बहुलमिति न पठन्तीत्युक्तं भवति। तेषामयमभिदप्रायः--`सर्वस्य द्वे' इत्यतो विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा। तेनाव्यक्तानुकरणडाजन्तस्यैवात्र द्विर्वचनं भविष्यति, नान्यस्येति। ततो नार्थो बहुलग्रहणस्येति। `पूर्वप्रथमयोः' इत्यादि। `अर्थातिशयविवक्षायाम्‌' इति। पूर्वप्रथमशब्दस्य वाच्यस्यातिशयः प्रकर्षः, तस्य विवक्षा वक्तुमिच्छा, तस्यां द्वे भवत इत्येतर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्‌। `नाप्राप्ते आतिशायिके द्विर्वचनमिदमारभ्यमाणं तस्य बाधकं प्राप्नोति' इति यो मन्येत, तं प्रत्याह--`आतिशायिकोऽप दृश्यते' इति। कथम्‌? `सर्वेस्य द्वे' (8.1.1) इत्यनेनैव द्विर्वचनं विधीयते। अत्र विभाषाधिकाराद्विकल्पेन। तेन यदा नास्ति द्विर्वचनं तदातिशायको भवति।
`डतरडतमयोः' इत्यादि। `किंयत्तदोः' (5.3.92) इत्यादिना इतज्विहितः। ` वा बहूनां जातिपरिप्रश्ने' (5.3.93) इत्यादिना डतमच्‌। समेन गुणेनाढ्यत्वादिना निरूपणायोभादिमावाढ्यावित्येवमादिप्रकारा सा सम्प्रधारणा। स्त्रीलिङ्गशब्धः स्त्रीलिङ्गयोगात्‌ स्त्रीत्युक्तः। निगद्यतेऽनेनेति निगदः--`पुंसि संज्ञायां घः प्रायेण' [`प्रायेण'--नास्ति मुद्रिते] (3.3.118) इति घः। स्त्रीनिगदो यस्य स स्त्रीनिगदो भावः। डतरडतमान्तयोः स्त्रीनिगदे भावे वर्त्तमानयोः शब्दयोः सम्प्रधारणायां विषयभूतायां द्वे भवतः। डतरडतमग्रहणमत्रोपलक्षणार्थ द्रष्टव्यम्‌। अत एव वक्ष्यति--`डतरडतमान्यामन्यत्रापि दृश्यते' [`हि' इल्यधिकम्‌--काशिका] इति। इहाढ्यत्वं कस्यचित्‌ साधनसम्बन्धकृतम्‌, कस्यचिद्यत्नकृतम्‌, कस्यचिद्भाग्यसम्पत्कृतम्। तत्रोभाविमावाढ्यावित्युक्ते प्रतिपत्ता किंकृतमनयोराढ्यत्वमिति प्रतिपद्यमानः कतराकतराऽनयोराढ्यतेति वाक्यं प्रयुङक्ते, तदाढ्यता विभूतिपर्यायः स्त्रीनिगदो भावः। तत्र च डतरडतमान्ते वर्त्तते; तां प्रष्टुं प्रवर्त्तितत्वात्‌।
`कर्मव्यतिहारे' इत्यादि। कर्मव्यतिहारः क्रियाविनिमयः। एकस्यान्यभोजनापदरस्यापीतरो भोजनादिः। समासवद्भावोऽनेन बहुलं विधीयते। द्विर्वचनं तु `सर्वस्य द्वे' (8.1.1) इत्यनेनैव सिद्धम्‌। स च समासवद्भावो बहुलवचनादन्योऽन्यशब्दे न भवत्येव। इतरेतरशब्दे तु नित्यम्‌। असमासपक्षे पूर्वपदस्य प्रथमैकवचनं कर्त्तव्यम्‌। `अन्योऽन्यमिमे ब्राह्मणा भोजयन्ति' इति। अन्यमित्यस्य द्वितीयैकवचनान्तस्य द्विर्वचनम्‌। अत्र समासवद्भावो नास्तीति पूर्वपदस्य प्रथमैकवचनम्‌। तस्य च `ससजुषो रुः' (8.2.66), `अतो रोरप्लुतादप्लुते' (6.4.113) इत्युत्वम्‌; `आद्गुणः' (6.1.87), `एङः पदान्तादति' (6.1.109) इति पूर्वरूपत्वम्‌--एते विधयो विधेयाः। `अन्योऽन्यस्य' इति। षष्ठ्यन्तस्य द्विर्वचनम्‌। अन्योऽन्यसम्बन्धिनं पुत्रादिकं भोजयन्ति। अन्योऽप्यस्येत्यर्थः। `इतरेतरं भोजयन्ति' इति। द्वितीयान्तस्य द्विर्वचने कृते द्वितीयैकवचनम्‌, अमि पूर्वत्वम्‌ (6.1.107)। इतरेतरस्य' इति। षष्ठ्यन्तस्य द्विर्वचनम्‌। सुब्लुकि कृते समासप्रातिपदिकत्वात्‌ पुनः षष्ठ्येकवचनं भवति।
`स्त्रीनपुंसकयोः' इत्यादि। स्त्रीनपुंसकयोर्यत्‌ सर्वनाम कर्मव्यतिहारे वर्त्तते तदुत्तरपदस्य विकल्पेनाम्भावो वक्तव्यः। उत्तरपदस्येत्यवयवसम्बन्धे षष्ठी, तेनोत्तरपदस्य या विभक्तिरवयवभूता तस्या अयमादेशो भवति। स्थाने षष्ठ्यां ह्यस्यामनेकाल्त्वात्‌ सर्वादेशः स्यात्‌। `अन्योन्यामिमे ब्राह्मण्यो भोजयतः' इति। अन्यामित्यस्य द्विर्वचनम्‌, विभक्तेराम्भावः, पूर्वपदस्य बहुलवचनाद्ह्रस्वत्वम्‌, पूर्ववद्रुत्वादि। `अन्योऽन्यम्‌' इत्यत्र उत्तरपदस्यापि पूर्ववद्‌ ह्लस्वत्वादिः। `इतरेतरां भोजयतः' इति। समासवद्भावे सति सर्वनाम्नो वृत्तिमात्रे पुंवद्भावेन (जैन.वृ.103) टापो निवृत्तिः। एवं `इतरेतरम्‌' इत्यत्रापि।।







 
 
13. अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्‌। (8.1.13)
नञत्र विपक्षे वर्त्ततेऽधर्मानृतादिवत्‌। कृच्छ्रम्‌=दुःखम्‌, प्रयत्नः=प्रयास इत्यर्थः; स पुनः प्राणिधर्मः। कृच्छ्रविपक्षोऽकृच्छ्रम्‌; प्राणिधर्म एव, यस्मिन्‌ सति प्रयत्नमन्तरेणैव दानादिक्रियां सम्पादयति। तत्र वर्त्तमानयोः प्रियखशब्दयोर्द्वे भवतः। प्रियप्रियेण ददाति। विना प्रयासेन ददातीत्यर्थः। तृतयैकवचनान्तस्य द्विर्वचने कृते सुब्लकि च पुनस्तृतीयैकवचनमेव समासवद्भावेन भवति। `प्रियः पुत्रः, सुखो रथः' इति। नात्र प्रियसुखशब्दौ कृच्छ्रविपक्षे प्राणिधर्मविशेषे वर्त्तते, किं तर्हि? द्रव्ययोः। पुत्रो हि प्रीणातीति कृत्वा प्रिय इत्युच्यते, रथोऽपि सुखयतीत कृत्वा सुखः।।

14. यथास्वे यथायथम्‌। (8.1.14)
`यथास्वम्‌' इति। `यथाऽसादृश्ये (2.1.7) इति वीप्सायामव्ययीभावः। स्वशब्दो हीहात्मवचनः, आत्मीयवचनो वा--इति दर्शयितुमाह--`यो य आत्मा' इत्यादि। `यथायथम्‌' इति। `ह्रस्वो नपुंसके' (1.2.47) इति ह्रसवः।।

15. द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगामिव्यक्तिषु। (8.1.15)
`पूर्वपदस्याम्भावः' इत्यादि। द्विर्वचने कृते द्वि+औ इति स्थिते सुब्लुकि कृतेऽम्भावोऽत्वञ्चोभयमपीकारस्य क्रियते, यथा क्रमं समुदायात्‌ सुः, `अतोऽम्‌' (7.1.24) इति कृतेऽमि पूर्वत्वञ्च (6.1.107), अन्यथा हि द्वन्द्वसिति रूपं त सिध्येत्‌। किं पुनरेदेषु रहल्यादिदाच्येषु द्वन्द्वमिति निपात्यते? उत विषयभूतेष्वित्यत आह--`तत्र' इत्यादि। रहः=गुप्तिः, तत्र साधु रहल्यम्‌, `तत्र साधुः' (4.4.98) इति `प्राग्धिताद्यत्त' (4.4.75)। अथ वा--रहसि भवमिति दिगादित्वाद्यत्‌ (4.3.54)। `मर्यादादचने' इति। मर्यादः=स्थित्यनतिक्तमः, तस्या वचनं मर्यादावचनम्‌। वचनग्रहणम्‌--शब्दोपात्तायां मर्यादायां यथा स्यात्‌, अर्थप्रकरणादिना गम्यमानायां मा भूत्‌। `आचतुरम्‌' इति। `आङ्‌ मर्यादाभिविध्योः' (2.1.13) इत्यव्ययीभावः; `अव्ययीभावे शरत्प्रभृतिभ्यः' (5.4.107) समासान्तष्टच्‌। उदाहरणे भर्यादार्थमभिव्यक्तीकर्त्तमाह--`माता पुत्रेण' इत्यादि। माता हि मिथुताय चतुरः सन्तानजान्‌ प्राप्नोति, न तु ततोऽधिकान्‌ पुत्रपौत्रपयौत्रतत्पुत्रान्‌। `मर्यादार्थः' इति। मर्यादेवर्थो मर्यादार्थः। `प्रयुनक्ति' इति। उपकल्पयतीत्यर्थः। `द्वन्द्वानि' इति। शीतोष्णादीनि सुखदुःखहेतूनित्यर्थः। [सुखदुःखहेतूनीत्यर्थः--प्रा.मु.पाठः] यदि योगविभागः क्रियते, रहस्यादिग्रहणमनर्थकम्‌? नानर्थकम्‌; प्रपञ्चार्थत्वात्‌। द्वन्द्वमित्यस्य वा योगविभागस्यासर्वविषयज्ञापनार्थत्वात्‌।।

16. पदस्य। (8.1.16)
`प्रागपदान्ताधिकारात्‌' इति। `अपदान्तस्य भूर्धन्यः' (8.3.55) इत्यतः प्राक्‌। अनन्तरेषु योगेष्वामन्त्रितादेः सुबन्तस्य तिङन्तस्य च यत्‌ कार्य विधीयते तत्रान्तरेणापि पदाधिकारं पदस्यैव कार्यं लभ्यते, अतस्तानुल्लङ्ध्य यत्र पदाधिकारस्योपयोगस्तमेवोपन्यस्यत। `वक्ष्यति--संयोगान्तस्य लोपः' इति। `षष्ठी स्थानेयोगा' (1.1.49) इति नियमात्‌ `पदस्य' इत्येषा स्थानषष्ठी। स्थानषष्ठ्याञ्चास्यान्‌ `उदात्तस्वरतयोर्यणः स्वरितोऽनुदात्तस्य' (8.2.4) इत्यस्यायमर्थो जायते--उदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तस्य पदस्य स्वरितो भवतीतिः तथा चात्रैव स्यात्‌--कुमार्याविति, कुमार्य इत्यत्र न स्यात्‌। न ह्येतदुदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तं पदम्‌, किं तर्हि? सकारान्तम्। `एकादेश उदात्तेनोदात्तः' (8.2.5) इत्यत्रापि स्थानषष्ठ्यामस्यामयमर्थो जायते--उदात्तानुदात्तयोर्य एकदेशस्तदन्तस्य पदस्योदात्तो भवतीति। तथा चात्रैव स्यात्‌--वृक्षाविति, वृक्षा इत्यतर न स्यात्‌। न ह्यत्रोदात्तानुदात्तयोर्य एकादेशस्तदन्तं पदम्‌, किं तर्हि? सान्तमिति यश्चोदयेत्‌, तं प्रत्याह--`वक्ष्यमाणवाक्यापेक्षया' इत्यादि। हेतावियं तृतीया। वक्ष्यमाणानां वाक्यानां याऽपेक्षा तया हेतुभूतया पदस्याधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्या। व्यवस्था=नियम इत्यर्थः। वक्ष्यमाणानि हि वाक्यानि कानिचित्‌ `संयोगान्तस्य लोपः' (8.2.23) इत्येवमादीनि पदस्येति स्थानवष्ठीमपेक्षन्ते। कानिचित्‌ `उदात्तस्वरितयोर्यणः' (8.2.4) इत्येवमादीन्यवयवषष्ठीमिति। अत एव परापेक्षया षष्ठ्यर्थे नियमो भवति। अधिकारा हि परार्था भवन्ति। एवञ्चैषां परार्थता भवति यदि ते परापेक्षानुरोधेनार्थमात्मसात्‌ कुर्वन्ति। `क्यचित्‌' इत्यादिना तामेव षष्ठ्यर्थव्यवस्थां दर्शयति। किं पुनः कारणन्‌ `षष्ठो `स्थाने योगा' (1.1.49) इत्येष नियमोऽत्र न प्रवर्त्तते? एवं मन्यते--सम्बन्धन्ध्यन्तरापेक्षया नियमोऽयम्‌। योगो हि सम्बन्धः, स चानेकसम्बन्ध्याधारः। न चेहाधिकारसूत्रे सम्बन्ध्यन्तरं विद्यते, अतो नास्त्येव तस्येहोपस्थानमिति।।

17. पदात्‌। (8.1.17)
`प्राक्‌ कुत्सने च सुप्यगोत्रादौ' इत्यादि। कुत एतत्‌? अत्र केचिदाहुः--"`सुपि' (8.1.69) इति येयं सप्तमी तथा `पदात्‌' इत्यस्याः पञ्चम्या निमित्तभावस्य बाधितत्वान्नोत्सहते प्रवर्त्तितुम्‌, अतो बाध्यते पञ्चस्या निमित्तभावः" इति, एतच्चायुक्तम्‌; न हि सप्तमीपञ्चम्योर्निमित्तत्वे सत्याश्रीयमाणे कश्चिद्विरोधः। तत्रैवमभिसम्बन्धः स्यात्‌--पदात परं यत्तिङन्तं कुत्सनवाचिनि सुबन्ते परतस्तस्मिन्निहन्यत इति, ततश्चेहैव स्यात्‌--देवदत्तः पचति पूतीति, इह तु न स्यात्‌--पचति पूतीति। किञ्च `चनचिदिवगोत्रादितद्धिताभ्रेडितेध्वगतेः' (8.1.57) इत्यत्रापि पदादित्यस्यानुवृत्तिर्न स्यात्‌। सप्तम्या `पदात््' इत्यस्याः पञ्चम्याः बाधितत्वात्‌; ततश्च निद्यातार्थमेव सूत्रे स्यात्‌। चनादिप्रयोगे सति विज्ञायेत--तस्मादिति। अतोऽधिकाराणां प्रवृत्तिनिवृत्ती भवत इति समाधेयम्‌। अथ वा--पदादिस्येतत्‌ प्रतिषेधेन सम्बद्धम्‌। अतः `कुत्सने' (8.1.69) इत्यतर प्रतिषेधे निवृत्ते `पदात्‌' इत्येतदपि निवर्त्तते।।

