काठकसंहिता (विस्वरः)/स्थानकम् २९

विकिस्रोतः तः
← स्थानकं २८ काठकसंहिता (विस्वरः)
स्थानकम् २९
[[लेखकः :|]]
स्थानकं ३० →
दीर्घजिह्वी

अथैकोनत्रिंशं स्थानकम्।

दीर्घजिह्वी।
देवाश्च वा असुराश्च संयत्ता आसँस्ते देवासंघातँ संघातं पराजयन्त तेऽविदुरनायतना हि वै स्मस्तस्मात् पराजयामहा इति त एताः पुरोऽकुर्वत ता एषामनायतना नाध्रियन्त त एतान् पुरोडाशँ अपश्यँस्ताननुसवनं निरवपँस्तैः पुरोऽदृँहहन् सवनानि वाव ते पुरोऽकुर्वत यत् पुरोऽदृँहँस्तत् पुरोडाशानां पुरोडाशत्वं यदनुसवनं पुरोडाशान्निर्वपति सवनानां धृत्यै विजित्यै तस्मादनुसवनं पुरोडाशस्य प्राश्नीयात् सोमपीथस्य धृत्यै यतो घृताक्तँ स्यात् ततः प्राश्नीयादाज्येन वै वज्रेण देवा वृत्रमघ्नन् सोमो वृत्रस्सोमपीथस्याघाताय तदाहुर्न वा अन्येनाज्यादहीने समष्टुमर्हतीति सर्वमेतद्धविर्भूतं यत् किंचोत्पुनन्ति यदेवानुत्पूतँ स्यात् तस्य नाश्नीयाद्दीर्घजिह्वी वै देवानां यज्ञमवालेट् प्रातस्सवनं तद्व्यमाद्यत् सा पयस्याभवत् तस्मादामिक्षा विमदितेव यत् पयस्या प्रातस्सवने भवति प्रातस्सवनस्य समृद्ध्यै मैत्रावरुणी प्रातस्सवने भवति नोत्तरे सवने अश्नुते प्राणापानौ वै मित्रावरुणौ प्राणापाना एव मुखतः परिहरते तस्मान्मुखतः प्राणापानौ न वै स्तोत्रेण न शस्त्रेण पक्तिर्यज्ञेऽवकल्पते पञ्चैतानि हवीँषि पङ्क्तिमेवैतद्यज्ञेऽवकल्पयति ॥ हविष्पङ्क्तिर्वै यज्ञो नाराशंसपङ्क्तिः पाङ्क्तः पञ्चैतानि हवीँषि तेन हविष्पङ्क्तिर्द्विनाराशँसा प्रातस्सवने द्विनाराशँसा माध्यन्दिन एकनाराशँसा तृतीयसवने तेन नाराशँसपङ्क्तिरग्नीषोमीयः पशुस्त्रीणि सवनानि वशानूबन्ध्या तेन पाङ्तो त य एवमेतानि यज्ञस्य रूपाण्यनुवेदर्ध्नोति देवाश्च वा असुराश्च संयत्ता आसँस्ते देवेभ्यो महिमानोऽपाक्रामँस्तेऽसुरानगच्छँस्तेऽसुरा देवानां बहूनि शतान्यघ्नँस्तानीमानि च्छन्दाँसि यान्ययज्ञवाहानि ते देवा अबिभयुरित्थं वाव नस्सर्वानसुरा अवपत्स्यन्तीति तान्युपामन्त्रयन्त तेऽब्रुवन् वार्यं वृणामहा इति ते परिवापपुरोडाशमवृणत तद्भागधेयमभ्यायन्नृक्सामे वावैभ्यस्तदपाक्रामतां पशवो वागिन्द्रियं प्राणापानौ स इन्द्रोऽमन्यतेमे वावेदमभूवन्निति तेषाँ सायुज्यमगच्छद्धरिवाँ इन्द्रो धाना अत्त्वित्यृक्सामे वा इन्द्रस्य हरी ऋक्सामयोरेव तत् सायुज्यमगच्छत् पूषण्वान् करम्भमिति पशवो वै पूषा पशूनामेव तत् सायुज्यमगच्छत् सरस्वतीयान् भारतीवान् परिवाप इति वाग्वै सरस्वती वाच एव तत् सायुज्यमगच्छदिन्द्रस्यापूप इतीन्द्रियं वा इन्द्र इन्द्रियस्यैव तत् सायुज्यमगच्छन्मित्रावरुणयोः पयस्येति प्राणापानौ वै मित्रावरुणौ प्राणापानयोरेव तत् सायुज्यमगच्छदेतेषामेव महिम्नाँ सायुज्यं गच्छति सर्वमायुरेति पशुमान् भवति न यज्ञियामार्तिमार्छति य एवं वेद ॥१॥

