कामसूत्रम्/अधिकरणम् २/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
← अधिकरणम् १/अध्यायः ५ कामसूत्रम्
अध्यायः १
वात्स्यायन:
अध्यायः २ →

शशो वृषोऽश्व इति लिङ्गतो नायकविशेषाः. नायिका पुनर्मृगी बडवा हस्तिनी चेति. ॥ २.१.१ ॥

तत्र सःदृशसंप्रयोगे समरतानि त्रीणि. ॥ २.१.२ ॥

विपर्ययेण विःषमाणि षट्. विःषमेष्वपि पुरुषाधिक्यं चेदनःअन्तरसंप्रयोगे द्वे उच्चरते. व्यवहितं एकं उच्चतररतम्. विपर्यये पुनर्द्वे नीचरते. व्यवहितं एकं नीचतररतं च. तेषु समानि श्रेष्ठानि. तरशब्दाङ्किते द्वे कनिष्ठे. शेषाणि मध्यमानि. ॥ २.१.३ ॥

साम्येऽप्युच्चाङ्कं नीचाङ्काज्ज्यायः. इति प्रमाणतो नवरतानि. ॥ २.१.४ ॥

यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यं अल्पं क्षतानि च न सहते स मन्दवेगः. ॥ २.१.५ ॥

तद्विपर्ययौ मध्यमचण्डवेगौ भवतः. तथा नायिकापि. ॥ २.१.६ ॥

तत्रापि प्रमाणवदेव नवरतानि. ॥ २.१.७ ॥

तद्वत्कालतोऽपि शीघ्रमध्यचिरकाला नायकाः. ॥ २.१.८ ॥

तत्र स्त्रियां विवादः. ॥ २.१.९ ॥

न स्त्री पुरुषवदेव भावं अधिगच्छति. ॥ २.१.१० ॥

सातत्यात्त्वस्याः पुरुषेण कण्डूतिरपनुद्यते. ॥ २.१.११ ॥

सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति तस्मिन्सुखबुद्धिरस्याः. ॥ २.१.१२ ॥

पुरुषप्रतीतेश्चानःअभिज्ञत्वात्कथं ते सुखं इति प्रष्टुं अःशक्यत्वात्. ॥ २.१.१३ ॥

कथं एतदुपलभ्यत इति चेत्पुरुषो हि रतिं अधिगम्य स्वेच्छया विरमति न स्त्रियं अपेक्षते न त्वेवं स्त्रीत्यौद्दालिकः. ॥ २.१.१४ ॥

तत्रैतत्स्यात्चिरवेगे नायके स्त्रियोऽनुरज्यन्ते शीघ्रवेगस्य भावं अनःआसाद्यावसानेऽभ्यसूयिन्यो भवन्ति. तत्सर्वं भावप्राप्तेरःप्राप्तेश्च लक्षणम्. ॥ २.१.१५ ॥

तच्च न. कण्डूतिप्रतीकारोऽपि हि दीर्घकालं प्रिय इति. एतदुपपद्यत एव. तस्मात्संदिग्धत्वादःलक्षणं इति. ॥ २.१.१६ ॥

व्संयोगे योषितः पुंसा कण्डूतिरपनुद्यते. तच्चाभिमानसंसृष्टं सुखं इत्यभिधीयते.. ॥ २.१.१७ ॥

सातत्याद्युवतिरारम्भात्प्रभृति भावं अधिगच्छति. पुरुषः पुनरन्त एव. एतदुपपन्नतरम्. न ह्यःसत्यां भावप्राप्तौ गर्भसंभव इति बाभ्रवीयाः. ॥ २.१.१८ ॥

तत्रापि तावेवाशङ्कापरिहारौ भूयः. ॥ २.१.१९ ॥

तत्रैतत्स्यात्ण् सातत्येन रसप्राप्तावारम्भकाले मध्यस्थचित्तता नातिःसहिष्णुता च. ततः क्रमेणाधिको रागयोगः शरीरे निरःअपेक्षत्वं अन्ते च विरामाभीप्सेत्येतदुपपन्नं इति. ॥ २.१.२० ॥

तच्च न. सामान्येऽपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्तावेव वर्तमानस्य प्रारम्भे मन्दवेगता ततश्च क्रमेण पूरणं वेगस्येत्युपपद्यते. धातुक्षयाच्च विरामाभीप्सेति. तस्मादनःआक्षेपः. ॥ २.१.२१ ॥

व्सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम्. धातुक्षयनिमित्ता च विरामेच्छोपजायते.. ॥ २.१.२२ ॥

