कामसूत्रम्/अधिकरणम् २/अध्यायः २
← अध्यायः १ | कामसूत्रम् अध्यायः २ वात्स्यायन: |
अध्यायः ३ → |
संप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते. चतुःषष्टिप्रकरणत्वात्. ॥ २.२.१ ॥
शास्त्रं एवेदं चतुःषष्टिरित्याचार्यवादः. ॥ २.२.२ ॥
कलानां चतुःषष्टित्वात्तासां च संप्रयोगाङ्गभूतत्वात्कलासमूहो वा चतुःषष्टिरिति. ऋचां दशतयीनां च संज्ञितत्वात्. इहापि तदर्थसंबन्धात्. पञ्चालसंबन्धाच्च बह्वृचैरेषा पूजार्थं संज्ञा प्रवर्तिता इत्येके. ॥ २.२.३ ॥
आलिङ्गनचुम्बननखच्छेद्यदशनच्छेद्यसंवेशनसीतःकृतपुरुषायितौपरिष्टकानां आष्टानां अष्टधा विकल्पभेदादष्टावष्टकाश्चतुःषष्टिरिति बाभ्रवीयाः. ॥ २.२.४ ॥
विकल्पवर्गाणां अष्टानां न्यूनादिकत्वदर्शनात्प्रहणविरुतपुरुषोपसृप्तिचित्ररतादीनां अन्येषां अपि वर्गाणां इह प्रवेशनात्प्रायोवादोऽयम्. यथा सप्तपर्णो वृक्षः पञ्चवर्णो बलिरिति वात्स्यायनः. ॥ २.२.५ ॥
तत्राःसमागतयोः प्रीतिलिङ्गद्योतनार्थं आलिङ्गनचतुष्टयम्. [१] स्पृष्टकं [२] विद्धकं [३] उद्घृष्टकं [४] पीडितकं इति. ॥ २.२.६ ॥
सर्वत्र संज्ञार्थेनैव कर्मातिदेशः. ॥ २.२.७ ॥
संमुखागतायां प्रयोज्यायां अन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं [१] स्पृष्टकम्. ॥ २.२.८ ॥
प्रयोज्यं स्थितं उपविष्टं वा विःजने किं चिद्गृह्णाति पयोधरेण विद्ध्येत्. नायकोऽपि तां अवपीड्य गृह्णीयादिति [२] विद्धकम्. ॥ २.२.९ ॥
तदुभयं अनःअतिःप्रवृत्तसंभाषणयोः. ॥ २.२.१० ॥
तमसि जनसंबाधे विःजने वाथ शनकैर्गच्छतोर्नातिःह्रस्वकालं उद्घर्षणं परस्परस्य गात्राणां [३] उद्घृष्टकम्. ॥ २.२.११ ॥
तदेव कुड्यसंदेशेन स्तम्भसंदेशेन वा स्फुटकं अवपीडयेदिति [४] पीडितकम्. ॥ २.२.१२ ॥
तदुभयं अवगतपरस्पराकारयोः. ॥ २.२.१३ ॥
[१] लतावेष्टितकं [२] वृक्षाधिरूढकं [३] तिलतण्डुलकं [४] क्षीरनीरकं इति चत्वारि संप्रयोगकाले..२.२.१५ लतेव शालं आवेष्टयन्ती चुम्बनार्थं मुखं अवनमयेत्. उद्धृत्य मन्दसीत्कृता तं आश्रिता वा किंचिद्रामणीयकं पश्येत्तल्[१] लतावेष्टितकम्. ॥ २.२.१४ ॥
चरणेन चरणं आक्रम्य द्वितीयेनोरुदेशं आक्रमन्ती वेष्टयन्ती वा तत्पृष्ठसक्तैक बाहुर्द्वितीयेनांसं अवनमयन्ती ईषन्मन्दसीत्कृतकूजिता चुमबनार्थं एवाधिरोढुं इच्छेदिति [२] वृक्षाधिरूढकम्. ॥ २.२.१६ ॥
तदुभयं स्थितकर्म. ॥ २.२.१७ ॥
शयनगतावेवोरुव्यत्यासं भुजव्यत्यासं च सःसंघर्षं इव घनं संस्वजेते तत्[३] तिलतण्डुलकम्. ॥ २.२.१८ ॥
रागान्धावनःअपेक्षितात्ययौ परस्परं अनुविशत इवोत्सङ्गगतायां अभिमुखोपविष्टायां शयने वेति [४] क्षीरजलकम्. ॥ २.२.१९ ॥
तदुभयं रागकाले. ॥ २.२.२० ॥
इत्युपगूहनयोगा बाभ्रवीयाः. ॥ २.२.२१ ॥
सुवर्णनाभस्य त्वधिकं एकाङ्गोपगूहनचतुष्टयम्. ॥ २.२.२२ ॥
तत्रोरुसंदंशेनैकं ऊरुं ऊरुद्वयं वा सर्वप्राणं पीडयेदित्यूरूपगूहनम्[१]. ॥ २.२.२३ ॥
जघनेन जघनं अवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनप्रहणनचुम्बन प्रयोजनाय तदुपरि लङ्घयेत्तज्जघनोपगूहनम्[२]. ॥ २.२.२४ ॥
स्तनाभ्यां उरः प्रविश्य तत्रैव भारं आरोपयेदिति स्तनालिङ्गनम्[३]. ॥ २.२.२५ ॥
मुखे मुखं आसज्याक्षिणी अक्ष्णोर्ललाटेन ललाटं आहन्यात्साललाटिका[४]. ॥ २.२.२६ ॥
संवाहनं अप्युपगूहनप्रकारं इत्येके मन्यन्ते. संस्पर्शत्वात्. ॥ २.२.२७ ॥
पृथक्कालत्वाद्भिन्नप्रयोजनत्वादःसाधारणत्वान्नेति वात्स्यायनः ॥ २.२.२८ ॥
व्पृच्छतां शृण्वतां वापि तथा कथयतां अपि. उपगूहविधिं कृत्स्नं रिरंसा जायते नृणाम्.. ॥ २.२.२९ ॥
व्येऽपि ह्यःशास्त्रिताः केचित्संयोगा रागवर्धनाः. आदरेणैव तेऽप्यत्र प्रयोज्याः सांप्रयोगिकाः.. ॥ २.२.३० ॥
व्शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः. रतिचक्रेप्रवृत्ते तु नैव शास्त्रं न च क्रमः.. ॥ २.२.३१ ॥
चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे आलिङ्गनविचारा द्वितीयोऽध्यायः. ॥ २.२ ॥