काठकसंहिता (विस्वरः)/स्थानकम् ३०

विकिस्रोतः तः
← स्थानकं २९ काठकसंहिता (विस्वरः)
स्थानकम् ३०
[[लेखकः :|]]
स्थानकं ३१ →
पात्नीवतम्

अथ त्रिंशं स्थानकम् ।

पात्नीवतम् ।
प्रजननं वै पात्नीवतो यद्वै किंच यज्ञे पात्नीवतं क्रियते प्रजननमेव तत् पराङ् वा एतर्हि यज्ञः पराचीर्देवतास्त्वाष्ट्रो भवति पराचीष्वेव देवतासु त्वष्टारं वृषाणमपिसृजति सोऽस्मै मिथुनं करोति वज्रो वा एष पुरस्तात् संमीयते यदेकादशिनी स ईश्वरः प्रत्यञ्चं यज्ञँ संपुरो यत् पात्नीवतो मीयते प्रत्युत्तब्ध्यै सयत्वाय मनोर्वै कपालान्यासँस्तैर्यावतो यावतोऽसुरानभ्युपाधात्ते पराभवन्नथ तर्हि त्रिष्टावरुत्री आस्तामसुरब्रह्मौ ता असुरा अब्रुवन्निमानि मनुकपालानि याचेथामिति तौ प्रातरित्वाना अभिप्रापद्येतां वायवेऽग्ना३इ वायव इन्द्रा३ इति किंकामौ स्थ इत्यब्रवीदिमानि नौ कपालानि देहीति तान्याभ्यामददात् तान्यरण्यं पराहृत्य समपिँष्टां तन्मनोर्गावोऽभिव्यतिष्ठन्त तान्यृषभस्समलेट् तस्य रुवतो यावन्तोऽसुरा उपाशृण्वँस्ते पराभवँस्तौ प्रातरित्वाना अभिप्रापद्येतां वायवेऽग्ना३इ वायव इन्द्रा३ इति किंकामौ स्थ इत्यब्रवीदनेन त्वर्षभेन याजयावेति तत् पत्नी यजुर्वदन्ती प्रत्यपद्यत तस्या द्यां वागातिष्ठत् तस्या वदन्त्या यावन्तोऽसुरा उपाशृण्वँस्ते पराभवँस्तस्मान्नक्तँ स्त्री चन्द्रतरं वदति तौ प्रातरित्वाना अभिप्रापद्येतां वायवेऽग्ना३इ वायव इन्द्रा३ इति किंकामौ स्थ इत्यब्रवीदनया त्वा पत्न्या याजयावेति सा पर्यग्निकृतासीदथेन्द्रोऽचायन्मनुँ श्रद्धादेवं त्रिष्टावरुत्री असुरब्रह्मौ जायया व्यर्धयत इति स आगच्छत् सोऽब्रवीदाभ्यां त्वा याजयानीति नेत्यब्रवीन्न वा अहमनयोरीश इत्यतिथिपतिर्वावातिथेरीश इत्यब्रवीत् ता अस्मै प्रायच्छत् स प्रतिवेशो वेदिं कुर्वन्नास्त ता अपृच्छतां कोऽसीति ब्राह्मण इति कतमो ब्राह्मण इति ॥
किं ब्राह्मणस्य पितरं किमु पृच्छसि मातरम् ।
श्रुतं चेदस्मिन् वेद्यँ स पिता स पितामहः ॥
इति ता अवित्तामिन्द्रो वा इति तौ प्रापततां तयोर्याः प्रोक्षणीराप आसँस्ताभिरनुविसृज्य शीर्षे अच्छिनत् तौ वृषश्च यवाषश्चाभवतां तस्मात् तौ वर्षेषु शुष्यतोऽद्भिर्हि हतौ तां पर्यग्निकृतामुदासृजत् तयार्ध्नोत् ता इमा मनाव्याः प्रजा यत् पर्यग्निकृतं पात्नीवतमुत्सृजति यामेव मनुर्ऋद्धिमार्ध्नोत् तामृध्नोति