नीडं वा एतद्यज्ञस्य क्रियते यद्यजुषा क्रियत उच्चैर्ह्यृचा च साम्ना च क्रियते यदृचः पुरोरुचो भवन्ति द्रढिम्न एव प्रत्युत्तब्ध्या अशिथिलत्वाय प्रैवर्चाह प्र यजुषा यच्छति गमयति ग्रहेणर्चा वै स्तोत्राय गृह्यते यजुषा शस्त्राय तस्मादेते सँहिते सँहिते हि स्तोत्रं च शस्त्रं च पराङ् वा एतर्हि यज्ञः पराचीर्देवतास्तृतीयसवने यजमानादाग्नेय्या पुरस्तात् सौम्यं परियजति वैष्णव्योपरिष्टादग्निर्वै सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं चालभते घ्नन्ति वा एतत् सोमं यदभिषुण्वन्ति तस्यैषानुस्तरणी यत् सौम्यो दक्षिणार्धेऽग्नेर्जुहोति दक्षिणा हि पितॄणाँ सकृदवद्यति सकृदवत्तं हि पितॄणां यन्मेक्षणेन द्वितीयमवद्यति तेनैव सकृदवत्तं भवत्युगातृभ्यो हरन्ति सोमदेवत्यं वै साम साम्नस्सवीर्यत्वाय सतनूत्वाय प्राश्या३ न प्राश्या३ इति मीमाँसन्ते यत् प्राश्नीयात् प्राकारुकस्स्याद्यन्न प्राश्नीयादहविस्स्यादवजिघ्रेदुभयमेव करोति योऽलमन्नाद्याय सन्नन्नं नाद्यात् स प्राश्नीयात् परं वा एतदन्नं यत् पितरः परेणैवान्नेनावरमन्नाद्यमवरुन्द्धे भेषजं वा एतद्देवा यज्ञायाकुर्वन् यत् सौम्यस्तदेष भिषज्यस्तस्मादामयाविना प्राश्यः पितरो मन्दन्ताँ सोमप्रतीका मन्दन्तां व्यशेम देवहितं यदायुरिन्द्रपीतो विचक्षणो व्यशेम देवहितं यदायुर्हृदिस्पृक् क्रतुस्पृग्वर्चोधा असि वर्चो मे धेहि ॥
यन्मे मनो यमं गतं यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु धारयामसि ॥
इति सौम्यमवेक्षेत यद्वा इह प्राकरोति यदस्यात्मनो मीयते पितॄँस्तद्गच्छति यत् सौम्यमवेक्षते तदेवात्मन् यच्छते परीव पश्येद्यत् परिपश्यत्यात्मानमेव परिपश्यति सह त्वा अमुष्मिंल्लोके सर्वतनूर्य एवं विद्वान् सौम्यमवेक्षते वीर्यँ वा उपसदो निर्वीर्यं तृतीयसवनं ता बहिर्यज्ञं क्रियन्ते यत् सौम्येन तृतीयसवने चरन्ति तृतीयसवन एव वीर्यं दधत्येता हि देवता उपसत्स्विज्यन्त आग्नेय्या पुरस्तात् सौम्यं परियजति हतो नेद्यज्ञमभिप्रद्याता इति वैष्णव्योपरिष्टादग्निष्टोमे नेत्सौम्यमभिप्रपद्याता इत्युभयत एव परिस्तृणात्यनभिप्रपादायाग्नेय्या घृतस्य यजति सौम्या सौम्यस्य वैष्णव्योपरिष्टाद्घृतस्य यथापूर्वमेव देवताः कल्पयति ॥२॥

