काठकसंहिता (विस्वरः)/स्थानकम् ३१

विकिस्रोतः तः
Jump to navigation Jump to search
← स्थानकं ३० काठकसंहिता (विस्वरः)
स्थानकम् ३१
[[लेखकः :|]]
स्थानकं ३२ →
पुरोडाश-ब्राह्मणम्

अथ ओरिमिका।

अथैकत्रिंशं स्थानकम्।

पुरोडाश-ब्राह्मणम् ।
प्रजापतिर्वा ओषधीः परुश्शो वेद प्राजापत्योऽश्वो यदश्वपर्श्वा बर्हिर्दात्योषधीनामहिंसायै देवस्य त्वा सवितुः प्रसव इति सवितृप्रसूत एवैनां देवताभिरादत्ते गोषदसीति रयिमेव यजमाने दधाति प्रत्युष्टं रक्ष इति यज्ञमुखादेव रक्षाँस्यपहन्ति प्रेयमगाद्धिषणा बर्हिरच्छेति विद्या वै धिषणा विद्ययैवैनदच्छैति मनुना कृता स्वधया वितष्टेति मनुना ह्येषा कृता स्वधया वितष्टोर्वन्तरिक्षं वीहीति समष्ट्या इन्द्रस्य परिषूतमसीति यद्वा इदं किंच तदिन्द्रस्य परिषूतं यथा श्रेयसे प्रोच्य कर्म करोत्येवमेवैतदिन्द्राय प्रोच्य बर्हिर्दाति यावत् परिदिशति यत् तत् सर्वं न दाति यज्ञस्य तदतिरिच्यते यद्वै यज्ञस्यातिरिच्यते भ्रातृव्यं तेन वर्धयत्येकँ स्तम्बं परिदिशेत् तँ सर्वं दायाद्यज्ञस्यानतिरेकाय यत् सर्वं दायान्न पशुभ्यो जीवनमुच्छिँषेदेकां वा श्नुष्टिं द्वे वोच्छिँषेन्न यज्ञस्यातिरेचयत्युत्पशुभ्यो जीवनँ शिँषति माधो मोपरि परुस्त ऋध्यासमित्यृद्ध्या आच्छेत् ता ते मा रिषदिति यावद्यावद्वा अविद्वानध्वर्युर्बर्हिषो दाति तावदस्यात्मनो मीयते नास्यात्मनो मीयते य एवं वेद देव बर्हिश्शतवल्शं विरोहेत्योषधिष्वेव भूमानं दधाति सहस्रवल्शा वि वयं रुहेमेत्याशिषमेवाशास्तेऽदित्या रास्नासीतीयमदितिरस्या एवैनद्रास्नां करोतीन्द्राण्यास्संनहनमितीन्द्राणी वा अग्रे देवतानाँ समनह्यत सार्ध्नोदृद्ध्यै बर्हिस्संनह्यति प्रजा वै बर्हिः प्रजानामपरावापाय तस्मात् स्नाव्ना प्रजास्संतताः ॥ पूषा ते ग्रन्थिं ग्रथ्नात्विति पुष्टिर्वै पूषा पुष्टिमेव यजमाने दधाति स ते मास्थादित्यहिँसाया इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इतीन्द्रस्यैवैनद्बाहुभ्यामुद्यच्छते बृहस्पतेस्त्वा मूर्ध्नाहरामीति ब्रह्म वै बृहस्पतिर्ब्रह्मणेवैनद्धरति देवंगममसीति बहु वा एतस्य पूर्वेद्युराह्रियमाणस्य स्कन्दत्यस्कन्नमेवैनद्देवेभ्यस्संप्रयच्छति तदाहरन्ति कवयः पुरस्तादिति ब्राह्मणा वै कवयो ब्राह्मणा ह्येतदाहरन्ति देवेभ्यो जुष्टमिह बर्हिरासद इति देवेभ्य एवैनज्जुष्टं करोति ॥१॥