सँस्थाप्या३ न सँस्थाप्या३ इति मीमाँसन्ते स्रवति वै यज्ञोऽसँस्थितस्तँ स्रवन्तं यजमानोऽनु परास्रवति प्रजया च पशुभिश्च सँस्थाप्य एव यज्ञस्य प्रतिष्ठित्यै यदि सँस्थापयेद्यावन्ति पशोरवदानानि तावन्त्याज्यस्यावद्येदयातयामँ ह्येतत् प्राजापत्यं यदाज्यमयातयामो देवानां प्रजापतिस्तदेव सँस्थापयति तदु न सँस्थापयत्युभयमेव करोति ॥१॥

ऐन्द्रवायवाग्रा अग्रे गृह्यन्तेऽथ शुक्राग्रा अथाग्रायणाग्रा गायत्रो वा ऐन्द्रवायवस्त्रैष्टुभश्शुक्रो जागत आग्रायण एतावन्ति वै छन्दाँसि च्छन्दोभिर्देवास्स्वर्गं लोकमायँश्छन्दोभिरेव स्वर्गं लोकमेत्याग्रायणश्चतुर्थेऽहञ्जागतो वा आग्रायणो जगन्मुख एष त्रिरात्रो यदेव च्छन्द आप्नोति तेनोत्तरं त्रिरात्रं प्रतनुत ऐन्द्रवायवाग्राः पञ्चमेऽहन् गायत्रो वा ऐन्द्रवायवः प्राणो गायत्री प्राणमेव मध्यतो दधाति तस्मान्मध्यतः प्राणश्शुक्राग्राष्षष्ठेऽहँस्त्रैष्टुभो वै शुक्रस्त्रिष्टुबन्त एष त्रिरात्रोऽन्तमेवैनमभ्युदूहति शुक्राग्रा एव सप्तमेऽहँस्त्रैष्टुभो वै शुक्रस्त्रिष्टुम्मुख एष च्छन्दोमः प्रत्युत्तब्ध्यै सयत्वायाथो यदेव च्छन्द आप्नोति तेनोत्तरं त्रिरात्रं प्रतनुत आग्रायणाग्रा अष्टमेऽहञ्जागतो वा आग्रायणो जगन्मध्य एष च्छन्दोमश्छन्दसामेव व्यूहमनुव्यूहत्यैन्द्रवायवाग्राः प्रायणीय ऐन्द्रवायवाग्रा उदयनीये प्राणो वा ऐन्द्रवायवः प्राणेनैव प्रयन्ति प्राणेनोद्यन्ति प्राणा वै ग्रहास्तानेतन्मोहयति यद्व्यतिहारं गृह्णाति यदग्रान् यदग्रान् गृह्णीयात् तं धारयन्ना सादयितोरासीत प्राणा वै ग्रहाः प्राणानेवायतनश आपादयत्यथोत्तरं प्रसृता गृह्यन्त एवँ ह वै केशिनो दाल्भ्यस्य वँशव्रश्चने ग्रहाञ्जगृहुस्स होवाच लुशाकपिः खार्गलिः कथं ग्रहानग्रहीष्टेतीत्थमित्थमिति हास्मा ऊचुस्स होवाच त्र्यनीकमस्य प्रजा भविष्यतीति ततः पञ्चालास्त्रेधाभवन् यस्यैवं ग्रहा गृह्यन्ते त्र्यनीकमस्य प्रजा भवति॥२॥

ऐन्द्रवायवाग्रान् गृह्णीत यः कामयेत यथापूर्वं प्रजाभ्यः कल्पेतेति यज्ञस्य वै क्लृप्तमनु प्रजाभ्यः कल्पते यज्ञस्याक्लृप्तमनु न कल्पते यथापूर्वमेव प्रजाभ्यः कल्पयति न कनीयाञ्ज्यायाँसमतिक्रामत्यैन्द्रवायवाग्रान् गृह्णीयादामयाविनः प्राणेन वा एष व्यृध्यते यस्यामयति प्राण ऐन्द्रवायवः प्राणेनैवैनँ समर्धयति मैत्रावरुणाग्रान् गृह्णीरन् येषां