तस्मात्पुरुषवदेव योषितोऽपि रसव्यक्तिर्द्रष्टव्या. ॥ २.१.२३ ॥

कथं हि समानायां एवाकृतावेकार्थं अभिप्रपन्नयोः कार्यवैलक्षण्यं स्यात्. ॥ २.१.२४ ॥

उपायवैलक्षण्यादभिमानवैलक्षण्याच्च. ॥ २.१.२५ ॥

कथं उपायवैलक्षण्यं तु सर्गात्. कर्ता हि पुरुषोऽधिकरणं युवतिः. अन्यथा हि कर्ता क्रियां प्रतिपद्यतेऽन्यथा चाधारः. तस्माच्चोपायवैलक्षण्यात्सर्गादभिमानवैलक्षण्यं अपि भवति. अभियोक्ताहं इति पुरुषोऽनुरज्यते. अभियुक्ताहं अनेनेति युवतिरिति वात्स्यायनः. ॥ २.१.२६ ॥

तत्रैतत्स्यादुपायवैलक्षण्यवदेव हि कार्यवैलक्षण्यं अपि कस्मान्न स्यादिति. तच्च न. हेतुमदुपायवैलक्षण्यम्. तत्र कर्त्राधारयोर्भिन्नलक्षणत्वादःहेतुमत्कार्यवैलक्षण्यं अन्याय्यं स्यात्. आकृतेरःभेदादिति. ॥ २.१.२७ ॥

तत्रैतत्स्यात्. संहत्य कारकैरेकोऽर्थोऽभिनिर्वर्त्यते. पृथक्पृथक्स्वार्थसाधकौ पुनरिमौ तदःयुक्तं इति. ॥ २.१.२८ ॥

तच्च न. युगपदनःएकार्थसिद्धिरपि दृश्यते. यथा मेषयोरभिघाते कपित्थयोर्भेदे मल्लयोर्युद्ध इति. न तत्र कारकभेद इति चेदिहापि न वस्तुभेद इति. उपायवैलक्षण्यं तु सर्गादिति तदभिहितं पुरस्तात्. तेनोभयोरपि सदृशी सुखप्रतिपत्तिरिति. ॥ २.१.२९ ॥

व्जातेरःभेदाद्दंपत्योः सःदृशं सुखं इष्यते. तस्मात्तथोपचर्या स्त्री यथाग्रे प्राप्नुयाद्रतिम्...२.१.३१ सःदृशत्वस्य सिद्धत्वात्कालयोगीन्यपि भावतोऽपि कालतः प्रमाणवदेव नव रतानि. ॥ २.१.३० ॥

रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः. संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः. ॥ २.१.३२ ॥

प्रमाणकालभावजानां संप्रयोगानां एकैकस्य नवविधत्वात्तेषां व्यतिकरे सुरतसंख्या न शक्यते कर्तुम्. अतिःबहुत्वात्. ॥ २.१.३३ ॥

तेषु तर्कादुपचारान्प्रयोजयेदिति वात्स्यायनः. ॥ २.१.३४ ॥

प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य तद्विपरीतं उत्तरेषु. योषितः पुनरेतदेव विपरीतम्. आ धातुक्षयात्. ॥ २.१.३५ ॥

प्राक्च स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोवादः. ॥ २.१.३६ ॥

व्मृदुत्वादुपमृद्यत्वान्निसर्गाच्चैव योषितः. प्राप्नुवन्त्याशु ताः प्रीतिं इत्याचार्या व्यवस्थिताः.. ॥ २.१.३७ ॥

वेतावदेव युक्तानां व्याख्यातं साम्प्रयोगिकम्. मन्दानां अवबोधार्थं विस्तरोऽतः प्रवक्ष्यते((७)). ॥ २.१.३८ ॥



सेच्तिओन्(प्रकरण)७



वभ्यासादभिमानाच्च तथा संप्रत्ययादपि. विषयेभ्यश्च तन्त्रज्ञाः प्रीतिं आहुश्चतुर्विधाम्.. ॥ २.१.३९ ॥

व्शब्दादिभ्यो बहिरःभूता या कर्माभ्यासलक्षणा. प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु.. ॥ २.१.४० ॥

वनःअभ्यस्तेष्वपि पुरा कर्मस्वःविषयात्मिका. संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी.. ॥ २.१.४१ ॥

व्प्रकृतेर्या तृतीयस्याः स्त्रियाश्चैवोपरिष्टके. तेषु तेषु च विज्ञेया चुमबनादिषु कर्मसु.. ॥ २.१.४२ ॥

व्नान्योऽयं इति यत्र स्यादन्यस्मिन्प्रीतिकारणे. तन्त्रज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका.. ॥ २.१.४३ ॥

व्प्रत्यक्षा लोकतः सिद्धा या प्रीतिर्विषयात्मिका. प्रधानफलवत्त्वात्सा तदर्थाश्चेतरा अपि.. ॥ २.१.४४ ॥

व्प्रीतीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः. यो यथा वर्तते भावस्तं तथैव प्रयोजयेत्((८)).. ॥ २.१.४५ ॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं प्रीतिविशेषा इति प्रथमोऽध्यायः. आदितः षष्ठः((९)). ॥ २.१ ॥