वसोः पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारमिति वसूनां वा एतद्भागधेयं यत् पवित्रं तेभ्य एवैनं करोति प्रजापतिः प्रजा असृजत तस्योखे अस्रँसेताँ स एते उखे अपश्यत् ताभ्यामादत्त यदेते उखे भवतः प्रजापतेरेवोखे प्रतिदधात्ययक्ष्मा वः प्रजया सँसृजामीत्ययक्ष्मा एवैनाः करोति रायस्पोषेण बहुला भवन्तीरिति भूमानमेवैना गमयति मधुमद् घृतवत् पिन्वमाना इति मधुमदेव घृतवद्देवेभ्यो हव्यं करोति जीवा जीवन्तीरुप वस्सदेमेत्याशिषमेवाशास्ते ॥ मातरिश्वनो घर्मोऽसीत्यन्तरिक्षं वै मातरिश्वनो घर्मो द्यौरसि पृथिव्यसीति दिवमेवैनां पृथिवीमकर्विश्वधायाः परेण धाम्नाह्रुतासि मा ह्वारिति दृँहत्येवैनां पवित्रमपिदधात्योषधीनां चैव पशूनां च पयस्सँसृजति सा विश्वायुस्सा विश्वव्यचास्सा विश्वधाया इत्यसौ वै विश्वायुरन्तरिक्षं विश्वव्यचा इयं विश्वधाया इमानेव लोकान् यथापूर्वं प्रदापयतीमेऽस्मै लोका यथापूर्वं प्रत्ता दुह्रे तिस्रो यजुषाभिमन्त्रयते त्रय इमे लोका एष्वेव लोकेषु रसं दधाति तस्मादिमांल्लोकान् प्रजा उपजीवन्त्युपजीवनीयो भवति य एवं वेद ॥ हुतस्स्तोको हुतो द्रप्स इत्यनुमन्त्रयतेऽस्कन्दायाग्नये बृहते नाकाय स्वाहेतीयं वा अग्निर्बृहन्नाको बहु वा एतस्य दुह्यमानस्य स्कन्दत्यस्यामेवैनत् प्रतिष्ठापयत्यस्कन्दाय न दारुपात्रेण दुह्यादग्निमद्वै दारुपात्रं यातयामेन हविषा यजेत तदु ह स्माहुर्दार्तेयाः पुरोडाशमुखं वै हविर्न वा इत इतः पुरोडाशँ हविषो यामोऽस्ति दोग्धव्यमेवेति न शूद्रो दुह्यादसतो वा एष संभूतोऽसत् स्याद्यद्वाव पवित्रमत्येति तद्धविरग्निहोत्रमेव शूद्रो न दुह्यात् तद्धि नोत्पुनन्ति संपृच्यध्वमृतावरीरिति प्रत्यानयति शृतत्वाय शृतकामा हि देवाः ॥ इन्द्रस्य त्वा भागँ सोमेनातनच्मीति सोममेवैनं करोति सोमो वै देवानां परोक्षँ सान्नाय्यं तस्य ह वै सोमपीथस्संततो य एवं विद्वान् सान्नाय्येन यजतेऽदस्तमसि विष्णव इति यज्ञो वै विष्णुर्यज्ञायैवैनददस्तं करोति न मृत्पात्रेणापिदध्याद्यन्मृत्पात्रेणापिदध्यात् पितृदेवत्यँ हविस्स्याद्दारुपात्रेणापिदधात्यग्निमद्वै दारुपात्रमग्निरेव हव्यं रक्षत उदन्वत् कुर्यादापो रक्षोघ्नी रक्षसामपहत्यै विष्णो हव्यं रक्षस्वेति विष्णुरेव हव्यं रक्षत आपो जागृतेत्यापो वै यज्ञस्य गोप्त्रीस्ताभ्य एवैनत् परिददाति ॥२॥

अपः प्रणयत्यापो वै यज्ञो यज्ञमेव तत्वा प्रचरत्यापो देवानां प्रियं धाम देवानामेव प्रियं धाम प्रणीय प्रचरत्यापो रक्षोघ्नी रक्षसामपहत्या आपो वज्रो वज्रमेव भ्रातृव्याय प्रहरत्यापश्श्रद्धा श्रद्ध वा अस्मै देवाश्श्रन्मनुष्या दधते यस्यैवं विदुषो यस्यैवं विद्वानपः प्रणयति कर्मणे वामिति हस्ता अवनेनिक्ते कर्म ह्येतत् क्रियते वानस्पत्यमसि प्रत्युष्टं रक्ष इति यज्ञमुखादेव रक्षाँस्यपहन्त्युर्वन्तरिक्षं वीहीति समष्ट्यै धूरसि धूर्व धूर्वन्तमिति धुर्यो वा एषोऽग्निर्यदनालभ्यातीयाद्यजमानँ शुचार्पयेद् द्वौ वै पुरुषस्य भ्रातृव्यौ यं च द्वेष्टि यश्चैनं द्वेष्टि ता एवास्य शुचार्पयति ॥ देवानामसि वह्नितममिति देवेभ्य एवैनद्वह्नि करोति विष्णोः क्रमोऽस्यह्रुतमसि हविर्धानं दृँहस्व मा ह्वारिति दृँहत्येवैनन्मित्रस्य त्वा चक्षुषा प्रेक्ष इति मित्रमेवैनत् कुरुत उरु त्वा वातायेति यद्वै किं च वातो नाभिवाति तद्वरुणस्यावरुण्यमेवैनत् देवस्य त्या सवितुः प्रसव इति सवितृप्रसूत एवैनद्देवताभ्यो निर्वपत्यमुष्मै जुष्टमिति यस्या एव देवतायै निर्वपति तस्या एनज्जुष्टं करोति यच्छन्तु त्वा पञ्चेति पञ्च वा ऋतव ऋतूनेव प्रीणाति तेऽस्मै प्रीताः कल्पन्ते कल्पन्तेऽस्मा ऋतवो य एवं वेद ॥ रक्षायै त्वा नारात्या इति रक्षसामपहत्या इदं देवानामिदं नस्सहेति व्यावृत्त्यै स्वरभिव्यख्यमिति तम इव वा एष प्रपद्यते परीणहँ स्वरेवाभिविपश्यतीमे वै लोका हविषो गृहीतादुदवेपन्त तान् देवा एतेन यजुषादृँन् दृँहन्तां दुर्या इतीमानेव लोकान् दृँहत्युर्वन्तरिक्षं वीहीति ब्रूयाद्व्यायुकोऽध्वर्युस्स्यादुर्वन्तरिक्षं प्रेहीत्यव्यायुकोऽध्वर्युर्भवति य एवं वेदाग्ने हव्यं रक्षस्वेत्युपसादयत्यग्निरेव हव्यं रक्षते ॥३॥