दीक्षितानां प्रमीयेत प्राणापानाभ्यां वा एते व्यृध्यन्ते येषां दीक्षितानां प्रमीयते प्राणापानौ वै मित्रावरुणौ प्राणापाना एव मुखतः परिहरन्ते तस्मान्मुखतः प्राणापाना आश्विनाग्रान् गृह्णीतानुजावरोऽश्विनौ वै देवानामानुजावरौ ता अग्रं पर्यैतामश्विना एतस्य देवता य आनुजावरस्ता एवान्वारभते ता एनमग्रं परिणयतः शुक्राग्रान् गृह्णीत गतश्रीरसौ वा आदित्यश्शुक्र एषोऽन्तोऽन्तं मनुष्यश्श्रियो गत्वा निवर्ततेऽन्तादेवान्तमालभते न ततः पापीयान् भवति यादृङ् सन् यजते मन्थ्यग्रान् गृह्णीताभिचरन्नार्तपात्रं वा एतद्यन्मन्थिपात्रं मृत्युनैवैनं ग्राहयत्युक्थ्याग्रान् गृह्णीताभिचर्यमाणस्सर्वेषां वा एतत् पात्राणामिन्द्रियं वीर्यं यदुक्थ्यपात्रँ सर्वेणैवैनमिन्द्रियेणातिप्रयुङ्क्ते ॥
मा त्वत्क्षेत्राण्यरणानि गन्म मापस्फरीः पयसा मा न आधक् ।
मा वयमेनोऽन्यकृतं भुजेम सरस्वत्यभि नो नेषि वस्यः॥
इति मृत्योर्वै क्षेत्राण्यरणानि तेनैव मृत्योः क्षेत्राणि न गच्छत्याग्रायणाग्रान् गृह्णीत यस्य पिता पितामहः पुण्यस्स्यादथ तन्न प्राप्नुयाद्वाचा वा एष इन्द्रियेण व्यृध्यते यस्य पिता पितामहः पुण्यो भवत्यथ तन्न प्राप्नोत्युर इवैतद्यज्ञस्य वागिव यदाग्रायणो वाचैवैनमिन्द्रियेण समर्धयति पूर्णान् ग्रहान् गृह्णीयादामयाविनः प्राणान् वा एतस्य शुगृच्छति यस्यामयति प्राणा ग्रहाः प्राणानेवास्य शुचो मुञ्चति पूर्णान् ग्रहान् गृह्णीयाद्यर्हि पर्जन्यो न वर्षेत् प्राणान् वा एतर्हि प्रजानाँ शुगृच्छति यर्हि पर्जन्यो न वर्षति प्राणा ग्रहाः प्राणानेव प्रजानाँ शुचो मुञ्चति ताजक् प्रवर्षति ॥३॥

क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्तु ॥
उपयामगृहीतोऽस्यदित्यै त्वा चतुरूध्न्यै ।।
उदीरयत मरुतस्समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः ।
न वो दस्रा उपदस्यन्ति धेनवश्शुभं यातामनु रथा अवृत्सत ॥
उपयामगृहीतोऽस्यदित्यै त्वा चतुरूध्न्यै ॥
महीमू षु मातरँ सुव्रतानामृतस्य पत्नीमवसे हुवेम ।
तुविक्षत्रामजरन्तीमुरूचीँ सुशर्माणमदितिँ सुप्रणीतिम् ॥