18. अनुदात्तं सर्वमपादादौ। (8.1.18)
`यत्‌ ते नियतम्‌' इत्यादि। अत्र `मृत्यो' इत्येतदामन्त्रितं पदं भवति रजसमित्येतस्मात्‌ पदात्‌ परन्‌। किन्तु मृत्यो अनवधृष्यभित्यस्य पदस्यादौ वर्त्तत इति न भवति निघातादेशः। अस्मिन्नसति `आमन्त्रितस्य च' (6.1.198) इत्यामन्त्रिस्य षाष्ठिकमेवाद्युदात्तत्वं भवति।
`रुद्रो विश्व' इति। अत्र `देवः'--इत्यस्मात्पदात्‌ परं `युष्माकम्‌' इत्येतत्‌ पदं भवति, किन्तु `युष्माकं कुलदेवता' इत्यस्य पादस्यादौ वर्त्तत इति न भवति वसादेशः। अनन्तरेऽपि प्रत्युदाहरणे `अस्माकं शत्रुमर्वनः' इत्यस्य पादस्यादौ वर्त्त्तेऽस्माकमित्येतत्पदम्‌। तेन `भगवान्‌' इत्यस्मात्‌ पदात्‌ परस्यापि तस्य नसादेशो न भवति।
`पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्यते' इति। विशेषानुपादानात्‌।
अथ सर्वग्रहणं किमर्थम्‌, यावता `अनुदात्तं पदमेकवर्णम्‌' (6.1.158) इति पदेषु स्वरित उदात्तो वैव एव भवति; तस्य चानुदात्त आदिष्टे सर्वमेवानुदात्तं पदं जायते? इत्याह--`सर्वग्रहणम्‌' इत्यादि। `अनूद्यमानम्‌' इत्यादिना सर्वग्रहणस्य प्रयोजनमाचष्टे। तद्‌द्विविधं पदम्‌--अनूद्यमानम्‌, विधीयमानञ्च। तत्र यत्‌ सिद्धमेव कार्यन्तरार्थं संकीर्त्यते नदनूद्यमानं पदम्‌, यत्त्वपूर्वमेव विधीयते तद्विधीयमानम्‌; तदुभयमप्यनुदात्तं यथा स्यादित्येवमर्थं सर्वग्रहणम्‌। तेन किं सिद्धं भवति? इत्याह--`तेन' इत्यादि। युष्मदस्मदादेशा हि विधीयमानत्वादसिद्धसत्ताकाः। सिद्धस्य हि वस्तुनो धर्मान्तरं खस्यते कर्तुम्‌, यथा--निष्पन्नरूपस्य वाससो रागः, नानिष्पन्नस्य; तथा तस्यैवानुपजातावस्थस्य। तत्रासति सर्वग्रहणे यदेव सिद्धसत्ताकं पदमनूद्यमानमामन्त्रितादि, तस्यैदानुदात्तत्वं विधीयते, न तु युष्मदस्मदादेशानाम्‌। सर्वग्रहणे तु सति तेषामपि विधीयते। अथ क्रियमाणेऽपि सर्वग्रहणे कथं युष्मदस्मदादेशानामप्यनुदात्तत्वं शक्यं विधातुम्‌? न हि तेन तेषां विधानकाले यदसिद्धत्वं तदपनीतम्‌? इत्यत आह--`वाक्यभेदेन' इत्यादि। सर्वग्रहणसामर्थ्यादत्र वाक्यभेद उक्तो भवति, न ह्यन्यथा सर्वग्रहणस्यानुदात्तत्वं शक्यं विज्ञातुम्‌। तत्रैकेन वाक्येनादेशा विधीयन्ते द्वितीयेन च तेषामनुदात्तत्वम्‌। कथं तर्हि विधीयमानमित्युक्तम्‌, यावता विहितानामेव युष्मदस्मदादेशानां वाक्यान्तरेणानुदात्तत्वं विधीयते? यदिह प्रकरणे विधीयमानं तद्विहितं सदुत्तरकालमनुदात्तं यथा स्यात्‌--इत्ययं तेत्राभिप्रायो वेदितव्यः। यद्यसिद्धस्य धमन्तिरमशक्यं विधातुम्‌, तत्कथं `लुङलङ्लृङ्क्ष्वडुदात्तः' (6.4.71) इत्यत्र विधीयमानस्याट उदात्तत्वं विधीयते? तत्रापि वचनप्रामाण्याद्वाक्यभेदः कृतो भवेत्‌--तत्रैकेन वाक्येनाङ्‌विधीयते, अपरेण तु विहितस्योदात्तत्वम्‌; इह त्वसति सर्वग्रहणे वाक्यभेदो न लभ्यत इत्यनुदात्तत्वमेव न स्यात्‌ अनुदात्तवचनस्यामन्त्रितादिषु चरितार्थत्वात्‌।
`युष्मदस्मदादेशाश्च' इति। चशब्दः प्रयोजनान्तरसमुच्चये। इदञ्चान्यत्‌ सर्वग्रहणस्य प्रयोजनम्‌--युष्मदस्मदोर्वान्नावादय आदेशा सर्वस्य सुबन्तस्य पदस्य यथा स्युरिति; अन्यथा ह्यसति सर्वग्रहणे `युष्मदस्मदोः' (8.1.20) इति षष्टीनिर्देशाद्विभक्तिं विहाय तयोः केवलयोरेव स्युः। ननु च `पदस्य' (8.1.16) इति वर्त्तते, विभक्यन्तं हि पदम्‌, तत्रान्तरेणापि सर्वग्रहणं सर्वस्य सविभक्तिकस्यैव पदस्य भविष्यति? इत्यत आह--`यत्रापि' इत्यादि। स्वादौ पदं स्वादिपदम्‌, `सप्तमी' (2.1.40) इति योगविभागात्‌ समासः; तत्पुनर्यस्य `स्वादिष्वसर्वनामस्थाने' (1.4.17) इति पदसंज्ञा विहिता। असति सर्वग्रहणे यत्र विभक्त्यन्तं पदं तत्रैव सविभक्तिकस्य पदस्य स्युः। यत्र विभक्तौ परतः पूर्व पदं तत्र न स्युः, इष्यन्ते च तत्रापि सर्वस्य। तस्माद्यत्रापि स्वादिपदं चतुर्थीद्विवचनादौ तत्रापि सर्वस्य सुबन्तस्य यथा स्युः इत्येवमर्थं `सर्वम्‌' त्युचेयते। ननु चामन्त्रितस्य पदात्‌ परस्यानुदत्तत्वं वक्ष्यति। तत्र नाप्राप्ते आमन्त्रिताद्युदात्तत्व इदमनुदात्तत्वमारभ्यत इति तस्यापदादः, ततश्च तेन तस्मिन्‌ बाधिते प्रकृतिल्वरत्वमामन्त्रितल्यापद्येत; सर्वग्रहणात्तु सर्वस्वरप्राप्तिरामन्त्रितानुदात्तत्वेन बाध्यते, तस्मात्‌ सर्वस्वरप्राप्तिबाधनार्थमपि सर्वग्रहणं कस्मान्न भवति? नार्हत्येवं भवितुम्‌; अनुदात्तशब्दो ह्ययमामन्त्रितसमानाधिकरणः सर्वस्वरप्राप्तिं बाधिष्यते। न ह्याद्युदात्तत्वे प्रतिषिद्धे प्रकृतिस्वरे क्रियमाणेऽनुदात्त शब्देनामन्त्रितमुच्यते। तस्मात्‌ पूर्वोक्तमेव सर्वग्रहणस्य प्रयोजनम्‌।।

19. आमन्त्रितस्य च। (8.1.19)
`आमन्त्रिताद्युदात्तत्वे प्राप्त इदमुच्यते। इह पदाधिकारमात्रं प्रकृत्य निघातयुष्मदादेशा विधीयमाना यत्रापि नेष्यन्ते, तत्रापि प्रसजन्ति। यत्रापि क्वचिदिष,्यन्ते, तत्रापि क्वचिन्न प्राप्नुवन्ति, अत एतद्दोषपरिजिहीर्षयाऽऽह--`समानवाक्ये' इत्यादि। यस्मात्‌ पदात्‌ परस्यामन्त्रितादेर्निघातादि कार्यं विधीयते, तयोः समान एकस्मिन्‌ वाक्य आधारभूते सति विघातादयो विधीयन्त इति वक्तव्यम्‌। किमर्थम्‌? इत्याह--`इह' इत्यादि। `अयं दण्डः' इति। अत्रास्तीत्येतदपेक्षते। अप्रयुज्यमानमपि गम्यत इत् तथोक्तम्‌। `यत्रान्यत्‌ क्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रयुज्यते इत्यप्रयुज्यमानोऽपि गम्यते' इति, तदेवमस्तीत्यनेन गम्यमानेन सहितमयं दण्ड इत्येकं धाक्यम्‌, हरानेनेत्यपरम्‌। तत्र यद्येकवाक्ये निघातादयो नोच्येरन्‌, ततो दण्डादिशब्दादतिङन्तात्‌ परस्य हरेत्यस्य तिङन्तस्य निघातः प्रसज्येत। ननु पदविधिरयम्‌, स च सामर्थ्ये सति भवति, न चेह तदस्ति, अतोऽसामर्थ्यान्निधातो न भविष्यतीति चेदिहापि तर्हि न स्यात्‌--इह देवदत्त् माता ते कथयति, नद्यास्तिष्ठति कूले, शालीनां त ओदनं दास्यामीति। न ह्यत्रेहेत्यनेन देवदत्तेत्यामन्त्रितस्यास्ति सामर्थ्यम्‌; अपि च विद्यत एवायं दण्डो हरानेनेत्यत्र सामर्थ्यम्, तथा ह्यनेनेति सर्वनाम्ना यत करणेन प्रत्यवमुश्यते तद्धरेत्येतदपेक्षते। तच्च प्रत्यासत्तेर्वण्ड एवेत्यस्ति दण्डस्य हरेत्येतस्य च व्यपेक्षालक्षणं सामर्थ्यम्‌। `ओदनं पच तव भविष्यति' इति। ओदनं पचेत्यकं वाक्यम्‌, तव भविष्यतीत्यपरम्‌। `ओदनं पच मम भविष्यति' इति। अत्राप्योदनं पचेत्येकं वाक्यम्‌, मम भविष्यतीत्यपरम्‌। तत्र यद्येकवाक्ये युष्मदस्मदादेशा नोच्येरन्‌, ततः पचेत्येतस्मात्‌ पदात्‌ परयोर्युष्मदस्मदोस्तु `तेमयावेकवचनस्य' (8.1.22) इति तेमयावादेशो स्याताम्‌, अस्ति ह्यत्रापि सामर्थ्यम्‌। तथा हि--युष्मच्छब्ददाच्योऽस्मच्छब्दवाच्यश्च योऽर्थस्तत्साधनेन पाकेन तत्त्वामिकौदनो भविष्यतीत्येवम्भूता पाकस्य युष्मदस्मदोश्च व्यपेक्षा विद्यते। असः समानवाक्यग्रहणे तु सति न किञ्चिदनिष्टमापद्यते।
`इह च' इत्यादि। चशब्दः समुच्यये। इदञ्चापरमत्त्या इष्टेः प्रयोजनमिति दर्शयति। `इह देवदत्त माता ते कथयति' इत्येकं वाक्यम्‌, `नद्यास्तिष्ठति कूले' इति द्वितीयम्‌। `शालीनां त ओदनं दास्यामि' इति तृतीयम्‌। तत्र प्रथमे वाक्ये--इहेत्यस्मात्‌ पदात्‌ परस्य देवदत्तस्यामन्त्रितस्यानेन निघातो यथास्यात्‌, द्वितीये--नद्या इत्वस्मात्परस्य युष्मच्छब्दस्य `तेमयावेकवचनक्य' (8.1.22) इति त इत्येवमादेशो यथा स्यादित्येवमर्थं समानवाक्ये निघातादयो वेदितव्याः। अस्मच्छब्दादेशोदाहरणमिह नोपन्यस्तम्‌; युष्मच्छब्दादेशोदाहरणेनैवावगम्यमानत्वात्‌। तात्पुनः शालौनामोदनं मे देहीत्येवंजातीयकं तत्र द्रष्टव्यम्‌। किं पुनः स्याद्यदि समानवाक्ये निघातयुष्मदस्मदादेशा नोच्येरण्‌? इत्यत आह--`आमन्त्रितान्तम्‌' इत्यादि। प्रथमे तावद्वाक्ये--इहेत्येतदधिकरणप्रधानम्‌, अधिकरणञ्चाधेयापेक्षम्‌, तच्चाधेयं माता न तु देवदत्तः। इह ते स्विता माता कथयतीत्यर्थः। तस्मादिहशब्देन नास्तिदेवदत्तत्यस्यामन्त्रितस्य सामर्थ्यम्‌। द्वितीये तु नद्या इत्येतस्मात्‌ परं तिष्ठतीत्येतत्‌ तिङन्तम्‌। न च तस्या नद्या इत्यनेन सामर्थ्यम्‌; किं तर्हि? कूल इत्यस्य। तृतीयेऽपि--शालीनामित्यस्मात्‌ पदाद्युष्मच्छब्दः परः, म तु शालीनामित्यनेन तस्य सामर्थ्यमस्ति, किं तर्हि? ओदनस्येति। ततः सामर्थ्याभावात्‌ तदाश्रया निघातादयो न त्युः।
`तदाश्रयाः' इति। इहेत्येतत्‌ पदं `नद्या' इत्येच्छालीनामित्येतच्छाश्रयो निमित्तं यथां ते तथोक्ताः। अथ वा--तत्‌ सामर्थ्यमाश्रयो येषां ते तथोक्ताः। असल्यां ह्यस्यामिष्टौ पदादधिकारात्‌ पदविधिर्निघातादि कार्यं भवति, स च सामर्थ्यनिबन्धनः। तच्च सामर्थ्यमिह नास्तीति कुतो निघातादेः प्रसङ्गः! तस्मादसामर्थ्येऽपि यथा स्यादित्येवमर्थं समानवाक्ये निघातादि कार्य वक्तव्यम्‌।।

20. युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ। (8.1.20)
`षष्ठीचतुर्थीद्वितीयास्ययोः' इति। षष्ठ्यादिषु यौ तिष्ठतस्तौ तथोक्तौ। `सुपि स्था' (3.2.4) इति कः।
कि पुनः कारणं द्विवचनान्तयोरेवोदाहरण पन्यस्तम्‌? इत्याह--`एकवचनान्तबहुवचनान्तयोः' इत्यादि।
अथ स्थग्रहणं किमर्थम्‌, न `युष्मदस्मदोः षष्ठीचतुर्थीद्वितौयासु' इत्येवोच्येत, षष्ठ्यादिषु विधीयमानेध्ववश्यं युष्मदस्मदोस्तात्स्थ्यं भविष्यति? इत्यत आह--`स्थग्रहणम्‌' इत्यादि। श्रूयमाणा विभक्तिरर्थः प्रयोजनं निमित्तं यस्य तत्‌ तथोक्तम्‌। [`तथोक्तं भवति--का.मु.पाठः] एतदुक्तं भवति--श्रूयमाणआ षष्ठ्यादिका विभक्तिरादेशस्य निमित्तं कथं नाम लभ्येतेत्येवमर्थं स्थग्रहणमिति? तेन विभक्तिर्यत्रन श्रूयते तत्र न भवतीति--अयं युष्मत्पुत्रोऽयमस्मत्पुत्र इति। असति तु स्थग्रहणे लुप्तायामपि विभक्तौ प्रत्ययलक्षणेन (1.1.62) स्यातामेवादेशौ। अश्रूयमाणरणं पुनरत्र विभक्तेः षष्ठीसमासे कृते `सुपो धातुप्रातिपदिकयोः' (2.4.71) इति लुप्तत्वात्‌। कथम्‌? पुनः स्थग्रहणे श्रूयमाणा [एष पंक्तिभागः का. मुद्रितेनोपलभ्यते] विभक्तिरादेशस्य निमित्तत्वेन लभ्यते? श्रूयमाणायामेव तस्यां तात्स्थ्यस्य सम्भवात्‌। अथ वा--तिष्ठतिरयमपरिहाणावर्थे वर्त्तते, यथा--`समये तिष्ठ सुग्रीव' [`न च सङ्कुचितः पन्थाः येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः।।'] (वा.रा.किं.स.30.श्लो.81) इति। समयं न परिजहिहीत्यर्थः। तेनैवं विज्ञायते--षष्ठीचतुर्थीद्वितीयामपरिजहतोर्युष्मदस्मदोरादेधाविति। एवं च विज्ञायमाने श्रूयमाणैव विभक्तिरादेशस्य निमित्तत्वेनोपात्ता भवतीति।।

21. बहुवचनस्य वस्नसौ। (8.1.21)

22. तेमयावेकवचनस्य। (8.1.22)
किं पुनः कारणं षष्ठीचतुर्थ्यन्तयोरेवोदाहरणमुपन्यस्तम्‌, न द्वितीयान्तयोः? इत्याह--`द्वितीयान्तस्य' इत्यादि।।

23. त्वामौ द्वितीयायाः। (8.1.23)

24. न चवाहाहैवयुक्ते। (8.1.24)
`एभिर्युक्ते' इति। `नपुंसके भावे क्तः' (3.3.114) एभिर्योग इत्यर्थः। अथ वा--`तयोरेव कृत्यक्त खलर्थाः' (3.4.70) इति कर्मणि क्तः। एभिर्युक्ते सम्बद्धे। कस्मिन्‌? युष्मच्छब्देऽस्मच्छब्दे च। यद्यपि तौ द्विर्वचनान्तौ प्रकृतौ, तथापीह प्रत्येकमभिसम्बन्धादेकवचनं कृतम्‌। `तव, मम' इति। `युष्मदस्मद्भ्यां ङसोऽश्‌' (7.1.27), `तवममौ ङसि' (7.2.96)। `युवयोरावयोः' इति। `युवावौ द्विवचने' (7.2.92)। `युष्माकमस्माकम्‌' इति। `साम आकम्‌' (7.1.33)। `तुभ्यं मह्यम्‌' इति। `ङेप्रथमयोरम्‌' (7.1.28) इत्यम्‌, `तुभ्यमहौ ङयि' (7.2.95)। `धुष्मभ्यमस्मभ्यम्‌' इति। `भ्यसो भ्यम्‌' (7.1.30)। `त्वां माम्‌' इति। `त्वमावेकवचने' (7.2.97) इति त्वमादेशौ, `द्वितीयायां च' (7.2.87) इत्यात्त्वम्‌। `युष्मान्‌, अस्मान्‌' इति। `शसो न' (7.1.29), `पूर्ववदात्त्वम्‌'।
`युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम्‌' इति। साक्षादव्यवधानेन चादिभिर्योगः। तस्य प्रतिपत्तिर्यथा स्यादित्येवमर्थ युक्तग्रहणम्‌। कथं पुनर्युक्तग्रहणे साक्षाद्योगप्रतिपत्तिर्भवति? एवं मन्यते--अपरिसमाप्तत्वादस्य वाक्यस्य तृतीयानिर्देश एव युक्तग्रहणमध्याहरिष्यति, यथा--`तुल्यार्थे रतुलोपमाभ्याम्‌' (2.3.72) इत्यत्र। तस्माद्युक्तग्रहणं न कर्त्तव्यमेव? तत्‌ क्रियते साक्षाद्योगप्रतिपत्तिर्यथा स्यादिति। अन्यस्त्वाह--पदविधिरयम्‌, पदविधिश्च समर्थानामेव भवति, तत्र पदविधित्वादेव योगे लब्धे यद्युक्तग्रहणं क्रियते तत्‌ साक्षाद्योगप्रतिपत्तिर्यथा स्यादिति? एतच्चायुक्तम््; असामर्थ्येऽपि निघातादिकार्यं समानवाक्ये भवतीत्युक्तमेतत्‌। कदा पुनश्चादिभिः साक्षाद्युष्मदस्मदोर्योगः? यदा तदर्थगतान्‌ समुच्चयादीनर्थास्ते द्योतयन्ति। इहैते चादयः समुच्चयादिना द्योत्येनार्थेनार्थवन्तः, तत्र यदा युष्मदस्मदनुगतानेव समुच्चयादीन्‌ धर्मान्‌ द्योतयन्ति, तदा चादिभिः साक्षाद्युष्मदस्मदोर्योगः। यदा तु ग्रामादिसम्बन्ध्यन्तरगताः, तदा युक्तयोगः, न तु साक्षाद्योगः। तत्र युक्तयोगे प्रतिषेधो न भवति--ग्रामश्च ते स्वं नगरञ्च मे स्वमिति। तत्र ग्रामशब्दो नगरशब्दश्च चशब्देन युक्तः; तदर्थगस्तस्य समुच्चयस्य तेन द्योतनात्‌। युष्मदस्मच्छब्दौ तु ग्रामनगराभ्यां युक्तौ; तयोस्ताभ्यां स्वस्वामिकत्वसम्बन्धस्यार्थस्येह सम्भवात्‌। ननु च साक्षाद्योगप्रतिपत्त्यर्थं युक्तग्रहणम्‌--युक्तयुक्ते मा भूदित्येवमर्थं कथं क्रियते, न च चादियोगे प्रतिषेध उच्यमानो युक्तयुक्ते प्राप्नोति, न हि यश्चादिभिर्युक्तयुक्तेन योगः स चादियोगो भवति, तत्किंसाक्षाद्योगप्रतिपत्त्यर्थेन युक्तग्रहणेन? एवं तर्ह्येतदेव युक्तग्रहणं ज्ञापयति--इह प्रतिषेधकाण्डे युक्तयुक्तेऽपि प्रतिषेधो भवतीति। तेनोत्तरसूत्रे यद्वक्ष्यते--`पस्यार्थैर्युक्तयुक्तेऽपि प्रतिषेधः' इति तदुपपन्नं भवति।।