विष्णोर्मनसा पूते स्थ इति पुनात्येवैने देवो वस्सवितोत्पुनात्विति सवितृप्रसूत एवैना देवताभिरुत्पुनाति देवस्य त्वा सवितुः प्रसव इति सवितृप्रसूत एवैनद्देवताभ्यः प्रोक्षत्यमुष्मै जुष्टमिति यस्या एव देवतायै प्रोक्षति तस्या एनज्जुष्टं करोति शुन्धन्तां पात्राणि देवयज्याया इति देवेभ्य एवैतानि शुन्धत्यवधूतं रक्षोऽवधूतारातिरिति रक्षसामपहत्या अदित्यास्त्वगसीतीयमदितिरस्या एवैनत् त्वचं करोत्यधिषवणमसि वानस्पत्यमित्यधिषवणमेवैनत् करोत्यग्नेस्तनूरसि वाचो विसर्जनमित्यग्नेर्ह्येषा तनूर्वाचो विसर्जनं यदा हि पशव ओषधीरश्नन्त्यथ वाचं विसृजन्ते बृहद्ग्रावासि वानस्पत्य इति ग्रावाणमेव कृत्वा हविष्करोति हविष्कृदेहीति य एव देवानाँ हविष्कृत्तँ ह्वयति त्रिर्ह्वयति त्रिसत्या हि देवा अद्रिरसि श्लोककृदपहतं रक्षोऽपहतारातिरिति रक्षसामपहत्यै वयँ संघातँ संघातं जयेमेति संघातँ संघातमेव भ्रातृव्यं जयति ॥ मनोर्वै श्रद्धादेवस्य यजमानस्यासुरघ्नी वाग्यज्ञायुधानि प्रविष्टासीत् तेषां यावन्तोऽसुरा उपाशृण्वँस्ते पराभवन् य एवं विद्वान् भ्रातृव्याणां मध्येऽवसाय यजेत यावन्तोऽस्य भ्रातृव्या यज्ञायुधानामुपशृण्वन्ति तेषामिन्द्रियं वीर्यं वृङ्क्ते भवत्यात्मना परास्य भ्रातृव्यो भवति वर्षवृद्धमसि प्रति त्वा वर्षवृद्धं वेत्त्विति मिथुनमेव करोत्यस्ना वै देवाः पशुभ्यो रक्षाँसि निरवादयन्त तुषैरोषधिभ्यः परापूतं रक्षः परापूतारातिरित्येतावतैव यज्ञाद्रक्षाँसि निरवदयते निरस्तो अघशँस इति भ्रातृव्यो वा अघशँसो भ्रातृव्यमेव निरस्यति वायुर्व इष ऊर्जे विविनक्त्विति वायुर्वै देवानां पवित्रं पुनात्येवैनान् सुफलीकृतान् करोति मेध्यानेवैनान् यज्ञियान् करोति त्रिः फलीकरोति त्रिसत्या हि देवाः ॥४॥

अवधूतं रक्षोऽवधूतारातिरिति रक्षसामपहत्या अदित्यास्त्वगसीतीयमदितिरस्या एवैनं त्वचं करोति धिषणासि पार्वती प्रति त्वादित्यास्त्वग्वेत्तु पृथिवीं दृँहेति पृथिवीमेव दृँहति धिषणासि पार्वतेयी प्रति त्वा पार्वती वेत्तु दिवं दृँहेति दिवमेव दृँहति दिवस्स्कम्भन्यसीति शम्यामुपदधातीमे वै सहास्तां ते शम्यामात्रँ शम्यामात्रं व्यैतां वज्रश्शम्या यच्छम्यामुपदधात्यनयोरेव विधृत्यै ॥ धान्यमसि धिनुहि देवानित्येतस्य वै यजुषो वीर्येण यावदेका देवता कामयेत यावदेका तावदस्या आहुतेः प्रथते प्राणाय त्वा व्यानाय त्वापानाय त्वेति प्राणं व्यानमपानं तानेव यजमाने दधाति दीर्घामनु प्रसृतिमायुषे त्वेत्यायुरेवास्मिन् दधाति देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णात्विति प्रेव वा एते स्कन्दन्ति प्रतिष्ठित्या अदब्धेन वश्चक्षुषावपश्यामीति चक्षुषो गोपीथाय रायस्पोषाय सुप्रजस्त्वायेत्याशिषमेवाशास्ते ॥५॥

निर्दग्धं रक्षो निर्दग्धारातिरिति रक्षसामपहत्या अपाग्ने अग्निमामादं जहीति य आमात् क्रव्यात् तमपहत्य यज्ञिये देवयजन उपदधाति यदधस्तादङ्गारमुपवर्तयत्यस्मिँस्तेन लोके ज्योतिर्धत्ते यदुपरिष्टादधिवर्तयत्यन्तरिक्षे तेन ज्योतिर्धत्तेऽसा एवास्यादित्योऽमुष्मिंल्लोके ज्योतिर्भवति सर्वेऽस्मा इमे लोका ज्योतिष्मन्तो भवन्ति त्रीणि समीचीनान्युपदधाति त्रयः प्राणाः प्राणो व्यानोऽपानस्तानेव यजमाने दधाति त्रय इमे लोका एष्वेव लोकेष्वृध्नोति ॥ ध्रुवमसि पृथिवीं दृँहेति पृथिवीमेव दृँहत्यायुर्देहि प्राणं देहीत्याशिषमेवाशास्ते धरुणमस्यन्तरिक्षं दृँहेत्यन्तरिक्षमेव दृँहति चक्षुर्देहीत्याशिषमेवाशास्ते धर्त्रमसि दिवं दृँहेति दिवमेव दृँहत्योजो देहि बलं देहीत्याशिषमेवाशास्ते धर्मासि दिशो दृँहेति दिश एव दृँहति रयिं देहि पोषं देहीत्याशिषमेवाशास्ते यन्त्रमस्याशा दृँहेत्याशा एव दृँहति रूपं देहि वर्णं देहीत्याशिषमेवाशास्ते ॥ प्रजापतिर्वै यदग्रे समभवत् स एतावच्छ एव समभवदेकं वा अग्रे शीर्ष्णः कपालँ संभवत्यथ द्वितीयमथ तृतीयमथ चतुर्थमथ पञ्चममथ षष्ठमथ सप्तममथाष्टमं यदष्टौ समीचीनान्युपदधात्यात्मानमेवैतद्यजमानस्सँस्कुरुते तँ सँस्कृतममुष्मिंल्लोकेऽनुपरैति यदष्टा उपदधाति गायत्रीं तच्छन्द आप्नोति ॥ यदेकादश त्रिष्टुभं तद्यद् द्वादश जगतीं तच्छन्दस्संमितान्येवोपदधाति चितस्स्थ परिचित इति सर्वाण्येव यजुष्मन्ति करोति भृगूणामङ्गिरसां तपसा तप्यध्वमित्येतासामेवैनानि देवतानां तपसा तपति यानि घर्मे कपालान्युपचिन्वन्ति वेधस इत्यसौ वा आदित्यो घर्मस्तस्य दिशः कपालानि ता एवैतद्विमुञ्चति यथायतनं पूष्णस्तान्यपि व्रत इन्द्रवायू विमुञ्चतामितीन्द्रवायू एवैषां विमोक्तारौ करोति ॥६॥