 उपयामगृहीतोऽस्य दित्यै त्वा चतुरूध्न्यै ॥ एष ते योनिरदित्यै त्वा चतुरूध्न्यै ॥ वृष्टिर्वै देवेभ्योऽपाक्रामत् सैषु लोकेष्वश्रयत तां देवा अन्वेष्टुमध्रियन्त त एतं ग्रहमपश्यँस्तमगृह्णत तेनैभ्यो लोकेभ्यो वृष्टिँ संप्राच्यावयँस्तमेतं वृष्टिकामो गृह्णीत क्षेत्रस्य पते मधुमन्तमूर्मिमित्यसौ वै क्षेत्रस्य पतिरमुतो वर्षत्युदीरयत मरुतस्समुद्रत इति मरुतस्सृष्टां वृष्टिं नयन्ति महीमू षु मातरँ सुव्रतानामितीयमदितिरस्यां वर्षत्येता वै देवता वर्षस्येशते ता एवोपधावत्येभ्य एव लोकेभ्यो वृष्टिँ संप्रच्यावयति चतुस्स्तनं पात्रं भवति चतस्रो दिशो दिग्भ्य एव वृष्टिँ संप्रच्यावयति यं प्रथमँ स्तनमनुपद्यते तस्या दिशोऽभ्येतद्वर्षत्यपि पात्रे क्रियमाणे वर्षति मृन्मयेन गृह्णाति दारुमयेण जुहोति न हि मृन्मयमाहुतिमानशे ॥४॥

उपयामगृहीतोऽसि प्रजापतये त्वा प्रजाभ्य एष ते योनिः प्रजापतये त्वा प्रजाभ्य उपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतय एष ते योनिः प्रजाभ्यस्त्वा प्रजापत उपयामगृहीतोऽस्यन्तरिक्षाय त्वा वनस्पतिभ्य एष ते योनिरन्तरिक्षाय त्वा वनस्पतिभ्य उपयामगृहीतोऽसि वनस्पतिभ्यस्त्वान्तरिक्षायैष ते योनिर्वनस्पतिभ्यस्त्वान्तरिक्षायोपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्य एष ते योनिरद्भ्यस्त्वौषधीभ्य उपयामगृहीतोऽस्योषधीभ्यस्त्वाद्भ्य एष ते योनिरोषधीभ्यस्त्वाद्भ्यः॥
उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
उपयामगृहीतोऽसि सूर्याय त्वैष ते योनिस्सूर्याय त्वा ॥
वाचस्पतिं विश्वकर्माणमूतये मनोयुजं वाजे अद्या हुवेम।
स नो नेदिष्ठँ हवनान्यागमद्विश्वशम्भूरवसे साधुकर्मा ।
उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मणे ॥
महीमू षु मातरँ सुव्रतानामृतस्य पत्नीमवसे हुवेम।
तुविक्षत्रामजरन्तीमुरूचीँ सुशर्माणमदितिँ सुप्रणीतिम् ।।
उपयामगृहीतोऽस्यदित्यै त्वैष ते योनिरदित्यै त्वा ॥ संततिर्वा एते ग्रहा यथा वै शालैवँ संवत्सरो यथा शालायाः पक्षसी एवँ संवत्सरस्य पक्षसी यथा मध्यमो वँश एवं दिवाकीर्त्यं यदेते न गृह्येरन् विषूची संवत्सरस्य पक्षसी व्यवस्रँसेयातामार्तिमार्छेयुर्यदेते गृह्यन्ते यथा शालायाः पक्षसी मध्यमं वँशमभिसमायच्छन्त्येवमेवैतत् संवत्सरस्य पक्षसी दिवाकीर्त्यमभिसंतन्वन्ति ते सर्वे सह दिवाकीर्त्ये गृह्यन्ते यथा वै मध्यमो वँश एवं दिवाकीर्यंमभ यद्वै सौबलस्स्यादवशीर्येत ॥ यदेते न गृह्यन्ते द्रढिम्न एवानुनद्ध्या अशिथिलत्वाय शुक्राग्रा एतदहर्गृह्यन्ते त्रैष्टुभो वै शुक्रस्त्रैष्टुभमेतदहः प्रत्युत्तब्ध्यै सयत्वाय सौर्य एतदहः पशुरालभ्यते सौर्यो ग्रहो गृह्यतेऽसौ वा आदित्य एतदहस्तमेव प्रत्यक्षमृध्नुवन्ति षडेतदहरतिग्राह्या गृह्यन्ते पशुस्सप्तमस्सप्त प्राणा असा आदित्यश्शिरः प्रजानाँ शीर्षन्नेव प्राणान् दधाति तस्मात् सप्त शीर्षण्याः प्राणा इन्द्रो वै वृत्रँ हत्वा स इमांल्लोकानभ्यजयत् तस्यासौ लोकोऽनभिजित आसीत् तं विश्वकर्मा भूत्वाभ्यजयद्यद्वैश्वकर्मणो गृह्यतेऽमुष्य लोकस्याभिजित्यै यन्ति वा एतेऽस्माल्लोकाद्ये वैश्वकर्मणं गृह्णते पराञ्च इव ह्येते न रोहन्ति त ईश्वराः प्रमेतोरादित्यँ श्वो गृह्णीरन्नियमदितिरस्यामेव तेन प्रतितिष्ठन्त्या परार्धात् संवत्सरस्यान्यमन्यं गृह्णीरन् विश्वान्यन्येन कर्माणि कुर्वाणा यन्त्यस्यामन्येन प्रतितिष्ठन्ति ता उभौ सह महाव्रते गृह्येते अन्तमेवागत्योभयोर्लोकयोर्ऋध्नुवन्ति वैश्वकर्मणेनामुष्मिन्नादित्येनास्मिन्नर्क्यमुक्थं भवत्यन्नं वा अर्क्यमन्नाद एव तेन प्रतितिष्ठन्ति ॥५॥

अग्नये त्वा प्रवृहामि गायत्रेण च्छन्दसेन्द्राय त्वा प्रवृहामि त्रैष्टुभेन च्छन्दसा विश्वेभ्यस्त्वा देवेभ्यः प्रवृहामि जागतेन च्छन्दसा ॥
अग्निः प्रातस्सवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः ।
स नः पावको द्रविणं दधात्वायुष्मन्तस्सहभक्षास्स्याम ॥
विश्वे देवा मरुत इन्द्रो अस्मानस्मिन् द्वितीये सवने न जह्युः ।
सुमेधसः प्रियमेषां वदन्तो वयँ स्याम पतयो रयीणाम् ॥
इदं तृतीयसवनं कवीनामृतेन ये चमसमैरयन्त ।
सौधन्वना अमृतमानशानास्स्विष्टं नोऽभि वस्यो नयन्तु ॥
शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपे सूर्यस्य रश्मिषु रेशीनां त्वा पत्मन्नाधूनोमि मान्दानां त्वा पत्मन्नाधूनोमि कृतनानां त्वा पत्मन्नाधूनोमि भन्दनानां त्वा पत्मन्नाधूनोमि देवयानीनां त्वा पत्मन्नाधूनोमि ॥
आ सीमुग्रा अचुच्यवुर्दिवो धारामसश्चत । ककुभं रूपमृषभस्य रोचते बृहत् ॥
सोमस्सोमस्य पुरोगाश्शुक्रश्शुक्रस्य पुरोगा यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ॥ त्रिर्वसुभ्यो अवपथास्त्री रुद्रेभ्यो अवपथास्त्रिरादित्येभ्यो अवपथा येन रूपेण प्रजापतयेऽवपथास्तेन मह्यं पवस्वोशिक्त्वं देव सोम गायत्रेण च्छन्दसाग्नेः पाथ उपेहि वशी त्वं देव सोम त्रैष्टुभेन च्छन्दसेन्द्रस्य पाथ उपेह्यस्मत् सखा देव सोम जागतेन च्छन्दसा विश्वेषां देवानां पाथ उपेहि ॥६॥