25. पश्यार्थैश्चानालोचने। (8.1.25)
पश्यार्थैरिति बहुव्रीहिः। तत्र `पश्य' इति यदि `पाध्रध्माधेट्वृशः शः' (3.1.137) इति कर्त्तरि शप्रत्ययान्तः स्यात्‌ ततो द्रष्ट्रर्थैरित्यर्थः स्यात्‌। एवं च `अनालोचने' इति प्रतिषेधो दुर्घटः स्यात्‌। तस्मादालोचनशब्दोऽयं भावसाधनः--आलोचितिरालोचनमिति। तत्र द्रष्ट्रर्थैर्युक्त प्रतिषेध उच्यमानः कः प्रसङ्गो यदालोचनवृत्तिभिर्युक्ते स्यात्‌, नैव प्राप्नोति, स एधोऽनालोचन इति प्रतिषेध उच्यमानः कः प्रसङ्गो यदा लोचनवृत्तिभिर्युक्ते स्यात्‌, नैव प्राप्नोति, स एवोऽनालोचन इति प्रतिषेधः कथमुपपद्यते? यदि पश्यशब्दो भावसाधनो भवति, नान्यथा। तस्मादत एव निपातनात्‌ `कृत्यल्युटो बहुलम्‌' (3.3.113) इति वा भावेऽत्र शप्रतत्ययः, तत्र `पाध्रा' (7.3.78) इत्यादिना पश्यादेशः, द्वयोरकारयोः पररूपत्वम्‌ (6.1.97)। पश्योऽर्थो येषां ते पश्यार्था दर्शनार्था इत्यर्थः। दर्शनशब्दोऽयं चक्षुष्पर्यायोऽस्ति, यथा--`अक्ष्णोऽद्रशनात्‌' (5.4.76) इत्यत्र। अतश्चक्षुधोऽपि सम्प्रत्ययः कस्यचिन्मा भूदित्यत आह--`दर्शनं ज्ञानम्‌' इति। तच्चोत्तरत्रालोचनं चक्षुर्ज्ञानमिति, चक्षुर्ज्ञानस्य पृथगुपादानात्‌, ततोऽन्यद्विज्ञायते। `ग्रामस्त्वां समीक्ष्यागतः' इत्यादिकं साक्षाद्युक्त उदाहरणम्‌। `ग्रामस्तव स्वं समीक्ष्यागतः' इत्यादिकं युक्तयुक्ते। `समीक्ष्यागतः' इति। मनसा निरूप्यागत इत्यर्थः। `ग्रामस्त्वा पश्यति' इति। चक्षुर्ज्ञानेन त्वां पश्यातीत्यर्थः।
`तथा चैवोदाहृतम्‌' इति। यादृशीयमिष्टिस्तदर्थरूपमेवोदाहृतमित्यर्थः।।

26. सपूर्वायाः प्रथमाया विभाषा। (8.1.26)
सहशब्दोऽत्र विद्यमानवचनः, पृर्वशब्दो व्यवस्थावाची। सह विद्यमानं पूर्व यस्याः सा सपूर्वा--पञ्चम्यर्थे बहुव्रीहिः, `वोपसर्जनस्य' (6.3.82) इति सहस्य सभावः। `प्रथमायाः' इति। प्रत्ययग्रहणपरिभाषया (भो.प.7) तदन्तग्रहणं विज्ञायते। अत एवाह--`प्रथमान्तात्‌ पदात्‌' इति। `युष्मदस्मदोर्विभाषा' इत्यादि। आदेशः=कथनम्‌, अन्दादेशः=अनुकथनम्‌। न अन्वादेशोऽनन्वादेशः। तत्रानन्वादेशे युष्मदस्मदोर्विभाधा भवतीति वक्तव्यम्‌।
किमर्थमित्याह--`इह' इत्यादि।

`सर्व एव' इत्यादि। ये सपूर्वात्‌ प्रथमान्तात्‌ पदात्परयोर्युष्मदस्मदोः प्राप्नुवन्त्यादेशाः, ये च ततोऽन्ये ते सव एवानत्वादेशे विभाषा वक्तव्याः।
यद्येवम्‌ अनेन वचनेनैव सर्वत्र विकल्पस्य सिद्धत्वादपार्थकमिदं सूत्रमिति मन्ममान आह--`न तर्हि' इत्यादि। `अन्वादेशार्थम्‌ इति। यद्येतन्नोच्येत, ततोऽनन्वादेश इत्यभिधानात्‌ सपूर्वात्‌ प्रथमान्तादन्वादेशे विकल्पो न स्यात्‌। तस्मात्‌ सपूर्वात्‌ प्रथमान्तादन्वादेशेऽपि विकल्पो यथा स्यादित्येवमर्थं क्रियमाणेऽप्युपसंख्याने सूत्रमिदं कर्त्तव्यमेव। अस्मिंस्तु क्रियमाणे तदुपसंख्यानं न कर्त्तव्यम्‌। कथम्‌? सिंहावलोकितत्यायेन विभाषाग्रहणं पूर्वत्राप्युपतिष्ठते। सत्र व्यवस्थितविभाषाग्रहणादनन्वादेशे सर्वत्र विकल्पो भविष्यति, अन्वादेशे तु नित्यं दान्नावादयः, सपूर्वायाः प्रथमाया अन्वादेशेऽपि विकल्प इति।।

27. तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः। (8.1.27)
यथायथमुदात्तादिषु प्राप्तेष्विदमारभ्यते। `पचति गोत्रम्‌' इति। यः स्वपुरुषकारेण जोविकां कल्पयितु मशक्तो गोत्रखकककक्यापनेन तां कल्पयति स एवमुच्यते। `पचति' इति। व्यक्तीकरीतीत्यर्थः। `पचि व्यक्तीकरणं' (धा.पा.174) `पचतिपचति गोत्रम्‌' इति। नित्येऽर्थे द्विर्वचनम्‌। यस्त्वाभीक्षण्येन गोत्रं ख्यापयति स एव मुच्यते। `वाच्यादेशाभावश्च' इति। `ब्रुवो वचिः' (2.4.53) इति वच्यादेशः प्राप्नोति, तस्याभावो निपातनादव। `विचक्षण' इति। अत्रापि `चक्षिङः ख्याञ' (2.4.54) इति प्राप्तस्य ख्याञादेशस्याभावो निपानादेव वेदितव्यः।
`नामेत्येतदवा निहन्यते' इति। विभाषाग्रहणस्यानुवृत्तेः। न च तदनुवृत्तावतिप्रसङ्गो भवति; व्यवस्थित विभाषाविज्ञानात्‌। `पक्षे आद्युदात्तमेव भवति' इति। `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इति नामशब्दस्याद्युदात्तत्वात्‌। `कुत्सितं गोत्रम्‌' इति। `गुङ्‌ अव्यक्ते शब्दे' (धा.पा.949) इत्यस्मादौणादिके ष्ट्रनि विहिते गोत्रमिति भवति। तस्मान्नित्स्वरेण गोत्रशब्दोऽत्राद्युद्त्तः। `पचति पापम्‌' इति। पापश्ब्दः कुत्सने वर्त्तते, सिङन्ताच्च परो भवति, न तु गोत्रादिरिति न निहन्यते।
इह कुत्सनाभिक्ष्ण्यग्रहणे, एतदनुदात्तविशेषणं वा स्यात्‌--तिङः पराणि गोत्रादीन्यनुदात्तानि भवन्ति कुत्सनाभीक्ष्ण्ययोरिति, उत गोत्रादीनां पाठविशेषणं वा स्यात्‌--एतयोरर्थयोर्गोत्रादीनि भवन्ति, तानि च तिङः पराण्यनुदात्तानि भवन्तीति? अनयोरर्थयोर्गोत्रादिव्यपदेशमासादयन्तीति योऽसौ तेषां प्रातिपदिकेषु विशिष्टानुपूर्वीकः पाठः, स एव तयोरर्थयोवंर्त्तमानानां भवतीति यावत्‌। तत्र पूर्वस्मिन्‌ पक्षे `चनचिदिवगोत्रादितद्धिताम्रेडितेध्वगतेः' (8.1.57) इत्यत्र `कुत्सने च सुप्यगोत्रादौ' (8.1.69) इत्यत्र च कुत्सनाभीक्ष्ण्ययोरपि वर्त्तमानानं कार्यं प्राप्नोति; विशेषानुपादानात्‌। इतरस्मिंस्तु पक्षे न भवत्येष दोषः। यानि हि न कुत्सनाभीक्ष्ण्ययोर्वर्त्तन्ते तेषां गोत्रादिव्यपदेश एव नास्ति; कुत्सनाभीक्ष्ण्यवृत्तीनामेव गणे पठितत्वात्‌। एतत्‌ सर्वं चेतसि कृत्वाऽऽह--`कुत्सनाभीक्ष्ण्यग्रहणं च' इत्यादि। पठ्यत इति पाठः, सन्निवेशविशेषः। सद्विशेषणमेव तद्वेवितव्यम्‌। तेन किमिष्टं भवतीत्याह--`तेन' इत्यादि। कथं पुनरेकेन यत्नेन गोत्रादीनां पाठश्च शक्यो विशेषयितुमनुदात्तत्वञ्चैषां विधातुम्‌? एवं मन्यते--योगविभागः कर्त्तव्यः, तिङः पराणि गोत्रादीन्यनुदात्तानि भवन्ति; ततः `कुत्सनाभीक्ष्ण्ययोः', गोत्रादीनीत्येव। न चात्र द्वितीयेयोगे विधेयमन्यदस्तीति गोत्रादीन्येव कुत्सनाभीक्ष्ण्यग्रहणेन विशिष्यन्ते। अथ वा--उभयथा सूत्रमाचार्येण शिष्याः प्रतिपादिताः, उभयञ्चैतत्‌ प्रमाणम्‌, अत उभयं ग्रहीष्यन्तीति। वृत्तिग्रन्थस्तु तिङन्तात्‌ पदादुत्तराणि गोत्रादीनीत्यादिको वाक्यभेदेनैव नेयः--गोत्रादीनि कुत्सने चामीक्ष्ण्ये च भवन्ति, तान्येव तिङन्तात्‌ पदादुत्तराण्यनुदात्तानि भवन्तीति। ननु च गोत्रादयः शब्दा गोत्रादावेवानर्थान्तरे वर्त्तन्ते, ते कथं कुत्सनाभीक्ष्ण्ययोर्वर्त्तरन्‌? तमेव स्वार्थं यदा तु कुत्सनाभीक्ष्ण्यविशिष्टमाचक्षते तदा तयोर्वर्तन्त इत्यदोषः।।

28. तिङ्ङतिङः। (8.1.28)
`नीलमुत्पलम्‌' इति। उत्पलमित्येतत्‌ `नव्विषयस्यानिसन्तस्य' (फि.सू.2.26) इत्याद्युदात्तं भवति। `भवति पचति' इति। पचतिक्रिया भवतीत्ययमस्यार्थः। पचतिशब्दे शप्तिपावनुदात्तौ, अकारो धातुस्वरेणोदात्तः, `उदात्तादनुदात्तस्य स्वरितः' (8.4.66) इति शबकारः स्वरितः। ननु च समासवाक्ये निघातादय उच्यन्ते, इदञ्च वाक्यमेव न भवति, तत्‌ किमेतन्निवृत्त्यर्थेनातिङग्रहणेन? किं पुनः कारणमेतद्वाक्यं न भवति? अख्यातं साव्ययकारकविशेषणं वाक्यम्‌' इत्यत्र वाक्यलक्षण एकत्वस्य विवक्षितत्वात्‌, इह चाख्यातस्य द्वित्वात्‌? नैष दोधः; अत्राप्याख्यातं यदकारकं तद्विवक्षितम्‌। तच्चास्मिन्नेकमेव भवतिशब्दः, पचतीत्येतत्तु कारकम्‌। तथा हि भाष्ये उक्तम्‌--`पचत्यादयः क्रियाः [`क्रियाः भवन्ति' नास्ति का. मुद्रिते] भवन्ति, क्रियायाः कर्त्र्यो भवन्ति' इति। यदपीदमुक्तम्‌--`एकतिङ्‌ पदसमूहो वाक्यम्‌' इति, अत्रापि प्रधानं यत्‌ तिङ्‌ तदधिकृत्यैकतिङित्युक्तम्‌। अत्र चैकमेव तिङन्तं प्रधानम्‌। यद्येतत्‌, किं तर्हि अत्र तिङन्तं तत्‌? भवतीति। पचतीत्येतत्‌ पुनः साधनत्वादप्रधानम्‌।।

29. न लुट्‌। (8.1.29)
`श्वः कर्त्ता' इति। करोतेर्लुट्‌, तासिः, `लुटः प्रथमस्य डारौरसः' (2.4.85) इत्येकवचनस्य डादेशः, डिति टिलोपः।
`तासेः परस्य' इत्यादि। आगमः प्रत्ययस्वरेणाद्युदात्तः। तस्य यत्र टिलोपो नास्ति--इर्त्तारो, कर्त्तार इत्यादौ, तत्र `नास्यनुदात्तेन्ङित' (6.1.186) इत्यादिना लसार्वधातुकस्यानुदात्तत्वे कृते तासेरेवोदात्तत्वं भवति। यत्र तु टिलोपस्तत्र `अनुदात्तस्य च यत्रोदात्तलोपः (6.1.161) इति लसार्वधातुकमेवोदात्तं भवति।।

30. निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चेण्कच्चिद्यत्रयुक्तम्‌। (8.1.30)
यद्यपि निपातैरित्येतदपेक्षमाणावां यदादीनां सामर्थ्यम्‌, तथापि गमकत्वाद्युक्तशब्देन समास एषां युक्त एव। अथ वा--मत्र न समासः, विभक्तिस्त्वव्ययत्वादेषां लुप्तेते न श्रूयते। युक्तग्रहणं त्विहापि साक्षाद्योगप्रतिपत्त्यर्थम्‌, तेन युक्तयुक्ते प्रतिषेधो न भवति। एतच्च प्रयुदाहरणेऽपि स्पष्टीकरिष्यामः। अत्र यद्यत्रयोर्ग्रहणमाभ्यां पूर्वस्यापि तद्युक्तस्य प्रतिषेधो यथा स्यादित्येवमर्थम्‌। यद्धि ततः परं तिङक्तं तस्य `यद्‌वृत्तान्नित्यम्‌' (8.1.66) इत्येवं सिद्धः प्रतिषेधः, पूर्वस्य तु तेन न सिध्यति। तदा हि यद्वृत्तादिभिः पञ्चमी `तस्मादित्यत्तरस्य' (1.1.67) इति परस्यैव निघातप्रतिषेधं प्रतिपादयति, नेतरस्य। `यत्करोति' इति। करोतिशब्द उकारप्रत्ययस्योदात्तत्वान्मध्योदात्तः।
`नेज्जिह्यायन्तो नरकं पताम' [`नोज्जिह्यायन्तो'--प्रा.मु.पाठः] इति। पतेर्लट्‌, मस्‌, शप्‌, `अतो दीर्घो यञि' (7.3.101) इति दीर्घः। ङिददुपदेशत्वाल्लसार्वधातुकत्वादनुदात्तत्वे (6.1.186) कृते धातुत्वरेणाद्युदात्तमेतत्‌।
`स चेट्भुङक्ते' इति। `भुजोऽनवने' (1.3.66) इत्यात्मनेपदम्‌, रुधादित्वात्वात्‌ श्नम्‌। पूर्ववल्लसार्वधातुकानुदात्तत्वम्‌; `इनसोरल्लोपः' (6.4.111), `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इत्युदात्तत्वे कृते भुङ्क्त इत्येतदन्तोदात्तम्‌। `स चेदधीते' इति। इङ्‌ धातुस्वरेणोदात्तः। ङित इति लसार्वधातुकमेवानुदात्तम्‌। आदिशब्दापेक्षया निघाते प्राप्ते न प्रतिपदोक्तपरिभाषोपतिष्ठते (व्या.प.3), साहचर्यञ्च व्यवस्थाकारणं न भवतीति। तेन `यावद्यथाभ्याम्‌' (8.1.36) इति यथाशब्दसाहचर्याद्यावच्छब्दोऽपि नाव्ययमेव परिगृह्यते, किं तर्हि? परिमाणशब्दोऽपि लाक्षणिकः। यावतोऽदवान्‌ प्रतिगृह्णीयादित्यत्रापि निघातप्रतिवेधो भवति। `यत्तदेतेभ्यः परिमाणे वतुम्‌' (5.2.39) इति वतुबन्तोऽत्र यावच्छब्दः।
`यत्र क्व च ते मनो दक्षं दधस उत्तरम्‌' इति। `दध धारणे' (धा.पा.8) लट्‌, धास्‌, `धासः से' (3.4.80)। अत्र यत्रेत्यनेनैधिकरणप्रधाने उत्तरमित्येतदाधेयं युक्तम्‌, तेन युक्तं तिङन्तम्‌, अतः साक्षाद्योगो नास्तीति प्रतिषेधो न भवति।।

31. न ह प्रत्यारम्भे। (8.1.31)
नहेत्ययं निपातसमुदायः प्रतिषेधे वर्त्तते। तेन युक्तं तिङन्तं प्रत्यारम्भविषये न निहन्यते। पुनरारम्भः=प्रत्यारम्भः। स च यत्र विषये क्रियते तद्दर्शयितुमाह--`चोदितस्य' इत्यादि। भुङक्ष्याधीष्वेत्येवं चोदितं विहितं यत्‌ कर्त्तव्यतयोपन्यस्तं भोजनादौ यदा तत्‌ कर्त्तुं न प्रवर्त्तते नाद्रियते, अवधीर्यत इति यावत्‌; तदा तस्यादधीरणेऽदज्ञाने सति तमवधीरयितारमुपालब्धुं या इच्छा तथोपालिप्सयैतस्यैव भोजनादेरवधीरितस्य प्रतिषेधेन सम्बन्धः प्रत्यारम्भः। `प्रत्यारम्भः क्रियते' इति। प्रतिषेधसम्बद्धस्य पुनरुपन्यासः क्रियत इत्यर्थः। `नह भोक्ष्यसे, नहाध्येध्यसे' इति। भुजेरिङश्च लृट्‌, `थासः से' (3.4.80) , अदुपदेशत्वात्‌ ङित्त्वाच्च तयोर्धात्वोर्लसार्वधातुकमनुदात्तम्‌। स्यः प्रत्ययस्वरेणोदात्तः।
`इच्छन्ति' इति। `इषु इच्छायाम्‌' (धा.पा.135), तुदादित्वाच्छ, `डषुगमियमां छः' (7.3.77)।।