प्राणा वै सँस्थितयजूंषि नवैतानि यजूँपि नवभिर्बहिष्पवमानँ स्तुवन्ति नव प्राणाः प्राणैरेव प्रयन्ति प्राणैरुद्यन्ति संततं जुहोति प्राणानाँ संतत्या अविच्छेदाय यं कामयेत प्रमीयेतेति नव कृत्वो गृहीत्वायजुष्केणैकैकं जुहुयात् प्राणा वै सँस्थितयजूँषि प्राणेभ्य एवैनमन्तरेति ताजक् प्रधन्वति विश्वरूपो वै त्वाष्ट्रो यज्ञस्य व्यृद्धं च समृद्धं चापश्यत् षडेतान्यृग्म्याणि यदेवास्य व्यृद्धं तत् तैस्समर्धयति त्रीणि यजूँषि समृद्धमेव तत् षडृग्म्याणि षड्वा ऋतव ऋतुष्वेव प्रतितिष्ठति त्रीणि यजूँषि त्रय इमे लोका एष्वेव लोकेष्वृध्नोति ॥ यद्वै यज्ञस्यातिरिच्यते वरुणस्तद्गृह्णाति यज्ञस्यैतदतिरिच्यते यदृजीषं यदौदुम्बरी यदधिषवणे तेनापोऽवभृथमवयन्त्यापो वै वरुणो निर्वरुणत्वाय न वहन्तीष्वभ्यवेयुः पशवो वा ऋजीषं पशूनस्य निर्मृज्युरपशुस्स्यान्नोदञ्चोऽभ्यवेयुर्यदुदञ्चोऽभ्यवेयुरभीपतः प्रजा वरुणो गृह्णीयान्न दक्षिणा यद्दक्षिणा पितृभ्यः प्रजा निधूवेयुरुदञ्चः प्राञ्चोऽभ्यवयन्ति पश्चाद्धि प्राङ् यज्ञो वरुणपाशान्मुच्यमान एति स्थावरास्स्रवयन्ति स्थावरा वै प्रत्यक्षं वरुणो वरुण एव वरुणमवयजत उरुँ हि राजा वरुणश्चकार शतं ते राजन् भिषजस्सहस्रमिति यथायजुरग्नेरनीकमप आविवेशेत्याघारमाघारयति समिद्ध्या एवोद्दीप्त्यै यत्र तृणं वा दारु वा पश्येत् तत् प्रत्याघारयेदग्निमत्येव जुहोति समृद्ध्या अपबर्हिषः प्रयाजान् यजति प्रजा वै बर्हिः प्रजा एव मृत्योरुत्सृजत्याज्यभागौ यजति प्राणापानौ वा आज्यभागौ प्राणापाना एव प्रजानां वरुणपाशान्मुञ्चत्यथैष वारुणो निर्वरुणत्वायैककपालो भवति न वै पुरुषं कपालैराप्तुमर्हत्येकधैवैनमाप्नोत्यग्नीवरुणाभ्याँ समवद्यत्युभयत एवैनं वरुणपाशान्मुञ्चत्यग्नेश्च वरुणाञ्च सर्वो वा एष यज्ञस्तस्य बहु क्रियते बहु न क्रियते यत् सँस्थापयेद्यज्ञं वरुणेन ग्राहयेद्यन्न सँस्थापयति यज्ञमेव वरुणपाशादुत्सृजति समुद्रे ते हृदयमप्स्वन्तरिति समुद्रयोनिर्वै यज्ञस्स्वमेवैनं योनिं गमयति यज्ञस्य त्वा यज्ञपत इत्याहुतिमेव करोत्यवभृथ निचुङ्कुणेत्युभयस्मादेवैनमेतद्देवकृताच्च मनुष्यकृताच्चैनसो मुञ्चति देवीराप एष वो गर्भ इत्यपां वा एष गर्भस्स्वमेवैनं योनिं गमयत्यभिष्ठितो वरुणस्य पाशोऽवहतो वरुणस्य पाश इति वरुणपाशमेवावहन्त्यप्सुधौतस्य ते देव सोमेति बिन्दुमाचामति य एव तत्र सोमपीथस्तस्यावरुद्ध्यै ॥ यदाचामेद्वरुण एनं ग्राहुकस्स्यान्नीव गृह्णीतोभयमेव करोति प्रत्यस्तो वरुणस्य पाशो नमो वरुणस्य पाशायेति वरुणपाशमेव प्रत्यस्यत्युदेत प्रजामायुर्वर्चो दधाना इत्याशिषमेवाशास्ते ॥ एधोऽस्येधिषीमहीति वरुणमेव निरवदायैधन्तमुपयन्ति समिदसि समेधिषीमहीत्याशिषमेवाशास्ते तेजोऽसि तेजो मयि धेहीति तेज एवात्मन् धत्तेऽपो अद्यान्वचारिषं रसेन समगन्महीति यथायजुः ॥३॥