देवाश्च वा असुराश्च समावदेव यज्ञेऽकुर्वत यदेव देवा अकुर्वत तदसुरा अकुर्वत ते देवा एतमदाभ्यमपश्यँस्तमगृह्णतामग्नये त्वा प्रवृहामि गायत्रेण च्छन्दसेति देवताश्चैव तच्छन्दाँसि चाप्नुवनग्निः प्रातस्सवने पात्वस्मानिति सवनान्येव तदाप्नुवँश्छुक्रं ते शुक्रेण गृह्णामीत्यहोरात्रयोरेव तद्रूपे आप्नुवन् रेशीनां त्वा पत्मन्नाधूनोमीत्यपामेव तद्रूपाण्याप्नुवँस्ते देवा यावानेव यज्ञस्तं परिगृह्याजुहवुस्तँ हुतमसुरा अन्वबुध्यन्त तेऽब्रुवन्नदभन्न इति तदस्यादाभ्यत्वमथो यदेनान् दब्धुं नाशक्नुवँस्तदस्यादाभ्यत्वँ स एष भ्रातृव्यस्यैव दब्ध्यै गृह्यते ॥ निग्राभ्याणां गृह्णाति सोमो वै दध्नो गृह्णाति सोमो हि दधि चतुस्स्रक्ति पात्रं भवति चतस्रो दिशो दिक्ष्वेव प्रतितिष्ठति घ्नन्ति वा एतत् सोमं यदभिषुण्वन्ति तस्यैषातिमोक्षिणी तनूर्यदादाभ्यस्तामेवान्वहताँ हतस्वर्गं लोकमभ्यतिमुच्यते तदनु यजमानो यज्ञात् सा हि यजमानस्स ह त्वा अमुष्मिंल्लोके सर्वतनूर्यस्यैष गृह्यते वि वा एतद्यज्ञं छिनत्ति यत् पुराभिषोतोस्सँस्थां गमयति यदँशूननभिषुतानपिसृजति यज्ञस्य संतत्या अविच्छेदाय ॥ न सामानुक्थोऽग्रहोऽस्तीत्याहुरनायतनस्स इति त्रिर्वसुभ्यो अवपथा इत्येतदुक्थमेषाशीर्गौरिवीतँ साम देवा वै यद्ब्रह्म व्यभजन्त ततो यदत्यरिच्यत तद्गौरिवीतमभवदतिरिक्तं वै गोरिवीतमतिरिक्ता अतिग्राह्या अतिरिक्तेनैवातिरिक्तमाप्नोति यत्र गोरिवीतँ साम स्यात् तदपि बहूनतिग्राह्यान् गृह्णीयात् तेनैवैनान् सामवत उक्थवतो निदानवत आयतनवतः करोति निदानवानायतनवान् भवति य एवं वेद॥७॥

प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः। ता अस्मै प्रतिवेदय चिकित्वाँ अनुमन्यताम्॥
पशुपतेः पशवो विरूपास्सदृशा उत । तेषां यं वव्रिरे देवास्तँ स्वराडनुमन्यताम् ॥
प्रजानन्तः प्रतिगृह्णन्ति पूर्वे प्राणमङ्गेभ्यो अधिनिश्चरन्तम् ।
हुतो याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः ॥
ये बध्यमानमनुबध्यमाना अन्वैक्षन्त मनसा चक्षुषा च ।
अग्निष्टाँ अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संविदानः ।।
य आरण्याः पशवो विश्वरूपा विरूपास्सन्तो बहुधैकरूपाः।
वायुष्टाँ अग्रे प्रमुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥
येषामीशे पशुपतिः पशूनां चतुष्पाद उत ये द्विपादः ।
निष्क्रीतास्ते यज्ञियं भागं यन्तु रायस्पोषा यजमानं विशन्तु ॥
प्रमुञ्चमाना भुवनस्य रेतो गातुं धत्त यजमानाय देवाः ।
उपाकृतँ शशमानं यदस्थात् प्रियं देवानामप्येतु पाथः ॥
नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिस्सह देवयानः।
सम्यगायुर्यज्ञो यज्ञपतौ दधातु ॥
उपेत शमितारो देवानां दसितँ हविः । पशोः पाशं प्रमुञ्चत पाशं यज्ञपतेरधि ।।
अदितिः पाशान् प्रमुमोक्त्वेतान्नमः पशुभ्यः पशुपतयेऽस्तु ।
यो नो द्वेष्ट्यधरस्स पदीष्ट तस्मिन् पाशान् प्रतिमुञ्चाम एतान् ।।
त्वामु त्ये दधिरे प्रथमं विचक्ष्यँ शृतंकर्तारमुत यज्ञियं च ।
अग्ने सदक्षस्सतनूर्हि भूत्वाथ वह हव्यं देवेभ्यो जातवेदः ॥
जातवेदो वपया गच्छ देवाँस्त्वँ हि होता प्रथमो बभूथ ।
घृतस्याग्ने तन्वा संभव सत्यास्सन्तु यजमानस्य कामाः ॥८॥

प्रजापतेर्वै पशवो जाताश्च जायमानाश्च रुद्रस्य जाता व्यृद्धेन वा एष पशुना चरति य एतयोस्सन्तं पशुं तमनिर्याच्यैतयोरालभते ययोरेव पशुस्तयोरेवैनं निर्याच्य तेनानुमतेन प्रसूतेनर्ध्नोत्येव जीवन् पशुस्स्वर्गं लोकं गमयितव्य इत्याहुर्न मृतस्स्वर्गं लोकं गन्तुमर्हतीति प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति जीवन्तमेवैनँ स्वर्गं लोकं गमयति ये च वै ग्राम्याः पशवो ये चारण्यास्त एतमालभ्यमानमनुध्यायन्ति स ईश्वरो यजमानोऽपशुः पराभवितोर्ये बध्यमानमनुबध्यमाना य आरण्याः पशवो विश्वरूपा इति पशूनामेवैषा संप्रमुक्तिः पञ्चैतानि जुहोति पाङ्क्ताः पशवो यावानेव पशुस्तँ स्वर्गं लोकं गमयति ॥ यदवघ्रापयति तमेव निर्दिष्टमालभते पशुर्वै यज्ञो यज्ञात् स यजमान एतत् पशुमालभत इत्याहुः क्वैतर्हि यजमानो भवतीति नाना प्राणो यजमानस्य पशुनेति प्राणा एवैनयोर्व्यावर्तयति यज्ञेन वा एनमेतद्व्यर्धयति यन्नाना प्राण इत्याह सम्यगायुर्यज्ञो यज्ञपतौ दधात्विति यज्ञेनैवैनँ समर्धयत्यधिरज्जू वा एता अमुष्मिंल्लोके पशुश्च यजमानश्च ययोरेतेन पाशं न प्रमुञ्चत्युपेत शमितारो देवानां दसितँ हविः पशोः पाशं प्रमुञ्चत पाशं यज्ञपतेरधीति पाशमेवैनयोः प्रमुञ्चति वरुणपाशँ स ह त्वा अमुष्मिंल्लोकेऽपरज्जुर्यस्यैवं क्रियते यद्यभिचरेद्यो नो द्वेष्ट्यधरस्स पदीष्ट तस्मिन् पाशान् प्रतिमुञ्चाम एतानिति स्तम्भं वा दारु वाभिदध्यात् पाशमेवास्मिन् प्रतिमुञ्चति