32. सत्यं प्रश्ने। (8.1.32)
सत्यशब्दोऽयमुदाहरणे प्रश्ने वर्त्तते। प्रत्युदाहरणे तु ऋतशब्दस्यार्थे।।
33. अङ्गाप्रातिलोभ्ये। (8.1.33)
प्रातिलोभ्यम्‌=प्रातकूल्यम्‌, अनभिमतकारित्वमित्यर्थः। ततोऽन्यदप्रातिलोभ्यम्‌=अनुकूलत्वम्‌, अभिमतकारित्वमिति यावत्‌। तस्मिन्‌ गम्यमानेऽयं प्रतिषेधः। `अङ्ग कुरु, ङ्ग पच' इति। अङ्गशब्दोऽयं निपात इहानुज्ञायां वर्त्तमानोऽप्रातिलोभ्यं गमयति। करोतेर्लोटि सिप्‌, `सेर्ह्यपिच्च' (3.4.87), धातोर्गुणे कृते `अत उत्सार्वधातुके' (6.4.110) इत्युत्त्वम्‌, `उत्तश्च प्रत्ययात्‌' (6.4.1-6) इति हेर्लुक्‌। अत्रोकारः प्रत्ययस्वरेणोदात्तः। `पच' इति। `अतो हेः' (6.4.105) इति लुक्‌। धातुस्वरेणाद्युदात्तमेतत्‌। प्रत्युदाहरणेऽङ्ग शब्दोऽमर्धे वर्त्तते।
`आनुलभ्ये' इति वक्तव्येऽप्रातिलोम्ये इति वचनं वैचित्र्यार्थम्‌।।

34. हि च। (8.1.34)
चकारोऽप्रातिलोभ्य इत्यस्यानुकर्षणार्थः। `स हि कुरु, स हि पच' इति। हिशब्दोऽत्रावधारणे, हेतौ वा वर्त्तते। प्रत्युदाहरणे त्वमर्धे।।

35. छन्दस्यनेकमपि साकाङ्क्षम्‌। (8.1.35)
`हि च (8.1.34) इत्येव। सहाकाङ्क्षया वर्त्तत इति साकाङ्क्षम्‌। एतच्च तिङन्तस्यार्थद्वारकं विशेषणं वेदितव्यम्‌। `एकमपि' इति। हीत्यनेन युक्त तिङन्तं साकाङक्षं भवतीति प्रकृतेन सम्बन्धः। अत्र च योऽप्ययमेकस्यानुदात्तत्वप्रतिषेधः, सोऽपि यत्रानेकतिङन्तं हियुक्तं तत्रैद वदितव्यः; अन्यथा यदि यत्रैकं हियुक्तं तत्रायमेकस्य हियुक्तस्य निघातप्रतिषेधोऽपिशब्दप्रायितः स्यात्‌, सूत्रमिदमनुर्थकं स्यात्‌; समानेनैकस्या नेकस्य वा पूर्वेणैव सिद्धत्वात्‌। यथा यत्रानेकस्य हियुक्तस्य उपनिपातस्तत्रैवैकस्यानुदात्तत्वप्रतिषेधः, तथा न भवति वैयर्थ्यप्रसङ्गः; पूर्वेण नित्ये प्राप्ते विकल्पार्थत्वात्। `कदाचित्‌' इत्यादिना तमेवानन्तरोक्तमर्थं विस्पष्टो करोति। `अनृतं हि मत्तो यदति पाप्मा एनं विपुनाति' इति। अत्र द्वयोरपि तिङन्तयोर्हेतुहेतुमद्भावे साकाङ्क्षता। पाप्मा मद उच्यते। यस्मादनृतं मत्तो वदति तस्मात्‌ पाप्मा एनं षिपुनाति शुद्धिमापादयति, मत्तस्यानृतमदोष इति कृत्वा। द्वे अपि चैते हिशब्देन युक्ते; तदर्थगतस्त हेतुहेतुमद्भावस्य तेन द्योतेतत्वात्‌। तत्र वदतीत्येतत्‌ पचतीत्यनेन तुल्यस्वरम्‌। पुनातीत्येतत्तु विकरणस्वरेण मध्योदात्तम्‌।
`अग्निर्हि' इत्यादि। अत्रापि हेतुहेतुमद्भावात्‌ साकाङ्क्षता। यस्मादग्निरग्रे पूर्वमुदजयत्‌ तस्मादग्निमिन्द्र अनुश्चादुदजयत्‌। `उदजयत्‌' इति। उत्पूर्वाज्जयतेर्लङि रूपम्‌। `एकमुदजयदित्याद्युदात्ततम्‌' इति। तद्भक्तस्पाट उदात्तत्वात्‌। `अपरमनुदात्तम्‌' इति। तत्र निघातप्रतिषेधस्याप्राप्तेः। `अजा ह्यन्तेरजनिष्ट' इत्यादि। तत्रापि तत एव हेतो साकाङ्क्षत्वम्‌। तस्मादजा ह्यग्नेर्गर्भस्य जनितारमपश्यत्‌ तस्मादग्नेर्गर्भमजनिष्ट जनितवती। `जनिः प्रादुर्भावे' (धा.पा.1149) लुङ्‌, `च्लेः सिच्‌' (3.1.44) इट्‌, षत्वम्‌, ष्टुत्वम्‌। अन्तर्भावितव्यर्थोऽत्र जनिर्वेदितव्यः, अन्यथा कर्मत्वं गर्भस्य नोपपद्यते; अकर्मकत्वात्‌। `अपश्यत्‌' इति। दृशेर्लङ्‌ पाध्रादिसूत्रेण (7.3.78) पश्यदेशः। `अजनिष्ट' इति। आद्युदात्तम्‌। `अपश्यदित्यनुदात्तम्‌' इति। पूर्ववत्‌।।

36. यावद्यथाभ्याम्‌। (8.1.36)
किमर्थं पुनरिदमारभ्यते? न `यद्‌वृत्तान्नित्यम्‌' (8.1.66) इत्येव सिद्धमिति यश्चोदयेत्‌, तं प्रति--`देवदत्तः पचति यावत्‌', `देवदत्तः पचति यथा'--इत्येतदुदाहरणद्वयमुपन्यस्तम्‌। एषोऽभिप्रायः--यद्‌वृत्तादिति पञ्चमीनिर्देशात्‌ `तस्मादित्युत्तरस्य' (1.1.67) इति यत्रैव यावद्यथाभ्यां परं तिङन्तं तत्रैव प्रतिषेधः स्यात्‌। यत्र तु ताभ्यां पूर्वं तत्र न स्यात्‌। इह तु तृतीयनिर्देशात्‌ तत्रापि भवतीति।।

37. पूजायां नानन्तरम्‌। (8.1.37)
`पूजायां विषये' इति। विषयग्रहणे पूजायामिति विषयसप्तमीति दर्शयति। `किं तर्ह्यमुदात्तमेव' इति। द्वौ प्रतिषेधो प्रकृतमर्थं गमयत इति कृत्वा। `यावत्‌ पचति शोभनम्‌' इति। स्तुतिरत्र पूजा, सा च क्रियायाः साधनस्य वा।।

38. उपसर्गव्यपेतञ्च। (8.1.38)
`उपसर्गव्यपेतम्‌' इति। उपसर्गव्यवहितम्‌। चकारेण `पूजायाम्‌' इत्यनुकृष्यते; अनन्तरमिति चानुवर्त्तते। तत्रोपसर्गेण व्यवधानमाश्रीयत इति। सामर्थ्यात्‌ अनन्तरग्रहणं शब्दान्तरव्यवधाननिरासार्थं विज्ञायते।।

39. तुपश्यपश्यताहैः पूजायाम्‌। (8.1.39)
ननु `पूजायां नानन्तरम्‌' (8.1.37) इति पूजाग्रहणमनुवर्त्तत एव, तत्किमर्थं पूजायामित्युच्यते? इत्याह--`पूजायामित्यनुवर्त्तते' इत्यादि। स्यादेतत्‌--तदेव पूजाग्रहणमिहानुवर्त्तमानं निघातप्रतिषेधार्थं भविष्यतीति? अतआह--`तद्धि' इत्यादि। तद्धि पूर्वत्र पूजाग्रहणं निघातप्रहतिषेधस्य प्रतिषेधेन सम्बद्धम्‌। तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्‌। एवञ्च तेषां निघातप्रतिषेधः। लुडादीनां तेषां तुप्रभृतिभिर्योगे निघातप्रतिषेधस्य प्रतिषेधो विज्ञायेत। तस्मान्निघातस्य प्रतिषेधो यथा स्यादित्येवमर्थं पुनः पूजाग्रहणम्‌। अत्राहग्रहयणं किमर्थम्‌, चनादिषु (8.1.57) चेत्येव सिद्धम्‌? न सिध्यति; `चनचिदिवगोत्रादितद्धिताम्रेडितेवष्गतेः' (8.1.57) इत्यतो गतेरिति तत्रानुवृत्तेः। तथा च-देवदत्तः प्रपचत्यहेत्यत्र प्रतिषेधो न स्यात्‌। परभूतेषु वा स प्रतिषेध इति पूर्वभूतेऽबशब्दे च न स्यात्‌--देवदत्तोऽह पचतीतिी।।

40. अहो च। (8.1.40)
चकारेण पुजायामित्यनुकृष्यते।

अथ योगविभागः किमर्थम्‌ पूर्वसूत्र एवाहोग्रहणं क्रियते? इत्यत आह--`पृथक्‌ं' इत्यादि। पृथग्योगे `शेषे विभाषा' (8.1.41) इति अहेत्यनेनैव योगे यथा स्यात्‌, तुप्रभृतीनां मा भूदित्येवमर्थं पृथग्योगकरणम्‌।।

41. शेषे विभाषा। (8.1.41)
`करिष्यसि' इत्यादि। लृडन्तं स्यस्वरेण मध्योदात्तम्‌।

ननु च पूजाग्रहणं पूर्वसूत्रे चानुकृष्टम्‌। तत्र चानुकृष्टस्येहानुवृत्तेरविशेषे भविष्यति, तत्‌ किं शेषग्रहणेन? इत्यत आह--`पूजायामित्यस्य' इत्यादि।।

42. पुरा च परीप्सायाम्‌। (8.1.42)
चकारो विभाषेत्यनुकर्षणार्थः। `परीप्सायामर्थे' इति। गम्यमान इति शेषः। `परीप्सा त्वरा' इति। सम्भ्रमः=अशुप्रवृत्तिरित्यर्थः। `अधीष्व माणवक' इत्यादि। त्वरितमधीष्वेत्येधोऽर्थो गम्यते। तथा ह्यत्र पुरा विद्योतते विद्युत्‌, पुरा स्तनयति स्तनियुरितत्येतदुभयमप्यध्ययनदिषययोस्त्वरायाः कारणत्वेनोपातम्‌। विद्युद्द्योतनादौ हि न पठितव्यं पर्वदिवसेष्विव। एतदुक्तं भवति--यस्मादचिरकालभावि विद्युद्द्योतनं स्तनयित्नुस्तननं वाऽध्ययनन्तरायोऽतोऽधीष्येति। `पुरा विधीयते' इति। `यावत्पुरानिपातयोर्लट्‌, (3.3.4), अनुदात्तेत्त्वादात्मनेपदम्‌। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे (6.1.186) कृते धातुस्वरेणाद्युदात्तमेतत्‌। `पुरा स्तनयति' इति। `स्तन गदी देवशब्दे' (धा.पा.1859,1860) चुरादिणिच्‌। अदन्तत्वाद्बृद्ध्यभावुः। एतदपि पूर्ववन्मध्योदात्तम्‌। `पुराशब्दोऽत्र भविष्यदासत्तिं द्योतयति' इति। भविष्यद्विद्युद्द्योतनादिरध्ययनान्तरायो यस्तस्य प्रत्यासत्तिं सामीप्यर्माचरकालभादित्वं द्योतयति। तेन त्वरा गम्यत इत्यभिप्रायः।।

43. नन्वित्यनुज्ञैषणायाम्‌। (8.1.43)
`अनुज्ञाया एतणा प्रार्थना' इति। किञित्‌ कर्तु स्वयमेवोद्यतस्यैवं क्रियतामित्यनुज्ञानमनुज्ञा। प्रार्थनायां मूलोदाहरणयोः `वर्त्तमाने लट्‌' (3.3.123) इति लट्‌। प्रत्युदाहरणे तु भूते `ननौ पृष्टप्रतिवचने' (3.2.120) इत्यनेन। इतिकरण एकनिपातोऽयमिति प्रदर्शनार्थः। नन्वनुज्ञेषणायामिति ह्युच्यमाने सन्देहः स्यात्‌--किमयमेकनिपातः? उत्त निपातद्वयमिति? यथा--`नन्वोर्विभाषा' (3.2.121) इत्यत्रः इतिकरणेन त्ववच्छिद्यमानमेकमेवेवं शब्दरूपमिति गम्यते।।

44. किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषषिद्धम्‌। (8.1.44)
`अप्रतिषिद्धम्‌' इति। प्रतिषेधः प्रतिषिद्धम्‌। भावे निष्ठा। नास्य प्रतिषिद्धमस्तीत्यप्रतिषिद्धम्‌। अथ वा--कर्मणि निष्ठा, निविद्धं प्रतिषिद्धमप्रतिषिद्धम्‌। अर्थद्वारकञ्चैतत्‌ तिङो विशेषणम्‌।
`पूर्वं किंयुक्तम्‌' इति। तत्समीपे किमः श्रूयमाणत्वादित्यभिप्रायः। `उत्तरं तु न किंयुक्तम्‌' इति। तस्यासमीपे श्रूयमाणत्वादिति भावः।
`अपरे त्वाहुः' इत्यादि। न हि समीपे श्रुयमाणत्वं किंशब्दस्य शब्दान्तरेण सम्बन्धे हेतुः अपि तु संशयविषयत्वम्‌। यथा चात्र पूर्वस्याख्यातस्य, तथा तत्परस्यापीत्यस्ति तस्य योगः किंशब्देनेत्युभयत्र प्रतिषेधः।।

45. लोपे विभाषा। (8.1.45)
किंशब्दस्य प्रकृतत्वात्‌ तस्यैव लोपो विज्ञायते, इत्याह--किमो लोपे इति। किंशब्दस्य शास्त्रे न क्वचिल्लोपो विहितः, इत्यतः पृच्छति--`क्व चास्य लोपः' इति। अदर्शनमात्रस्य `लोपः' (1.1.60) इति संज्ञा कृता न तु शास्त्रकृतस्यैवादर्शनस्येत्यभिप्रायेणाह--`यत्र' इत्यादि। `गम्यते चार्थः' इति। कुतश्चिदर्थप्रकरणादेः। `न च प्रयुज्यते' इति। गम्यमानार्थत्वात्‌। `देवदत्तः पचत्याहोस्वित्‌ पठति' इति। अत्रायमाहोस्विच्छब्दः पक्षान्तरे वर्त्तते। पक्षान्तरोपन्यसनं किमर्थम्‌? प्रश्नं न व्यभिचरतौति। अत्राप्रयुज्यमानस्यापि तस्यार्थो गम्यते। पञतिशब्दोऽयं पक्षे पचतिशब्देन तुल्यस्वरः।।

46. एहिमन्ये प्रहासे लृट्‌। (8.1.46)
`एहिमन्य इत्यनेन' इति। समुदायस्यैकत्वात्‌ तदपेक्षयैकवचनम्‌, अन्यथा हि द्वे एते आख्याते इति द्वित्वाद्‌द्विवचनं स्यात्‌। `प्रहासः' इति। प्रकृष्टो हासः; परिहास इत्यर्थः। `एहि मन्य ओदनं भोक्ष्यसे' इति। `प्रहासे च मन्योपदे' (1.4.106) इति पुरुषव्यत्ययः। भुजेरस्मद्युपपदे मध्यमः, मन्यतेर्युष्मद्युपपदे उत्तमः। `एवम एहि मन्ये रथेन यास्यसि' इत्यत्रापि पुरुषव्यत्ययो वेदितव्यः। द्वे अपि चैते लृङन्ते स्यप्रत्ययस्वरेण मध्योदात्ते।
`प्रहास इति किम्‌? एहि मन्यस ओदनं भोक्ष्ये' इति। अत्र मन्यतेः `यष्मद्युपपदे' (1.4.105) इत्यादिना मध्यमः। भुजेस्तु `अस्मद्युत्तमः' (1.4.107) इत्युत्तमः। सुष्ठु मन्यसे, साधु मन्यसे' इति। अनेन यथाभूतं दर्शयत्‌ प्रहासाभावं दर्शयति।
ननु च `गत्यर्थलोटा लृट्‌' (8.1.51) इत्यादिनैव सिद्धम्‌, तत्‌ किमर्थोऽयमारम्भः? इत्यत आह--`गत्यर्थलोटा' इत्यादि। `एहिमन्येयुक्ते' इत्यादिना नियमार्थतामस्य व्यक्तीकरोति। कथं पुनरेहिमन्य इत्येनेन योगेन नियमः क्रियमाणः `एहि मन्यसे ओदनं भोक्ष्ये' इत्यत्र निवृत्ति करोति, न ह्यतर पहीत्यनेव लृडन्तं युक्तम्‌, किं तर्हि? एहि मन्यस इत्यनेन? इत्यत आह--`एहि मन्य इत्युत्त्मोपादानमतन्त्रम्‌' इति। अतन्त्रत्वं तु तस्योपलक्षणार्थत्वात्‌। ननु च `मन्यतेरुत्तमः' (1.4.106) इति वचनाद्युष्मद्युपपदे मन्यतेरुत्तमेनैव भवितव्यम्‌, एवञ्च `एहि एव हि मन्यतिरुत्तमः' इति। गतार्थम्‌।।

47. जात्वपूर्वम्‌। (8.1.47)
`अपूर्वम्‌' इति। अविद्यमानं पूर्वं यस्मात्‌ तदपूर्वम्‌। अत्र च द्वयं सम्भाव्यते--तिङन्तस्य चेदं विशेषणं स्यात्‌, जातुशब्दस्य वेति। तत्र यदि तिङन्तस्य स्यात्‌ `आहोउताहो जानन्तरन्‌' (8.1.49) इत्यत्रानन्तर ग्रहणं न कुर्यात्‌। अस्यैव ह्यपूर्वग्रहणस्य तत्रानुवृत्तेस्तिङन्तस्यानन्तर्य लभ्यते; तस्माज्जातुशब्दस्येदं विशेषणम्‌, इत्यालोच्याह--`जात्वित्येतत्‌' इत्यादि।।