देवस्य त्वा सवितुः प्रसव इति सवितृप्रसूत एवैनद्देवताभ्यस्संवपत्यमुष्मै जुष्टमिति यस्या एव देवतायै संवपति हविरेव करोत्यपि तस्या एनज्जुष्टं करोति पवित्रवति संवपति हविरेव करोत्यप उपसृजत्यमृतं वा आपोऽमृतमेव हव्यं करोति समाप ओषधीभिस्समोषधयो रसेनेत्यन्या वा एतासामन्या जिन्वन्त्योषधयो यद्वो रेवती रेवत्यं यद्वो हविष्या हविष्यं यद्वो जगतीर्जगत्यमित्यापो वै रेवतीरोषधयो मधुमतीः पशवो जगतीरप ओषधीः पशूँस्तानेवास्मा एकधा सँसृज्य मधुमतः करोति ॥ जनयत्यै त्वेति संयौति मिथुनमेव करोति मखस्य शिरोऽसीति यज्ञो वै मखो यज्ञस्यैव शिरः करोति घर्मो विश्वायुरुरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति प्रथयत्येव प्रत्युष्टं रक्ष इति यज्ञमुखादेव रक्षाँस्यपहन्ति घर्मो वा एषोऽर्धमासेऽर्धमासे प्रवृज्यते यत् पुरोडाशस्स ईश्वरोऽशान्तो यजमानस्य पशून्निर्दहो यत् पर्यग्निं करोति पशुमेव करोति शान्त्या अनिर्दाहाय त्रिः परिहरति त्रय इमे लोका एभ्य एवैनल्लोकेभ्यश्शमयति पुरोडाशं वा अधिश्रितं रक्षाँस्यजिघाँसन् स नाको नाम दिवि रक्षोहाग्निस्स्सोऽस्माद्रक्षाँस्यपाहन् देवस्त्वा सविता श्रपयतु वर्षिष्ठेऽधि नाक इति रक्षसामपहत्या अग्निस्ते तन्वं मा हिँसीदित्यहिंसायै त्वचं ग्राहयति ॥ तस्मान्मस्तिष्कः परिततो यानि वा इमानि शीर्ष्णः कपालानि तानि कपालानि यो मस्तिष्कस्स पुरोडाशो यन्नाभिवासयेदाविर्मस्तिष्कस्स्याद्यदभिवासयति तस्माद्गुहा मस्तिष्को भस्मनाभिवासयति तस्मादस्थि माँसेन च्छन्नं वेदेनाभ्यूहति तस्माच्छिरः केशैश्छन्नं ते देवास्तन्नाविन्दन्त यस्मिन् यज्ञस्य क्रूरं मार्क्ष्यामह इति सोऽग्निरब्रवीदहं वस्तं जनयिष्यामि यस्मिन् यज्ञस्य क्रूरं मार्क्ष्यध्य इति सोऽपोऽङ्गारेणाभ्यपातयत् तत एकतोऽजायत द्वितीयं ततो द्वितस्तृतीयं ततस्त्रितो यदात्मनो निरमिमीत तदात्मीयानामात्मीयत्वं यदद्भ्यो निरमिमीत तदापीयानामापीयत्वमन्तर्वेदि निनयति तदेवावरुन्द्ध उल्मुकेनाभिघारयति शृतत्वाय शृतकामा हि देवास्तेऽतिमृजाना आयन् सूर्याभ्युदिते तेऽमृजत सूर्याभ्युदितस्सूर्याभिनिम्रुक्ते सूर्याभिनिम्रुक्तः कुनखिनि कुनखी श्यावदति श्यावदन् परिवित्ते परिवित्तः परिविविदाने परिविविदानोऽग्रेदिधिषा अग्रेदिधिषुर्दिधिषूपतौ दिधिषूपतिर्वीरहणि वीरहा ब्रह्महणि ब्रह्महा भ्रूणहनि भ्रूणहनमेनो नात्येति ॥७॥

देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते सवितृप्रसूत एवैनं देवताभिरादत्त इन्द्रस्य बाहुरसि दक्षिणस्सहस्रभृष्टिश्शततेजा इति वज्रो वै स्फ्यो वज्रमेव सँश्यति भ्रातृव्याय प्रहरिष्यन् पृथिवि देवयजन्योषध्यास्ते मूलं मा हिँसिषमित्योषधीनामहिँसायै व्रजं गच्छ गोस्थानमिति च्छन्दाँसि वै व्रजो गोस्थानश्छन्दाँस्येवास्मै व्रजं गोस्थानं करोति वर्षतु ते द्यौरिति वृष्टिमेव निनयति बधान देव सवितः परमस्यां पृथिव्याँ शतेन पाशैरिति द्वौ वै पुरुषस्य भ्रातृव्यौ यं च द्वेष्टि यश्चैनं द्वेष्टि ता एवास्य बध्नाति परमस्यां पृथिव्याँ शतेन पाशैर्द्रप्सस्ते द्यां मा स्कानिति यो वा अस्या रसस्स द्रप्सस्तमिमाः प्रजा उपजीवन्ति तमेवास्यां यच्छति तस्यास्कन्दायाररुर्द्यां मा पप्तदिति भ्रातृव्यो वा अररुर्भ्रातृव्यमेव स्वर्गाल्लोकात् प्रतिनुदतेऽररुर्वै नामासुर आसीत् सोऽबिभेद्यज्ञेन नो देवा अभिभविष्यन्तीति स पृथिवीं विषेणालिम्पदमेध्यां कुर्वन्निन्द्रो वै वृत्रमहँस्तस्येमां लोहितमनुव्यधावत् तदमेध्याभवद्यदुद्धन्ति यदेवास्या अमेध्यमयज्ञियं तदपहन्त्यररुर्वै नामासुर आसीत् सोऽबिभेद्देवा मा पृथिव्या नोत्स्यन्त इति स पृथिवीमुपम्रुच्याशयत् तमिन्द्रोऽचायत् तमपाररुमदेवयजनं पृथिव्या देवयजनाज्जहीति पृथिव्या अपाहन् स दिवमपतदररुर्द्यां मा पप्तदिति तं दिवः प्रत्यनुदत ततो देवा अभवन् परासुरा अभवन् यस्यैवं विदुषस्स्तम्बयजुर्ह्रियते यस्यैवं विद्वान हरत्येभ्य एव लोकेभ्यो भ्रातृव्यं निर्भजति भवत्यात्मना परास्य भ्रातृव्यो भवत्यसुराणां वा इयं पृथिव्यासीत् ते देवा अब्रुवन् दत्त नोऽस्या इति ते वै स्वयं ब्रूध्वमित्यब्रुवन् सोऽग्निरेव प्राचीं दिशमुदजयद्वसवो दक्षिणां रुद्राः प्रतीचीमादित्या उदीचीं ते देवा इमामसुराणामविन्दन्त ततो देवा अभवन् परासुरा अभवन् य एवं विद्वानेताभिर्देवताभिर्वेदिं परिगृह्णातीमामेव भ्रातृव्यस्य विन्दते भवत्यात्मना परास्य भ्रातृव्यो भवति ॥ पृथिव्या वै मेध्यं चामेध्यं च व्युदक्रामत् प्राचीनमुदीचीनं मेध्यमुदक्रामत् प्रतीचीनं दक्षिणामेध्यं प्राचीमुदीचीं वेदिं प्रवणां कुर्यान्मध्यामेवैनां यज्ञियां करोत्यथो मेध्यस्य चामेध्यस्य च व्यावृत्त्यै प्राञ्चौ बाहू उन्नयत्याहवनीयमेव परिगृह्णाति प्रतीची श्रोणी गार्हपत्यमेव परिगृह्णाति मूलं वै रक्षाँस्यनूत्पिबन्ति न नखेन च्छिन्द्याद्यन्नखेन च्छिन्द्यात् कुनखी स्यात् स्फ्येन च्छिनत्ति वज्रो वै स्फ्यो वज्रेणैव रक्षाँसि हन्ति ॥८॥

घृतं च वै मधु च प्रजापतिरासीद्यतो मध्वासीत् ततः प्रजा असृजत तस्मान्मधोः प्रजननमिवास्ति तस्मान्मधुना न प्रचरन्ति यातयामँ हिं तद् घृतेन प्रचरन्त्ययातयामँ ह्येतत् प्राजापत्यं यदाज्यमयातयामा देवानां प्रजापतिर्गार्हपत्येऽधिश्रयति पत्न्यवेक्षते पत्न्या एवैष यज्ञस्यान्वारम्भोऽथो मिथुनमेव यज्ञमुखे दधाति प्रजननाय यद्वै पत्नी यज्ञे करोति तन्मिथुनं यत् पत्न्यवेक्षते मिथुनमेव करोत्यमेध्यं वा एतदयज्ञियं यत् पत्न्यवेक्षत आहवनीयेऽधिश्रयति मेध्यमेवैनद्यज्ञियं करोति देवाश्च वा असुराश्च समावदेव यज्ञेऽकुर्वत यदेव देवा अकुर्वत तदसुरा अकुर्वत स इन्द्र एतमवकाशमपश्यत् तेनावैक्षत तेनासुरानभ्यभवत् ततो देवा अभवन् परासुरा अभवन् य एवं विद्वानेतेनाज्यमवेक्षतेऽभ्येव भ्रातृव्यं भवति भवत्यात्मना परास्य भ्रातृव्यो भवति प्रत्युष्टं रक्ष इति यज्ञमुखादेव रक्षाँस्यपहन्त्यनिशितास्स्थ सपत्नक्षयणीरित्यनिशिता एवैनाः करोति स्रुचस्संमार्ष्टि पुनात्येवैनास्स्रुवमग्रे संमार्ष्टि पुमाँसमेवासामग्रे सँश्यत्यथ जुहूमथोपभृतमथ ध्रुवामसौ वै जुहूरन्तरिक्षमुपभृदियं ध्रुवेमानेव लोकान् यथापूर्वँ संमार्ष्टि यजमानदेवत्या वै जुहूर्भ्रातृव्यदेवत्योपभृच्चतुर्जुह्वाँ गृह्णन् भूय आज्यं गृह्णात्यष्टौ गृह्णन्नुपभृति कनीयो भ्रातृव्यमेवास्मा उपस्तिं करोति ॥९॥