वरुणपाशमाहवनीयं वा एतद्व्यर्धयति यत् पशुश्रपणं करोति त्वामु त्ये दधिरे प्रथमं विचक्ष्यमिति मेध्यमेवैनं यज्ञियं करोति जातवेदो वपया गच्छ देवानिति स्वर्गमेवैनं लोकं गमयति यद्यद्वा ऋषीणां च देवानां च यज्ञस्यापूतमासीत् तदेतैरपुनत यदेवास्य यज्ञस्यापूतं तदेतैः पुनीत आव्यं वा एतैस्तेऽपाजयँस्तदपाव्यानामपाव्यत्वमाव्यमेवैतैरपजयति ॥९॥
 
तृतीयस्यां वै दिवि सोम आसीत् तं गायत्र्याहरत् तस्य पर्णमच्छिद्यत स पर्णोऽभवत् तत् पर्णस्य पर्णत्वं तस्मात् सर्वे वृक्षाः पर्णवन्तोऽथैष एव पर्ण उच्यते यत् पर्णशाखा भवति तमेव सोममवरुन्द्धे देवा वै ब्रह्मन् समवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नामैष न बधिरो भवति य एवं वेद यत् पर्णशाखया प्रार्पयति ब्रह्मणैवैनाः प्रार्पयति प्रजापतिः पशूनसृजत तानयं देवोऽभ्यमन्यत तँ शम्याशमयत् तच्छम्याश्शमीत्वं यच्छमीशाखया प्रार्पयति शान्त्या अपां वा एतदोषधीनां तेजो यद्दर्भा यद्दर्भपिञ्जूलैः प्रार्पयत्यपामेवैना ओषधीनां तेजसा प्रार्पयतीषे त्वोर्ज इतीषमेवोर्जं यज्ञे दधाति वायवस्स्थैति वायुर्वा अन्तरिक्षस्याध्यक्षोऽन्तरिक्षदेवत्याः पशवो वायुरेवैनानन्तरिक्षाय परिददाति प्र वा एनानेतदाकरोति यद्वायवस्स्थेत्याहारण्यस्येव हि वायुरुपायवस्स्थेति यजमानायैव पशूनपाकरोति देवो वस्सविता प्रार्पयत्विति प्रसूत्यै श्रेष्ठतमाय कर्मण इति यज्ञो वै श्रेष्ठतमं कर्माप्यायध्वमघ्न्या देवभागमिति वत्सेभ्यश्च वा एता मनुष्येभ्यश्च पुराप्यायन्तेऽथैतर्हि देवेभ्य एवैना आप्याययति प्रजावतीरनमीवा अयक्ष्मा इति प्रावतीरेवैना अनमीवा अयक्ष्माः करोति । मा वस्स्तेन ईशत माघशँस इत्याशिषमेवाशास्ते परि वो रुद्रस्य हेतिर्वृणक्त्विति रुद्रमेव पशुभिः परिवृणक्त्यघातुकोऽस्य रुद्रः पशून् भवति यस्यैवं विदुषो यश्चैवं विद्वान् हविषे गाः प्रार्पयति ध्रुवा अस्मिन् गोपतौ स्यातेति दृँहत्येवैना बह्वीरिति भूमानमेवैना गमयति यजमानस्य पशून् पाहीति यजमानस्य पशूनां गोपीथाय प्रतीचीँ शाखामुपगूहति तस्माद्ग्राम्याः पशवस्सायमारण्याद्ग्राममायन्ति यत् पराचीमुपगूहेदरण्ये हीयेरन् ॥१०॥ [२०५३]

॥ इत्येकोत्तरशतशाखाध्वर्युप्रभेदभिन्ने श्रीयजुषि काठके चरकशाखायां मध्यमिकायां पात्नीवतं नाम त्रिंशं स्थानकं संपूर्णम् ॥३०॥

॥ संपूर्णा चेयं मध्यमिका ॥