48. किंवृत्तं च चिदुत्तरम्‌। (8.1.48)
`चिदुत्तरम्‌' इति। चिदित्येतदुत्तरं यस्मात्‌ तत्‌ तथोक्तम्‌। पूर्वोक्तया नोत्यैतदपि किवृत्तस्यैव विशेषणम्‌। `किंवृत्तग्रहणेन तद्विभक्त्यन्तम्‌' इत्यादि। `किवृत्ते लिप्सायाम्‌' (3.3.6) इत्यत्रैतदुक्तार्थम्‌। `भोजयति' इति। पूर्ववन्मध्योदात्तमेवैतत्‌। `कस्मैचिद्ददाति' इति। `अभ्यस्तानामादिः' (6.1.189) इत्याद्युदात्तमेतत्‌। `कतरः' इति। `किंयत्तदोर्निर्धारणे' (5.3.92) इति डतरच। `कतमः' इति। `वा बहूनां जातिपरिप्रश्ने' (5.3.93) इति डतमच्‌।।

49. आहोउताहो चानन्तरम्‌। (8.1.49)
अविद्यमानमन्तरं व्यवधानं यस्य तदनन्तरम्‌। अव्यवहितमित्यर्थः। तिङन्तविशेषणमेतत्‌। आनन्तर्यञ्चाहो, उताहो--इत्येतयोः श्रुतत्वात्‌ तदपेक्षयैव वेदितव्यम्‌। ्त्रापि चकारोऽपूर्वमित्यस्यानुकर्षणार्थः।।

50. शेषे विभाषा। (8.1.50)
शेषः सन्निहितापेक्षः। शेषत्रयञ्च पूर्वसूत्रे सन्निहतं निघातकारणम्--आहो उताहोशब्दौ, अनन्तर मित्येतत्‌, अपूर्वमित्येतच्च। तत्र न ज्ञायते--किं कारणभावापेक्षः शेष इति। किमाहोउताहोशब्दापेक्षः? उतानन्तरभावापेक्षः? आहोस्विदपूर्वभावापेक्षः?--इत्यतः पृच्छति--`कश्च शेषः' इति। इह निघातमिच्छता तत्कारणमवश्यमेवापेक्षणीयम्‌। `आहो उदाहो' इति। अपूर्वमित्येतदपि, द्विश्चकारेणानुकृष्टत्वात्‌। तस्य हि द्वयोर्योगयोश्चकारोऽनुकर्षणार्थ एव कृतः। कथं नामात्रापि तदपेक्षा स्यादिति! अन्यथा हि समनन्तरातीति एव सूत्रे तदनुकर्षणार्थश्चकारः क्रियते। किंवृत्तादिसूत्रे (8.1.48) हि स्वरितत्वादेव तदनुवर्त्तत इति। तस्मात्‌ पारिशेष्यादनन्तरभावपेक्षः शेषो विज्ञायते? इत्यत आह--`यदन्यदनन्तरात' इति।।

51. गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत्। (8.1.51)
`गमिना समानार्था गत्यर्थाः' इति। अर्थप्रदर्शनमेवैतत्‌। एवं तु विग्रहः कर्त्तव्यः--गतिरर्थो येषामिति। `गत्यर्थलोटा युक्तम्‌' इति। योगः पुननिमित्तनिमित्तरूपः। तयोर्निमित्तमिति भावः। `न चेत्कारकम्‌' इत्यादेरर्थं विस्पष्टीकर्त्तुमाह--`यत्रैव' इत्यादि। अनेन लोडन्तवाच्यं लृडन्तवाच्यार्थं यत्‌ कारकं तस्यैवानन्यत्वमाश्रितम्‌; न शब्दातन्तरवाच्यस्येति दर्शयति, एवच्च प्रत्यासत्तेर्लभ्यते। तिङन्तस्य हि तदेव प्रत्यासन्नं कारकं यत्‌ तेनैवाभिधीयते न शब्दान्तरेण; तेन शब्दान्तरवाच्ये भिद्यमानेऽपि भवत्येव भिधातप्रतिषेधः। `आगच्छ देवदत्त ग्रामं द्रक्ष्यस्येनम्‌' इति। आगच्छेति गत्यर्थलोट, द्रक्ष्यसीति लृडन्तम्‌; तयोश्चैकमेवात्र कारकं देवदत्तः कर्त्ता। `द्रक्ष्यसि' इति। `सृजिदृशोर्झल्यमकिति' (6.1.58) इत्यमागमः; व्रश्चादि सूत्रेण (8.2.36) षत्वम्‌, `षढोः कः सि'(8.2.41) इति कत्वम्‌। स्यप्रत्ययस्वरेण मध्योदात्तमेतत्‌। एवमुत्तरत्रापि यत्र निघातप्रतिषेधस्तत्र लृडन्तस्य मध्योदात्तता वेदितव्या। `आगच्छ देवदत्त ग्राममोदनं भोक्ष्यसे' इति। अत्रापि तदेवाभिन्नमुभयलकारवाच्यं कर्त्तुकारकम्‌। कर्म तु यद्यपि भिद्यते, तथापि तच्छब्दान्तरवाच्यमिति सत्यपि त्भेदे भवत्येव निघातप्रतिषेधः। `उह्यन्तां देवदत्तेन शालयो यज्ञदत्तेन भोक्ष्यन्ते' इति। अथात्र शालय इत्युभयलकारवाच्यमभिन्नं कर्मं कारकम्‌, कर्ता तु यद्यपि भिद्यते, तथापि स शब्दान्तरवाच्य इति तद्भेदेऽपि निघातप्रतिषेधो भवत्येव। `उह्यन्ताम्‌' इति। वहेः कर्मणि लोट्‌, आत्मनेपदम्‌, झस्यान्तादेशः, `सार्वधातुके यक्‌' (3.1.67) वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्‌, टेरेत्वम्‌ (3.4.79), `आमेतः' (3.4.90) इत्याम्भावः। कथं पुनरिहाभिन्नं कारकम्‌, यावता शक्तिः कारकम्‌, सा च प्रतिक्रियं भिद्यत एव शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वादेकं कारकं भविष्यतीत्यदोषः।
`आगच्छेर्देवदत्त ग्रामं द्रक्ष्यस्यनम्‌' इति। अत्र गत्यर्थलिङा लृङन्तं युक्तम्‌, न गत्तयर्थलोटा। `आगच्छ देवदत्त ग्रामं पश्यस्येनम्‌' इति। अत्र गत्यर्थलोटा लङन्तं युक्तम्‌, न तु लुङन्तम्‌। `आगच्छ देवदत्त ग्रामं पिता त ओदनं भोक्ष्यते' इति। अत्र लोङन्तस्य देवदत्तः कर्ता, लृडन्तस्य तु पितेति भिद्यते कारकम्‌।
`आगच्छ देवदत्त ग्रामं त्वं चाहं च' इत्यादि। यथा पूर्वोपन्यस्तेषु मूलोदाहरणेषु यल्लोडन्तस्य कर्त्त्रादि कारकं वाच्यं तन्मात्रमेव लृङन्तस्यापि, इह तु न तथा। अत्रापि [`तत्रापि--का.मु.पाठः] लोङन्तस्य देवदत्तो युष्मदर्थ एवप कर्त्ता वाच्यः, लृङन्तस्य तु स चास्मदर्थश्च; तत्रासति सर्वग्रहण इह निघातप्रतिषेधो न स्यात्‌। अत इहापि यथा स्यादित्येवमर्थं सर्वग्रहणम्‌। अथ सत्यपि सर्वग्रहणे निघातप्रतिषेधः कथमेवात्र भवति, यावाता भिद्यते लोङन्तवाच्यात्‌ कारकाल्लृङन्तवाच्यो योऽर्थः कारकं कर्तात? इत्यत आह--`लृङन्तवाच्ये हि' इत्यादि। सर्वग्रहणे सति लोडन्तवाच्यं यत्कारकं तस्माल्लृङन्तस्य यदि सर्वमन्यद्भवति, तथाप्येवं न निघातप्रतिषेधेन भवितव्यम्‌, अन्यथा तु सति भवत्येव। यदि हि यत्रापि लोङन्तस्य किञ्चित्‌ तदेव कारकं वाच्यम्‌, लृङन्तस्य किञ्चित्‌ ततोऽन्यत्रापि निघातप्रतिषेधो न स्यात्‌, सर्वग्रहणमनर्थकं स्यात्‌। तस्मात् सर्वग्रहणाद्भवत्येवात्र निघातप्रतिषेधः। तत्रैवं स्यात्‌--अस्मिन्नप्युदाहरणे लृङन्तस्य वाच्यं यत्‌ कारकमन्यदेव तल्लोङन्तवाच्यात्‌। अतः सत्यपि सर्वग्रहणे न भवितव्यं निघातप्रतिषेधेण? इत्यत आह--`इह तु' इत्यादि। गतार्थम्‌।।

52. लोट्‌ च। (8.1.52)
चकारः पूर्वापेक्षया समुच्चयार्थः। `पश्य' इति। अन्तोदात्तम्‌--`एकादेश उदात्तेनोदात्तः' (8.2.5) `अतो गुणे' (6.1.97) इति गुणग्रहणे पररूपस्येवोदात्तत्वात्‌। `शाधि' इति। `शासु अनुशिष्टौ' (धा.पा.1075), `सेर्ह्यपिच्च' (3.4.87) इति सिपो हिरादेशः, अदादित्वाच्छपो लुक्‌; `शा हौ' (6.4.35) इति धातोः शादेशः, `हुझल्भ्यो हेर्धिः' (6.4.101) इति हेर्धिभाव-। प्रत्ययस्वरेणान्तोदात्तमेतत्‌। एवं दृश्यतामित्येदपि; `विकरणस्वरात्‌ सार्वधातुकस्वरो बलीयान्‌' इति वचनात्‌।
अथ पृथग्योगकरणं किमर्थम्‌, न पूर्वसूत्र एव लोङ्ग्रहणमपि क्रियेत? इत्यत आह--`पृथक्‌' इत्यादि। उत्तरत्र लोट एव कार्यं यथा स्यात्‌, लृटो मा भूदित्येवमर्थं पृथग्योगकरणम्‌।।

53. विभाषितं सोपसर्गमनुत्तमम्‌। (8.1.53)
पूर्वेण नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्‌ विभाषितशब्दश्चायं विभावाशब्देन समानार्थः। `नपुंसके भावे क्तः' (3.3.114)।
`प्रविशानि' इति। मिपः `मेनिः' (3.4.89), `आडुत्तमस्य पिच्च' (3.4.92) इत्याद्‌।।

54. हन्त च। (8.1.54)
चकारः `विभाषितं सोपसर्गमनुत्तममु' (8.1.53) इत्यस्यानुकर्षणार्थः। `कुरु' इति। करोतेर्गुणे कृते `अत डत्सार्वधातुके (6.4.110) इत्युत्त्वम्‌, `उतश्च प्रत्ययात्‌' (6.4.106) इत्यादिना हेर्लुक्‌। प्रत्ययस्वरेणान्तोदात्तमेतत्‌।
`हन्त प्रभुञ्जावहै' [`प्रभुनजावहै'--प्रा.मु.पाठः] इति। भुजेर्लोट्‌, वहिः, टेरेत्त्वम्‌, `आडुत्तमस्य पिच्च' (3.4.92), श्नम्‌। अत्रापि `निपातैर्यद्यदि' (8.1.30) इत्यादिना निघातप्रतिषेधः। अदुपदेशाल्लसार्वधातुकस्यानुदात्तत्वे (6.1.186) कृते विकरणस्वरेण मध्योदात्तमेतत्‌।।

55. आम एकान्तरमामन्त्रितमनन्तिके। (8.1.55)
`एकान्तरम्‌' इति। अन्तरयतीत्यन्तरम्‌। व्यवधायकमित्यर्थः। एकं पदमन्तरं यस्य तत्तथोक्तम्‌। एकेन निपातेन व्यवहितमित्यर्थः। `आम्‌ पचसि देवदत्तात्रि इति। निघाते प्रतिषिद्धे `आमन्त्रितस्य' (6.1.198) इति धाष्ठिकमामन्त्रिताद्युदात्तत्वं भवति। `दूराद्धूते च' (8.2.84) इति प्लुतः। `आम भो देवदत्तात्रि' इति। भवद्भगवदघवतामोच्चावस्य' (8.3.1.वा.2) इति भवच्छब्दावयवस्यावशब्दस्यौत्त्वम्‌; दकारस्य रुत्वम्‌, तस्य `भोभगोअधोअपूर्वस्य' (8.3.17) इत्यादिना यकारः, तस्य `हलि सर्वेषाम्‌' (8.3.22) इति लोपः।
ननु चात्र भोःशब्दस्य `आमन्त्रितं पूर्वमविद्यमानवत्‌' (8.1.72) इत्यविद्यमानत्वादेकान्तरता नोपपद्यते? इत्यत आह--`भो इत्यामन्त्रितान्तमपि' इत्यादि। `भोः' इति सामान्यवचनम्‌। अत्र `भोः' इति यद्यप्यामन्त्रितम्‌, तथापि नाविद्यमानवत्‌, `नामन्त्रिते' (8.1.73) इत्यादिनाऽविद्यमानवद्भावस्य प्रतिषेधात्‌।
`तदुभयमप्यनेन क्रियते' [तदुभयमनेन--काशिका] इति। कथं पुनरुभयमप्यनेन कर्तुं शक्यम्‌, यावतानुदात्ताधिकारादनुदात्तस्यैवानेन युज्यते प्रतिषेधः? न शक्यते कर्तुमप्रकृताया असंशब्दिताया एकश्रुतेः? नैष दोषः; `अनन्तिके' (8.1.55) इति नञत्र विरोधे वर्तते, अधर्मानृतादिवत्‌। अन्तिकविरुद्धमनन्तिकम्‌। दूरमित्यर्थः। दूरात्‌ सम्बुद्धौ चकश्रुतिरुच्यते;`एकश्रुति दूरात्‌ सम्बुद्धौ' (1.2.33) इति वचनात्‌। एवं हि प्रपचसि देवदत्तेत्येवमादिष्वामन्त्रितनिघातं कृतार्थं बाधित्वा यत्राम एकान्तरमामन्त्रितमनन्तिकम्‌, तचैकश्रुतिरेव भवति; यदिदं नारभ्येत। अतो नाप्राप्तायामेकश्रुतौ इवमारभ्यत इति तां तावद्बाधते, ततस्तस्याञ्च बाधितायां बाधकाभावात्‌ प्राप्नुवत्‌ तं निघातमपि बाधत एव। कुतः? निघातप्रतिषेधाधिकारे वचनात्‌। एकश्रुतिप्रतिषेधे हि विधित्सिते सत्येकश्रुतिप्रकरण एव (1.2.33-40) प्रतिषेधं कुर्यात्‌, नाम एकान्तरमिति; तत्राप्ययमर्थः--`आमन्त्रितमनन्तिके' (8.1.55) इति वक्तव्यं न भवति। तस्मान्निघातप्रतिषेधाधिकारे वचनान्निघातमपि बाधत इति युक्तम्‌--तदुभयमनेन क्रियत इति। नैष दोषो यदि तर्ह्यप्रकरणापन्नाशब्दिताप्येकश्रुतिरनेन प्रतिषिध्यते। इह `दूराद्धूते च' तदुभयमनेन क्रियत इति। नैष दोषो यदि तर्ह्यप्रकरणापन्नाशब्दिताप्येकश्रुतिरनेन प्रतिषिध्यते। इह `दूराद्धूते च' (8.2.84) इति यः प्लुतोदात्तः प्राप्नोति; सोऽपि प्रतिषिध्यते? इत्यत आह--`प्लृतोदात्तः पुनः' इत्यादि। तस्मिन्‌ कर्त्तव्येऽसिद्धत्वात्‌ प्लुतोदात्तो नास्त्येव, स कथं प्रतिषिध्येत![`प्रतिषिध्यते'--प्रा.मु.पाठः] असिद्धत्वं तु `पूर्वत्रासिद्धम्‌' (8.2.4) इति वचनात्‌।

56. यद्धितुपरं छन्दसि। (8.1.56)
यद्धितवः परे यस्मात्‌ तत्तथोक्तम्‌। `उदसृजोऽयम्‌' इति। अत्र हि तिङन्तमट्स्वरेणाद्युदात्तम्‌। `सृज विसर्गे' (धा.पा.1178), लङ्‌ सिप्‌, तुदादित्वाच्छः, `हशि च' (6.1.114) इत्युत्त्वम्‌, `आद्गुणः' (6.1.87)। `उशन्ति हि' इति। `वश कान्तौ' (धा.पा.1080) झेरन्तादेशः (7.1.3), पूर्ववच्छपो लुक्‌, ग्रहज्यादिसूत्रेण (6.1.16) सम्प्रसारणम्‌। प्रत्यस्वरेण मध्योदात्तमेतत्‌।
`आख्यस्यामितु' इति। `ख्या प्रकथने' (धा.पा.1060), चक्षिङादेशो वा, लृङ्‌। स्यप्रत्ययस्वरेण मध्योदात्तमेतत्‌।
`निपातैर्यद्यविहन्त' (8.1.30) इत्यादिना नियमस्य कारणं दर्शयि। `वचनम्‌' इत्यादिनाप्यस्य वचनस्य नियमार्थत्वम्‌। `एभिरेव' इत्यादिनापि नियमसय स्वरूपम्। `नान्यैः' इति। अनेनापि नियमस्य व्यवच्छेद्यम्‌। `इह' इत्यादिनापि व्यवच्छेद्यस्य विषयम्‌। `स्वो होहावैहि' इति। `रुह बीजजन्मनि प्रादुर्भावे' (धा.पा.859), लोट्‌, वस्‌, शप्‌, `आडुत्तमस्य पिच्च' (3.4.92), `स उत्तमस्य' (3.4.98) इति सकरलोपः। रोहावेत्येतस्मिन्‌ परभूते स्वरित्यस्य `रो रि' (8.3.14) इति रेफस्य लोपो न भवति; छान्दसत्वात्‌। तस्मिन्नसति पूर्ववदुत्त्वम्‌। `आद्गुणः' (6.1.87) इति हि गुणे, लोमण्यध्यमपुरुषैकवचने रूपम्। क्वचित्‌-- `जाये स्वो रोहार्वैहीत्येहीत्यनेन गत्यर्थलोटा युक्तस्य' इति पाठः, तत्राङ्पूर्वस्येणः प्रयोगो वेदितव्यः।
अथ परग्रहणं क्रिमर्थम्‌, न `यद्धितुष्वेव' नैवं शक्यम्‌; सप्तमीनिर्देशे हि निर्दिष्यटग्रहणस्यानन्तर्यार्थत्वादनन्तरेष्वेवाक्यवादिषु भवतीति नियमो विज्ञायते। ततोऽनन्तरेष्वेव पददिषु भविष्यति, न व्यवहितेष्विति। तथा चाव्ययोगनिवृत्तेनियमेनाकृतत्वात्‌ स्वो रोहावैहीत्यत्र स्यादेव प्रतिषेधः।।

57. चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः। (8.1.57)
`इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोरेव गृह्यन्ते' इति। न केवलं `तिङो गोत्रादीनि' (8.1.27) इत्यादो सूत्र इत्यपिशब्दार्थः। यथा चात्रापि कुत्सनाभीक्ष्ण्ययोरेव गोत्रादीनि गृह्यन्ते, तथा तत्रैवोपपादितम्‌। `पचतिकल्पम्‌' इति। `ईषदसमाप्तौ कल्पप्‌' (5.3.67)। तत्र हि `तिङश्च' (5.3.56) इत्यनुवर्त्तते, `अनुदात्तस्तद्धित इहोदाहरणमिति कस्मान्न भवति? इति प्रश्नावसरे आह--`अन्यत्र तद्धितस्वरेण तिङ्स्वरो वाच्ये, इति तद्धितस्योदात्तत्वे सति `अनुदात्तं पदमेकवर्जम्‌ (6.1.158) इति चानुदात्तत्वापतत्तिः। एवञ्चान्यत्र निघातः सिद्ध एवेति। अनुदात्त एव तद्धित इहोदाहरणम्‌।
`अत्र इत्यादि। कथं पुनरुपसर्गग्रहणं शक्यं द्रष्टुम्‌? उत्तरसूत्रे `चादिषु च' (8.1.58) इति चशब्देनास्य सूत्रस्य द्वितदीयो व्यापार उच्यते, स आनन्तर्याद्गतेरित्यस्य विशेषणार्थो भविष्यति--चादिषु यो गतिरिति। चादिष्विति सामीप्यलक्षणमधिकरणम्‌। कश्चादिषु गतिः? चादिसमीपे य उदितः। तेनायं प्रादीनामेवेपसर्गसंज्ञानां प्रतिषेधो विज्ञायते। एवं तावदस्मिन्‌ सूत्रे गतिग्रहणेनोपसर्गस्य ग्रहणं विज्ञायते। `सगतिरपि तिङ्‌' इति। अत्रापि `चादिलोपे विभाषा' (8.1.63) इति सूत्रात्‌ मण्डूकप्लुतिन्यायेन विभावेत्यनुवर्त्तते, सा च व्यवस्थितविभाषा। तेनोपसर्गसंज्ञेन गतिना यो गतिः सः। तस्यैवानुदात्तत्वेन भवितव्य मित्युपसर्ग9स्यैव गतेर्ग्रहणं विज्ञायते। अथ वा--द्वयोरप्येतयोर्बोगयोः `विभाषितं सोपसर्गमनुत्तमम्‌' (8.1.53) इत्यत उपसर्गग्रहणं मण्डूकप्लुतिन्यायेनानुवर्त्तते, गतिग्रहणमनर्थकं स्यात्‌; उपसर्गग्रहणानुवृत्त्यैव सिद्धत्वात्‌। नानर्थकम्‌; विस्पष्टार्थत्वात्‌। `उपसर्गाच्छन्दसि धात्वर्थे' (5.1.118) इत्यत्र ह्युपसर्गग्रहणं प्राद्युपलक्षणार्थम्‌। तत्रासति गतिग्रहणे, इहाप्युसर्गग्रहणं प्राद्युपलक्षणार्थमिति कस्यचित्‌ सन्देहः स्यात्‌। प्राद्युपलक्षणे च सति को दोषः? अनुपसर्गाणामपि प्रादीनां ग्रहणं विज्ञायेत। ततः शुक्लौकरोतीत्यत्र निघातप्रतिषेधो भवत्येव। `अभूततद्भावे' (5.4.50.वा.1) इत्यादिनेह च्दिः, तस्य `ऊर्यादिच्विडाचश्च' (1.4.61) इति गतिसंज्ञा, `अस्य च्वौ' (7.4.32) इतीत्त्वम्‌। `यत्‌ काष्ठं शुक्लीकरोति' इति। अत्र `सगतिरपे तिङः' (8.1.68) इति निघातो न वर्त्तते। तेन `निपातैर्यद्यदि' (8.1.30) इत्यादिना निघातप्रतिषेध एव भवति।।

58. चादिषु च। (8.1.58)
द्विविधाश्चादयः--गणपरिपठिताश्च, यावङ्गीकृत्यैतदुक्तम्‌--`चादयोऽसत्त्वे (1.4.57) इति; सूत्रपठिताश्च--`न चवाहाहैवायुक्ते' (8.1.24) इति; तत्र प्रत्यासत्तेर्य इह प्रकरणे पठितास्तेषामेव ग्रहणं युक्तम्‌? इति मत्वाऽऽह--`चादयो न चदाहाहैव' इत्यादि। खादतिशब्दः पचतिशब्देन तुल्यस्वरः। `प्रथमस्यात्र तिङन्तस्य' इत्यादिना द्वितीयमिह गतेरित्यस्य प्रत्युदाहरणमिति दर्शयति। चश्बदो गतेरित्यस्यानुकर्षणार्थः। अन्यच्चास्य प्रयोजनमुक्तमेव।।

59. चवायोगे प्रथमा। (8.1.59)
`प्रथमा तिङविभक्तिः' इति। एतेन प्रथमेति स्त्रीलिङ्गनिर्देशो विभक्त्यपेक्षः सूत्रे कृत इति दर्शयति। प्रथमात्वं तस्य पुनः प्रथममुच्चारणाद्वेदितव्यम्‌ `गर्दंभाँश्च कालयति' इति। `कल विल क्षेपे' (धा.पा.1604-1605) चुरादिणिच्‌। चित्स्वरेण लकारेऽकार उदात्त इति मध्योदात्तमेतत्‌। द्वितदीयं तु निहन्यत एव।
अथ योगग्रहणं किमर्थम्‌, न च वयोरित्येव सप्तम्या निर्देशः क्रियेत, यथा `चादिष च' (8.1.58)? इत्यत आह--`योगग्रहणम्‌' इत्यादि। यथा `चादिषु च' (8.1.58) इति सप्तम्या निर्देशे सति परैरेव चादिनिर्योगे प्रतिषेधो भवति, न पूर्वै; तथेहापि पराभ्यामेव चवाभ्यां योगे स्यात्‌, न पूर्वाभ्याम्‌। ताभ्यामपि योगे यथा स्यादित्येवमर्थं योगग्रहणम्‌। यदि तु चवाभ्यामिति तृतीयया निर्देशः क्रियते, विनापि योगग्रहणेन पूर्वाभ्यामपि योगे स्यादेव प्रतिषेधः? सन्देहपरिहारार्थं तु तथा न कृतम्‌, चवाभ्यामित्युच्यमाने सन्देहः स्यात्‌--किमयं तृतीयया निर्देशः? उत पञ्चम्येति? पञ्चम्या निर्देशे को दोषः स्यात्‌? परमताभ्यां योगे न स्यात्‌।
कथं पुनर्द्वितीयादितिङन्तस्य चवाभ्यां योगः, यत्तन्निवृत्त्यर्थं प्रथमाग्रहणं क्रियेत? इत्यत आह--`चवायोगो हि' इत्यादि। इह चयोगः समुच्चये भवति, वायोगस्तु विकल्पे। स च समुच्चयो वपिकल्पश्चानेकस्य धर्मः, द्वित्वादिवत्‌। अतो यत्र तौ समुच्चयविकल्पौ, तत्रावश्यमनेकस्य द्वितीयादेः सन्निधानेन भवितव्यम्‌। तस्मात्‌ तन्निवृत्त्यर्थं प्रथमाग्रहणम्‌।।

60. हेति क्षियायाम्‌। (8.1.60)
`आचारभेदः' इति। शिष्टाचारव्यतिक्रम इत्यर्थः। `याति' इति। धातुस्वरेणाद्युदात्तः। इतिकरणेन हशब्दमात्रलस्य निघातकारणत्वमाख्यायते। असति हि तस्मिन्‌ क्षिया हशब्दस्योपाधिर्विज्ञायेत तिङन्तस्य वा। तथा च यदा हशब्दस्तिङन्तं वा क्षियायां न प्रयुज्यते, तदा निघातप्रतिषेधो न स्यात्‌। इतिकरणे तु सति स्वरूपमात्रप्रधानो हशब्दो निघातस्य कारण भवतीति असत्यामपि हशब्दस्य तिङन्तस्य वा क्षियायां वृत्तौ निघातप्रतिषेधः सिद्धो भवति।।

61. अहेति विनियोगे च। (8.1.61)
चकारेण क्षियायामित्येतदनुकृष्यते। `नानाप्रयोजनः' इति। अनेकप्रयोजन इत्यर्थः। `नियोगः' इति। प्रेषणम्‌, व्यापारणमित्यर्थः। इतिकरणमस्य पूर्ववदेव प्रयोजनम्‌।।

62. चाहलोप एवेत्यवधारणम्‌। (8.1.62)
`क्व चास्य लोपः' इति। `लोपे विभाषा' (8.1.45) इत्यत्र योऽभिप्राय प्रष्टुरुक्तः स इहापि वेदितव्यः। `यत्रार्थो गम्यते' इत्यादि। अत्रापि यस्तत्राभिप्राय इतरस्याभिहितः स एव द्रष्टव्यः। कः पुनरर्थस्तयोः प्रयुक्तयोरपि गम्यते? इत्याह--`तत्र' इत्यादि। क्य पुनर्दिषये चलोपः? क्व वाहलोपः? इत्याह--`समानकर्त्तृके' इत्यादि। यस्मिन्‌ व्यापारविशेषे समास एकः कर्त्ता स समानकर्त्तकः। `समानकर्त्तृके चलोपः, नानकर्त्तृकेऽहलोपः' इति। नाना कर्त्ता यस्मिन्‌ स नानाकर्त्तुकः।
`देवदत्त एव ग्रामं गच्छतु, स देवदत्त एवारण्यं गच्छतु' इति। अत्र ग्रामकर्मकमरण्यकर्मकञ्च गमनं यत्‌ तस्य देवदत्त एव कर्त्तति तत्‌ समानकर्तृकम्‌। चार्थं च दर्शयितुमाह--`ग्रामं च' इत्यादि। अत्र हि देवदत्त एवारण्यं गच्छतु देवदत्त एव ग्रामं गच्छत्विति देवदत्तस्यैव नियोज्यस्य गन्तुर्ग्राम एव गन्तव्यतयोपदिश्यते, यज्ञदत्तस्य त्वरण्यमेव केवलम्‌। तेनासत्यप्यहशब्दस्य प्रयोगे तदर्थो गम्यते--ग्रामं केवलं देवदत्तो गच्छतु, अरण्यं केवलं यज्ञदत्तो गच्छत्विति।
`अनवक्लृप्तौ' इति। असम्भावनायामित्यर्थः। यो हि देवदत्तस्य भोजनं न क्वचित्सम्भावयति स एव प्रयुङक्ते--देवदत्त तदेव भोक्ष्यसे' इति। पररूपत्वम्‌।।

63. चादिलोपे विभाषा। (8.1.63)
`सूत्रनिर्दिष्टा गह्यन्ते' इति। पूर्वतः प्रत्यासत्तेः। अत्र चवालोपे `चवायोगे प्रथमा' (8.1.59) इति प्राप्ते विभाषा, परिशेषाणामप्राप्ते। `भवन्ति' इति। पक्षे प्रत्ययस्वरेण मध्योदात्तः। `यजेत' इति। अत्र पक्षेऽदुपदेशाल्लसार्वधातुकस्यानुदात्तत्वे कृते धातोकदात्तत्वे सत्याद्युदात्तत्वम्‌।।

64. वैवावेति च च्छन्दसि। (8.1.64)
`आसीत्‌' इति। `अस भुवि' (धा.पा.1065), लङ्‌ अदादित्वाच्छयो लुक्‌, `अस्तिसिचोऽपृक्ते' (7.3.96) इति आट्‌, स चोदात्त इत्याद्युदात्तमेतत्‌। इतिकरणस्य पूर्वोक्तमेव प्रयोजनम्‌। चकारोऽनुक्तसमुच्चयार्थः। या द्विः पचत्विह तस्याः संवत्सरस्य सस्यं पच्यते द्विरित्यनेन युक्ता प्रथमा तिङ्‌विभक्तिः पचत्विति वा न निहन्यते।।

65. एकान्याभ्यां समर्थाभ्याम्‌। (8.1.65)
`समर्थाभ्याम्‌' इति। नायमस्यार्थः--तिङन्तेन संगताभ्यामिति; अन्यथा ह्यस्योपादानमनर्थकमेव स्यात्‌, `चदायोगे प्रथमा' (8.1.59) इत्यतो योगग्रहणानुवृत्तेरेवास्यार्थस्य लब्धत्वात्‌। तस्मात्‌ समानार्थाभ्यामित्यस्यायमर्थः। सा च समानार्थता तिङन्तापेक्षया भवतीति परस्परापेक्षया वेदितव्या। `एका जिन्वति' इति। जयतेर्लट्‌, `व्यत्ययो बहुलम्‌' (3.1.85) इति श्नुः, `बहुलं छन्दसि' (7.1.8) इति झेरदादेशः, `हुश्नुवोः सार्वधातुके' (6.4.87) इति यणादेशः। अनिघातपक्षे सार्वधातुकस्वरेण मध्योदात्तमेतत्‌। सतिशिष्टादपि हि विकरणस्वरात्‌ सार्वधातुकस्वरो बलीयानिष्यते। `अत्ति' [`अन्ति'--प्रा.मु.पाठः] इति। अदेः `खरि च' (8.4.55) इति चर्त्वम्‌। अनिघातपक्षे धातुस्वरेणादाद्युत्तमेतत्‌। `चाकशीति' इति। `काशृ दीप्तौ' (धा.पा.647), अस्य यङ्लुगन्तस्य रूपमेतत्‌।
`उपातिष्ठत्‌' इति। तिष्ठतेर्लङ पाध्रादिसूत्रेण (7.3.78) तिष्ठादेशः। `एक इति संख्यापदमेतत्‌' इति। अनेन प्रत्युदाहरण एकशब्दस्यान्यशब्देनासमानार्थतां दर्शयति। किं पुनः कारणमन्यशब्देनासमानार्थेन योगेन प्रत्युदाहरणं न दर्शितम्‌? इत्याह--`एकशब्दस्य व्यवस्थार्थं च' इत्यादि। चशब्दोऽवधारणार्थः। अनेकार्थसम्भवेऽरह्थान्तराद्व्यवच्छिस्यैकत्रैवार्थे व्यवस्थानं व्यवस्था। एकशब्दस्य व्यवस्थार्थमेव समर्थग्रहणम्‌; नान्यशब्दस्य व्यवस्थार्थम्‌। न हि तस्यानेकार्थः सम्भवति। तस्मादेकशब्दस्य व्यवस्थार्थं समर्थग्रहणं कृतम्‌। तेनैवैकशब्देनासमर्थेन योगे युक्तं प्रत्युदहरणमुपदर्शयितुम्‌, नान्यशब्देनेत्यभिप्रायः। कस्मात्‌ पुनरेकशब्दव्यवस्थार्थमेव समर्थग्रहणं कृतम्‌? इत्याह--`व्यभिचारित्वात्‌ तस्य' इति। एकशब्दो हि यत्रार्थेऽन्यत्रादौ वृष्टस्तं व्यभिचरति? तथा हि--स क्वचिदन्यशब्दस्यार्थे दृश्यते, क्वचित्प्राथम्ये, क्वचित्‌ संख्यायाम्‌, तस्मादसौ व्यभिचारी। अनवस्थित इत्यर्थः। तद्व्यवस्थार्थं समर्थग्रहणं युक्तम्‌, नान्यशब्दव्यवस्थार्थम्‌; तस्याख्यभिचारित्वात्‌। न ह्यन्यशब्दो यत्रार्थे दृष्टस्ततोऽन्यत्र वर्त्तते। ननु च व्यवस्थाया एतत्फलम्‌--अन्यशब्दसमानार्थस्यैकशब्दस्य ग्रहणं यथा स्यादिति, एतच्चान्तरेणापि व्यवस्थाकारणं समर्थग्रहणमन्यशब्दसाहचर्यादेव लभ्यते, तदनर्थकं समर्थग्रहणम्‌? नैतदस्ति; `निपातैर्यद्यदि' (8.1.30) इत्यादौ सूत्रे निपातग्रहणेन ज्ञापितम्‌--साहचर्यमिह प्रकरणे व्यवस्थाकारणं न भवतीति।।

66. यद्‌वृत्तान्नित्यम्‌। (8.1.66)
`प्रथमा छन्दसीति च निवृत्तम्‌' इति। तयोर्विभाषाग्रहणेन सम्बद्धत्वात्‌। तस्य चेह नित्यग्रहणेन निवर्त्तितत्वात्‌। अतस्तन्निवत्तौ तत्सम्बद्धयोरपि निवृत्तिर्भवति। वृत्तशब्दोऽयमिहाधिकरणसाधनम्‌--वर्त्तते तस्मिन्निति वृत्तम्‌; वृतेरकर्मकत्वात्‌ `क्तोऽधिकरणे च' (3.4.76) इत्यातदिनाऽधिकरणे क्तः। तत्पुनरधिकरणं पदाधिकारात्‌ पदमेव विज्ञायते, इत्याह--`यत्र पदे यच्छब्दो वर्त्तते' इत्यादि। यदि यद्‌वृत्तमित्यधिकरणे क्तः, तर्हि `अधिकरणवाचिना च' (2.2.13) इति प्रतिषेधात्‌ षष्ठीसमासो न प्रवर्त्तते? अत एव निपातनात्‌ समास इत्यदोषः। `एतन्नाश्रीयते' इति। यद्येतदाश्रीयेत, `यत्कामास्ते जुहुमः' इत्यादौ न स्यादिति भावः। कथं पुनरत्र परिभाषा शक्या नाश्रयितुम्‌? वक्तव्यमेवैतत्‌--इह परिभाषा न भवतीति। `ददाति जुहुमः' इति। अभ्यस्तानामादिः' (6.1.189) इत्युभयमप्येतदाद्युदात्तम्‌। `यत्कामाः' इति। यस्मिन्‌ काम एषामिति बहुव्रीहिः। `यद्र्यङ्‌' इति पदम्‌ यदञ्चतीति `ऋत्विक्‌' (3.2.59) इत्यादिना क्विन्‌, `अनिदिताम्‌' (6.4.24) इत्यनुनासिकलोपः, हल्ङ्यादिलोपः, `उगिदचाम्‌' (7.1.70) इति तुम्‌, संयोगान्तलोपः, विष्वग्देवयोः' (6.3.92) इत्यद्र्यादेशः, क्विन्प्रत्ययस्य कुः' (8.2.62)। `वाति' इति। `वा गतिगन्धनयोः' (धा.पा.1050), अदादित्वाच्छपो लुक्‌। धातुस्वरेणाद्युदात्तमेतत्‌। `पवते' इति। `पूङ पवने' (धा.पा.966) एतदपि पूर्ववदाद्युदात्तम्‌। अत ङित्त्वाल्लसार्वधातुकस्यानुदात्तत्वे कृते धातुस्वर एव भवति।
ननु च यद्वृत्तादिति पञ्चमीनिर्देशोऽयम्‌, यत्कामस्ते जुहमः--इत्यादिषु चोदाहरणेषु त इत्यादिना पदेन व्यवधानम्‌, अतो निर्देष्टग्रहणस्यानन्तर्यार्थत्वादिह निघातप्रतिषेधेन भवितव्यम्‌? इत्याह--`पञ्चमीनिर्देशेऽप्त्र व्यवहितेऽपि कार्यमिष्यते' [`व्यवहिते' इत्येव--काशिका] इचि एतच्चोत्तरसूत्रे ज्ञापयिष्यते।।