यज्ञस्य वै शिरोऽच्छिद्यत ततो यो रसोऽस्रवत् सा वशाभवद्यद्वशानूबन्ध्या भवति यज्ञस्य सरसत्वाय मित्रो वै यज्ञस्य स्विष्टं गृह्णाति वरुणो दुरिष्टं यन्मैत्रावरुणी वशानूबन्ध्या भवत्युभयत एव यज्ञं प्रमुच्य यजमानाय संप्रयच्छति मित्राच्च वरुणाच्च यथा लङ्गलेनोर्वरां प्रभिनत्त्येवमृक्सामाभ्यां यज्ञः प्रभिद्यते यथा मत्यमन्ववास्यत्येवं तद्यद्वशानूबन्ध्या यज्ञस्य शान्त्या अनुबध्यते यत् प्रथममस्रवत् तद्बृहस्पतिरुपागृह्णाद्यद् द्वितीयं तन्मित्रावरुणौ यत् तृतीयं तद्विश्वे देवा यदि तिस्रोऽनूबन्ध्यास्स्युर्मैत्रावरुणीं प्रथमां कुर्यादथ वैश्वदेवीमथ बार्हस्पत्यां यज्ञस्य सर्वत्वाय सरसत्वायात्रात्र हि यज्ञस्य रसोऽयातयामा वा एतस्य देवताश्च ब्रह्म च यस्सोमेन यजते यदेते वैश्वदेवी च बार्हस्पत्या च भवतो देवतानां चैव ब्रह्मणश्चायातयामत्वाय वैश्वदेवी मध्ये भवति वैश्वदेवीरिमाः प्रजाः प्रजास्स्वेव रेतो दधात्युपाँशु यजत्यनिरुक्तँ हि रेतो बार्हस्पत्युत्तमा भवति ब्रह्म वै बृहस्पतिरन्तमेवागत्य ब्रह्मवर्चसे प्रतितिष्ठति ॥ यथा वा अनड्वान् यथाश्वो विमुक्तोऽपक्रामत्येवँ सोमेनेजानाद्देवताश्च यज्ञश्चापक्रामन्त्याग्नेयं पञ्चकपालमुदवसानीय निर्वपत्यग्निर्वै सर्वा देवताः पाङ्क्तो यज्ञो देवताश्चैव यज्ञं चालभते गायत्रो वा अग्निर्गायत्रच्छन्दास्तं छन्दसा व्यर्धयति यत् पञ्चकपालं करोत्यष्टकपालः कार्योऽष्टाक्षरा गायत्री गायत्रोऽग्निर्गायत्रच्छन्दास्स्वेनैवैनं छन्दसा समर्धयति पाङ्क्ते याज्यानुवाक्ये भवतः पाङ्क्तो यज्ञस्तेन यज्ञान्नैति ॥४॥

उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दक्षाय दक्षवृधमग्निजिह्वेभ्यस्त्वर्तायुभ्यो वातापिभ्यः पर्जन्यात्मभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वा सते त्वासते त्वा भूताय त्वा भव्याय त्वा यतः प्रजा अच्छिद्रा अजायन्त तस्मै त्वा प्रजापतये विभुदाव्ने जुहोमि स्वाहाभि सोमोऽपः कामयतेऽभि सोममापो यथा गावस्संजानानास्संगत्यान्यान्यां घ्नन्त्येवं वा एतौ संजानानौ संगत्यान्योऽन्यस्येन्द्रियं वीर्यान्निर्हत उभयमेतत् प्राजापत्यं यत् सोमश्चापश्चापामेष रसो यद्दधि यद्वै पुत्रौ युध्येते पिता ताभ्यां कल्पयति स्व एवैनौ लोके स्वेन भागधेयेन पिता शमयति सह त्वै यज्ञेन समृद्धेन यजते यस्यैष गृह्यते दध्ना सर्वाणि सवनानि पशुमन्ति वीर्यावन्ति कर्तव्यानि यत् पयस्यया प्रातस्सवने चरन्ति तेन तत् पशुमद्वीर्यावद्यद्दधिघर्मेण मध्यन्दिने तेन तत् पशुमद्वीर्यावद्यदाशिरा तृतीयसवने तेन तत् पशुमद्वीर्यावत् सर्वाण्यस्य सवनानि पशुमन्ति वीर्यावन्ति भवन्ति य एवं वेद ॥५॥