देवीरापो अग्रेगुव इति यज्ञमेव प्रणयति प्रेमं यज्ञं नयत प्र यज्ञपतिं तिरतेत्याशिषमेवाशास्तेऽग्नेर्वै मेधोऽपाक्रामत् कृष्णो भूत्वा स वनस्पतीन् प्राविशत् प्रोक्षितास्स्थ कृष्णोऽस्याखरेष्ठा अग्नये त्वा जुष्टं प्रोक्षामीति तमेव मेधमवरुन्द्धेऽथो यस्या एव देवतायै प्रोक्षति तस्या एनं जुष्टं करोति वेदिरसि बर्हिषे त्वा जुष्टं प्रोक्षामि बर्हिरसि स्रुग्भ्यस्त्वा जुष्टं प्रोक्षामीति प्रजा चै बर्हिः पृथिवी वेदिः प्रजा एव पृथिव्यां प्रतिष्ठापयत्यूर्जा पृथिवीं गच्छतेति पृथिव्यामेवोर्जं दधाति तस्मात् पृथिवीं प्रजा उपजीवन्त्युपजीवनीयो भवति य एवं वेद ॥ बह्वीरासादयेद्यावतीर्वै प्रोक्षणीरासादयति तावतीरस्यामुष्मिंल्लोक आपस्तस्माद्बह्वीरासाद्याः पुरस्तात् प्रस्तरं गृह्णाति मुख्यमेव यजमानं करोति यावद्धस्तेन पर्याप्नुयात् तावन्तं गृह्णीयादक्षोधुको यजमानो भवत्यनग्नंभावुकोऽध्वर्युर्न विधूनुयाद्यद्विधूनुयात् प्रजां चास्य पशूँश्च विधूनुयान्न प्रमृज्याद्यदेवास्य स्वं यद्वित्तं यद्वेद्यं तत् प्रमार्ष्टि न प्रमृज्याद्यदेवैनमागमिष्यद्भवति तत् प्रतिनुदते ॥ दक्षिणतस्संनहनँ स्तृणाति तस्माद्दक्षिणतो नीविः प्रस्तरं धारयन् परिधीन् परिदधाति यजमानो वै प्रस्तरस्स्वयमेवैतद्यजमान आत्मानं परिदधाति रक्षसामपहत्यै सँहितान् परिधीन् परिदधाति रक्षसामनन्ववायाय ने पुरस्तात् परिदधात्यसा एवास्मादादित्य उद्यन् पुरस्ताद्रक्षाँस्यपहन्त्यूर्ध्वे समिधा आदधात्युपरिष्टादेव रक्षाँसि हन्ति द्वे आदधाति मिथुनमेव करोति ॥ सवितुर्बाहू स्थो देवजनानां विधरणिरिति सवितुर्ह्येतौ बाहू देवजनानां विधरणिर्वसूनां रुद्राणामादित्यानाँ सदनमसीति या एव देवता अभ्यजयँस्ताभ्य एनत् सदनं करोति जुह्वेहि घृताचीत्येतद्वा आसां प्रियं धाम यद्घृतवत् प्रियेणैवैना धाम्ना समर्धयति ध्रुवा असदन्नृतस्य योनौ ता विष्णो पाहीति यथाहैष ते भागस्तं गोपायस्वेत्येवमेवैतद्विष्णुमाहैतत् त आज्यं तद्गोपायस्वेति ॥१०॥

भुवनमसि विप्रथस्वेति प्रथयत्येवाग्निर्यष्टेदं नम इति नमस्कृत्य हि श्रेयाँसमुपचरन्ति जुह्वेह्यग्निस्त्वाह्वयति देवयज्याया इत्यग्निस्सर्वा देवतास्सर्वा एव देवता अवरुन्द्ध उपभृदेहि देवस्त्वा सविताह्वयति देवयज्याया इति सवितृप्रसूत एव प्रचरति नार्तिमार्छत्यङ्घ्रिणा विष्णू मा वामवक्रमिषमिति यथायजुः पाहि माग्ने दुश्चरितादा मा सुचरिते भजेति पाप्मानमेवापहते विजिहाथां मा मा संताप्तमित्यात्मनोऽहिँसायै लोकं मे लोककृतौ कृणुतमित्याशिषमेवाशास्ते विष्णोस्स्थाम्न इति प्रतिष्ठित्या ऊर्ध्वो अध्वरो दिविस्पृगिति यज्ञो वा अध्वरो यज्ञस्योर्ध्वत्वायाह्रुतो यज्ञो यज्ञपतेरिति समृद्ध्या इन्द्रवान् बृहद्भास्स्वाहेत्यैन्द्रो वै यज्ञो मुखत एवेन्द्राय यज्ञँ संप्रयच्छति सेन्द्रोऽस्य यज्ञो भवति सं ज्योतिषा ज्योतिरिति ज्योतिर्वै यज्ञो यज्ञ एव यज्ञमनुसंतनोति वाजस्याहं प्रसवेनाग्नीषोमाभ्यां देवतयोज्जयामीति य एवैनं पूर्वोऽतिक्रान्तो भ्रातृव्यस्तं तेन प्रणुदते वाजस्याहं प्रसवेनाग्नीषोमाभ्यां देवतयामुं प्रतिनुद इति य एवास्य पश्चाद्भ्रातृव्यस्तं तेनापनुदते प्र श्रेयाँसं भ्रातृव्यं नुदते प्रति पापीयाँसं नुदते ॥ पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेतीमानेवैनं लोकान् गमयत्यक्तं रिहाणा व्यन्तु वय इति स्वदयत्येव मरुतां पृषती वशा पृश्निर्भूत्वा दिवं गच्छेति यजमानो वै प्रस्तरो हविर्भूतमेवैनँ स्वर्ग लोकं गमयति ततो नो वृष्टिमेरयेति वृष्टिमेवावरुन्द्धेऽहीनः प्राण इति प्राणानेवैतदध्वर्युर्मुखतः कल्पयति चक्षुष्पा असि चक्षुर्मे पाहीति चक्षुषो गोपीथाय यं परिधिं पर्यधत्था अग्ने देव पणिभिरिध्यमान इत्यग्निस्सर्वा देवतास्सर्वा एव देवता अवरुन्द्धे यजमानं प्रथतेति प्रथयत्येवाथो भूमानं गमयति सँस्रावभागास्स्थेति परिधीनभिजुहोति स्वेनैवैनान् भागधेयेन समर्धयति ॥११॥