67. पूजानात्पूजितमनुदात्तं काष्ठादिभ्यः। (8.1.67)
`पूजनात्‌' इति। सुपां सुपो भवन्तीति (7.1.39.वा) बहुवचनस्य स्थान एकवचनम्‌, अत एवाह--`पूजनवचनेभ्यः' इति। `उत्तरपदम्‌' इति। सुबन्तं वेदितव्यम्‌। ननु तिङिति वर्त्तते? सत्यमेतत्‌; उत्तरत्र (8.1.68) तिङिति वचनादिह सुबन्तस्य ग्रहणं विज्ञायते। अपि च वक्ष्यत्येतत्‌--इहैव समासे चैतदनुदात्तत्वमिति। समासश्च काष्ठादीनां सुबन्तेनैव सम्भवति, न तिङन्तेनेति युक्तमिह सुबन्तस्यैव पदस्य गरहणम्‌। सर्व एते काष्ठादयोऽद्भुतपर्यायाः पूजनवचना भवन्ति। अद्भुतं योऽधीते स काष्ठाध्यायक इत्युच्यते। एवं दारुणादिषु वेदितव्यम्‌।
इह सर्व एवैते काष्ठादयः क्रियाविशेषणभूताः समस्यन्ते, न च क्रियाविशेषणानां समासः क्वचिद्विहितः, तत्कथमत्र समासः? इत्याह--`मयूरव्यंसकादित्वात्‌ समासः' इति। `समासे चैतत्‌' इत्यादि। चकारोऽवधारणार्थः। समास एवेत्यर्थः। कथं पुनः समास एवैतल्लभ्यते? `चादिलोपे विभाषा' (8.1.63) इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणानुवृत्तेः। सा व्यवस्थितविभाषेति विज्ञानाच्च।
यद्येवम्‌, कथं वार्त्तिककारेणोक्तम्‌--मलोपश्चेति, काष्ठादिषु हि योऽकारान्तास्तेषां विभक्तेरम्भावे कृते मकारः सम्भवति, समासे चैतदनुदात्तत्वेन भवितव्यम्‌, तत्र विभक्तेरभावान्मकारो न सम्भवतीति मलोपवचनमयुक्तं स्यात्‌? इत्यत आह--`मलोपश्चेत्यनेनापि' इत्यादि। एवमस्माभिरनुदात्तत्वस्य विषय आख्यातः। मलोप श्चेत्यनेनापि स एवाख्यायते; यस्मात्‌ समासे मलोपो न भवति; विभक्तेर्लुप्तत्वात्‌। असमासे विभक्तेरम्भावे कृते मकारस्य श्रवणमेव भवति, न तु लोपः।
अथासमासे मलोपार्थमित्येतदुक्तमित्येव कस्मान्न विज्ञायते? इत्याह--`असमासे[`अथासमासे'---का.मु.पाठः] हि इत्यादि।
अथ पूजितग्रहणं किमर्थम्‌, यावता पूजनशब्दोऽयं पूजितापेक्षत्वात्‌ सम्बन्धिशब्दः, तेन सम्बन्धिशब्दत्वात्‌ पूजितमर्थादुपस्थापयति, तन्त्रान्तरेणापि पूजितग्रहणं पूजितस्यैव परिग्रहो भविष्यति? इत्यत आह--`पूजनादेव' इत्यादि। पूजनग्रहणादेव पूजितग्रहणे लब्धे पूजितग्रहणं यत्‌ क्रियते तस्यैतत्‌ प्रयोजनम्‌--विशिष्टस्याव्यवहितस्य प्रत्यासन्नस्य ग्रहणं यथा स्यादित्येवमर्थम्‌। तेनोत्तरसूत्रे (8.1.68) यत्‌ काष्ठं देवदत्तः पचतीत्यत्र व्यवहितस्य न भविष्यति। ननु पञ्चमीनिर्देशादेव व्यवहितस्य न भविष्यति? इत्यत आह--`एतदेव' इत्यादि। यादृशमिदं ज्ञापकं तदनुरूपम्‌ `यद्‌वृत्तान्नित्यम्‌' (8.1.66) इत्यत्र यत्कामास्ते जुहुमः, यद्र्यङ्‌ वायुर्वातीत्येवमाद्युदाहृत मित्यर्थः। एतेन ज्ञापनस्य प्रयोजनं दर्शितम्‌।
अथानुदात्तग्रहणं किमर्थम्‌, यावता `अनुदात्तं सर्वमपादादौ' (8.1.18) इत्यतोऽनुदात्तग्रहणमनुवर्तत [`अनुवर्त्तेत इत्याह'---का.मु.पाठः] एव? इत्याह--`अनुदात्त इति वर्त्तमाने' [`अनुदात्तमिति'--काशिका] इत्यादि। तद्ध्यनुदात्तग्रहणं `न लुट्‌' (8.1.29) इति प्रतिषेधेन सम्बद्धम्‌, अतस्तदनुवृत्तौ सोऽप्यनुवर्त्तते। तथा च सति यस्यामन्त्रितादेः पूजितस्य निघातप्राप्तिरस्ति तस्यायं काष्ठादिभ्यः परस्य निघातप्रतिषेधो विज्ञायेत। तस्मात्‌ प्रतिषेधनिवृत्त्यर्थमन्यदिहानुदात्तग्रहणं क्रियते।।

68. सगतिरपि तिङ्‌। (8.1.68)
`सगतिग्रहणाच्च गतिरपि निहन्यते' इति। तुल्ययोगेऽत्र सहशब्दः। तत्रोभयोरपि विधीयमानेन कार्येण सम्बन्धो भवति। तथा हि सपुत्रो भोज्यतामित्युक्ते द्वयोरपि पितापुत्रयोर्भोजनेन सम्बन्धो भवति। तस्मादिहाप्यगतेस्तिङन्तस्य च निघाते च सम्बन्धो विज्ञायते। `गतिग्रहणेन चात्रोपसर्गग्रहणमिष्यते' इति। यथा चैतल्लभ्यते तथा पूर्वमेवाख्यातम्‌। तिङ्ग्रहणं पूर्वो निघातः सुबन्तविषयो यथा विज्ञायेतेत्येवमर्थम्‌।।

69. कुत्सने च सुप्यगोत्रादौ। (8.1.69)
`पचति पूति' इति। पतिशब्दसय क्रियादिविशेषणत्वात्‌ `स्वमोर्नपुंसकात्‌' (7.1.23) इति विभक्तेर्लुक्‌। `पचति, क्लिश्नाति' इति। `क्लिशू विबाधने' (धा.पा.1522), क्र्यादित्वात्‌ श्ना। अत्र क्लिश्नातीत्येतत्‌ कुत्सनं भवति, यो यस्य बाधनं करोति तेन स कुत्स्यते। सम्बन्धोऽप्यनयोस्तिङन्तयोरस्त्येव। यस्मात्‌ पचति तस्मात्‌ क्लिश्नातीति। सुबन्तं तु क्लिश्नातीत्येतन्न भवति, अस्य न भवति निघातः।
`क्रियाकुत्सने' इत्यादि। तिङन्ते द्वयमस्ति--साधनम्‌, क्रिया च। तत्र क्रियायाः कुत्सनेऽनुदात्तत्वं भवतीत्येतदर्थमिदं व्याख्येयम्‌, कर्त्तुः कुत्सने मा भूदित्येवमर्थं च। तत्रेदं व्याख्यानम्‌--`चादिलोपे विभाषा' विभाषा' (8.1.63) इत्यतो विभाषाग्रहणमनुवर्त्तते। व्यवस्थितविभाषा च सा, तेन क्रियाकुत्सन एव भविष्यति, न कर्त्तुः कुत्सन इति। ननु च क्रियाप्रधानमाख्यातम्‌, साधनं तु तत्राप्रधानम्‌, तस्य क्रियाङ्गत्वात्‌, अत्र प्राधान्यादेव पतीत्येवमादिना विशेषणेन क्रियाया एव सम्बन्धो भविष्यति, न गुणभूतस्य कर्तुः, तत्किमुच्यते क्रियाकुत्सनमिति? एवं मन्यते--यथैव कृदन्तेषु दारुणाध्यायकादिषु क्रियायाः प्रधानभूताया अपि विशेषणेन सम्बन्धो भवति, तथाऽख्यातेष्वप्राधान्येऽपि साधनस्य विशेषणेन सम्बन्धेन भवितव्यमिति।
`पूतिश्चानुबन्धः' इत्यादि। पूतिशब्दश्चकारानुबन्धो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--चकारोऽत्र क्रयते, स चानुक्तसमुच्चयार्थः, तेन पूतिश्चानुबन्धो भविष्यतीति। ननु च पूतिशब्दस्य प्रातिपदिकत्वादप्रतिषिद्धमेवान्तोदात्तत्वम्‌, कस्मात्‌ स चानुबन्धः क्रियते? न चायं क्तिन्नन्तः, पूतिरयमिति पुंसा सामानाधिकरण्यात्‌। तर्ह्यनेन चकारानुबन्धकरणेनैवैतद्‌दर्शयति--यत्र सगतेस्तिङोऽनुदात्तत्वं तत्र पूतेरन्तोदात्तत्वम्‌, अन्यत्रायमाद्युदात्त एव; तेन क्रियाकुत्सनेऽन्तोदात्तः कर्त्तव्यः, कुत्सन आद्युदात्त इति। `तेनायम्‌' इत्यातदिना चानुबनधकत्वस्य फलं दर्शयति।
`विभाषितम्‌' इत्यादि। बह्वर्थ यत्‌ तिङन्तं तद्विभाषाऽनुदात्तं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि विभाषाग्रहणानुवृत्तेः। तेन व्यवस्थितविभाषात्वं चश्रित्य कर्त्तव्यम्‌।
`सुपि कुत्सने' इत्यादि। अथमुक्तार्थसंग्रहश्लोकः। तत्राद्येन पादेन यदुक्तं क्रियाकुत्सन इति वरक्तव्यमिति तस्य संग्रहः। `मलोपः' इत्यादि। नास्मिन्‌ तिङ्‌ विद्यत इत्यतिङिति। स पुनः प्रस्तावात्‌ [प्रस्तादान्‌--प्रा.का.मुद्रितपाठौ] काष्ठादीनां समासो विज्ञायते। तत्रातिङि काष्ठादिसमासे मलोप इष्टः। एतच्च मलोपश्चेत्यनेनायमेव विषय आख्यायत इत्यादिना तूक्तार्थम्‌, तदनेन समास चैतदनुदात्तत्वमित्यादिना यदुक्तं ततसर्वं ग्रहीतुम्‌। अथ वा मलोप इत्यनेन मलोपश्चेत्येतद्वचनमुपलक्षयति। अस्य चोक्तार्थमित्यनेन सम्बन्धः। तदेतदुक्तं भवति--मलोपश्चेति यत्‌ कार्यं वचनं तन्मलोपश्चेत्यनेनैपित्यादिना पूर्वमेवोक्तप्रयोजनमिति। `अतिङि' इति। अनुदात्तमित्येतद्वक्तव्यमिति वृत्तभङ्गभयान्नोक्तम्‌। अनुक्तमपि तस्य श्लोकस्य पूर्वोक्तार्थसंग्रहार्थत्वात्‌ काष्ठादीनाम च पूर्वमनुदात्तस्य चोक्तत्वाद्गम्यत एव। अतिङीति चानेन बहुव्रीहिणा समासः। तेनैतदुक्तं भवति--काष्ठादीनां समासेऽनुदात्तत्वं भवतीति। शेषं सुगमम्‌।।

70. गतिर्गतौ। (8.1.70)
`अभ्युद्धरति' इति। अभिशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्त उच्छब्दे गतौ परतोऽनुदात्तत्वं भवति। `समुदानयति' इति। अत्रापि `निपाता आद्युदात्ताः' (फि.सू.4.80), `उपसर्गाश्चाभिवर्जम्‌' (फि.सू.4.81) इति सम आद्युदात्तत्वे प्राप्तेऽनुदात्तत्वं भवति। कथं पुनरत्राह--समश्च गतिसंज्ञेति यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसज्ञे भवत इत्युक्तम्‌ (जै.प.वृ.99), न चोच्छब्दस्य क्रियावाचित्वम्‌? नैष दोषः; क्रियाविशेषवाचिनो हि प्रादयः। क्रियाविशेषश्च क्रियैव। कारकाणां प्रवृत्तिविशेषः क्रियेत्युक्तम्‌। उपसगऽपि कारकप्रवृत्तिविशिष्यत एव। न [न ह्युद्धरतीति?] ह्युत्तरतीति हरत्यर्थ एव केवलं कर्त्तृव्यापारं व्यवच्छिनति। किं तर्हि? उपसर्गार्थोऽपि। अथ वा हरणादर्थान्तरमेवोद्धरणम्‌, तस्याभिर्विशेषणमिति नानुपपन्ना गतिसंज्ञा।
`देवदत्तः प्रपचति' इति। देवैर्दासीष्टेति `क्तिच्क्तौ च संज्ञायाम्‌' (3.3.174) इति क्तः; `दो दद्‌धोः' (7.4.46) इति ददादेशः। `तृतीया कर्मणि' (6.2.48) इत्याद्युदात्तत्वे प्राप्ते `कारकाद्दत्तश्रुतयोरेवाशिषि' (6.2.148) इति देवदत्तशब्दोऽन्तोदात्तः। `आमन्द्रैः' इत्यादि। अत्र सर्वमस्ति, न तु मन्द्रोगतिरिति। तस्मिन्‌ परत आङोऽनुदात्तत्वं न भवति। असति चनुदात्तत्वे `निपाता आद्युदात्ताः' (फि.सू.4.80) `उपसर्गश्चाभिवर्जम्‌' (फि सू 4.81) इत्याद्युदात्तत्वमेव भवति।
कथं पुनराङो गतिसंज्ञा, क्रियायोगे हि सति विहिता सा, न चात्रास्ति क्रियायोगः, मन्दरशब्दस्याक्रियावाचित्वात्‌? इत्यत आह--`याहीत्येतत्‌ प्रति क्रियायोगादाङित्वेष गतिः' इति। सत्यपि व्यवधाने व्यवहिताश्च (1.4.82) इति गतिसंज्ञाविधानादिति भवाः। स्यादेतत्‌, यद्यपि याहीत्येतत्‌ प्रत्याङो गतित्वम्‌, तथापि मन्द्रशब्दं प्रति नास्येव तस्य गतिसंज्ञा, तेन यद्यपि गतावित्येतन्नोच्येत, तथापि नैवेहानुदात्तत्वं प्राप्नोति? इत्यत आह--`तस्य' इत्यादि। अत्रास्यानुदात्तत्वं स्यादेवेति। अस्य `अनाश्रितपनिमित्तकम्‌' इत्यनेन हेतुरुक्तः। तस्यानाश्रितपरनिमित्तकस्यापि गतावित्यस्मिन्नसत्येनेन गतिग्रहणस्याभावो हेतुरभिहितः। यदि गतावित्येन्नोच्येत, ततोऽनाश्रितपरनिमित्तमेवानुदात्तत्वमुक्तं स्यात्‌। न ह्यसति सप्तमीनिर्दिष्टे गतिग्रहणे परनिमित्तताश्रीयते। ततश्च गतिरित्येतावत्युच्यमाने यद्यपि मन्द्रशब्दो गतिर्न भवति, तथापि तस्याङाश्रितपरनिमित्तमनुदात्तत्वमिह स्यादेव। गतावित्यस्मिंस्तु सति न भवत्येष दोषः; गतेः परनिमित्तस्याश्रयणात्‌ तस्य चेहाभावात्‌।।