देवा वा असुरान् यज्ञमभिजित्य ते प्रबाहुग्ग्रहान् गृह्णाना आयन् स प्रजापतिरमन्यत यः प्रथमो ग्रहीष्यते स एवेदं भविष्यतीति स एतमँशुमपश्यत् तं पराङ् प्राणन्न गृह्णीत स पराङ् श्रियोऽन्तमगच्छद्बुभूषन्नेतं गृह्णीत पराङेव प्राण्यानापान्यात् पराङेव श्रियोऽन्तं गच्छति यदपानित्यार्तिमार्छति प्र वा मीयते सर्वज्यानिं वा जीयते यदि कामयेत सदृङ्यजमानस्स्यादिति न प्राण्यान्ना पान्यात् सदृङ्ङेव भवति चतुस्स्रक्ति पात्रं भवति चतस्रो दिशस्सर्वास्वेव दिक्ष्वृध्नोति ॥ हिरण्येन सँस्पर्शयत्यमृतं वै हिरण्यममृतेनैवैनँ संदधाति सकृदभिषुतस्य गृह्णाति न वै प्रजापतिँ सवनैराप्तुमर्हत्येकधैवैनमाप्नोति नर्चमन्वाह न यजुर्वदति न वै प्रजापतिं वाचाप्तुमर्हति मनसैवैनमाप्नोति योँऽशोरायतनं वेदायतनवान् भवति वामदेव्यमेवाँशुं गृह्णन् वामदेव्यं मनसा ध्यायेदेतद्वा अँशोरायतनमायतनवान् भवति य एवं वेद हिरण्यमभिव्यनित्यायुर्वै हिरण्यमायुषैवात्मानमभिधिनोत्यद्भिः प्रत्युक्षत्यमृतं वा आपोऽमृतेनैवैनँ संरम्भयति ॥६॥

अथैतेऽतिग्राह्या यदेव परमोजो वीर्यमनवरुद्धं तस्यावरुद्ध्यै यदाग्नेयस्तेजो वा अग्निस्तेज एव तेन पुरस्ताद्धत्ते यदैन्द्र इन्द्रियं वा इन्द्र इन्द्रियमेव तेन मध्यतो धत्ते यत् सौर्यो ब्रह्मवर्चसमसा आदित्य उपरिष्टादेव तेन ब्रह्मवर्चसं धत्ते तेजो वा अग्निरिन्द्रियमिन्द्रो ब्रह्मवर्चसमसा आदित्यस्तेजसा चैव ब्रह्मवर्चसेन चेन्द्रियमुभयत आत्मन् परिगृह्णात्युपस्तम्भनं वा एतद्यज्ञस्य यदतिग्राह्याश्चक्रियौ पृष्ठानि यदेते न गृह्येरन्नुपरिष्टाद्गरीयाँसि पृष्ठानि प्राञ्चं यज्ञँ संमृण्युर्यदेते गृह्यन्ते पुरस्तादेव यज्ञमुपस्तभ्य चक्रिया उपास्यति सयत्वाय प्रातस्सवने गृह्णीयादेतद्वै सवनानां वीर्यावत्तमं वीर्यादेवैनानधिगृह्णाति ॥ देवा वै सर्व एव सदृशा आसन्न व्यावृतमगच्छँस्तत एत एतान् ग्रहानपश्यन्नग्निराग्नेयमिन्द्र ऐन्द्रँ सूर्यस्सौर्यँ ततो वै ते व्यावृतमगच्छञ्छ्रैष्ठ्यं देवानां यस्यैते गृह्यन्ते व्यावृतमेव गच्छति श्रैष्ठ्यँ समानानां प्रजापतिर्वै देवेभ्यो भागधेयानि व्यादिशद्यज्ञमेव सोऽमन्यतात्मानमन्तरगामिति तस्य याः प्रियास्तिस्रस्तत्व आसँस्ता अपन्यधत्तैतान् वाव स तद्ग्रहानपन्यधत्त येन यज्ञेनेर्त्सेत् तस्मिन्नेतान् ग्रहान् गृह्णीयात् सर्वमेवैनँ सवीर्यँ सयोनिँ सतनूमृद्ध्यै संभरति ॥ वृत्रे वा एते पुरासन् स इन्द्रो वृत्रँ हत्वा स एतमाग्नेयमविन्दत तमग्नये प्रायच्छदेतं मे धारयेति स सौर्यमविन्दत तँ सूर्याय प्रायच्छदेतं मे धारयेति स ऐन्द्रं वित्त्वेतरौ पुनरयाचत ता अस्मै न पुनरदत्तां त इमांल्लोकान् व्युपायन्नग्निरिममिन्द्रोऽन्तरिक्षँ सूर्योऽमुमेतैर्वै ते ग्रहैरेषु लोकेष्वार्ध्नुवन्नेतैरेषां लोकानामाधिपत्यं पर्यायन् सर्वेष्वेवैषु लोकेष्वृध्नोत्येषां लोकानामाधिपत्यं पर्येति यस्यैते गृह्यन्ते । यद्वै विराजस्तेजस्तदाग्नेयो यच्छक्वर्यास्तदैन्द्रो यद्रेवत्यास्तत् सौर्यो यत्रैतानि सामानि स्युस्तदेतान् गृह्णीयात् साम्नाँ सतेजस्त्वायाथैते होमाश्च भक्षणानि चैतैर्वै बम्भाविश्ववयसा इमांल्लोकानर्वाचश्च पराचश्च प्राजानीतां यस्यैते गृह्यन्ते समस्मा इमे लोका अर्वाञ्चः पराञ्चश्च भान्त्येतेषां वै वीर्येणाग्निरित ऊर्ध्वो भात्यर्वाङ् सूर्यस्तपति तिर्यङ् वायुः पवते सुप्रज्ञानो वा इत इत्थमसौ लोकोऽमुतो ह त्वा अर्वाङ् दुष्प्रज्ञानँ स ह त्वा इमं लोकममुतोऽर्वाङ् प्रजानाति यस्यैते गृह्यन्ते ॥७॥
 
आग्नेयसौम्यो बार्हस्पत्यस्ते समानमर्धमालभ्यन्ते यदाग्नेयस्तेजो वा अग्निस्तेजस्स एव तेन पुरस्ताद्धत्ते यत् सौम्य इन्द्रियं वै सोम इन्द्रियमेव तेन मध्यतो धत्ते यद्बार्हस्पत्यो ब्रह्म वै बृहस्पतिरुपरिष्टादेव तेन ब्रह्मवर्चसं धत्ते तेजो वा अग्निरिन्द्रियँ सोमो ब्रह्म बृहस्पतिस्तेजसा चैव ब्रह्मवर्चसेन चेन्द्रियमुभयत आत्मन् परिगृह्णाति दक्षिणतो वै देवानां यज्ञं रक्षाँस्यजिघाँसन् या देवता ओजीयसीस्ताभ्यो दक्षिणत आलभ्यन्ते रक्षसामपहत्यै किं तदेकादशिन्यां क्रियत इत्याहुर्ब्रह्मवादिनो यस्माद्विट् क्षत्रस्योपाशारमवस्यतीति या देवता ओजीयसीस्ताभ्यो दक्षिणत आलभ्यन्ते ॥ या अबलीयसीस्ताभ्य उत्तरां तस्माद्विट् क्षत्रस्योपाशारमवस्यति दक्षिणत उद्वनां कुर्याद्देवयजनस्य रूपं रक्षसामपहत्यै तस्माद्दक्षिणतस्तीर्थानां गाधं येऽग्निष्ठास्त्रयस्तान् समान् कुर्यादग्निं वै पशवोऽनूपतिष्ठन्ते पशूनामुपस्थित्या आत्मा वा अग्निष्ठो भ्रातृव्या अस्येतरौ तौ ऋधीयाँसौ कुर्यादधरमेव भ्रातृव्यं कुरुते यौ परौ ता अग्निष्ठेन समौ तौ हि तस्य स्वा आ परार्धादेवं मिनुयात् पापवसीयसस्य व्यावृत्त्या अथो अधरमेव भ्रातृव्यं कुरुते येऽग्निष्ठादुदीचीनं तान् वर्षीयसः कुर्याद्यदि कामयेत विट् क्षत्रादोजीयसी स्यादिति विशमेव क्षत्रादोजीयसीं करोति ॥ येऽग्निष्ठाद्दक्षिणात् तान् वर्षीयसः कुर्याद्यदि कामयेत क्षत्रं विश ओजीयस्स्यादिति क्षत्रमेव विश ओजीयः करोति सर्वान् समान् कुर्याद्यदि कामयेत पापवसीयसँ स्यादिति पापवसीयसमेव करोति तिरश्ची मीयते दिशां विधृत्या ऊर्ध्वा मीयन्त एषां लोकानां विधृत्यै न यूपं बहिर्वेदि मिनुयान्न वेद्या अतिरेचयेद्यजमानो वै यूप एतावती पृथिवी यावती