कामसूत्रम्/अधिकरणम् २/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २ कामसूत्रम्
अध्यायः ३
वात्स्यायन:
अध्यायः ४ →

चुम्बननखदशनच्छेद्यानां न पौर्वापर्यं अस्ति. रागयोगात्प्राक्संयोगादेषां प्राधायेन प्रयोगः. प्रहणसीत्कृतयोश्च संप्रयोगे. ॥ २.३.१ ॥

सर्वं सर्वत्र. रागस्यानःअपेक्षितत्वात्. इति वात्स्यायनः. ॥ २.३.२ ॥

तानि प्रथमरते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत. तथाभूतत्वाद्रागस्य. ततः परं अतित्वरया विशेषवत्समुच्चयेन रागसंधुक्षणार्थम्. ॥ २.३.३ ॥

ललाटालककपोलनयनवक्षःस्तनोष्ठान्तरःमुखेषु चुम्बनम्. ॥ २.३.४ ॥

ऊरुसंधिबाहुनाभिमूलयोर्लाटानाम्. ॥ २.३.५ ॥

रागवशाद्देशप्रवृत्तेश्च सन्ति तानि तानि स्थानानि न तु सर्वजनप्रयोजानीति वात्स्यायनः. ॥ २.३.६ ॥

तद्यथा ण् [१] निमित्तिकं [२] स्फुरितकं [३] घट्टितकं इति त्रीणि कन्याचुम्बनानि. ॥ २.३.७ ॥

बलात्कारेण नियुक्ता मुखं आधत्ते न तु विचेष्टत इति [१] निमित्तकम्. ॥ २.३.८ ॥

वदने प्रवेशितं चौष्ठं मनागपत्रपावग्रहीतुं इच्छन्ती स्पन्दयति स्वं ओष्ठं नोत्तरं उत्सहत इति [२] स्फुरितकम्. ॥ २.३.९ ॥

ईषत्परिगृह्य विःनिमीलितनयना करेण च तस्य नयने अवच्छादयन्ति जिह्वाग्रेण घट्टयतीति [३] घट्टितकम्. ॥ २.३.१० ॥

समं तिर्यगुद्भ्रान्तं अवपीडितकं इति चतुर्विधं अपरे. ॥ २.३.११ ॥

अङ्गुलिसंपुटेन पिण्डीकृत्य निर्दशनं ओष्ठपुटेनावपीडयेदित्यवपीडितकं पञ्चमं अपि करणम्. ॥ २.३.१२ ॥

द्यूतं चात्र प्रवर्तयेत्. ॥ २.३.१३ ॥

पूर्वं अधरसंपादनेन जितं इदं स्यात्. ॥ २.३.१४ ॥

तत्र जिता सार्धरुदितं करं विधुनुयात्प्रणुदेद्दशेत्परिवर्तयेद्बलादाहृता विवदेत्पुनरप्यस्तु पण इति ब्रूयात्. तत्रापि जिता द्विगुणं आयस्यएत्. ॥ २.३.१५ ॥

विश्रब्धस्य प्रमत्तस्य वाधरं अवगृह्य दशनान्तर्गतं अःनिर्गमं कृत्वा हसेदुत्क्रिशेत्तर्जयेद्वल्गेदाह्लयेत्प्रनर्तितत्भ्रूणा च विचलनयनेन मुखेन विहसन्तीतानि तानि च ब्रूयात्. इति चुम्बनद्यूतकलहः. ॥ २.३.१६ ॥

एतेन नखदशनच्छेद्यप्रहणनद्यूतकलहा व्याख्याताः. ॥ २.३.१७ ॥

चण्डवेगयोरेव त्वेषां प्रयोगः. तत्सात्म्यात्. ॥ २.३.१८ ॥

तस्यां चुम्बन्त्यां अयं अप्युत्तरं गृह्णीयात्. इत्युत्तरचुम्बितम्..२.३.२० ओष्ठसंदंशेनावगृह्याउष्ठद्वयं अपि चुम्बेत. इति संपुटकं स्त्रियाः पुंसो वाःजातव्यञ्जनस्य. ॥ २.३.१९ ॥

तस्मिन्नितरोऽपि जिह्वयास्या दशनान्घट्टयेत्तालु जिह्वां चेति जिह्वायुद्धम्. ॥ २.३.२१ ॥

एतेन बलाद्वदनरदनग्रहणं दानं च व्याख्यातम्. ॥ २.३.२२ ॥

समं पीडितं अञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थानविशेषयोगात्. इति चुम्बनविशेषाः. ॥ २.३.२३ ॥

सुप्तसय मुखं अवलोकयन्त्या स्वाभिप्रायेण चुम्बनं रागदीपनम्. ॥ २.३.२४ ॥

प्रमत्तस्य विवदमानस्य वान्यतोऽभिमुखस्य सुप्ताभिमुखस्य वा निद्राव्याघातार्थं चलितकम्. ॥ २.३.२५ ॥

चिररात्रावागतस्य शयनसुप्तायाः स्वाभिप्रायचुम्बनं प्रातिबोधकम्. ॥ २.३.२६ ॥

सापि तु भावजिज्ञासार्थिनी नायकस्यागमनकालं संलक्ष्य व्याजेन सुप्ता स्यात्. ॥ २.३.२७ ॥

आदर्शे कुड्ये सलिले वा प्रयोज्यायाश्छायाचुम्बनं आकारप्रदर्शनार्थं एव कार्यम्. ॥ २.३.२८ ॥

बालस्य चित्रकर्मणः प्रतिमायाश्च चुम्बनं संक्रान्तकं आलिङ्गनं च. ॥ २.३.२९ ॥

तथा निशि प्रेक्षणके स्वजनसमाजे वा समीपे गतस्य प्रयोज्याया हस्ताङ्गुलिचुम्बनं संविष्टस्य वा पादाङ्गुलिचुम्बनम्. ॥ २.३.३० ॥

संवाहिकायास्तु नायकं आकारयन्त्या निद्रावशादःकामाया इव तस्योर्वोर्वदनस्य निधानं ऊरुचुम्बनं चेत्याभियोगिकानि. ॥ २.३.३१ ॥

भवति चात्र श्लोकः. ॥ २.३.३२ ॥

व्कृते प्रतिकृतं कुर्याद्ताडिते प्रतिताडितम्. करणेन च तेनैव चुम्बिते प्रतिचुम्बितम्.. ॥ २.३.३२ ॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चुम्बनविकल्पास्तृतीयोऽध्यायः. ॥ २.३ ॥