71. तिङि चोदात्तवति। (7.1.71)
`यत्प्रपचति यत्प्रकरोति' [यत्‌ करोति--मुद्रितकाशिकापाठः] इति। `यद्‌वृत्तान्नित्यम्‌' (8.1.66) इति निघातप्रतिषेधे कृते उभयमप्येतत्‌ तिङन्तमुदात्तवद्भवति--एकं धातुस्वरेण, अपरं प्रत्ययस्वरेण।
इहेदं तिङग्रहणमेवमर्थं क्रियते--तिङ्युदात्तवति यथा स्यात्‌, `आमन्द्रैरिन्द्र हरिभिर्याहि' इत्यत्र मन्द्रशब्दे मा भूदित्येवमर्थम्‌; एतच्चाप्रयोजनम्‌, यदि स तत्र स्यात्‌ पूर्वसूत्रे गतावित्येतदपार्थकं स्यात्‌। अस्य हि तत्र मन्द्रशब्दे मा भूदित्येवमर्थम्‌; एतच्चाप्रयोजनम्‌, यदि स ततर स्यात्‌ पूर्वसूत्रे गतावित्येतदपार्थकं स्यात्‌। अस्य हि तत्र मन्द्रशब्दे परतो मा भूदित्येतदेव अयोजनं व्यवस्थितम्‌। न चान्यत्‌ तिङ्ग्रहणस्येह व्यवच्छेद्यमस्ति। तस्माद्व्यवच्छेद्याभावान्न कर्त्तव्यमेव तिङ्ग्रहणम्‌? इत्येतच्चोद्यमपाकर्त्तुमाह--`तिङ्ग्रहणम्‌' इत्यादि। परिमाणम्‌=परिच्छेदः। तदुदात्तवतो यथा स्यादित्येवमर्थं तिङ्ग्रहणम्‌। किं पनः स्यात्‌, यदि परिमाणार्थं तिङ्ग्रहणं न क्रियेत? इत्यत आह--`अन्यथा हि' इत्यादि। यदि हि तिङीति नोप्येत तदोदात्तवतीत्येतावत्युच्यमाने यद्युदात्तवतीति सामान्येनोच्येत, तथापि प्रत्यासत्तेर्यं प्रति गतिस्तस्यव निघातो विज्ञायेत। ततश्च धातावेवोदात्तवति स्यात्‌--यत्‌ प्रवचतीत्यादौ, प्रत्यये तु यत्‌ प्रकरोतीत्यत्र न स्यात्‌। विकरणो ह्यत्रोदात्तवान्‌ न धातुः। ननु चोदात्तोऽत्र प्रत्ययः, नोदात्तवान्‌, न हि प्रत्ययादन्यः स उदात्तोऽस्ति येन प्रत्यय उदात्तवान्‌ स्यात्‌? नैतत्‌ सारम्‌; यथा स्यात्‌ [`नास्ति--का.मु.पुस्तके] यत्राद्युदात्तत्वमस्य व्यपदेशिवद्भावेन भवति तथोदात्तत्वमपि स्यादेव। स्यादेतत्‌। प्रत्ययमपि प्रति प्रादेर्गतिसंज्ञा, ततो नायं दोषः? इत्यत आह--`यत्क्रियायुक्ताः' इत्यादि। इतिकरणो हेतौ। यस्मात्‌ यत्क्रियायुक्ताः प्रादयस्तं प्रति तेषां गत्युपसर्गसंज्ञा, तस्माद्धातुमेव प्रति गतिसंज्ञा, न प्रत्ययम्‌। यदि हि प्रत्ययोऽपि धातुवत्‌ क्रियावचन स्यात्‌, तमपि प्रति प्रादयो गतिसंज्ञां प्रपद्येरन्‌। न चासौ क्रियावचनः, तस्मान्न प्रत्ययं प्रति प्रादीनां गतिसंज्ञाः।
`आमन्ते तर्हि' इत्यादि। प्रपचतितरामिति `तिङश्च' (5.3.56) इति तरप्‌, तदन्तात्‌ `किमेत्तिङ्‌' (5.4.11) इत्यादिनामि कृते सत्यामन्तमेतद्भवति। न तिङन्तम्‌। ततो यदि तिङि चेति तिङग्रहणं न क्रियेत, तस्मिन्नामन्ते परतो गतिनिघातो न प्राप्नोति। अत्र' इत्यादि उत्तरम्‌। अत्र केचित्‌ `कुगतिप्रादयः' (2.2.18) इत्यामन्तेन गतेः समासं कुर्वन्ति, केचिन्न कुर्वन्त्येवेति। तत्र त्रयः पक्षाः। तत्र य आमन्तेन समासं कुर्वन्ति, तेषां `तत्पुरुष तुल्यार्थतूतीया' (6.2.2) इत्यादिना पूर्वपदस्याव्ययस्य प्रकृतिस्वरे सति शेषस्य `अनुदात्तं पदमेकवर्जम्‌' (6.1.158) इत्यनुदात्तत्वेन भवितव्यम्‌। अतोऽक्रियमाणेऽपि तिङ्ग्रहणे परमामन्तमुदात्तं न भवतीति गतिनिघातो नैव सिध्यति। ततो नायं दोषस्तिङ्ग्रहणे सत्येव, किं तर्हि? असत्यपि। तेन तिङ्ग्रहणे क्रियमाण एव चोदयितुं युक्तमित्यभिप्रायः।
`अथ' इत्यादि। अथ तरबन्तेन गतिसमासः क्रियते? एवमप्युक्तमेव चोद्यम्‌। तथा हि--`तरबन्तस्य गतिसमासः' इत्यस्मिन्‌ पक्षे प्राग्गतिसमासे कृते पूर्वपदस्य च प्रकृतिस्वरत्वे पश्चादामा भवितव्यम्‌, तथा च सतिशिष्टत्वादाम एवोदात्तत्वे सति गतेः `अनुदात्तं पदेमेकवर्जम्‌' (6.1.158) इत्यनेनैवानुदात्तत्वं सिद्धम्‌, अतो नार्थं एतत्सूत्रविहितेन गतिनिघातेनेति। वाभावे वाह चोदकः--`येषां तु' इत्यादि। `गतिकारकीपपदानां कृद्भिः सह समासवचनं प्राक्‌ सुबुत्पत्तेः' (व्या.प.138) इत्यत्र दर्शनद्वयम्‌--`गत्यादयोऽविशेषेण समस्यन्ते कृद्भिः सह सह प्राक्सुबुत्पत्तेः' इत्येकं दर्शनम्‌; `गत्यादयः कृद्भिरेव समस्यन्ते, नान्यप्रत्ययान्तैः, तैश्च प्राक्सुबुत्पत्तेः' इति द्वितीयम्‌। तत्र येषां पूर्वं दर्शनं तान्प्रत्यामन्ते तर्हि न प्राप्नोतीति सत्यमयुक्तमेतच्चोद्यम्‌। येषां तु द्वितीयं दर्शनं तान्‌ प्रत्युरक्तमेव। तथा हि--तेषामेवंविधविषये प्रपचतितरामित्येवंप्रकारे यत्र कृत्प्रयोगो नास्ति तत्र समासेन नैव भवितव्यम्‌। अथ पृथक्स्वरः प्राप्नोति--प्रशब्दस्य `उपसर्गाश्चाभिवर्जम्‌' (फि.सू.4.81) इत्याद्युदात्तत्वं प्राप्नोति, पचतितरामित्यत्रापि प्रत्ययस्वरेणाम उदात्तत्वम्‌? तत्र पृथक्स्वरप्राप्तौ सत्यामनेन निघातेन प्रयोजनम्‌। एष च गतिनिघातस्तिङग्रहणे क्रियमाणे सत्यामन्तेन प्राप्नोतीति भावः। इतर आह--`तदर्थ यत्नः कर्त्तव्यः' इति। स पुनरत्र व्याख्यानविशेषः। इह चकारः क्रियते, स चानुक्तसमुच्चयार्थः, तेनामन्तेऽपि निघातो भविष्यतीति।
`प्रपचति, प्रकरोति' इति। `तिङङतिङ' (8.1.28) इति निघातादुभयमप्येतदुदात्तवन्न भवति।।

72. आमन्त्रितं पूर्वमविद्यमानवत्‌। (8.1.72)
`तस्मिन्‌ सति' इत्यादिनाऽविद्यमानवद्भवतीत्यस्यार्थमाचष्टे। `अविद्यमानवत्‌' इति। वतिना निर्देशोऽयम्‌, अविद्यमानेन तुल्यं वर्त्तत इत्यविद्यमानवत्‌। वतिश्च साद्श्ये भवति, एवञ्च तस्याविद्यमानेन सादृश्यं भवति यदि सत्यपि तस्मिंस्तन्निबन्धनं कार्यं न भवति। असति च तस्मिन्‌ यत्‌ कार्यं तदत्तानिबन्धनं तत्‌ सत्यपि तस्मिन्‌ भवति। `आमन्त्रितनिघातेन' [आमन्त्रिततिङनिघात--काशिका--पदमंजरी च] इत्यादिना तस्मिन्‌ सति यत्कार्यं प्राप्नोति तदभावमविद्यमानवद्भावस्य प्रयोजनं दर्शयति। `देवदत्त् यज्ञदत्त' इति। अत्र पूर्वस्याविद्यमानत्वादसति निघाते यज्ञदत्तशब्दस्य षाष्टिकमेवामन्त्रि (6.1.198) ताद्युदात्तत्वं भवति। `देवदत्त मम ग्रामः स्वम्‌' ति। `तवममौ ङसि' (7.2.96) इति तदममादेशौ साप्तिकौ। `इत्येवमादिषु' इति। आदिशब्देन `देवदत्त तुभ्यं दीयते' इत्येवमादीनां ग्रहणम्‌, `युष्मदस्मदादेशा न भवन्ति' इति। `तेमयावेकवचनस्य' (8.1.22) इत्येवमादयः। `पूजायामनन्तरप्रतिषेधः प्रयोजनम्‌' इत्यादिना तस्मिन्नामन्त्रितेऽसति यत्कार्यं प्राप्नोति तस्य सत्यपि तस्मिन्‌ भावेऽविद्यमानवद्भावस्य प्रयोजनं दर्शयति। `यावद्देवदत्त पचसीत्यत्रापि' इत्यादि। यत्राप्यामन्त्रितं व्यवधायकमित्येषोऽपिशब्दस्यार्थो वेदितव्यः।
`देवदत्तः पचति' इति। अत्राविद्यमानत्वाभावत्‌ तिङनिघातो भवत्येव। `पूर्वम्‌' इति। किं देवदत्त इति पूर्वं परमपि खलु भवति? न चेह परमस्तीति नास्ति देवदत्तेत्यस्य पूर्वत्वम्‌। तेनामन्त्रिताद्युदात्तत्वे कर्त्तव्ये नाविद्यमानवद्भवति। `देवदत्त पचसि' इति। अत्र पचसीत्येतदपेक्षया देवदत्तशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवद्भावेन तस्य भवितव्यम्‌, ततश्चामन्त्रिताद्युदात्तत्व तस्य न स्यात्‌। `इमं मे गङ्गे यमुने'--इत्यत्र च गङ्गेशब्दस्य यमुनेशब्देनानन्तर्यमपनयन्‌ स निघातनिमित्तभावं प्रतिबध्नीयादिति यमुनेशब्दस्य निघातो न स्यादित्येतच्चोद्यद्वयमाशङ्क्याह--`पूर्वत्वं च' इत्यादि। चकारोऽवधारणे, भिन्नक्रमश्च। परापेक्षमेवेत्येवं द्रष्टव्यम्‌। इतिकरणो हेतौ। येषां यद्भावो यदपेक्षवद्भवति तेषां तद्भावेनानूद्यमानानां विधीयमानो धर्मस्तद्विषय एव प्रतीयते। तद्यथा--पुत्रः कार्येष्ववहित इति पुत्रस्य पुत्रभावः पुत्रापेक्ष इति तस्य पुत्रभावेनानूद्यमानस्य विधीयमानं कार्येष्ववहितत्वं यदपेक्षं पुत्रत्वं तत्कार्येष्ववगम्यते, नान्यकार्येषु। पूर्वत्वं चेदं परापेक्षमेव। तस्मात्‌ तदनूद्यामन्त्रितस्याविद्यमानवद्भावो यदपेक्षं तत्पूर्वत्वं तस्यैव परस्य कार्ये कर्त्तव्ये भवति, नान्यस्य। किंविशिष्टे कार्ये? स्वानिमित्ते, अन्यनिमित्ते या। स्वं निमित्तं यस्य तत्‌ स्वनिमित्तम्‌, आमन्त्रितमित्यर्थः। तस्मादन्यच्छब्दान्तरं निमित्तं यस्य तदन्तनिमित्तम्‌। यत एवं परस्यैव कार्ये कर्त्तव्ये तदामन्त्रितमविद्यमानवद्भवति, न तु स्वकार्ये कर्त्तव्ये, तेन देवदत्त पचसौत्यत्रामन्त्रिताद्युदात्तत्वं न परस्य कार्यम्‌; किं तर्हि? आमन्त्रितस्यैव। यतः परस्य कार्यमनुदात्तत्वम्‌, तस्मिंस्त्वविद्यमानव्दभवत्येव।
एवं प्रथमचोद्यं निराकृत्य द्वितीयं निराकर्त्तुमाह--`इमं मे गङ्गे यमुने' इत्यादि। अत्रापि पूर्वत्वं च परापेक्षं भवतीत्येष एव हेतुः। गङ्गेशब्दः पूर्वमामन्त्रितान्तः स्वयमविद्यमानवत्त्वान्निमित्तं न भवतीति सम्बन्धनीयम्‌। क्व विषये निमित्तं न भवति? परस्यैव सुमुनेशब्दस्यानुदात्तत्वे कर्त्तव्ये। मेशब्दस्य च निमित्तभावं न प्रतिबध्यातीति गङ्गेशब्दः पूर्वमामन्त्रितो यमुनेशब्दस्यानुदात्तत्वे कर्त्तव्ये विद्यमानवत्त्वादिति सर्वमपेक्षते। इह पूर्वशपब्दस्य सम्बन्धिशब्दत्वात्‌ परस्य कार्ये कर्त्तव्ये पूर्वस्यामन्त्रितस्याविद्यमानवद्भावो विधीयते। `इमं मे गङ्गे यमुने' इत्तयत्र च यद्यपि गङ्गेशब्दादन्यच्छब्दान्तरं `मे' इत्येतद्यमुनेशब्दस्यानुदात्तस्य निमित्तम्‌, तथापि तदनुदात्तत्वं पस्यैवामन्त्रितस्य कार्यमिति तस्मिन्नपि कर्त्तव्ये गङ्गेशब्दोऽविद्यमानवद्भवति। अत एव प्रागुक्तम्‌--अन्यनिमित्ते वैतेनाविद्यटचमानत्वान्मेशब्दस्य निघातं प्रति यो निमित्तभावः तं न प्रतिबध्नाति। वत्करणं किमर्थम्‌? स्वाश्रयमपि यथा स्यात्‌--आम्‌ भो देवदत्तत्रि। `आम एकगान्तरमामन्त्रितमनन्तिके' (8.1.55) इत्येकान्तरतानिबन्धनो निघातप्रतिषेधः सिद्धो भवति। बहुवचनान्तञ्चैतद्विज्ञेयम्‌; एकवचनान्ते हि `नामन्त्रिते समानाधिकरणे सामान्यवचनम्‌' (8.1.73) इति प्रतिषेधान्नैवाविद्यमानवत्त्वमस्ति। बहुवचनान्ते तु `विभाषितं विशेषवचने बहुवचनम्‌' (8.1.74) इति पक्षे विद्यते।
ननु च परार्थे प्रयुज्यमानाः शब्दा अतिदेशं गमयन्ति, यथा--`गौर्वाहीक इति, तत्र विद्यमानस्याविद्यमानमिति वचनादतिदेशो गम्यते। अतिदेशधर्मश्च स्वाश्रया निवृत्तिरिति नार्थो वतिना? सत्यमेतत्‌; एवं तु मन्यते--वतिमन्तरेण प्रयोगव्यवस्थार्थमिवं स्यात्‌, कुतश्चिदामन्त्रितं पूर्वं न भवतीति। तथा चामन्त्रितस्यामन्त्रितेन पूर्वेणैकान्तराता न स्यादिति।।

73. नामन्त्रिते समानाधिकरणे सामान्यवचनम्‌। (8.1.73)
`समानाधिकरणम्‌' [समानाधिकरणे--काशिका] इति। समानाभिधेयमित्यर्थः। `अग्ने गृहपते' इति। अग्निशब्दोऽत्राग्निमात्राभिधायित्वात्‌ सामान्यवचनोऽपि गृहपतिशब्देन विशेषाभिधायिना व्यवच्छिद्यमानस्तद्वाच्ये गार्हपत्याख्येऽग्निविशेषे एवावतिष्ठत इति गृहपतिशब्दस्तेन समानाधिकरणः। एवं `माणवक जटिलाध्यापक' इत्यत्रापि समानाधिकरणाता विज्ञेया। अत्र जटिलकशब्दस्यापेक्षाभेदात्‌ सामान्ये विशेषत्वं न; किं तर्हि? माणवकापेक्षया विशेषत्वम्‌, अध्यापकापेक्षया सामान्यभावः। अत्र जटिलके समानाधिकरणे परतो माणवकस्याविद्यमानवत्त्वं न भवति, अध्यापके तु जटिलकशब्दस्य। पूर्वस्य' इत्यादिना प्रतिषेधस्य फलं दर्शयति।
`देवदत्त पचसि' इति। तत्र देवदत्तस्य योऽभिधेयोऽर्थस्तत्रैव कर्त्तरि लकारो विहित इति भवति पचसीत्येतद्देवदत्तशब्देन समानाधिकरणम्‌। आमन्त्रितं तु न भवति--देवदत्त यज्ञदत्तेति। देवदत्तशब्दोऽत्र न संज्ञाशब्दो गृह्यते, किं तर्हि? क्रियानिमित्तकः; अन्यथा संज्ञशब्दस्यैकवस्तुनिष्ठत्वात्‌ सामान्यवचनः, स न स्यात्‌। `एते पर्यायाः' इति। एतेन सामान्यवचनत्वाभावं दर्शयति। विशेषापेक्षं सामान्यम्‌। न चात्र कस्यचिद्विशेषो वाच्यो यदपेक्षया सामान्यं स्यात्‌, सर्वेषामत्यन्ताभिन्नार्थत्वात्‌, अन्यथा पर्याया एवं न स्युः। कथं पुनर्ज्ञायन्ते पर्याया एते? इत्याह--`एवं ह्युक्तम्‌' इत्यादि।।

74. विभाषितं विशेषवचने बहुवचनम्‌। (8.1.74)
पूर्वेण नित्यं विद्यमानवत्त्वे प्राप्ति विकल्पार्थमिदं वचनम्‌। `देवाः शरण्याः' इति। यदाऽविद्यमानवत्त्वं तदा शरन्या इत्यस्यामन्त्रिताद्युदात्तत्वं भवति; अन्यथा निघातः। एवं `ब्राह्मणा वैयाकरणाः' इत्यात्रापि वैयाकरणशब्दस्याद्युदात्तत्वम्‌, पाक्षिकनिघातश्च वेदितव्यः।
अथ विशेषवचनं किमर्थम्‌, यावता `सामान्यवचनम्‌' इत्यनुवर्त्तते, सामान्यञ्च विशषापेक्षम्‌, तत्रान्तरेणापि विशेषवचनं विशेषवचनं विज्ञास्यते? इत्यत आब--`सामान्यवचनाधिकारादेव' इत्यादि। य एवं न शक्नोति मन्दधीः प्रतिपत्तुम्‌, तं प्रति विस्पष्टार्थ विशेषवचनग्रहणं क्रियते। यदि तर्हि सामान्यस्य विशेषापेक्षत्वात्‌ सामान्यवचनग्रहणाद्विशेषवचने कार्यं विज्ञायते, तत्र पूर्वसूत्रेऽपि (8.1.73) तत्रैव कार्यं विज्ञायते, तथा च देवदत्त यज्ञवत्तेति प्रत्युदाहरणं द्वयङ्गविकलं स्यात्‌; तथा हि यथा यज्ञदत्तशब्दो न समानाधिकरणो भवति, तथा विशेषवचनोऽपि। अथासौ विशेषवचनः? एवं सति यथाऽग्ने गृहपत इत्यत्राग्निशब्दः सामान्यवचनोऽपि गृहपतिशभ्देन विशेषाभिधायिना व्यवच्छिद्यमानस्तदग्नि विशेषणं भवति गृहपतिशब्दस्तेन समानाधिकरणः, एवं देवदत्तशब्दो विशेषाभिधायिना यज्ञदत्तशपब्देन व्यवच्छिद्यमानस्तद्वच्य एव विशेषेऽवतिष्ठत इति यज्ञदत्तशब्दस्तेन समाधिकरण इति चिन्त्यमेतत्‌।।

इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां

        काशिकाविवरणपञ्चिकायामष्टमाध्यायस्य

                    प्रथमः पादः
                     - - -