वेदिर्यद्यूपं बहिर्वेदि मिनुयात् पृथिव्या यजमानं निर्भजेद्यद्वेद्या अतिरेचयेद्भ्रातृव्याय लोकमुच्छिँषेत् समां वेद्यन्तेन मिनुयान्न पृथिव्या यजमानं निर्भजति न भ्रातृव्याय लोकमुच्छिँषत्युपरसंमितां मिनुयाद्यदि कामयेत पितृलोक ऋध्नुयादिति पितृलोक एवर्ध्नोति रशनासंमितां मिनुयाद्यदि कामयेत मनुष्यलोक ऋध्नुयादिति मनुष्यलोक एवर्ध्नोति चषालस्संमितां मिनुयाद्यदि कामयेत देवलोक ऋध्नुयादिति देवलोक एवर्ध्नोति सर्वेष्वेवैषु लोकेष्वृध्नोति रथाक्षेण मिमीते वज्रो वै यूपो वज्रो रथो वज्र एव वज्रं दधाति सर्वेऽग्निष्ठाः कार्या या अग्निष्ठा अश्रयस्ता अग्निमभिपर्यूहेत् तेनैव सर्वेऽग्निष्ठाः क्रियन्ते ॥ यदग्निष्ठाद्रशना विहरन्ति तेनैव सर्वेऽग्निष्ठाः क्रियन्ते द्वे द्वे रशने यूपमृच्छतस्तस्मात् स्त्रियः पुँसोऽतिरिक्तास्तस्मादुतैको बह्वीर्जाया विन्दते नैका बहून् पतीनुपशयो द्वादशो भवति द्वादशमासस्संवत्सरस्संवत्सरस्याप्त्यै तं दक्षिणतः परिहृत्य निदधति दक्षिणतो वै देवानां यज्ञं रक्षाँस्यजिघाँसन् वज्रो यूपो रक्षसामपहत्यै यद्यभिचरेत् पुरुषपशुं कुर्यादिदमहममुमामुष्यायणममुष्याः पुत्रं नियुनज्मीति रशनां यूपेऽधिन्यस्येद्वज्रो वै यूपो वज्र एवैनं नियुनक्ति ताजक् प्रधन्वति यदि नाभिचरेदारण्यं पशुं निर्दिशेत् तस्य नाश्नीयादुपशयं वा अन्वारण्याः पशव उपतिष्ठन्त एकादशिनीं ग्राम्या यदेकादशिन्या वेदिर्मीयते तस्माद्ग्राम्याः पशव आविरिव शान्ता इव यदुपशयो गुहेव शये तस्मादारण्याः पशवो गुहेव निलायमिव प्रलायमिव चरन्ति ॥८॥

प्रजापतिः प्रजास्सृष्ट्वा स रिरिचान इवामन्यत स एतामेकादशिनीमपश्यत् तामाहरत् तयात्मानमाप्रीणीत यो रिरिचान इव मन्येत स एतामेकादशिनीमाहरेद्यस्मिन्नेव कस्मिँश्च यज्ञे दश वै पुरुषे प्राणा आत्मैकादशो यावानेवास्यात्मा तमाप्रीणात्यग्निस्सर्वा देवता अग्ना एवैता देवता उपालभ्यन्त आत्मा वा आग्नेयो वाक् सरस्वती यत् सारस्वती वाचमेव मिथुनमात्मन्नुपनियुङ्क्तेऽथ सौम्यस्सोमो रेतोधा मिथुन एव रेतो दधात्यथ पौष्णः पशवो वै पूषा प्रैव जनयत्यथ बार्हस्पत्यो ब्रह्म वै बृहस्पतिर्ब्रह्मैव पशुष्वधिवियातयत्यथ वैश्वदेवो वैश्वदेवीरिमाः प्रजाः प्रजा एव ब्रह्मन्ननुनियुनक्त्यथैन्द्रः क्षत्रं वा इन्द्रः क्षत्रमेव प्रजास्वधिवियातयत्यथ मारुतो विड्वै मरुतो विशमेव क्षत्रायानुनियुनक्त्यथैन्द्राग्न ओजो वै वीर्यमिन्द्राग्नी ओजसैव वीर्येण विशं क्षत्रायोपोहति प्रसवायैव सावित्रो निर्वरुणत्वाय वारुणः प्रजापतिः प्रजा असृजत ता अस्मादपाक्रामँस्ता ऊर्ध्वा आयँस्ता अकामयतोप मा वर्तेरन्निति सोऽतप्यत