अग्नेऽदब्धायोऽशीर्ततन इति यदेवान्तर्यन्ति यत् क्रूरं कुर्वन्ति तच्छमयत्यविषं नः पितुं कृधीत्यन्नमेवास्मै स्वदयति सुधीन्योनीन् सुषदां पृथिवीमिति सुषदेवैनँ सादयति वेदिर्वै देवेभ्योऽपाक्रामत् तां वेदेनान्वविन्दँस्तद्वेदस्य वेदत्वं यद्वेदो भवति वेद्या अनुवित्त्यै स्त्री वै वेदिः पुमान् वेदो यद्वेदेन वेदिँ संमार्ष्टि मिथुनमेव करोति प्रजापतेर्वा एतानि श्मश्रूणि यद्वेदो यां पत्नीं कामयेत पुत्रं विन्देतेति तस्या उपस्थ आस्येन्मिथुनमेव करोति वि वा एतद्यज्ञं छिनत्ति यदर्धमासे सँस्थां गमयति यद्वेदँ संततमाहवनीयात् स्तृणाति तेनैव यज्ञँ संतनोति तँ संततमुत्तरेऽर्धमास आलभते ॥ एष वै वनस्पतीनां परिवेष्टा यदुपवेषो य एवं वेदादब्धा अस्य वेशा भवन्ति पुरस्तात् प्रत्यञ्चमुपहन्ति तस्मात् प्रतीचीनावसिता वेशा भवन्ति स्थविमत उपहन्त्यनतिवादना एनं वेशा भवन्ति सर्पेभ्यो वै यज्ञे क्रियते सर्प उपवेषो वल्मीक उत्करो यदुपवेषमुत्कर उपहन्ति तस्मात् सर्पाणां वल्मीको गृहाः ॥१२॥

यो ह वै स्रुचां योगमविद्वानध्वर्युरध्वर्य इति हूतः प्रतिशृणोत्या देवताभ्यो वृश्च्यतेऽप्रजा अपशुर्भवत्यथ यस्स्रुचां योगं विद्वानध्वर्युरध्वर्य इति हूतः प्रतिशृणोति न देवताभ्य आवृश्च्यते प्रजावान् पशुमान् भवत्याश्रावयेति जुहूं तेन युनक्त्यस्तु श्रौषडित्युपभृतं तेन यजेति ध्रुवां तेन ये यजामह इत्याज्यधानीं तेन वषट्कारेण स्रुवमसौ वै जुहूरन्तरिक्षमुपभृदियं ध्रुवा दिश आज्यधान्यसा आदित्यस्रु जवोऽसौ वा अस्यै प्रयच्छतीयममुष्यै तस्माद्यज्जुह्वां तेन ध्रुवामाप्याययति यद् ध्रुवायां तेन जुहूमसौ ह्यस्यै प्रयच्छतीयममुष्य संततमस्मा अविच्छिन्नं प्रदीयते य एवं वेद ॥१३॥