स आत्मानं मेधायालभत ता एनमुपावर्तन्त ता अस्मादबिभयुस्ता न्याच्यन्त तस्मात् पशवो न्यक्नास्ता आरादचरँस्ता एनं बलिभिरुपायन् देवयजनेन पृथिवी बर्हिषौषधयः प्रोक्षणीभिराप इध्मेन च यूपेन च वनस्पतयः पशुभिरजावय आशिरा चाज्येन च गाव एते वै देवा बलिहृतो यज्ञः प्रजापतिस्तस्मा एते सर्वा हैवं बलिँ हरन्त्यास्मै बलिँ हरन्ति य एवं वेद ॥ तेषामपक्रमादबिभेत् तेषां द्वन्द्वं वीर्याण्यात्मन्नुपन्ययुङ्क्तात्मा वा आग्नेयो वाक् सरस्वतीन्द्रियँ सोमो वाचं चैवेन्द्रियं चात्मन्नुपनियुङ्क्तेऽथ पौष्णोऽथ बार्हस्पत्यः पशवो वै पूषा ब्रह्म बृहस्पतिः पशूँश्चैव ब्रह्म चात्मन्नुपनियुङ्क्तेऽथ वैश्वदेवोऽथैन्द्रो वीर्यं वै विश्वे देवास्सह इन्द्रो वीर्यं चैव सहश्चात्मन्नुपनियुङ्क्तेऽथ मारुतोऽथैन्द्राग्नो बलं वै मरुत ओज इन्द्राग्नी बलं चैवौजश्चात्मन्नुपनियुङ्क्ते प्रसवायैव सावित्रो निर्वरुणत्वाय वारुणः ॥९॥

आग्नेयँ सारस्वतीँ सौम्यं बार्हस्पत्यं तान् सहालभेत ब्रह्मवर्चसकामः प्रजाकामः पशुकामः पुरोधाकामो यदाग्नेय आग्नेयो हि ब्राह्मणो यत् सारस्वती वाग्वै सरस्वती वाचँ हि वदति यत् सौम्यस्सोमँ हि पिबति यद्बार्हस्पत्यो ब्रह्म वै बृहस्पतिर्ब्रह्मैव चतुष्पात् संपाद्य प्रतिष्ठापयति ब्रह्मवर्चसी भवत्यथ पौष्णः पशवो वै पूषा पशूनेव ब्रह्मन्ननुनियुनक्त्यथैन्द्राग्नोऽथैन्द्रः क्षत्रं वा इन्द्राग्नी क्षत्रमिन्द्रः क्षत्रमेव संपाद्य प्रतिष्ठापयत्यथो क्षत्रेणैव पशून् ब्रह्मण उपोहत्याग्नेयो मध्ये भवत्यैन्द्रा अभित आग्नेयो वै ब्राह्मण ऐन्द्रो राजन्यो ब्रह्मणैव क्षत्रं मध्यतो व्यवसर्पति प्र पुरोधामाप्नोति य एवं वेदेन्द्राग्नी पशूनां भूयिष्ठभाजौ करोत्यग्नेराग्नेय इन्द्रस्यैन्द्र ऐन्द्राग्नस्सह तस्माद्ब्राह्मणश्च राजन्यश्च प्रजानां भूयिष्ठभाजा अथ वैश्वदेवोऽथ मारुतो विड्वै विश्वे देवा विण्मरुतो विशमेव संपाद्य तां क्षत्रायानुनियुनक्ति ब्रह्ममुखमेव क्षत्रं कृत्वा तस्मै विशमनुनियुनक्ति प्रसवायैव सावित्रो निर्वरुणत्वाय वारुणस्सम्यगेव ब्रह्म समूहति सम्यक् क्षत्रँ समीचीं विशं यत्रैव क्लृप्तैकादशिन्यालभ्यते कल्पते तत्र प्रजाभ्यो ब्राह्मण एव ब्राह्मणो भवति राजन्यो राजन्यो वैश्यो वैश्य एकादशिन्या वा इदमक्लृप्तमनु प्रजाभ्यो न कल्पत एषा वावैकादशिनी तामेतां कापेया विदुस्तामेतामतिरात्रचरमामालभेत सत् त्रियेयमितरायामिदं प्रजा आपद्य चरन्त्यह्नामेवैषा विधैतद्देवत्यान्यहानि॥१०॥ [२००२]

॥ इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायां दीर्घजिह्वी नामैकोनत्रिंशं स्थानकं संपूर्णम् ॥२९॥