स्योनो मे सीद सुषदः पृथिव्यामुरुः पृथुः प्रथमानस्स्वर्गे ।
स्रुवोऽसि घृतादनिशितस्सपत्नक्षयणो दिवि सीदान्तरिक्षे पृथिव्यामुत्तमोऽहं भूयासमधरे मत्सपत्नाः ॥
आरोह पथो जुहु देवयानान् यत्रर्षयो जग्मुः प्रथमाः पुराणाः ।
हिरण्यपक्षाजिरा संभृताङ्गा वहाँसि सा सुकृतां यत्र लोक उत्तमोऽहं भूयासमधरे मत्सपत्नाः।।
अवाहं बाध उपभृता द्विषन्तं जातान् भ्रातृव्यान् ये च जनिष्यमाणाः ।
दुहे यज्ञँ सुदुघामिव धेनुमुत्तमोऽहं भूयासमधरे मत्सपत्नाः ॥
यो नो वाचा मनसा दुर्हृणायुर्हृदारातीयन्नभिदासदग्ने ।
इदमस्य चित्तमधरं ध्रुवाया उत्तमोऽहं भूयासमधरे मत्सपत्नाः ॥
यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो ।
तेन हन्मि सपत्नं दुर्हृणायुमैनं दधामि निर्ऋत्या उपस्थे ।
यो नः कनिष्ठमिह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् ।
अप तमिन्द्रानी भुवनान्नुदेतां प्रजां विदेय वाजवतीँ सुवीराम् ॥
अयं वेदः पृथिवीमन्वविन्दद्गुहा हितां गह्वरेषु ।
स मह्यं लोकं यजमानाय विन्दत्वच्छिद्रं यज्ञं भूरिरेताः कृणोतु ॥
स्तृणीत बर्हिः परिधत्त वेदिं चमि मा हिँसीरमुया शयानाम् ।
दर्भैस्स्तृणीत हरितैस्सुवर्णैर्निष्का एते यजमानस्य सन्तु ॥
अस्मिन् मे यज्ञ उप भूयो अस्त्वविक्षोधाय परिधीन् दधामि ।
धर्ता विधर्ता धरुणो धरीयान् विश्वा द्वेषाँसि वीतो नुदन्ताम् ।।
चतुश्शिखण्डा युवतिस्सुपत्नी विनीयमाना महते सौभगाय ।
घृतं दुहानादितिर्जनाय सा मे धुक्ष्व सर्वान् भूतिकामान् ॥
वेदेन वेदिं विविदुः पृथिव्याँ सा पप्रथे पृथिवी पार्थिवाय ।
गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञस्तायते विश्वदानीम् ॥
विशो यन्त्री नुदमाने अरातिं विश्वं जातमरणं दुर्हृणायुम् ।
सीदन्ती देवी सुकृतस्य लोके विश्वा द्वेषाँसि वीतो नुदेताम् ॥
आप्यायतां ध्रुवा घृतेन यज्ञिया यज्ञं प्रति देवयड्भ्यः ।
सूर्याया ऊधो अदितेरुपस्थ उरुधारेव दोहतां यज्ञे अस्मिन् ॥
पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशस्सन्तु मह्यम् ॥१४॥

समृतयज्ञो वा एष यद्दर्शपूर्णमासौ कस्य वा ह देवता यज्ञमागच्छन्ति कस्य वा न बहूनाँ समानमहर्यजमानानां यो वै देवताः पूर्वेद्युर्गृह्णाति तस्य श्वो भूते यज्ञमागच्छन्ति ममाग्ने वर्चो विहवेष्वस्त्विति पूर्वमग्निं गृह्णात्यग्निस्सर्वा देवता देवता एव पूर्वेद्युर्गृह्णाति ताश्श्वो भूतेऽभियजते बर्हिषा वै पूर्णमासे व्रतमुपयन्ति वत्सैरमावस्यायां पुरा वत्सानामपाकर्तोर्दम्पती अश्नीतो हस्ता अवनिज्य दक्षिणतोऽग्नेस्तिष्ठन् ब्रूयादग्ने व्रतपते व्रतमालभ इत्यग्निर्वै व्रतपतिर्ब्राह्मणो व्रतभृद्व्रतपतय एव प्रोच्य व्रतमालभते समस्मै व्रतमृध्यते यदि निम्रुक्ते सूर्ये व्रतमालभेताग्निमुपस्थायैतद्यजुर्वदेदग्निँ हि स तर्हि प्रविष्टोऽग्निर्होतोप तँ हुव इति पात्रमभिमृशति येन हविर्निर्वप्स्यन् भवति दुर्ग्रहा वै देवता दुर्ग्रहो यज्ञो देवताश्चैवैतद्यज्ञं च गृह्णात्या देवा यन्तु सुमनस्यमाना इत्येता वै देवानां देवहूतयो यन्त्यस्य देवा देवहूतिं न यज्ञाच्छिद्यते य एवं वेद व्यन्तु देवा हविषो मे अस्येत्याशिषमेवाशास्ते ॥ युनज्मि त्वा ब्रह्मणा दैवेनेति परिधिषु परिधीयमानेषु वदत्यग्नेर्वा एष यागो ब्रह्मणैवाग्निं युनक्ति युक्तोऽस्य हव्यं देवेभ्यो वहत्यङ्गिरसो मास्य यज्ञस्य प्रथमानुवाकैरवन्त्विति सामिधेनीनामेवैष योगस्तासां युक्तानां यां कामयत आशिषं तामवरुन्द्धे समिद्धो अग्निराहुत इति समिद्धिरेवैषा मनोऽसि प्राजापत्यं मनसा मा भूतेनाविशेति मन इव वै प्रजापतिः प्राजापत्यो यज्ञो यज्ञमेव संतनोति वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाविशेतीन्द्रियं वै वागिन्द्रियमेवावरुन्द्धे।। न वै तद्विदुर्यदि ब्राह्मणा वसन्ता यजन्ति ब्राह्मणा वा यदि तस्य वर्षेरन् यस्य वा यस्य ब्रुवते यस्यैवर्षेर्ब्रुवाणो यजते तं तदिष्टं गच्छति नेतरमुपनमति तत् प्रवरं प्रवृणाने ब्रूयाद्देवाः पितरो देवा योऽस्मि स सन् यज इति य एव कश्च सन् यजते तं तदिष्टमागच्छति नेतरमुपनमति देवेभ्य एव पितृभ्यो यज्ञं परिददाति तमस्य ते गोपयन्ति समिष्टापूर्तेन गच्छति स्वर्गे लोके तदस्याक्षय्यमपरिमितं भवति वसन्तमृतूनां प्रीणामीति पञ्च वा ऋतव ऋतूनेव प्रीणाति तेऽस्मै प्रीताः कल्पन्तेऽस्मा ऋतवो य एवं वेद ॥१५॥ [२१०२]


॥ इति श्रीयजुषि काठके चरकशाखायामोरिमिकायां पुरोडाश-ब्राह्मणं नामैकत्रिंशं स्थानकं संपूर्णम् ॥३१॥